% Mahabharata: Mahaprasthanikaparvan % Last updated: Thu Sep 27 2007 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 17001001 जनमेजय उवाच 17001001a एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् 17001001c पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते 17001002 वैशंपायन उवाच 17001002a श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् 17001002c प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् 17001003a कालः पचति भूतानि सर्वाण्येव महामते 17001003c कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि 17001004a इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् 17001004c अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् 17001005a अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा 17001005c अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना 17001006a ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया 17001006c राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः 17001007a अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् 17001007c दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः 17001008a एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति 17001008c यदूनां परिशेषश्च वज्रो राजा कृतश्च ह 17001009a परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः 17001009c वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः 17001010a इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः 17001010c मातुलस्य च वृद्धस्य रामादीनां तथैव च 17001011a भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः 17001011c श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा 17001012a ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि 17001012c स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः 17001013a कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम् 17001013c शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः 17001014a ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः 17001014c सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः 17001015a ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः 17001015c भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः 17001016a नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम् 17001016c न च राजा तथाकार्षीत्कालपर्यायधर्मवित् 17001017a ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् 17001017c गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा 17001018a ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः 17001018c उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत 17001019a भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी 17001019c तथैव सर्वे जगृहुर्वल्कलानि जनाधिप 17001020a विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ 17001020c समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः 17001021a ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान् 17001021c प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा 17001022a हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति 17001022c युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च 17001023a भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः 17001023c आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् 17001023e पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा 17001024a न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् 17001024c न्यवर्तन्त ततः सर्वे नरा नगरवासिनः 17001025a कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् 17001025c विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा 17001026a चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति 17001026c शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् 17001027a पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी 17001027c कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः 17001028a योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः 17001028c अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा 17001029a युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् 17001029c अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम् 17001030a पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा 17001030c द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम 17001031a श्वा चैवानुययावेकः पाण्डवान्प्रस्थितान्वने 17001031c क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम् 17001032a गाण्डीवं च धनुर्दिव्यं न मुमोच धनंजयः 17001032c रत्नलोभान्महाराज तौ चाक्षय्यौ महेषुधी 17001033a अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः 17001033c मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् 17001034a ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् 17001034c भो भो पाण्डुसुता वीराः पावकं मां विबोधत 17001035a युधिष्ठिर महाबाहो भीमसेन परंतप 17001035c अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम 17001036a अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् 17001036c अर्जुनस्य प्रभावेण तथा नारायणस्य च 17001037a अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् 17001037c परित्यज्य वनं यातु नानेनार्थोऽस्ति कश्चन 17001038a चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि 17001038c गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह 17001039a वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् 17001039c गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् 17001040a ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् 17001040c स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी 17001041a ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत 17001041c ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः 17001042a ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः 17001042c जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमम् 17001043a ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते 17001043c ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् 17001044a उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः 17001044c प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः 17002001 वैशंपायन उवाच 17002001a ततस्ते नियतात्मान उदीचीं दिशमास्थिताः 17002001c ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् 17002002a तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् 17002002c अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् 17002003a तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् 17002003c याज्ञसेनी भ्रष्टयोगा निपपात महीतले 17002004a तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः 17002004c उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह 17002005a नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप 17002005c कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि 17002006 युधिष्ठिर उवाच 17002006a पक्षपातो महानस्या विशेषेण धनंजये 17002006c तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम 17002007 वैशंपायन उवाच 17002007a एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः 17002007c समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः 17002008a सहदेवस्ततो धीमान्निपपात महीतले 17002008c तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् 17002009a योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः 17002009c सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि 17002010 युधिष्ठिर उवाच 17002010a आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन 17002010c तेन दोषेण पतितस्तस्मादेष नृपात्मजः 17002011 वैशंपायन उवाच 17002011a इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा 17002011c भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः 17002012a कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् 17002012c आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह 17002013a तस्मिन्निपतिते वीरे नकुले चारुदर्शने 17002013c पुनरेव तदा भीमो राजानमिदमब्रवीत् 17002014a योऽयमक्षतधर्मात्मा भ्राता वचनकारकः 17002014c रूपेणाप्रतिमो लोके नकुलः पतितो भुवि 17002015a इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः 17002015c नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः 17002016a रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् 17002016c अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् 17002017a नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर 17002017c यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते 17002018a तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः 17002018c पपात शोकसंतप्तस्ततोऽनु परवीरहा 17002019a तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि 17002019c म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् 17002020a अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः 17002020c अथ कस्य विकारोऽयं येनायं पतितो भुवि 17002021 युधिष्ठिर उवाच 17002021a एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् 17002021c न च तत्कृतवानेष शूरमानी ततोऽपतत् 17002022a अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः 17002022c यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता 17002023 वैशंपायन उवाच 17002023a इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह 17002023c पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् 17002024a भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव 17002024c किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह 17002025 युधिष्ठिर उवाच 17002025a अतिभुक्तं च भवता प्राणेन च विकत्थसे 17002025c अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ 17002026 वैशंपायन उवाच 17002026a इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् 17002026c श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया 17003001 वैशंपायन उवाच 17003001a ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः 17003001c रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् 17003002a स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः 17003002c अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः 17003003a भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह 17003003c न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर 17003004a सुकुमारी सुखार्हा च राजपुत्री पुरंदर 17003004c सास्माभिः सह गच्छेत तद्भवाननुमन्यताम् 17003005 इन्द्र उवाच 17003005a भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान् 17003005c कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ 17003006a निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ 17003006c अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः 17003007 युधिष्ठिर उवाच 17003007a अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह 17003007c स गच्छेत मया सार्धमानृशंस्या हि मे मतिः 17003008 इन्द्र उवाच 17003008a अमर्त्यत्वं मत्समत्वं च राज;ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम् 17003008c संप्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति 17003009 युधिष्ठिर उवाच 17003009a अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य 17003009c मा मे श्रिया संगमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम् 17003010 इन्द्र उवाच 17003010a स्वर्गे लोके श्ववतां नास्ति धिष्ण्य;मिष्टापूर्तं क्रोधवशा हरन्ति 17003010c ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति 17003011 युधिष्ठिर उवाच 17003011a भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन 17003011c तस्मान्नाहं जातु कथंचनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र 17003012 इन्द्र उवाच 17003012a शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च 17003012c तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम् 17003013a त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर 17003013c श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य 17003014 युधिष्ठिर उवाच 17003014a न विद्यते संधिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा 17003014c न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम् 17003015a प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः 17003015c मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे 17003016 वैशंपायन उवाच 17003016a तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच 17003016c युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः 17003017a अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया 17003017c अनुक्रोशेन चानेन सर्वभूतेषु भारत 17003018a पुरा द्वैतवने चासि मया पुत्र परीक्षितः 17003018c पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः 17003019a भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ 17003019c मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि 17003020a अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया 17003020c तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप 17003021a अतस्तवाक्षया लोकाः स्वशरीरेण भारत 17003021c प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् 17003022a ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि 17003022c देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् 17003023a प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः 17003023c सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः 17003024a स तं रथं समास्थाय राजा कुरुकुलोद्वहः 17003024c ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी 17003025a ततो देवनिकायस्थो नारदः सर्वलोकवित् 17003025c उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः 17003026a येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः 17003026c कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति 17003027a लोकानावृत्य यशसा तेजसा वृत्तसंपदा 17003027c स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् 17003028a नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् 17003028c देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् 17003029a शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे 17003029c तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये 17003030a राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः 17003030c आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् 17003031a स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः 17003031c किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि 17003032a सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान्क्वचित् 17003032c नैव ते भ्रातरः स्थानं संप्राप्ताः कुरुनन्दन 17003033a अद्यापि मानुषो भावः स्पृशते त्वां नराधिप 17003033c स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् 17003034a युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् 17003034c पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् 17003035a तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण 17003035c गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः 17003036a यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता 17003036c द्रौपदी योषितां श्रेष्ठा यत्र चैव प्रिया मम