% Mahabharata: Anusasanaparvan % Last updated: Mon Jul 29 2019 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 13001001 युधिष्ठिर उवाच 13001001a शमो बहुविधाकारः सूक्ष्म उक्तः पितामह 13001001c न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् 13001002a अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ 13001002c स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि 13001003a शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च 13001003c शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् 13001004a रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् 13001004c त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् 13001005a अतः कष्टतरं किं नु मत्कृते यत्पितामहः 13001005c इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे 13001005e तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः 13001006a वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः 13001006c कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप 13001007a अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा 13001007c न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ 13001008 भीष्म उवाच 13001008a परतन्त्रं कथं हेतुमात्मानमनुपश्यसि 13001008c कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् 13001009a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13001009c संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः 13001010a गौतमी नाम कौन्तेय स्थविरा शमसंयुता 13001010c सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् 13001011a अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः 13001011c लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् 13001012a तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः 13001012c ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना 13001013a अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा 13001013c न ह्ययं बालहा पापश्चिरं जीवितुमर्हति 13001014 गौतम्युवाच 13001014a विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया 13001014c को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् 13001015a प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः 13001015c मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके 13001016a न चामृत्युर्भविता वै हतेऽस्मि;न्को वात्ययः स्यादहतेऽस्मिञ्जनस्य 13001016c अस्योत्सर्गे प्राणयुक्तस्य जन्तो;र्मृत्योर्लोकं को नु गच्छेदनन्तम् 13001017 लुब्धक उवाच 13001017a जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति 13001017c स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये 13001018a समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति 13001018c श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् 13001019 गौतम्युवाच 13001019a न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि 13001019c नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् 13001020a न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना 13001020c मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः 13001021 लुब्धक उवाच 13001021a हत्वा लाभः श्रेय एवाव्ययं स्या;त्सद्यो लाभो बलवद्भिः प्रशस्तः 13001021c कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् 13001022 गौतम्युवाच 13001022a कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा 13001022c कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् 13001023 लुब्धक उवाच 13001023a अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः 13001023c कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् 13001024 गौतम्युवाच 13001024a नास्मिन्हते पन्नगे पुत्रको मे; संप्राप्स्यते लुब्धक जीवितं वै 13001024c गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम् 13001025 लुब्धक उवाच 13001025a वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव 13001025c शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का 13001026 भीष्म उवाच 13001026a असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति 13001026c लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् 13001027a ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः 13001027c उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः 13001028a को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश 13001028c अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् 13001029a तस्यायं वचनाद्दष्टो न कोपेन न काम्यया 13001029c तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् 13001030 लुब्धक उवाच 13001030a यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् 13001030c कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी 13001031a मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा 13001031c कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग 13001032a किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग 13001032c आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम 13001033 सर्प उवाच 13001033a सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा 13001033c तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव 13001034a अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः 13001034c कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् 13001035a एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी 13001035c किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् 13001036 लुब्धक उवाच 13001036a कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत 13001036c विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः 13001037a असत्यपि कृते कार्ये नेह पन्नग लिप्यते 13001037c तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे 13001038 सर्प उवाच 13001038a कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे 13001038c तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः 13001039a यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः 13001039c अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने 13001040 लुब्धक उवाच 13001040a वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् 13001040c भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम 13001041 सर्प उवाच 13001041a यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः 13001041c न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् 13001042 भीष्म उवाच 13001042a तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते 13001042c आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् 13001043a कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् 13001043c विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः 13001044a यथा वायुर्जलधरान्विकर्षति ततस्ततः 13001044c तद्वज्जलदवत्सर्प कालस्याहं वशानुगः 13001045a सात्त्विका राजसाश्चैव तामसा ये च केचन 13001045c भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु 13001046a जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि 13001046c सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् 13001047a प्रवृत्तयश्च या लोके तथैव च निवृत्तयः 13001047c तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् 13001048a आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः 13001048c अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा 13001049a सरितः सागराश्चैव भावाभावौ च पन्नग 13001049c सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः 13001050a एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे 13001050c अथ चैवंगते दोषो मयि त्वमपि दोषवान् 13001051 सर्प उवाच 13001051a निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् 13001051c त्वयाहं चोदित इति ब्रवीम्येतावदेव तु 13001052a यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते 13001052c दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् 13001053a निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा 13001053c मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् 13001054 भीष्म उवाच 13001054a सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् 13001054c नानागसं मां पाशेन संतापयितुमर्हसि 13001055 लुब्धक उवाच 13001055a मृत्योः श्रुतं मे वचनं तव चैव भुजंगम 13001055c नैव तावद्विदोषत्वं भवति त्वयि पन्नग 13001056a मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने 13001056c उभयं कारणं मन्ये न कारणमकारणम् 13001057a धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् 13001057c त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् 13001058 मृत्युरुवाच 13001058a विवशौ कालवशगावावां तद्दिष्टकारिणौ 13001058c नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि 13001059 लुब्धक उवाच 13001059a युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ 13001059c हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् 13001060 मृत्युरुवाच 13001060a याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः 13001060c पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः 13001061a तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ 13001061c नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् 13001062 भीष्म उवाच 13001062a अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये 13001062c अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् 13001063 काल उवाच 13001063a नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः 13001063c किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः 13001064a अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् 13001064c प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा 13001065a यदनेन कृतं कर्म तेनायं निधनं गतः 13001065c विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् 13001066a कर्मदायादवाँल्लोकः कर्मसंबन्धलक्षणः 13001066c कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् 13001067a यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति 13001067c एवमात्मकृतं कर्म मानवः प्रतिपद्यते 13001068a यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् 13001068c तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः 13001069a एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् 13001069c न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् 13001070a तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप 13001070c स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् 13001071a नैव कालो न भुजगो न मृत्युरिह कारणम् 13001071c स्वकर्मभिरयं बालः कालेन निधनं गतः 13001072a मया च तत्कृतं कर्म येनायं मे मृतः सुतः 13001072c यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् 13001073 भीष्म उवाच 13001073a ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः 13001073c अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी 13001074a एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप 13001074c स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ 13001075a न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै 13001075c कालेन तत्कृतं विद्धि विहता येन पार्थिवाः 13001076 वैशंपायन उवाच 13001076a इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः 13001076c युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् 13002001 युधिष्ठिर उवाच 13002001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13002001c श्रुतं मे महदाख्यानमिदं मतिमतां वर 13002002a भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप 13002002c कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि 13002003a केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः 13002003c इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव 13002004 भीष्म उवाच 13002004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13002004c यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः 13002005a मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः 13002005c तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः 13002006a दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत 13002006c माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः 13002007a दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः 13002007c सत्ये तपसि दाने च यस्य नित्यं रतं मनः 13002008a मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः 13002008c धनुर्वेदे च वेदे च निरतो योऽभवत्सदा 13002009a मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः 13002009c महाभागो महातेजा महासत्त्वो महाबलः 13002010a पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः 13002010c धर्मात्मा कोशवांश्चापि देवराज इवापरः 13002011a सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः 13002011c दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः 13002012a दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः 13002012c दुर्योधनो नाम महान्राजासीद्राजसत्तम 13002013a तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः 13002013c विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत 13002014a रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः 13002014c नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् 13002015a न तस्य विषये चाभूत्कृपणो नापि दुर्गतः 13002015c व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् 13002016a सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः 13002016c धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः 13002017a यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः 13002017c न चावमन्ता दाता च वेदवेदाङ्गपारगः 13002018a तं नर्मदा देवनदी पुण्या शीतजला शिवा 13002018c चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत 13002019a तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना 13002019c नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना 13002020a तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर 13002020c दुर्योधनसुता यादृगभवद्वरवर्णिनी 13002021a तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् 13002021c भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् 13002022a दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः 13002022c न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् 13002023a ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः 13002023c ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा 13002024a दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः 13002024c येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव 13002025a न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः 13002025c भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् 13002026a एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ 13002026c नियता वाग्यताश्चैव पावकं शरणं ययुः 13002027a तान्दर्शयामास तदा भगवान्हव्यवाहनः 13002027c स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः 13002028a ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् 13002028c वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति 13002029a ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् 13002029c ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना 13002030a ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् 13002030c अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् 13002031a प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् 13002031c नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति 13002031e तमाह भगवानग्निरेवमस्त्विति पार्थिवम् 13002032a ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः 13002032c दृष्टं हि सहदेवेन दिशो विजयता तदा 13002033a ततस्तां समलंकृत्य कन्यामहतवाससम् 13002033c ददौ दुर्योधनो राजा पावकाय महात्मने 13002034a प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् 13002034c विधिना वेददृष्टेन वसोर्धारामिवाध्वरे 13002035a तस्या रूपेण शीलेन कुलेन वपुषा श्रिया 13002035c अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे 13002036a तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः 13002036c शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् 13002037a अथौघवान्नाम नृपो नृगस्यासीत्पितामहः 13002037c तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् 13002038a तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् 13002038c सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् 13002039a स गृहस्थाश्रमरतस्तया सह सुदर्शनः 13002039c कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः 13002040a गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो 13002040c प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते 13002041a तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् 13002041c अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन 13002042a येन येन च तुष्येत नित्यमेव त्वयातिथिः 13002042c अप्यात्मनः प्रदानेन न ते कार्या विचारणा 13002043a एतद्व्रतं मम सदा हृदि संपरिवर्तते 13002043c गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् 13002044a प्रमाणं यदि वामोरु वचस्ते मम शोभने 13002044c इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा 13002045a निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे 13002045c नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव 13002046a तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः 13002046c न मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन 13002047a जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् 13002047c पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा 13002048a इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने 13002048c अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा 13002049a आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि 13002049c प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः 13002050a इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी 13002050c विधिना प्रतिजग्राह वेदोक्तेन विशां पते 13002051a आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये 13002051c प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते 13002052a तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् 13002052c त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर 13002053a यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः 13002053c प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् 13002054a तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया 13002054c नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः 13002055a सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः 13002055c तथेति लज्जमाना सा तमुवाच द्विजर्षभम् 13002056a ततो रहः स विप्रर्षिः सा चैवोपविवेश ह 13002056c संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः 13002057a अथेध्मान्समुपादाय स पावकिरुपागमत् 13002057c मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः 13002058a ततस्त्वाश्रममागम्य स पावकसुतस्तदा 13002058c तामाजुहावौघवतीं क्वासि यातेति चासकृत् 13002059a तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा 13002059c कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती 13002060a उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च 13002060c तूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन 13002061a अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः 13002061c क्व सा साध्वी क्व सा याता गरीयः किमतो मम 13002062a पतिव्रता सत्यशीला नित्यं चैवार्जवे रता 13002062c कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा 13002063a उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् 13002063c अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् 13002064a अनया छन्द्यमानोऽहं भार्यया तव सत्तम 13002064c तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः 13002065a अनेन विधिना सेयं मामर्चति शुभानना 13002065c अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति 13002066a कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् 13002066c हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् 13002067a सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा 13002067c त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् 13002068a सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम 13002068c गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम् 13002069a अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति 13002069c नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः 13002070a प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु 13002070c अतिथिभ्यो मया देयमिति मे व्रतमाहितम् 13002071a निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् 13002071c तेनाहं विप्र सत्येन स्वयमात्मानमालभे 13002072a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 13002072c बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश 13002073a नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः 13002073c सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर 13002074a यथैषा नानृता वाणी मयाद्य समुदाहृता 13002074c तेन सत्येन मां देवाः पालयन्तु दहन्तु वा 13002075a ततो नादः समभवद्दिक्षु सर्वासु भारत 13002075c असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः 13002076a उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः 13002076c वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः 13002077a स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् 13002077c उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः 13002078a धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ 13002078c प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि 13002079a विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति 13002079c रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः 13002080a न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम 13002080c पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत 13002081a रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा 13002081c अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् 13002082a एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी 13002082c पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति 13002083a अर्धेनौघवती नाम त्वामर्धेनानुयास्यति 13002083c शरीरेण महाभागा योगो ह्यस्या वशे स्थितः 13002084a अनया सह लोकांश्च गन्तासि तपसार्जितान् 13002084c यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् 13002085a अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे 13002085c निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् 13002086a पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः 13002086c गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ 13002087a स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः 13002087c तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः 13002088 भीष्म उवाच 13002088a शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् 13002088c युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् 13002089a मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च 13002089c बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च 13002090a तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै 13002090c ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय 13002091a अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् 13002091c न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः 13002092a पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् 13002092c स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः 13002093a एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् 13002093c यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् 13002094a धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् 13002094c बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् 13002095a य इदं कथयेद्विद्वानहन्यहनि भारत 13002095c सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् 13003001 युधिष्ठिर उवाच 13003001a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप 13003001c कथं प्राप्तं महाराज क्षत्रियेण महात्मना 13003002a विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ 13003002c श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह 13003003a तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः 13003003c हतं पुत्रशतं सद्यस्तपसा प्रपितामह 13003004a यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः 13003004c मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः 13003005a महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः 13003005c स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः 13003006a ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः 13003006c विमोक्षितो महासत्रात्पशुतामभ्युपागतः 13003007a हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा 13003007c पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः 13003008a नाभिवादयते ज्येष्ठं देवरातं नराधिप 13003008c पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः 13003009a त्रिशङ्कुर्बन्धुसंत्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् 13003009c अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् 13003010a विश्वामित्रस्य विपुला नदी राजर्षिसेविता 13003010c कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता 13003011a तपोविघ्नकरी चैव पञ्चचूडा सुसंमता 13003011c रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता 13003012a तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा 13003012c आत्मानं मज्जयामास विपाशः पुनरुत्थितः 13003013a तदाप्रभृति पुण्या हि विपाशाभून्महानदी 13003013c विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः 13003014a वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः 13003014c स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् 13003015a ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च 13003015c मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् 13003016a तस्यैतानि च कर्माणि तथान्यानि च कौरव 13003016c क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम 13003017a किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ 13003017c देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् 13003018a एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि 13003018c मतंगस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे 13003019a स्थाने मतंगो ब्राह्मण्यं नालभद्भरतर्षभ 13003019c चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् 13004001 भीष्म उवाच 13004001a श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा 13004001c ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च 13004002a भरतस्यान्वये चैवाजमीढो नाम पार्थिवः 13004002c बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः 13004003a तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः 13004003c दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः 13004004a तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः 13004004c सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः 13004005a वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः 13004005c कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः 13004006a कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः 13004006c अपुत्रः स महाबाहुर्वनवासमुदावसत् 13004007a कन्या जज्ञे सुता तस्य वने निवसतः सतः 13004007c नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि 13004008a तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः 13004008c ऋचीक इति विख्यातो विपुले तपसि स्थितः 13004009a स तां न प्रददौ तस्मै ऋचीकाय महात्मने 13004009c दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः 13004010a प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः 13004010c शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् 13004011 ऋचीक उवाच 13004011a किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप 13004011c दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा 13004012 गाधिरुवाच 13004012a चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् 13004012c एकतः श्यामकर्णानां सहस्रं देहि भार्गव 13004013 भीष्म उवाच 13004013a ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः 13004013c अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् 13004014a एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् 13004014c सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम 13004015a तथेति वरुणो देव आदित्यो भृगुसत्तमम् 13004015c उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः 13004016a ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् 13004016c गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् 13004017a अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् 13004017c अश्वतीर्थं तदद्यापि मानवाः परिचक्षते 13004018a तत्तदा गाधये तात सहस्रं वाजिनां शुभम् 13004018c ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः 13004019a ततः स विस्मितो राजा गाधिः शापभयेन च 13004019c ददौ तां समलंकृत्य कन्यां भृगुसुताय वै 13004020a जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः 13004020c सा च तं पतिमासाद्य परं हर्षमवाप ह 13004021a स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत 13004021c छन्दयामास चैवैनां वरेण वरवर्णिनीम् 13004022a मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् 13004022c अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम् 13004023a ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति 13004023c अपत्यस्य प्रदानेन समर्थः स महातपाः 13004024a ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् 13004024c मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् 13004025a गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः 13004025c जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा 13004026a तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे 13004026c अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् 13004027a ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् 13004027c परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः 13004028a चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते 13004028c त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः 13004029a ततः सत्यवती हृष्टा मातरं प्रत्यभाषत 13004029c यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् 13004030a तामुवाच ततो माता सुतां सत्यवतीं तदा 13004030c पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम 13004031a भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः 13004031c एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च 13004032a व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते 13004032c यदि प्रमाणं वचनं मम मातुरनिन्दिते 13004033a व्यक्तं भगवता चात्र कृतमेवं भविष्यति 13004033c ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे 13004033e कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय 13004034a तथा च कृतवत्यौ ते माता सत्यवती च सा 13004034c अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर 13004035a दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः 13004035c उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः 13004036a व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति 13004036c व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे 13004037a मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् 13004037c क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् 13004038a त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि 13004038c सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया 13004039a व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च 13004039c तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति 13004040a क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि 13004040c न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि 13004041a सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी 13004041c भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता 13004042a प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च 13004042c उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् 13004043a प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर 13004043c प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः 13004044a कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति 13004044c न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः 13004045a एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः 13004045c ततः सा जनयामास जमदग्निं सुतं शुभम् 13004046a विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी 13004046c ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् 13004047a ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः 13004047c क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः 13004048a तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः 13004048c तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च 13004049a मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् 13004049c अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा 13004050a याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः 13004050c उलूको यमदूतश्च तथर्षिः सैन्धवायनः 13004051a कर्णजङ्घश्च भगवान्गालवश्च महानृषिः 13004051c ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च 13004052a लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः 13004052c वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च 13004053a अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः 13004053c चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः 13004054a श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा 13004054c कारीषिरथ संश्रुत्यः परपौरवतन्तवः 13004055a महानृषिश्च कपिलस्तथर्षिस्तारकायनः 13004055c तथैव चोपगहनस्तथर्षिश्चार्जुनायनः 13004056a मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः 13004056c सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि 13004057a आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा 13004057c नवतन्तुर्बकनखः शयोनरतिरेव च 13004058a शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः 13004058c उज्जयोनिरदापेक्षी नारदी च महानृषिः 13004058e विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः 13004059a तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः 13004059c ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर 13004060a एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ 13004060c विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः 13004061a यत्र यत्र च संदेहो भूयस्ते राजसत्तम 13004061c तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् 13005001 युधिष्ठिर उवाच 13005001a आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च 13005001c श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह 13005002 भीष्म उवाच 13005002a विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः 13005002c सविषं काण्डमादाय मृगयामास वै मृगम् 13005003a तत्र चामिषलुब्धेन लुब्धकेन महावने 13005003c अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः 13005004a तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा 13005004c महान्वनतरुर्विद्धो मृगं तत्र जिघांसता 13005005a स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः 13005005c उत्सृज्य फलपत्राणि पादपः शोषमागतः 13005006a तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः 13005006c न जहाति शुको वासं तस्य भक्त्या वनस्पतेः 13005007a निष्प्रचारो निराहारो ग्लानः शिथिलवागपि 13005007c कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत 13005008a तमुदारं महासत्त्वमतिमानुषचेष्टितम् 13005008c समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः 13005009a ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः 13005009c तिर्यग्योनावसंभाव्यमानृशंस्यं समास्थितः 13005010a अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु 13005010c प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते 13005011a ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः 13005011c अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह 13005012a शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया 13005012c पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् 13005013a अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् 13005013c स्वागतं देवराजाय विज्ञातस्तपसा मया 13005014a ततो दशशताक्षेण साधु साध्विति भाषितम् 13005014c अहो विज्ञानमित्येवं तपसा पूजितस्ततः 13005015a तमेवं शुभकर्माणं शुकं परमधार्मिकम् 13005015c विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः 13005016a निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् 13005016c किमर्थं सेवसे वृक्षं यदा महदिदं वनम् 13005017a अन्येऽपि बहवो वृक्षाः पत्रसंछन्नकोटराः 13005017c शुभाः पर्याप्तसंचारा विद्यन्तेऽस्मिन्महावने 13005018a गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् 13005018c विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् 13005019a तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् 13005019c सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह 13005020a अनतिक्रमणीयानि दैवतानि शचीपते 13005020c यत्राभवस्तत्र भवस्तन्निबोध सुराधिप 13005021a अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः 13005021c बालभावे च संगुप्तः शत्रुभिश्च न धर्षितः 13005022a किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ 13005022c आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च 13005023a अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् 13005023c अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति 13005024a त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् 13005024c अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः 13005025a नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः 13005025c समर्थमुपजीव्येमं त्यजेयं कथमद्य वै 13005026a तस्य वाक्येन सौम्येन हर्षितः पाकशासनः 13005026c शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः 13005027a वरं वृणीष्वेति तदा स च वव्रे वरं शुकः 13005027c आनृशंस्यपरो नित्यं तस्य वृक्षस्य संभवम् 13005028a विदित्वा च दृढां शक्रस्तां शुके शीलसंपदम् 13005028c प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् 13005029a ततः फलानि पत्राणि शाखाश्चापि मनोरमाः 13005029c शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः 13005030a शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह 13005030c आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् 13005031a एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः 13005031c सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः 13006001 युधिष्ठिर उवाच 13006001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13006001c दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् 13006002 भीष्म उवाच 13006002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13006002c वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर 13006003a दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत 13006003c पुरा वसिष्ठो भगवान्पितामहमपृच्छत 13006004a ततः पद्मोद्भवो राजन्देवदेवः पितामहः 13006004c उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् 13006005a नाबीजं जायते किंचिन्न बीजेन विना फलम् 13006005c बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् 13006006a यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः 13006006c सुकृते दुष्कृते वापि तादृशं लभते फलम् 13006007a यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् 13006007c तथा पुरुषकारेण विना दैवं न सिध्यति 13006008a क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् 13006008c क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते 13006009a कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः 13006009c प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च 13006010a शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 13006010c कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् 13006011a कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः 13006011c अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् 13006012a तपसा रूपसौभाग्यं रत्नानि विविधानि च 13006012c प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना 13006013a तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता 13006013c सर्वं पुरुषकारेण कृतेनेहोपपद्यते 13006014a ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः 13006014c सर्वे पुरुषकारेण मानुष्याद्देवतां गताः 13006015a अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् 13006015c श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः 13006016a शौचेन लभते विप्रः क्षत्रियो विक्रमेण च 13006016c वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् 13006017a नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् 13006017c नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् 13006018a येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः 13006018c स एष भगवान्विष्णुः समुद्रे तप्यते तपः 13006019a स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् 13006019c लोको दैवं समालम्ब्य उदासीनो भवेन्न तु 13006020a अकृत्वा मानुषं कर्म यो दैवमनुवर्तते 13006020c वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना 13006021a न तथा मानुषे लोके भयमस्ति शुभाशुभे 13006021c यथा त्रिदशलोके हि भयमल्पेन जायते 13006022a कृतः पुरुषकारस्तु दैवमेवानुवर्तते 13006022c न दैवमकृते किंचित्कस्यचिद्दातुमर्हति 13006023a यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि 13006023c कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति 13006024a न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् 13006024c व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया 13006025a ऋषीणां देवतानां च सदा भवति विग्रहः 13006025c कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते 13006026a कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते 13006026c एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः 13006027a आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 13006027c आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च 13006028a कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति 13006028c सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते 13006029a देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते 13006029c पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति 13006030a पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ 13006030c पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः 13006031a पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा 13006031c ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः 13006032a अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः 13006032c महर्षिशापात्सौदासः पुरुषादत्वमागतः 13006033a अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ 13006033c न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा 13006034a वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः 13006034c मिथ्याभिधानेनैकेन रसातलतलं गतः 13006035a बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः 13006035c विष्णोः पुरुषकारेण पातालशयनः कृतः 13006036a शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः 13006036c द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः 13006037a अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च 13006037c वैशंपायनविप्रर्षिः किं दैवेन निवारितः 13006038a गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे 13006038c पुरा नृगश्च राजर्षिः कृकलासत्वमागतः 13006039a धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः 13006039c प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे 13006040a पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः 13006040c पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् 13006041a तपोनियमसंयुक्ता मुनयः संशितव्रताः 13006041c किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा 13006042a पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् 13006042c लोभमोहसमापन्नं न दैवं त्रायते नरम् 13006043a यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् 13006043c तथा कर्मसमायुक्तं दैवं साधु विवर्धते 13006044a यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति 13006044c तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति 13006045a विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् 13006045c सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते 13006046a भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि 13006046c पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् 13006047a व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् 13006047c अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस्तत्र तत्र 13006048a एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम 13006048c फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः 13006049a अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा 13006049c विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् 13007001 युधिष्ठिर उवाच 13007001a कर्मणां मे समस्तानां शुभानां भरतर्षभ 13007001c फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः 13007002 भीष्म उवाच 13007002a रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर 13007002c या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता 13007003a येन येन शरीरेण यद्यत्कर्म करोति यः 13007003c तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 13007004a यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् 13007004c तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि 13007005a न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह 13007005c ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च 13007006a चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् 13007006c अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः 13007007a यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते 13007007c श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् 13007008a स्थण्डिले शयमानानां गृहाणि शयनानि च 13007008c चीरवल्कलसंवीते वासांस्याभरणानि च 13007009a वाहनासनयानानि योगात्मनि तपोधने 13007009c अग्नीनुपशयानस्य राजपौरुषमुच्यते 13007010a रसानां प्रतिसंहारे सौभाग्यमनुगच्छति 13007010c आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति 13007011a अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् 13007011c सततं चैकशायी यः स लभेतेप्सितां गतिम् 13007012a पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् 13007012c दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः 13007013a वीरासनं वीरशय्यां वीरस्थानमुपासतः 13007013c अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा 13007014a धनं लभेत दानेन मौनेनाज्ञां विशां पते 13007014c उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् 13007015a रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते 13007015c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा 13007016a प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते 13007016c स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् 13007017a गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः 13007017c स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् 13007018a सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः 13007018c मरुं साधयतो राज्यं नाकपृष्ठमनाशके 13007019a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13007019c कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते 13007020a अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते 13007020c मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् 13007021a या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 13007021c योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 13007022a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 13007022c एवं पूर्वकृतं कर्म कर्तारमनुगच्छति 13007023a अचोद्यमानानि यथा पुष्पाणि च फलानि च 13007023c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 13007024a जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः 13007024c चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते 13007025a येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः 13007025c प्रीणाति मातरं येन पृथिवी तेन पूजिता 13007025e येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् 13007026a सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः 13007026c अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः 13007027 वैशंपायन उवाच 13007027a भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुंगवाः 13007027c आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा 13007028a यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे 13007028c यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने 13007029a इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो 13007029c शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि 13008001 युधिष्ठिर उवाच 13008001a के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत 13008001c एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप 13008002a उत्तमापद्गतस्यापि यत्र ते वर्तते मनः 13008002c मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत 13008003 भीष्म उवाच 13008003a स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् 13008003c येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः 13008004a येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् 13008004c उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् 13008005a विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् 13008005c श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् 13008006a संसत्सु वदतां येषां हंसानामिव संघशः 13008006c मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः 13008007a सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर 13008007c शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः 13008008a ये चापि तेषां श्रोतारः सदा सदसि संमताः 13008008c विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् 13008009a सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च 13008009c ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर 13008009e ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् 13008010a शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् 13008010c शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर 13008010e तेषां संख्यायमानानां दानशूरो विशिष्यते 13008011a धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा 13008011c कुले जातो धर्मगतिस्तपोविद्यापरायणः 13008012a न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन 13008012c त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ 13008013a यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह 13008013c तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः 13008014a न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् 13008014c न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः 13008015a न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह 13008015c अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः 13008016a कर्मणा मनसा वापि वाचा वापि परंतप 13008016c यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् 13008017a ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः 13008017c एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् 13008018a पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः 13008018c तेषु मे तात गन्तव्यमह्नाय च चिराय च 13008019a यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर 13008019c स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः 13008020a क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः 13008020c पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता 13008021a नारी तु पत्यभावे वै देवरं कुरुते पतिम् 13008021c पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् 13008022a पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते 13008022c अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम 13008023a ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् 13008023c आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा 13008024a तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर 13008024c उभे चैते परित्याज्ये तेजश्चैव तपस्तथा 13008025a व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते 13008025c हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः 13008026a भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् 13008026c कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् 13008027a दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् 13008027c ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् 13008028a पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः 13008028c गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् 13009001 युधिष्ठिर उवाच 13009001a ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह 13009001c न प्रयच्छन्ति मोहात्ते के भवन्ति महामते 13009002a एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर 13009002c प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः 13009003 भीष्म उवाच 13009003a यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु 13009003c आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् 13009004a यां रात्रिं जायते पापो यां च रात्रिं विनश्यति 13009004c एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत 13009004e यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते 13009005a अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः 13009005c निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया 13009006a अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः 13009006c अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते 13009007a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 13009007c सृगालस्य च संवादं वानरस्य च भारत 13009008a तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप 13009008c अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा 13009009a ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् 13009009c श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् 13009010a किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् 13009010c यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् 13009011a एवमुक्तः प्रत्युवाच सृगालो वानरं तदा 13009011c ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् 13009012a तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम 13009012c तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः 13009013a इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् 13009013c कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् 13009014a श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते 13009014c कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव 13009015a एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै 13009015c प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः 13009016a ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते 13009016c सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः 13009017a यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया 13009017c प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा 13009018a स एव हि यदा तुष्टो वचसा प्रतिनन्दति 13009018c भवत्यगदसंकाशो विषये तस्य भारत 13009019a पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा 13009019c पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति 13009020a एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते 13009020c सहस्रकिरणस्येव सवितुर्धरणीतले 13009021a तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर 13009021c यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम 13009022a ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः 13009022c शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया 13009023a इतो दत्तेन जीवन्ति देवताः पितरस्तथा 13009023c तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता 13009024a महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते 13009024c वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः 13010001 युधिष्ठिर उवाच 13010001a मित्रसौहृदभावेन उपदेशं करोति यः 13010001c जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा 13010002a एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह 13010002c सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः 13010003 भीष्म उवाच 13010003a अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् 13010003c ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया 13010004a उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् 13010004c उपदेशे महान्दोष उपाध्यायस्य भाष्यते 13010005a निदर्शनमिदं राजञ्शृणु मे भरतर्षभ 13010005c दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर 13010005e ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे 13010006a तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् 13010006c बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् 13010007a सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् 13010007c व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् 13010008a ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः 13010008c नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः 13010008e दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः 13010009a वेदाध्ययनघोषैश्च नादितं भरतर्षभ 13010009c वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् 13010010a तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः 13010010c आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः 13010011a तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः 13010011c वहतो विविधा दीक्षाः संप्रहृष्यत भारत 13010012a अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ 13010012c ततोऽब्रवीत्कुलपतिं पादौ संगृह्य भारत 13010013a भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ 13010013c तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि 13010014a वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम 13010014c शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे 13010015 कुलपतिरुवाच 13010015a न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् 13010015c आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव 13010016 भीष्म उवाच 13010016a एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप 13010016c कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे 13010016e विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः 13010017a गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः 13010017c तत्र वेदिं च भूमिं च देवतायतनानि च 13010017e निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् 13010018a अभिषेकांश्च नियमान्देवतायतनेषु च 13010018c बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् 13010019a संकल्पनियमोपेतः फलाहारो जितेन्द्रियः 13010019c नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा 13010020a अतिथीन्पूजयामास यथावत्समुपागतान् 13010020c एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै 13010021a अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम् 13010021c संपूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् 13010022a अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत 13010022c ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः 13010023a एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ 13010023c सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ 13010024a अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ 13010024c पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु 13010025a बाढमित्येव तं विप्र उवाच भरतर्षभ 13010025c शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् 13010026a अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ 13010026c पवित्रमासनं चैव बृसीं च समुपानयत् 13010027a अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् 13010027c कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् 13010028a कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः 13010028c स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् 13010029a यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् 13010029c हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना 13010030a ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः 13010030c पितृकार्ये कृते चापि विसृष्टः स जगाम ह 13010031a अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः 13010031c वने पञ्चत्वमगमत्सुकृतेन च तेन वै 13010031e अजायत महाराजराजवंशे महाद्युतिः 13010032a तथैव स ऋषिस्तात कालधर्ममवाप्य ह 13010032c पुरोहितकुले विप्र आजातो भरतर्षभ 13010033a एवं तौ तत्र संभूतावुभौ शूद्रमुनी तदा 13010033c क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ 13010034a अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः 13010034c कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः 13010034e सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत 13010035a पितर्युपरते चापि कृतशौचः स भारत 13010035c अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः 13010035e अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः 13010036a स तं पुरोधाय सुखमवसद्भरतर्षभ 13010036c राज्यं शशास धर्मेण प्रजाश्च परिपालयन् 13010037a पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् 13010037c उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् 13010037e एवं स बहुशो राजन्पुरोधसमुपाहसत् 13010038a लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् 13010038c उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् 13010039a अथ शून्ये पुरोधास्तु सह राज्ञा समागतः 13010039c कथाभिरनुकूलाभी राजानमभिरामयत् 13010040a ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ 13010040c वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते 13010041 राजोवाच 13010041a वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम 13010041c स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव 13010042 पुरोहित उवाच 13010042a एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव 13010042c यद्ददासि महाराज सत्यं तद्वद मानृतम् 13010043 भीष्म उवाच 13010043a बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर 13010043c यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे 13010044 पुरोहित उवाच 13010044a पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् 13010044c शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् 13010045a सव्रीडं वै भवति हि मनो मे हसता त्वया 13010045c कामया शापितो राजन्नान्यथा वक्तुमर्हसि 13010046a भाव्यं हि कारणेनात्र न ते हास्यमकारणम् 13010046c कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे 13010047 राजोवाच 13010047a एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि 13010047c अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज 13010048a पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम 13010048c जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु 13010049a शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः 13010049c ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम 13010050a प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना 13010050c पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ 13010050e बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम 13010051a एतेन कर्मदोषेण पुरोधास्त्वमजायथाः 13010051c अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् 13010051e मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् 13010052a एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम 13010052c न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् 13010053a विपर्ययेण मे मन्युस्तेन संतप्यते मनः 13010053c जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै 13010054a एवं तवोग्रं हि तप उपदेशेन नाशितम् 13010054c पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे 13010055a इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज 13010055c गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम 13010056 भीष्म उवाच 13010056a ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः 13010056c ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः 13010057a कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः 13010057c तीर्थानि चाभिगत्वा वै दानानि विविधानि च 13010058a दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः 13010058c तमेव चाश्रमं गत्वा चचार विपुलं तपः 13010059a ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम 13010059c संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् 13010060a एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम 13010060c ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने 13010061a वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप 13010061c उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् 13010062a एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् 13010062c न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने 13010063a ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः 13010063c एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति 13010064a तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः 13010064c सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः 13010065a तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः 13010065c दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन 13010066a धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः 13010066c दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् 13010067a उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् 13010067c उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् 13010068a विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता 13010068c सत्यानृतेन हि कृत उपदेशो हिनस्ति वै 13010069a वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् 13010069c स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् 13010070a एतत्ते सर्वमाख्यातमुपदेशे कृते सति 13010070c महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् 13011001 युधिष्ठिर उवाच 13011001a कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ 13011001c श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह 13011002 भीष्म उवाच 13011002a अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् 13011002c रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत 13011003a नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् 13011003c कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य 13011004a कानीह भूतान्युपसेवसे त्वं; संतिष्ठती कानि न सेवसे त्वम् 13011004c तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये 13011005a एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य 13011005c उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना 13011006a वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने 13011006c नाकर्मशीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने 13011006e न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये 13011007a ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र 13011007c न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु 13011008a यश्चात्मनि प्रार्थयते न किंचि;द्यश्च स्वभावोपहतान्तरात्मा 13011008c तेष्वल्पसंतोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि 13011009a वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु 13011009c वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु 13011010a स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च 13011010c वसामि सत्यशीलासु स्वभावनिरतासु च 13011011a प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् 13011011c परस्य वेश्माभिरतामलज्जा;मेवंविधां स्त्रीं परिवर्जयामि 13011012a लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च 13011012c निद्राभिभूतां सततं शयाना;मेवंविधां स्त्रीं परिवर्जयामि 13011013a सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु 13011013c वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु 13011014a यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु 13011014c वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु 13011015a शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु 13011015c नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु 13011016a विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु 13011016c वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु 13011016e मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् 13011017a यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च 13011017c काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम् 13011018a स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव 13011018c वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते 13011019a नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता 13011019c तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् 13011020a नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम् 13011020c यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः 13012001 युधिष्ठिर उवाच 13012001a स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् 13012001c एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि 13012002 भीष्म उवाच 13012002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13012002c भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा 13012003a पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः 13012003c अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् 13012004a अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः 13012004c प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते 13012005a इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः 13012005c अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः 13012006a कस्यचित्त्वथ कालस्य मृगयामटतो नृप 13012006c इदमन्तरमित्येव शक्रो नृपममोहयत् 13012007a एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः 13012007c न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा 13012008a इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः 13012008c सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा 13012008e सोऽवगाह्य सरस्तात पाययामास वाजिनम् 13012009a अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः 13012009c अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह 13012010a आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः 13012010c चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः 13012011a आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् 13012011c अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् 13012012a जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् 13012012c दारेषु चास्मदीयेषु पौरजानपदेषु च 13012013a मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च 13012013c स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः 13012013e व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः 13012014a पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् 13012014c स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे 13012015a महता त्वथ खेदेन आरुह्याश्वं नराधिपः 13012015c पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम 13012016a पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते 13012016c किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः 13012017a अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः 13012017c मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् 13012017e उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः 13012018a अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः 13012018c सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् 13012019a तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः 13012019c अतृप्त इव पुत्राणां दाराणां च धनस्य च 13012020a उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः 13012020c संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः 13012020e अभिषिच्य स पुत्राणां शतं राजा वनं गतः 13012021a तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत 13012021c तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् 13012022a अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत 13012022c पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः 13012023a एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः 13012023c सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा 13012024a तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् 13012024c चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः 13012024e उपकारोऽस्य राजर्षेः कृतो नापकृतं मया 13012025a ततो ब्राह्मणरूपेण देवराजः शतक्रतुः 13012025c भेदयामास तान्गत्वा नगरं वै नृपात्मजान् 13012026a भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः 13012026c राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः 13012027a यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः 13012027c कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा 13012027e युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः 13012028a इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् 13012028c तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह 13012029a ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत 13012029c केन दुःखेन संतप्ता रोदिषि त्वं वरानने 13012030a ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् 13012030c पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते 13012031a अहं राजाभवं विप्र तत्र पुत्रशतं मया 13012031c समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम 13012032a कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने 13012032c अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम 13012032e पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः 13012033a स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना 13012033c आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया 13012034a तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज 13012034c एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता 13012035a इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः 13012035c पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् 13012036a इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते 13012036c इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया 13012037a इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः 13012037c प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः 13012037e इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि 13012038a प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ 13012038c पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे 13012038e स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् 13012039a तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः 13012039c स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव 13012040a इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः 13012040c पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव 13012041a स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् 13012041c कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि 13012042 स्त्र्युवाच 13012042a स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै 13012042c तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै 13012043 भीष्म उवाच 13012043a एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह 13012043c सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि 13012044a वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत 13012044c पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि 13012045 स्त्र्युवाच 13012045a स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव 13012046a एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह 13012046c पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो 13012047a एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः 13012047c स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा 13012047e एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् 13012048a रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम 13012048c स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप 13012049a एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः 13012049c एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते 13013001 युधिष्ठिर उवाच 13013001a किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना 13013001c कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् 13013002 भीष्म उवाच 13013002a कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् 13013002c मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् 13013003a प्राणातिपातं स्तैन्यं च परदारमथापि च 13013003c त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् 13013004a असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा 13013004c चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् 13013005a अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् 13013005c कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् 13013006a तस्माद्वाक्कायमनसा नाचरेदशुभं नरः 13013006c शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् 13014001 युधिष्ठिर उवाच 13014001a पितामहेशाय विभो नामान्याचक्ष्व शंभवे 13014001c बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः 13014002 भीष्म उवाच 13014002a सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि 13014002c शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः 13014003a नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना 13014003c निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् 13014004a द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः 13014004c ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव 13014005a ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये 13014005c महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने 13014006 वासुदेव उवाच 13014006a न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः 13014007a हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः 13014007c न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः 13014007e स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः 13014008a तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् 13014008c भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् 13014009 वैशंपायन उवाच 13014009a एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः 13014009c उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः 13014010 वासुदेव उवाच 13014010a शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर 13014010c त्वं चापगेय नामानि निशामय जगत्पतेः 13014011a यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् 13014011c यथा च भगवान्दृष्टो मया पूर्वं समाधिना 13014012a शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता 13014012c अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् 13014013a प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् 13014013c पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर 13014014a शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् 13014014c आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् 13014015a न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन 13014015c लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह 13014016a त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता 13014016c आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः 13014017a चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः 13014017c चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च 13014018a यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः 13014018c तथा ममापि तनयं प्रयच्छ बलशालिनम् 13014019a इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् 13014019c अनुजानीहि मां राज्ञि करिष्ये वचनं तव 13014019e सा च मामब्रवीद्गच्छ विजयाय शिवाय च 13014020a ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः 13014020c क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा 13014021a समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः 13014021c देवपत्न्यो देवकन्या देवमातर एव च 13014022a मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः 13014022c सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः 13014023a क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः 13014023c रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् 13014023e अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ 13014024a एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् 13014024c पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य 13014025a तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता 13014025c तानभ्यनुज्ञाय तदातिदुःखा;द्गदं तथैवातिबलं च रामम् 13014026a प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् 13014026c सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् 13014027a तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे 13014027c क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् 13014028a दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः 13014028c पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् 13014029a धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः 13014029c वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः 13014030a बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः 13014030c भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा 13014031a वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् 13014031c पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् 13014032a नानाशकुनिसंभोज्यैः फलैर्वृक्षैरलंकृतम् 13014032c यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः 13014033a रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् 13014033c कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् 13014033e पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् 13014034a नानापुष्परजोमिश्रो गजदानाधिवासितः 13014034c दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ 13014035a धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम् 13014035c गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर 13014036a अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम् 13014036c विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् 13014037a विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया 13014037c महात्मभिर्धर्मभृतां वरिष्ठै;र्महर्षिभिर्भूषितमग्निकल्पैः 13014038a वाय्वाहारैरम्बुपैर्जप्यनित्यैः; संप्रक्षालैर्यतिभिर्ध्याननित्यैः 13014038c धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् 13014039a गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा 13014039c मरीचिपाः फेनपाश्च तथैव मृगचारिणः 13014040a सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् 13014040c पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे 13014041a सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः 13014041c रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा 13014042a क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् 13014042c प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः 13014043a तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे 13014043c सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः 13014044a नानानियमविख्यातैरृषिभिश्च महात्मभिः 13014044c प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् 13014045a तेजसा तपसा चैव दीप्यमानं यथानलम् 13014045c शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् 13014045e शिरसा वन्दमानं मामुपमन्युरभाषत 13014046a स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः 13014046c यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि 13014047a तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु 13014047c धर्मे च शिष्यवर्गे च समपृच्छमनामयम् 13014048a ततो मां भगवानाह साम्ना परमवल्गुना 13014048c लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् 13014049a तपः सुमहदास्थाय तोषयेशानमीश्वरम् 13014049c इह देवः सपत्नीकः समाक्रीडत्यधोक्षज 13014050a इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा 13014050c तपसा ब्रह्मचर्येण सत्येन च दमेन च 13014050e तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन 13014051a तेजसां तपसां चैव निधिः स भगवानिह 13014051c शुभाशुभान्वितान्भावान्विसृजन्संक्षिपन्नपि 13014051e आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् 13014052a हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः 13014052c तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् 13014053a तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः 13014053c महादेववराच्छक्रं वर्षार्बुदमयोधयत् 13014054a विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च 13014054c शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव 13014055a अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा 13014055c शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् 13014056a तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् 13014056c शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् 13014056e ममैवानुचरो नित्यं भवितासीति चाब्रवीत् 13014057a तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः 13014057c कुशद्वीपं च स ददौ राज्येन भगवानजः 13014058a तथा शतमुखो नाम धात्रा सृष्टो महासुरः 13014058c येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः 13014058e तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः 13014059a तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः 13014059c बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे 13014060a स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा 13014060c आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि 13014061a तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् 13014061c योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः 13014062a वालखिल्या मघवता अवज्ञाताः पुरा किल 13014062c तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् 13014063a तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः 13014063c सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ 13014064a महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् 13014064c ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः 13014065a अत्रेर्भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी 13014065c नाहं तस्य मुनेर्भूयो वशगा स्यां कथंचन 13014065e इत्युक्त्वा सा महादेवमगच्छच्छरणं किल 13014066a निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि 13014066c अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा 13014067a तामब्रवीद्धसन्देवो भविता वै सुतस्तव 13014067c वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् 13014068a शाकल्यः संशितात्मा वै नव वर्षशतान्यपि 13014068c आराधयामास भवं मनोयज्ञेन केशव 13014069a तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि 13014069c वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति 13014069e अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् 13014070a सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे 13014070c इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ 13014071a तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ 13014071c ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः 13014072a मयापि च यथा दृष्टो देवदेवः पुरा विभुः 13014072c साक्षात्पशुपतिस्तात तच्चापि शृणु माधव 13014073a यदर्थं च महादेवः प्रयतेन मया पुरा 13014073c आराधितो महातेजास्तच्चापि शृणु विस्तरम् 13014074a यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् 13014074c तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ 13014075a पुरा कृतयुगे तात ऋषिरासीन्महायशाः 13014075c व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः 13014075e तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः 13014076a कस्यचित्त्वथ कालस्य धौम्येन सह माधव 13014076c आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् 13014077a तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी 13014077c लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् 13014078a ततः पिष्टं समालोड्य तोयेन सह माधव 13014078c आवयोः क्षीरमित्येव पानार्थमुपनीयते 13014079a अथ गव्यं पयस्तात कदाचित्प्राशितं मया 13014079c ततः पिष्टरसं तात न मे प्रीतिमुदावहत् 13014080a ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा 13014080c क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे 13014081a ततो मामब्रवीन्माता दुःखशोकसमन्विता 13014081c पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव 13014082a कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् 13014082c वने निवसतां नित्यं कन्दमूलफलाशिनाम् 13014083a अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् 13014083c कुतः क्षीरोदनं वत्स सुखानि वसनानि च 13014084a तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् 13014084c तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक 13014085a जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् 13014085c मम भक्तिर्महादेवे नैष्ठिकी समपद्यत 13014086a ततोऽहं तप आस्थाय तोषयामास शंकरम् 13014086c दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः 13014087a एकं वर्षशतं चैव फलाहारस्तदाभवम् 13014087c द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः 13014087e शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् 13014088a ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः 13014088c शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः 13014088e सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः 13014089a सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् 13014089c आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् 13014090a समास्थितश्च भगवान्दीप्यमानः स्वतेजसा 13014090c आजगाम किरीटी तु हारकेयूरभूषितः 13014091a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 13014091c सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः 13014092a ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम 13014092c वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते 13014093a शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् 13014093c अब्रुवं च तदा कृष्ण देवराजमिदं वचः 13014094a नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् 13014094c महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते 13014095a पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः 13014095c अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा 13014096a अपि कीटः पतंगो वा भवेयं शंकराज्ञया 13014096c न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये 13014097a यावच्छशाङ्कशकलामलबद्धमौलि;र्न प्रीयते पशुपतिर्भगवान्ममेशः 13014097c तावज्जरामरणजन्मशताभिघातै;र्दुःखानि देहविहितानि समुद्वहामि 13014098a दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम् 13014098c अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम् 13014099 शक्र उवाच 13014099a कः पुनस्तव हेतुर्वै ईशे कारणकारणे 13014099c येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि 13014100 उपमन्युरुवाच 13014100a हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् 13014100c न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः 13014101a कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् 13014101c अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः 13014102a यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः 13014102c अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः 13014103a तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक 13014103c गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन 13014104a काममेष वरो मेऽस्तु शापो वापि महेश्वरात् 13014104c न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि 13014105a एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः 13014105c न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् 13014105e अथापश्यं क्षणेनैव तमेवैरावतं पुनः 13014106a हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् 13014106c वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् 13014107a कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् 13014107c जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् 13014108a रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् 13014108c सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् 13014109a ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् 13014109c तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् 13014110a तमास्थितश्च भगवान्देवदेवः सहोमया 13014110c अशोभत महादेवः पौर्णमास्यामिवोडुराट् 13014111a तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् 13014111c सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति 13014112a ईश्वरः सुमहातेजाः संवर्तक इवानलः 13014112c युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः 13014113a तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः 13014113c पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् 13014114a मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश 13014114c प्रशान्तं च क्षणेनैव देवदेवस्य मायया 13014115a अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् 13014115c सौरभेयगतं सौम्यं विधूममिव पावकम् 13014115e सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् 13014116a नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् 13014116c अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् 13014117a शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् 13014117c शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् 13014118a गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः 13014118c वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः 13014119a बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् 13014119c त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः 13014120a अशोभत च देवस्य माला गात्रे सितप्रभे 13014120c जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता 13014121a मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च 13014121c मया दृष्टानि गोविन्द भवस्यामिततेजसः 13014122a इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः 13014122c पिनाकमिति विख्यातं स च वै पन्नगो महान् 13014123a सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः 13014123c ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः 13014124a शरश्च सूर्यसंकाशः कालानलसमद्युतिः 13014124c यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् 13014125a अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् 13014125c सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् 13014126a एकपादं महादंष्ट्रं सहस्रशिरसोदरम् 13014126c सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् 13014127a ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् 13014127c यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् 13014128a येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा 13014128c शरेणैकेन गोविन्द महादेवेन लीलया 13014129a निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् 13014129c महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः 13014130a नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि 13014130c तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् 13014131a गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा 13014131c यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः 13014132a दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् 13014132c संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना 13014133a यौवनाश्वो हतो येन मांधाता सबलः पुरा 13014133c चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः 13014134a महाबलो महावीर्यः शक्रतुल्यपराक्रमः 13014134c करस्थेनैव गोविन्द लवणस्येह रक्षसः 13014135a तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् 13014135c त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् 13014136a विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् 13014136c सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् 13014136e दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ 13014137a परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा 13014137c महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः 13014137e कार्तवीर्यो हतो येन चक्रवर्ती महामृधे 13014138a त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता 13014138c जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा 13014139a दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः 13014139c अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः 13014140a असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः 13014140c प्राधान्यतो मयैतानि कीर्तितानि तवानघ 13014141a सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः 13014141c दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् 13014142a वामपार्श्वगतश्चैव तथा नारायणः स्थितः 13014142c वैनतेयं समास्थाय शङ्खचक्रगदाधरः 13014143a स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः 13014143c शक्तिं कण्ठे समादाय द्वितीय इव पावकः 13014144a पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् 13014144c शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शंकरम् 13014145a स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा 13014145c शक्राद्या देवताश्चैव सर्व एव समभ्ययुः 13014146a तेऽभिवाद्य महात्मानं परिवार्य समन्ततः 13014146c अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा 13014147a ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् 13014147c ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा 13014147e गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् 13014148a ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः 13014148c अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः 13014149a तेषां मध्यगतो देवो रराज भगवाञ्शिवः 13014149c शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् 13014149e ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् 13014150a नमो देवाधिदेवाय महादेवाय वै नमः 13014150c शक्राय शक्ररूपाय शक्रवेषधराय च 13014151a नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च 13014151c पिनाकपाणये नित्यं खड्गशूलधराय च 13014152a नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे 13014152c कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च 13014153a शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च 13014153c शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च 13014154a त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः 13014154c आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे 13014155a ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः 13014155c आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः 13014155e कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे 13014156a पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः 13014156c वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे 13014157a आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः 13014157c ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः 13014158a आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः 13014158c पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च 13014159a सामवेदश्च वेदानां यजुषां शतरुद्रियम् 13014159c सनत्कुमारो योगीनां सांख्यानां कपिलो ह्यसि 13014160a शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि 13014160c ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे 13014161a क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः 13014161c वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः 13014161e आदिस्त्वमसि लोकानां संहर्ता काल एव च 13014162a यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् 13014162c तत्सर्वं भगवानेव इति मे निश्चिता मतिः 13014163a नमस्ते भगवन्देव नमस्ते भक्तवत्सल 13014163c योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव 13014164a प्रसीद मम भक्तस्य दीनस्य कृपणस्य च 13014164c अनैश्वर्येण युक्तस्य गतिर्भव सनातन 13014165a यं चापराधं कृतवानज्ञानात्परमेश्वर 13014165c मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि 13014166a मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् 13014166c तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर 13014167a एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः 13014167c कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् 13014168a ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता 13014168c पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि 13014169a दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः 13014169c ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः 13014170a ततः प्रीतो महादेवः सपत्नीको वृषध्वजः 13014170c अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा 13014171a पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः 13014171c मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् 13014172a एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना 13014172c ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् 13014173a भगवन्देवदेवेश लोकनाथ जगत्पते 13014173c लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः 13014174a एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा 13014174c आह मां भगवानीशः प्रहसन्निव शंकरः 13014175a वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुंगव 13014175c दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि 13014176a अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् 13014176c तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् 13014177a एवमुक्तस्य चैवाथ महादेवेन मे विभो 13014177c हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते 13014178a अब्रुवं च तदा देवं हर्षगद्गदया गिरा 13014178c जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः 13014179a अद्य जातो ह्यहं देव अद्य मे सफलं तपः 13014179c यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः 13014180a यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् 13014180c तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया 13014181a एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् 13014181c षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् 13014182a स एष भगवान्देवः सर्वतत्त्वादिरव्ययः 13014182c सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः 13014183a योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम् 13014183c वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः 13014183e युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः 13014184a स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् 13014184c कालो भूत्वा महातेजाः संवर्तक इवानलः 13014185a एष देवो महादेवो जगत्सृष्ट्वा चराचरम् 13014185c कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति 13014186a सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः 13014186c आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः 13014187a यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः 13014187c भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शंकर 13014188a अतीतानागतं चैव वर्तमानं च यद्विभो 13014188c जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम 13014189a क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः 13014189c आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते 13014190a एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः 13014190c महेश्वरो महातेजाश्चराचरगुरुः प्रभुः 13014191a अजरश्चामरश्चैव भव दुःखविवर्जितः 13014191c शीलवान्गुणसंपन्नः सर्वज्ञः प्रियदर्शनः 13014192a अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् 13014192c क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने 13014193a तत्र ते भविता कामं सांनिध्यं पयसो निधेः 13014193c क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् 13014194a बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि 13014194c सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम 13014195a तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि 13014195c स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् 13014196a एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः 13014196c ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत 13014197a एवं दृष्टो मया कृष्ण देवदेवः समाधिना 13014197c तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता 13014198a प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् 13014198c ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा 13014199a पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् 13014199c सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः 13014199e सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् 13015001 उपमन्युरुवाच 13015001a एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः 13015001c कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव 13015002a त्वादृशेन हि देवानां श्लाघनीयः समागमः 13015002c ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत 13015002e जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् 13015003 कृष्ण उवाच 13015003a अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने 13015003c द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् 13015004a दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि 13015004c दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा 13015005a मासमेकं फलाहारो द्वितीयं सलिलाशनः 13015005c तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः 13015006a एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः 13015006c तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत 13015007a तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन 13015007c इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् 13015007e नीलशैलचयप्रख्यं बलाकाभूषितं घनम् 13015008a तमास्थितश्च भगवान्देव्या सह महाद्युतिः 13015008c तपसा तेजसा कान्त्या दीप्तया सह भार्यया 13015009a रराज भगवांस्तत्र देव्या सह महेश्वरः 13015009c सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा 13015010a संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः 13015010c अपश्यं देवसंघानां गतिमार्तिहरं हरम् 13015011a किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् 13015011c पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् 13015012a दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् 13015012c चन्द्रं यथा परिविष्टं ससंध्यं; वर्षात्यये तद्वदपश्यमेनम् 13015013a प्रमथानां गणैश्चैव समन्तात्परिवारितम् 13015013c शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् 13015014a एकादश तथा चैनं रुद्राणां वृषवाहनम् 13015014c अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् 13015015a आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ 13015015c विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् 13015016a शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ 13015016c ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके 13015017a योगीश्वराः सुबहवो योगदं पितरं गुरुम् 13015017c ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै 13015018a पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा 13015018c मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः 13015019a मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः 13015019c दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा 13015020a सनत्कुमारो वेदाश्च इतिहासास्तथैव च 13015020c मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 13015021a मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः 13015021c भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च 13015022a छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः 13015022c यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर 13015023a प्रजानां पतयः सर्वे सरितः पन्नगा नगाः 13015023c देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः 13015024a सहस्राणि मुनीनां च अयुतान्यर्बुदानि च 13015024c नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः 13015025a गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः 13015025c दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् 13015025e विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा 13015026a सर्वाणि चैव भूतानि स्थावराणि चराणि च 13015026c नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् 13015026e पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः 13015027a पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत 13015027c सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत 13015028a ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा 13015028c ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च 13015029a शिरसा वन्दिते देवे देवी प्रीता उमाभवत् 13015029c ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः 13015030a नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति 13015030c तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः 13015031a त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः 13015031c धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः 13015032a त्वत्तो जातानि भूतानि स्थावराणि चराणि च 13015032c त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि 13015033a ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः 13015033c ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति 13015034a वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः 13015034c यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् 13015035a इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये 13015035c ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा 13015036a कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः 13015036c आधयो व्याधयश्चैव भगवंस्तनयास्तव 13015037a कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः 13015037c मनसः परमा योनिः स्वभावश्चापि शाश्वतः 13015037e अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः 13015038a आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः 13015038c महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः 13015039a बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः 13015039c पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे 13015040a त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति 13015040c हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः 13015041a सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः 13015041c सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि 13015042a फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु 13015042c त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः 13015042e अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 13015043a त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये 13015043c ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः 13015044a यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् 13015044c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति 13015045a विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः 13015045c प्रधानविधियोगस्थस्त्वामेव विशते बुधः 13015046a एवमुक्ते मया पार्थ भवे चार्तिविनाशने 13015046c चराचरं जगत्सर्वं सिंहनादमथाकरोत् 13015047a सविप्रसंघाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि 13015047c रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः 13015048a मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् 13015048c राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ 13015049a निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः 13015049c शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः 13015050a विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् 13015050c क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि 13015051a वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम 13015051c ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् 13016001 कृष्ण उवाच 13016001a मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः 13016001c परमं हर्षमागम्य भगवन्तमथाब्रुवम् 13016002a धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च 13016002c योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि 13016003a एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शंकरः 13016004a ततो मां जगतो माता धरणी सर्वपावनी 13016004c उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः 13016005a दत्तो भगवता पुत्रः साम्बो नाम तवानघ 13016005c मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते 13016005e प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन 13016006a द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च 13016006c कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् 13016007 देव्युवाच 13016007a एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् 13016007c भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् 13016008a प्रीतिं चाग्र्यां बान्धवानां सकाशा;द्ददामि ते वपुषः काम्यतां च 13016008c भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् 13016009 वासुदेव उवाच 13016009a एवं दत्त्वा वरान्देवो मम देवी च भारत 13016009c अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज 13016010a एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे 13016010c उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम 13016011a नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत 13016011c नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे 13016011e नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः 13016012a ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः 13016012c दश वर्षसहस्राणि तेन देवः समाधिना 13016012e आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय 13016013a स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् 13016013c पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर 13016013e अत्युग्रं तेजसां तेजस्तपसां परमं तपः 13016014a विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत 13016014c भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते 13016015a जातीमरणभीरूणां यतीनां यततां विभो 13016015c निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय 13016016a ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः 13016016c न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् 13016017a त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते 13016017c कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि 13016018a तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः 13016018c अधिपौरुषमध्यात्ममधिभूताधिदैवतम् 13016018e अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि 13016019a त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि 13016019c विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् 13016020a अनिच्छतस्तव विभो जन्ममृत्युरनेकतः 13016020c द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च 13016021a त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि 13016021c सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि 13016022a ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः 13016022c वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः 13016023a भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः 13016023c कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च 13016024a इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् 13016024c विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि 13016025a यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् 13016025c या गतिः सांख्ययोगानां स भवान्नात्र संशयः 13016026a नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् 13016026c यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः 13016027a अहो मूढाः स्म सुचिरमिमं कालमचेतसः 13016027c यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः 13016028a सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया 13016028c भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते 13016029a देवासुरमनुष्याणां यच्च गुह्यं सनातनम् 13016029c गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि 13016030a स एष भगवान्देवः सर्वकृत्सर्वतोमुखः 13016030c सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता 13016031a प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः 13016031c देहकृद्देहभृद्देही देहभुग्देहिनां गतिः 13016032a अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् 13016032c अपुनर्मारकामानां या गतिः सोऽयमीश्वरः 13016033a अयं च सर्वभूतानां शुभाशुभगतिप्रदः 13016033c अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु 13016034a अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः 13016034c अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः 13016035a भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः 13016035c विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च 13016036a अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् 13016036c अस्मिंश्च प्रलयं याति अयमेकः सनातनः 13016037a अयं स सत्यकामानां सत्यलोकः परः सताम् 13016037c अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् 13016038a अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः 13016038c देवासुरमनुष्याणां न प्रकाशो भवेदिति 13016039a तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् 13016039c मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः 13016040a ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत 13016040c तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः 13016041a यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते 13016041c यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते 13016042a यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः 13016042c प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् 13016043a यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः 13016043c सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः 13016044a यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् 13016044c प्राणायामपरा नित्यं यं विशन्ति जपन्ति च 13016045a अयं स देवयानानामादित्यो द्वारमुच्यते 13016045c अयं च पितृयानानां चन्द्रमा द्वारमुच्यते 13016046a एष कालगतिश्चित्रा संवत्सरयुगादिषु 13016046c भावाभावौ तदात्वे च अयने दक्षिणोत्तरे 13016047a एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः 13016047c वरयामास पुत्रत्वे नीललोहितसंज्ञितम् 13016048a ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः 13016048c यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे 13016049a सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः 13016049c यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः 13016050a रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः 13016050c ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् 13016051a मृत्युर्यमो हुताशश्च कालः संहारवेगवान् 13016051c कालस्य परमा योनिः कालश्चायं सनातनः 13016052a चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना 13016052c ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च 13016053a प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् 13016053c ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् 13016054a अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् 13016054c अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते 13016055a एतत्परममानन्दं यत्तच्छाश्वतमेव च 13016055c एषा गतिर्विरक्तानामेष भावः परः सताम् 13016056a एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् 13016056c शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् 13016057a इयं सा परमा काष्ठा इयं सा परमा कला 13016057c इयं सा परमा सिद्धिरियं सा परमा गतिः 13016058a इयं सा परमा शान्तिरियं सा निर्वृतिः परा 13016058c यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः 13016059a इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः 13016059c अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया 13016060a यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः 13016060c या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन 13016061a जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः 13016061c तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् 13016062a कर्मन्यासकृतानां च विरक्तानां ततस्ततः 13016062c या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन 13016063a अपुनर्मारकामानां वैराग्ये वर्ततां परे 13016063c विकृतीनां लयानां च सा गतिस्त्वं सनातन 13016064a ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना 13016064c कैवल्या या गतिर्देव परमा सा गतिर्भवान् 13016065a वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः 13016065c त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो 13016066a इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् 13016066c जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ 13016067a ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः 13016067c न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः 13016068a अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः 13016068c यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः 13016069a ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव 13016069c मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः 13016070a कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे 13016070c प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे 13016071a एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः 13016071c स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत 13016072a अन्तर्हिते भगवति सानुगे यादवेश्वर 13016072c ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह 13016073a यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम 13016073c नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये 13016074a दश नामसहस्राणि वेदेष्वाह पितामहः 13016074c शर्वस्य शास्त्रेषु तथा दश नामशतानि वै 13016075a गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत 13016075c देवप्रसादाद्देवेश पुरा प्राह महात्मने 13017001 वासुदेव उवाच 13017001a ततः स प्रयतो भूत्वा मम तात युधिष्ठिर 13017001c प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः 13017002 उपमन्युरुवाच 13017002a ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः 13017002c सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः 13017003a महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः 13017003c ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना 13017004a यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः 13017004c प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् 13017004e श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः 13017005a यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् 13017005c वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम 13017006a परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् 13017006c तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् 13017007a न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् 13017007c युक्तेनापि विभूतीनामपि वर्षशतैरपि 13017008a यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते 13017008c कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव 13017009a किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् 13017009c शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि 13017010a अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः 13017010c यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् 13017011a अनादिनिधनस्याहं सर्वयोनेर्महात्मनः 13017011c नाम्नां कंचित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः 13017012a वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः 13017012c शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना 13017013a दश नामसहस्राणि यान्याह प्रपितामहः 13017013c तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् 13017014a गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु 13017014c घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् 13017015a सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् 13017015c प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना 13017015e शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् 13017016a इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च 13017016c नाश्रद्दधानरूपाय नास्तिकायाजितात्मने 13017017a यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् 13017017c स कृष्ण नरकं याति सह पूर्वैः सहानुगैः 13017018a इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् 13017018c इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् 13017018e इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् 13017019a पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् 13017019c निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् 13017020a इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः 13017020c सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् 13017021a तदाप्रभृति चैवायमीश्वरस्य महात्मनः 13017021c स्तवराजेति विख्यातो जगत्यमरपूजितः 13017021e ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः 13017022a यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् 13017022c स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः 13017023a सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् 13017023c निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् 13017024a ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् 13017024c तेजसामपि यत्तेजस्तपसामपि यत्तपः 13017025a शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः 13017025c दान्तानामपि यो दान्तो धीमतामपि या च धीः 13017026a देवानामपि यो देवो मुनीनामपि यो मुनिः 13017026c यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः 13017027a रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि 13017027c योगिनामपि यो योगी कारणानां च कारणम् 13017028a यतो लोकाः संभवन्ति न भवन्ति यतः पुनः 13017028c सर्वभूतात्मभूतस्य हरस्यामिततेजसः 13017029a अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु 13017029c यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि 13017030a स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः 13017030c सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः 13017031a जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः 13017031c हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः 13017032a प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः 13017032c श्मशानचारी भगवान्खचरो गोचरोऽर्दनः 13017033a अभिवाद्यो महाकर्मा तपस्वी भूतभावनः 13017033c उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः 13017034a महारूपो महाकायः सर्वरूपो महायशाः 13017034c महात्मा सर्वभूतश्च विरूपो वामनो मनुः 13017035a लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः 13017035c पवित्रश्च महांश्चैव नियमो नियमाश्रयः 13017036a सर्वकर्मा स्वयंभूश्च आदिरादिकरो निधिः 13017036c सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः 13017037a चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः 13017037c अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः 13017038a महातपा घोरतपा अदीनो दीनसाधकः 13017038c संवत्सरकरो मन्त्रः प्रमाणं परमं तपः 13017039a योगी योज्यो महाबीजो महारेता महातपाः 13017039c सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः 13017040a दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः 13017040c विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः 13017041a गणकर्ता गणपतिर्दिग्वासाः काम्य एव च 13017041c पवित्रं परमं मन्त्रः सर्वभावकरो हरः 13017042a कमण्डलुधरो धन्वी बाणहस्तः कपालवान् 13017042c अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् 13017043a स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः 13017043c उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा 13017044a दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च 13017044c सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः 13017045a अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि 13017045c ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः 13017046a त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः 13017046c अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः 13017047a गजहा दैत्यहा लोको लोकधाता गुणाकरः 13017047c सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः 13017048a कालयोगी महानादः सर्ववासश्चतुष्पथः 13017048c निशाचरः प्रेतचारी भूतचारी महेश्वरः 13017049a बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः 13017049c नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः 13017050a घोरो महातपाः पाशो नित्यो गिरिचरो नभः 13017050c सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः 13017051a अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः 13017051c दक्षयज्ञापहारी च सुसहो मध्यमस्तथा 13017052a तेजोपहारी बलहा मुदितोऽर्थो जितो वरः 13017052c गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः 13017053a न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः 13017053c तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् 13017054a विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः 13017054c हुताशनसहायश्च प्रशान्तात्मा हुताशनः 13017055a उग्रतेजा महातेजा जयो विजयकालवित् 13017055c ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च 13017056a शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली 13017056c वैणवी पणवी ताली कालः कालकटंकटः 13017057a नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः 13017057c प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः 13017058a विमोचनः सुरगणो हिरण्यकवचोद्भवः 13017058c मेढ्रजो बलचारी च महाचारी स्तुतस्तथा 13017059a सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः 13017059c व्यालरूपो बिलावासी हेममाली तरंगवित् 13017060a त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः 13017060c बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः 13017061a सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः 13017061c प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् 13017062a सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः 13017062c हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः 13017063a लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः 13017063c संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः 13017064a मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः 13017064c सर्वकालप्रसादश्च सुबलो बलरूपधृक् 13017065a आकाशनिधिरूपश्च निपाती उरगः खगः 13017065c रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी 13017066a वसुवेगो महावेगो मनोवेगो निशाचरः 13017066c सर्वावासी श्रियावासी उपदेशकरो हरः 13017067a मुनिरात्मपतिर्लोके संभोज्यश्च सहस्रदः 13017067c पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः 13017068a उन्मादो मदनाकारो अर्थार्थकररोमशः 13017068c वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः 13017069a सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः 13017069c भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः 13017070a महासेनो विशाखश्च षष्टिभागो गवां पतिः 13017070c वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च 13017071a ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः 13017071c वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः 13017072a ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् 13017072c ईशान ईश्वरः कालो निशाचारी पिनाकधृक् 13017073a नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः 13017073c भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः 13017074a चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च 13017074c लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः 13017075a बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः 13017075c इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः 13017076a दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः 13017076c लोककर्ता पशुपतिर्महाकर्ता महौषधिः 13017077a अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च 13017077c नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः 13017078a बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् 13017078c वेदकारः सूत्रकारो विद्वान्समरमर्दनः 13017079a महामेघनिवासी च महाघोरो वशीकरः 13017079c अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः 13017080a वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः 13017080c नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः 13017081a स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः 13017081c उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा 13017082a कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् 13017082c महापादो महाहस्तो महाकायो महायशाः 13017083a महामूर्धा महामात्रो महानेत्रो दिगालयः 13017083c महादन्तो महाकर्णो महामेढ्रो महाहनुः 13017084a महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् 13017084c महावक्षा महोरस्को अन्तरात्मा मृगालयः 13017085a लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः 13017085c महादन्तो महादंष्ट्रो महाजिह्वो महामुखः 13017086a महानखो महारोमा महाकेशो महाजटः 13017086c असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः 13017087a स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः 13017087c वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः 13017088a मण्डली मेरुधामा च देवदानवदर्पहा 13017088c अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः 13017089a यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा 13017089c अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः 13017090a उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः 13017090c नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः 13017091a द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः 13017091c नक्तं कलिश्च कालश्च मकरः कालपूजितः 13017092a सगणो गणकारश्च भूतभावनसारथिः 13017092c भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः 13017093a अगणश्चैव लोपश्च महात्मा सर्वपूजितः 13017093c शङ्कुस्त्रिशङ्कुः संपन्नः शुचिर्भूतनिषेवितः 13017094a आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः 13017094c शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः 13017095a कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः 13017095c गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः 13017096a परश्वधायुधो देव अर्थकारी सुबान्धवः 13017096c तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः 13017097a उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः 13017097c सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः 13017098a बन्धनो बन्धकर्ता च सुबन्धनविमोचनः 13017098c स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः 13017099a बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः 13017099c अमरेशो महादेवो विश्वदेवः सुरारिहा 13017100a अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा 13017100c अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः 13017101a धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा 13017101c धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः 13017102a प्रभावः सर्वगो वायुरर्यमा सविता रविः 13017102c उदग्रश्च विधाता च मान्धाता भूतभावनः 13017103a रतितीर्थश्च वाग्मी च सर्वकामगुणावहः 13017103c पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः 13017104a बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी 13017104c कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः 13017105a सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः 13017105c देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् 13017106a कैलासशिखरावासी हिमवद्गिरिसंश्रयः 13017106c कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः 13017107a वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः 13017107c सारग्रीवो महाजत्रुरलोलश्च महौषधः 13017108a सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः 13017108c सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः 13017109a प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः 13017109c सारङ्गो नवचक्राङ्गः केतुमाली सभावनः 13017110a भूतालयो भूतपतिरहोरात्रमनिन्दितः 13017110c वाहिता सर्वभूतानां निलयश्च विभुर्भवः 13017111a अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः 13017111c धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः 13017112a गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः 13017112c हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् 13017113a प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः 13017113c गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः 13017114a महागीतो महानृत्तो ह्यप्सरोगणसेवितः 13017114c महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः 13017115a आवेदनीय आवेशः सर्वगन्धसुखावहः 13017115c तोरणस्तारणो वायुः परिधावति चैकतः 13017116a संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः 13017116c नित्य आत्मसहायश्च देवासुरपतिः पतिः 13017117a युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः 13017117c आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः 13017118a वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः 13017118c शिरोहारी विमर्षश्च सर्वलक्षणभूषितः 13017119a अक्षश्च रथयोगी च सर्वयोगी महाबलः 13017119c समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः 13017120a निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः 13017120c रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् 13017121a मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः 13017121c आरोहणो निरोहश्च शैलहारी महातपाः 13017122a सेनाकल्पो महाकल्पो युगायुगकरो हरिः 13017122c युगरूपो महारूपः पवनो गहनो नगः 13017123a न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः 13017123c बहुमालो महामालः सुमालो बहुलोचनः 13017124a विस्तारो लवणः कूपः कुसुमः सफलोदयः 13017124c वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः 13017125a इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः 13017125c निवेदनः सुधाजातः सुगन्धारो महाधनुः 13017126a गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् 13017126c मन्थानो बहुलो बाहुः सकलः सर्वलोचनः 13017127a तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः 13017127c छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् 13017128a मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः 13017128c हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् 13017129a सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः 13017129c सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् 13017130a पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः 13017130c ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् 13017131a पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः 13017131c गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः 13017132a अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः 13017132c ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः 13017133a चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः 13017133c कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् 13017134a उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः 13017134c वरो वराहो वरदो वरेशः सुमहास्वनः 13017135a महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः 13017135c प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् 13017136a सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः 13017136c चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः 13017137a साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः 13017137c व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः 13017138a ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः 13017138c कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः 13017139a विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः 13017139c सदसद्व्यक्तमव्यक्तं पिता माता पितामहः 13017140a स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 13017140c निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः 13017141a देवासुरविनिर्माता देवासुरपरायणः 13017141c देवासुरगुरुर्देवो देवासुरनमस्कृतः 13017142a देवासुरमहामात्रो देवासुरगणाश्रयः 13017142c देवासुरगणाध्यक्षो देवासुरगणाग्रणीः 13017143a देवातिदेवो देवर्षिर्देवासुरवरप्रदः 13017143c देवासुरेश्वरो देवो देवासुरमहेश्वरः 13017144a सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसंभवः 13017144c उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः 13017145a ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः 13017145c विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः 13017146a प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः 13017146c गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः 13017147a शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः 13017147c अभिरामः सुरगणो विरामः सर्वसाधनः 13017148a ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः 13017148c स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः 13017149a सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः 13017149c व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः 13017150a विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् 13017150c यथाप्रधानं भगवानिति भक्त्या स्तुतो मया 13017151a यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः 13017151c तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् 13017152a भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः 13017152c ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः 13017153a शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः 13017153c नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना 13017154a एतद्धि परमं ब्रह्म स्वयं गीतं स्वयंभुवा 13017154c ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् 13017155a स्तूयमानो महादेवः प्रीयते चात्मनामभिः 13017155c भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् 13017156a तथैव च मनुष्येषु ये मनुष्याः प्रधानतः 13017156c आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः 13017157a जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः 13017157c स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च 13017157e जन्मकोटिसहस्रेषु नानासंसारयोनिषु 13017158a जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते 13017158c उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः 13017159a कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः 13017159c एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते 13017160a निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी 13017160c तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् 13017160e यया यान्ति परां सिद्धिं तद्भावगतचेतसः 13017161a ये सर्वभावोपगताः परत्वेनाभवन्नराः 13017161c प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् 13017162a एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् 13017162c मनुष्याणां महादेवादन्यत्रापि तपोबलात् 13017163a इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः 13017163c कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना 13017164a स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् 13017164c ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे 13017165a मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् 13017165c महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि 13017166a तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः 13017166c वैवस्वताय मनवे गौतमः प्राह माधव 13017167a नारायणाय साध्याय मनुरिष्टाय धीमते 13017167c यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः 13017168a नाचिकेताय भगवानाह वैवस्वतो यमः 13017168c मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत 13017169a मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन 13017169c तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् 13017169e स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च 13017170a न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः 13017170c पिशाचा यातुधानाश्च गुह्यका भुजगा अपि 13017171a यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः 13017171c अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् 13018001 वैशंपायन उवाच 13018001a महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः 13018001c पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः 13018002a पुरा पुत्र मया मेरौ तप्यता परमं तपः 13018002c पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः 13018003a लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन 13018003c तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि 13018004a चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा 13018004c आलम्बायन इत्येव विश्रुतः करुणात्मकः 13018005a मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः 13018005c अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् 13018006a अजराणामदुःखानां शतवर्षसहस्रिणाम् 13018006c लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज 13018007a वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत 13018007c विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति 13018007e उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत 13018008a सोऽहमीशानमनघमस्तौषं शरणं गतः 13018008c मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः 13018008e आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति 13018009a जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः 13018009c ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः 13018010a पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज 13018010c शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप 13018011a नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः 13018011c परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे 13018012a पापं न भविता तेऽद्य अजेयश्च भविष्यसि 13018012c न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि 13018013a आह मां भगवानेवं शिखण्डी शिवविग्रहः 13018013c यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः 13018014a असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् 13018014c शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम 13018014e तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः 13018015a ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा 13018015c प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः 13018016a वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः 13018016c शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके 13018016e वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया 13018017a रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते 13018017c समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम 13018017e अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते 13018018a एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः 13018018c प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः 13018018e दश वर्षसहस्राणि दशाष्टौ च शतानि च 13018019a नष्टपानीययवसे मृगैरन्यैश्च वर्जिते 13018019c अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते 13018019e भविता त्वं मृगः क्रूरो महादुःखसमन्वितः 13018020a तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः 13018020c ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः 13018021a अजरश्चामरश्चैव भविता दुःखवर्जितः 13018021c साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः 13018022a अनुग्रहानेवमेष करोति भगवान्विभुः 13018022c परं धाता विधाता च सुखदुःखे च सर्वदा 13018023a अचिन्त्य एष भगवान्कर्मणा मनसा गिरा 13018023c न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः 13018024 जैगीषव्य उवाच 13018024a ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा 13018024c यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर 13018025 गार्ग्य उवाच 13018025a चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् 13018025c सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव 13018026a तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् 13018026c आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् 13018027 पराशर उवाच 13018027a प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप 13018027c महातपा महातेजा महायोगी महायशाः 13018027e वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः 13018028a अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् 13018028c इति मत्वा हृदि मतं प्राह मां सुरसत्तमः 13018029a मयि संभवतस्तस्य फलात्कृष्णो भविष्यति 13018029c सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति 13018030a वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा 13018030c इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः 13018031a भविष्यति महेन्द्रस्य दयितः स महामुनिः 13018031c अजरश्चामरश्चैव पराशर सुतस्तव 13018032a एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत 13018032c युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः 13018033 माण्डव्य उवाच 13018033a अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा 13018033c तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः 13018034a मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् 13018034c रुजा शूलकृता चैव न ते विप्र भविष्यति 13018034e आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि 13018035a पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव 13018035c त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु 13018036a तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि 13018036c स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् 13018037a एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः 13018037c महेश्वरो महाराज कृत्तिवासा महाद्युतिः 13018037e सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत 13018038 गालव उवाच 13018038a विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः 13018038c अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् 13018039a कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् 13018039c न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ 13018040a श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने 13018040c नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् 13018041a पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः 13018041c भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये 13018042a अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर 13018042c अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् 13018043a उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् 13018043c तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः 13018044a प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव 13018044c दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः 13018045 वैशंपायन उवाच 13018045a एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः 13018045c प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः 13018046a ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः 13018046c युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः 13018047a आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे 13018047c धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः 13018048a ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः 13018048c सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित् 13018049a स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च 13018049c यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त 13018050a अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः 13018050c गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः 13018051a आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः 13018051c शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च 13018052a चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ 13018052c सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च 13018053a सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च 13018053c सांख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे 13018054a तत्संभूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः 13018054c आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरातनीं तस्य देवस्य सृष्टिम् 13018055a विचिन्वन्तं मनसा तोष्टुवीमि; किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि 13018055c ददातु देवः स वरानिहेष्टा;नभिष्टुतो नः प्रभुरव्ययः सदा 13018056a इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत 13018056c अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत् 13018057a वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम् 13018057c वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च 13018058a स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः 13018058c सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् 13018059a यावन्त्यस्य शरीरेषु रोमकूपाणि भारत 13018059c तावद्वर्षसहस्राणि स्वर्गे वसति मानवः 13019001 युधिष्ठिर उवाच 13019001a यदिदं सहधर्मेति प्रोच्यते भरतर्षभ 13019001c पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् 13019002a आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः 13019002c यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः 13019003a संदेहः सुमहानेष विरुद्ध इति मे मतिः 13019003c इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु 13019004a स्वर्गे मृतानां भवति सहधर्मः पितामह 13019004c पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद 13019005a नानाकर्मफलोपेता नानाकर्मनिवासिनः 13019005c नानानिरयनिष्ठान्ता मानुषा बहवो यदा 13019006a अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति 13019006c यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः 13019007a अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते 13019007c धर्मोऽयं पौर्विकी संज्ञा उपचारः क्रियाविधिः 13019008a गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् 13019008c निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः 13019009a यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् 13019009c निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे 13019010 भीष्म उवाच 13019010a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13019010c अष्टावक्रस्य संवादं दिशया सह भारत 13019011a निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः 13019011c ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः 13019012a सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि 13019012c गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् 13019013a सा तस्य दृष्ट्वैव मनो जहार शुभलोचना 13019013c वनराजी यथा चित्रा वसन्ते कुसुमाचिता 13019014a ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे 13019014c गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः 13019015 अष्टावक्र उवाच 13019015a किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् 13019015c तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् 13019016 वदान्य उवाच 13019016a धनदं समतिक्रम्य हिमवन्तं तथैव च 13019016c रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् 13019017a प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः 13019017c दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा 13019018a पाणितालसतालैश्च शम्यातालैः समैस्तथा 13019018c संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते 13019019a इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम 13019019c नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः 13019020a तत्र देव्या तपस्तप्तं शंकरार्थं सुदुश्चरम् 13019020c अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः 13019021a तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा 13019021c ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः 13019022a सर्वे देवमुपासन्ते रूपिणः किल तत्र ह 13019022c तदतिक्रम्य भवनं त्वया यातव्यमेव हि 13019023a ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् 13019023c रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् 13019024a तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् 13019024c द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः 13019025a तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि 13019025c यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् 13020001 अष्टावक्र उवाच 13020001a तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् 13020001c यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् 13020002 भीष्म उवाच 13020002a ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् 13020002c हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् 13020003a स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् 13020003c अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् 13020004a अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः 13020004c तत्र वासाय शयने कौश्ये सुखमुवास ह 13020005a ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः 13020005c स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः 13020006a रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् 13020006c विश्रान्तश्च समुत्थाय कैलासमभितो ययौ 13020007a सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया 13020007c मन्दाकिनीं च नलिनीं धनदस्य महात्मनः 13020008a अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् 13020008c प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः 13020009a स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् 13020009c निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् 13020010a ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् 13020010c असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् 13020011a विदितो भगवानस्य कार्यमागमने च यत् 13020011c पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा 13020012a ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् 13020012c विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् 13020013a सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि 13020013c ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज 13020014a भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम 13020014c सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः 13020015a प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् 13020015c आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च 13020016a अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः 13020016c निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः 13020017a ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् 13020017c भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः 13020018a आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा 13020018c संवर्ततामित्युवाच मुनिर्मधुरया गिरा 13020019a अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा 13020019c अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः 13020020a मनोहरा सुकेशी च सुमुखी हासिनी प्रभा 13020020c विद्युता प्रशमा दान्ता विद्योता रतिरेव च 13020021a एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः 13020021c अवादयंश्च गन्धर्वा वाद्यानि विविधानि च 13020022a अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् 13020022c दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः 13020023a ततो वैश्रवणो राजा भगवन्तमुवाच ह 13020023c साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः 13020024a हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः 13020024c छन्दतो वर्ततां विप्र यथा वदति वा भवान् 13020025a अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् 13020025c सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि 13020026a अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत 13020026c अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर 13020027a प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप 13020027c तव प्रसादाद्भगवन्महर्षेश्च महात्मनः 13020027e नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव 13020028a अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः 13020028c कैलासं मन्दरं हैमं सर्वाननुचचार ह 13020029a तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् 13020029c प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् 13020029e धरणीमवतीर्याथ पूतात्मासौ तदाभवत् 13020030a स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः 13020030c समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः 13020031a ततोऽपरं वनोद्देशं रमणीयमपश्यत 13020031c सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् 13020031e रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् 13020032a तत्राश्रमपदं दिव्यं ददर्श भगवानथ 13020032c शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् 13020032e मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च 13020033a अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ 13020033c भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः 13020034a स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् 13020034c ददर्शाद्भुतसंकाशं धनदस्य गृहाद्वरम् 13020035a महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः 13020035c विमानानि च रम्याणि रत्नानि विविधानि च 13020036a मन्दारपुष्पैः संकीर्णा तथा मन्दाकिनी नदी 13020036c स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता 13020037a नानाविधैश्च भवनैर्विचित्रमणितोरणैः 13020037c मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः 13020037e मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः 13020038a ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् 13020038c ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति 13020039a अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् 13020039c अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै 13020040a अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः 13020040c नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः 13020041a यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् 13020041c नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति 13020042a ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः 13020042c अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति 13020043a स च तासां सुरूपाणां तस्यैव भवनस्य च 13020043c कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः 13020044a तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् 13020044c वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् 13020045a स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा 13020045c प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह 13020046 अष्टावक्र उवाच 13020046a सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु 13020046c सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः 13020047a ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा 13020047c निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत 13020048a अथ तां संविशन्प्राह शयने भास्वरे तदा 13020048c त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते 13020049a संलापात्तेन विप्रेण तथा सा तत्र भाषिता 13020049c द्वितीये शयने दिव्ये संविवेश महाप्रभे 13020050a अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा 13020050c व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत 13020051a स्वागतं स्वागतेनास्तु भगवांस्तामभाषत 13020051c सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ 13020052a निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा 13020052c दुःखिता प्रेक्ष्य संजल्पमकार्षीदृषिणा सह 13020053a ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः 13020053c कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् 13020054a प्रहृष्टो भव विप्रर्षे समागच्छ मया सह 13020054c उपगूह च मां विप्र कामार्ताहं भृशं त्वयि 13020055a एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् 13020055c प्रार्थितं दर्शनादेव भजमानां भजस्व माम् 13020056a सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि 13020056c प्रभुत्वं तव सर्वत्र मयि चैव न संशयः 13020057a सर्वान्कामान्विधास्यामि रमस्व सहितो मया 13020057c रमणीये वने विप्र सर्वकामफलप्रदे 13020058a त्वद्वशाहं भविष्यामि रंस्यसे च मया सह 13020058c सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः 13020059a नातः परं हि नारीणां कार्यं किंचन विद्यते 13020059c यथा पुरुषसंसर्गः परमेतद्धि नः फलम् 13020060a आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः 13020060c न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः 13020061 अष्टावक्र उवाच 13020061a परदारानहं भद्रे न गच्छेयं कथंचन 13020061c दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् 13020062a भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे 13020062c विषयेष्वनभिज्ञोऽहं धर्मार्थं किल संततिः 13020063a एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः 13020063c भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह 13020064 स्त्र्युवाच 13020064a नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज 13020064c प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः 13020065a सहस्रैका यता नारी प्राप्नोतीह कदाचन 13020065c तथा शतसहस्रेषु यदि काचित्पतिव्रता 13020066a नैता जानन्ति पितरं न कुलं न च मातरम् 13020066c न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् 13020067a लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः 13020067c दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत 13020068 भीष्म उवाच 13020068a ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत 13020068c आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे 13020069a सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः 13020069c वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि 13020070a ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर 13020070c वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः 13020071a अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयान्विताम् 13020071c चिन्तां परमिकां भेजे संतप्त इव चाभवत् 13020072a यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा 13020072c नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता 13020073a देवतेयं गृहस्यास्य शापान्नूनं विरूपिता 13020073c अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया 13020074a इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः 13020074c व्यगमत्तदहःशेषं मनसा व्याकुलेन तु 13020075a अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः 13020075c रूपं संध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव 13020076a स उवाच तदा तां स्त्रीं स्नानोदकमिहानय 13020076c उपासिष्ये ततः संध्यां वाग्यतो नियतेन्द्रियः 13021001 भीष्म उवाच 13021001a अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति 13021001c तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् 13021002a अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना 13021002c अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् 13021003a शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् 13021003c भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् 13021004a अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा 13021004c स्नापयामास शनकैस्तमृषिं सुखहस्तवत् 13021004e दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा 13021005a स तेन सुसुखोष्णेन तस्या हस्तसुखेन च 13021005c व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः 13021006a तत उत्थाय स मुनिस्तदा परमविस्मितः 13021006c पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि 13021007a तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् 13021007c अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् 13021008a सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् 13021008c तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः 13021008e व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः 13021009a अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् 13021009c तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते 13021010 अष्टावक्र उवाच 13021010a न भद्रे परदारेषु मनो मे संप्रसज्जति 13021010c उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च 13021011 भीष्म उवाच 13021011a सा तदा तेन विप्रेण तथा धृत्या निवर्तिता 13021011c स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते 13021012 अष्टावक्र उवाच 13021012a नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः 13021012c प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति 13021013 स्त्र्युवाच 13021013a बाधते मैथुनं विप्र मम भक्तिं च पश्य वै 13021013c अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि 13021014 अष्टावक्र उवाच 13021014a हरन्ति दोषजातानि नरं जातं यथेच्छकम् 13021014c प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज 13021015 स्त्र्युवाच 13021015a शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि 13021015c भूमौ निपतमानायाः शरणं भव मेऽनघ 13021016a यदि वा दोषजातं त्वं परदारेषु पश्यसि 13021016c आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज 13021017a न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् 13021017c स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि 13021018 अष्टावक्र उवाच 13021018a स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै 13021018c नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति 13021019a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13021019c पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति 13021020 स्त्र्युवाच 13021020a कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः 13021020c कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम 13021021 अष्टावक्र उवाच 13021021a यथा मम तथा तुभ्यं यथा तव तथा मम 13021021c जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् 13021022a आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् 13021022c दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता 13021023a किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः 13021023c कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् 13021024a यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन 13021024c न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् 13022001 युधिष्ठिर उवाच 13022001a न बिभेति कथं सा स्त्री शापस्य परमद्युतेः 13022001c कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे 13022002 भीष्म उवाच 13022002a अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् 13022002c न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया 13022003 स्त्र्युवाच 13022003a द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम 13022003c शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम 13022004a उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते 13022004c अव्युत्थानेन ते लोका जिताः सत्यपराक्रम 13022005a जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ 13022005c स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः 13022006a तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः 13022006c स त्वं येन च कार्येण संप्राप्तो भगवानिह 13022007a प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ 13022007c तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया 13022008a क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति 13022008c कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति 13022009a काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् 13022009c अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा 13022010a गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि 13022010c यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् 13022011a ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ 13022011c तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् 13022012a श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः 13022012c अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् 13022013a गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च 13022013c अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन 13022014a पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् 13022014c प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना 13022015a भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् 13022015c तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् 13022016a तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः 13022016c श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो 13022017a तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् 13022017c नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् 13022018 भीष्म उवाच 13022018a अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो 13022018c कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा 13022019a कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् 13022019c उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः 13023001 युधिष्ठिर उवाच 13023001a किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् 13023001c ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् 13023002 भीष्म उवाच 13023002a स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा 13023002c देयमाहुर्महाराज उभावेतौ तपस्विनौ 13023003 युधिष्ठिर उवाच 13023003a श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये 13023003c हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह 13023004 भीष्म उवाच 13023004a श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः 13023004c पूतो भवति सर्वत्र किं पुनस्त्वं महीपते 13023005 युधिष्ठिर उवाच 13023005a न ब्राह्मणं परीक्षेत दैवेषु सततं नरः 13023005c कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः 13023006 भीष्म उवाच 13023006a न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति 13023006c देवप्रसादादिज्यन्ते यजमाना न संशयः 13023007a ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः 13023007c मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् 13023008 युधिष्ठिर उवाच 13023008a अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत् 13023008c तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः 13023009 भीष्म उवाच 13023009a कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् 13023009c ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः 13023010a तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् 13023010c पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि 13023011 पृथिव्युवाच 13023011a यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति 13023011c तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति 13023012 काश्यप उवाच 13023012a सर्वे च वेदाः सह षड्भिरङ्गैः; सांख्यं पुराणं च कुले च जन्म 13023012c नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् 13023013 अग्निरुवाच 13023013a अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 13023013c ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति 13023014 मार्कण्डेय उवाच 13023014a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13023014c नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् 13023015 भीष्म उवाच 13023015a इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः 13023015c पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः 13023016 युधिष्ठिर उवाच 13023016a यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः 13023016c भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् 13023017 भीष्म उवाच 13023017a आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः 13023017c भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते 13023018 युधिष्ठिर उवाच 13023018a अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः 13023018c किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह 13023019 भीष्म उवाच 13023019a अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा 13023019c आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 13023020a ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् 13023020c अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो 13023021a तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः 13023021c दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः 13023022a मेदानां पुल्कसानां च तथैवान्तावसायिनाम् 13023022c कृतं कर्माकृतं चापि रागमोहेन जल्पताम् 13023023a वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे 13023023c ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् 13023024 युधिष्ठिर उवाच 13023024a किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् 13023024c किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह 13023025 भीष्म उवाच 13023025a ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् 13023025c मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् 13023026 युधिष्ठिर उवाच 13023026a कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् 13023026c कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह 13023027 भीष्म उवाच 13023027a काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् 13023027c पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् 13023028a ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् 13023028c सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः 13023029a अधिकारे यदनृतं राजगामि च पैशुनम् 13023029c गुरोश्चालीककरणं समं तद्ब्रह्महत्यया 13023030a प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च 13023030c भ्रूणहत्यासमं चैतदुभयं यो निषेवते 13023031a नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् 13023031c न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया 13023032 युधिष्ठिर उवाच 13023032a कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् 13023032c कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह 13023033 भीष्म उवाच 13023033a अक्रोधना धर्मपराः सत्यनित्या दमे रताः 13023033c तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् 13023034a अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 13023034c सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् 13023035a अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 13023035c स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् 13023036a साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः 13023036c षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः 13023037a ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् 13023037c सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः 13023038a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 13023038c तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः 13023039a गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् 13023039c द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति 13023040a तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः 13023040c किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् 13023041a निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् 13023041c दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् 13024001 युधिष्ठिर उवाच 13024001a श्राद्धकाले च दैवे च धर्मे चापि पितामह 13024001c इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः 13024002 भीष्म उवाच 13024002a दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् 13024002c मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् 13024003a मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः 13024003c कालहीनं तु यद्दानं तं भागं रक्षसां विदुः 13024004a लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् 13024004c रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः 13024005a अवघुष्टं च यद्भुक्तमव्रतेन च भारत 13024005c परामृष्टं शुना चैव तं भागं रक्षसां विदुः 13024006a केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् 13024006c रुदितं चावधूतं च तं भागं रक्षसां विदुः 13024007a निरोंकारेण यद्भुक्तं सशस्त्रेण च भारत 13024007c दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः 13024008a परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् 13024008c दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः 13024009a गर्हितं निन्दितं चैव परिविष्टं समन्युना 13024009c दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः 13024010a मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते 13024010c त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः 13024011a आज्याहुतिं विना चैव यत्किंचित्परिविष्यते 13024011c दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः 13024012a ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ 13024012c अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु 13024013a यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च 13024013c दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् 13024014a श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः 13024014c अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् 13024015a चिकित्सका देवलका वृथानियमधारिणः 13024015c सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् 13024016a गायना नर्तकाश्चैव प्लवका वादकास्तथा 13024016c कथका योधकाश्चैव राजन्नार्हन्ति केतनम् 13024017a होतारो वृषलानां च वृषलाध्यापकास्तथा 13024017c तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् 13024018a अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत 13024018c नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ 13024019a अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः 13024019c ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् 13024020a अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये 13024020c स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् 13024021a अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत 13024021c पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् 13024022a ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः 13024022c प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् 13024023a स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ 13024023c अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् 13024024a श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ 13024024c दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः 13024025a चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः 13024025c सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः 13024026a क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् 13024026c न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् 13024027a अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् 13024027c अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः 13024028a सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ 13024028c भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः 13024029a उदितास्तमितो यश्च तथैवास्तमितोदितः 13024029c अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः 13024030a अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ 13024030c ससंज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः 13024031a अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् 13024031c पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः 13024032a अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः 13024032c भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः 13024033a ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् 13024033c अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् 13024034a क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ 13024034c न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् 13024035a श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा 13024035c सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर 13024036a श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् 13024036c क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति 13024037a अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत 13024037c अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत 13024038a पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते 13024038c एतदेव निरोंकारं क्षत्रियस्य विधीयते 13024038e वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति 13024039a कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु 13024039c जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत 13024039e ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर 13024040a विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी 13024040c बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर 13024041a दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु 13024041c ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः 13024041e चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः 13024042a नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः 13024042c यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि 13024043a अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः 13024043c यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् 13024044a दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु 13024044c अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् 13024045a आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु 13024045c ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् 13024046a अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत 13024046c आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् 13024047a अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर 13024047c मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् 13024048 युधिष्ठिर उवाच 13024048a पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह 13024048c एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् 13024049 भीष्म उवाच 13024049a येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः 13024049c उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर 13024050a चारित्रनियता राजन्ये कृशाः कृशवृत्तयः 13024050c अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् 13024051a तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः 13024051c अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् 13024052a तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर 13024052c अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् 13024053a अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः 13024053c बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् 13024054a हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे 13024054c अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् 13024055a व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः 13024055c तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् 13024056a अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च 13024056c कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् 13024057a कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः 13024057c स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् 13024058a तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये 13024058c अर्थिनः किंचिदिच्छन्ति तेषु दत्तं महाफलम् 13024059a महाफलविधिर्दाने श्रुतस्ते भरतर्षभ 13024059c निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु 13024060a गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर 13024060c येऽनृतं कथयन्ति स्म ते वै निरयगामिनः 13024061a परदाराभिहर्तारः परदाराभिमर्शिनः 13024061c परदारप्रयोक्तारस्ते वै निरयगामिनः 13024062a ये परस्वापहर्तारः परस्वानां च नाशकाः 13024062c सूचकाश्च परेषां ये ते वै निरयगामिनः 13024063a प्रपाणां च सभानां च संक्रमाणां च भारत 13024063c अगाराणां च भेत्तारो नरा निरयगामिनः 13024064a अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् 13024064c वञ्चयन्ति नरा ये च ते वै निरयगामिनः 13024065a वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत 13024065c मित्रच्छेदं तथाशायास्ते वै निरयगामिनः 13024066a सूचकाः संधिभेत्तारः परवृत्त्युपजीवकाः 13024066c अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः 13024067a पाषण्डा दूषकाश्चैव समयानां च दूषकाः 13024067c ये प्रत्यवसिताश्चैव ते वै निरयगामिनः 13024068a कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् 13024068c भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः 13024069a पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा 13024069c उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः 13024070a वेदविक्रयिणश्चैव वेदानां चैव दूषकाः 13024070c वेदानां लेखकाश्चैव ते वै निरयगामिनः 13024071a चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः 13024071c विकर्मभिश्च जीवन्ति ते वै निरयगामिनः 13024072a केशविक्रयिका राजन्विषविक्रयिकाश्च ये 13024072c क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः 13024073a ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर 13024073c येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः 13024074a शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर 13024074c शल्यानां धनुषां चैव ते वै निरयगामिनः 13024075a शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ 13024075c ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः 13024076a उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ 13024076c ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः 13024077a अप्राप्तदमकाश्चैव नासानां वेधकास्तथा 13024077c बन्धकाश्च पशूनां ये ते वै निरयगामिनः 13024078a अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः 13024078c समर्थाश्चाप्यदातारस्ते वै निरयगामिनः 13024079a क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् 13024079c त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 13024080a बालानामथ वृद्धानां दासानां चैव ये नराः 13024080c अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः 13024081a एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः 13024081c भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ 13024082a सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत 13024082c हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः 13024083a दानेन तपसा चैव सत्येन च युधिष्ठिर 13024083c ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः 13024084a शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत 13024084c ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः 13024085a भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् 13024085c यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः 13024086a क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः 13024086c मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः 13024087a निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च 13024087c निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः 13024088a आश्रमाणां च कर्तारः कुलानां चैव भारत 13024088c देशानां नगराणां च ते नराः स्वर्गगामिनः 13024089a वस्त्राभरणदातारो भक्षपानान्नदास्तथा 13024089c कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः 13024090a सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये 13024090c सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः 13024091a मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः 13024091c भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः 13024092a आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत 13024092c ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः 13024093a अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः 13024093c आराधनसुखाश्चापि ते नराः स्वर्गगामिनः 13024094a सहस्रपरिवेष्टारस्तथैव च सहस्रदाः 13024094c त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः 13024095a सुवर्णस्य च दातारो गवां च भरतर्षभ 13024095c यानानां वाहनानां च ते नराः स्वर्गगामिनः 13024096a वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर 13024096c दातारो वाससां चैव ते नराः स्वर्गगामिनः 13024097a विहारावसथोद्यानकूपारामसभाप्रदाः 13024097c वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः 13024098a निवेशनानां क्षेत्राणां वसतीनां च भारत 13024098c दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः 13024099a रसानामथ बीजानां धान्यानां च युधिष्ठिर 13024099c स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः 13024100a यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः 13024100c सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः 13024101a एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत 13024101c धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ 13025001 युधिष्ठिर उवाच 13025001a इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत 13025001c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13025002 भीष्म उवाच 13025002a व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् 13025002c तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु 13025003a चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने 13025003c अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 13025004a इति पृष्टो महाराज पराशरशरीरजः 13025004c अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् 13025005a ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् 13025005c ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् 13025006a मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत 13025006c वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् 13025007a गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप 13025007c उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् 13025008a यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् 13025008c दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् 13025009a आत्मजां रूपसंपन्नां महतीं सदृशे वरे 13025009c न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् 13025010a अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु 13025010c दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् 13025011a चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा 13025011c हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् 13025012a आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे 13025012c अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् 13026001 युधिष्ठिर उवाच 13026001a तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ 13026001c श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः 13026002a पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ 13026002c वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो 13026003 भीष्म उवाच 13026003a इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते 13026003c श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् 13026004a तपोवनगतं विप्रमभिगम्य महामुनिम् 13026004c पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः 13026005a अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः 13026005c तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने 13026006a उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने 13026006c प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद 13026007 अङ्गिरा उवाच 13026007a सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् 13026007c विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् 13026008a काश्मीरमण्डले नद्यो याः पतन्ति महानदम् 13026008c ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् 13026009a पुष्करं च प्रभासं च नैमिषं सागरोदकम् 13026009c देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च 13026009e विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः 13026010a हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् 13026010c कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् 13026011a इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ 13026011c करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः 13026011e अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः 13026012a गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते 13026012c तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् 13026013a अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् 13026013c ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः 13026014a यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् 13026014c महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते 13026014e एकमासं निराहारः स्वयं पश्यति देवताः 13026015a सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् 13026015c सुधां वै लभते भोक्तुं यो नरो जायते पुनः 13026016a महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः 13026016c एकमासं निराहारः सिद्धिं मासेन स व्रजेत् 13026017a महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः 13026017c त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया 13026018a कन्याकूप उपस्पृश्य बलाकायां कृतोदकः 13026018c देवेषु कीर्तिं लभते यशसा च विराजते 13026019a देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे 13026019c अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः 13026020a महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा 13026020c पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः 13026021a वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा 13026021c निवासेऽप्सरसां दिव्ये कामचारी महीयते 13026022a कालिकाश्रममासाद्य विपाशायां कृतोदकः 13026022c ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् 13026023a आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् 13026023c तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् 13026024a महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः 13026024c त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् 13026025a देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः 13026025c देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः 13026026a कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा 13026026c आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः 13026027a चित्रकूटे जनस्थाने तथा मन्दाकिनीजले 13026027c विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति 13026028a श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च 13026028c त्रींस्त्रिरात्रान्स संधाय गन्धर्वनगरे वसेत् 13026029a रमण्यां च उपस्पृश्य तथा वै गन्धतारिके 13026029c एकमासं निराहारस्त्वन्तर्धानफलं लभेत् 13026030a कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः 13026030c एकविंशतिरात्रेण स्वर्गमारोहते नरः 13026031a मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति 13026031c विगाहति ह्यनालम्बमन्धकं वै सनातनम् 13026032a नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः 13026032c फलं पुरुषमेधस्य लभेन्मासं कृतोदकः 13026033a गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने 13026033c अश्वमेधमवाप्नोति तत्र मासं कृतोदकः 13026034a गङ्गायमुनयोस्तीर्थे तथा कालंजरे गिरौ 13026034c षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते 13026035a दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः 13026035c समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ 13026036a माघमासं प्रयागे तु नियतः संशितव्रतः 13026036c स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् 13026037a मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः 13026037c वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः 13026038a तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः 13026038c एकमासं निराहारः सोमलोकमवाप्नुयात् 13026039a कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः 13026039c द्वादशाहं निराहारो नरमेधफलं लभेत् 13026040a मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् 13026040c तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति 13026041a कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् 13026041c अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः 13026041e देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते 13026042a पुरापवर्तनं नन्दां महानन्दां च सेव्य वै 13026042c नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः 13026043a उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः 13026043c लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् 13026044a रामह्रद उपस्पृश्य विशालायां कृतोदकः 13026044c द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते 13026045a महाह्रद उपस्पृश्य शुद्धेन मनसा नरः 13026045c एकमासं निराहारो जमदग्निगतिं लभेत् 13026046a विन्ध्ये संताप्य चात्मानं सत्यसंधस्त्वहिंसकः 13026046c षण्मासं पदमास्थाय मासेनैकेन शुध्यति 13026047a नर्मदायामुपस्पृश्य तथा सूर्पारकोदके 13026047c एकपक्षं निराहारो राजपुत्रो विधीयते 13026048a जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः 13026048c अहोरात्रेण चैकेन सिद्धिं समधिगच्छति 13026049a कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् 13026049c शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश 13026050a वैवस्वतस्य सदनं न स गच्छेत्कदाचन 13026050c यस्य कन्याह्रदे वासो देवलोकं स गच्छति 13026051a प्रभासे त्वेकरात्रेण अमावास्यां समाहितः 13026051c सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः 13026052a उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे 13026052c पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते 13026053a कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् 13026053c अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः 13026054a पिण्डारक उपस्पृश्य एकरात्रोषितो नरः 13026054c अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः 13026055a तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् 13026055c पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः 13026056a मैनाके पर्वते स्नात्वा तथा संध्यामुपास्य च 13026056c कामं जित्वा च वै मासं सर्वमेधफलं लभेत् 13026057a विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः 13026057c आकरः सर्वरत्नानां सिद्धचारणसेवितः 13026058a शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके 13026058c अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः 13026059a अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा 13026059c ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् 13026060a कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् 13026060c न तेन किंचिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् 13026061a यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च 13026061c मनसा तानि गम्यानि सर्वतीर्थसमासतः 13026062a इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् 13026062c इदं रहस्यं देवानामाप्लाव्यानां च पावनम् 13026063a इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा 13026063c सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा 13026064a दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः 13026064c गुरुभिः समनुज्ञातः काश्यपेन च धीमता 13026065a महर्षीणामिदं जप्यं पावनानां तथोत्तमम् 13026065c जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् 13026066a इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् 13026066c उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् 13027001 वैशंपायन उवाच 13027001a बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् 13027001c पराक्रमे शक्रसममादित्यसमतेजसम् 13027002a गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् 13027002c भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः 13027003a शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् 13027003c आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः 13027004a अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः 13027004c अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् 13027005a विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः 13027005c उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः 13027006a दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः 13027006c भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा 13027007a स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः 13027007c नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः 13027008a नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः 13027008c जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः 13027008e समागता महात्मानो भीष्मं द्रष्टुं महर्षयः 13027009a तेषां महात्मनां पूजामागतानां युधिष्ठिरः 13027009c भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः 13027010a ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः 13027010c भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः 13027011a भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् 13027011c मेने दिविस्थमात्मानं तुष्ट्या परमया युतः 13027012a ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः 13027012c अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् 13027013a तानृषीन्सुमहाभागानन्तर्धानगतानपि 13027013c पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः 13027014a प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः 13027014c उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः 13027015a प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः 13027015c प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः 13027016a महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते 13027016c पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः 13027017a कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः 13027017c धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः 13027018a के देशाः के जनपदा आश्रमाः के च पर्वताः 13027018c प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह 13027019 भीष्म उवाच 13027019a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13027019c शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर 13027020a इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् 13027020c असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः 13027021a शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः 13027021c कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा 13027022a तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः 13027022c चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः 13027023a शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः 13027023c प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि 13027024 शिलवृत्तिरुवाच 13027024a के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः 13027024c प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् 13027025 सिद्ध उवाच 13027025a ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः 13027025c येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा 13027026a तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः 13027026c गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् 13027027a स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् 13027027c न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते 13027028a सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् 13027028c गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः 13027029a पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः 13027029c पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् 13027030a स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् 13027030c व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि 13027031a यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति 13027031c तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते 13027032a अपहत्य तमस्तीव्रं यथा भात्युदये रविः 13027032c तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः 13027033a विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा 13027033c तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः 13027034a वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः 13027034c क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् 13027035a यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना 13027035c तथा देशा दिशश्चैव गङ्गाहीना न संशयः 13027036a त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते 13027036c तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः 13027037a यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् 13027037c गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते 13027038a इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् 13027038c पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ 13027039a तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् 13027039c मासमेकं तु गङ्गायां समौ स्यातां न वा समौ 13027040a लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् 13027040c तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते 13027041a अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम 13027041c तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते 13027042a भूतानामिह सर्वेषां दुःखोपहतचेतसाम् 13027042c गतिमन्वेषमाणानां न गङ्गासदृशी गतिः 13027043a भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 13027043c गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते 13027044a अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये 13027044c तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च 13027045a प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् 13027045c पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् 13027046a ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः 13027046c येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः 13027047a विनयाचारहीनाश्च अशिवाश्च नराधमाः 13027047c ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः 13027048a यथा सुराणाममृतं पितॄणां च यथा स्वधा 13027048c सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् 13027049a उपासते यथा बाला मातरं क्षुधयार्दिताः 13027049c श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः 13027050a स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते 13027050c स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते 13027051a यथोपजीविनां धेनुर्देवादीनां धरा स्मृता 13027051c तथोपजीविनां गङ्गा सर्वप्राणभृतामिह 13027052a देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः 13027052c अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः 13027053a जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः 13027053c मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् 13027054a जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः 13027054c बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् 13027055a गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा 13027055c स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति 13027056a व्यसनैरभितप्तस्य नरस्य विनशिष्यतः 13027056c गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति 13027057a हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् 13027057c पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् 13027058a हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् 13027058c गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः 13027059a न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः 13027059c अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् 13027060a वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह 13027060c वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः 13027061a सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे 13027061c पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च 13027062a श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता 13027062c गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः 13027063a दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् 13027063c पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः 13027064a य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च 13027064c स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा 13027065a न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् 13027065c प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् 13027066a जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च 13027066c समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् 13027067a भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् 13027067c देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः 13027068a वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः 13027068c विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् 13027069a उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः 13027069c चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् 13027070a न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः 13027070c आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह 13027071a गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः 13027071c दधार शिरसा देवीं तामेव दिवि सेवते 13027072a अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः 13027072c यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् 13027073a दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः 13027073c देवेशश्च यथा नॄणां गङ्गेह सरितां तथा 13027074a मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा 13027074c न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् 13027075a नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः 13027075c तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् 13027076a पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति 13027076c गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति 13027077a तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः 13027077c गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् 13027078a भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि 13027078c गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् 13027079a त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः 13027079c यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् 13027080a वाय्वीरिताभिः सुमहास्वनाभि;र्द्रुताभिरत्यर्थसमुच्छ्रिताभिः 13027080c गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति 13027081a पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् 13027081c गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम् 13027082a अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा 13027082c देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति 13027083a ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् 13027083c त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः 13027084a यो वत्स्यति द्रक्ष्यति वापि मर्त्य;स्तस्मै प्रयच्छन्ति सुखानि देवाः 13027084c तद्भाविताः स्पर्शने दर्शने य;स्तस्मै देवा गतिमिष्टां दिशन्ति 13027085a दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् 13027085c विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते 13027086a ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे 13027086c तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति 13027087a इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा 13027087c प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया 13027088a सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा 13027088c भव्या पृथिव्या भाविनी भाति राज;न्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् 13027089a मधुप्रवाहा घृतरागोद्धृताभि;र्महोर्मिभिः शोभिता ब्राह्मणैश्च 13027089c दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला 13027090a योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा 13027090c विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः 13027091a क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव 13027091c तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् 13027092a ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके 13027092c सर्वात्मना जाह्नवीं ये प्रपन्ना;स्ते ब्रह्मणः सदनं संप्रयाताः 13027093a लोकानिमान्नयति या जननीव पुत्रा;न्सर्वात्मना सर्वगुणोपपन्ना 13027093c स्वस्थानमिष्टमिह ब्राह्ममभीप्समानै;र्गङ्गा सदैवात्मवशैरुपास्या 13027094a उस्रां जुष्टां मिषतीं विश्वतोया;मिरां वज्रीं रेवतीं भूधराणाम् 13027094c शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः 13027095a प्रसाद्य देवान्सविभून्समस्ता;न्भगीरथस्तपसोग्रेण गङ्गाम् 13027095c गामानयत्तामभिगम्य शश्व;न्पुमान्भयं नेह नामुत्र विद्यात् 13027096a उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या 13027096c शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव 13027097a मेरोः समुद्रस्य च सर्वरत्नैः; संख्योपलानामुदकस्य वापि 13027097c वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव 13027098a तस्मादिमान्परया श्रद्धयोक्ता;न्गुणान्सर्वाञ्जाह्नवीजांस्तथैव 13027098c भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः 13027099a लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् 13027099c गङ्गाकृतानचिरेणैव लोका;न्यथेष्टमिष्टान्विचरिष्यसि त्वम् 13027100a तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः 13027100c अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् 13027101 भीष्म उवाच 13027101a इति परममतिर्गुणाननेका;ञ्शिलरतये त्रिपथानुयोगरूपान् 13027101c बहुविधमनुशास्य तथ्यरूपा;न्गगनतलं द्युतिमान्विवेश सिद्धः 13027102a शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा 13027102c गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् 13027103a तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः 13027103c गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् 13027104 वैशंपायन उवाच 13027104a श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् 13027104c युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह 13027105a इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा 13027105c गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः 13028001 युधिष्ठिर उवाच 13028001a प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् 13028001c गुणैः समुदितः सर्वैर्वयसा च समन्वितः 13028001e तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर 13028002a क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम 13028002c ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि 13028003a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 13028003c ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह 13028004 भीष्म उवाच 13028004a ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः 13028004c परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर 13028005a बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः 13028005c पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते 13028006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13028006c मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर 13028007a द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः 13028007c मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः 13028008a स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप 13028008c प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना 13028009a स बालं गर्दभं राजन्वहन्तं मातुरन्तिके 13028009c निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः 13028010a तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी 13028010c उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति 13028011a ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते 13028011c आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति 13028012a अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् 13028012c स्वयोनिं मानयत्येष भावो भावं निगच्छति 13028013a एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः 13028013c अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत 13028014a ब्रूहि रासभि कल्याणि माता मे येन दूषिता 13028014c कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे 13028015a केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् 13028015c तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः 13028016 गर्दभ्युवाच 13028016a ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह 13028016c जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् 13028017a एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति 13028017c तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् 13028018a मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि 13028018c कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव 13028019 मतङ्ग उवाच 13028019a अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् 13028019c कुशलं तु कुतस्तस्य यस्येयं जननी पितः 13028020a ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् 13028020c अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् 13028021a एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः 13028021c ततो गत्वा महारण्यमतप्यत महत्तपः 13028022a ततः संतापयामास विबुधांस्तपसान्वितः 13028022c मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि 13028023a तं तथा तपसा युक्तमुवाच हरिवाहनः 13028023c मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् 13028024a वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि 13028024c यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् 13028025 मतङ्ग उवाच 13028025a ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः 13028025c गच्छेयं तदवाप्येह वर एष वृतो मया 13028026a एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः 13028026c ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः 13028027a श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते 13028027c तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि 13028028a देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् 13028028c चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन 13029001 भीष्म उवाच 13029001a एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः 13029001c अतिष्ठदेकपादेन वर्षाणां शतमच्युत 13029002a तमुवाच ततः शक्रः पुनरेव महायशाः 13029002c मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् 13029003a मा कृथाः साहसं पुत्र नैष धर्मपथस्तव 13029003c अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि 13029004a मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् 13029004c चिकीर्षस्येव तपसा सर्वथा न भविष्यसि 13029005a तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति 13029005c स जायते पुल्कसो वा चण्डालो वा कदाचन 13029006a पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते 13029006c स तस्यामेव सुचिरं मतङ्ग परिवर्तते 13029007a ततो दशगुणे काले लभते शूद्रतामपि 13029007c शूद्रयोनावपि ततो बहुशः परिवर्तते 13029008a ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि 13029008c वैश्यतायां चिरं कालं तत्रैव परिवर्तते 13029009a ततः षष्टिगुणे काले राजन्यो नाम जायते 13029009c राजन्यत्वे चिरं कालं तत्रैव परिवर्तते 13029010a ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् 13029010c ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते 13029011a ततस्तु द्विशते काले लभते काण्डपृष्ठताम् 13029011c काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते 13029012a ततस्तु त्रिशते काले लभते द्विजतामपि 13029012c तां च प्राप्य चिरं कालं तत्रैव परिवर्तते 13029013a ततश्चतुःशते काले श्रोत्रियो नाम जायते 13029013c श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते 13029014a तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक 13029014c अतिमानातिवादौ तमाविशन्ति द्विजाधमम् 13029015a तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् 13029015c अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते 13029016a मतङ्ग संप्रधार्यैतद्यदहं त्वामचूचुदम् 13029016c वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् 13030001 भीष्म उवाच 13030001a एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः 13030001c अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः 13030002a सुदुष्करं वहन्योगं कृशो धमनिसंततः 13030002c त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् 13030003a तं पतन्तमभिद्रुत्य परिजग्राह वासवः 13030003c वराणामीश्वरो दाता सर्वभूतहिते रतः 13030004 शक्र उवाच 13030004a मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः 13030004c पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् 13030005a ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः 13030005c ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा 13030006a ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते 13030006c ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति 13030007a बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः 13030007c पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति 13030008 मतङ्ग उवाच 13030008a किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् 13030008c तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते 13030009a ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो 13030009c सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः 13030010a यः पापेभ्यः पापतमस्तेषामधम एव सः 13030010c ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् 13030011a दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् 13030011c दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः 13030012a एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः 13030012c अहिंसादमदानस्थः कथं नार्हामि विप्रताम् 13030013a यथाकामविहारी स्यां कामरूपी विहंगमः 13030013c ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् 13030013e यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर 13030014 इन्द्र उवाच 13030014a छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि 13030015 भीष्म उवाच 13030015a एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत 13030015c प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् 13030016a एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत 13030016c तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा 13031001 युधिष्ठिर उवाच 13031001a श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह 13031001c सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर 13031002a विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत 13031002c श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम 13031003a वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः 13031003c तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो 13031004a स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम 13031004c वरेण तपसा वापि तन्मे व्याख्यातुमर्हति 13031005 भीष्म उवाच 13031005a शृणु राजन्यथा राजा वीतहव्यो महायशाः 13031005c क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् 13031006a मनोर्महात्मनस्तात प्रजाधर्मेण शासतः 13031006c बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः 13031007a तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः 13031007c हेहयस्तालजङ्घश्च वत्सेषु जयतां वर 13031008a हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत 13031008c शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् 13031009a तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् 13031009c धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः 13031010a काशिष्वपि नृपो राजन्दिवोदासपितामहः 13031010c हर्यश्व इति विख्यातो बभूव जयतां वरः 13031011a स वीतहव्यदायादैरागत्य पुरुषर्षभ 13031011c गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः 13031012a तं तु हत्वा नरवरं हेहयास्ते महारथाः 13031012c प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः 13031013a हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत 13031013c सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः 13031014a स पालयन्नेव महीं धर्मात्मा काशिनन्दनः 13031014c तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः 13031015a तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् 13031015c सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत 13031016a दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् 13031016c वाराणसीं महातेजा निर्ममे शक्रशासनात् 13031017a विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम् 13031017c नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् 13031018a गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम 13031018c गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् 13031019a तत्र तं राजशार्दूलं निवसन्तं महीपतिम् 13031019c आगत्य हेहया भूयः पर्यधावन्त भारत 13031020a स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः 13031020c देवासुरसमं घोरं दिवोदासो महाद्युतिः 13031021a स तु युद्धे महाराज दिनानां दशतीर्दश 13031021c हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् 13031022a हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः 13031022c दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् 13031023a स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः 13031023c जगाम शरणं राजा कृताञ्जलिररिंदम 13031024 राजोवाच 13031024a भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः 13031024c अहमेकः परिद्यूनो भवन्तं शरणं गतः 13031025a शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि 13031025c निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः 13031026a तमुवाच महाभागो भरद्वाजः प्रतापवान् 13031026c न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् 13031027a अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते 13031027c वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि 13031028a तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् 13031028c अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः 13031029a स जातमात्रो ववृधे समाः सद्यस्त्रयोदश 13031029c वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत 13031030a योगेन च समाविष्टो भरद्वाजेन धीमता 13031030c तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत् 13031031a ततः स कवची धन्वी बाणी दीप्त इवानलः 13031031c प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः 13031032a तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ 13031032c मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः 13031033a ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् 13031033c कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत 13031034a ततस्तु वैतहव्यानां वधाय स महीपतिः 13031034c पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् 13031035a सरथः स तु संतीर्य गङ्गामाशु पराक्रमी 13031035c प्रययौ वीतहव्यानां पुरीं परपुरंजयः 13031036a वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् 13031036c निर्ययुर्नगराकारै रथैः पररथारुजैः 13031037a निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः 13031037c प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः 13031038a अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर 13031038c अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः 13031039a अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः 13031039c जघान तान्महातेजा वज्रानलसमैः शरैः 13031040a कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः 13031040c अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः 13031041a हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ 13031041c प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत 13031042a ययौ भृगुं च शरणं वीतहव्यो नराधिपः 13031042c अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा 13031042e ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा 13031043a अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः 13031043c स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् 13031044a भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः 13031044c द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति 13031045a स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा 13031045c पूजयामास च ततो विधिना परमेण ह 13031046a उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् 13031046c स चोवाच नृपस्तस्मै यदागमनकारणम् 13031047a अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् 13031047c अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः 13031047e उत्सादितश्च विषयः काशीनां रत्नसंचयः 13031048a एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया 13031048c अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः 13031049a तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः 13031049c नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः 13031050a एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः 13031050c पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् 13031051a एवमप्यस्मि भगवन्कृतकृत्यो न संशयः 13031051c यदेष राजा वीर्येण स्वजातिं त्याजितो मया 13031052a अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् 13031052c त्याजितो हि मया जातिमेष राजा भृगूद्वह 13031053a ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः 13031053c यथागतं महाराज मुक्त्वा विषमिवोरगः 13031054a भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः 13031054c वीतहव्यो महाराज ब्रह्मवादित्वमेव च 13031055a तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः 13031055c शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् 13031056a ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते 13031056c यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते 13031057a स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् 13031057c पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः 13031058a वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः 13031058c विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः 13031059a वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः 13031059c श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः 13031060a तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः 13031060c प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः 13031061a तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः 13031061c घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत 13031062a प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत 13031062c शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः 13031063a एवं विप्रत्वमगमद्वीतहव्यो नराधिपः 13031063c भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ 13031064a तथैव कथितो वंशो मया गार्त्समदस्तव 13031064c विस्तरेण महाराज किमन्यदनुपृच्छसि 13032001 युधिष्ठिर उवाच 13032001a के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ 13032001c विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् 13032002 भीष्म उवाच 13032002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13032002c नारदस्य च संवादं वासुदेवस्य चोभयोः 13032003a नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् 13032003c केशवः परिपप्रच्छ भगवन्कान्नमस्यसि 13032004a बहुमानः परः केषु भवतो यान्नमस्यसि 13032004c शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम 13032005 नारद उवाच 13032005a शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन 13032005c त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति 13032006a वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् 13032006c स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च 13032007a वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् 13032007c सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो 13032008a तपोधनान्वेदविदो नित्यं वेदपरायणान् 13032008c महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम् 13032009a अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः 13032009c संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो 13032010a सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः 13032010c सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव 13032011a ये ते तपसि वर्तन्ते वने मूलफलाशनाः 13032011c असंचयाः क्रियावन्तस्तान्नमस्यामि यादव 13032012a ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः 13032012c भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव 13032013a ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः 13032013c याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् 13032014a प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः 13032014c आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् 13032015a गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः 13032015c शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव 13032016a सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसंगराः 13032016c वोढारो हव्यकव्यानां तान्नमस्यामि यादव 13032017a भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः 13032017c निःसुखा निर्धना ये च तान्नमस्यामि यादव 13032018a निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः 13032018c अहिंसानिरता ये च ये च सत्यव्रता नराः 13032018e दान्ताः शमपराश्चैव तान्नमस्यामि केशव 13032019a देवतातिथिपूजायां प्रसक्ता गृहमेधिनः 13032019c कपोतवृत्तयो नित्यं तान्नमस्यामि यादव 13032020a येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते 13032020c शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा 13032021a ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः 13032021c अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव 13032022a अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा 13032022c व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव 13032023a अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च 13032023c सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् 13032024a नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् 13032024c लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् 13032025a तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा 13032025c पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ 13032026a अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः 13032026c त एते मान्यमाना वै प्रदास्यन्ति सुखं तव 13032027a ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च 13032027c नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते 13032028a नित्यं शमपरा ये च तथा ये चानसूयकाः 13032028c नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते 13032029a सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः 13032029c श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते 13032030a तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् 13032030c भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते 13032031a अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये 13032031c प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते 13032032a मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा 13032032c यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः 13032033a तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् 13032033c सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि 13033001 युधिष्ठिर उवाच 13033001a किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह 13033001c किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते 13033002 भीष्म उवाच 13033002a एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत 13033002c ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता 13033002e श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् 13033003a पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् 13033003c सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् 13033004a एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् 13033004c यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् 13033005a ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् 13033005c तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते 13033006a ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा 13033006c तेष्वेव यात्रा लोकस्य भूतानामिव वासवे 13033007a अभिचारैरुपायैश्च दहेयुरपि तेजसा 13033007c निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः 13033008a नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः 13033008c कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव 13033009a विद्यन्तेषां साहसिका गुणास्तेषामतीव हि 13033009c कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे 13033010a प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे 13033010c सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः 13033011a कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः 13033011c चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः 13033012a सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च 13033012c विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ 13033013a नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् 13033013c धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् 13033014a पितॄणां देवतानां च मनुष्योरगरक्षसाम् 13033014c पुरोहिता महाभागा ब्राह्मणा वै नराधिप 13033015a नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः 13033015c नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः 13033016a अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् 13033016c यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् 13033017a परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः 13033017c निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः 13033017e परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः 13033018a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13033018c ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः 13033019a शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः 13033019c वृषलत्वं परिगता ब्राह्मणानामदर्शनात् 13033020a द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः 13033020c कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः 13033021a वृषलत्वं परिगता ब्राह्मणानामदर्शनात् 13033021c श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर 13033022a यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् 13033022c ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः 13033023a परिवादो द्विजातीनां न श्रोतव्यः कथंचन 13033023c आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा 13033024a न स जातो जनिष्यो वा पृथिव्यामिह कश्चन 13033024c यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् 13033025a दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी 13033025c दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि 13034001 भीष्म उवाच 13034001a ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत् 13034001c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13034002a एते भोगैरलंकारैरन्यैश्चैव किमिच्छकैः 13034002c सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः 13034002e अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् 13034003a जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः 13034003c महारथश्च राजन्य एष्टव्यः शत्रुतापनः 13034004a ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् 13034004c वासयेत गृहे राजन्न तस्मात्परमस्ति वै 13034005a ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः 13034005c पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् 13034006a आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः 13034006c सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते 13034007a न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते 13034007c देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः 13034008a ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा 13034008c तथैव देवता राजन्नात्र कार्या विचारणा 13034009a तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः 13034009c न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् 13034010a येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः 13034010c तेन तेनैव प्रीयन्ते पितरो देवतास्तथा 13034011a ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः 13034011c यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति 13034012a वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च 13034012c आगतानागते चोभे ब्राह्मणो द्विपदां वरः 13034012e ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया 13034013a ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् 13034013c न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् 13034014a ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः 13034014c कृतात्मानो महात्मानस्ते न यान्ति पराभवम् 13034015a क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13034015c ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च 13034016a भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् 13034016c भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ 13034017a चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः 13034017c प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् 13034018a यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा 13034018c सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु 13034019a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13034019c संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ 13034020 वासुदेव उवाच 13034020a मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे 13034020c केन स्वित्कर्मणा पापं व्यपोहति नरो गृही 13034021 पृथिव्युवाच 13034021a ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् 13034021c ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति 13034022a अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते 13034022c अपरेषां परेषां च परेभ्यश्चैव ये परे 13034023a ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 13034023c अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् 13034024a यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति 13034024c तथा दुश्चरितं कर्म पराभावाय कल्पते 13034025a पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् 13034025c तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् 13034026a तेषामेव प्रभावेन सहस्रनयनो ह्यसौ 13034026c शतक्रतुः समभवत्पश्य माधव यादृशम् 13034027a इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन 13034027c ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् 13034028a इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः 13034028c साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् 13034029a एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् 13034029c सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे 13035001 भीष्म उवाच 13035001a जन्मनैव महाभागो ब्राह्मणो नाम जायते 13035001c नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् 13035002a सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः 13035002c गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः 13035003a सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः 13035003c गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः 13035004a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 13035004c सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् 13035005a न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि 13035005c गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् 13035006a स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति 13035006c प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ 13035007a न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता 13035007c शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते 13035008a श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी 13035008c स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ 13035009a हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः 13035009c अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः 13035010a श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया 13035010c दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ 13035011a यच्चैव मानुषे लोके यच्च देवेषु किंचन 13035011c सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च 13035012a इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ 13035012c विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता 13035013a भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः 13035013c दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः 13035014a सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे 13035014c वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे 13035015a कर्पासमृदवः केचित्तथान्ये मकरस्पृशः 13035015c विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे 13035016a सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे 13035016c विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर 13035017a मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा 13035017c शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः 13035018a किराता यवनाश्चैव तास्ताः क्षत्रियजातयः 13035018c वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् 13035019a ब्राह्मणानां परिभवादसुराः सलिलेशयाः 13035019c ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः 13035020a अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः 13035020c अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि 13035021a न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा 13035021c ब्राह्मणा हि महात्मानो देवानामपि देवताः 13035022a तान्पूजयस्व सततं दानेन परिचर्यया 13035022c यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् 13035023a प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ 13035023c प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ 13036001 भीष्म उवाच 13036001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13036001c शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर 13036002a शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः 13036002c विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् 13036003a केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि 13036003c श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः 13036004 शम्बर उवाच 13036004a नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् 13036004c शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् 13036005a श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् 13036005c अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् 13036006a ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 13036006c प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि 13036007a ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् 13036007c समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः 13036008a यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया 13036008c समाधिमात्मनो नित्यमनुलोममचिन्तयन् 13036009a सोऽहं वागग्रसृष्टानां रसानामवलेहकः 13036009c स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः 13036010a एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् 13036010c यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते 13036011a एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा 13036011c युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत 13036012a दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् 13036012c पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् 13036013 सोम उवाच 13036013a ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा 13036013c भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः 13036014a प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् 13036014c निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः 13036015a अपि चेज्जातिसंपन्नः सर्वान्वेदान्पितुर्गृहे 13036015c श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः 13036016a भूमिरेतौ निगिरति सर्पो बिलशयानिव 13036016c राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् 13036017a अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः 13036017c गर्भेण दुष्यते कन्या गृहवासेन च द्विजः 13036018a इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् 13036018c ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् 13036019 भीष्म उवाच 13036019a श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् 13036019c द्विजान्संपूजयामास महेन्द्रत्वमवाप च 13037001 युधिष्ठिर उवाच 13037001a अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् 13037001c दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह 13037002 भीष्म उवाच 13037002a क्रिया भवति केषांचिदुपांशुव्रतमुत्तमम् 13037002c यो यो याचेत यत्किंचित्सर्वं दद्याम इत्युत 13037003a अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम 13037003c पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति 13037004a अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् 13037004c दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः 13037005 युधिष्ठिर उवाच 13037005a अपीडया च भृत्यानां धर्मस्याहिंसया तथा 13037005c पात्रं विद्याम तत्त्वेन यस्मै दत्तं न संतपेत् 13037006 भीष्म उवाच 13037006a ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः 13037006c सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः 13037007a अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् 13037007c तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै 13037008a अक्रोधः सत्यवचनमहिंसा दम आर्जवम् 13037008c अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः 13037009a यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत 13037009c भावतो विनिविष्टानि तत्पात्रं मानमर्हति 13037010a तथा चिरोषितं चापि संप्रत्यागतमेव च 13037010c अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति 13037011a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 13037011c सर्वत्र चानवस्थानमेतन्नाशनमात्मनः 13037012a भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः 13037012c आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् 13037013a हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः 13037013c आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि 13037014a सर्वाभिशङ्की मूढश्च बालः कटुकवागपि 13037014c बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः 13037015a यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते 13037015c एवं संभाषणार्थाय सर्वशास्त्रवधाय च 13037015e अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः 13037016a श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः 13037016c अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् 13037017a लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च 13037017c एवं नरो वर्तमानः शाश्वतीरेधते समाः 13037018a ऋणमुन्मुच्य देवानामृषीणां च तथैव च 13037018c पितॄणामथ विप्राणामतिथीनां च पञ्चमम् 13037019a पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा 13037019c एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते 13038001 युधिष्ठिर उवाच 13038001a स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम 13038001c स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह 13038002 भीष्म उवाच 13038002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13038002c नारदस्य च संवादं पुंश्चल्या पञ्चचूडया 13038003a लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा 13038003c ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् 13038004a तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः 13038004c संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे 13038005a एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् 13038005c विषये सति वक्ष्यामि समर्थां मन्यसे च माम् 13038006 नारद उवाच 13038006a न त्वामविषये भद्रे नियोक्ष्यामि कथंचन 13038006c स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने 13038007 भीष्म उवाच 13038007a एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा 13038007c प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः 13038008a विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः 13038008c न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे 13038009a तामुवाच स देवर्षिः सत्यं वद सुमध्यमे 13038009c मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते 13038010a इत्युक्ता सा कृतमतिरभवच्चारुहासिनी 13038010c स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे 13038011 पञ्चचूडोवाच 13038011a कुलीना रूपवत्यश्च नाथवत्यश्च योषितः 13038011c मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 13038012a न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै 13038012c स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह 13038013a समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् 13038013c पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् 13038014a असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो 13038014c पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे 13038015a स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति 13038015c ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः 13038016a अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च 13038016c मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु 13038017a नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः 13038017c विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते 13038018a न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन 13038018c न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु 13038019a यौवने वर्तमानानां मृष्टाभरणवाससाम् 13038019c नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः 13038020a याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः 13038020c अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः 13038021a पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः 13038021c स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने 13038022a यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते 13038022c अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु 13038023a अलाभात्पुरुषाणां हि भयात्परिजनस्य च 13038023c वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः 13038024a चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा 13038024c प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः 13038025a नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः 13038025c नान्तकः सर्वभूतानां न पुंसां वामलोचनाः 13038026a इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् 13038026c दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः 13038027a कामानामपि दातारं कर्तारं मानसान्त्वयोः 13038027c रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः 13038028a न कामभोगान्बहुलान्नालंकारार्थसंचयान् 13038028c तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् 13038029a अन्तकः शमनो मृत्युः पातालं वडवामुखम् 13038029c क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः 13038030a यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा 13038030c यतः पुमांसः प्रमदाश्च निर्मिता;स्तदैव दोषाः प्रमदासु नारद 13039001 युधिष्ठिर उवाच 13039001a इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः 13039001c मोहेन परमाविष्टा दैवादिष्टेन पार्थिव 13039001e स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् 13039002a अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते 13039002c कथमासां नराः सङ्गं कुर्वते कुरुनन्दन 13039002e स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः 13039003a इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् 13039003c प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि 13039004a एता हि मयमायाभिर्वञ्चयन्तीह मानवान् 13039004c न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः 13039004e गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् 13039005a शम्बरस्य च या माया या माया नमुचेरपि 13039005c बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः 13039006a हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च 13039006c अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः 13039007a उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः 13039007c स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः 13039008a अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् 13039008c इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह 13039009a स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् 13039009c बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै 13039010a संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु 13039010c अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः 13039011a कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् 13039011c तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन 13039012a यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथंचन 13039012c कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि 13040001 भीष्म उवाच 13040001a एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन 13040001c यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप 13040002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 13040002c यथा रक्षा कृता पूर्वं विपुलेन महात्मना 13040003a प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ 13040003c यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप 13040004a न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै 13040004c अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो 13040004e क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः 13040005a इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् 13040005c स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् 13040006a अथाभ्यगच्छन्देवास्ते पितामहमरिंदम 13040006c निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः 13040007a तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः 13040007c मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः 13040008a पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् 13040008c असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः 13040009a ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः 13040009c ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा 13040010a क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः 13040010c असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः 13040011a न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः 13040011c निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः 13040012a शय्यासनमलंकारमन्नपानमनार्यताम् 13040012c दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः 13040013a न तासां रक्षणं कर्तुं शक्यं पुंसा कथंचन 13040013c अपि विश्वकृता तात कुतस्तु पुरुषैरिह 13040014a वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा 13040014c न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः 13040015a इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् 13040015c यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः 13040016a ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः 13040016c तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि 13040017a तस्य रूपेण संमत्ता देवगन्धर्वदानवाः 13040017c विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः 13040018a नारीणां चरितज्ञश्च देवशर्मा महामुनिः 13040018c यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत 13040019a पुरंदरं च जानीते परस्त्रीकामचारिणम् 13040019c तस्माद्यत्नेन भार्याया रक्षणं स चकार ह 13040020a स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा 13040020c भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् 13040021a रक्षाविधानं मनसा स विचिन्त्य महातपाः 13040021c आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् 13040022a यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः 13040022c पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् 13040023a अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् 13040023c स हि रूपाणि कुरुते विविधानि भृगूद्वह 13040024a इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः 13040024c सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः 13040025a धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत 13040025c पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् 13040026a कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने 13040026c वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि 13040027a ततः स भगवांस्तस्मै विपुलाय महात्मने 13040027c आचचक्षे यथातत्त्वं मायां शक्रस्य भारत 13040028a बहुमायः स विप्रर्षे बलहा पाकशासनः 13040028c तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः 13040029a किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः 13040029c भवत्यथ मुहूर्तेन चण्डालसमदर्शनः 13040030a शिखी जटी चीरवासाः पुनर्भवति पुत्रक 13040030c बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः 13040031a गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः 13040031c विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च 13040032a प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च 13040032c ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च 13040032e प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः 13040033a शुकवायसरूपी च हंसकोकिलरूपवान् 13040033c सिंहव्याघ्रगजानां च रूपं धारयते पुनः 13040034a दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च 13040034c सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा 13040035a चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः 13040035c मक्षिकामशकादीनां वपुर्धारयतेऽपि च 13040036a न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् 13040036c अपि विश्वकृता तात येन सृष्टमिदं जगत् 13040037a पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा 13040037c वायुभूतश्च स पुनर्देवराजो भवत्युत 13040038a एवं रूपाणि सततं कुरुते पाकशासनः 13040038c तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् 13040039a यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम 13040039c क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् 13040040a एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा 13040040c देवशर्मा महाभागस्ततो भरतसत्तम 13040041a विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् 13040041c रक्षां च परमां चक्रे देवराजान्महाबलात् 13040042a किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे 13040042c मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् 13040043a नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः 13040043c उटजं वा तथा ह्यस्य नानाविधसरूपता 13040044a वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् 13040044c तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै 13040045a अथ वा पौरुषेणेयमशक्या रक्षितुं मया 13040045c बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः 13040046a सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् 13040046c गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् 13040047a यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः 13040047c शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः 13040048a न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः 13040048c मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् 13040049a अवश्यकरणीयं हि गुरोरिह हि शासनम् 13040049c यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया 13040050a योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् 13040050c निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम 13040051a यथा हि शून्यां पथिकः सभामध्यावसेत्पथि 13040051c तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् 13040052a असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः 13040052c एवमेव शरीरेऽस्या निवत्स्यामि समाहितः 13040053a इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः 13040053c तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च 13040054a इति निश्चित्य मनसा रक्षां प्रति स भार्गवः 13040054c आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव 13040055a गुरुपत्नीमुपासीनो विपुलः स महातपाः 13040055c उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् 13040056a नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः 13040056c विवेश विपुलः कायमाकाशं पवनो यथा 13040057a लक्षणं लक्षणेनैव वदनं वदनेन च 13040057c अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः 13040058a ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् 13040058c उवास रक्षणे युक्तो न च सा तमबुध्यत 13040059a यं कालं नागतो राजन्गुरुस्तस्य महात्मनः 13040059c क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत 13041001 भीष्म उवाच 13041001a ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः 13041001c इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् 13041002a रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप 13041002c दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् 13041003a स ददर्श तमासीनं विपुलस्य कलेवरम् 13041003c निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा 13041004a रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् 13041004c पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् 13041005a सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह 13041005c रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती 13041006a उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा 13041006c निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् 13041007a तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना 13041007c त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते 13041008a क्लिश्यमानमनङ्गेन त्वत्संकल्पोद्भवेन वै 13041008c तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते 13041009a तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः 13041009c गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् 13041010a न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता 13041010c वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा 13041011a आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः 13041011c निजग्राह महातेजा योगेन बलवत्प्रभो 13041011e बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः 13041012a तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः 13041012c उवाच व्रीडितो राजंस्तां योगबलमोहिताम् 13041013a एह्येहीति ततः सा तं प्रतिवक्तुमियेष च 13041013c स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् 13041014a भोः किमागमने कृत्यमिति तस्याश्च निःसृता 13041014c वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता 13041015a व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा 13041015c पुरंदरश्च संत्रस्तो बभूव विमनास्तदा 13041016a स तद्वैकृतमालक्ष्य देवराजो विशां पते 13041016c अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा 13041017a ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् 13041017c प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् 13041018a स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः 13041018c प्रावेपत सुसंत्रस्तः शापभीतस्तदा विभो 13041019a विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः 13041019c स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् 13041020a अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर 13041020c न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा 13041021a किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् 13041021c गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः 13041022a जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् 13041022c मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् 13041023a नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा 13041023c कृपायमाणस्तु न ते दग्धुमिच्छामि वासव 13041024a स च घोरतपा धीमान्गुरुर्मे पापचेतसम् 13041024c दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा 13041025a नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः 13041025c मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः 13041026a अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे 13041026c मावमंस्था न तपसामसाध्यं नाम किंचन 13041027a तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः 13041027c अकिंचिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत 13041028a मुहूर्तयाते शक्रे तु देवशर्मा महातपाः 13041028c कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् 13041029a आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् 13041029c रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् 13041030a अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः 13041030c विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः 13041031a विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया 13041031c निवेदयामास तदा विपुलः शक्रकर्म तत् 13041032a तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् 13041032c बभूव शीलवृत्ताभ्यां तपसा नियमेन च 13041033a विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः 13041033c धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह 13041034a प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् 13041034c वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः 13041034e अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः 13041035a तथैव देवशर्मापि सभार्यः स महातपाः 13041035c निर्भयो बलवृत्रघ्नाच्चचार विजने वने 13042001 भीष्म उवाच 13042001a विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः 13042001c तपोयुक्तमथात्मानममन्यत च वीर्यवान् 13042002a स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते 13042002c चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु 13042003a उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः 13042003c कर्मणा तेन कौरव्य तपसा विपुलेन च 13042004a अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन 13042004c रुच्या भगिन्या दानं वै बभूव धनधान्यवत् 13042005a एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना 13042005c बिभ्रती परमं रूपं जगामाथ विहायसा 13042006a तस्याः शरीरात्पुष्पाणि पतितानि महीतले 13042006c तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत 13042007a तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना 13042007c तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् 13042008a तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती 13042008c भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै 13042009a पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी 13042009c आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् 13042010a पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना 13042010c भगिनीं चोदयामास पुष्पार्थे चारुलोचना 13042011a सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना 13042011c भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत 13042012a ततो विपुलमानाय्य देवशर्मा महातपाः 13042012c पुष्पार्थे चोदयामास गच्छ गच्छेति भारत 13042013a विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः 13042013c स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह 13042014a यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् 13042014c अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि 13042015a ततः स तानि जग्राह दिव्यानि रुचिराणि च 13042015c प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत 13042016a संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः 13042016c ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् 13042017a स वने विजने तात ददर्श मिथुनं नृणाम् 13042017c चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् 13042018a तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् 13042018c एकस्तु न तथा राजंश्चक्रतुः कलहं ततः 13042019a त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः 13042019c नेति नेति च तौ तात परस्परमथोचतुः 13042020a तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा 13042020c मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः 13042021a आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै 13042021c विपुलस्य परे लोके या गतिः सा भवेदिति 13042022a एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् 13042022c एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः 13042023a मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः 13042023c अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै 13042024a एवं संचिन्तयन्नेव विपुलो राजसत्तम 13042024c अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः 13042025a ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः 13042025c अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा 13042026a कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै 13042026c विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् 13042027a यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् 13042027c विपुलस्य परे लोके या गतिस्तामवाप्नुयात् 13042028a एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम् 13042028c जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः 13042029a स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः 13042029c दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् 13042030a तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः 13042030c इदमासीन्मनसि च रुच्या रक्षणकारितम् 13042031a लक्षणं लक्षणेनैव वदनं वदनेन च 13042031c विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा 13042032a एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा 13042032c अमन्यत महाभाग तथा तच्च न संशयः 13042033a स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ 13042033c पूजयामास च गुरुं विधिवत्स गुरुप्रियः 13043001 भीष्म उवाच 13043001a तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् 13043001c देवशर्मा महातेजा यत्तच्छृणु नराधिप 13043002 देवशर्मोवाच 13043002a किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने 13043002c ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च 13043003 विपुल उवाच 13043003a ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो 13043003c ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि 13043004 देवशर्मोवाच 13043004a यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् 13043004c चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् 13043005a ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् 13043005c ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् 13043006a न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् 13043006c नरो रहसि पापात्मा पापकं कर्म वै द्विज 13043007a कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा 13043007c पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत 13043008a ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् 13043008c स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् 13043009a अहोरात्रं विजानाति ऋतवश्चापि नित्यशः 13043009c पुरुषे पापकं कर्म शुभं वा शुभकर्मणः 13043010a तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् 13043010c नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज 13043011a ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा 13043011c कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् 13043012a तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज 13043012c न च त्वं कृतवान्किंचिदागः प्रीतोऽस्मि तेन ते 13043013a यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम 13043013c शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा 13043014a सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः 13043014c अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा 13043015a रक्षिता सा त्वया पुत्र मम चापि निवेदिता 13043015c अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि 13043016 भीष्म उवाच 13043016a इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः 13043016c मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः 13043017a इदमाख्यातवांश्चापि ममाख्यानं महामुनिः 13043017c मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे 13043018a तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च 13043018c उभयं दृश्यते तासु सततं साध्वसाधु च 13043019a स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः 13043019c धारयन्ति महीं राजन्निमां सवनकाननाम् 13043020a असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः 13043020c विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप 13043021a एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः 13043021c अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः 13043022a एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः 13043022c नासामस्ति प्रियो नाम मैथुने संगमे नृभिः 13043023a एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ 13043023c न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन 13043024a नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर 13043024c खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि 13043025a विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन 13043025c सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते 13043026a तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः 13043026c नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः 13044001 युधिष्ठिर उवाच 13044001a यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च 13044001c पितृदेवातिथीनां च तन्मे ब्रूहि पितामह 13044002 भीष्म उवाच 13044002a अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः 13044002c कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप 13044003a शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च 13044003c अद्भिरेव प्रदातव्या कन्या गुणवते वरे 13044003e ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर 13044004a आवाह्यमावहेदेवं यो दद्यादनुकूलतः 13044004c शिष्टानां क्षत्रियाणां च धर्म एष सनातनः 13044005a आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः 13044005c अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर 13044005e गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः 13044006a धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् 13044006c असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः 13044007a हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् 13044007c प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् 13044008a पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर 13044008c पैशाच आसुरश्चैव न कर्तव्यौ कथंचन 13044009a ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ 13044009c पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः 13044010a तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु 13044010c वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् 13044011a ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु 13044011c रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः 13044012a अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः 13044012c शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते 13044013a त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् 13044013c एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् 13044014a यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ 13044014c नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा 13044015a त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती 13044015c चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् 13044016a प्रजनो हीयते तस्या रतिश्च भरतर्षभ 13044016c अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः 13044017a असपिण्डा च या मातुरसगोत्रा च या पितुः 13044017c इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् 13044018 युधिष्ठिर उवाच 13044018a शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः 13044018c बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् 13044019a पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह 13044019c तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 13044020 भीष्म उवाच 13044020a यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते 13044020c मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः 13044021a भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च 13044021c मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः 13044022a न ह्यकामेन संवादं मनुरेवं प्रशंसति 13044022c अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् 13044023a नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते 13044023c धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत 13044024a बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् 13044024c तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन 13044025a यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः 13044025c तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः 13044026a देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् 13044026c सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति 13044027 युधिष्ठिर उवाच 13044027a कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः 13044027c धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा 13044028a तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् 13044028c अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः 13044029a तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 13044029c तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् 13044030 भीष्म उवाच 13044030a न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् 13044030c न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् 13044031a अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः 13044031c अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः 13044032a तच्च तां च ददात्येव न शुल्कं विक्रयो न सः 13044032c प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः 13044033a दास्यामि भवते कन्यामिति पूर्वं नभाषितम् 13044033c ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत 13044034a तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् 13044034c कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् 13044035a नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् 13044035c तन्मूलं काममूलस्य प्रजनस्येति मे मतिः 13044036a समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः 13044036c यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु 13044037a अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् 13044037c जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् 13044037e गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् 13044038a पाणौ गृहीता तत्रैव विसृज्या इति मे पिता 13044038c अब्रवीदितरां कन्यामावहत्स तु कौरवः 13044039a अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः 13044039c अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् 13044040a ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः 13044040c आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः 13044041a ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः 13044041c पिता मम महाराज बाह्लीको वाक्यमब्रवीत् 13044042a यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा 13044042c लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् 13044043a न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् 13044043c येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा 13044044a प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः 13044044c ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः 13044045a न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा 13044045c न ह्येव भार्या क्रेतव्या न विक्रेया कथंचन 13044046a ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः 13044046c भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् 13044047a अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः 13044047c कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः 13044048a पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः 13044048c तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः 13044048e तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 13044049a तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् 13044049c यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा 13044049e कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः 13044050a देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः 13044050c तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा 13044051a लिखन्त्येव तु केषांचिदपरेषां शनैरपि 13044051c इति ये संवदन्त्यत्र त एतं निश्चयं विदुः 13044052a तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते 13044052c सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः 13044053a पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे 13044053c पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते 13044054a अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् 13044054c परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः 13045001 युधिष्ठिर उवाच 13045001a कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन 13045001c तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह 13045002 भीष्म उवाच 13045002a यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् 13045003a अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा 13045003c तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् 13045004a न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किंचन 13045005a स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत 13045005c तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः 13045006a एतत्तु नापरे चक्रुर्न परे जातु साधवः 13045006c साधूनां पुनराचारो गरीयो धर्मलक्षणम् 13045007a अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् 13045007c नप्ता विदेहराजस्य जनकस्य महात्मनः 13045008a असदाचरिते मार्गे कथं स्यादनुकीर्तनम् 13045008c अनुप्रश्नः संशयो वा सतामेतदुपालभेत् 13045009a असदेव हि धर्मस्य प्रमादो धर्म आसुरः 13045009c नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु 13045010a भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सः 13045010c रतिः साधारणो धर्म इति चाह स पार्थिवः 13045011 युधिष्ठिर उवाच 13045011a अथ केन प्रमाणेन पुंसामादीयते धनम् 13045011c पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति 13045012 भीष्म उवाच 13045012a यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा 13045012c तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् 13045013a मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः 13045013c दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् 13045014a ददाति हि स पिण्डं वै पितुर्मातामहस्य च 13045014c पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः 13045015a अन्यत्र जातया सा हि प्रजया पुत्र ईहते 13045015c दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते 13045016a दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् 13045016c विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते 13045017a असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः 13045017c आसुरादधिसंभूता धर्माद्विषमवृत्तयः 13045018a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13045018c धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु 13045019a यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति 13045019c कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति 13045020a सप्तावरे महाघोरे निरये कालसाह्वये 13045020c स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते 13045021a आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् 13045021c अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः 13045022a यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन 13045022c अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः 13045023a वश्यां कुमारीं विहितां ये च तामुपभुञ्जते 13045023c एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते 13045024a अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः 13045024c अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन 13046001 भीष्म उवाच 13046001a प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः 13046001c यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः 13046002a अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् 13046002c सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः 13046003a पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः 13046003c पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः 13046004a यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् 13046004c अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते 13046005a पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप 13046005c अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः 13046005e तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः 13046006a जामीशप्तानि गेहानि निकृत्तानीव कृत्यया 13046006c नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव 13046007a स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् 13046007c अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः 13046008a ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः 13046008c स्त्रियो माननमर्हन्ति ता मानयत मानवाः 13046009a स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः 13046009c परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः 13046010a उत्पादनमपत्यस्य जातस्य परिपालनम् 13046010c प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् 13046011a संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ 13046011c विदेहराजदुहिता चात्र श्लोकमगायत 13046012a नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् 13046012c धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत 13046013a पिता रक्षति कौमारे भर्ता रक्षति यौवने 13046013c पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति 13046014a श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता 13046014c लालिता निगृहीता च स्त्री श्रीर्भवति भारत 13047001 युधिष्ठिर उवाच 13047001a सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम 13047001c अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ 13047002a कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह 13047002c अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् 13047003a यथा नरेण कर्तव्यं यश्च धर्मः सनातनः 13047003c एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति 13047004a चतस्रो विहिता भार्या ब्राह्मणस्य पितामह 13047004c ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः 13047005a तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम 13047005c आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति 13047006a केन वा किं ततो हार्यं पितृवित्तात्पितामह 13047006c एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः 13047007 भीष्म उवाच 13047007a ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः 13047007c एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर 13047008a वैषम्यादथ वा लोभात्कामाद्वापि परंतप 13047008c ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 13047009a शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् 13047009c प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना 13047010a तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर 13047010c अतस्ते नियमं वित्ते संप्रवक्ष्यामि भारत 13047011a लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् 13047011c ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् 13047012a शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर 13047012c तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् 13047013a क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः 13047013c स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति 13047014a वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि 13047014c द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर 13047015a शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः 13047015c अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत 13047016a दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः 13047016c सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् 13047017a अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् 13047017c त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् 13047018a स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते 13047018c हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् 13047019a तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 13047019c अवश्यं हि धनं देयं शूद्रापुत्राय भारत 13047020a आनृशंस्यं परो धर्म इति तस्मै प्रदीयते 13047020c यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते 13047021a यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् 13047021c नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत 13047022a त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु 13047022c यजेत तेन द्रव्येण न वृथा साधयेद्धनम् 13047023a त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै 13047023c तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति 13047024a स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् 13047024c नापहारं स्त्रियः कुर्युः पतिवित्तात्कथंचन 13047025a स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर 13047025c ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा 13047025e सा हि पुत्रसमा राजन्विहिता कुरुनन्दन 13047026a एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ 13047026c एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् 13047027 युधिष्ठिर उवाच 13047027a शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः 13047027c केन प्रतिविशेषेण दशमोऽप्यस्य दीयते 13047028a ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः 13047028c क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि 13047029a कस्मात्ते विषमं भागं भजेरन्नृपसत्तम 13047029c यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति 13047030 भीष्म उवाच 13047030a दारा इत्युच्यते लोके नाम्नैकेन परंतप 13047030c प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् 13047031a तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् 13047031c सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी 13047032a स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् 13047032c हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे 13047033a न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति 13047033c ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर 13047034a अन्नं पानं च माल्यं च वासांस्याभरणानि च 13047034c ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी 13047035a मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन 13047035c तत्राप्येष महाराज दृष्टो धर्मः सनातनः 13047036a अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर 13047036c यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः 13047037a ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् 13047037c राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि 13047038a न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् 13047038c ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम 13047038e भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर 13047039a यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् 13047039c क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् 13047040a श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर 13047040c विहितं दृश्यते राजन्सागरान्ता च मेदिनी 13047041a क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् 13047041c राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् 13047042a ब्राह्मणा हि महाभागा देवानामपि देवताः 13047042c तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् 13047043a प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् 13047043c लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः 13047044a दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः 13047044c सर्वेषामेव वर्णानां त्राता भवति पार्थिवः 13047045a भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः 13047045c भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर 13047046 युधिष्ठिर उवाच 13047046a उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह 13047046c इतरेषां तु वर्णानां कथं विनियमो भवेत् 13047047 भीष्म उवाच 13047047a क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन 13047047c तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 13047048a एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर 13047048c अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर 13047049a क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् 13047049c युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् 13047050a वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् 13047050c सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 13047051a एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन 13047051c द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 13047052a वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ 13047052c शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः 13047053a पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ 13047053c तयोरपत्ये वक्ष्यामि विभागं च जनाधिप 13047054a वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् 13047054c पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत 13047055a सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 13047055c त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् 13047056a शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथंचन 13047056c शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् 13047057a जातानां समवर्णासु पुत्राणामविशेषतः 13047057c सर्वेषामेव वर्णानां समभागो धने स्मृतः 13047058a ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः 13047058c एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा 13047059a समवर्णासु जातानां विशेषोऽस्त्यपरो नृप 13047059c विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते 13047060a हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि 13047060c मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् 13047061a एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः 13047061c महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् 13048001 युधिष्ठिर उवाच 13048001a अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् 13048001c अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः 13048002a तेषामेतेन विधिना जातानां वर्णसंकरे 13048002c को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह 13048003 भीष्म उवाच 13048003a चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् 13048003c असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः 13048004a भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते 13048004c आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः 13048005a परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः 13048005c शुश्रूषकः स्वस्य कुलस्य स स्या;त्स्वं चारित्रं नित्यमथो न जह्यात् 13048006a सर्वानुपायानपि संप्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम् 13048006c ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् 13048007a तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते 13048007c हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः 13048008a द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते 13048008c शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते 13048009a अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः 13048009c बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् 13048010a अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् 13048010c वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् 13048011a शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् 13048011c ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः 13048011e एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो 13048012a बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः 13048012c शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् 13048013a शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः 13048013c ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः 13048014a एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु 13048014c मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु 13048015a यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते 13048015c आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः 13048016a ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु 13048016c परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् 13048017a यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते 13048017c एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते 13048018a प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः 13048018c हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते 13048019a अगम्यागमनाच्चैव वर्तते वर्णसंकरः 13048019c व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च 13048019e प्रसाधनोपचारज्ञमदासं दासजीवनम् 13048020a अतश्चायोगवं सूते वागुरावनजीवनम् 13048020c मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् 13048021a निषादो मुद्गरं सूते दाशं नावोपजीविनम् 13048021c मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् 13048022a चतुरो मागधी सूते क्रूरान्मायोपजीविनः 13048022c मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम् 13048023a वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् 13048023c निषादान्मद्रनाभं च खरयानप्रयायिनम् 13048024a चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् 13048024c मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् 13048025a आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः 13048025c क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः 13048026a कारावरो निषाद्यां तु चर्मकारात्प्रजायते 13048026c चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् 13048027a आहिण्डिको निषादेन वैदेह्यां संप्रजायते 13048027c चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् 13048028a निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् 13048028c श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् 13048029a इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् 13048029c प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः 13048030a चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते 13048030c वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् 13048031a यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः 13048031c बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् 13048032a चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् 13048032c युञ्जन्ते चाप्यलंकारांस्तथोपकरणानि च 13048033a गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः 13048033c आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा 13048034a स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् 13048034c मनुजव्याघ्र भवति तत्र मे नास्ति संशयः 13048035a यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् 13048035c विहीनयोनिर्हि सुतोऽवसादये;त्तितीर्षमाणं सलिले यथोपलम् 13048036a अविद्वांसमलं लोके विद्वांसमपि वा पुनः 13048036c नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् 13048037a स्वभावश्चैव नारीणां नराणामिह दूषणम् 13048037c इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः 13048038 युधिष्ठिर उवाच 13048038a वर्णापेतमविज्ञातं नरं कलुषयोनिजम् 13048038c आर्यरूपमिवानार्यं कथं विद्यामहे नृप 13048039 भीष्म उवाच 13048039a योनिसंकलुषे जातं नानाचारसमाहितम् 13048039c कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता 13048040a अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता 13048040c पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् 13048041a पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् 13048041c न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति 13048042a यथैव सदृशो रूपे मातापित्रोर्हि जायते 13048042c व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति 13048043a कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरः 13048043c संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु 13048044a आर्यरूपसमाचारं चरन्तं कृतके पथि 13048044c स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये 13048045a नानावृत्तेषु भूतेषु नानाकर्मरतेषु च 13048045c जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते 13048046a शरीरमिह सत्त्वेन नरस्य परिकृष्यते 13048046c ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते 13048047a ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् 13048047c अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् 13048048a आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः 13048048c प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः 13048049a योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च 13048049c यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् 13049001 युधिष्ठिर उवाच 13049001a ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् 13049001c कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते 13049002a विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः 13049002c अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि 13049003 भीष्म उवाच 13049003a आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः 13049003c नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा 13049004a पतितस्य च भार्यायां भर्त्रा सुसमवेतया 13049004c तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः 13049005a षडपध्वंसजाश्चापि कानीनापसदास्तथा 13049005c इत्येते ते समाख्यातास्तान्विजानीहि भारत 13049006 युधिष्ठिर उवाच 13049006a षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा 13049006c एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि 13049007 भीष्म उवाच 13049007a त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर 13049007c वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत 13049008a एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः 13049008c षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु 13049009a चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च 13049009c वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः 13049010a मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ 13049010c ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु 13049011a ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः 13049011c पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप 13049012 युधिष्ठिर उवाच 13049012a क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् 13049012c तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह 13049013 भीष्म उवाच 13049013a रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् 13049013c अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे 13049014 युधिष्ठिर उवाच 13049014a रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् 13049014c अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् 13049015 भीष्म उवाच 13049015a आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे 13049015c न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् 13049016a पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते 13049016c तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः 13049017a अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ 13049017c न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ 13049018a कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते 13049018c न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर 13049019 युधिष्ठिर उवाच 13049019a कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते 13049019c शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत 13049020 भीष्म उवाच 13049020a मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् 13049020c न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः 13049021a अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत् 13049021c सवर्णस्तं च पोषेत सवर्णस्तस्य जायते 13049022 युधिष्ठिर उवाच 13049022a कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् 13049022c देया कन्या कथं चेति तन्मे ब्रूहि पितामह 13049023 भीष्म उवाच 13049023a आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा 13049024a त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते 13049024c तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत 13049025a अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर 13049025c संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये 13049026a कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ 13049026c तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः 13049027a क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ 13049027c आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः 13049028a धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते 13049028c एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 13050001 युधिष्ठिर उवाच 13050001a दर्शने कीदृशः स्नेहः संवासे च पितामह 13050001c महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह 13050002 भीष्म उवाच 13050002a हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते 13050002c नहुषस्य च संवादं महर्षेश्च्यवनस्य च 13050003a पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ 13050003c उदवासकृतारम्भो बभूव सुमहाव्रतः 13050004a निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च 13050004c वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः 13050005a आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् 13050005c जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः 13050006a स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च 13050006c गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह 13050007a गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् 13050007c प्रतिजग्राह शिरसा वातवेगसमं जवे 13050008a गङ्गा च यमुना चैव सरितश्चानुगास्तयोः 13050008c प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् 13050009a अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः 13050009c ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ 13050010a जलौकसां स सत्त्वानां बभूव प्रियदर्शनः 13050010c उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः 13050010e तत्र तस्यासतः कालः समतीतोऽभवन्महान् 13050011a ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः 13050011c तं देशं समुपाजग्मुर्जालहस्ता महाद्युते 13050012a निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः 13050012c व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः 13050012e अभ्याययुश्च तं देशं निश्चिता जालकर्मणि 13050013a जालं च योजयामासुर्विशेषेण जनाधिप 13050013c मत्स्योदकं समासाद्य तदा भरतसत्तम 13050014a ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः 13050014c गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः 13050015a जालं सुविततं तेषां नवसूत्रकृतं तथा 13050015c विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम् 13050016a ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् 13050016c प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा 13050017a अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः 13050017c बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः 13050018a तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् 13050018c आकर्षन्त महाराज जालेनाथ यदृच्छया 13050019a नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् 13050019c लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् 13050020a तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् 13050020c सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि 13050021a परिखेदपरित्रासाज्जालस्याकर्षणेन च 13050021c मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च 13050022a स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् 13050022c बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः 13050023 निषादा ऊचुः 13050023a अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु 13050023c करवाम प्रियं किं ते तन्नो ब्रूहि महामुने 13050024 भीष्म उवाच 13050024a इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् 13050024c यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः 13050025a प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह 13050025c संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् 13050026a इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः 13050026c सर्वे विषण्णवदना नहुषाय न्यवेदयन् 13051001 भीष्म उवाच 13051001a नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् 13051001c त्वरितः प्रययौ तत्र सहामात्यपुरोहितः 13051002a शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः 13051002c आत्मानमाचचक्षे च च्यवनाय महात्मने 13051003a अर्चयामास तं चापि तस्य राज्ञः पुरोहितः 13051003c सत्यव्रतं महाभागं देवकल्पं विशां पते 13051004 नहुष उवाच 13051004a करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि 13051004c सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् 13051005 च्यवन उवाच 13051005a श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः 13051005c मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह 13051006 नहुष उवाच 13051006a सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित 13051006c निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः 13051007 च्यवन उवाच 13051007a सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप 13051007c सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु 13051008 नहुष उवाच 13051008a सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् 13051008c स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् 13051009 च्यवन उवाच 13051009a नाहं शतसहस्रेण निमेयः पार्थिवर्षभ 13051009c दीयतां सदृशं मूल्यममात्यैः सह चिन्तय 13051010 नहुष उवाच 13051010a कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित 13051010c यदेतदपि नौपम्यमतो भूयः प्रदीयताम् 13051011 च्यवन उवाच 13051011a राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते 13051011c सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय 13051012 नहुष उवाच 13051012a अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् 13051012c एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज 13051013 च्यवन उवाच 13051013a अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव 13051013c सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् 13051014 भीष्म उवाच 13051014a महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः 13051014c स चिन्तयामास तदा सहामात्यपुरोहितः 13051015a तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः 13051015c नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः 13051016a स समाभाष्य राजानमब्रवीद्द्विजसत्तमः 13051016c तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति 13051017a नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा 13051017c भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया 13051018 नहुष उवाच 13051018a ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः 13051018c परित्रायस्व मामस्माद्विषयं च कुलं च मे 13051019a हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् 13051019c किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् 13051020a अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः 13051020c प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् 13051021 भीष्म उवाच 13051021a नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् 13051021c उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् 13051022a अनर्घेया महाराज द्विजा वर्णमहत्तमाः 13051022c गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् 13051023a नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप 13051023c हर्षेण महता युक्तः सहामात्यपुरोहितः 13051024a अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् 13051024c इदं प्रोवाच नृपते वाचा संतर्पयन्निव 13051025a उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव 13051025c एतन्मूल्यमहं मन्ये तव धर्मभृतां वर 13051026 च्यवन उवाच 13051026a उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ 13051026c गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत 13051027a कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव 13051027c गवां प्रशस्यते वीर सर्वपापहरं शिवम् 13051028a गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते 13051028c अन्नमेव सदा गावो देवानां परमं हविः 13051029a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13051029c गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् 13051030a अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च 13051030c अमृतायतनं चैताः सर्वलोकनमस्कृताः 13051031a तेजसा वपुषा चैव गावो वह्निसमा भुवि 13051031c गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः 13051032a निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् 13051032c विराजयति तं देशं पाप्मानं चापकर्षति 13051033a गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः 13051033c गावः कामदुघा देव्यो नान्यत्किंचित्परं स्मृतम् 13051034a इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ 13051034c गुणैकदेशवचनं शक्यं पारायणं न तु 13051035 निषादा ऊचुः 13051035a दर्शनं कथनं चैव सहास्माभिः कृतं मुने 13051035c सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो 13051036a हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः 13051036c एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् 13051037a प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् 13051037c अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् 13051038 च्यवन उवाच 13051038a कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च 13051038c नरं समूलं दहति कक्षमग्निरिव ज्वलन् 13051039a प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः 13051039c दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह 13051040 भीष्म उवाच 13051040a ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः 13051040c निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः 13051041a ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् 13051041c आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ 13051042a ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः 13051042c वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् 13051043a ततो राजा महावीर्यो नहुषः पृथिवीपतिः 13051043c परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम 13051044a ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः 13051044c तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् 13051045a समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् 13051045c गविजश्च महातेजाः स्वमाश्रमपदं ययौ 13051046a निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप 13051046c नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् 13051047a एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 13051047c दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर 13051048a महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् 13051048c किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् 13052001 युधिष्ठिर उवाच 13052001a संशयो मे महाप्राज्ञ सुमहान्सागरोपमः 13052001c तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि 13052002a कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो 13052002c रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि 13052003a कथमेष समुत्पन्नो रामः सत्यपराक्रमः 13052003c कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत 13052004a तदस्य संभवं राजन्निखिलेनानुकीर्तय 13052004c कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् 13052005a अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः 13052005c रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह 13052006a कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् 13052006c एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि 13052007 भीष्म उवाच 13052007a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13052007c च्यवनस्य च संवादं कुशिकस्य च भारत 13052008a एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा 13052008c आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः 13052009a संचिन्त्य मनसा सर्वं गुणदोषबलाबलम् 13052009c दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः 13052010a च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् 13052010c वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ 13052011 कुशिक उवाच 13052011a भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते 13052011c प्रदानकाले कन्यानामुच्यते च सदा बुधैः 13052012a यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन 13052012c तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि 13052013 भीष्म उवाच 13052013a अथासनमुपादाय च्यवनस्य महामुनेः 13052013c कुशिको भार्यया सार्धमाजगाम यतो मुनिः 13052014a प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् 13052014c कारयामास सर्वाश्च क्रियास्तस्य महात्मनः 13052015a ततः स राजा च्यवनं मधुपर्कं यथाविधि 13052015c प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः 13052016a सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् 13052016c भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे 13052017a यदि राज्यं यदि धनं यदि गाः संशितव्रत 13052017c यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते 13052018a इदं गृहमिदं राज्यमिदं धर्मासनं च ते 13052018c राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि 13052019a एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा 13052019c कुशिकं प्रत्युवाचेदं मुदा परमया युतः 13052020a न राज्यं कामये राजन्न धनं न च योषितः 13052020c न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् 13052021a नियमं कंचिदारप्स्ये युवयोर्यदि रोचते 13052021c परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया 13052022a एवमुक्ते तदा तेन दंपती तौ जहर्षतुः 13052022c प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत 13052023a अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् 13052023c गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् 13052024a इयं शय्या भगवतो यथाकाममिहोष्यताम् 13052024c प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन 13052025a अथ सूर्योऽतिचक्राम तेषां संवदतां तथा 13052025c अथर्षिश्चोदयामास पानमन्नं तथैव च 13052026a तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा 13052026c किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् 13052027a ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् 13052027c औपपत्तिकमाहारं प्रयच्छस्वेति भारत 13052028a तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः 13052028c यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः 13052029a ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित् 13052029c स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो 13052030a ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः 13052030c संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् 13052031a न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः 13052031c संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि 13052032a अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् 13052032c न प्रबोधयतां तं च तौ तदा रजनीक्षये 13052033a यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा 13052033c बभूवतुर्महाराज प्रयतावथ दंपती 13052034a ततः स भगवान्विप्रः समादिश्य नराधिपम् 13052034c सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् 13052035a स तु राजा निराहारः सभार्यः कुरुनन्दन 13052035c पर्युपासत तं हृष्टश्च्यवनाराधने रतः 13052036a भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः 13052036c अकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः 13052037a तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ 13052037c भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् 13052038a तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः 13052038c अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ 13052039a स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः 13052039c पुनरन्वेषणे यत्नमकरोत्परमं तदा 13053001 युधिष्ठिर उवाच 13053001a तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा 13053001c भार्या चास्य महाभागा तन्मे ब्रूहि पितामह 13053002 भीष्म उवाच 13053002a अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया 13053002c परिश्रान्तो निववृते व्रीडितो नष्टचेतनः 13053003a स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन 13053003c तदेव चिन्तयामास च्यवनस्य विचेष्टितम् 13053004a अथ शून्येन मनसा प्रविवेश गृहं नृपः 13053004c ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् 13053005a विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च 13053005c दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः 13053006a यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः 13053006c अथापरेण पार्श्वेन सुष्वाप स महामुनिः 13053007a तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् 13053007c न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ 13053008a प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते 13053008c तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत 13053009a तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ 13053009c शतपाकेन तैलेन महार्हेणोपतस्थतुः 13053010a ततः सुखासीनमृषिं वाग्यतौ संववाहतुः 13053010c न च पर्याप्तमित्याह भार्गवः सुमहातपाः 13053011a यदा तौ निर्विकारौ तु लक्षयामास भार्गवः 13053011c तत उत्थाय सहसा स्नानशालां विवेश ह 13053011e कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् 13053012a असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत 13053012c स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा 13053012e नासूयां चक्रतुस्तौ च दंपती भरतर्षभ 13053013a अथ स्नातः स भगवान्सिंहासनगतः प्रभुः 13053013c दर्शयामास कुशिकं सभार्यं भृगुनन्दनः 13053014a संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् 13053014c सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् 13053015a आनीयतामिति मुनिस्तं चोवाच नराधिपम् 13053015c राजा च समुपाजह्रे तदन्नं सह भार्यया 13053016a मांसप्रकारान्विविधाञ्शाकानि विविधानि च 13053016c वेसवारविकारांश्च पानकानि लघूनि च 13053017a रसालापूपकांश्चित्रान्मोदकानथ षाडवान् 13053017c रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् 13053018a फलानि च विचित्राणि तथा भोज्यानि भूरिशः 13053018c बदरेङ्गुदकाश्मर्यभल्लातकवटानि च 13053019a गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् 13053019c सर्वमाहारयामास राजा शापभयान्मुनेः 13053020a अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् 13053020c ततः सर्वं समानीय तच्च शय्यासनं मुनिः 13053021a वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह 13053021c सर्वमादीपयामास च्यवनो भृगुनन्दनः 13053022a न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ 13053022c तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् 13053023a तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा 13053023c सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् 13053024a नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि 13053024c शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः 13053025a वस्त्रं च विविधाकारमभवत्समुपार्जितम् 13053025c न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा 13053026a पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् 13053026c सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् 13053027a तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् 13053027c क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः 13053028a इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः 13053028c च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् 13053029a सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः 13053029c सायुधः सपताकश्च सशक्तिः कणयष्टिमान् 13053030a किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः 13053030c गदाखड्गनिबद्धश्च परमेषुशतान्वितः 13053031a ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् 13053031c भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा 13053032a त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् 13053032c सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् 13053033a भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः 13053033c यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः 13053034a एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् 13053034c इतःप्रभृति यातव्यं पदकं पदकं शनैः 13053035a श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ 13053035c सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु 13053036a नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु 13053036c ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि 13053037a सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि 13053037c क्रियतां निखिलेनैतन्मा विचारय पार्थिव 13053038a तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् 13053038c यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः 13053039a ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् 13053039c कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः 13053040a अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः 13053040c हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् 13053041a तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ 13053041c पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः 13053042a वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ 13053042c कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् 13053043a बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् 13053043c ददृशाते महाराज पुष्पिताविव किंशुकौ 13053044a तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः 13053044c अभिशापभयात्त्रस्तो न च किंचिदुवाच ह 13053045a द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् 13053045c क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः 13053046a अहो भगवतो वीर्यं महर्षेर्भावितात्मनः 13053046c राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् 13053047a श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः 13053047c न चैतयोर्विकारं वै ददर्श भृगुनन्दनः 13053048 भीष्म उवाच 13053048a ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः 13053048c वसु विश्राणयामास यथा वैश्रवणस्तथा 13053049a तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् 13053049c ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः 13053050a अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह 13053050c विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह 13053051a स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया 13053051c ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत 13053052a सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः 13053052c पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम 13053053a अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह 13053053c विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव 13053054a अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा 13053054c न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति 13053055a रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् 13053055c कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव 13053056a गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि 13053056c इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप 13053057a न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् 13053057c यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति 13053058a इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना 13053058c प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् 13053059a न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया 13053059c संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ 13053060a प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया 13053060c तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया 13053061a इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् 13053061c श्रिया परमया युक्तां यथादृष्टां मया पुरा 13053062a तव प्रसादात्संवृत्तमिदं सर्वं महामुने 13053062c नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम 13053063a इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा 13053063c आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप 13053064a इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् 13053064c प्रययौ वपुषा युक्तो नगरं देवराजवत् 13053065a तत एनमुपाजग्मुरमात्याः सपुरोहिताः 13053065c बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा 13053066a तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् 13053066c प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः 13053067a ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः 13053067c भुक्त्वा सभार्यो रजनीमुवास स महीपतिः 13053068a ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ 13053068c ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया 13053069a स चाप्यृषिर्भृगुकुलकीर्तिवर्धन;स्तपोधनो वनमभिराममृद्धिमत् 13053069c मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि 13054001 भीष्म उवाच 13054001a ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः 13054001c कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति 13054002a ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् 13054002c मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् 13054002e तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा 13054003a पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः 13054003c चित्रशालाश्च विविधास्तोरणानि च भारत 13054003e शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् 13054004a सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् 13054004c अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् 13054005a चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि 13054005c पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह 13054006a श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् 13054006c तत्र तत्र परिकॢप्ता ददर्श स महीपतिः 13054007a वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा 13054007c विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् 13054008a शीतलानि च तोयानि क्वचिदुष्णानि भारत 13054008c आसनानि विचित्राणि शयनप्रवराणि च 13054009a पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् 13054009c भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् 13054010a वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् 13054010c कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् 13054011a मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् 13054011c चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् 13054012a समन्ततः प्रणदितान्ददर्श सुमनोहरान् 13054012c क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव 13054013a कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह 13054013c न ददर्श च तान्भूयो ददर्श च पुनर्नृपः 13054014a गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् 13054014c हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः 13054015a तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा 13054015c स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु 13054016a अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् 13054016c उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् 13054017a किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत् 13054017c एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम् 13054018a तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले 13054018c महार्हे शयने दिव्ये शयानं भृगुनन्दनम् 13054019a तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया 13054019c अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् 13054020a ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् 13054020c कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् 13054020e एवं योगबलाद्विप्रो मोहयामास पार्थिवम् 13054021a क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः 13054021c गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत 13054022a निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप 13054022c कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा 13054023a ततः स राजा कुशिकः सभार्यस्तेन कर्मणा 13054023c विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् 13054024a ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः 13054024c पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः 13054025a प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् 13054025c तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः 13054026a त्रैलोक्यराज्यादपि हि तप एव विशिष्यते 13054026c तपसा हि सुतप्तेन क्रीडत्येष तपोधनः 13054027a अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः 13054027c इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि 13054028a ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः 13054028c उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते 13054029a ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः 13054029c ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् 13054030a इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै 13054030c संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति 13054031a इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् 13054031c शिरसा वन्दनीयं तमवन्दत स पार्थिवः 13054032a तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् 13054032c निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ 13054033a ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् 13054033c उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत 13054034a राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया 13054034c मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै 13054035a सम्यगाराधितः पुत्र त्वयाहं वदतां वर 13054035c न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते 13054036a अनुजानीहि मां राजन्गमिष्यामि यथागतम् 13054036c प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् 13054037 कुशिक उवाच 13054037a अग्निमध्यगतेनेदं भगवन्संनिधौ मया 13054037c वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु 13054038a एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन 13054038c यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ 13054039a एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् 13054039c एतद्राज्यफलं चैव तपश्चैतत्परं मम 13054040a यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन 13054040c अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि 13055001 च्यवन उवाच 13055001a वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि 13055001c तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते 13055002 कुशिक उवाच 13055002a यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव 13055002c कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् 13055003a शयनं चैकपार्श्वेन दिवसानेकविंशतिम् 13055003c अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव 13055004a अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् 13055004c पुनश्च शयनं विप्र दिवसानेकविंशतिम् 13055005a तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम 13055005c समुपानीय विविधं यद्दग्धं जातवेदसा 13055005e निर्याणं च रथेनाशु सहसा यत्कृतं त्वया 13055006a धनानां च विसर्गस्य वनस्यापि च दर्शनम् 13055006c प्रासादानां बहूनां च काञ्चनानां महामुने 13055007a मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् 13055007c पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् 13055008a अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् 13055008c न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् 13055008e एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन 13055009 च्यवन उवाच 13055009a शृणु सर्वमशेषेण यदिदं येन हेतुना 13055009c न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव 13055010a पितामहस्य वदतः पुरा देवसमागमे 13055010c श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु 13055011a ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः 13055011c पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः 13055012a ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् 13055012c चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव 13055013a ततोऽहमागम्य पुरा त्वामवोचं महीपते 13055013c नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति 13055014a न च ते दुष्कृतं किंचिदहमासादयं गृहे 13055014c तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा 13055015a एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् 13055015c सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव 13055016a यदा त्वया सभार्येण संसुप्तो न प्रबोधितः 13055016c अहं तदैव ते प्रीतो मनसा राजसत्तम 13055017a उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते 13055017c पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो 13055018a अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे 13055018c योगमास्थाय संविष्टो दिवसानेकविंशतिम् 13055019a क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप 13055019c एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा 13055020a न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव 13055020c सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् 13055021a भोजनं च समानाय्य यत्तदादीपितं मया 13055021c क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते 13055022a ततोऽहं रथमारुह्य त्वामवोचं नराधिप 13055022c सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा 13055023a अविशङ्को नरपते प्रीतोऽहं चापि तेन ते 13055023c धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् 13055024a ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव 13055024c सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप 13055025a प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् 13055025c यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् 13055026a स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव 13055026c मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम 13055027a निदर्शनार्थं तपसो धर्मस्य च नराधिप 13055027c तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम 13055028a ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते 13055028c अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव 13055029a एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् 13055029c ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता 13055030a भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः 13055030c तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति 13055031a वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा 13055031c पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः 13055032a यः स देवमनुष्याणां भयमुत्पादयिष्यति 13055032c त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते 13055033a वरं गृहाण राजर्षे यस्ते मनसि वर्तते 13055033c तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते 13055034 कुशिक उवाच 13055034a एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने 13055034c भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ 13055034e ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः 13055035a पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै 13055035c कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन 13055035e कश्चासौ भविता बन्धुर्मम कश्चापि संमतः 13056001 च्यवन उवाच 13056001a अवश्यं कथनीयं मे तवैतन्नरपुंगव 13056001c यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप 13056002a भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप 13056002c ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना 13056003a क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप 13056003c आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः 13056004a तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः 13056004c और्वो नाम महातेजा ज्वलनार्कसमद्युतिः 13056005a स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति 13056005c महीं सपर्वतवनां यः करिष्यति भस्मसात् 13056006a कंचित्कालं तु तं वह्निं स एव शमयिष्यति 13056006c समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः 13056007a पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् 13056007c साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ 13056008a क्षत्रियाणामभावाय दैवयुक्तेन हेतुना 13056008c स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति 13056009a जमदग्नौ महाभागे तपसा भावितात्मनि 13056009c स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति 13056010a कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति 13056010c उद्भावनार्थं भवतो वंशस्य नृपसत्तम 13056011a गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः 13056011c ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति 13056012a क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा 13056012c विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् 13056012e तपसा महता युक्तं प्रदास्यति महाद्युते 13056013a स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः 13056013c पितामहनियोगाद्वै नान्यथैतद्भविष्यति 13056014a तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति 13056014c भविता त्वं च संबन्धी भृगूणां भावितात्मनाम् 13056015 भीष्म उवाच 13056015a कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः 13056015c श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह 13056015e एवमस्त्विति धर्मात्मा तदा भरतसत्तम 13056016a च्यवनस्तु महातेजाः पुनरेव नराधिपम् 13056016c वरार्थं चोदयामास तमुवाच स पार्थिवः 13056017a बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने 13056017c ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् 13056018a एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः 13056018c अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा 13056019a एतत्ते कथितं सर्वमशेषेण मया नृप 13056019c भृगूणां कुशिकानां च प्रति संबन्धकारणम् 13056020a यथोक्तं मुनिना चापि तथा तदभवन्नृप 13056020c जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह 13057001 युधिष्ठिर उवाच 13057001a मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः 13057001c हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम् 13057002a प्राप्य राज्यानि शतशो महीं जित्वापि भारत 13057002c कोटिशः पुरुषान्हत्वा परितप्ये पितामह 13057003a का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति 13057003c या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा 13057004a वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च 13057004c अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः 13057005a शरीरं योक्तुमिच्छामि तपसोग्रेण भारत 13057005c उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते 13057006 वैशंपायन उवाच 13057006a युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः 13057006c परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत 13057007a रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि 13057007c या गतिः प्राप्यते येन प्रेत्यभावेषु भारत 13057008a तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः 13057008c आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो 13057009a ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च 13057009c सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ 13057010a धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति 13057010c उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् 13057011a अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले 13057011c फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् 13057012a पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः 13057012c गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः 13057013a गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् 13057013c स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् 13057014a नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः 13057014c मरुं साधयतो राज्यं नाकपृष्ठमनाशके 13057015a स्थण्डिले शयमानानां गृहाणि शयनानि च 13057015c चीरवल्कलवासोभिर्वासांस्याभरणानि च 13057016a शय्यासनानि यानानि योगयुक्ते तपोधने 13057016c अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते 13057017a रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति 13057017c आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् 13057018a उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् 13057018c सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते 13057019a कीर्तिर्भवति दानेन तथारोग्यमहिंसया 13057019c द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् 13057020a पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती 13057020c अन्नपानप्रदानेन तृप्यते कामभोगतः 13057021a सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते 13057021c देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति 13057022a दीपालोकप्रदानेन चक्षुष्मान्भवते नरः 13057022c प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति 13057023a गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला 13057023c केशश्मश्रून्धारयतामग्र्या भवति संततिः 13057024a उपवासं च दीक्षां च अभिषेकं च पार्थिव 13057024c कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते 13057025a दासीदासमलंकारान्क्षेत्राणि च गृहाणि च 13057025c ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ 13057026a क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत 13057026c लभते च चिरं स्थानं बलिपुष्पप्रदो नरः 13057027a सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता 13057027c प्राप्नोति पुण्यं दिवि देवलोक;मित्येवमाहुर्मुनिदेवसंघाः 13057028a प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् 13057028c तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः 13057029a यावन्ति लोमानि भवन्ति धेन्वा;स्तावत्फलं प्राप्नुते गोप्रदाता 13057029c पुत्रांश्च पौत्रांश्च कुलं च सर्व;मासप्तमं तारयते परत्र 13057030a सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् 13057030c धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति 13057031a स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् 13057031c महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र 13057032a यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे 13057032c ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य 13057033a नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय 13057033c स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु 13057034a धुर्यप्रदानेन गवां तथाश्वै;र्लोकानवाप्नोति नरो वसूनाम् 13057034c स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् 13057035a छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसंप्रदाने 13057035c वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् 13057036a पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय 13057036c स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै 13057037a भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम् 13057037c प्रतिश्रयाच्छादनसंप्रदाता; प्राप्नोति तानेव न संशयोऽत्र 13057038a स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः 13057038c दद्याद्द्विजेभ्यः स भवेदरोग;स्तथाभिरूपश्च नरेन्द्रलोके 13057039a बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय 13057039c पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् 13057040a सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय 13057040c रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः 13057041a पितामहस्यानुचरो वीरशायी भवेन्नरः 13057041c नाधिकं विद्यते तस्मादित्याहुः परमर्षयः 13057042 वैशंपायन उवाच 13057042a तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः 13057042c नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया 13057043a ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ 13057043c पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः 13057044a ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी 13057044c युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् 13058001 युधिष्ठिर उवाच 13058001a यानीमानि बहिर्वेद्यां दानानि परिचक्षते 13058001c तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव 13058002a कौतूहलं हि परमं तत्र मे वर्तते प्रभो 13058002c दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे 13058003 भीष्म उवाच 13058003a अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् 13058003c यच्चाभिलषितं दद्यात्तृषितायाभियाचते 13058004a दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते 13058004c दत्तं दातारमन्वेति यद्दानं भरतर्षभ 13058005a हिरण्यदानं गोदानं पृथिवीदानमेव च 13058005c एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् 13058006a एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा 13058006c दानानि हि नरं पापान्मोक्षयन्ति न संशयः 13058007a यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे 13058007c तत्तद्गुणवते देयं तदेवाक्षयमिच्छता 13058008a प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा 13058008c प्रियो भवति भूतानामिह चैव परत्र च 13058009a याचमानमभीमानादाशावन्तमकिंचनम् 13058009c यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर 13058010a अमित्रमपि चेद्दीनं शरणैषिणमागतम् 13058010c व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः 13058011a कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते 13058011c अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः 13058012a ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् 13058012c अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय 13058013a आशिषं ये न देवेषु न मर्त्येषु च कुर्वते 13058013c अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः 13058014a आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत 13058014c तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् 13058015a कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः 13058015c निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः 13058016a यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13058016c कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः 13058017a विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः 13058017c गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः 13058018a तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च 13058018c यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति 13058019a यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना 13058019c तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना 13058020a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13058020c विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् 13058021a निवापो दानसदृशस्तादृशेषु युधिष्ठिर 13058021c निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति 13058022a य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि 13058022c त एव नः पूज्यतमा ये चान्ये प्रियवादिनः 13058023a ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे 13058023c पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् 13058024a ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते 13058024c क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे 13058025a अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर 13058025c ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च 13058026a यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ 13058026c तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता 13058027a नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् 13058027c यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् 13058028a को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् 13058028c वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम 13058029a यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः 13058029c स देवः सा गतिर्नान्या तथास्माकं द्विजातयः 13058030a यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः 13058030c पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् 13058031a अवेदानामकीर्तीनामलोकानामयज्वनाम् 13058031c कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् 13058032a अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः 13058032c राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह 13058032e वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः 13058033a दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् 13058033c संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च 13058034a मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् 13058034c आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् 13058035a अपरेषां परेषां च परेभ्यश्चैव ये परे 13058035c क्षत्रियाणां प्रतपतां तेजसा च बलेन च 13058035e ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च 13058036a न मे पिता प्रियतरो न त्वं तात तथा प्रियः 13058036c न मे पितुः पिता राजन्न चात्मा न च जीवितम् 13058037a त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन 13058037c त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ 13058038a ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन 13058038c तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः 13058039a पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् 13058039c तत्र मे तात गन्तव्यमह्नाय च चिराय च 13058040a सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम 13058040c यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव 13059001 युधिष्ठिर उवाच 13059001a यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च 13059001c ताभ्यां दानं कतरस्मै विशिष्ट;मयाचमानाय च याचते च 13059002 भीष्म उवाच 13059002a श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते 13059002c अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः 13059003a क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः 13059003c ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् 13059004a याच्ञामाहुरनीशस्य अभिहारं च भारत 13059004c उद्वेजयति याचन्हि सदा भूतानि दस्युवत् 13059005a म्रियते याचमानो वै तमनु म्रियते ददत् 13059005c ददत्संजीवयत्येनमात्मानं च युधिष्ठिर 13059006a आनृशंस्यं परो धर्मो याचते यत्प्रदीयते 13059006c अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय 13059007a यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः 13059007c भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः 13059008a तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि 13059008c पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः 13059009a तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप 13059009c ददद्बहुविधान्दायानुपच्छन्दानयाचताम् 13059010a यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम् 13059010c विद्यावेदव्रतवति तद्दानफलमुच्यते 13059011a विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः 13059011c गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् 13059012a कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः 13059012c निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् 13059013a अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर 13059013c कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः 13059014a अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् 13059014c येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः 13059015a अन्नानि प्रातःसवने नियता ब्रह्मचारिणः 13059015c ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते 13059016a माध्यंदिनं ते सवनं ददतस्तात वर्तताम् 13059016c गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव 13059017a तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर 13059017c यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि 13059018a अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः 13059018c दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते 13059019a एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः 13059019c विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् 13060001 युधिष्ठिर उवाच 13060001a दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् 13060001c कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा 13060002a एतदिच्छामि विज्ञातुं याथातथ्येन भारत 13060002c विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे 13060003a अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः 13060003c किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह 13060004 भीष्म उवाच 13060004a रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते 13060004c तस्य वैतानिकं कर्म दानं चैवेह पावनम् 13060005a न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13060005c एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः 13060006a अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः 13060006c श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् 13060007a ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः 13060007c मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् 13060008a यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति 13060008c यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः 13060009a इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा 13060009c पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा 13060010a प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः 13060010c प्रजावांस्तेन भवति यथा जनयिता तथा 13060011a यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत 13060011c सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः 13060012a समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर 13060012c धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ 13060013a आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत 13060013c अश्ववन्ति च यानानि वेश्मानि शयनानि च 13060014a एते देया व्युष्टिमन्तो लघूपायाश्च भारत 13060014c अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् 13060015a उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय 13060015c राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति 13060016a एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि 13060016c स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि 13060017a ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च 13060017c आत्मनश्च परेषां च वृत्तिं संरक्ष भारत 13060018a पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय 13060018c योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत 13060019a अरक्षितारं हर्तारं विलोप्तारमदायकम् 13060019c तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् 13060020a अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः 13060020c स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः 13060021a पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः 13060021c चतुर्थं तस्य पापस्य राजा भारत विन्दति 13060022a अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः 13060022c चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् 13060023a शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः 13060023c चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत 13060024a जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर 13060024c पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः 13060025a कुबेरमिव रक्षांसि शतक्रतुमिवामराः 13060025c ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप 13061001 युधिष्ठिर उवाच 13061001a इदं देयमिदं देयमितीयं श्रुतिचोदना 13061001c बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् 13061002 भीष्म उवाच 13061002a अति दानानि सर्वाणि पृथिवीदानमुच्यते 13061002c अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् 13061003a दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा 13061003c भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः 13061004a यावद्भूमेरायुरिह तावद्भूमिद एधते 13061004c न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर 13061005a अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् 13061005c भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः 13061006a स्वकर्मैवोपजीवन्ति नरा इह परत्र च 13061006c भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् 13061007a य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः 13061007c पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः 13061008a यथा दानं तथा भोग इति धर्मेषु निश्चयः 13061008c संग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् 13061009a इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् 13061009c पुनाति दत्ता पृथिवी दातारमिति शुश्रुम 13061010a अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् 13061010c सैव पापं पावयति सैव पापात्प्रमोचयेत् 13061011a अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः 13061011c पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा 13061012a नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् 13061012c दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् 13061012e तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः 13061013a नाभूमिपतिना भूमिरधिष्ठेया कथंचन 13061013c न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् 13061013e ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् 13061014a यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः 13061014c भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि 13061014e प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः 13061015a यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि 13061015c न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम् 13061016a यत्किंचित्पुरुषः पापं कुरुते वृत्तिकर्शितः 13061016c अपि गोचर्ममात्रेण भूमिदानेन पूयते 13061017a येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः 13061017c तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् 13061018a अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः 13061018c यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् 13061019a अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः 13061019c अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् 13061020a सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च 13061020c सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् 13061021a तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता 13061021c गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् 13061022a भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः 13061022c ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् 13061023a यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा 13061023c अनुगृह्णाति दातारं तथा सर्वरसैर्मही 13061024a मृत्योर्वै किंकरो दण्डस्तापो वह्नेः सुदारुणः 13061024c घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् 13061025a पितॄंश्च पितृलोकस्थान्देवलोके च देवताः 13061025c संतर्पयति शान्तात्मा यो ददाति वसुंधराम् 13061026a कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते 13061026c भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः 13061027a यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत 13061027c एवमेव महाभाग भूमिर्भवति भूमिदम् 13061028a हलकृष्टां महीं दत्त्वा सबीजां सफलामपि 13061028c उदीर्णं वापि शरणं तथा भवति कामदः 13061029a ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचिव्रतम् 13061029c नरः प्रतिग्राह्य महीं न याति यमसादनम् 13061030a यथा चन्द्रमसो वृद्धिरहन्यहनि जायते 13061030c तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते 13061031a अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः 13061031c याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै 13061032a मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ 13061032c अस्मिँल्लोके परे चैव ततश्चाजनने पुनः 13061033a य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः 13061033c श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति 13061034a कृत्यानामभिशस्तानां दुरिष्टशमनं महत् 13061034c प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश 13061035a पुनाति य इदं वेद वेद चाहं तथैव च 13061035c प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता 13061036a अभिषिच्यैव नृपतिं श्रावयेदिममागमम् 13061036c यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् 13061037a सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् 13061037c राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् 13061038a अथ येषामधर्मज्ञो राजा भवति नास्तिकः 13061038c न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च 13061039a सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः 13061039c योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् 13061040a अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः 13061040c सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च 13061041a तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः 13061041c योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः 13061042a स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् 13061042c स दाता स च विक्रान्तो यो ददाति वसुंधराम् 13061043a आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः 13061043c ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे 13061044a यथा बीजानि रोहन्ति प्रकीर्णानि महीतले 13061044c तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः 13061045a आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः 13061045c शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् 13061046a भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च 13061046c चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः 13061047a एषा माता पिता चैव जगतः पृथिवीपते 13061047c नानया सदृशं भूतं किंचिदस्ति जनाधिप 13061048a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13061048c बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर 13061049a इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता 13061049c मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् 13061050a भगवन्केन दानेन स्वर्गतः सुखमेधते 13061050c यदक्षयं महार्घं च तद्ब्रूहि वदतां वर 13061051a इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः 13061051c बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् 13061052a सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् 13061052c दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते 13061053a न भूमिदानाद्देवेन्द्र परं किंचिदिति प्रभो 13061053c विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः 13061054a ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः 13061054c सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् 13061055a भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः 13061055c ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् 13061056a पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः 13061056c एकादश ददद्भूमिं परित्रातीह मानवः 13061057a रत्नोपकीर्णां वसुधां यो ददाति पुरंदर 13061057c स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते 13061058a महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् 13061058c राजाधिराजो भवति तद्धि दानमनुत्तमम् 13061059a सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति 13061059c सर्वभूतानि मन्यन्ते मां ददातीति वासव 13061060a सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् 13061060c ददाति यः सहस्राक्ष स स्वर्गं याति मानवः 13061061a मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा 13061061c सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् 13061062a भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् 13061062c न हि भूमिप्रदानेन दानमन्यद्विशिष्यते 13061063a ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् 13061063c तं जनाः कथयन्तीह यावद्धरति गौरियम् 13061064a पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर 13061064c न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः 13061065a सर्वथा पार्थिवेनेह सततं भूतिमिच्छता 13061065c भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता 13061066a अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये 13061066c समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः 13061067a सागरान्सरितः शैलान्काननानि च सर्वशः 13061067c सर्वमेतन्नरः शक्र ददाति वसुधां ददत् 13061068a तडागान्युदपानानि स्रोतांसि च सरांसि च 13061068c स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् 13061069a ओषधीः क्षीरसंपन्ना नगान्पुष्पफलान्वितान् 13061069c काननोपलशैलांश्च ददाति वसुधां ददत् 13061070a अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः 13061070c न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते 13061071a दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् 13061071c पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति 13061072a न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः 13061072c स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् 13061073a आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् 13061073c ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् 13061074a ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर 13061074c इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् 13061075a नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप 13061075c ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन 13061076a अथाश्रु पतितं तेषां दीनानामवसीदताम् 13061076c ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् 13061077a भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः 13061077c तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते 13061078a इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् 13061078c गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् 13061079a निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् 13061079c अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् 13061080a विधूय कलुषं सर्वं विरजाः संमतः सताम् 13061080c लोके महीयते सद्भिर्यो ददाति वसुंधराम् 13061081a यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति 13061081c तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति 13061082a ये रणाग्रे महीपालाः शूराः समितिशोभनाः 13061082c वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते 13061083a नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः 13061083c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि 13061084a मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः 13061084c यो ददाति महीं सम्यग्विधिनेह द्विजातये 13061085a शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः 13061085c उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् 13061086a शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः 13061086c भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा 13061087a आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ 13061087c भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर 13061088a हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः 13061088c अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् 13061089a नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः 13061089c नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः 13061090a एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् 13061090c वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा 13061091a य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् 13061091c न तस्य रक्षसां भागो नासुराणां भवत्युत 13061092a अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः 13061092c तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् 13061093a इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ 13061093c मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि 13062001 युधिष्ठिर उवाच 13062001a कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः 13062001c गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम 13062002a केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत 13062002c शंस मे तन्महाबाहो फलं पुण्यकृतं महत् 13062003a दत्तं किं फलवद्राजन्निह लोके परत्र च 13062003c भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद 13062004 भीष्म उवाच 13062004a इममर्थं पुरा पृष्टो नारदो देवदर्शनः 13062004c यदुक्तवानसौ तन्मे गदतः शृणु भारत 13062005 नारद उवाच 13062005a अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा 13062005c लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् 13062006a अन्नेन सदृशं दानं न भूतं न भविष्यति 13062006c तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः 13062007a अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः 13062007c अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो 13062008a अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च 13062008c अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः 13062009a कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने 13062009c दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता 13062010a ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने 13062010c निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः 13062011a श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् 13062011c अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् 13062012a क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः 13062012c अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् 13062013a नावमन्येदभिगतं न प्रणुद्यात्कथंचन 13062013c अपि श्वपाके शुनि वा न दानं विप्रणश्यति 13062014a यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते 13062014c श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् 13062015a पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप 13062015c यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् 13062016a कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने 13062016c ब्राह्मणाय विशेषेण न स पापेन युज्यते 13062017a ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् 13062017c अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते 13062018a न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा 13062018c भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः 13062019a अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः 13062019c भवन्तीहाथ वामुत्र नृपते नात्र संशयः 13062020a आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः 13062020c अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति 13062021a ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते 13062021c अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् 13062022a ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् 13062022c विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा 13062023a सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते 13062023c महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत 13062024a दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् 13062024c मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः 13062025a अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् 13062025c अन्नदः पशुमान्पुत्री धनवान्भोगवानपि 13062026a प्राणवांश्चापि भवति रूपवांश्च तथा नृप 13062026c अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः 13062027a अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि 13062027c प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते 13062028a ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् 13062028c उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् 13062029a प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत 13062029c सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत 13062030a अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत 13062030c धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः 13062031a अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः 13062031c अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् 13062032a अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः 13062032c बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः 13062033a आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा 13062033c न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते 13062034a अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम् 13062034c त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः 13062035a अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् 13062035c कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव 13062036a मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः 13062036c तच्च मेघगतं वारि शक्रो वर्षति भारत 13062037a आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः 13062037c वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः 13062038a तद्यदा मेघतो वारि पतितं भवति क्षितौ 13062038c तदा वसुमती देवी स्निग्धा भवति भारत 13062039a ततः सस्यानि रोहन्ति येन वर्तयते जगत् 13062039c मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः 13062040a संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते 13062040c अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह 13062041a एवमन्नं च सूर्यश्च पवनः शुक्रमेव च 13062041c एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे 13062042a प्राणान्ददाति भूतानां तेजश्च भरतर्षभ 13062042c गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने 13062043 भीष्म उवाच 13062043a नारदेनैवमुक्तोऽहमदामन्नं सदा नृप 13062043c अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः 13062044a दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो 13062044c यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि 13062045a अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप 13062045c भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् 13062045e नानासंस्थानरूपाणि नानास्तम्भान्वितानि च 13062046a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13062046c तरुणादित्यवर्णानि स्थावराणि चराणि च 13062047a अनेकशतभौमानि सान्तर्जलवनानि च 13062047c वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च 13062048a सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः 13062048c वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः 13062049a घोषवन्ति च यानानि युक्तान्यथ सहस्रशः 13062049c भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च 13062050a क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः 13062050c प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः 13062050e तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव 13062051a एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् 13062051c तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि 13063001 युधिष्ठिर उवाच 13063001a श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः 13063001c नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे 13063002 भीष्म उवाच 13063002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13063002c देवक्याश्चैव संवादं देवर्षेर्नारदस्य च 13063003a द्वारकामनुसंप्राप्तं नारदं देवदर्शनम् 13063003c पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी 13063004a तस्याः संपृच्छमानाया देवर्षिर्नारदस्तदा 13063004c आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते 13063005 नारद उवाच 13063005a कृत्तिकासु महाभागे पायसेन ससर्पिषा 13063005c संतर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् 13063006a रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा 13063006c पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये 13063007a दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते 13063007c गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् 13063008a आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः 13063008c नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् 13063009a अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने 13063009c यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले 13063010a पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च 13063010c अनालोकेषु लोकेषु सोमवत्स विराजते 13063011a आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति 13063011c स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति 13063012a मघासु तिलपूर्णानि वर्धमानानि मानवः 13063012c प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते 13063013a फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः 13063013c भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति 13063014a घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् 13063014c उत्तराविषये दत्त्वा स्वर्गलोके महीयते 13063015a यद्यत्प्रदीयते दानमुत्तराविषये नरैः 13063015c महाफलमनन्तं च भवतीति विनिश्चयः 13063016a हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः 13063016c प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् 13063017a चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत 13063017c चरत्यप्सरसां लोके रमते नन्दने तथा 13063018a स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः 13063018c प्राप्नोति लोकान्स शुभानिह चैव महद्यशः 13063019a विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् 13063019c सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् 13063020a पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते 13063020c न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति 13063021a दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति 13063021c नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः 13063022a अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः 13063022c दत्त्वा युगशतं चापि नरः स्वर्गे महीयते 13063023a कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् 13063023c ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति 13063024a मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः 13063024c पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति 13063025a अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः 13063025c कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे 13063025e प्रदाय जायते प्रेत्य कुले सुबहुगोकुले 13063026a उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् 13063026c दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् 13063027a दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् 13063027c धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते 13063028a श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च 13063028c श्वेतेन याति यानेन सर्वलोकानसंवृतान् 13063029a गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः 13063029c वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते 13063030a गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् 13063030c प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् 13063031a पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु 13063031c सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् 13063032a औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति 13063032c स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते 13063033a कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति 13063033c सा प्रेत्य कामानादाय दातारमुपतिष्ठति 13063034a रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः 13063034c हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले 13063035a भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै 13063035c गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा 13063036 भीष्म उवाच 13063036a इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः 13063036c देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् 13064001 भीष्म उवाच 13064001a सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् 13064001c इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् 13064002a पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् 13064002c सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् 13064003a पानीयदानं परमं दानानां मनुरब्रवीत् 13064003c तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् 13064004a अर्धं पापस्य हरति पुरुषस्येह कर्मणः 13064004c कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः 13064005a सर्वं तारयते वंशं यस्य खाते जलाशये 13064005c गावः पिबन्ति विप्राश्च साधवश्च नराः सदा 13064006a निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् 13064006c स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते 13064007a बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च 13064007c अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा 13064008a परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् 13064008c रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् 13064009a फलकामो यशस्कामः पुष्टिकामश्च नित्यदा 13064009c घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् 13064010a घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति 13064010c तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ 13064011a पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति 13064011c गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन 13064012a पिपासया न म्रियते सोपच्छन्दश्च दृश्यते 13064012c न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति 13064013a प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः 13064013c उपस्पर्शनषड्भागं लभते पुरुषः सदा 13064014a यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति 13064014c प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः 13064015a सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च 13064015c उपर्युपरि शत्रूणां वपुषा दीप्यते च सः 13064016a भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः 13064016c न तं त्यजन्ते पशवः संग्रामे च जयत्यपि 13064017a पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति 13064017c चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते 13064018a निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति 13064018c नास्य कश्चिन्मनोदाहः कदाचिदपि जायते 13064018e कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते 13064019a प्रदानं सर्वदानानां शकटस्य विशिष्यते 13064019c एवमाह महाभागः शाण्डिल्यो भगवानृषिः 13065001 युधिष्ठिर उवाच 13065001a दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ 13065001c यत्फलं तस्य भवति तन्मे ब्रूहि पितामह 13065002 भीष्म उवाच 13065002a उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः 13065002c मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि 13065002e स शत्रूणामुपरि च संतिष्ठति युधिष्ठिर 13065003a यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते 13065003c उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् 13065003e शकटं दम्यसंयुक्तं दत्तं भवति चैव हि 13065004 युधिष्ठिर उवाच 13065004a यत्फलं तिलदाने च भूमिदाने च कीर्तितम् 13065004c गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव 13065005 भीष्म उवाच 13065005a शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् 13065005c निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम 13065006a पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा 13065006c तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते 13065007a माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति 13065007c सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति 13065008a सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् 13065008c न चाकामेन दातव्यं तिलश्राद्धं कथंचन 13065009a महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः 13065009c ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो 13065010a पौष्टिका रूपदाश्चैव तथा पापविनाशनाः 13065010c तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते 13065011a आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा 13065011c महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः 13065012a तिलहोमपरा विप्राः सर्वे संयतमैथुनाः 13065012c समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः 13065013a सर्वेषामेव दानानां तिलदानं परं स्मृतम् 13065013c अक्षयं सर्वदानानां तिलदानमिहोच्यते 13065014a उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप 13065014c तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् 13065015a इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् 13065015c विधानं येन विधिना तिलानामिह शस्यते 13065016a अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् 13065016c समागमं महाराज ब्रह्मणा वै स्वयंभुवा 13065017a देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः 13065017c शुभं देशमयाचन्त यजेम इति पार्थिव 13065018 देवा ऊचुः 13065018a भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च 13065018c यजेमहि महाभाग यज्ञं भवदनुज्ञया 13065018e नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते 13065019a त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च 13065019c प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि 13065020 ब्रह्मोवाच 13065020a ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः 13065020c यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः 13065021 देवा ऊचुः 13065021a भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः 13065021c इमं तु देशं मुनयः पर्युपासन्त नित्यदा 13065022 भीष्म उवाच 13065022a ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः 13065022c असितो देवलश्चैव देवयज्ञमुपागमन् 13065023a ततो देवा महात्मान ईजिरे यज्ञमच्युत 13065023c तथा समापयामासुर्यथाकालं सुरर्षभाः 13065024a त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे 13065024c षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे 13065025a प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् 13065025c न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते 13065026a शीतवातातपसहां गृहभूमिं सुसंस्कृताम् 13065026c प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते 13065027a मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव 13065027c प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते 13065028a अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः 13065028c गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते 13065029a तथा गवार्थे शरणं शीतवर्षसहं महत् 13065029c आसप्तमं तारयति कुलं भरतसत्तम 13065030a क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् 13065030c रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् 13065031a न चोषरां न निर्दग्धां महीं दद्यात्कथंचन 13065031c न श्मशानपरीतां च न च पापनिषेविताम् 13065032a पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः 13065032c तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते 13065033a तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः 13065033c पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः 13065034a अटवीपर्वताश्चैव नदीतीर्थानि यानि च 13065034c सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः 13065035a इत्येतद्भूमिदानस्य फलमुक्तं विशां पते 13065035c अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ 13065036a गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च 13065036c तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः 13065037a ब्रह्मलोके वसन्त्येताः सोमेन सह भारत 13065037c आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् 13065038a पयसा हविषा दध्ना शकृताप्यथ चर्मणा 13065038c अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत 13065039a नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते 13065039c न वर्षं विषमं वापि दुःखमासां भवत्युत 13065040a ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् 13065040c एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः 13065041a रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः 13065041c ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता 13065042a पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः 13065042c ता इमा विप्रमुख्येभ्यो यो ददाति महीपते 13065042e निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव 13065043a गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति 13065043c सर्वत्र विजयं चापि लभते मनुजाधिप 13065044a अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः 13065044c तस्माद्ददाति यो धेनुममृतं स प्रयच्छति 13065045a अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः 13065045c तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति 13065046a स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् 13065046c विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते 13065047a प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ 13065047c तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति 13065048a गावः शरण्या भूतानामिति वेदविदो विदुः 13065048c तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति 13065049a न वधार्थं प्रदातव्या न कीनाशे न नास्तिके 13065049c गोजीविने न दातव्या तथा गौः पुरुषर्षभ 13065050a ददाति तादृशानां वै नरो गाः पापकर्मणाम् 13065050c अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः 13065051a न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा 13065051c न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै 13065052a दशगोसहस्रदः सम्यक्शक्रेण सह मोदते 13065052c अक्षयाँल्लभते लोकान्नरः शतसहस्रदः 13065053a इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् 13065053c तथा भूमिप्रदानं च शृणुष्वान्ने च भारत 13065054a अन्नदानं प्रधानं हि कौन्तेय परिचक्षते 13065054c अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः 13065055a श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप 13065055c स्वायंभुवं महाभागं स पश्यति नराधिप 13065056a न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत 13065056c प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो 13065057a अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता 13065057c अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा 13065058a सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः 13065058c न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः 13065059a अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् 13065059c यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः 13065060a कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत 13065060c स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते 13065061a अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः 13065061c स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ 13065062a सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् 13065062c पापं तरति चैवेह दुष्कृतं चापकर्षति 13065063a इत्येतदन्नदानस्य तिलदानस्य चैव ह 13065063c भूमिदानस्य च फलं गोदानस्य च कीर्तितम् 13066001 युधिष्ठिर उवाच 13066001a श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् 13066001c अन्नं तु ते विशेषेण प्रशस्तमिह भारत 13066002a पानीयदानं परमं कथं चेह महाफलम् 13066002c इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह 13066003 भीष्म उवाच 13066003a हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ 13066003c गदतस्तन्ममाद्येह शृणु सत्यपराक्रम 13066003e पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ 13066004a यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः 13066004c न तस्मात्परमं दानं किंचिदस्तीति मे मतिः 13066005a अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः 13066005c तस्मादन्नं परं लोके सर्वदानेषु कथ्यते 13066006a अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा 13066006c अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः 13066007a सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् 13066007c यतश्चैतद्यथा चैतद्देवसत्रे महामते 13066008a अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत 13066008c प्राणदानाद्धि परमं न दानमिह विद्यते 13066009a श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः 13066009c प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा 13066010a तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते 13066010c गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् 13066011a अन्नं चापि प्रभवति पानीयात्कुरुसत्तम 13066011c नीरजातेन हि विना न किंचित्संप्रवर्तते 13066012a नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः 13066012c अमृतं च सुधा चैव स्वाहा चैव वषट्तथा 13066013a अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः 13066013c यतः प्राणभृतां प्राणाः संभवन्ति विशां पते 13066014a देवानाममृतं चान्नं नागानां च सुधा तथा 13066014c पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः 13066015a अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः 13066015c तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते 13066016a तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् 13066016c तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः 13066017a धन्यं यशस्यमायुष्यं जलदानं विशां पते 13066017c शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः 13066018a सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् 13066018c प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते 13066019a तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते 13066019c अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः 13067001 युधिष्ठिर उवाच 13067001a तिलानां कीदृशं दानमथ दीपस्य चैव ह 13067001c अन्नानां वाससां चैव भूय एव ब्रवीहि मे 13067002 भीष्म उवाच 13067002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13067002c ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर 13067003a मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह 13067003c गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः 13067004a पर्णशालेति विख्यातो रमणीयो नराधिप 13067004c विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा 13067005a अथ प्राह यमः कंचित्पुरुषं कृष्णवाससम् 13067005c रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् 13067006a गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय 13067006c अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् 13067007a शमे निविष्टं विद्वांसमध्यापकमनादृतम् 13067007c मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः 13067008a स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना 13067008c अपत्येषु तथा वृत्ते समस्तेनैव धीमता 13067008e तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे 13067009a स गत्वा प्रतिकूलं तच्चकार यमशासनम् 13067009c तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः 13067010a तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् 13067010c प्रोवाच नीयतामेष सोऽन्य आनीयतामिति 13067011a एवमुक्ते तु वचने धर्मराजेन स द्विजः 13067011c उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै 13067011e यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत 13067012 यम उवाच 13067012a नाहं कालस्य विहितं प्राप्नोमीह कथंचन 13067012c यो हि धर्मं चरति वै तं तु जानामि केवलम् 13067013a गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते 13067013c ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत 13067014 ब्राह्मण उवाच 13067014a यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे 13067014c सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम 13067015 यम उवाच 13067015a शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् 13067015c तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् 13067016a तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ 13067016c नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत 13067017a तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् 13067017c तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा 13067018a तिला भक्षयितव्याश्च सदा त्वालभनं च तैः 13067018c कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे 13067019a तथापः सर्वदा देयाः पेयाश्चैव न संशयः 13067019c पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् 13067020a एतत्सुदुर्लभतरमिह लोके द्विजोत्तम 13067020c आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् 13067021a प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम 13067021c भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः 13067022a इत्युक्ते स तदा तेन यमदूतेन वै गृहान् 13067022c नीतश्चकार च तथा सर्वं तद्यमशासनम् 13067023a नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा 13067023c ययौ स धर्मराजाय न्यवेदयत चापि तम् 13067024a तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् 13067024c कृत्वा च संविदं तेन विससर्ज यथागतम् 13067025a तस्यापि च यमः सर्वमुपदेशं चकार ह 13067025c प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् 13067026a तथा प्रशंसते दीपान्यमः पितृहितेप्सया 13067026c तस्माद्दीपप्रदो नित्यं संतारयति वै पितॄन् 13067027a दातव्याः सततं दीपास्तस्माद्भरतसत्तम 13067027c देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो 13067028a रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप 13067028c तानि विक्रीय यजते ब्राह्मणो ह्यभयंकरः 13067029a यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै 13067029c उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च 13067030a यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् 13067030c उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् 13067031a वाससां तु प्रदानेन स्वदारनिरतो नरः 13067031c सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम 13067032a गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः 13067032c बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् 13067033a विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च 13067033c पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते 13068001 युधिष्ठिर उवाच 13068001a भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् 13068001c कथयस्व महाप्राज्ञ भूमिदानं विशेषतः 13068002a पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा 13068002c विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति 13068003a सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः 13068003c वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि 13068004 भीष्म उवाच 13068004a तुल्यनामानि देयानि त्रीणि तुल्यफलानि च 13068004c सर्वकामफलानीह गावः पृथ्वी सरस्वती 13068005a यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् 13068005c पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते 13068006a तथैव गाः प्रशंसन्ति न च देयं ततः परम् 13068006c संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर 13068006e मातरः सर्वभूतानां गावः सर्वसुखप्रदाः 13068007a वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः 13068007c मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि 13068008a प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् 13068008c पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन 13068009a प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः 13068009c तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् 13068010a पितृसद्मानि सततं देवतायतनानि च 13068010c पूयन्ते शकृता यासां पूतं किमधिकं ततः 13068011a ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः 13068011c अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् 13068012a स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति 13068012c नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति 13068013 युधिष्ठिर उवाच 13068013a देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् 13068013c कीदृशाय प्रदातव्या न देयाः कीदृशाय च 13068014 भीष्म उवाच 13068014a असद्वृत्ताय पापाय लुब्धायानृतवादिने 13068014c हव्यकव्यव्यपेताय न देया गौः कथंचन 13068015a भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये 13068015c दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् 13068016a यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् 13068016c सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः 13068017a यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् 13068017c यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः 13068018a कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः 13068018c अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः 13068019a वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य 13068019c शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च 13068020a यः क्षुद्भयाद्वै न विकर्म कुर्या;न्मृदुर्दान्तश्चातिथेयश्च नित्यम् 13068020c वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः 13068021a शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे 13068021c सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः 13069001 भीष्म उवाच 13069001a अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने 13069001c नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह 13069002a निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः 13069002c अदृश्यत महाकूपस्तृणवीरुत्समावृतः 13069003a प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः 13069003c श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते 13069004a ददृशुस्ते महाकायं कृकलासमवस्थितम् 13069004c तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः 13069005a प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् 13069005c नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् 13069006a खमावृत्योदपानस्य कृकलासः स्थितो महान् 13069006c तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् 13069007a स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा 13069007c नृगस्तदात्मानमथो न्यवेदय;त्पुरातनं यज्ञसहस्रयाजिनम् 13069008a तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम् 13069008c कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् 13069009a शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि 13069009c त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव 13069010a नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः 13069010c प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने 13069011a गवां सहस्रे संख्याता तदा सा पशुपैर्मम 13069011c सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता 13069012a अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः 13069012c ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् 13069013a तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ 13069013c भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः 13069014a शतेन शतसंख्येन गवां विनिमयेन वै 13069014c याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् 13069015a देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला 13069015c स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने 13069016a कृशं च भरते या गौर्मम पुत्रमपस्तनम् 13069016c न सा शक्या मया हातुमित्युक्त्वा स जगाम ह 13069017a ततस्तमपरं विप्रं याचे विनिमयेन वै 13069017c गवां शतसहस्रं वै तत्कृते गृह्यतामिति 13069018 ब्राह्मण उवाच 13069018a न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे 13069018c सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन 13069019a रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा 13069019c न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः 13069020a एतस्मिन्नेव काले तु चोदितः कालधर्मणा 13069020c पितृलोकमहं प्राप्य धर्मराजमुपागमम् 13069021a यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् 13069021c नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः 13069022a अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया 13069022c चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि 13069023a रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव 13069023c ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः 13069024a पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो 13069024c धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले 13069025a अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः 13069025c वासुदेवः समुद्धर्ता भविता ते जनार्दनः 13069026a पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते 13069026c प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा 13069027a कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह 13069027c तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः 13069028a त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् 13069028c अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै 13069029a अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् 13069029c विमानं दिव्यमास्थाय ययौ दिवमरिंदम 13069030a ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम 13069030c वासुदेव इमं श्लोकं जगाद कुरुनन्दन 13069031a ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता 13069031c ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव 13069032a सतां समागमः सद्भिर्नाफलः पार्थ विद्यते 13069032c विमुक्तं नरकात्पश्य नृगं साधुसमागमात् 13069033a प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः 13069033c अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर 13070001 युधिष्ठिर उवाच 13070001a दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ 13070001c विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् 13070002 भीष्म उवाच 13070002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13070002c ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः 13070003a ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् 13070003c त्वं मामुपचरस्वेति नाचिकेतमभाषत 13070003e समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् 13070004a उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च 13070004c इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् 13070004e विस्मृतं मे तदादाय नदीतीरादिहाव्रज 13070005a गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् 13070005c न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः 13070006a क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा 13070006c यमं पश्येति तं पुत्रमशपत्स महातपाः 13070007a तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः 13070007c प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि 13070008a नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः 13070008c किं मया कृतमित्युक्त्वा निपपात महीतले 13070009a तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः 13070009c व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी 13070010a पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह 13070010c प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् 13070011a स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः 13070011c दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् 13070012a अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा 13070012c दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः 13070013a प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना 13070013c अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् 13070014a कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् 13070014c वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् 13070015a दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश 13070015c वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः 13070016a ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् 13070016c प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व 13070017a यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी 13070017c पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् 13070018a दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता 13070018c ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व 13070019a तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् 13070019c इच्छाम्यहं पुण्यकृतां समृद्धाँ;ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः 13070020a यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् 13070020c संदर्शयामास तदा स्म लोका;न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र 13070021a अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् 13070021c नानासंस्थानरूपाणि सर्वरत्नमयानि च 13070022a चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च 13070022c अनेकशतभौमानि सान्तर्जलवनानि च 13070023a वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च 13070023c तरुणादित्यवर्णानि स्थावराणि चराणि च 13070024a भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च 13070024c सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् 13070025a नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः 13070025c घोषवन्ति च यानानि युक्तान्येव सहस्रशः 13070026a क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम् 13070026c वैवस्वतस्यानुमतांश्च देशा;नदृष्टपूर्वान्सुबहूनपश्यम् 13070027a सर्वं दृष्ट्वा तदहं धर्मराज;मवोचं वै प्रभविष्णुं पुराणम् 13070027c क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः 13070028a यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् 13070028c अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् 13070029a न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च 13070029c ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13070030a स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम् 13070030c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः 13070031a तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः 13070031c वत्सैः प्रीताः सुप्रजाः सोपचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् 13070032a दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च 13070032c यावन्ति लोमानि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् 13070033a तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् 13070033c कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य 13070034a गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः 13070034c वृत्तिग्लाने संभ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् 13070035a गुर्वर्थे वा बालपुष्ट्याभिषङ्गा;द्गावो दातुं देशकालोऽविशिष्टः 13070035c अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च 13070036 नाचिकेत उवाच 13070036a श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् 13070036c अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति 13070037a ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् 13070037c गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः 13070038a अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः 13070038c तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव 13070039a घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः 13070039c स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते 13070040a तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः 13070040c स कामप्रवहां शीतां नदीमेतामुपाश्नुते 13070041a एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् 13070041c दृष्ट्वा च परमं हर्षमवापमहमच्युत 13070042a निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः 13070042c प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः 13070043a शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे 13070043c दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये 13070044a इदं च मामब्रवीद्धर्मराजः; पुनः पुनः संप्रहृष्टो द्विजर्षे 13070044c दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः 13070045a शुद्धो ह्यर्थो नावमन्यः स्वधर्मा;त्पात्रे देयं देशकालोपपन्ने 13070045c तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र 13070046a एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः 13070046c तपांस्युग्राण्यप्रतिशङ्कमाना;स्ते वै दानं प्रददुश्चापि शक्त्या 13070047a काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः 13070047c दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके 13070048a एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य 13070048c काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा 13070049a वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने 13070049c तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने 13070050a गामप्येकां कपिलां संप्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत् 13070050c गवां रसात्परमं नास्ति किंचि;द्गवां दानं सुमहत्तद्वदन्ति 13070051a गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं संजनयन्ति लोके 13070051c यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः 13070052a यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः 13070052c अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै 13070053a प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् 13070053c शब्दश्चैकः संततिश्चोपभोग;स्तस्माद्गोदः सूर्य इवाभिभाति 13070054a गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता 13070054c विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति 13070055a एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य 13070055c त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः 13070056a इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य 13070056c अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् 13071001 युधिष्ठिर उवाच 13071001a उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति 13071001c माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो 13071002a नृगेण च यथा दुःखमनुभूतं महात्मना 13071002c एकापराधादज्ञानात्पितामह महामते 13071003a द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः 13071003c मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया 13071004a किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो 13071004c तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत 13071005 भीष्म उवाच 13071005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13071005c यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः 13071006 शक्र उवाच 13071006a स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा 13071006c गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे 13071007a कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ 13071007c यानावसन्ति दातार एतदिच्छामि वेदितुम् 13071008a कीदृशाः किंफलाः कः स्वित्परमस्तत्र वै गुणः 13071008c कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः 13071009a कियत्कालं प्रदानस्य दाता च फलमश्नुते 13071009c कथं बहुविधं दानं स्यादल्पमपि वा कथम् 13071010a बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् 13071010c अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे 13071011a कथं च बहुदाता स्यादल्पदात्रा समः प्रभो 13071011c अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर 13071012a कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते 13071012c एतत्तथ्येन भगवन्मम शंसितुमर्हसि 13072001 ब्रह्मोवाच 13072001a योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् 13072001c नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो 13072002a सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि 13072002c पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः 13072003a कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा 13072003c सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः 13072004a शरीरन्यासमोक्षेण मनसा निर्मलेन च 13072004c स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः 13072005a ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः 13072005c न तत्र क्रमते कालो न जरा न च पापकम् 13072005e तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः 13072006a यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव 13072006c तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् 13072006e कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते 13072007a वाप्यः सरांसि सरितो विविधानि वनानि च 13072007c गृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन 13072008a मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते 13072008c ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः 13072009a तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः 13072009c अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः 13072010a यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः 13072010c मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः 13072011a अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च 13072011c यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे 13072012a मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान् 13072012c ईदृग्गुणो मानवः संप्रयाति; लोकं गवां शाश्वतं चाव्ययं च 13072013a न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी 13072013c सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा 13072014a न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च 13072014c न ब्रह्महा मनसापि प्रपश्ये;द्गवां लोकं पुण्यकृतां निवासम् 13072015a एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर 13072015c गोप्रदानरतानां तु फलं शृणु शतक्रतो 13072016a दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति 13072016c धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् 13072017a यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति 13072017c स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते 13072018a दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः 13072018c प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः 13072019a प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा 13072019c तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते 13072020a जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः 13072020c गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः 13072021a न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते 13072021c मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः 13072022a सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु 13072022c गोसहस्रेण समिता तस्य धेनुर्भवत्युत 13072023a क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु 13072023c तस्यापि शततुल्या गौर्भवतीति विनिश्चयः 13072024a वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् 13072024c शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् 13072025a एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च 13072025c दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् 13072026a महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् 13072026c नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च 13072027a वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च 13072027c आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य 13072028a यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन 13072028c एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः 13072029a योऽग्रं भक्तान्किंचिदप्राश्य दद्या;द्गोभ्यो नित्यं गोव्रती सत्यवादी 13072029c शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः 13072030a य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् 13072030c दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः 13072031a एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति 13072031c यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो 13072031e तावच्छतानां स गवां फलमाप्नोति शाश्वतम् 13072032a ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु 13072032c पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् 13072032e ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः 13072033a यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति 13072033c यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते 13072033e लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः 13072034a संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छति 13072034c आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक 13072035a अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः 13072035c दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते 13072036a न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च 13072036c कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् 13072037a स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् 13072037c गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः 13072038a वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् 13072038c गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे 13072039a अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च 13072039c कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः 13072040a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13072040c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13072041a तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः 13072041c वत्सैः पुष्टैः क्षीरपैः सुप्रचारा;स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् 13072042a दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च 13072042c यावन्ति लोमानि भवन्ति तस्या;स्तावन्ति वर्षाणि वसत्यमुत्र 13072043a तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् 13072043c हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य 13072044a कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक 13072044c क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु 13072044e अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् 13072045a मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते 13072045c लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते 13072046a तत्सर्वं समवाप्नोति कर्मणा तेन मानवः 13072046c गोभिश्च समनुज्ञातः सर्वत्र स महीयते 13072047a यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति 13072047c तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः 13072048a अकामं तेन वस्तव्यं मुदितेन शतक्रतो 13072048c मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति 13073001 इन्द्र उवाच 13073001a जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् 13073001c एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् 13073002 ब्रह्मोवाच 13073002a भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते 13073002c दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् 13073003a विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः 13073003c घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः 13073004a घातकः खादको वापि तथा यश्चानुमन्यते 13073004c यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति 13073005a ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके 13073005c विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो 13073006a अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति 13073006c यावद्दाने फलं तस्यास्तावन्निरयमृच्छति 13073007a सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते 13073007c सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् 13073008a गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् 13073008c सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते 13073009a सुवर्णं परमं दानं सुवर्णं दक्षिणा परा 13073009c सुवर्णं पावनं शक्र पावनानां परं स्मृतम् 13073010a कुलानां पावनं प्राहुर्जातरूपं शतक्रतो 13073010c एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते 13073011 भीष्म उवाच 13073011a एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ 13073011c इन्द्रो दशरथायाह रामायाह पिता तथा 13073012a राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने 13073012c ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो 13073013a पारंपर्यागतं चेदमृषयः संशितव्रताः 13073013c दुर्धरं धारयामासू राजानश्चैव धार्मिकाः 13073013e उपाध्यायेन गदितं मम चेदं युधिष्ठिर 13073014a य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि 13073014c यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे 13073015a तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा 13073015c इति ब्रह्मा स भगवानुवाच परमेश्वरः 13074001 युधिष्ठिर उवाच 13074001a विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो 13074001c प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह 13074002a व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते 13074002c नियमानां फलं किं च स्वधीतस्य च किं फलम् 13074003a दमस्येह फलं किं च वेदानां धारणे च किम् 13074003c अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् 13074004a अप्रतिग्राहके किं च फलं लोके पितामह 13074004c तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति 13074005a स्वकर्मनिरतानां च शूराणां चापि किं फलम् 13074005c सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् 13074006a पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा 13074006c आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने 13074007a एतत्सर्वमशेषेण पितामह यथातथम् 13074007c वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे 13074008 भीष्म उवाच 13074008a यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते 13074008c अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः 13074009a नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते 13074009c नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् 13074010a स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च 13074010c इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते 13074011a दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे 13074011c दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः 13074012a यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः 13074012c प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः 13074013a युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव 13074013c स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च 13074014a दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः 13074014c दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः 13074015a यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः 13074015c क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः 13074016a अदृश्यानि महाराज स्थानान्ययुतशो दिवि 13074016c ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः 13074017a दमेन यानि नृपते गच्छन्ति परमर्षयः 13074017c कामयाना महत्स्थानं तस्माद्दानात्परो दमः 13074018a अध्यापकः परिक्लेशादक्षयं फलमश्नुते 13074018c विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप 13074019a अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति 13074019c गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते 13074020a क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि 13074020c युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते 13074021a वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् 13074021c शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति 13074022a शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु 13074022c शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह 13074023a यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे 13074023c युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः 13074024a बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे 13074024c आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः 13074025a तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे 13074025c वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः 13074026a गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे 13074026c मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे 13074027a सांख्यशूराश्च बहवो योगशूरास्तथापरे 13074027c अरण्ये गृहवासे च शूराश्चातिथिपूजने 13074027e सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् 13074028a धारणं सर्ववेदानां सर्वतीर्थावगाहनम् 13074028c सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् 13074029a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 13074029c अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते 13074030a सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते 13074030c सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् 13074031a सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा 13074031c सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् 13074032a मुनयः सत्यनिरता मुनयः सत्यविक्रमाः 13074032c मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते 13074032e सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ 13074033a दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया 13074033c असंशयं विनीतात्मा सर्वः स्वर्गे महीयते 13074034a ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप 13074034c आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह 13074034e न तस्य किंचिदप्राप्यमिति विद्धि जनाधिप 13074035a बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत 13074035c सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् 13074036a ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् 13074036c ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते 13074037a प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु 13074037c बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः 13074037e तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते 13074038a मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु 13074038c शुश्रूषते यः पितरं न चासूयेत्कथंचन 13074038e मातरं वानहंवादी गुरुमाचार्यमेव च 13074039a तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् 13074039c न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् 13075001 युधिष्ठिर उवाच 13075001a विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः 13075001c येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि 13075002 भीष्म उवाच 13075002a न गोदानात्परं किंचिद्विद्यते वसुधाधिप 13075002c गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् 13075003a सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः 13075003c तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे 13075004a पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना 13075004c मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत 13075005a द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च 13075005c प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः 13075006a आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च 13075006c प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् 13075007a गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा 13075007c प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने 13075008a स तामेकां निशां गोभिः समसख्यः समव्रतः 13075008c ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते 13075009a उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने 13075009c त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः 13075010a ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा 13075010c क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः 13075011a गावो ममैनः प्रणुदन्तु सौर्या;स्तथा सौम्याः स्वर्गयानाय सन्तु 13075011c आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे 13075012a शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि संप्रवृत्ताः 13075012c यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः 13075013a या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता 13075013c मनश्च्युता मनएवोपपन्नाः; संधुक्षध्वं सौम्यरूपोग्ररूपाः 13075014a एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम् 13075014c प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः 13075015a गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः 13075015c ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् 13075016a नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै 13075016c फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः 13075017a एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् 13075017c गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे 13075018a गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी 13075018c ऊधस्योढा भारत यश्च विद्वा;न्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः 13075019a गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः 13075019c काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा 13075020a वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने 13075020c तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः 13075021a कामान्सर्वान्पार्थिवानेकसंस्था;न्यो वै दद्यात्कामदुघां च धेनुम् 13075021c सम्यक्ताः स्युर्हव्यकव्यौघवत्य;स्तासामुक्ष्णां ज्यायसां संप्रदानम् 13075022a न चाशिष्यायाव्रतायोपकुर्या;न्नाश्रद्दधानाय न वक्रबुद्धये 13075022c गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् 13075023a सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु 13075023c येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः 13075024a बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा 13075024c लोकान्प्राप्ताः पुण्यशीलाः सुवृत्ता;स्तान्मे राजन्कीर्त्यमानान्निबोध 13075025a उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः 13075025c मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च 13075026a पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव 13075026c तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः 13075027a तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः 13075027c यज्ञैर्दानैस्तपसा राजधर्मै;र्मान्धाताभूद्गोप्रदानैश्च युक्तः 13075028a तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व 13075028c द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् 13075029 वैशंपायन उवाच 13075029a तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने 13075029c स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा 13075030a इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः 13075030c क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव 13075031a स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वै 13075031c नृपधुरि च न गामयुङ्क्त भूय;स्तुरगवरैरगमच्च यत्र तत्र 13076001 वैशंपायन उवाच 13076001a ततो युधिष्ठिरो राजा भूयः शांतनवं नृप 13076001c गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः 13076002 युधिष्ठिर उवाच 13076002a गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत 13076002c न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् 13076003a इत्युक्तो धर्मराजेन तदा शांतनवो नृप 13076003c सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् 13076004 भीष्म उवाच 13076004a वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् 13076004c दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते 13076005a असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति 13076005c पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् 13076006a जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् 13076006c दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् 13076007a दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः 13076007c क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः 13076008a बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः 13076008c यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा 13076009 युधिष्ठिर उवाच 13076009a कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् 13076009c विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् 13076010 भीष्म उवाच 13076010a वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे 13076010c वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा 13076011a प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा 13076011c असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया 13076012a यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः 13076012c तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो 13076013a अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः 13076013c ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः 13076014a यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः 13076014c सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः 13076015a एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया 13076015c वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् 13076016a इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः 13076016c प्रजापतिर्बलाधानममृतं प्रापिबत्तदा 13076017a स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् 13076017c ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् 13076018a सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः 13076018c सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः 13076019a तासाममृतवर्णानां क्षरन्तीनां समन्ततः 13076019c बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः 13076020a स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः 13076020c शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः 13076020e ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव 13076021a तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते 13076021c नानावर्णत्वमनयन्मेघानिव दिवाकरः 13076022a यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः 13076022c यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् 13076023a अथ क्रुद्धं महादेवं प्रजापतिरभाषत 13076023c अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् 13076024a यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः 13076024c तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः 13076025a न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः 13076025c नामृतेनामृतं पीतं वत्सपीता न वत्सला 13076026a इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च 13076026c आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् 13076027a वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः 13076027c प्रसादयामास मनस्तेन रुद्रस्य भारत 13076028a प्रीतश्चापि महादेवश्चकार वृषभं तदा 13076028c ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः 13076029a ततो देवैर्महादेवस्तदा पशुपतिः कृतः 13076029c ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते 13076030a एवमव्यग्रवर्णानां कपिलानां महौजसाम् 13076030c प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः 13076031a लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः 13076031c सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् 13076032a इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः 13076032c विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा 13076033a हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् 13076033c एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव 13076034 वैशंपायन उवाच 13076034a पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः 13076034c सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः 13076035a तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव 13076035c यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् 13077001 भीष्म उवाच 13077001a एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् 13077001c इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः 13077002a सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् 13077002c पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे 13077003 सौदास उवाच 13077003a त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ 13077003c यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् 13077004 भीष्म उवाच 13077004a तस्मै प्रोवाच वचनं प्रणताय हितं तदा 13077004c गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः 13077005a गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः 13077005c गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् 13077006a गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी 13077006c गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति 13077006e अन्नं हि सततं गावो देवानां परमं हविः 13077007a स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 13077007c गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः 13077008a सायं प्रातश्च सततं होमकाले महामते 13077008c गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ 13077009a कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च 13077009c तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो 13077010a एकां च दशगुर्दद्याद्दश दद्याच्च गोशती 13077010c शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते 13077011a अनाहिताग्निः शतगुरयज्वा च सहस्रगुः 13077011c समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः 13077012a कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् 13077012c सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते 13077013a युवानमिन्द्रियोपेतं शतेन सह यूथपम् 13077013c गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् 13077014a वृषभं ये प्रयच्छन्ति श्रोत्रियाय परंतप 13077014c ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः 13077015a नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् 13077015c सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् 13077016a गवां मूत्रपुरीषस्य नोद्विजेत कदाचन 13077016c न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते 13077017a गाश्च संकीर्तयेन्नित्यं नावमन्येत गास्तथा 13077017c अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत् 13077018a गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् 13077018c श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् 13077019a सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् 13077019c वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते 13077020a घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् 13077020c घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते 13077021a गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः 13077021c रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते 13077022a गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः 13077022c सुरभ्यः सौरभेयाश्च सरितः सागरं यथा 13077023a गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा 13077023c गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् 13077024a एवं रात्रौ दिवा चैव समेषु विषमेषु च 13077024c महाभयेषु च नरः कीर्तयन्मुच्यते भयात् 13078001 वसिष्ठ उवाच 13078001a शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् 13078001c गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति 13078002a लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः 13078002c भवेम न च लिप्येम दोषेणेति परंतप 13078003a स एव चेतसा तेन हतो लिप्येत सर्वदा 13078003c शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः 13078004a तथा सर्वाणि भूतानि स्थावराणि चराणि च 13078004c प्रदातारश्च गोलोकान्गच्छेयुरिति मानद 13078005a ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः 13078005c एवं भवत्विति विभुर्लोकांस्तारयतेति च 13078006a उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः 13078006c तपसोऽन्ते महाराज गावो लोकपरायणाः 13078007a तस्माद्गावो महाभागाः पवित्रं परमुच्यते 13078007c तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि 13078008a समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् 13078008c सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते 13078009a रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् 13078009c सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते 13078010a समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् 13078010c सुव्रतां वस्त्रसंवीतां सोमलोके महीयते 13078011a समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् 13078011c सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते 13078012a समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् 13078012c सुव्रतां वस्त्रसंवीतामग्निलोके महीयते 13078013a समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् 13078013c सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते 13078014a अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् 13078014c प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते 13078015a वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् 13078015c प्रदाय वस्त्रसंवीतां वायुलोके महीयते 13078016a हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् 13078016c प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते 13078017a पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् 13078017c प्रदाय वस्त्रसंवीतां पितृलोके महीयते 13078018a सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम् 13078018c वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते 13078019a समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् 13078019c सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते 13078020a पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् 13078020c प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते 13078021a वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम् 13078021c प्रदाय मरुतां लोकानजरान्प्रतिपद्यते 13078022a वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् 13078022c गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः 13078023a शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् 13078023c दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते 13078024a गोप्रदानरतो याति भित्त्वा जलदसंचयान् 13078024c विमानेनार्कवर्णेन दिवि राजन्विराजता 13078025a तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः 13078025c रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् 13078026a वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः 13078026c हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते 13078027a यावन्ति लोमानि भवन्ति धेन्वा;स्तावन्ति वर्षाणि महीयते सः 13078027c स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः 13079001 वसिष्ठ उवाच 13079001a घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः 13079001c घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे 13079002a घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् 13079002c घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् 13079003a गावो ममाग्रतो नित्यं गावः पृष्ठत एव च 13079003c गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् 13079004a इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा 13079004c यदह्ना कुरुते पापं तस्मात्स परिमुच्यते 13079005a प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा 13079005c गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः 13079006a नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः 13079006c वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः 13079007a गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि 13079007c परामृद्धिमवाप्याथ स गोलोके महीयते 13079008a दश चोभयतः प्रेत्य मातापित्रोः पितामहान् 13079008c दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः 13079009a धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय 13079009c पानीयदाता च यमस्य लोके; न यातनां कांचिदुपैति तत्र 13079010a पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः 13079010c अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् 13079011a धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् 13079011c प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः 13079012a सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः 13079012c गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् 13079013a नातः पुण्यतरं दानं नातः पुण्यतरं फलम् 13079013c नातो विशिष्टं लोकेषु भूतं भवितुमर्हति 13079014a त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा 13079014c यज्ञं वहन्ति संभूय किमस्त्यभ्यधिकं ततः 13079015a यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् 13079015c तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् 13079016a गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते 13079016c न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् 13079017 भीष्म उवाच 13079017a परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा 13079017c व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान् 13080001 युधिष्ठिर उवाच 13080001a पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् 13080001c पावनं परमं चैव तन्मे ब्रूहि पितामह 13080002 भीष्म उवाच 13080002a गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् 13080002c धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा 13080003a न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम 13080003c एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः 13080004a देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै 13080004c दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः 13080005a मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा 13080005c गावो ददन्तः सततं सहस्रशतसंमिताः 13080005e गताः परमकं स्थानं देवैरपि सुदुर्लभम् 13080006a अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ 13080007a ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः 13080007c अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः 13080007e पितरं परिपप्रच्छ दृष्टलोकपरावरम् 13080008a को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते 13080008c किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः 13080009a केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो 13080009c किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः 13080010a दानानामुत्तमं किं च किं च सत्रमतः परम् 13080010c पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ 13080011a एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् 13080011c पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ 13080012 व्यास उवाच 13080012a गावः प्रतिष्ठा भूतानां तथा गावः परायणम् 13080012c गावः पुण्याः पवित्राश्च पावनं धर्म एव च 13080013a पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः 13080013c शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् 13080014a ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह 13080014c ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः 13080015a तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् 13080015c नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक 13080016a ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः 13080016c पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः 13080016e गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते 13080017a ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः 13080017c ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते 13080017e गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ 13080018a यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः 13080018c पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम 13080019a सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 13080019c सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा 13080020a रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः 13080020c तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः 13080021a महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः 13080021c नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः 13080022a करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः 13080022c संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः 13080023a निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः 13080023c उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः 13080024a सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः 13080024c जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः 13080025a सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः 13080025c सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः 13080026a नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः 13080026c दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ 13080027a रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर 13080027c सर्वकामसमृद्धार्था निःशोका गतमन्यवः 13080028a विमानेषु विचित्रेषु रमणीयेषु भारत 13080028c मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः 13080029a उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः 13080029c एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर 13080030a यासामधिपतिः पूषा मारुतो बलवान्बली 13080030c ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः 13080031a सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः 13080031c प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः 13080032a गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः 13080032c तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् 13080033a न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः 13080033c अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् 13080033e दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते 13080034a येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् 13080034c यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् 13080035a घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् 13080035c घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते 13080036a त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः 13080036c गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् 13080036e त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् 13080037a निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः 13080037c ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति 13080038a पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् 13080038c देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः 13080039a गावः पवित्राः पुण्याश्च पावनं परमं महत् 13080039c ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते 13080040a गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् 13080040c पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः 13080041a अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि 13080041c विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः 13080042a अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् 13080042c त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् 13080043a पुत्रकामश्च लभते पुत्रं धनमथापि च 13080043c पतिकामा च भर्तारं सर्वकामांश्च मानवः 13080043e गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः 13080044a एवमेता महाभागा यज्ञियाः सर्वकामदाः 13080044c रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् 13080045a इत्युक्तः स महातेजाः शुकः पित्रा महात्मना 13080045c पूजयामास गा नित्यं तस्मात्त्वमपि पूजय 13081001 युधिष्ठिर उवाच 13081001a मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् 13081001c एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् 13081002 भीष्म उवाच 13081002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13081002c गोभिर्नृपेह संवादं श्रिया भरतसत्तम 13081003a श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह 13081003c गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम् 13081004 गाव ऊचुः 13081004a कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि 13081004c विस्मिताः स्म महाभागे तव रूपस्य संपदा 13081005a इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि 13081005c तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः 13081006 श्रीरुवाच 13081006a लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता 13081006c मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः 13081007a इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च 13081007c मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा 13081008a यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः 13081008c धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः 13081009a एवंप्रभावां मां गावो विजानीत सुखप्रदाम् 13081009c इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा 13081009e आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः 13081010 गाव ऊचुः 13081010a अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह 13081010c न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते 13081011a वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै 13081011c यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया 13081012 श्रीरुवाच 13081012a किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ 13081012c न मां संप्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् 13081013a सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः 13081013c स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः 13081014a महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः 13081014c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 13081015a क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह 13081015c नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे 13081016 गाव ऊचुः 13081016a नावमन्यामहे देवि न त्वां परिभवामहे 13081016c अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे 13081017a बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि 13081017c वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे 13081018 श्रीरुवाच 13081018a अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः 13081018c प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति 13081019a महाभागा भवत्यो वै शरण्याः शरणागताम् 13081019c परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् 13081019e माननां त्वहमिच्छामि भवत्यः सततं शुभाः 13081020a अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते 13081020c न वोऽस्ति कुत्सितं किंचिदङ्गेष्वालक्ष्यतेऽनघाः 13081021a पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत 13081021c वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ 13081022 भीष्म उवाच 13081022a एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः 13081022c संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप 13081023a अवश्यं मानना कार्या तवास्माभिर्यशस्विनि 13081023c शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे 13081024 श्रीरुवाच 13081024a दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः 13081024c एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः 13081025 भीष्म उवाच 13081025a एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत 13081025c पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत 13081026a एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् 13081026c माहात्म्यं च गवां भूयः श्रूयतां गदतो मम 13082001 भीष्म उवाच 13082001a ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश्च ये 13082001c तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर 13082002a ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते 13082002c तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते 13082003a दानानामपि सर्वेषां गवां दानं प्रशस्यते 13082003c गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् 13082004a पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह 13082004c पयो दधि घृतं यासां सर्वपापप्रमोचनम् 13082005a गावस्तेजः परं प्रोक्तमिह लोके परत्र च 13082005c न गोभ्यः परमं किंचित्पवित्रं पुरुषर्षभ 13082006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13082006c पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर 13082007a पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे 13082007c प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः 13082008a अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः 13082008c देवासुरसुपर्णाश्च प्रजानां पतयस्तथा 13082008e पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् 13082009a नारदः पर्वतश्चैव विश्वावसुहहाहुहू 13082009c दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् 13082010a तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा 13082010c आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् 13082011a तस्मिन्देवसमावाये सर्वभूतसमागमे 13082011c दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते 13082011e इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च 13082012a देवानां भगवन्कस्माल्लोकेशानां पितामह 13082012c उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् 13082013a किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर 13082013c देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् 13082014a ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् 13082014c अवज्ञातास्त्वया नित्यं गावो बलनिसूदन 13082015a तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो 13082015c गवां प्रभावं परमं माहात्म्यं च सुरर्षभ 13082016a यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव 13082016c एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथंचन 13082017a धारयन्ति प्रजाश्चैव पयसा हविषा तथा 13082017c एतासां तनयाश्चापि कृषियोगमुपासते 13082018a जनयन्ति च धान्यानि बीजानि विविधानि च 13082018c ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः 13082019a पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप 13082019c वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः 13082020a मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा 13082020c वासवाकूटवाहिन्यः कर्मणा सुकृतेन च 13082020e उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि 13082021a एतत्ते कारणं शक्र निवासकृतमद्य वै 13082021c गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो 13082022a एता हि वरदत्ताश्च वरदाश्चैव वासव 13082022c सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः 13082023a यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम 13082023c तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन 13082024a पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु 13082024c त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते 13082025a अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् 13082025c पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा 13082026a तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः 13082026c दक्षस्य दुहिता देवी सुरभिर्नाम नामतः 13082027a अतप्यत तपो घोरं हृष्टा धर्मपरायणा 13082027c कैलासशिखरे रम्ये देवगन्धर्वसेविते 13082028a व्यतिष्ठदेकपादेन परमं योगमास्थिता 13082028c दश वर्षसहस्राणि दश वर्षशतानि च 13082029a संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः 13082029c तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् 13082030a अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् 13082030c किमर्थं तप्यते देवि तपो घोरमनिन्दिते 13082031a प्रीतस्तेऽहं महाभागे तपसानेन शोभने 13082031c वरयस्व वरं देवि दातास्मीति पुरंदर 13082032 सुरभ्युवाच 13082032a वरेण भगवन्मह्यं कृतं लोकपितामह 13082032c एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ 13082033 ब्रह्मोवाच 13082033a तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर 13082033c प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते 13082034a अलोभकाम्यया देवि तपसा च शुभेन ते 13082034c प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते 13082035a त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि 13082035c मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति 13082036a मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव 13082036c निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते 13082037a मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः 13082037c यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे 13082038a तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः 13082038c न तत्र क्रमते मृत्युर्न जरा न च पावकः 13082038e न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव 13082039a तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च 13082039c विमानानि च युक्तानि कामगानि च वासव 13082040a व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् 13082040c तपसा महता चैव सुकृतेन च कर्मणा 13082040e शक्यः समासादयितुं गोलोकः पुष्करेक्षण 13082041a एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते 13082041c न ते परिभवः कार्यो गवामरिनिसूदन 13082042 भीष्म उवाच 13082042a एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा 13082042c गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर 13082043a एतत्ते सर्वमाख्यातं पावनं च महाद्युते 13082043c पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् 13082043e कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् 13082044a य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः 13082044c हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह 13082044e सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति 13082045a गोषु भक्तश्च लभते यद्यदिच्छति मानवः 13082045c स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः 13082046a पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् 13082046c धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् 13082047a विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् 13082047c न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत 13083001 युधिष्ठिर उवाच 13083001a उक्तं पितामहेनेदं गवां दानमनुत्तमम् 13083001c विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् 13083002a राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः 13083002c परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः 13083002e भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः 13083003a पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम् 13083003c पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन 13083004a एवमेव गवामुक्तं प्रदानं ते नृगेण ह 13083004c ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् 13083005a वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा 13083005c सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् 13083006a तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै 13083006c एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् 13083007a किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् 13083007c किं दानं किं फलं चैव कस्माच्च परमुच्यते 13083008a कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः 13083008c कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते 13083009a कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् 13083009c परमं दक्षिणार्थे च तद्ब्रवीहि पितामह 13083010 भीष्म उवाच 13083010a शृणु राजन्नवहितो बहुकारणविस्तरम् 13083010c जातरूपसमुत्पत्तिमनुभूतं च यन्मया 13083011a पिता मम महातेजाः शंतनुर्निधनं गतः 13083011c तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् 13083012a तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् 13083012c माता मे जाह्नवी चैव साहाय्यमकरोत्तदा 13083013a ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् 13083013c तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् 13083014a तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः 13083014c दातुं निर्वपणं सम्यग्यथावदहमारभम् 13083015a ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः 13083015c प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते 13083016a तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् 13083016c प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ 13083017a ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः 13083017c नायं वेदेषु विहितो विधिर्हस्त इति प्रभो 13083017e पिण्डो देयो नरेणेह ततो मतिरभून्मम 13083018a साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् 13083018c गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति 13083019a ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् 13083019c शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् 13083020a ततो दर्भेषु तत्सर्वमददं भरतर्षभ 13083020c शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ 13083021a ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप 13083021c ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा 13083022a प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ 13083022c विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः 13083023a त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव 13083023c आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः 13083024a साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः 13083024c प्रमाणमुपनीता वै स्थितिश्च न विचालिता 13083025a तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ 13083025c किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति 13083026a एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः 13083026c पाविता वै भविष्यन्ति पावनं परमं हि तत् 13083027a दश पूर्वान्दश परांस्तथा संतारयन्ति ते 13083027c सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् 13083028a ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते 13083028c सुवर्णदानेऽकरवं मतिं भरतसत्तम 13083029a इतिहासमिमं चापि शृणु राजन्पुरातनम् 13083029c जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च 13083030a जामदग्न्येन रामेण तीव्ररोषान्वितेन वै 13083030c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 13083031a ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः 13083031c आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् 13083032a वाजिमेधं महाराज सर्वकामसमन्वितम् 13083032c पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् 13083033a विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै 13083033c नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत 13083034a स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता 13083034c पप्रच्छागमसंपन्नानृषीन्देवांश्च भार्गवः 13083035a पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् 13083035c तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् 13083036 वसिष्ठ उवाच 13083036a देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत 13083036c अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् 13083037a तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः 13083037c भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः 13083038a भूय एव च माहात्म्यं सुवर्णस्य निबोध मे 13083038c गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर 13083039a मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन 13083039c प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै 13083040a शूलपाणेर्भगवतो रुद्रस्य च महात्मनः 13083040c गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह 13083041a देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन 13083041c समागमे भगवतो देव्या सह महात्मनः 13083041e ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् 13083042a ते महादेवमासीनं देवीं च वरदामुमाम् 13083042c प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह 13083043a अयं समागमो देव देव्या सह तवानघ 13083043c तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः 13083043e अमोघतेजास्त्वं देव देवी चेयमुमा तथा 13083044a अपत्यं युवयोर्देव बलवद्भविता प्रभो 13083044c तन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति 13083045a तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन 13083045c वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया 13083045e अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् 13083046a इति तेषां कथयतां भगवान्गोवृषध्वजः 13083046c एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत 13083047a इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः 13083047c ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः 13083048a रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते 13083048c देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः 13083049a यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः 13083049c तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ 13083050a प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै 13083050c तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति 13083051a पावकस्तु न तत्रासीच्छापकाले भृगूद्वह 13083051c देवा देव्यास्तथा शापादनपत्यास्तदाभवन् 13083052a रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा 13083052c प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि 13083053a तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् 13083053c तेजस्तेजसि संपृक्तमेकयोनित्वमागतम् 13083054a एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः 13083054c असुरस्तारको नाम तेन संतापिता भृशम् 13083055a आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि 13083055c साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् 13083056a स्थानानि देवतानां हि विमानानि पुराणि च 13083056c ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः 13083057a ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह 13083057c प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् 13084001 देवा ऊचुः 13084001a असुरस्तारको नाम त्वया दत्तवरः प्रभो 13084001c सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् 13084002a तस्माद्भयं समुत्पन्नमस्माकं वै पितामह 13084002c परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः 13084003 ब्रह्मोवाच 13084003a समोऽहं सर्वभूतानामधर्मं नेह रोचये 13084003c हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः 13084004a वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः 13084004c विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः 13084005 देवा ऊचुः 13084005a वरदानाद्भगवतो दैतेयो बलगर्वितः 13084005c देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् 13084006a स हि नैव स्म देवानां नासुराणां न रक्षसाम् 13084006c वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह 13084007a देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते 13084007c न भविष्यति वोऽपत्यमिति सर्वजगत्पते 13084008 ब्रह्मोवाच 13084008a हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः 13084008c स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् 13084009a तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् 13084009c मानुषानथ गन्धर्वान्नागानथ च पक्षिणः 13084010a अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति 13084010c यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः 13084011a सनातनो हि संकल्पः काम इत्यभिधीयते 13084011c रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् 13084012a तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् 13084012c वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति 13084013a स तु नावाप तं शापं नष्टः स हुतभुक्तदा 13084013c तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः 13084014a अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् 13084014c तारकस्य वधोपायः कथितो वै मयानघाः 13084015a न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै 13084015c बलान्यतिबलं प्राप्य नबलानि भवन्ति वै 13084016a हन्यादवध्यान्वरदानपि चैव तपस्विनः 13084016c संकल्पाभिरुचिः कामः सनातनतमोऽनलः 13084017a जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः 13084017c हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः 13084018a अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः 13084018c स वो मनोगतं कामं देवः संपादयिष्यति 13084019a एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः 13084019c जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् 13084020a ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह 13084020c काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः 13084021a परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः 13084021c लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह 13084021e नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् 13084022a ततः संजातसंत्रासानग्नेर्दर्शनलालसान् 13084022c जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः 13084022e उवाच देवान्मण्डूको रसातलतलोत्थितः 13084023a रसातलतले देवा वसत्यग्निरिति प्रभो 13084023c संतापादिह संप्राप्तः पावकप्रभवादहम् 13084024a स संसुप्तो जले देवा भगवान्हव्यवाहनः 13084024c अपः संसृज्य तेजोभिस्तेन संतापिता वयम् 13084025a तस्य दर्शनमिष्टं वो यदि देवा विभावसोः 13084025c तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना 13084026a गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः 13084026c एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् 13084027a हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् 13084027c शशाप स तमासाद्य न रसान्वेत्स्यसीति वै 13084028a तं स संयुज्य शापेन मण्डूकं पावको ययौ 13084028c अन्यत्र वासाय विभुर्न च देवानदर्शयत् 13084029a देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह 13084029c यत्तच्छृणु महाबाहो गदतो मम सर्वशः 13084030 देवा ऊचुः 13084030a अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः 13084030c सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ 13084031a बिलवासगतांश्चैव निरादानानचेतसः 13084031c गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति 13084031e तमोगतायामपि च निशायां विचरिष्यथ 13084032a इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् 13084032c परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् 13084033a अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः 13084033c अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह 13084034a शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः 13084034c प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह 13084035a इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः 13084035c प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया 13084036a अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो 13084036c देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः 13084037 देवा ऊचुः 13084037a प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ 13084037c वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् 13084037e इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः 13084038a अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा 13084038c शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् 13084039a शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि 13084039c जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा 13084040a दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः 13084040c भविता न त्वमत्यन्तं शकुने नष्टवागिति 13084041a आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति 13084041c बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् 13084042a इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः 13084042c तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि 13084043a ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते 13084043c उत्पादने तथोपायमनुजग्मुश्च मानवाः 13084044a आपो रसातले यास्तु संसृष्टाश्चित्रभानुना 13084044c ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव 13084044e पावकेनाधिशयता संतप्तास्तस्य तेजसा 13084045a ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा 13084045c किमागमनमित्येवं तानपृच्छत पावकः 13084046a तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः 13084046c त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति 13084046e कृते च तस्मिन्भविता तवापि सुमहान्गुणः 13084047 अग्निरुवाच 13084047a ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः 13084047c भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा 13084048 देवा ऊचुः 13084048a असुरस्तारको नाम ब्रह्मणो वरदर्पितः 13084048c अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् 13084049a इमान्देवगणांस्तात प्रजापतिगणांस्तथा 13084049c ऋषींश्चापि महाभागान्परित्रायस्व पावक 13084050a अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो 13084050c यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन 13084051a शप्तानां नो महादेव्या नान्यदस्ति परायणम् 13084051c अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः 13084052a इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् 13084052c जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति 13084053a तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा 13084053c ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा 13084054a तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना 13084054c संतापमगमत्तीव्रं सा सोढुं न शशाक ह 13084055a आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते 13084055c गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् 13084056a अबुद्धापतितेनाथ नादेन विपुलेन सा 13084056c वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना 13084056e विसंज्ञा नाशकद्गर्भं संधारयितुमात्मना 13084057a सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी 13084057c उवाच वचनं विप्र तदा गर्भबलोद्धता 13084057e न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे 13084058a विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् 13084058c विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ 13084059a धारणे नास्य शक्ताहं गर्भस्य तपतां वर 13084059c उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन 13084060a न चेतसोऽस्ति संस्पर्शो मम देव विभावसो 13084060c आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते 13084061a यदत्र गुणसंपन्नमितरं वा हुताशन 13084061c त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ 13084062a तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् 13084062c गर्भो मत्तेजसा युक्तो महागुणफलोदयः 13084063a शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा 13084063c न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते 13084064a सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा 13084064c समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा 13084065a समर्था धारणे चापि रुद्रतेजःप्रधर्षिता 13084065c नाशकत्तं तदा गर्भं संधारयितुमोजसा 13084066a सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् 13084066c दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह 13084066e पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः 13084067a कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते 13084067c तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे 13084068 गङ्गोवाच 13084068a जातरूपः स गर्भो वै तेजसा त्वमिवानल 13084068c सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् 13084069a पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः 13084069c गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर 13084070a तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः 13084070c यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा 13084070e तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत 13084071a पर्यधावत शैलांश्च नदीः प्रस्रवणानि च 13084071c व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् 13084072a एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन 13084072c सूर्यवैश्वानरसमः कान्त्या सोम इवापरः 13084072e एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत 13084073a पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् 13084073c जगामेष्टं ततो देशं तदा भार्गवनन्दन 13084074a एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते 13084074c हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा 13084074e पृथिवी च तदा देवी ख्याता वसुमतीति वै 13084075a स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः 13084075c दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः 13084076a ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् 13084076c जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः 13084077a ततः स कार्त्तिकेयत्वमवाप परमद्युतिः 13084077c स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् 13084078a एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः 13084078c तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् 13084079a ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् 13084079c यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः 13084080a पवित्राणां पवित्रं हि कनकं द्विजसत्तम 13084080c अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् 13084081a रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् 13084081c पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् 13085001 वसिष्ठ उवाच 13085001a अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् 13085001c पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः 13085002a देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् 13085002c ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो 13085003a आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः 13085003c यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् 13085004a मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः 13085004c ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः 13085005a लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः 13085005c ओंकारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा 13085006a वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च 13085006c भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः 13085006e जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो 13085007a देवपत्न्यश्च कन्याश्च देवानां चैव मातरः 13085007c आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह 13085008a यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः 13085008c स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि 13085009a तस्य शुक्रस्य निष्पन्दात्पांसून्संगृह्य भूमितः 13085009c प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने 13085010a ततस्तस्मिन्संप्रवृत्ते सत्रे ज्वलितपावके 13085010c ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह 13085011a स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः 13085011c आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन 13085012a ततः संजनयामास भूतग्रामं स वीर्यवान् 13085012c ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् 13085013a तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् 13085013c सगुणस्तेजसो नित्यं तमस्याकाशमेव च 13085014a सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः 13085014c शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो 13085015a पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः 13085015c भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् 13085016a अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् 13085016c सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः 13085017a मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् 13085017c अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् 13085017e अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि 13085018a तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः 13085018c वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः 13085018e अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ 13085019a शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे 13085019c ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् 13085020a एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः 13085020c ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् 13085021a यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः 13085021c अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् 13085022a रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् 13085022c तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः 13085023a अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः 13085023c उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः 13085024a आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् 13085024c सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् 13085025a ततोऽब्रवीन्महादेवो वरुणः परमात्मकः 13085025c मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह 13085026a त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः 13085026c इति जानीत खगमा मम यज्ञफलं हि तत् 13085027 अग्निरुवाच 13085027a मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च 13085027c ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः 13085028a अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः 13085028c ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् 13085029a अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह 13085029c यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् 13085030a ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै 13085030c कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च 13085031a वयं च भगवन्सर्वे जगच्च सचराचरम् 13085031c तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः 13085031e वरुणश्चेश्वरो देवो लभतां काममीप्सितम् 13085032a निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः 13085032c जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् 13085033a ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् 13085033c पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् 13085034a तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् 13085034c आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः 13085034e भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ 13085035a एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः 13085035c सर्वं संतानमेतेषामिदमित्युपधारय 13085036a भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः 13085036c च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च 13085037a शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते 13085037c भार्गवा वारुणाः सर्वे येषां वंशे भवानपि 13085038a अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः 13085038c बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च 13085039a घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः 13085039c एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः 13085040a ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः 13085040c अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः 13085041a कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा 13085041c भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् 13085042a अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् 13085042c प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः 13085043a एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः 13085043c भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् 13085044a वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः 13085044c कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ 13085045a जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः 13085045c तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः 13085046a ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः 13085046c इमे नः संतरिष्यन्ति प्रजाभिर्जगदीश्वराः 13085047a सर्वे प्रजानां पतयः सर्वे चातितपस्विनः 13085047c त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् 13085048a तथैव वंशकर्तारस्तव तेजोविवर्धनाः 13085048c भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा 13085049a देवपक्षधराः सौम्याः प्राजापत्या महर्षयः 13085049c आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा 13085050a सर्वे हि वयमेते च तवैव प्रसवः प्रभो 13085050c देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह 13085051a मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः 13085051c अपत्यानीति संप्रेक्ष्य क्षमयाम पितामह 13085052a ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः 13085052c स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा 13085053a एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः 13085053c देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् 13085054a अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः 13085054c अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा 13085055a अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् 13085055c जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् 13085056a कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् 13085056c हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते 13085057a तस्मादग्निपराः सर्वा देवता इति शुश्रुम 13085057c ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् 13085058a तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः 13085058c देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् 13085059a तस्य चातमसो लोका गच्छतः परमां गतिम् 13085059c स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव 13085060a आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् 13085060c ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः 13085061a ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते 13085061c मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् 13085062a ददाति पश्चिमां संध्यां यः सुवर्णं धृतव्रतः 13085062c ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः 13085063a सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् 13085063c इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते 13085064a ततः संपद्यतेऽन्येषु लोकेष्वप्रतिमः सदा 13085064c अनावृतगतिश्चैव कामचारी भवत्युत 13085065a न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् 13085065c सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् 13085066a यस्तु संजनयित्वाग्निमादित्योदयनं प्रति 13085066c दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते 13085067a अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् 13085067c यथेष्टगुणसंपन्नं प्रवर्तकमिति स्मृतम् 13085068 भीष्म उवाच 13085068a इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् 13085068c ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् 13085069a एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते 13085069c प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् 13085070a तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु 13085070c ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि 13086001 युधिष्ठिर उवाच 13086001a उक्ताः पितामहेनेह सुवर्णस्य विधानतः 13086001c विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः 13086002a यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् 13086002c स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे 13086003a उक्तः स देवतानां हि अवध्य इति पार्थिव 13086003c न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः 13086004a एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह 13086004c कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे 13086005 भीष्म उवाच 13086005a विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा 13086005c कृत्तिकाश्चोदयामासुरपत्यभरणाय वै 13086006a न देवतानां काचिद्धि समर्था जातवेदसः 13086006c एकापि शक्ता तं गर्भं संधारयितुमोजसा 13086007a षण्णां तासां ततः प्रीतः पावको गर्भधारणात् 13086007c स्वेन तेजोविसर्गेण वीर्येण परमेण च 13086008a तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः 13086008c षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो 13086009a ततस्ता वर्धमानस्य कुमारस्य महात्मनः 13086009c तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे 13086010a ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते 13086010c समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ 13086011a ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् 13086011c पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः 13086012a स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः 13086012c दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः 13086013a ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् 13086013c जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः 13086014a अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे 13086014c स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् 13086015a ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः 13086015c रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः 13086016a अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ 13086016c आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः 13086017a पृथग्भूतानि चान्यानि यानि देवार्पणानि वै 13086017c आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् 13086017e ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा 13086018a षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् 13086018c पीनांसं द्वादशभुजं पावकादित्यवर्चसम् 13086019a शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः 13086019c लेभिरे परमं हर्षं मेनिरे चासुरं हतम् 13086020a ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् 13086020c क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह 13086021a सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् 13086021c राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ 13086022a कुक्कुटं चाग्निसंकाशं प्रददौ वरुणः स्वयम् 13086022c चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् 13086023a गवां माता च गा देवी ददौ शतसहस्रशः 13086023c छागमग्निर्गुणोपेतमिला पुष्पफलं बहु 13086024a सुधन्वा शकटं चैव रथं चामितकूबरम् 13086024c वरुणो वारुणान्दिव्यान्भुजंगान्प्रददौ शुभान् 13086024e सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः 13086025a श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च 13086025c राक्षसासुरसंघाश्च येऽनुजग्मुस्तमीश्वरम् 13086026a वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः 13086026c उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् 13086027a सेनापत्येन तं देवाः पूजयित्वा गुहालयम् 13086027c शशंसुर्विप्रकारं तं तस्मै तारककारितम् 13086028a स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः 13086028c जघानामोघया शक्त्या दानवं तारकं गुहः 13086029a तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे 13086029c सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः 13086030a स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् 13086030c ईशो गोप्ता च देवानां प्रियकृच्छंकरस्य च 13086031a हिरण्यमूर्तिर्भगवानेष एव च पावकिः 13086031c सदा कुमारो देवानां सेनापत्यमवाप्तवान् 13086032a तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् 13086032c सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् 13086033a एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा 13086033c तस्मात्सुवर्णदानाय प्रयतस्व नराधिप 13086034a रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः 13086034c त्रिविष्टपे महत्स्थानमवापासुलभं नरैः 13087001 युधिष्ठिर उवाच 13087001a चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ 13087001c तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव 13087002 वैशंपायन उवाच 13087002a युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा 13087002c इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे 13087003 भीष्म उवाच 13087003a शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् 13087003c धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप 13087004a देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 13087004c पिशाचकिंनराणां च पूज्या वै पितरः सदा 13087005a पितॄन्पूज्यादितः पश्चाद्देवान्संतर्पयन्ति वै 13087005c तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा 13087006a अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते 13087006c तच्चामिषेण विधिना विधिः प्रथमकल्पितः 13087007a सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः 13087007c प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् 13087008a येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ 13087008c तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे 13087009a पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः 13087009c अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः 13087010a स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः 13087010c चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे 13087011a पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप 13087011c कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः 13087012a कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप 13087012c अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् 13087013a नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु 13087013c विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः 13087014a कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप 13087014c ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि 13087015a द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते 13087015c रजतं बहु चित्रं च सुवर्णं च मनोरमम् 13087016a ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् 13087016c अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे 13087017a युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् 13087017c अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् 13087018a कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् 13087018c श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः 13087019a यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते 13087019c तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते 13088001 युधिष्ठिर उवाच 13088001a किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर 13088001c किं हविश्चिररात्राय किमानन्त्याय कल्पते 13088002 भीष्म उवाच 13088002a हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः 13088002c तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर 13088003a तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा 13088003c दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप 13088004a वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् 13088004c सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः 13088005a द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह 13088005c त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु 13088006a आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप 13088006c वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु 13088007a मासानष्टौ पार्षतेन रौरवेण नवैव तु 13088007c गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी 13088008a मासानेकादश प्रीतिः पितॄणां माहिषेण तु 13088008c गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते 13088009a यथा गव्यं तथा युक्तं पायसं सर्पिषा सह 13088009c वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी 13088010a आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये 13088010c कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते 13088011a गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर 13088011c सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत 13088012a अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् 13088012c मघासु सर्पिषा युक्तं पायसं दक्षिणायने 13088013a आजेन वापि लौहेन मघास्वेव यतव्रतः 13088013c हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् 13088014a एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 13088014c यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः 13088015a आपो मूलं फलं मांसमन्नं वापि पितृक्षये 13088015c यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते 13089001 भीष्म उवाच 13089001a यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे 13089001c तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् 13089002a श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः 13089002c अग्नीनाधाय सापत्यो यजेत विगतज्वरः 13089003a अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे 13089003c क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् 13089004a कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ 13089004c पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः 13089005a आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते 13089005c ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् 13089006a फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् 13089006c अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् 13089007a चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् 13089007c स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति 13089008a बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः 13089008c अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् 13089009a आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् 13089009c नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः 13089010a मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् 13089010c उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् 13089011a श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् 13089011c श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् 13089012a राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः 13089012c नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् 13089013a पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् 13089013c उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः 13089014a बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः 13089014c अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् 13089015a इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् 13089015c अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह 13090001 युधिष्ठिर उवाच 13090001a कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह 13090001c द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि 13090002 भीष्म उवाच 13090002a ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् 13090002c दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् 13090003a देवताः पूजयन्तीह दैवेनैवेह तेजसा 13090003c उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः 13090004a श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः 13090004c कुलशीलवयोरूपैर्विद्ययाभिजनेन च 13090005a एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः 13090005c अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु 13090006a कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः 13090006c ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी 13090007a अगारदाही गरदः कुण्डाशी सोमविक्रयी 13090007c सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः 13090008a पित्रा विवदमानश्च यस्य चोपपतिर्गृहे 13090008c अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति 13090009a पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः 13090009c अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च 13090010a श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च 13090010c परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः 13090010e कुशीलवो देवलको नक्षत्रैर्यश्च जीवति 13090011a एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् 13090011c शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः 13090012a षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति 13090012c पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप 13090013a यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः 13090013c सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् 13090014a असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् 13090014c सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् 13090015a श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथंचन 13090015c तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् 13090016a तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः 13090016c यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः 13090017a यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति 13090017c तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् 13090018a इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः 13090018c ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् 13090019a वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि 13090019c पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः 13090020a त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् 13090020c ब्रह्मदेयानुसंतानश्छन्दोगो ज्येष्ठसामगः 13090021a मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः 13090021c ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा 13090021e वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत 13090022a अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः 13090022c सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः 13090023a ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः 13090023c मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः 13090024a अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः 13090024c सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् 13090024e एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः 13090025a इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः 13090025c यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः 13090026a ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् 13090026c ये च भाष्यविदः केचिद्ये च व्याकरणे रताः 13090027a अधीयते पुराणं ये धर्मशास्त्राण्यथापि च 13090027c अधीत्य च यथान्यायं विधिवत्तस्य कारिणः 13090028a उपपन्नो गुरुकुले सत्यवादी सहस्रदः 13090028c अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च 13090029a यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत 13090029c ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते 13090030a क्रोशादर्धतृतीयात्तु पावयेदेक एव हि 13090030c ब्रह्मदेयानुसंतान इति ब्रह्मविदो विदुः 13090031a अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् 13090031c ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् 13090032a अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः 13090032c न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः 13090033a तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् 13090033c स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् 13090034a यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च 13090034c न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति 13090035a यश्च श्राद्धे कुरुते संगतानि; न देवयानेन पथा स याति 13090035c स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः 13090036a तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः संग्रहार्थं धनानि 13090036c यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये 13090037a यथोषरे बीजमुप्तं न रोहे;न्न चास्योप्ता प्राप्नुयाद्बीजभागम् 13090037c एवं श्राद्धं भुक्तमनर्हमाणै;र्न चेह नामुत्र फलं ददाति 13090038a ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति 13090038c तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते 13090039a संभोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति 13090039c इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा 13090040a यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति 13090040c तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति 13090041a उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै 13090041c आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात् 13090042a ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर 13090042c निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः 13090043a स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च 13090043c तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत 13090044a कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत 13090044c तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः 13090045a ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् 13090045c ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् 13090046a वैखानसानां वचनमृषीणां श्रूयते नृप 13090046c दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् 13090046e प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् 13090047a यः सहस्रं सहस्राणां भोजयेदनृचां नरः 13090047c एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत 13091001 युधिष्ठिर उवाच 13091001a केन संकल्पितं श्राद्धं कस्मिन्काले किमात्मकम् 13091001c भृग्वङ्गिरसके काले मुनिना कतरेण वा 13091002a कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च 13091002c धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह 13091003 भीष्म उवाच 13091003a यथा श्राद्धं संप्रवृत्तं यस्मिन्काले यदात्मकम् 13091003c येन संकल्पितं चैव तन्मे शृणु जनाधिप 13091004a स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् 13091004c तस्य वंशे महाराज दत्तात्रेय इति स्मृतः 13091005a दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः 13091005c निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः 13091006a पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः 13091006c कालधर्मपरीतात्मा निधनं समुपागतः 13091007a निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा 13091007c संतापमगमत्तीव्रं पुत्रशोकपरायणः 13091008a अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः 13091008c तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत 13091009a तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः 13091009c मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी 13091010a ततः संचिन्तयामास श्राद्धकल्पं समाहितः 13091010c यानि तस्यैव भोज्यानि मूलानि च फलानि च 13091011a उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह 13091011c तानि सर्वाणि मनसा विनिश्चित्य तपोधनः 13091012a अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् 13091012c दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् 13091013a सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् 13091013c ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः 13091014a दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः 13091014c पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते 13091015a कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः 13091015c प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् 13091016a तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकरमात्मनः 13091016c पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् 13091017a अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् 13091017c कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति 13091018a ततः संचिन्तयामास वंशकर्तारमात्मनः 13091018c ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः 13091019a अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् 13091019c भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः 13091020a निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधनः 13091020c मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् 13091021a सोऽयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया 13091021c ऋते स्वयंभुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् 13091022a आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् 13091022c स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे 13091023a कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन 13091023c ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः 13091024a विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः 13091024c तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा 13091025a स्तोतव्या चेह पृथिवी निवापस्येह धारिणी 13091025c वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च 13091026a उदकानयने चैव स्तोतव्यो वरुणो विभुः 13091026c ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ 13091027a देवास्तु पितरो नाम निर्मिता वै स्वयंभुवा 13091027c ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः 13091028a ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् 13091028c सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा 13091029a विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते 13091029c तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् 13091030a सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा 13091030c ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च 13091031a विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च 13091031c विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः 13091032a सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः 13091032c उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च 13091033a चमूहरः सुवेषश्च व्योमारिः शंकरो भवः 13091033c ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् 13091034a गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा 13091034c सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च 13091035a अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च 13091035c जितात्मा मुनिवीर्यश्च दीप्तलोमा भयंकरः 13091036a अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा 13091036c शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा 13091037a स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः 13091037c कीर्तितास्ते महाभागाः कालस्य गतिगोचराः 13091038a अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा 13091038c हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा 13091039a पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः 13091039c कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च 13091040a ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् 13091040c कृष्णाजाजी विडश्चैव शीतपाकी तथैव च 13091040e अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च 13091041a वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च 13091041c अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् 13091042a निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् 13091042c पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः 13091043a चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते 13091043c काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा 13091044a संकीर्णयोनिर्विप्रश्च संबन्धी पतितश्च यः 13091044c वर्जनीया बुधैरेते निवापे समुपस्थिते 13091045a इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा 13091045c पितामहसभां दिव्यां जगामात्रिस्तपोधनः 13092001 भीष्म उवाच 13092001a तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः 13092001c पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा 13092002a ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत 13092002c तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः 13092003a निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत 13092003c तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै 13092004a अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह 13092004c सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः 13092005a तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः 13092005c निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् 13092006a तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः 13092006c स्वयंभूसदनं यात स वः श्रेयो विधास्यति 13092007a ते सोमवचनाद्देवाः पितृभिः सह भारत 13092007c मेरुशृङ्गे समासीनं पितामहमुपागमन् 13092008 पितर ऊचुः 13092008a निवापान्नेन भगवन्भृशं पीड्यामहे वयम् 13092008c प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् 13092009a इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत् 13092009c एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति 13092010 अग्निरुवाच 13092010a सहितास्तात भोक्ष्यामो निवापे समुपस्थिते 13092010c जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः 13092011a एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् 13092011c एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप 13092012a निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ 13092012c न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत 13092012e रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ 13092013a पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे 13092013c प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः 13092014a ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः 13092014c सोमायेति च वक्तव्यं तथा पितृमतेति च 13092015a रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या 13092015c निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजाः 13092016a जलं प्रतरमाणश्च कीर्तयेत पितामहान् 13092016c नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् 13092017a पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः 13092017c सुहृत्संबन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् 13092018a कल्माषगोयुगेनाथ युक्तेन तरतो जलम् 13092018c पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः 13092018e सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः 13092019a मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै 13092019c पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः 13092020a पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा 13092020c अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः 13092020e एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः 13092021a एते च पितरो राजन्नेष श्राद्धविधिः परः 13092021c प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा 13092022a इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् 13092022c ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् 13093001 युधिष्ठिर उवाच 13093001a द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते 13093001c अन्नं ब्राह्मणकामाय कथमेतत्पितामह 13093002 भीष्म उवाच 13093002a अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः 13093002c वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर 13093003 युधिष्ठिर उवाच 13093003a यदिदं तप इत्याहुरुपवासं पृथग्जनाः 13093003c तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् 13093004 भीष्म उवाच 13093004a मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः 13093004c आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् 13093005a त्यागस्यापि च संपत्तिः शिष्यते तप उत्तमम् 13093005c सदोपवासी च भवेद्ब्रह्मचारी तथैव च 13093006a मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् 13093006c कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत 13093007a अमृताशी सदा च स्यात्पवित्री च सदा भवेत् 13093007c ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् 13093008a विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः 13093008c अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् 13093009 युधिष्ठिर उवाच 13093009a कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव 13093009c विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः 13093010 भीष्म उवाच 13093010a अन्तरा सायमाशं च प्रातराशं तथैव च 13093010c सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः 13093011a भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह 13093011c ऋतवादी सदा च स्याद्दानशीलश्च मानवः 13093012a अभक्षयन्वृथा मांसममांसाशी भवत्युत 13093012c दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् 13093013a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा 13093013c अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर 13093014a अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः 13093014c अभोजनेन तेनास्य जितः स्वर्गो भवत्युत 13093015a देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह 13093015c अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् 13093016a तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः 13093016c उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप 13093017a देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते 13093017c रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा 13094001 युधिष्ठिर उवाच 13094001a ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च 13094001c दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह 13094002 भीष्म उवाच 13094002a साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः 13094002c गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति 13094003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13094003c वृषादर्भेश्च संवादं सप्तर्षीणां च भारत 13094004a कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः 13094004c विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती 13094005a सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका 13094005c शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह 13094006a ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् 13094006c समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् 13094007a अथाभवदनावृष्टिर्महती कुरुनन्दन 13094007c कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः 13094008a कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना 13094008c दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल 13094009a तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो 13094009c ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे 13094010a याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः 13094010c अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत 13094011a निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः 13094011c कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः 13094012a अटमानोऽथ तान्मार्गे पचमानान्महीपतिः 13094012c राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह 13094013 वृषादर्भिरुवाच 13094013a प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् 13094013c मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः 13094014a प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम् 13094014c एकैकशः सवृषाः संप्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः 13094015a कुलंभराननडुहः शतंशता;न्धुर्याञ्शुभान्सर्वशोऽहं ददानि 13094015c पृथ्वीवाहान्पीवरांश्चैव ताव;दग्र्या गृष्ट्यो धेनवः सुव्रताश्च 13094016a वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि 13094016c मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः 13094017 ऋषय ऊचुः 13094017a राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः 13094017c तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् 13094018a क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् 13094018c अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः 13094019a अह्नापीह तपो जातु ब्राह्मणस्योपजायते 13094019c तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः 13094020a कुशलं सह दानेन राजन्नस्तु सदा तव 13094020c अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः 13094021a अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् 13094021c अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः 13094022a ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः 13094022c प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः 13094023a उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् 13094023c भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् 13094024a गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् 13094024c न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः 13094024e हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः 13094025a इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् 13094025c अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना 13094026 वसिष्ठ उवाच 13094026a शतेन निष्कं गणितं सहस्रेण च संमितम् 13094026c यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् 13094027 कश्यप उवाच 13094027a यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 13094027c सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् 13094028 भरद्वाज उवाच 13094028a उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते 13094028c प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते 13094029 गौतम उवाच 13094029a न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् 13094029c समुद्रकल्पः पुरुषो न कदाचन पूर्यते 13094030 विश्वामित्र उवाच 13094030a कामं कामयमानस्य यदा कामः समृध्यते 13094030c अथैनमपरः कामस्तृष्णा विध्यति बाणवत् 13094031 जमदग्निरुवाच 13094031a प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् 13094031c तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् 13094032 अरुन्धत्युवाच 13094032a धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः 13094032c तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् 13094033 गण्डोवाच 13094033a उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः 13094033c बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् 13094034 पशुसख उवाच 13094034a यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः 13094034c विनयार्थं सुविद्वांसमुपासेयं यथातथम् 13094035 ऋषय ऊचुः 13094035a कुशलं सह दानाय तस्मै यस्य प्रजा इमाः 13094035c फलान्युपधियुक्तानि य एवं नः प्रयच्छसि 13094036 भीष्म उवाच 13094036a इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते 13094036c ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः 13094037 मन्त्रिणः ऊचुः 13094037a उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै 13094037c ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव 13094038a इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह 13094038c तेषां संप्रतिकर्तुं च सर्वेषामगमद्गृहम् 13094039a स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः 13094039c जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः 13094040a तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी 13094040c तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् 13094041a सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता 13094041c वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् 13094042 वृषादर्भिरुवाच 13094042a ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च 13094042c दासीभर्तुश्च दास्याश्च मनसा नाम धारय 13094043a ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय 13094043c विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव 13094044a सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी 13094044c जगाम तद्वनं यत्र विचेरुस्ते महर्षयः 13095001 भीष्म उवाच 13095001a अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः 13095001c व्यचरन्भक्षयन्तो वै मूलानि च फलानि च 13095002a अथापश्यन्सुपीनांसपाणिपादमुखोदरम् 13095002c परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् 13095003a अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा 13095003c भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् 13095004 वसिष्ठ उवाच 13095004a नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् 13095004c सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः 13095005 अत्रिरुवाच 13095005a नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् 13095005c कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः 13095006 विश्वामित्र उवाच 13095006a नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः 13095006c अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः 13095007 जमदग्निरुवाच 13095007a नैतस्येह यथास्माकं भक्तमिन्धनमेव च 13095007c संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः 13095008 कश्यप उवाच 13095008a नैतस्येह यथास्माकं चत्वारश्च सहोदराः 13095008c देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः 13095009 भरद्वाज उवाच 13095009a नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः 13095009c शोको भार्यापवादेन तेन पीवाञ्शुनःसखः 13095010 गौतम उवाच 13095010a नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् 13095010c एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः 13095011 भीष्म उवाच 13095011a अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः 13095011c अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् 13095012a परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् 13095012c अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते 13095013a एकनिश्चयकार्याश्च व्यचरन्त वनानि ते 13095013c आददानाः समुद्धृत्य मूलानि च फलानि च 13095014a कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् 13095014c शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् 13095015a बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् 13095015c वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् 13095016a नानाविधैश्च विहगैर्जलप्रकरसेविभिः 13095016c एकद्वारामनादेयां सूपतीर्थामकर्दमाम् 13095017a वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना 13095017c यातुधानीति विख्याता पद्मिनीं तामरक्षत 13095018a शुनःसखसहायास्तु बिसार्थं ते महर्षयः 13095018c पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् 13095019a ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् 13095019c स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः 13095020a एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् 13095020c पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि 13095021 यातुधान्युवाच 13095021a यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन 13095021c आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः 13095022 ऋषय ऊचुः 13095022a सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः 13095022c भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत 13095023 यातुधान्युवाच 13095023a समयेन बिसानीतो गृह्णीध्वं कामकारतः 13095023c एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् 13095024 भीष्म उवाच 13095024a विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् 13095024c अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् 13095025a अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै 13095025c अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने 13095026 यातुधान्युवाच 13095026a यथोदाहृतमेतत्ते मयि नाम महामुने 13095026c दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् 13095027 वसिष्ठ उवाच 13095027a वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि 13095027c वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् 13095028 यातुधान्युवाच 13095028a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095028c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095029 कश्यप उवाच 13095029a कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः 13095029c काश्यः काशनिकाशत्वादेतन्मे नाम धारय 13095030 यातुधान्युवाच 13095030a यथोदाहृतमेतत्ते मयि नाम महामुने 13095030c दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् 13095031 भरद्वाज उवाच 13095031a भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् 13095031c भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने 13095032 यातुधान्युवाच 13095032a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095032c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095033 गौतम उवाच 13095033a गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते 13095033c विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे 13095034 यातुधान्युवाच 13095034a यथोदाहृतमेतत्ते मयि नाम महामुने 13095034c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095035 विश्वामित्र उवाच 13095035a विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा 13095035c विश्वामित्रमिति ख्यातं यातुधानि निबोध मे 13095036 यातुधान्युवाच 13095036a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095036c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095037 जमदग्निरुवाच 13095037a जाजमद्यजजा नाम मृजा माह जिजायिषे 13095037c जमदग्निरिति ख्यातमतो मां विद्धि शोभने 13095038 यातुधान्युवाच 13095038a यथोदाहृतमेतत्ते मयि नाम महामुने 13095038c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095039 अरुन्धत्युवाच 13095039a धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् 13095039c मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् 13095040 यातुधान्युवाच 13095040a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095040c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095041 गण्डोवाच 13095041a गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता 13095041c गण्डगण्डेव गण्डेति विद्धि मानलसंभवे 13095042 यातुधान्युवाच 13095042a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095042c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095043 पशुसख उवाच 13095043a सखा सखे यः सख्येयः पशूनां च सखा सदा 13095043c गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे 13095044 यातुधान्युवाच 13095044a नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् 13095044c नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् 13095045 शुनःसख उवाच 13095045a एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे 13095045c शुनःसखसखायं मां यातुधान्युपधारय 13095046 यातुधान्युवाच 13095046a नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा 13095046c तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज 13095047 शुनःसख उवाच 13095047a सकृदुक्तं मया नाम न गृहीतं यदा त्वया 13095047c तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् 13095048 भीष्म उवाच 13095048a सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा 13095048c कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह 13095049a शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् 13095049c भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् 13095050a ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च 13095050c यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः 13095051a श्रमेण महता युक्तास्ते बिसानि कलापशः 13095051c तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा 13095052a अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् 13095052c नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ 13095053 ऋषय ऊचुः 13095053a केन क्षुधाभिभूतानामस्माकं पापकर्मणा 13095053c नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् 13095054a ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः 13095054c त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन 13095055a त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् 13095055c क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः 13095056 अत्रिरुवाच 13095056a स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु 13095056c अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः 13095057 वसिष्ठ उवाच 13095057a अनध्यायपरो लोके शुनः स परिकर्षतु 13095057c परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः 13095058a शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु 13095058c अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः 13095059 कश्यप उवाच 13095059a सर्वत्र सर्वं पणतु न्यासलोपं करोतु च 13095059c कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः 13095060a वृथामांसं समश्नातु वृथादानं करोतु च 13095060c यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः 13095061 भरद्वाज उवाच 13095061a नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च 13095061c ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः 13095062a उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च 13095062c जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः 13095063 जमदग्निरुवाच 13095063a पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् 13095063c अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः 13095064a द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् 13095064c अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः 13095065 गौतम उवाच 13095065a अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु 13095065c विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः 13095066a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13095066c तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः 13095067 विश्वामित्र उवाच 13095067a जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः 13095067c अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः 13095068a अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः 13095068c कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः 13095069a वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः 13095069c अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः 13095070 अरुन्धत्युवाच 13095070a नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः 13095070c एका स्वादु समश्नातु बिसस्तैन्यं करोति या 13095071a ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये 13095071c अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या 13095072 गण्डोवाच 13095072a अनृतं भाषतु सदा साधुभिश्च विरुध्यतु 13095072c ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या 13095073a साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह 13095073c विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या 13095074 पशुसख उवाच 13095074a दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः 13095074c दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः 13095075 शुनःसख उवाच 13095075a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13095075c आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि 13095076 ऋषय ऊचुः 13095076a इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः 13095076c त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख 13095077 शुनःसख उवाच 13095077a न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः 13095077c सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया 13095078a मया ह्यन्तर्हितानीह बिसानीमानि पश्यत 13095078c परीक्षार्थं भगवतां कृतमेतन्मयानघाः 13095078e रक्षणार्थं च सर्वेषां भवतामहमागतः 13095079a यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी 13095079c वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः 13095080a दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा 13095080c तस्मादस्म्यागतो विप्रा वासवं मां निबोधत 13095081a अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः 13095081c उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः 13095082 भीष्म उवाच 13095082a ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् 13095082c सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् 13095083a एवमेते महात्मानो भोगैर्बहुविधैरपि 13095083c क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः 13095083e नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् 13095084a तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् 13095084c एष धर्मः परो राजन्नलोभ इति विश्रुतः 13095085a इदं नरः सच्चरितं समवायेषु कीर्तयेत् 13095085c सुखभागी च भवति न च दुर्गाण्यवाप्नुते 13095086a प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा 13095086c यशोधर्मार्थभागी च भवति प्रेत्य मानवः 13096001 भीष्म उवाच 13096001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 13096001c यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु 13096002a पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम 13096002c राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः 13096003a ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त 13096003c चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे 13096004a शुक्रोऽङ्गिराश्चैव कविश्च विद्वां;स्तथागस्त्यो नारदपर्वतौ च 13096004c भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् 13096005a ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः 13096005c शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः 13096006a जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र 13096006c तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् 13096007a सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम् 13096007c देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः 13096008a केचिद्बिसान्यखनंस्तत्र राज;न्नन्ये मृणालान्यखनंस्तत्र विप्राः 13096008c अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै 13096009a तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम् 13096009c युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् 13096010a शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा 13096010c पुराधर्मो वर्धते नेह याव;त्तावद्गच्छामि परलोकं चिराय 13096011a पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति 13096011c पुरा राजा व्यवहारानधर्म्या;न्पश्यत्यहं परलोकं व्रजामि 13096012a पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे 13096012c तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय 13096013a पुरा प्रपश्यामि परेण मर्त्या;न्बलीयसा दुर्बलान्भुज्यमानान् 13096013c तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके 13096014a तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः 13096014c मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे 13096015a ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र 13096015c ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः 13096016 भृगुरुवाच 13096016a प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् 13096016c खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् 13096017 वसिष्ठ उवाच 13096017a अस्वाध्यायपरो लोके श्वानं च परिकर्षतु 13096017c पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् 13096018 कश्यप उवाच 13096018a सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च 13096018c कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् 13096019 गौतम उवाच 13096019a जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः 13096019c कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् 13096020 अङ्गिरा उवाच 13096020a अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु 13096020c ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् 13096021 धुन्धुमार उवाच 13096021a अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु 13096021c एकः संपन्नमश्नातु यस्ते हरति पुष्करम् 13096022 पूरुरुवाच 13096022a चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु 13096022c श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् 13096023 दिलीप उवाच 13096023a उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः 13096023c तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् 13096024 शुक्र उवाच 13096024a पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् 13096024c प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् 13096025 जमदग्निरुवाच 13096025a अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् 13096025c श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् 13096026 शिबिरुवाच 13096026a अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च 13096026c तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् 13096027 ययातिरुवाच 13096027a अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु 13096027c निराकरोतु वेदांश्च यस्ते हरति पुष्करम् 13096028 नहुष उवाच 13096028a अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः 13096028c विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् 13096029 अम्बरीष उवाच 13096029a नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च 13096029c ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् 13096030 नारद उवाच 13096030a गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् 13096030c गरीयसोऽवजानातु यस्ते हरति पुष्करम् 13096031 नाभाग उवाच 13096031a अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु 13096031c शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् 13096032 कविरुवाच 13096032a पदा स गां ताडयतु सूर्यं च प्रति मेहतु 13096032c शरणागतं च त्यजतु यस्ते हरति पुष्करम् 13096033 विश्वामित्र उवाच 13096033a करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः 13096033c ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् 13096034 पर्वत उवाच 13096034a ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु 13096034c शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् 13096035 भरद्वाज उवाच 13096035a सर्वपापसमादानं नृशंसे चानृते च यत् 13096035c तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् 13096036 अष्टक उवाच 13096036a स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् 13096036c अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् 13096037 गालव उवाच 13096037a पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् 13096037c दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् 13096038 अरुन्धत्युवाच 13096038a श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः 13096038c एका स्वादु समश्नातु या ते हरति पुष्करम् 13096039 वालखिल्या ऊचुः 13096039a एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु 13096039c धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् 13096040 पशुसख उवाच 13096040a अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः 13096040c परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् 13096041 सुरभ्युवाच 13096041a बाल्वजेन निदानेन कांस्यं भवतु दोहनम् 13096041c दुह्येत परवत्सेन या ते हरति पुष्करम् 13096042 भीष्म उवाच 13096042a ततस्तु तैः शपथैः शप्यमानै;र्नानाविधैर्बहुभिः कौरवेन्द्र 13096042c सहस्राक्षो देवराट्संप्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् 13096043a अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम् 13096043c ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् 13096044 शक्र उवाच 13096044a अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये 13096044c आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति 13096045a सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः 13096045c ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् 13096046 अगस्त्य उवाच 13096046a आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन 13096046c दीयतां पुष्करं मह्यमेष धर्मः सनातनः 13096047 इन्द्र उवाच 13096047a न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै 13096047c धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि 13096048a धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः 13096048c आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः 13096049a तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम 13096049c अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित 13096050a इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् 13096050c जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः 13096051a प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः 13096051c पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते 13096052a आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि 13096052c न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः 13096053a न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह 13096053c विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् 13096054a यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् 13096054c स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम 13097001 युधिष्ठिर उवाच 13097001a यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ 13097001c छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम् 13097001e कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते 13097002a न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते 13097002c एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः 13097003 भीष्म उवाच 13097003a शृणु राजन्नवहितश्छत्रोपानहविस्तरम् 13097003c यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् 13097004a यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् 13097004c सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप 13097005a इतिहासं पुरावृत्तमिमं शृणु नराधिप 13097005c जमदग्नेश्च संवादं सूर्यस्य च महात्मनः 13097006a पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो 13097006c संधाय संधाय शरांश्चिक्षेप किल भार्गवः 13097007a तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः 13097007c आनाय्य सा तदा तस्मै प्रादादसकृदच्युत 13097008a अथ तेन स शब्देन ज्यातलस्य शरस्य च 13097008c प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान् 13097009a ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे 13097009c स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् 13097010a गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् 13097010c यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप 13097011a सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी 13097011c तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च 13097012a स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा 13097012c ययावानयितुं भूयः सायकानसितेक्षणा 13097012e प्रत्याजगाम च शरांस्तानादाय यशस्विनी 13097013a सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती 13097013c उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती 13097014a स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् 13097014c रेणुके किं चिरेण त्वमागतेति पुनः पुनः 13097015 रेणुकोवाच 13097015a शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन 13097015c सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता 13097016a एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया 13097016c एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन 13097017 जमदग्निरुवाच 13097017a अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् 13097017c शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा 13097018 भीष्म उवाच 13097018a स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् 13097018c अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः 13097019a अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् 13097019c द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते 13097020a आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः 13097020c रसं स तं वै वर्षासु प्रवर्षति दिवाकरः 13097021a ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् 13097021c अन्नं प्राणा इति यथा वेदेषु परिपठ्यते 13097022a अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः 13097022c सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति 13097023a ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् 13097023c सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो 13097024a जातकर्माणि सर्वाणि व्रतोपनयनानि च 13097024c गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः 13097025a सत्राणि दानानि तथा संयोगा वित्तसंचयाः 13097025c अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव 13097026a रमणीयानि यावन्ति यावदारम्भकाणि च 13097026c सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते 13097027a सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया 13097027c प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते 13098001 युधिष्ठिर उवाच 13098001a एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः 13098001c जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत 13098002 भीष्म उवाच 13098002a तथा प्रयाचमानस्य मुनिरग्निसमप्रभः 13098002c जमदग्निः शमं नैव जगाम कुरुनन्दन 13098003a ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् 13098003c कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते 13098004a चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः 13098004c कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् 13098005 जमदग्निरुवाच 13098005a स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा 13098005c अवश्यं विनयाधानं कार्यमद्य मया तव 13098006a अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर 13098006c तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा 13098007 सूर्य उवाच 13098007a असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर 13098007c अपकारिणं तु मां विद्धि भगवञ्शरणागतम् 13098008 भीष्म उवाच 13098008a ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् 13098008c न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि 13098009a ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले 13098009c सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च 13098010a दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च 13098010c एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् 13098011a भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् 13098011c सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् 13098012a एतस्य त्वपनीतस्य समाधिं तात चिन्तय 13098012c यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः 13098013 भीष्म उवाच 13098013a एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः 13098013c अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै 13098014 सूर्य उवाच 13098014a महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् 13098014c प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके 13098015a अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति 13098015c पुण्यदानेषु सर्वेषु परमक्षय्यमेव च 13098016 भीष्म उवाच 13098016a उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् 13098016c पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत 13098017a तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् 13098017c धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा 13098018a छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये 13098018c शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते 13098019a स शक्रलोके वसति पूज्यमानो द्विजातिभिः 13098019c अप्सरोभिश्च सततं देवैश्च भरतर्षभ 13098020a दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ 13098020c स्नातकाय महाबाहो संशिताय द्विजातये 13098021a सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् 13098021c गोलोके स मुदा युक्तो वसति प्रेत्य भारत 13098022a एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् 13098022c छत्रोपानहदानस्य फलं भरतसत्तम 13099001 युधिष्ठिर उवाच 13099001a आरामाणां तडागानां यत्फलं कुरुनन्दन 13099001c तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ 13099002 भीष्म उवाच 13099002a सुप्रदर्शा वनवती चित्रधातुविभूषिता 13099002c उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते 13099003a तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् 13099003c औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः 13099004a तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः 13099004c त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् 13099005a अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् 13099005c कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् 13099006a धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः 13099006c तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् 13099007a चतुर्विधानां भूतानां तडागमुपलक्षयेत् 13099007c तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् 13099008a देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः 13099008c स्थावराणि च भूतानि संश्रयन्ति जलाशयम् 13099009a तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः 13099009c या च तत्र फलावाप्तिरृषिभिः समुदाहृता 13099010a वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति 13099010c अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः 13099011a शरत्काले तु सलिलं तडागे यस्य तिष्ठति 13099011c गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् 13099012a हेमन्तकाले सलिलं तडागे यस्य तिष्ठति 13099012c स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् 13099013a यस्य वै शैशिरे काले तडागे सलिलं भवेत् 13099013c अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः 13099014a तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् 13099014c अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते 13099015a निदाघकाले पानीयं तडागे यस्य तिष्ठति 13099015c वाजपेयसमं तस्य फलं वै मुनयो विदुः 13099016a स कुलं तारयेत्सर्वं यस्य खाते जलाशये 13099016c गावः पिबन्ति पानीयं साधवश्च नराः सदा 13099017a तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् 13099017c मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् 13099018a यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च 13099018c तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते 13099019a दुर्लभं सलिलं तात विशेषेण परत्र वै 13099019c पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती 13099020a तिलान्ददत पानीयं दीपान्ददत जाग्रत 13099020c ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् 13099021a सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते 13099021c पानीयं नरशार्दूल तस्माद्दातव्यमेव हि 13099022a एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् 13099022c अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे 13099023a स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः 13099023c वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः 13099024a एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे 13099024c कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् 13099025a लभते नाम लोके च पितृभिश्च महीयते 13099025c देवलोकगतस्यापि नाम तस्य न नश्यति 13099026a अतीतानागते चोभे पितृवंशं च भारत 13099026c तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् 13099027a तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः 13099027c परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् 13099028a पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् 13099028c छायया चातिथींस्तात पूजयन्ति महीरुहाः 13099029a किंनरोरगरक्षांसि देवगन्धर्वमानवाः 13099029c तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् 13099030a पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् 13099030c वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च 13099031a तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा 13099031c पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः 13099032a तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः 13099032c एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः 13099033a तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् 13099033c यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् 13100001 युधिष्ठिर उवाच 13100001a गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ 13100001c ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव 13100002 भीष्म उवाच 13100002a अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप 13100002c वासुदेवस्य संवादं पृथिव्याश्चैव भारत 13100003a संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् 13100003c पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् 13100004 वासुदेव उवाच 13100004a गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा 13100004c किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् 13100005 पृथिव्युवाच 13100005a ऋषयः पितरो देवा मनुष्याश्चैव माधव 13100005c इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे 13100006a सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् 13100006c छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः 13100006e तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन 13100007a नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च 13100007c कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन 13100008a कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा 13100008c पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् 13100009a सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि 13100009c अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् 13100010a प्रजानां पतये चैव पृथग्घोमो विधीयते 13100010c तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् 13100011a दक्षिणायां यमायेह प्रतीच्यां वरुणाय च 13100011c सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये 13100012a धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव 13100012c मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै 13100012e मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् 13100013a तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् 13100013c निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् 13100014a एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये 13100014c अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् 13100015a यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः 13100015c तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि 13100016a पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः 13100016c वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् 13100017a ततोऽन्नेनावशेषेण भोजयेदतिथीनपि 13100017c अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् 13100018a अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते 13100019a आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः 13100019c इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् 13100020a ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते 13100020c गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् 13100021a राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च 13100021c अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् 13100022a श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि 13100022c वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते 13100023a एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः 13100023c स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते 13100024 भीष्म उवाच 13100024a इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् 13100024c तथा चकार सततं त्वमप्येवं समाचर 13100025a एवं गृहस्थधर्मं त्वं चेतयानो नराधिप 13100025c इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि 13101001 युधिष्ठिर उवाच 13101001a आलोकदानं नामैतत्कीदृशं भरतर्षभ 13101001c कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे 13101002 भीष्म उवाच 13101002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13101002c मनोः प्रजापतेर्वादं सुवर्णस्य च भारत 13101003a तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः 13101003c वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे 13101004a कुलशीलगुणोपेतः स्वाध्याये च परं गतः 13101004c बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः 13101005a स कदाचिन्मनुं विप्रो ददर्शोपससर्प च 13101005c कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः 13101006a ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते 13101006c रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् 13101007a तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः 13101007c ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् 13101008a सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् 13101008c हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि 13101009a सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर 13101009c किमेतत्कथमुत्पन्नं फलयोगं च शंस मे 13101010 मनुरुवाच 13101010a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13101010c शुक्रस्य च बलेश्चैव संवादं वै समागमे 13101011a बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः 13101011c समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः 13101012a तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः 13101012c निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः 13101013a कथेयमभवत्तत्र या त्वया परिकीर्तिता 13101013c सुमनोधूपदीपानां संप्रदाने फलं प्रति 13101014a ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् 13101014c सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम 13101014e प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति 13101015 शुक्र उवाच 13101015a तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् 13101015c एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च 13101016a सोमस्यात्मा च बहुधा संभूतः पृथिवीतले 13101016c अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः 13101017a अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च 13101017c मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः 13101018a अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् 13101018c ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम् 13101019a मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह 13101019c तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः 13101020a देवताभ्यः सुमनसो यो ददाति नरः शुचिः 13101020c तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः 13101021a यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो 13101021c मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप 13101022a ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् 13101022c ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च 13101023a यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे 13101023c आसुराणि च माल्यानि दैवतेभ्यो हितानि च 13101024a राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः 13101024c पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः 13101025a वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः 13101025c अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः 13101026a द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः 13101026c इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् 13101027a अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः 13101027c तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो 13101028a जलजानि च माल्यानि पद्मादीनि च यानि च 13101028c गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः 13101029a ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः 13101029c शत्रूणामभिचारार्थमथर्वसु निदर्शिताः 13101030a तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः 13101030c रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् 13101031a मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः 13101031c चारुरूपाः सुमनसो मानुषाणां स्मृता विभो 13101032a न तु श्मशानसंभूता न देवायतनोद्भवाः 13101032c संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च 13101033a गिरिसानुरुहाः सौम्या देवानामुपपादयेत् 13101033c प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति 13101034a गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः 13101034c नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः 13101035a सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत 13101035c संकल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः 13101036a देवाः प्रीणन्ति सततं मानिता मानयन्ति च 13101036c अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् 13101037a अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् 13101037c धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे 13101038a निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः 13101038c इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु 13101039a निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते 13101039c गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः 13101040a अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् 13101040c दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः 13101041a अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः 13101041c फाणितासवसंयुक्तैर्मनुष्याणां विधीयते 13101042a देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः 13101042c येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः 13101043a य एवोक्ताः सुमनसां प्रदाने गुणहेतवः 13101043c धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः 13101044a दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् 13101044c यथा येन यदा चैव प्रदेया यादृशाश्च ते 13101045a ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते 13101045c प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् 13101046a अन्धं तमस्तमिस्रं च दक्षिणायनमेव च 13101046c उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते 13101047a यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् 13101047c तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः 13101048a देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः 13101048c तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते 13101049a आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः 13101049c तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् 13101050a दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः 13101050c दीपप्रदः स्वर्गलोके दीपमाली विराजते 13101051a हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः 13101051c वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता 13101052a गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे 13101052c दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः 13101053a कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति 13101053c ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा 13101054a बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् 13101054c देवयक्षोरगनृणां भूतानामथ रक्षसाम् 13101055a येषां नाग्रभुजो विप्रा देवतातिथिबालकाः 13101055c राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् 13101056a तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13101056c शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः 13101057a गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा 13101057c बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः 13101058a इतो दत्तेन जीवन्ति देवताः पितरस्तथा 13101058c ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः 13101059a बलयः सह पुष्पैस्तु देवानामुपहारयेत् 13101059c दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः 13101060a कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् 13101060c सुरासवपुरस्कारा लाजोल्लेपनभूषिताः 13101061a नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः 13101061c तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत् 13101062a अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः 13101062c तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् 13101063a ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः 13101063c ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना 13101064a इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः 13101064c सुवर्णाय मनुः प्राह सुवर्णो नारदाय च 13101065a नारदोऽपि मयि प्राह गुणानेतान्महाद्युते 13101065c त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक 13102001 युधिष्ठिर उवाच 13102001a श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् 13102001c फलं बलिविधाने च तद्भूयो वक्तुमर्हसि 13102002a धूपप्रदानस्य फलं प्रदीपस्य तथैव च 13102002c बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः 13102003 भीष्म उवाच 13102003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13102003c नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा 13102004a नहुषो हि महाराज राजर्षिः सुमहातपाः 13102004c देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा 13102005a तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् 13102005c मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः 13102006a मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः 13102006c प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः 13102007a अग्निकार्याणि समिधः कुशाः सुमनसस्तथा 13102007c बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च 13102008a सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः 13102008c जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः 13102009a दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः 13102009c सर्वाण्येव यथान्यायं यथापूर्वमरिंदम 13102010a अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत् 13102010c सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते 13102011a स ऋषीन्वाहयामास वरदानमदान्वितः 13102011c परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् 13102012a तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् 13102012c अहंकाराभिभूतस्य सुमहानत्यवर्तत 13102013a अथ पर्यायश ऋषीन्वाहनायोपचक्रमे 13102013c पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत 13102014a अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः 13102014c अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् 13102015a एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः 13102015c नहुषस्य किमर्थं वै मर्षयाम महामुने 13102016 अगस्त्य उवाच 13102016a कथमेष मया शक्यः शप्तुं यस्य महामुने 13102016c वरदेन वरो दत्तो भवतो विदितश्च सः 13102017a यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति 13102017c इत्यनेन वरो देवाद्याचितो गच्छता दिवम् 13102018a एवं न दग्धः स मया भवता च न संशयः 13102018c अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः 13102019a अमृतं चैव पानाय दत्तमस्मै पुरा विभो 13102019c महात्मने तदर्थं च नास्माभिर्विनिपात्यते 13102020a प्रायच्छत वरं देवः प्रजानां दुःखकारकम् 13102020c द्विजेष्वधर्मयुक्तानि स करोति नराधमः 13102021a अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर 13102021c भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् 13102022 भृगुरुवाच 13102022a पितामहनियोगेन भवन्तमहमागतः 13102022c प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते 13102023a अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् 13102023c अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा 13102024a अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् 13102024c संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् 13102025a अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति 13102025c दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः 13102026a व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् 13102026c अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् 13102027a तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् 13102027c धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने 13102028a नहुषं पापकर्माणमैश्वर्यबलमोहितम् 13102028c यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने 13102029a एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः 13102029c अगस्त्यः परमप्रीतो बभूव विगतज्वरः 13103001 युधिष्ठिर उवाच 13103001a कथं स वै विपन्नश्च कथं वै पातितो भुवि 13103001c कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति 13103002 भीष्म उवाच 13103002a एवं तयोः संवदतोः क्रियास्तस्य महात्मनः 13103002c सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः 13103003a तथैव दीपदानानि सर्वोपकरणानि च 13103003c बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः 13103003e सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः 13103004a देवलोके नृलोके च सदाचारा बुधैः स्मृताः 13103004c ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः 13103004e धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च 13103005a यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते 13103005c बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः 13103006a यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा 13103006c तथा शतगुणा प्रीतिर्देवतानां स्म जायते 13103007a एवं धूपप्रदानं च दीपदानं च साधवः 13103007c प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् 13103008a स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता 13103008c नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः 13103008e गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः 13103009a इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः 13103009c सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् 13103010a कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते 13103010c सर्वमेतदवज्ञाय न चकारैतदीदृशम् 13103011a ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः 13103011c धूपदीपोदकविधिं न यथावच्चकार ह 13103011e ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत 13103012a अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह 13103012c द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः 13103013a ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् 13103013c निमीलयस्व नयने जटा यावद्विशामि ते 13103014a स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः 13103014c भृगुः स सुमहातेजाः पातनाय नृपस्य ह 13103015a ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै 13103015c ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते 13103016a योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते 13103016c यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप 13103017a इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् 13103017c भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् 13103018a न चापि दर्शनं तस्य चकार स भृगुस्तदा 13103018c वरदानप्रभावज्ञो नहुषस्य महात्मनः 13103019a न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै 13103019c तं तु राजा प्रतोदेन चोदयामास भारत 13103020a न चुकोप स धर्मात्मा ततः पादेन देवराट् 13103020c अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः 13103021a तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः 13103021c शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् 13103022 भृगुरुवाच 13103022a यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् 13103022c तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते 13103023a इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह 13103023c अदृष्टेनाथ भृगुणा भूतले भरतर्षभ 13103024a भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते 13103024c न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा 13103025a स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा 13103025c पतितोऽपि महाराज भूतले स्मृतिमानभूत् 13103025e प्रसादयामास भृगुं शापान्तो मे भवेदिति 13103026a ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् 13103026c शापान्तार्थं महाराज स च प्रादात्कृपान्वितः 13103027 भृगुरुवाच 13103027a राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः 13103027c स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत 13103028a अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः 13103028c स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः 13103029a नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः 13103029c जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप 13103030a तदा तु पातयित्वा तं नहुषं भूतले भृगुः 13103030c जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् 13103031a ततः शक्रं समानाय्य देवानाह पितामहः 13103031c वरदानान्मम सुरा नहुषो राज्यमाप्तवान् 13103031e स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः 13103032a न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् 13103032c तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् 13103033a एवं संभाषमाणं तु देवाः पार्थ पितामहम् 13103033c एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् 13103034a सोऽभिषिक्तो भगवता देवराज्येन वासवः 13103034c ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत 13103035a एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् 13103035c स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः 13103036a तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः 13103036c दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः 13103036e पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत 13103037a यावदक्षिनिमेषाणि ज्वलते तावतीः समाः 13103037c रूपवान्धनवांश्चापि नरो भवति दीपदः 13104001 युधिष्ठिर उवाच 13104001a ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ 13104001c नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः 13104002 भीष्म उवाच 13104002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13104002c चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत 13104003 राजन्य उवाच 13104003a वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे 13104003c श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् 13104004a साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते 13104004c कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि 13104005 चण्डाल उवाच 13104005a ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा 13104005c सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः 13104006a दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् 13104006c सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् 13104007a येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः 13104007c ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् 13104008a जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः 13104008c पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती 13104009a अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः 13104009c तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप 13104010a चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः 13104010c ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ 13104011a तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन 13104011c ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् 13104012a तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता 13104012c विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः 13104013a ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः 13104013c ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः 13104014a सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् 13104014c श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति 13104014e नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति 13104015a श्वचर्यामतिमानं च सखिदारेषु विप्लवम् 13104015c तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते 13104016a श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् 13104016c अतिमानेन भूतानामिमां गतिमुपागतम् 13104017a अहं वै विपुले जातः कुले धनसमन्विते 13104017c अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः 13104018a अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा 13104018c संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् 13104019a सोऽहं तेन च वृत्तेन भोजनेन च तेन वै 13104019c इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम् 13104020a आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् 13104020c धावमानं सुसंरब्धं पश्य मां रजसान्वितम् 13104021a स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः 13104021c दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः 13104022a तथा पापकृतं विप्रमाश्रमस्थं महीपते 13104022c सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत 13104023a अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ 13104023c निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत 13104024a जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा 13104024c शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप 13104025a त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते 13104025c चण्डालत्वात्कथमहं मुच्येयमिति सत्तम 13104026 राजन्य उवाच 13104026a चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि 13104026c ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि 13104027a दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् 13104027c हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि 13104028 भीष्म उवाच 13104028a इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परंतप 13104028c हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह 13104029a तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ 13104029c यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् 13105001 युधिष्ठिर उवाच 13105001a एको लोकः सुकृतिनां सर्वे त्वाहो पितामह 13105001c उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह 13105002 भीष्म उवाच 13105002a कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः 13105002c पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः 13105003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13105003c गौतमस्य मुनेस्तात संवादं वासवस्य च 13105004a ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः 13105004c महावने हस्तिशिशुं परिद्यूनममातृकम् 13105005a तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः 13105005c स तु दीर्घेण कालेन बभूवातिबलो महान् 13105006a तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् 13105006c धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् 13105007a ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः 13105007c अभ्यभाषत राजानं धृतराष्ट्रं महातपाः 13105008a मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ 13105008c मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् 13105009a इध्मोदकप्रदातारं शून्यपालकमाश्रमे 13105009c विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि 13105010a शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम 13105010c न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् 13105011 धृतराष्ट्र उवाच 13105011a गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च 13105011c अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् 13105012 गौतम उवाच 13105012a त्वामेव गावोऽभि भवन्तु राज;न्दास्यः सनिष्का विविधं च रत्नम् 13105012c अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् 13105013 धृतराष्ट्र उवाच 13105013a ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र 13105013c स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त 13105014 गौतम उवाच 13105014a यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा 13105014c वैवस्वतस्य सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये 13105015 धृतराष्ट्र उवाच 13105015a ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः 13105015c यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13105016 गौतम उवाच 13105016a वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् 13105016c यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये 13105017 धृतराष्ट्र उवाच 13105017a ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति 13105017c तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105018 गौतम उवाच 13105018a मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या 13105018c गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये 13105019 धृतराष्ट्र उवाच 13105019a अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः 13105019c शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति 13105020 गौतम उवाच 13105020a मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् 13105020c सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये 13105021 धृतराष्ट्र उवाच 13105021a ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः 13105021c येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः 13105022a तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105022c यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि 13105023 गौतम उवाच 13105023a सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य 13105023c गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये 13105024 धृतराष्ट्र उवाच 13105024a ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति 13105024c तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105025 गौतम उवाच 13105025a यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र 13105025c यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च 13105026a यत्र शक्रो वर्षति सर्वकामा;न्यत्र स्त्रियः कामचाराश्चरन्ति 13105026c यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये 13105027 धृतराष्ट्र उवाच 13105027a ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति 13105027c न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः 13105028a निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः 13105028c तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105029 गौतम उवाच 13105029a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः 13105029c सोमस्य राज्ञः सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये 13105030 धृतराष्ट्र उवाच 13105030a ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः 13105030c येषामदेयमर्हते नास्ति किंचि;त्सर्वातिथ्याः सुप्रसादा जनाश्च 13105031a ये क्षन्तारो नाभिजल्पन्ति चान्या;ञ्शक्ता भूत्वा सततं पुण्यशीलाः 13105031c तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र 13105032 गौतम उवाच 13105032a ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः 13105032c आदित्यस्य सुमहान्तः सुवृत्ता;स्तत्र त्वाहं हस्तिनं यातयिष्ये 13105033 धृतराष्ट्र उवाच 13105033a स्वाध्यायशीला गुरुशुश्रूषणे रता;स्तपस्विनः सुव्रताः सत्यसंधाः 13105033c आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः 13105034a तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् 13105034c सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र 13105035 गौतम उवाच 13105035a ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः 13105035c वरुणस्य राज्ञः सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये 13105036 धृतराष्ट्र उवाच 13105036a चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति 13105036c ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः 13105037a स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् 13105037c धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र 13105038 गौतम उवाच 13105038a इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् 13105038c तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये 13105039 धृतराष्ट्र उवाच 13105039a शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः 13105039c एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र 13105040 गौतम उवाच 13105040a प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः 13105040c मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये 13105041 धृतराष्ट्र उवाच 13105041a ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् 13105041c ये चाश्वमेधावभृथाप्लुताङ्गा;स्तेषां लोका धृतराष्ट्रो न तत्र 13105042 गौतम उवाच 13105042a ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः 13105042c तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये 13105043 धृतराष्ट्र उवाच 13105043a यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या 13105043c तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् 13105044a ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव 13105044c मनस्विनस्तीर्थयात्रापरायणा;स्ते तत्र मोदन्ति गवां विमाने 13105045a प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः 13105045c पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् 13105046a गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् 13105046c तूष्णींगङ्गां दशगङ्गां महाह्रदमथापि च 13105047a गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः 13105047c सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च 13105048a तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः 13105048c प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै 13105049 गौतम उवाच 13105049a यत्र शीतभयं नास्ति न चोष्णभयमण्वपि 13105049c न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा 13105050a न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा 13105050c न जरामरणे वापि न पुण्यं न च पातकम् 13105051a तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते 13105051c स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति 13105052 धृतराष्ट्र उवाच 13105052a निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः 13105052c अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः 13105053a ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः 13105053c न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने 13105054 गौतम उवाच 13105054a रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति 13105054c यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये 13105055a बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा 13105055c कच्चिन्न वाचा वृजिनं कदाचि;दकार्षं ते मनसोऽभिषङ्गात् 13105056 शक्र उवाच 13105056a यस्मादिमं लोकपथं प्रजाना;मन्वागमं पदवादे गजस्य 13105056c तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम् 13105057 गौतम उवाच 13105057a श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम् 13105057c यो मे वने वसतोऽभूद्द्वितीय;स्तमेव मे देहि सुरेन्द्र नागम् 13105058 शक्र उवाच 13105058a अयं सुतस्ते द्विजमुख्य नाग;श्चाघ्रायते त्वामभिवीक्षमाणः 13105058c पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु 13105059 गौतम उवाच 13105059a शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे 13105059c ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् 13105060 शक्र उवाच 13105060a येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् 13105060c तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य 13105061a हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना 13105061c प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च 13105062 भीष्म उवाच 13105062a स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना 13105062c दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् 13106001 युधिष्ठिर उवाच 13106001a दानं बहुविधाकारं शान्तिः सत्यमहिंसता 13106001c स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् 13106002a पितामहस्य विदितं किमन्यत्र तपोबलात् 13106002c तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि 13106003 भीष्म उवाच 13106003a तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर 13106003c मतं मम तु कौन्तेय तपो नानशनात्परम् 13106004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13106004c भगीरथस्य संवादं ब्रह्मणश्च महात्मनः 13106005a अतीत्य सुरलोकं च गवां लोकं च भारत 13106005c ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः 13106006a तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् 13106006c कथं भगीरथागास्त्वमिमं देशं दुरासदम् 13106007a न हि देवा न गन्धर्वा न मनुष्या भगीरथ 13106007c आयान्त्यतप्ततपसः कथं वै त्वमिहागतः 13106008 भगीरथ उवाच 13106008a निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् 13106008c ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम् 13106009a दशैकरात्रान्दश पञ्चरात्रा;नेकादशैकादशकान्क्रतूंश्च 13106009c ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् 13106010a यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम् 13106010c अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् 13106011a दशायुतानि चाश्वानामयुतानि च विंशतिम् 13106011c पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः 13106012a सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम् 13106012c षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन 13106013a दशार्बुदान्यददं गोसवेज्या;स्वेकैकशो दश गा लोकनाथ 13106013c समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन 13106014a अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् 13106014c गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च 13106015a दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह 13106015c प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः 13106016a वाजिनां बाह्लिजातानामयुतान्यददं दश 13106016c कर्काणां हेममालानां न च तेनाहमागतः 13106017a कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् 13106017c एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः 13106018a वाजिनां श्यामकर्णानां हरितानां पितामह 13106018c प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च 13106019a ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् 13106019c पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च 13106020a अलंकृतानां देवेश दिव्यैः कनकभूषणैः 13106020c रथानां काञ्चनाङ्गानां सहस्राण्यददं दश 13106020e सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः 13106021a दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः 13106021c वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् 13106022a शक्रतुल्यप्रभावानामिज्यया विक्रमेण च 13106022c सहस्रं निष्ककण्ठानामददं दक्षिणामहम् 13106023a विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह 13106023c अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः 13106024a स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते 13106024c दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते 13106025a वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते 13106025c वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् 13106025e तपस्वी नियताहारः शममास्थाय वाग्यतः 13106026a दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् 13106026c मूर्ध्ना धारां महादेवः शिरसा यामधारयत् 13106026e न तेनाप्यहमागच्छं फलेनेह पितामह 13106027a शम्याक्षेपैरयजं यच्च देवा;न्सद्यस्कानामयुतैश्चापि यत्तत् 13106027c त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन 13106028a अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः 13106028c एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः 13106029a हिरण्यरत्ननिचितानददं रत्नपर्वतान् 13106029c धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः 13106030a शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः 13106030c इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च 13106031a एकादशाहैरयजं सदक्षिणै;र्द्विर्द्वादशाहैरश्वमेधैश्च देव 13106031c आर्कायणैः षोडशभिश्च ब्रह्मं;स्तेषां फलेनेह न चागतोऽस्मि 13106032a निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम् 13106032c वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन 13106033a तुरायणं हि व्रतमप्रधृष्य;मक्रोधनोऽकरवं त्रिंशतोऽब्दान् 13106033c शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः 13106034a पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ 13106034c प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् 13106035a त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा 13106035c अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः 13106036a दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः 13106036c न चैव तेषां देवेश फलेनाहमिहागतः 13106037a सरय्वां बाहुदायां च गङ्गायामथ नैमिषे 13106037c गवां शतानामयुतमददं न च तेन वै 13106038a इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत् 13106038c जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम् 13106039a ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते 13106039c सहस्रमृषयश्चासन्ये वै तत्र समागताः 13106039e उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो 13106040a प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो 13106040c इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा 13106041a कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् 13106041c तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद 13106042 भीष्म उवाच 13106042a इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् 13106042c पूजयामास पूजार्हं विधिदृष्टेन कर्मणा 13107001 युधिष्ठिर उवाच 13107001a शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके 13107001c कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह 13107002a आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः 13107002c केन वा लभते कीर्तिं केन वा लभते श्रियम् 13107003a तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः 13107003c जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह 13107004 भीष्म उवाच 13107004a अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि 13107004c अल्पायुर्येन भवति दीर्घायुर्वापि मानवः 13107005a येन वा लभते कीर्तिं येन वा लभते श्रियम् 13107005c यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते 13107006a आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् 13107006c आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च 13107007a दुराचारो हि पुरुषो नेहायुर्विन्दते महत् 13107007c त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च 13107008a तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः 13107008c अपि पापशरीरस्य आचारो हन्त्यलक्षणम् 13107009a आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः 13107009c साधूनां च यथा वृत्तमेतदाचारलक्षणम् 13107010a अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् 13107010c भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् 13107011a ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः 13107011c अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः 13107012a विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः 13107012c अल्पायुषो भवन्तीह नरा निरयगामिनः 13107013a सर्वलक्षणहीनोऽपि समुदाचारवान्नरः 13107013c श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति 13107014a अक्रोधनः सत्यवादी भूतानामविहिंसकः 13107014c अनसूयुरजिह्मश्च शतं वर्षाणि जीवति 13107015a लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः 13107015c नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत् 13107016a ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् 13107016c उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः 13107017a एवमेवापरां संध्यां समुपासीत वाग्यतः 13107017c नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन 13107018a ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुवन् 13107018c तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः 13107019a ये च पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् 13107019c सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् 13107020a परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् 13107020c न हीदृशमनायुष्यं लोके किंचन विद्यते 13107020e यादृशं पुरुषस्येह परदारोपसेवनम् 13107021a प्रसाधनं च केशानामञ्जनं दन्तधावनम् 13107021c पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् 13107022a पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन 13107022c उदक्यया च संभाषां न कुर्वीत कदाचन 13107023a नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके 13107023c उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन 13107024a प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् 13107024c प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् 13107025a आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः 13107025c धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः 13107026a नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः 13107026c अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् 13107027a शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् 13107027c निषण्णश्चापि खादेत न तु गच्छन्कथंचन 13107028a मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे 13107029a आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् 13107029c आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् 13107030a त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन 13107030c अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते 13107031a त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन 13107031c सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः 13107032a ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति 13107032c प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते 13107033a अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् 13107033c कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् 13107034a न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् 13107034c नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति 13107034e स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् 13107035a उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः 13107035c केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् 13107036a न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः 13107036c न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते 13107037a शिरःस्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् 13107037c तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् 13107038a नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन 13107038c वाते च पूतिगन्धे च मनसापि न चिन्तयेत् 13107039a अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 13107039c आयुरस्य निकृन्तामि प्रजामस्याददे तथा 13107040a य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति 13107040c यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः 13107040e तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन 13107041a प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् 13107041c ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः 13107042a उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः 13107042c दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते 13107043a त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः 13107043c ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः 13107044a दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा 13107044c क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा 13107045a ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च 13107045c तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः 13107046a गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन 13107046c अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर 13107047a सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह 13107047c गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः 13107048a दूरादावसथान्मूत्रं दूरात्पादावसेचनम् 13107048c उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा 13107049a नातिकल्पं नातिसायं न च मध्यंदिने स्थिते 13107049c नाज्ञातैः सह गच्छेत नैको न वृषलैः सह 13107050a पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च 13107050c वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च 13107051a प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् 13107051c चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् 13107052a मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा 13107052c चतुष्पथान्न सेवेत उभे संध्ये तथैव च 13107053a उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् 13107053c ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् 13107054a अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः 13107054c अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् 13107055a वृथा मांसं न खादेत पृष्ठमांसं तथैव च 13107055c आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् 13107056a नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत 13107056c ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् 13107057a वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि 13107057c परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु 13107058a रोहते सायकैर्विद्धं वनं परशुना हतम् 13107058c वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् 13107059a हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् 13107059c रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् 13107060a नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 13107060c द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् 13107061a परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् 13107061c अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् 13107062a न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् 13107062c तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते 13107063a कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः 13107063c पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा 13107064a त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् 13107064c अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते 13107065a संयावं कृसरं मांसं शष्कुली पायसं तथा 13107065c आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् 13107066a नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा 13107066c वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् 13107066e न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् 13107067a मातापितरमुत्थाय पूर्वमेवाभिवादयेत् 13107067c आचार्यमथ वाप्येनं तथायुर्विन्दते महत् 13107068a वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः 13107068c भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् 13107069a उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः 13107070a अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन 13107070c अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् 13107071a अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः 13107071c न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन 13107072a उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च 13107072c प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः 13107073a न भग्ने नावदीर्णे वा शयने प्रस्वपेत च 13107073c नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन 13107074a न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन 13107074c स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः 13107075a न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् 13107075c आर्द्र एव तु वासांसि नित्यं सेवेत मानवः 13107075e स्रजश्च नावकर्षेत न बहिर्धारयेत च 13107076a रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः 13107076c वर्जयित्वा तु कमलं तथा कुवलयं विभो 13107077a रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि 13107077c काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् 13107077e स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते 13107078a विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः 13107078c तथा नान्यधृतं धार्यं न चापदशमेव च 13107079a अन्यदेव भवेद्वासः शयनीये नरोत्तम 13107079c अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि 13107080a प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च 13107080c पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् 13107081a उपवासं च कुर्वीत स्नातः शुचिरलंकृतः 13107081c पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् 13107082a नालीढया परिहतं भक्षयीत कदाचन 13107082c तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च 13107083a न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च 13107083c प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः 13107084a पिप्पलं च वटं चैव शणशाकं तथैव च 13107084c उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः 13107085a आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् 13107085c वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् 13107086a न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु 13107086c दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् 13107087a वालेन तु न भुञ्जीत परश्राद्धं तथैव च 13107087c सायं प्रातश्च भुञ्जीत नान्तराले समाहितः 13107088a वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन 13107088c भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् 13107089a तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते 13107089c पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः 13107090a समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर 13107090c विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने 13107091a पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि 13107091c निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् 13107092a भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् 13107092c दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना 13107093a आचम्य चैव हस्तेन परिस्राव्य तथोदकम् 13107093c अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् 13107094a पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः 13107094c ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः 13107095a अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च 13107095c स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना 13107096a अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् 13107096c कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते 13107097a अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत 13107097c तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा 13107098a परापवादं न ब्रूयान्नाप्रियं च कदाचन 13107098c न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना 13107099a पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् 13107099c संसर्गं च न गच्छेत तथायुर्विन्दते महत् 13107100a न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् 13107100c न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् 13107101a स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते 13107101c त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः 13107102a इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः 13107102c कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा 13107103a ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव 13107103c प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा 13107104a सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् 13107104c निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् 13107105a वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि 13107105c गृहे वासयितव्यास्ते धन्यमायुष्यमेव च 13107106a गृहे पारावता धन्याः शुकाश्च सहसारिकाः 13107106c गृहेष्वेते न पापाय तथा वै तैलपायिकाः 13107107a उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा 13107107c निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् 13107108a अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् 13107108c महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् 13107109a अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा 13107109c वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर 13107110a बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च 13107110c संबन्धिनां च राजेन्द्र तथायुर्विन्दते महत् 13107111a ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् 13107111c तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर 13107112a संध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् 13107112c न भुञ्जीत च मेधावी तथायुर्विन्दते महत् 13107113a नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् 13107113c पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता 13107114a वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत 13107114c शेषाणि चावदातानि पानीयं चैव भोजने 13107115a सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् 13107115c द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् 13107116a महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा 13107116c वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति 13107117a अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा 13107117c पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत 13107118a कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते 13107118c पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत 13107119a शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च 13107119c नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः 13107119e न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत 13107120a दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् 13107120c ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् 13107121a प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः 13107121c उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् 13107122a परिवादं न च ब्रूयात्परेषामात्मनस्तथा 13107122c परिवादो न धर्माय प्रोच्यते भरतर्षभ 13107123a वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम 13107123c समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा 13107124a वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् 13107124c तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् 13107125a अयोनिं च वियोनिं च न गच्छेत विचक्षणः 13107125c पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि 13107126a अपस्मारिकुले जातां निहीनां चैव वर्जयेत् 13107126c श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर 13107127a लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः 13107127c मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति 13107128a महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर 13107128c अवरा पतिता चैव न ग्राह्या भूतिमिच्छता 13107129a अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः 13107129c वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् 13107130a न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः 13107130c अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् 13107131a अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता 13107131c प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै 13107132a पारदार्यमनायुष्यं नापितोच्छिष्टता तथा 13107132c यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत 13107133a संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् 13107133c प्रयतश्च भवेत्तस्यां न च किंचित्समाचरेत् 13107134a ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप 13107134c देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् 13107135a अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः 13107135c अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत 13107136a न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि 13107136c अनागतायां संध्यायां पश्चिमायां गृहे वसेत् 13107137a मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् 13107137c हितं वाप्यहितं वापि न विचार्यं नरर्षभ 13107138a धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप 13107138c हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह 13107138e यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते 13107139a अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च 13107139c प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् 13107140a युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत 13107140c गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप 13107141a पुराणमितिहासाश्च तथाख्यानानि यानि च 13107141c महात्मनां च चरितं श्रोतव्यं नित्यमेव ते 13107142a पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् 13107142c स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः 13107143a पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् 13107143c एतेन विधिना पत्नीमुपगच्छेत पण्डितः 13107144a ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः 13107144c यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः 13107144e अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप 13107145a एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः 13107145c शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर 13107146a आचारो भूतिजनन आचारः कीर्तिवर्धनः 13107146c आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् 13107147a आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते 13107147c आचारप्रभवो धर्मो धर्मादायुर्विवर्धते 13107148a एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13107148c अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् 13108001 युधिष्ठिर उवाच 13108001a यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ 13108001c कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे 13108002 भीष्म उवाच 13108002a ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् 13108002c गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत 13108003a न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् 13108003c गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत 13108004a अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः 13108004c परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः 13108005a प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः 13108005c श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः 13108006a ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः 13108006c हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते 13108007a अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः 13108007c अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः 13108008a निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् 13108008c विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् 13108009a सर्वानर्थः कुले यत्र जायते पापपूरुषः 13108009c अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च 13108010a सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः 13108010c नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् 13108011a अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः 13108011c स्वयमीहितलब्धं तु नाकामो दातुमर्हति 13108012a भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह 13108012c न पुत्रभागं विषमं पिता दद्यात्कथंचन 13108013a न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा 13108013c यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् 13108013e धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः 13108014a दशाचार्यानुपाध्याय उपाध्यायान्पिता दश 13108014c दश चैव पितॄन्माता सर्वां वा पृथिवीमपि 13108015a गौरवेणाभिभवति नास्ति मातृसमो गुरुः 13108015c माता गरीयसी यच्च तेनैतां मन्यते जनः 13108016a ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत 13108016c स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् 13108017a कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः 13108017c तमेव चोपजीवेरन्यथैव पितरं तथा 13108018a शरीरमेतौ सृजतः पिता माता च भारत 13108018c आचार्यशास्ता या जातिः सा सत्या साजरामरा 13108019a ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ 13108019c भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् 13109001 युधिष्ठिर उवाच 13109001a सर्वेषामेव वर्णानां म्लेच्छानां च पितामह 13109001c उपवासे मतिरियं कारणं च न विद्महे 13109002a ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् 13109002c उपवासे कथं तेषां कृत्यमस्ति पितामह 13109003a नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव 13109003c अवाप्नोति गतिं कां च उपवासपरायणः 13109004a उपवासः परं पुण्यमुपवासः परायणम् 13109004c उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते 13109005a अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् 13109005c स्वर्गं पुण्यं च लभते कथं भरतसत्तम 13109006a उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप 13109006c धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् 13109007 वैशंपायन उवाच 13109007a एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् 13109007c धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् 13109008a इदं खलु महाराज श्रुतमासीत्पुरातनम् 13109008c उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ 13109009a प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत 13109009c यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् 13109010a प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः 13109010c उपवासविधिं पुण्यमाचष्ट भरतर्षभ 13109011 अङ्गिरा उवाच 13109011a ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन 13109011c द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ 13109012a वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते 13109012c त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते 13109013a चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते 13109013c त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः 13109014a पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत 13109014c क्षमावान्रूपसंपन्नः श्रुतवांश्चैव जायते 13109015a नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन 13109015c यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् 13109016a अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् 13109016c उपोष्य व्याधिरहितो वीर्यवानभिजायते 13109017a मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत् 13109017c भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः 13109018a सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः 13109018c कृषिभागी बहुधनो बहुपुत्रश्च जायते 13109019a पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् 13109019c सुभगो दर्शनीयश्च यशोभागी च जायते 13109020a पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् 13109020c श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते 13109021a भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् 13109021c स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः 13109022a चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् 13109022c सुवर्णमणिमुक्ताढ्ये कुले महति जायते 13109023a निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः 13109023c नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् 13109024a ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षपेत् 13109024c ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते 13109025a आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः 13109025c बहुधान्यो बहुधनो बहुपुत्रश्च जायते 13109026a श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् 13109026c यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः 13109027a प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः 13109027c धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते 13109028a तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् 13109028c प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते 13109029a कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् 13109029c शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते 13109030a इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः 13109030c तिथीनां नियमा ये तु शृणु तानपि पार्थिव 13109031a पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत 13109031c गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते 13109032a मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश 13109032c गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् 13109033a एते तु नियमाः सर्वे कर्तव्याः शरदो दश 13109033c द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता 13109034a यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् 13109034c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13109035a षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः 13109035c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 13109036a अधिवासे सोऽप्सरसां नृत्यगीतविनादिते 13109036c तप्तकाञ्चनवर्णाभं विमानमधिरोहति 13109037a पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते 13109037c तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते 13109038a यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः 13109038c अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते 13109039a दशवर्षसहस्राणि स्वर्गे च स महीयते 13109039c तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते 13109040a यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते 13109040c अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः 13109041a वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते 13109041c त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते 13109042a षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् 13109042c अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13109043a चक्रवाकप्रयुक्तेन विमानेन स गच्छति 13109043c चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते 13109044a अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप 13109044c गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः 13109045a हंससारसयुक्तेन विमानेन स गच्छति 13109045c पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते 13109046a पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु 13109046c षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् 13109046e षष्टिं वर्षसहस्राणि दिवमावसते च सः 13109047a वीणानां वल्लकीनां च वेणूनां च विशां पते 13109047c सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते 13109048a संवत्सरमिहैकं तु मासि मासि पिबेत्पयः 13109048c फलं विश्वजितस्तात प्राप्नोति स नरो नृप 13109049a सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति 13109049c सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते 13109050a मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते 13109050c विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः 13109051a अनार्तो व्याधिरहितो गच्छेदनशनं तु यः 13109051c पदे पदे यज्ञफलं स प्राप्नोति न संशयः 13109052a दिवं हंसप्रयुक्तेन विमानेन स गच्छति 13109052c शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् 13109053a आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः 13109053c शतं वर्षसहस्राणां मोदते दिवि स प्रभो 13109053e काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते 13109054a सहस्रहंससंयुक्ते विमाने सोमवर्चसि 13109054c स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ 13109055a क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् 13109055c व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् 13109056a दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् 13109056c न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः 13109057a अतः स कामसंयुक्तो विमाने हेमसंनिभे 13109057c रमते स्त्रीशताकीर्णे पुरुषोऽलंकृतः शुभे 13109058a स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः 13109058c अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः 13109059a बालसूर्यप्रतीकाशे विमाने हेमवर्चसि 13109059c वैडूर्यमुक्ताखचिते वीणामुरजनादिते 13109060a पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते 13109060c स्त्रीसहस्रानुचरिते स नरः सुखमेधते 13109061a यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव 13109061c तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते 13109062a नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः 13109062c न धर्मात्परमो लाभस्तपो नानशनात्परम् 13109063a ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च 13109063c उपवासैस्तथा तुल्यं तपःकर्म न विद्यते 13109064a उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे 13109064c ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् 13109065a दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता 13109065c क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः 13109066a च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः 13109066c सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः 13109067a इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् 13109067c यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते 13109068a इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा 13109068c पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् 13109069a विमुच्यते चापि स सर्वसंकरै;र्न चास्य दोषैरभिभूयते मनः 13109069c वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः 13110001 युधिष्ठिर उवाच 13110001a पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना 13110001c गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः 13110002a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह 13110002c बहूपकरणा यज्ञा नानासंभारविस्तराः 13110003a पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह 13110003c नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः 13110004a यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् 13110004c तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह 13110005 भीष्म उवाच 13110005a इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् 13110005c विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर 13110006a यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् 13110006c अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् 13110007a षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः 13110007c तप्तकाञ्चनवर्णं च विमानं लभते नरः 13110008a देवस्त्रीणामधीवासे नृत्यगीतनिनादिते 13110008c प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे 13110009a त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् 13110009c धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् 13110010a द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् 13110010c सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 13110010e यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् 13110011a सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः 13110011c क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् 13110012a पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे 13110012c द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह 13110013a तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् 13110013c सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 13110014a अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 13110014c मयूरहंससंयुक्तं विमानं लभते नरः 13110015a सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह 13110015c निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः 13110016a दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् 13110016c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110017a वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 13110017c इन्द्रकन्याभिरूढं च विमानं लभते नरः 13110018a सागरस्य च पर्यन्ते वासवं लोकमावसेत् 13110018c देवराजस्य च क्रीडां नित्यकालमवेक्षते 13110019a दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् 13110019c सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् 13110020a अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः 13110020c अनसूयुरपापस्थो द्वादशाहफलं लभेत् 13110021a जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् 13110021c सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् 13110022a आवर्तनानि चत्वारि तथा पद्मानि द्वादश 13110022c शराग्निपरिमाणं च तत्रासौ वसते सुखम् 13110023a दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् 13110023c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110024a सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः 13110024c गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 13110025a अग्निज्वालासमाभासं हंसबर्हिणसेवितम् 13110025c शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् 13110026a तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते 13110026c नूपुराणां निनादेन मेखलानां च निस्वनैः 13110027a कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च 13110027c पद्मान्यष्टादश तथा पताके द्वे तथैव च 13110028a अयुतानि च पञ्चाशदृक्षचर्मशतस्य च 13110028c लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते 13110029a दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् 13110029c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110030a सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् 13110030c सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् 13110031a पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति 13110031c तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते 13110032a फलं बहुसुवर्णस्य यज्ञस्य लभते नरः 13110032c संख्यामतिगुणां चापि तेषु लोकेषु मोदते 13110033a यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः 13110033c देवकार्यपरो नित्यं जुह्वानो जातवेदसम् 13110034a पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् 13110034c पद्मवर्णनिभं चैव विमानमधिरोहति 13110035a कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः 13110035c वयोरूपविलासिन्यो लभते नात्र संशयः 13110036a यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि 13110036c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110037a अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः 13110037c पुण्डरीकप्रकाशं च विमानं लभते नरः 13110038a दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च 13110038c नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् 13110039a अष्टादशसहस्राणि वर्षाणां कल्पमेव च 13110039c कोटीशतसहस्रं च तेषु लोकेषु मोदते 13110040a यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते 13110040c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110041a ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे 13110041c अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् 13110042a रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् 13110042c नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा 13110043a विमानं मण्डलावर्तमावर्तगहनावृतम् 13110043c सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् 13110044a विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः 13110044c स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् 13110044e आरोहति महद्यानं हंससारसवाहनम् 13110045a एकादशे तु दिवसे यः प्राप्ते प्राशते हविः 13110045c सदा द्वादशमासान्वै जुह्वानो जातवेदसम् 13110046a परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा 13110046c अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा 13110047a अभिगच्छेन्महादेवं विमानस्थं महाबलम् 13110047c स्वयंभुवं च पश्येत विमानं समुपस्थितम् 13110048a कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् 13110048c रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् 13110049a वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् 13110049c कोटीशतसहस्रं च दश कोटिशतानि च 13110050a रुद्रं नित्यं प्रणमते देवदानवसंमतम् 13110050c स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् 13110051a दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः 13110051c सदा द्वादशमासान्वै सर्वमेधफलं लभेत् 13110052a आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते 13110052c मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् 13110053a हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् 13110053c मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् 13110054a अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् 13110054c नित्यमावसते राजन्नरनारीसमावृतम् 13110054e ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् 13110055a त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः 13110055c सदा द्वादश मासान्वै देवसत्रफलं लभेत् 13110056a रक्तपद्मोदयं नाम विमानं साधयेन्नरः 13110056c जातरूपप्रयुक्तं च रत्नसंचयभूषितम् 13110057a देवकन्याभिराकीर्णं दिव्याभरणभूषितम् 13110057c पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् 13110058a तत्र शङ्कुपताकं च युगान्तं कल्पमेव च 13110058c अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् 13110059a गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः 13110059c सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते 13110060a चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः 13110060c सदा द्वादश मासान्वै महामेधफलं लभेत् 13110061a अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः 13110061c मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् 13110062a कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः 13110062c काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते 13110063a देवकन्यानिवासे च तस्मिन्वसति मानवः 13110063c जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः 13110064a यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः 13110064c सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् 13110064e राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् 13110065a यानमारोहते नित्यं हंसबर्हिणसेवितम् 13110065c मणिमण्डलकैश्चित्रं जातरूपसमावृतम् 13110066a दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् 13110066c एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् 13110066e वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः 13110067a दिव्यं दिव्यगुणोपेतं विमानमधिरोहति 13110067c मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् 13110067e वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः 13110068a षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः 13110068c सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् 13110069a सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा 13110069c सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् 13110070a सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च 13110070c अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते 13110071a फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् 13110071c आवर्तनानि चत्वारि सागरे यात्यसौ नरः 13110072a दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः 13110072c सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 13110073a स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति 13110073c मारुतौशनसे चैव ब्रह्मलोकं च गच्छति 13110074a तत्र दैवतकन्याभिरासनेनोपचर्यते 13110074c भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते 13110075a तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् 13110075c द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः 13110076a चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो 13110076c तावच्चरत्यसौ वीरः सुधामृतरसाशनः 13110077a अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् 13110077c सदा द्वादश मासान्वै सप्त लोकान्स पश्यति 13110078a रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते 13110078c देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः 13110079a व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् 13110079c विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति 13110080a तत्र कल्पसहस्रं स कान्ताभिः सह मोदते 13110080c सुधारसं च भुञ्जीत अमृतोपममुत्तमम् 13110081a एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् 13110081c सदा द्वादश मासान्वै सप्त लोकान्स पश्यति 13110082a उत्तमं लभते स्थानमप्सरोगणसेवितम् 13110082c गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् 13110083a तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः 13110083c दिव्याम्बरधरः श्रीमानयुतानां शतं समाः 13110084a पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् 13110084c सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः 13110085a अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः 13110085c स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते 13110086a गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः 13110086c विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते 13110087a एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् 13110087c सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 13110088a लोकमौशनसं दिव्यं शक्रलोकं च गच्छति 13110088c अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा 13110089a अनभिज्ञश्च दुःखानां विमानवरमास्थितः 13110089c सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः 13110090a द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् 13110090c सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 13110091a धृतिमानहिंसानिरतः सत्यवागनसूयकः 13110091c लोकान्वसूनामाप्नोति दिवाकरसमप्रभः 13110092a कामचारी सुधाहारो विमानवरमास्थितः 13110092c रमते देवकन्याभिर्दिव्याभरणभूषितः 13110093a त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् 13110093c सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः 13110094a वायोरुशनसश्चैव रुद्रलोकं च गच्छति 13110094c कामचारी कामगमः पूज्यमानोऽप्सरोगणैः 13110095a अनेकगुणपर्यन्तं विमानवरमास्थितः 13110095c रमते देवकन्याभिर्दिव्याभरणभूषितः 13110096a चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् 13110096c सदा द्वादश मासान्वै जुह्वानो जातवेदसम् 13110097a आदित्यानामधीवासे मोदमानो वसेच्चिरम् 13110097c दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13110098a विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे 13110098c रमते देवकन्यानां सहस्रैरयुतैस्तथा 13110099a पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् 13110099c सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् 13110100a सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः 13110100c रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते 13110101a देवकन्यासमारूढै राजतैर्विमलैः शुभैः 13110101c विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् 13110102a तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते 13110102c सुधारसं चोपजीवन्नमृतोपममुत्तमम् 13110103a षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् 13110103c सदा द्वादश मासांस्तु नियतो नियताशनः 13110104a जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् 13110104c स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः 13110105a सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते 13110105c विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते 13110106a गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते 13110106c द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा 13110107a सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् 13110107c सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् 13110108a फलं प्राप्नोति विपुलं देवलोके च पूज्यते 13110108c अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते 13110109a देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् 13110109c अध्यावसति दिव्यात्मा विमानवरमास्थितः 13110110a स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः 13110110c युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् 13110111a योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् 13110111c सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः 13110112a फलं देवर्षिचरितं विपुलं समुपाश्नुते 13110112c भोगवांस्तेजसा भाति सहस्रांशुरिवामलः 13110113a सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः 13110113c पीनस्तनोरुजघना दिव्याभरणभूषिताः 13110114a रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे 13110114c सर्वकामगमे दिव्ये कल्पायुतशतं समाः 13110115a एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् 13110115c सदा द्वादश मासान्वै सत्यव्रतपरायणः 13110116a तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः 13110116c विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति 13110117a जातरूपमयं युक्तं सर्वरत्नविभूषितम् 13110117c अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम् 13110118a तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः 13110118c मनोभिरामा मधुरा रमयन्ति मदोत्कटाः 13110119a भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः 13110119c दिव्यो दिव्येन वपुषा भ्राजमान इवामरः 13110120a वसूनां मरुतां चैव साध्यानामश्विनोस्तथा 13110120c रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति 13110121a यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः 13110121c सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् 13110122a सुधारसकृताहारः श्रीमान्सर्वमनोहरः 13110122c तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव 13110123a दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः 13110123c सुखेष्वभिरतो योगी दुःखानामविजानकः 13110124a स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते 13110124c रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते 13110125a नानाविधसुरूपाभिर्नानारागाभिरेव च 13110125c नानामधुरभाषाभिर्नानारतिभिरेव च 13110126a विमाने नगराकारे सूर्यवत्सूर्यसंनिभे 13110126c पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे 13110127a दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले 13110127c ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः 13110128a यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति 13110128c तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः 13110129a विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् 13110129c वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः 13110130a मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् 13110130c महर्षित्वमथासाद्य सशरीरगतिर्भवेत् 13110131a मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा 13110131c जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता 13110132a बहुभिर्नियमैरेवं मासानश्नाति यो नरः 13110132c अभ्रावकाशशीलश्च तस्य वासो निरुच्यते 13110133a दिवं गत्वा शरीरेण स्वेन राजन्यथामरः 13110133c स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि 13110134a एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः 13110134c व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः 13110135a दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा 13110135c उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् 13110135e देवद्विजातिपूजायां रतो भरतसत्तम 13110136a उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः 13110136c नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु 13110137a दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत 13110137c अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः 13111001 युधिष्ठिर उवाच 13111001a यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह 13111001c यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि 13111002 भीष्म उवाच 13111002a सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् 13111002c यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः 13111003a अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे 13111003c स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् 13111004a तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् 13111004c अहिंसा सर्वभूतानामानृशंस्यं दमः शमः 13111005a निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः 13111005c शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते 13111006a तत्त्ववित्त्वनहंबुद्धिस्तीर्थं परममुच्यते 13111006c शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् 13111007a रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः 13111007c शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः 13111008a सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः 13111008c शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते 13111009a नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते 13111009c स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः 13111010a अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः 13111010c शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा 13111011a प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः 13111011c तथा निष्किंचनत्वं च मनसश्च प्रसन्नता 13111012a वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् 13111012c ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् 13111013a मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च 13111013c स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः 13111014a समारोपितशौचस्तु नित्यं भावसमन्वितः 13111014c केवलं गुणसंपन्नः शुचिरेव नरः सदा 13111015a शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत 13111015c पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि 13111016a यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः 13111016c तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च 13111017a प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् 13111017c धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् 13111018a परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा 13111018c अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा 13111019a मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे 13111019c उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् 13111020a यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता 13111020c नेह साधयते कार्यं समायुक्तस्तु सिध्यति 13111021a एवं शरीरशौचेन तीर्थशौचेन चान्वितः 13111021c ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् 13112001 युधिष्ठिर उवाच 13112001a पितामह महाबाहो सर्वशास्त्रविशारद 13112001c श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् 13112002a केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि 13112002c प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप 13112003a मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 13112003c प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति 13112004 भीष्म उवाच 13112004a असावायाति भगवान्बृहस्पतिरुदारधीः 13112004c पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् 13112005a नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै 13112005c वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् 13112006 वैशंपायन उवाच 13112006a तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा 13112006c आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः 13112007a ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः 13112007c पूजामनुपमां चक्रे सर्वे ते च सभासदः 13112008a ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् 13112008c उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः 13112009 युधिष्ठिर उवाच 13112009a भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद 13112009c मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः 13112010a मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 13112010c गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति 13112011 बृहस्पतिरुवाच 13112011a एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति 13112011c एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् 13112012a असहायः पिता माता तथा भ्राता सुतो गुरुः 13112012c ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च 13112013a मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः 13112013c मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः 13112013e तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति 13112014a तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः 13112014c प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् 13112014e तथैवाधर्मसंयुक्तो नरकायोपपद्यते 13112015a तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः 13112015c धर्म एको मनुष्याणां सहायः पारलौकिकः 13112016a लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः 13112016c नरः करोत्यकार्याणि परार्थे लोभमोहितः 13112017a धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् 13112017c एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् 13112018 युधिष्ठिर उवाच 13112018a श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् 13112018c शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते 13112019a मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् 13112019c अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति 13112020 बृहस्पतिरुवाच 13112020a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 13112020c बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा 13112021a प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् 13112021c एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति 13112022a त्वगस्थिमांसं शुक्रं च शोणितं च महामते 13112022c शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् 13112023a ततो धर्मसमायुक्तः स जीवः सुखमेधते 13112023c इह लोके परे चैव किं भूयः कथयामि ते 13112024 युधिष्ठिर उवाच 13112024a अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति 13112024c एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते 13112025 बृहस्पतिरुवाच 13112025a अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर 13112025c पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा 13112026a ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु 13112026c मनःषष्ठेषु शुद्धात्मन्रेतः संपद्यते महत् 13112027a ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे 13112027c एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 13112028 युधिष्ठिर उवाच 13112028a आख्यातमेतद्भवता गर्भः संजायते यथा 13112028c यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् 13112029 बृहस्पतिरुवाच 13112029a आसन्नमात्रः सततं तैर्भूतैरभिभूयते 13112029c विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् 13112029e स तु भूतसमायुक्तः प्राप्नुते जीव एव ह 13112030a ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् 13112030c देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि 13112031 युधिष्ठिर उवाच 13112031a त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः 13112031c जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते 13112032 बृहस्पतिरुवाच 13112032a जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः 13112032c स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत 13112033a यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् 13112033c दुःखं संसारचक्रं च नरः क्लेशं च विन्दति 13112034a इहलोके च स प्राणी जन्मप्रभृति पार्थिव 13112034c स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः 13112035a यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते 13112035c ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् 13112036a अथान्तरा तु धर्मस्य अधर्ममुपसेवते 13112036c सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति 13112037a अधर्मेण समायुक्तो यमस्य विषयं गतः 13112037c महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते 13112038a कर्मणा येन येनेह यस्यां योनौ प्रजायते 13112038c जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु 13112039a यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि 13112039c यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते 13112040a अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः 13112040c पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते 13112041a खरो जीवति वर्षाणि दश पञ्च च भारत 13112041c खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति 13112042a बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः 13112042c ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः 13112043a पतितं याजयित्वा तु कृमियोनौ प्रजायते 13112043c तत्र जीवति वर्षाणि दश पञ्च च भारत 13112044a कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः 13112044c गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः 13112044e श्वा वर्षमेकं भवति ततो जायति मानवः 13112045a उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् 13112045c स जीव इह संसारांस्त्रीनाप्नोति न संशयः 13112046a प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः 13112046c ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः 13112047a मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् 13112047c सोऽधमान्याति संसारानधर्मेणेह चेतसा 13112048a श्वयोनौ तु स संभूतस्त्रीणि वर्षाणि जीवति 13112048c तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते 13112049a कृमिभावमनुप्राप्तो वर्षमेकं स जीवति 13112049c ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते 13112050a यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे 13112050c आत्मनः कामकारेण सोऽपि हंसः प्रजायते 13112051a पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते 13112051c सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः 13112052a खरो जीवति मासांस्तु दश श्वा च चतुर्दश 13112052c बिडालः सप्त मासांस्तु ततो जायति मानवः 13112053a मातापितरमाक्रुश्य सारिकः संप्रजायते 13112053c ताडयित्वा तु तावेव जायते कच्छपो नृप 13112054a कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः 13112054c व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः 13112055a भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते 13112055c सोऽपि मोहसमापन्नो मृतो जायति वानरः 13112056a वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः 13112056c श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः 13112057a न्यासापहर्ता तु नरो यमस्य विषयं गतः 13112057c संसाराणां शतं गत्वा कृमियोनौ प्रजायते 13112058a तत्र जीवति वर्षाणि दश पञ्च च भारत 13112058c दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः 13112059a असूयको नरश्चापि मृतो जायति शार्ङ्गकः 13112059c विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः 13112060a भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत 13112060c मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते 13112061a छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः 13112061c कीटः संजायते जन्तुस्ततो जायति मानुषः 13112062a धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् 13112062c कलायानथ मुद्गांश्च गोधूमानतसीस्तथा 13112063a सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः 13112063c स जायते महाराज मूषको निरपत्रपः 13112064a ततः प्रेत्य महाराज पुनर्जायति सूकरः 13112064c सूकरो जातमात्रस्तु रोगेण म्रियते नृप 13112065a श्वा ततो जायते मूढः कर्मणा तेन पार्थिव 13112065c श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः 13112066a परदाराभिमर्शं तु कृत्वा जायति वै वृकः 13112066c श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा 13112067a भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः 13112067c पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप 13112068a सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च 13112068c प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः 13112069a सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः 13112069c पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च 13112069e एतानासाद्य संसारान्कृमियोनौ प्रजायते 13112070a तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश 13112070c ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः 13112071a उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो 13112071c मोहात्करोति यो विघ्नं स मृतो जायते कृमिः 13112072a कृमिर्जीवति वर्षाणि दश पञ्च च भारत 13112072c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13112073a पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति 13112073c सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते 13112074a तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर 13112074c अधर्मसंक्षये युक्तस्ततो जायति मानुषः 13112075a देवकार्यमुपाकृत्य पितृकार्यमथापि च 13112075c अनिर्वाप्य समश्नन्वै ततो जायति वायसः 13112076a वायसो दश वर्षाणि ततो जायति कुक्कुटः 13112076c जायते लवकश्चापि मासं तस्मात्तु मानुषः 13112077a ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते 13112077c सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते 13112078a क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च 13112078c ततो निधनमापन्नो मानुषत्वमुपाश्नुते 13112079a वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते 13112079c तत्रापत्यं समुत्पाद्य ततो जायति मूषकः 13112080a कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः 13112080c यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् 13112081a पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् 13112081c असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् 13112082a एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः 13112082c यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत 13112083a संसारचक्रमासाद्य कृमियोनौ प्रजायते 13112083c कृमिर्भवति वर्षाणि दश पञ्च च भारत 13112083e ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः 13112084a ततो गर्भशतैर्जन्तुर्बहुभिः संप्रजायते 13112084c संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते 13112085a मृतो दुःखमनुप्राप्य बहुवर्षगणानिह 13112085c अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते 13112086a अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः 13112086c अर्थार्थी यदि वा वैरी स मृतो जायते खरः 13112087a खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते 13112087c स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते 13112088a मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः 13112088c हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते 13112089a मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते 13112089c श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च 13112090a ततस्तु निधनं प्राप्तः कालपर्यायचोदितः 13112090c अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः 13112091a स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः 13112091c बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् 13112092a ततः पश्चान्महाराज कृमियोनौ प्रजायते 13112092c कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः 13112093a भोजनं चोरयित्वा तु मक्षिका जायते नरः 13112093c मक्षिकासंघवशगो बहून्मासान्भवत्युत 13112093e ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते 13112094a वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते 13112094c तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः 13112094e स जायते बभ्रुसमो दारुणो मूषको नरः 13112095a लवणं चोरयित्वा तु चीरीवाकः प्रजायते 13112095c दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् 13112096a चोरयित्वा पयश्चापि बलाका संप्रजायते 13112096c यस्तु चोरयते तैलं तैलपायी प्रजायते 13112096e चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते 13112097a अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः 13112097c पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते 13112098a हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते 13112098c फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः 13112099a कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः 13112099c राजतं भाजनं हृत्वा कपोतः संप्रजायते 13112100a हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते 13112100c क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः 13112101a चोरयित्वा नरः पट्टं त्वाविकं वापि भारत 13112101c क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते 13112102a वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः 13112102c हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः 13112103a वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः 13112103c छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः 13112104a विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः 13112104c स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते 13112105a मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः 13112105c मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते 13112106a पापानि तु नरः कृत्वा तिर्यग्जायति भारत 13112106c न चात्मनः प्रमाणं ते धर्मं जानन्ति किंचन 13112107a ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा 13112107c सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत 13112108a असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः 13112108c नराः पापसमाचारा लोभमोहसमन्विताः 13112109a वर्जयन्ति च पापानि जन्मप्रभृति ये नराः 13112109c अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत 13112110a स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः 13112110c एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः 13112111a परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः 13112111c एतद्वै लेशमात्रेण कथितं ते मयानघ 13112111e अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत 13112112a एतन्मया महाराज ब्रह्मणो वदतः पुरा 13112112c सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् 13112113a मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् 13112113c एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा 13113001 युधिष्ठिर उवाच 13113001a अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ 13113001c धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर 13113001e कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् 13113002 बृहस्पतिरुवाच 13113002a कृत्वा पापानि कर्माणि अधर्मवशमागतः 13113002c मनसा विपरीतेन निरयं प्रतिपद्यते 13113003a मोहादधर्मं यः कृत्वा पुनः समनुतप्यते 13113003c मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् 13113004a यथा यथा नरः सम्यगधर्ममनुभाषते 13113004c समाहितेन मनसा विमुच्यति तथा तथा 13113004e भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् 13113005a अदत्त्वापि प्रदानानि विविधानि समाहितः 13113005c मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते 13113006a प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर 13113006c नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते 13113007a सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् 13113007c पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता 13113008a प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते 13113008c अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते 13113009a अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः 13113009c अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः 13113010a न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् 13113010c स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना 13113011a यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश 13113011c हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् 13113012a ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ 13113012c नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा 13113013a भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः 13113013c स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते 13113014a अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च 13113014c क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति 13113015a द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः 13113015c तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव 13113016a षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् 13113016c वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते 13113017a अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् 13113017c अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते 13113018a औरसेन बलेनान्नमर्जयित्वाविहिंसकः 13113018c यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते 13113019a न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः 13113019c द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते 13113020a अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः 13113020c सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते 13113021a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13113021c ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः 13113022a सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् 13113022c कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः 13113023a अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते 13113023c तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् 13113024a यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा 13113024c अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः 13113025a भोजयित्वा दशशतं नरो वेदविदां नृप 13113025c न्यायविद्धर्मविदुषामितिहासविदां तथा 13113026a न याति नरकं घोरं संसारांश्च न सेवते 13113026c सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् 13113027a एवं सुखसमायुक्तो रमते विगतज्वरः 13113027c रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते 13113028a एतत्ते सर्वमाख्यातमन्नदानफलं महत् 13113028c मूलमेतद्धि धर्माणां प्रदानस्य च भारत 13114001 युधिष्ठिर उवाच 13114001a अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः 13114001c तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति 13114002 बृहस्पतिरुवाच 13114002a सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः 13114002c शृणु संकीर्त्यमानानि षडेव भरतर्षभ 13114003a हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् 13114003c अहिंसापाश्रयं धर्मं यः साधयति वै नरः 13114004a त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा 13114004c कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते 13114005a अहिंसकानि भूतानि दण्डेन विनिहन्ति यः 13114005c आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् 13114006a आत्मोपमश्च भूतेषु यो वै भवति पूरुषः 13114006c न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते 13114007a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 13114007c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 13114008a न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः 13114008c एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते 13114009a प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये 13114009c आत्मौपम्येन पुरुषः समाधिमधिगच्छति 13114010a यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन् 13114010c एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः 13114011 वैशंपायन उवाच 13114011a इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् 13114011c दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा 13115001 वैशंपायन उवाच 13115001a ततो युधिष्ठिरो राजा शरतल्पे पितामहम् 13115001c पुनरेव महातेजाः पप्रच्छ वदतां वरम् 13115002a ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते 13115002c अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् 13115003a कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम 13115003c वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते 13115004 भीष्म उवाच 13115004a चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः 13115004c एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन 13115005a यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति 13115005c तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः 13115006a यथा नागपदेऽन्यानि पदानि पदगामिनाम् 13115006c सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे 13115006e एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा 13115007a कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च 13115008a पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा 13115008c त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः 13115009a मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः 13115009c न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः 13115010a दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे 13115010c पुत्रमांसोपमं जानन्खादते यो विचेतनः 13115011a मातापितृसमायोगे पुत्रत्वं जायते यथा 13115011c रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा 13115011e तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् 13115012a असंस्कृताः संस्कृताश्च लवणालवणास्तथा 13115012c प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते 13115013a भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् 13115013c निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः 13115014a अचिन्तितमनुद्दिष्टमसंकल्पितमेव च 13115014c रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः 13115014e प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता 13115015a जीवितं हि परित्यज्य बहवः साधवो जनाः 13115015c स्वमांसैः परमांसानि परिपाल्य दिवं गताः 13115016a एवमेषा महाराज चतुर्भिः कारणैर्वृता 13115016c अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता 13116001 युधिष्ठिर उवाच 13116001a अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया 13116001c श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः 13116002a मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा 13116002c अहत्वा च कुतो मांसमेवमेतद्विरुध्यते 13116003a जातो नः संशयो धर्मे मांसस्य परिवर्जने 13116003c दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः 13116004a हत्वा भक्षयतो वापि परेणोपहृतस्य वा 13116004c हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः 13116005a एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ 13116005c निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् 13116006a कथमायुरवाप्नोति कथं भवति सत्त्ववान् 13116006c कथमव्यङ्गतामेति लक्षण्यो जायते कथम् 13116007 भीष्म उवाच 13116007a मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव 13116007c तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः 13116008a रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् 13116008c प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः 13116009a ऋषीणामत्र संवादो बहुशः कुरुपुंगव 13116009c बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर 13116010a यो यजेताश्वमेधेन मासि मासि यतव्रतः 13116010c वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर 13116011a सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः 13116011c अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः 13116012a न भक्षयति यो मांसं न हन्यान्न च घातयेत् 13116012c तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत् 13116013a अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु 13116013c साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् 13116014a स्वमांसं परमांसेन यो वर्धयितुमिच्छति 13116014c नारदः प्राह धर्मात्मा नियतं सोऽवसीदति 13116015a ददाति यजते चापि तपस्वी च भवत्यपि 13116015c मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः 13116016a मासि मास्यश्वमेधेन यो यजेत शतं समाः 13116016c न खादति च यो मांसं सममेतन्मतं मम 13116017a सदा यजति सत्रेण सदा दानं प्रयच्छति 13116017c सदा तपस्वी भवति मधुमांसस्य वर्जनात् 13116018a सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत 13116018c यो भक्षयित्वा मांसानि पश्चादपि निवर्तते 13116019a दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् 13116019c चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् 13116020a सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् 13116020c दाता भवति लोके स प्राणानां नात्र संशयः 13116021a एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः 13116021c प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा 13116022a आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः 13116022c मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् 13116023a किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् 13116023c अरोगाणामपापानां पापैर्मांसोपजीविभिः 13116024a तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् 13116024c धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च 13116025a अहिंसा परमो धर्मस्तथाहिंसा परं तपः 13116025c अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते 13116026a न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते 13116026c हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे 13116027a स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः 13116027c क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् 13116028a कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च 13116028c रात्रावहनि संध्यासु चत्वरेषु सभासु च 13116028e अमांसभक्षणे राजन्भयमन्ते न गच्छति 13116029a यदि चेत्खादको न स्यान्न तदा घातको भवेत् 13116029c घातकः खादकार्थाय तं घातयति वै नरः 13116030a अभक्ष्यमेतदिति वा इति हिंसा निवर्तते 13116030c खादकार्थमतो हिंसा मृगादीनां प्रवर्तते 13116031a यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते 13116031c तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः 13116032a त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः 13116032c उद्वेजनीया भूतानां यथा व्यालमृगास्तथा 13116033a लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च 13116033c संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् 13116034a स्वमांसं परमांसेन यो वर्धयितुमिच्छति 13116034c उद्विग्नवासे वसति यत्रतत्राभिजायते 13116035a धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् 13116035c मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः 13116036a इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया 13116036c मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे 13116037a यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् 13116037c हतानां वा मृतानां वा यथा हन्ता तथैव सः 13116038a धनेन क्रायको हन्ति खादकश्चोपभोगतः 13116038c घातको वधबन्धाभ्यामित्येष त्रिविधो वधः 13116039a अखादन्ननुमोदंश्च भावदोषेण मानवः 13116039c योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते 13116040a अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी 13116040c भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह 13116041a हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः 13116041c मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः 13116042a अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् 13116042c भक्षयन्निरयं याति नरो नास्त्यत्र संशयः 13116043a प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया 13116043c अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते 13116044a खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः 13116044c महादोषकरस्तत्र खादको न तु घातकः 13116045a इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः 13116045c हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः 13116046a भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते 13116046c तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते 13116047a आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी 13116047c संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते 13116048a इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् 13116048c पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् 13116049a प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते 13116049c यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् 13116050a हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि 13116050c वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च 13116050e अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् 13116051a अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ 13116051c विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् 13116052a य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् 13116052c स वर्जयेत मांसानि प्राणिनामिह सर्वशः 13116053a श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः 13116053c येनायजन्त यज्वानः पुण्यलोकपरायणाः 13116054a ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा 13116054c अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो 13116055a आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः 13116055c एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् 13116056a प्रजानां हितकामेन त्वगस्त्येन महात्मना 13116056c आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः 13116057a क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः 13116057c प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः 13116058a इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ 13116058c अभक्षणे सर्वसुखं मांसस्य मनुजाधिप 13116059a यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् 13116059c यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम 13116060a कौमुदे तु विशेषेण शुक्लपक्षे नराधिप 13116060c वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते 13116061a चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् 13116061c चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् 13116062a अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् 13116062c अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः 13116063a ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा 13116063c तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते 13116064a मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः 13116064c सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः 13116065a नाभागेनाम्बरीषेण गयेन च महात्मना 13116065c आयुषा चानरण्येन दिलीपरघुपूरुभिः 13116066a कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना 13116066c नृगेण विष्वगश्वेन तथैव शशबिन्दुना 13116066e युवनाश्वेन च तथा शिबिनौशीनरेण च 13116067a श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च 13116067c रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च 13116068a दुःषन्तेन करूषेण रामालर्कनलैस्तथा 13116068c विरूपाश्वेन निमिना जनकेन च धीमता 13116069a सिलेन पृथुना चैव वीरसेनेन चैव ह 13116069c इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च 13116070a एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् 13116070c शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् 13116071a ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः 13116071c उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः 13116072a तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् 13116072c ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते 13116073a मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः 13116073c जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः 13116073e विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः 13116074a आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् 13116074c मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः 13116075a तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः 13116075c बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः 13116076a एतत्ते कथितं राजन्मांसस्य परिवर्जने 13116076c प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् 13117001 युधिष्ठिर उवाच 13117001a इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः 13117001c विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा 13117002a नापूपान्विविधाकाराञ्शाकानि विविधानि च 13117002c षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् 13117003a तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते 13117003c न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन 13117004a तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा 13117004c भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ 13117005a सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः 13117005c किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे 13117006 भीष्म उवाच 13117006a एवमेतन्महाबाहो यथा वदसि भारत 13117006c न मांसात्परमत्रान्यद्रसतो विद्यते भुवि 13117007a क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये 13117007c अध्वना कर्शितानां च न मांसाद्विद्यते परम् 13117008a सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च 13117008c न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप 13117009a विवर्जने तु बहवो गुणाः कौरवनन्दन 13117009c ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु 13117010a स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति 13117010c नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः 13117011a न हि प्राणात्प्रियतरं लोके किंचन विद्यते 13117011c तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे 13117012a शुक्राच्च तात संभूतिर्मांसस्येह न संशयः 13117012c भक्षणे तु महान्दोषो वधेन सह कल्पते 13117013a अहिंसालक्षणो धर्म इति वेदविदो विदुः 13117013c यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः 13117014a पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते 13117014c विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति 13117015a यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः 13117015c अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते 13117016a क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु 13117016c वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति 13117017a आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः 13117017c अगस्त्येन पुरा राजन्मृगया येन पूज्यते 13117018a नात्मानमपरित्यज्य मृगया नाम विद्यते 13117018c समतामुपसंगम्य रूपं हन्यान्न वा नृप 13117019a अतो राजर्षयः सर्वे मृगयां यान्ति भारत 13117019c लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः 13117020a न हि तत्परमं किंचिदिह लोके परत्र च 13117020c यत्सर्वेष्विह लोकेषु दया कौरवनन्दन 13117021a न भयं विद्यते जातु नरस्येह दयावतः 13117021c दयावतामिमे लोकाः परे चापि तपस्विनाम् 13117022a अभयं सर्वभूतेभ्यो यो ददाति दयापरः 13117022c अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः 13117023a क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् 13117023c सर्वभूतानि रक्षन्ति समेषु विषमेषु च 13117024a नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः 13117024c मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् 13117025a प्राणदानात्परं दानं न भूतं न भविष्यति 13117025c न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् 13117026a अनिष्टं सर्वभूतानां मरणं नाम भारत 13117026c मृत्युकाले हि भूतानां सद्यो जायति वेपथुः 13117027a जातिजन्मजरादुःखे नित्यं संसारसागरे 13117027c जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च 13117028a गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः 13117028c मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः 13117029a जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः 13117029c पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः 13117030a कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः 13117030c आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः 13117031a नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह 13117031c तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् 13117032a सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् 13117032c स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः 13117033a ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् 13117033c भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः 13117034a मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् 13117034c एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत 13117035a घातको वध्यते नित्यं तथा वध्येत बन्धकः 13117035c आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते 13117036a येन येन शरीरेण यद्यत्कर्म करोति यः 13117036c तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 13117037a अहिंसा परमो धर्मस्तथाहिंसा परो दमः 13117037c अहिंसा परमं दानमहिंसा परमं तपः 13117038a अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् 13117038c अहिंसा परमं मित्रमहिंसा परमं सुखम् 13117038e अहिंसा परमं सत्यमहिंसा परमं श्रुतम् 13117039a सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् 13117039c सर्वदानफलं वापि नैतत्तुल्यमहिंसया 13117040a अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा 13117040c अहिंस्रः सर्वभूतानां यथा माता यथा पिता 13117041a एतत्फलमहिंसाया भूयश्च कुरुपुंगव 13117041c न हि शक्या गुणा वक्तुमिह वर्षशतैरपि 13118001 युधिष्ठिर उवाच 13118001a अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे 13118001c कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह 13118002a दुःखं प्राणपरित्यागः पुरुषाणां महामृधे 13118002c जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् 13118003a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13118003c कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः 13118004 भीष्म उवाच 13118004a समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे 13118004c संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते 13118005a निरता येन भावेन तत्र मे शृणु कारणम् 13118005c सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर 13118006a अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप 13118006c द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर 13118007a ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा 13118007c ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि 13118008a गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् 13118008c सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् 13118009a कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे 13118009c क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् 13118010 कीट उवाच 13118010a शकटस्यास्य महतो घोषं श्रुत्वा भयं मम 13118010c आगतं वै महाबुद्धे स्वन एष हि दारुणः 13118010e श्रूयते न स मां हन्यादिति तस्मादपाक्रमे 13118011a श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् 13118011c वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो 13118011e नृणां च संवाहयतां श्रूयते विविधः स्वनः 13118012a सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना 13118012c तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् 13118013a दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् 13118013c अतो भीतः पलायामि गच्छेयं नासुखं सुखात् 13118014 भीष्म उवाच 13118014a इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव 13118014c मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे 13118015a शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् 13118015c नाभिजानासि कीट त्वं श्रेयो मरणमेव ते 13118016 कीट उवाच 13118016a सर्वत्र निरतो जीव इतीहापि सुखं मम 13118016c चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् 13118017a इहापि विषयः सर्वो यथादेहं प्रवर्तितः 13118017c मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः 13118018a अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा 13118018c अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः 13118019a वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः 13118019c मिथःकृतोऽपनिधनः परस्वहरणे रतः 13118020a भृत्यातिथिजनश्चापि गृहे पर्युषितो मया 13118020c मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता 13118021a देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया 13118021c न दत्तमर्थकामेन देयमन्नं पुनाति ह 13118022a गुप्तं शरणमाश्रित्य भयेषु शरणागताः 13118022c अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः 13118023a धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् 13118023c श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् 13118024a ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः 13118024c त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः 13118025a नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया 13118025c स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् 13118026a शुभानामपि जानामि कृतानां कर्मणां फलम् 13118026c माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया 13118027a सकृज्जातिगुणोपेतः संगत्या गृहमागतः 13118027c अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः 13118028a कर्मणा तेन चैवाहं सुखाशामिह लक्षये 13118028c तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन 13119001 व्यास उवाच 13119001a शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे 13119001c ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे 13119002a अहं हि दर्शनादेव तारयामि तपोबलात् 13119002c तपोबलाद्धि बलवद्बलमन्यन्न विद्यते 13119003a जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् 13119003c अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे 13119004a कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये 13119004c धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः 13119005a वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः 13119005c किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः 13119006a जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः 13119006c ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि 13119007a गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे 13119007c तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि 13119008a स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत 13119008c तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु 13119009a श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् 13119009c श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु 13119010a स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना 13119010c प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः 13119011 कीट उवाच 13119011a इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः 13119011c यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् 13119012a वहन्ति मामतिबलाः कुञ्जरा हेममालिनः 13119012c स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः 13119013a उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् 13119013c सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् 13119014a गृहेषु सुनिवासेषु सुखेषु शयनेषु च 13119014c परार्ध्येषु महाभाग स्वपामीह सुपूजितः 13119015a सर्वेष्वपररात्रेषु सूतमागधबन्दिनः 13119015c स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः 13119016a प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः 13119016c यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् 13119017a नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् 13119017c त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया 13119018 व्यास उवाच 13119018a अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया 13119018c अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता 13119019a न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा 13119019c शूद्रेणार्थप्रधानेन नृशंसेनाततायिना 13119020a मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा 13119020c तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा 13119021a इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि 13119021c गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे 13119022a राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् 13119022c अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी 13119023a तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः 13119023c वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः 13120001 भीष्म उवाच 13120001a क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् 13120001c त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः 13120002a तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः 13120002c आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा 13120003 व्यास उवाच 13120003a क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् 13120003c क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि 13120004a पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान् 13120004c शुभैः संविभजन्कामैरशुभानां च पावनैः 13120005a आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः 13120005c क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि 13120006 भीष्म उवाच 13120006a सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर 13120006c महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च 13120007a अचिरेणैव कालेन कीटः पार्थिवसत्तम 13120007c प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः 13120008a ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः 13120008c आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा 13120009 व्यास उवाच 13120009a भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथंचन 13120009c शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु 13120009e उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् 13120010a तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथंचन 13120010c धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् 13120011 कीट उवाच 13120011a सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् 13120011c धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे 13120012 भीष्म उवाच 13120012a भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् 13120012c अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् 13120012e ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः 13120013a अवाप च परं कीटः पार्थ ब्रह्म सनातनम् 13120013c स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा 13120014a तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः 13120014c संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक 13121001 युधिष्ठिर उवाच 13121001a विद्या तपश्च दानं च किमेतेषां विशिष्यते 13121001c पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह 13121002 भीष्म उवाच 13121002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13121002c मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च 13121003a कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् 13121003c वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले 13121004a तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् 13121004c अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् 13121005a तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् 13121005c प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः 13121006a तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् 13121006c कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते 13121006e तपस्विनो धृतिमतः प्रमोदः समुपागतः 13121007a एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च 13121007c आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च 13121008a पृथगाचरतस्तात पृथगात्मनि चात्मनोः 13121008c अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया 13121009 व्यास उवाच 13121009a अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः 13121009c असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् 13121010a त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् 13121010c न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् 13121010e इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् 13121011a अल्पोऽपि तादृशो दायो भवत्युत महाफलः 13121011c तृषिताय च यद्दत्तं हृदयेनानसूयता 13121012a तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम 13121012c अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो 13121012e अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च 13121013a पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् 13121013c पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः 13121014a अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् 13121014c शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् 13121015a यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि 13121015c तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः 13121016a दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः 13121016c ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः 13121017a यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः 13121017c सर्वत्यागो यथा चेह तथा दानमनुत्तमम् 13121018a त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् 13121018c सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः 13121019a तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् 13121019c श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् 13121020a सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् 13121020c दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः 13121021a त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः 13121021c पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् 13121022a न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् 13121022c तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् 13121023a रमस्वैधस्व मोदस्व देहि चैव यजस्व च 13121023c न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः 13122001 भीष्म उवाच 13122001a एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः 13122001c अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः 13122002a असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् 13122002c अनुज्ञातस्तु भवता किंचिद्ब्रूयामहं विभो 13122003 व्यास उवाच 13122003a यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा 13122003c ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव 13122004 मैत्रेय उवाच 13122004a निर्दोषं निर्मलं चैव वचनं दानसंहितम् 13122004c विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः 13122005a भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम 13122005c भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव 13122006a अपि मे दर्शनादेव भवतोऽभ्युदयो महान् 13122006c मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः 13122007a तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् 13122007c त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः 13122008a तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च 13122008c न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते 13122009a यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः 13122009c एवं दत्त्वा श्रुतवति फलं दाता समश्नुते 13122010a ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः 13122010c प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् 13122011a अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् 13122011c तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः 13122012a प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः 13122012c स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः 13122013a यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः 13122013c न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः 13122014a यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः 13122014c तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते 13122015a ये योनिशुद्धाः सततं तपस्यभिरता भृशम् 13122015c दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा 13122016a तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते 13122016c ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः 13123001 भीष्म उवाच 13123001a एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत 13123001c दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी 13123001e लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति 13123002a रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् 13123002c दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः 13123002e यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु 13123003a यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः 13123003c तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् 13123004a अहं दानं प्रशंसामि भवानपि तपःश्रुते 13123004c तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् 13123005a तपसा महदाप्नोति विद्यया चेति नः श्रुतम् 13123005c तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् 13123006a यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः 13123006c सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः 13123007a दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् 13123007c सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् 13123008a सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः 13123008c तपसा तरते सर्वमेनसश्च प्रमुच्यते 13123009a सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः 13123009c तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः 13123010a सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः 13123010c दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् 13123011a इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् 13123011c अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः 13123012a पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च 13123012c अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते 13123013a अकर्ता चैव कर्ता च लभते यस्य यादृशम् 13123013c यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि 13123014a प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् 13123014c मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् 13123015a कौमारदारव्रतवान्मैत्रेय निरतो भव 13123015c एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् 13123016a यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता 13123016c यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते 13123017a अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा 13123017c दानेन तपसा चैव सर्वपापमपोह्यते 13123018a स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् 13123018c एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति 13123019a तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् 13123019c स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः 13124001 युधिष्ठिर उवाच 13124001a सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर 13124001c श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह 13124002 भीष्म उवाच 13124002a सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् 13124002c कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत 13124003a केन वृत्तेन कल्याणि समाचारेण केन वा 13124003c विधूय सर्वपापानि देवलोकं त्वमागता 13124004a हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा 13124004c सुता ताराधिपस्येव प्रभया दिवमागता 13124005a अरजांसि च वस्त्राणि धारयन्ती गतक्लमा 13124005c विमानस्था शुभे भासि सहस्रगुणमोजसा 13124006a न त्वमल्पेन तपसा दानेन नियमेन वा 13124006c इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे 13124007a इति पृष्टा सुमनया मधुरं चारुहासिनी 13124007c शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् 13124008a नाहं काषायवसना नापि वल्कलधारिणी 13124008c न च मुण्डा न जटिला भूत्वा देवत्वमागता 13124009a अहितानि च वाक्यानि सर्वाणि परुषाणि च 13124009c अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् 13124010a देवतानां पितॄणां च ब्राह्मणानां च पूजने 13124010c अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी 13124011a पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् 13124011c अद्वारे न च तिष्ठामि चिरं न कथयामि च 13124012a असद्वा हसितं किंचिदहितं वापि कर्मणा 13124012c रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा 13124013a कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् 13124013c आसनेनोपसंयोज्य पूजयामि समाहिता 13124014a यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति 13124014c भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् 13124015a कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु 13124015c प्रातरुत्थाय तत्सर्वं कारयामि करोमि च 13124016a प्रवासं यदि मे भर्ता याति कार्येण केनचित् 13124016c मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा 13124017a अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् 13124017c प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि 13124018a नोत्थापयामि भर्तारं सुखसुप्तमहं सदा 13124018c आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः 13124019a नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा 13124019c गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना 13124020a इमं धर्मपथं नारी पालयन्ती समाहिता 13124020c अरुन्धतीव नारीणां स्वर्गलोके महीयते 13124021 भीष्म उवाच 13124021a एतदाख्याय सा देवी सुमनायै तपस्विनी 13124021c पतिधर्मं महाभागा जगामादर्शनं तदा 13124022a यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि 13124022c स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् 13125001 युधिष्ठिर उवाच 13125001a साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् 13125001c प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते 13125002 भीष्म उवाच 13125002a साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः 13125002c पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् 13125003a गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ 13125003c दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा 13125004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13125004c गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा 13125005a कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने 13125005c गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता 13125006a स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् 13125006c सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे 13125007a रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् 13125007c मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः 13125008a मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः 13125008c आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह 13125009a विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः 13125009c विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः 13125010a नूनं मित्राणि ते रक्षः साधूपचरितान्यपि 13125010c स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः 13125011a धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः 13125011c अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः 13125012a गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् 13125012c प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः 13125013a अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् 13125013c माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः 13125014a संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः 13125014c जितं त्वां मन्यते साधो तेनासि हरिणः कृशः 13125015a क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः 13125015c मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः 13125016a प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः 13125016c ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः 13125017a नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् 13125017c वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः 13125018a प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती 13125018c तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः 13125019a असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् 13125019c गुणास्ते न विराजन्ते तेनासि हरिणः कृशः 13125020a धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः 13125020c महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः 13125021a तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् 13125021c बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः 13125022a नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् 13125022c न भाति कालेऽभिहितं तेनासि हरिणः कृशः 13125023a दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् 13125023c अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः 13125024a नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते 13125024c कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः 13125025a नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् 13125025c मयार्थ इति जानाति तेनासि हरिणः कृशः 13125026a अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि 13125026c विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः 13125027a नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि 13125027c ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः 13125028a अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् 13125028c यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः 13125029a चिराभिलषितं किंचित्फलमप्राप्तमेव ते 13125029c कृतमन्यैरपहृतं तेनासि हरिणः कृशः 13125030a नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि 13125030c अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः 13125031a सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् 13125031c दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः 13125032a साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् 13125032c मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः 13125033a धर्म्यमर्थं च काले च देशे चाभिहितं वचः 13125033c न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः 13125034a दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः 13125034c प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः 13125035a पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः 13125035c ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः 13125036a परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि 13125036c सुहृदामविरोधेन तेनासि हरिणः कृशः 13125037a श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् 13125037c मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः 13125038a एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् 13125038c सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह 13126001 युधिष्ठिर उवाच 13126001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 13126001c आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले 13126002a त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् 13126002c आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम 13126003a अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः 13126003c शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ 13126004a यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ 13126004c वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव 13126005a अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः 13126005c भवन्तं बहुमानेन प्रश्रयेण च सेवते 13126006a अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः 13126006c भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि 13126007 वैशंपायन उवाच 13126007a तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः 13126007c भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् 13126008a हन्त ते कथयिष्यामि कथामतिमनोरमाम् 13126008c अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः 13126009a यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु 13126009c रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु 13126010a व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् 13126010c दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ 13126011a कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः 13126011c देवलः काश्यपश्चैव हस्तिकाश्यप एव च 13126012a अपरे ऋषयः सन्तो दीक्षादमसमन्विताः 13126012c शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः 13126013a तेषामतिथिसत्कारमर्चनीयं कुलोचितम् 13126013c देवकीतनयः प्रीतो देवकल्पमकल्पयत् 13126014a हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च 13126014c उपोपविविशुः प्रीता विष्टरेषु महर्षयः 13126015a कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः 13126015c राजर्षीणां सुराणां च ये वसन्ति तपोधनाः 13126016a ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् 13126016c वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः 13126017a सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् 13126017c सपक्षिमृगसंघातं सश्वापदसरीसृपम् 13126018a मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् 13126018c शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् 13126019a स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः 13126019c विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् 13126020a ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः 13126020c सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् 13126021a तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः 13126021c सपक्षिगणसंघुष्टः सश्वापदसरीसृपः 13126022a तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा 13126022c विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः 13126023a ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् 13126023c प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः 13126024a किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः 13126024c निर्ममस्यागमवतो विस्मयः समुपागतः 13126025a एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः 13126025c ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः 13126026 ऋषय ऊचुः 13126026a भवान्विसृजते लोकान्भवान्संहरते पुनः 13126026c भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति 13126027a पृथिव्यां यानि भूतानि स्थावराणि चराणि च 13126027c तेषां पिता त्वं माता च प्रभुः प्रभव एव च 13126028a एतन्नो विस्मयकरं प्रशंस मधुसूदन 13126028c त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् 13126029a ततो विगतसंत्रासा वयमप्यरिकर्शन 13126029c यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे 13126030 वासुदेव उवाच 13126030a एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् 13126030c कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः 13126031a ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः 13126031c भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः 13126032a व्रतचर्यापरीतस्य तपस्विव्रतसेवया 13126032c मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ 13126033a व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् 13126033c पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः 13126034a ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः 13126034c गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् 13126035a तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः 13126035c तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः 13126036a सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् 13126036c शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः 13126037a एतदस्य रहस्यं वः पद्मनाभस्य धीमतः 13126037c मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः 13126038a सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः 13126038c तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः 13126039a यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि 13126039c आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे 13126040a तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा 13126040c भवद्भिः कथितस्येह तपोवननिवासिभिः 13126041a यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् 13126041c दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः 13126042a प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते 13126042c न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे 13126043a श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः 13126043c चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् 13126044a तदहं सज्जनमुखान्निःसृतं तत्समागमे 13126044c कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् 13126045a ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ 13126045c नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् 13126046a वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे 13126046c वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् 13126047a ततो मुनिगणाः सर्वे नारदं देवदर्शनम् 13126047c तदा नियोजयामासुर्वचने वाक्यकोविदम् 13126048a यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो 13126048c अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः 13126049a तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः 13126049c यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति 13126050a एवमुक्तः स मुनिभिर्नारदो भगवानृषिः 13126050c कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् 13127001 भीष्म उवाच 13127001a ततो नारायणसुहृन्नारदो भगवानृषिः 13127001c शंकरस्योमया सार्धं संवादं प्रत्यभाषत 13127002a तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः 13127002c पुण्ये गिरौ हिमवति सिद्धचारणसेविते 13127003a नानौषधियुते रम्ये नानापुष्पसमाकुले 13127003c अप्सरोगणसंकीर्णे भूतसंघनिषेविते 13127004a तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः 13127004c नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः 13127005a सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः 13127005c क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा 13127006a उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा 13127006c नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः 13127006e किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा 13127007a दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् 13127007c दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् 13127007e तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् 13127008a मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् 13127008c नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः 13127009a प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् 13127009c दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् 13127010a स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत 13127011a स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः 13127011c षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः 13127012a तं महोत्सवसंकाशं भीमरूपधरं पुनः 13127012c दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन 13127013a मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः 13127013c मरुतो वसवः साध्या विश्वेदेवाः सनातनाः 13127014a यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः 13127014c भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः 13127015a ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः 13127015c ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् 13127016a विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह 13127016c गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः 13127017a तत्र देवो गिरितटे दिव्यधातुविभूषिते 13127017c पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः 13127018a व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः 13127018c व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः 13127019a हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् 13127019c अभयः सर्वभूतानां भक्तानां वृषभध्वजः 13127020a दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः 13127020c विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः 13127021a तस्य भूतपतेः स्थानं भीमरूपधरं बभौ 13127021c अप्रधृष्यतरं चैव महोरगसमाकुलम् 13127022a क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन 13127022c तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ 13127023a तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता 13127023c हरतुल्याम्बरधरा समानव्रतचारिणी 13127024a बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् 13127024c गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा 13127025a पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा 13127025c सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् 13127026a ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना 13127026c हरनेत्रे शुभे देवी सहसा सा समावृणोत् 13127027a संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् 13127027c निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् 13127028a जनश्च विमनाः सर्वो भयत्राससमन्वितः 13127028c निमीलिते भूतपतौ नष्टसूर्य इवाभवत् 13127029a ततो वितिमिरो लोकः क्षणेन समपद्यत 13127029c ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता 13127030a तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् 13127030c युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः 13127031a ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् 13127031c हरं प्रणम्य शिरसा ददर्शायतलोचना 13127032a दह्यमाने वने तस्मिन्सशालसरलद्रुमे 13127032c सचन्दनवने रम्ये दिव्यौषधिविदीपिते 13127033a मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः 13127033c शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ 13127034a ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः 13127034c द्वादशादित्यसदृशो युगान्ताग्निरिवापरः 13127035a क्षणेन तेन दग्धः स हिमवानभवन्नगः 13127035c सधातुशिखराभोगो दीनदग्धवनौषधिः 13127036a तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः 13127036c भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता 13127037a उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् 13127037c पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् 13127038a ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः 13127038c प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः 13127039a प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् 13127039c उवाच सर्वभूतानां पतिं पतिमनिन्दिता 13127040a भगवन्सर्वभूतेश शूलपाणे महाव्रत 13127040c संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि 13127041a किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् 13127041c किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः 13127042a किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः 13127042c तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर 13127043 महेश्वर उवाच 13127043a नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते 13127043c नष्टालोकस्ततो लोकः क्षणेन समपद्यत 13127044a नष्टादित्ये तथा लोके तमोभूते नगात्मजे 13127044c तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः 13127045a तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः 13127045c त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः 13127046 उमोवाच 13127046a भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् 13127046c पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा 13127047a दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः 13127047c केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः 13127048a हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति 13127048c जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा 13127049a एतं मे संशयं सर्वं वद भूतपतेऽनघ 13127049c सधर्मचारिणी चाहं भक्ता चेति वृषध्वज 13127050a एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् 13127050c तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः 13127051a ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति 13127051c हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने 13128001 महेश्वर उवाच 13128001a तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा 13128001c तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा 13128002a साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि 13128002c प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना 13128003a यतो यतः सा सुदती मामुपाधावदन्तिके 13128003c ततस्ततो मुखं चारु मम देवि विनिर्गतम् 13128004a तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः 13128004c चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः 13128005a पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह 13128005c उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते 13128006a पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् 13128006c दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः 13128007a जटिलो ब्रह्मचारी च लोकानां हितकाम्यया 13128007c देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् 13128008a इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम 13128008c दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम 13128009 उमोवाच 13128009a वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते 13128009c कथं गोवृषभो देव वाहनत्वमुपागतः 13128010 महेश्वर उवाच 13128010a सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् 13128010c सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् 13128011a तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः 13128011c ततो दग्धा मया गावो नानावर्णत्वमागताः 13128012a ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना 13128012c वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च 13128013 उमोवाच 13128013a निवासा बहुरूपास्ते विश्वरूपगुणान्विताः 13128013c तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम् 13128014a केशास्थिकलिले भीमे कपालघटसंकुले 13128014c गृध्रगोमायुकलिले चिताग्निशतसंकुले 13128015a अशुचौ मांसकलिले वसाशोणितकर्दमे 13128015c विनिकीर्णामिषचये शिवानादविनादिते 13128016 महेश्वर उवाच 13128016a मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् 13128016c न च मेध्यतरं किंचिच्छ्मशानादिह विद्यते 13128017a तेन मे सर्ववासानां श्मशाने रमते मनः 13128017c न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते 13128018a तत्र चैव रमन्ते मे भूतसंघाः शुभानने 13128018c न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे 13128019a एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे 13128019c पुण्यः परमकश्चैव मेध्यकामैरुपास्यते 13128020 उमोवाच 13128020a भगवन्सर्वभूतेश सर्वधर्मभृतां वर 13128020c पिनाकपाणे वरद संशयो मे महानयम् 13128021a अयं मुनिगणः सर्वस्तपस्तप इति प्रभो 13128021c तपोन्वेषकरो लोके भ्रमते विविधाकृतिः 13128022a अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया 13128022c एतं ममेह संदेहं वक्तुमर्हस्यरिंदम 13128023a धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः 13128023c शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो 13128024 नारद उवाच 13128024a ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् 13128024c वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर 13128025 महेश्वर उवाच 13128025a अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् 13128025c शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः 13128026a परदारेष्वसंकल्पो न्यासस्त्रीपरिरक्षणम् 13128026c अदत्तादानविरमो मधुमांसस्य वर्जनम् 13128027a एष पञ्चविधो धर्मो बहुशाखः सुखोदयः 13128027c देहिभिर्धर्मपरमैः कर्तव्यो धर्मसंचयः 13128028 उमोवाच 13128028a भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि 13128028c चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः 13128029a ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् 13128029c वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् 13128030 महेश्वर उवाच 13128030a न्यायतस्ते महाभागे संशयः समुदीरितः 13128030c भूमिदेवा महाभागाः सदा लोके द्विजातयः 13128031a उपवासः सदा धर्मो ब्राह्मणस्य न संशयः 13128031c स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते 13128032a तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः 13128032c तथोपनयनं चैव द्विजायैवोपपद्यते 13128033a गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः 13128033c देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः 13128034 उमोवाच 13128034a भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि 13128034c चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय 13128035 महेश्वर उवाच 13128035a रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् 13128035c व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् 13128036a भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता 13128036c नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा 13128037a गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः 13128037c विन्देतानन्तरं भार्यामनुरूपां यथाविधि 13128038a शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् 13128038c धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च 13128039a आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः 13128039c विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः 13128040a अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् 13128040c इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् 13128041a यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु 13128041c अपूर्वभोजनं धर्मो विघसाशित्वमेव च 13128042a भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते 13128042c ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः 13128043a दंपत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् 13128043c गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया 13128044a नित्योपलेपनं धर्मस्तथा नित्योपवासिता 13128044c सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे 13128045a एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः 13128045c द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते 13128046a यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः 13128046c तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता 13128047a क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः 13128047c निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते 13128048a प्रजाः पालयते यो हि धर्मेण मनुजाधिपः 13128048c तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः 13128049a तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च 13128049c अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च 13128050a यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा 13128050c भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता 13128051a सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः 13128051c व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा 13128052a आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते 13128052c गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः 13128052e अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये 13128053a वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा 13128053c अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च 13128054a वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः 13128054c विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः 13128055a तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् 13128055c वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः 13128056a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः 13128056c शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु 13128057a स शूद्रः संशिततपाः सत्यसंधो जितेन्द्रियः 13128057c शुश्रूषन्नतिथिं प्राप्तं तपः संचिनुते महत् 13128058a त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः 13128058c शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् 13128059a एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने 13128059c एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि 13129001 उमोवाच 13129001a उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः 13129001c सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे 13129002 महेश्वर उवाच 13129002a ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना 13129002c लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः 13129003a तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् 13129003c ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः 13129004a इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा 13129004c पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु 13129005a वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः 13129005c शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः 13129006a त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः 13129006c त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः 13129007a षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः 13129007c वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता 13129008a यजनं याजनं चैव तथा दानप्रतिग्रहौ 13129008c अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः 13129009a नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः 13129009c दानं प्रशस्यते चास्य यथाशक्ति यथाविधि 13129010a अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः 13129010c गृहस्थता विशुद्धानां धर्मस्य निचयो महान् 13129011a पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः 13129011c दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः 13129012a अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा 13129012c अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः 13129013a पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा 13129013c दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः 13129014a प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च 13129014c सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः 13129015a सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् 13129015c शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् 13129016a प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते 13129016c तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् 13129017a दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा 13129017c पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता 13129018a धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् 13129018c कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः 13129019a एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता 13129019c एकेनांशेन कामार्थ एकमंशं विवर्धयेत् 13129020a निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः 13129020c तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः 13129021a सर्वभूतदया धर्मो न चैकग्रामवासिता 13129021c आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् 13129022a न कुण्ड्यां नोदके सङ्गो न वाससि न चासने 13129022c न त्रिदण्डे न शयने नाग्नौ न शरणालये 13129023a अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः 13129023c युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च 13129024a वृक्षमूलशयो नित्यं शून्यागारनिवेशनः 13129024c नदीपुलिनशायी च नदीतीररतिश्च यः 13129025a विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः 13129025c आत्मन्येवात्मनो भावं समासज्याटति द्विजः 13129026a स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा 13129026c परिव्रजति यो युक्तस्तस्य धर्मः सनातनः 13129027a न चैकत्र चिरासक्तो न चैकग्रामगोचरः 13129027c युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः 13129028a एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् 13129028c यो मार्गमनुयातीमं पदं तस्य न विद्यते 13129029a चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः 13129029c हंसः परमहंसश्च यो यः पश्चात्स उत्तमः 13129030a अतः परतरं नास्ति नाधरं न तिरोऽग्रतः 13129030c अदुःखमसुखं सौम्यमजरामरमव्ययम् 13129031 उमोवाच 13129031a गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया 13129031c भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् 13129032a ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् 13129032c स्पृहा भवति मे नित्यं तपोवननिवासिषु 13129033a आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् 13129033c तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् 13129034a एतं मे संशयं देव मुनिधर्मकृतं विभो 13129034c सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे 13129034e निखिलेन मया पृष्टं महादेव यथातथम् 13129035 महेश्वर उवाच 13129035a हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् 13129035c यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे 13129036a फेनपानामृषीणां यो धर्मो धर्मविदां सदा 13129036c तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः 13129037a उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् 13129037c अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि 13129038a एष तेषां विशुद्धानां फेनपानां तपोधने 13129038c धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु 13129039a वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले 13129039c उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः 13129040a मृगनिर्मोकवसनाश्चीरवल्कलवाससः 13129040c निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः 13129041a अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः 13129041c तपश्चरणमीहन्ते तेषां धर्मफलं महत् 13129042a ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये 13129042c द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः 13129043a ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः 13129043c सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये 13129044a पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि 13129044c संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा 13129045a सोमपानां च देवानामूष्मपाणां तथैव च 13129045c उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः 13129046a तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा 13129046c यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते 13129047a एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः 13129047c ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु 13129048a सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः 13129048c कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः 13129049a अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् 13129049c सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा 13129050a नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः 13129050c सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै 13129051a निवृत्तिरुपभोगस्य गोरसानां च वै रतिः 13129051c स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् 13129052a फलमूलाशनं वायुरापः शैवलभक्षणम् 13129052c ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् 13129053a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 13129053c अतीतपात्रसंचारे काले विगतभैक्षके 13129054a अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः 13129054c सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते 13129055a न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः 13129055c मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः 13130001 उमोवाच 13130001a देशेषु रमणीयेषु गिरीणां निर्झरेषु च 13130001c स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च 13130002a देशेषु च विचित्रेषु फलवत्सु समाहिताः 13130002c मूलवत्सु च देशेषु वसन्ति नियतव्रताः 13130003a तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर 13130003c वानप्रस्थेषु देवेश स्वशरीरोपजीविषु 13130004 महेश्वर उवाच 13130004a वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता 13130004c श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव 13130005a संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः 13130005c वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् 13130006a त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया 13130006c अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा 13130007a नीवारग्रहणं चैव फलमूलनिषेवणम् 13130007c इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् 13130008a योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् 13130008c वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः 13130009a युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा 13130009c मण्डूकयोगनियतैर्यथान्यायनिषेविभिः 13130010a वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा 13130010c शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः 13130011a अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः 13130011c अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः 13130012a चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः 13130012c कार्या यात्रा यथाकालं यथाधर्मं यथाविधि 13130013a वननित्यैर्वनचरैर्वनपैर्वनगोचरैः 13130013c वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः 13130014a तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् 13130014c नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् 13130015a अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् 13130015c पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च 13130016a विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः 13130016c विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने 13130017a स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा 13130017c सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् 13130018a ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् 13130018c गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् 13130019a एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः 13130019c विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः 13130020 उमोवाच 13130020a भगवन्देवदेवेश सर्वभूतनमस्कृत 13130020c यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद 13130021a सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः 13130021c स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः 13130022 महेश्वर उवाच 13130022a स्वैरिणस्तापसा देवि सर्वे दारविहारिणः 13130022c तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् 13130023a त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् 13130023c समाधिः सत्पथस्थानं यथोदितनिषेवणम् 13130024a ये च ते पूर्वकथिता धर्मा वननिवासिनाम् 13130024c यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् 13130025a ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः 13130025c चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः 13130026a तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते 13130026c न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः 13130027a सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् 13130027c हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते 13130028a सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः 13130028c सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते 13130029a सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् 13130029c उभे एते समे स्यातामार्जवं वा विशिष्यते 13130030a आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते 13130030c आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते 13130031a आर्जवो भुवने नित्यं वसत्यमरसंनिधौ 13130031c तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः 13130032a क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः 13130032c धर्मे रतमना नित्यं नरो धर्मेण युज्यते 13130033a व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः 13130033c चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते 13130034 उमोवाच 13130034a आश्रमाभिरता देव तापसा ये तपोधनाः 13130034c दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते 13130035a राजानो राजपुत्राश्च निर्धना वा महाधनाः 13130035c कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् 13130036a नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः 13130036c केन वा कर्मणा देव भवन्ति वनगोचराः 13130037a एतं मे संशयं देव तपश्चर्यागतं शुभम् 13130037c शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन 13130038 महेश्वर उवाच 13130038a उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः 13130038c संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः 13130039a मण्डूकयोगशयनो यथास्थानं यथाविधि 13130039c दीक्षां चरति धर्मात्मा स नागैः सह मोदते 13130040a शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते 13130040c दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् 13130041a शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते 13130041c शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् 13130042a वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा 13130042c यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः 13130043a अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा 13130043c चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः 13130044a आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् 13130044c मरुं संसाध्य यत्नेन राजा भवति पार्थिवः 13130045a स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः 13130045c प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् 13130046a स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च 13130046c गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि 13130047a आत्मानमुपजीवन्यो नियतो नियताशनः 13130047c देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते 13130048a आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 13130048c त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते 13130049a आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 13130049c अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते 13130050a साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः 13130050c चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् 13130050e स्वर्गलोकमवाप्नोति देवैश्च सह मोदते 13130051a आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् 13130051c हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते 13130052a यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः 13130052c आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः 13130053a चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् 13130053c अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः 13130054a वीराध्वानमना नित्यं वीरासनरतस्तथा 13130054c वीरस्थायी च सततं स वीरगतिमाप्नुयात् 13130055a स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः 13130055c दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः 13130055e सुखं वसति धर्मात्मा दिवि देवगणैः सह 13130056a वीरलोकगतो वीरो वीरयोगवहः सदा 13130056c सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः 13130056e वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः 13130057a कामगेन विमानेन स वै चरति च्छन्दतः 13130057c शक्रलोकगतः श्रीमान्मोदते च निरामयः 13131001 उमोवाच 13131001a भगवन्भगनेत्रघ्न पूष्णो दशनपातन 13131001c दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् 13131002a चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा 13131002c केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् 13131003a वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् 13131003c प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् 13131004a केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते 13131004c क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो 13131005a एतं मे संशयं देव वद भूतपतेऽनघ 13131005c त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः 13131006 महेश्वर उवाच 13131006a ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे 13131006c क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः 13131007a कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः 13131007c ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः 13131008a स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति 13131008c क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति 13131009a यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते 13131009c ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते 13131010a वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः 13131010c ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा 13131011a स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् 13131011c स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते 13131012a तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः 13131012c ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते 13131013a क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि 13131013c स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते 13131014a स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः 13131014c ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः 13131015a यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः 13131015c धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते 13131016a इदं चैवापरं देवि ब्रह्मणा समुदीरितम् 13131016c अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते 13131017a उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् 13131017c घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् 13131018a शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः 13131018c पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः 13131019a शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै 13131019c आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् 13131020a तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः 13131020c ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा 13131021a यस्यान्नेनावशेषेण जठरे यो म्रियेत वै 13131021c तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति 13131022a ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते 13131022c अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै 13131023a सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः 13131023c स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः 13131024a अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी 13131024c निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः 13131025a गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः 13131025c ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः 13131026a एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा 13131026c शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् 13131027a शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि 13131027c शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः 13131027e कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः 13131028a दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः 13131028c ऋतुकालाभिगामी च नियतो नियताशनः 13131029a चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः 13131029c वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति 13131030a ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः 13131030c यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः 13131031a दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः 13131031c गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः 13131032a शेषाशी विजिताहारो निष्कामो निरहंवदः 13131032c अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि 13131033a सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः 13131033c त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि 13131033e स वैश्यः क्षत्रियकुले शुचौ महति जायते 13131034a स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः 13131034c उपनीतो व्रतपरो द्विजो भवति सत्कृतः 13131035a ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः 13131035c अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा 13131036a आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् 13131036c सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः 13131037a धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः 13131037c यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः 13131038a ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः 13131038c ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा 13131039a सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः 13131039c बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा 13131040a सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा 13131040c शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् 13131041a स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् 13131041c पितृदेवातिथिकृते साधनं कुरुते च यः 13131042a स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च 13131042c त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि 13131043a गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः 13131043c त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् 13131044a ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः 13131044c विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा 13131045a एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः 13131045c शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः 13131046a ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः 13131046c ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः 13131047a कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः 13131047c शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् 13131048a स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति 13131048c विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः 13131049a न योनिर्नापि संस्कारो न श्रुतं न च संनतिः 13131049c कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् 13131050a सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते 13131050c वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति 13131051a ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः 13131051c निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः 13131052a एते योनिफला देवि स्थानभागनिदर्शकाः 13131052c स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः 13131053a ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् 13131053c यत्तत्र बीजं वपति सा कृषिः पारलौकिकी 13131054a मिताशिना सदा भाव्यं सत्पथालम्बिना सदा 13131054c ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता 13131055a संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना 13131055c नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना 13131056a एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः 13131056c आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते 13131057a ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः 13131057c योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते 13131058a एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः 13131058c ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते 13132001 उमोवाच 13132001a भगवन्सर्वभूतेश सुरासुरनमस्कृत 13132001c धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो 13132002a कर्मणा मनसा वाचा त्रिविधं हि नरः सदा 13132002c बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः 13132003a केन शीलेन वा देव कर्मणा कीदृशेन वा 13132003c समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः 13132004 महेश्वर उवाच 13132004a देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते 13132004c सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः 13132005a सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः 13132005c नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः 13132006a प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः 13132006c वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः 13132007a कर्मणा मनसा वाचा ये न हिंसन्ति किंचन 13132007c ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः 13132008a प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः 13132008c तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः 13132009a सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु 13132009c त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः 13132010a परस्वे निर्ममा नित्यं परदारविवर्जकाः 13132010c धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः 13132011a मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये 13132011c परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः 13132012a स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च 13132012c स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः 13132013a स्वदारनिरता ये च ऋतुकालाभिगामिनः 13132013c अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः 13132014a परदारेषु ये नित्यं चारित्रावृतलोचनाः 13132014c यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः 13132015a एष देवकृतो मार्गः सेवितव्यः सदा नरैः 13132015c अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः 13132016a दानधर्मतपोयुक्तः शीलशौचदयात्मकः 13132016c वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः 13132016e स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः 13132017 उमोवाच 13132017a वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः 13132017c तानि कर्माणि मे देव वद भूतपतेऽनघ 13132018 महेश्वर उवाच 13132018a आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा 13132018c ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः 13132019a वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च 13132019c अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः 13132020a श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् 13132020c स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः 13132021a कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् 13132021c अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः 13132022a पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् 13132022c ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः 13132023a वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः 13132023c सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः 13132024a शठप्रलापाद्विरता विरुद्धपरिवर्जकाः 13132024c सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः 13132025a न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् 13132025c सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः 13132026a एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः 13132026c शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः 13132027 उमोवाच 13132027a मनसा बध्यते येन कर्मणा पुरुषः सदा 13132027c तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् 13132028 महेश्वर उवाच 13132028a मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा 13132028c स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु 13132029a दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः 13132029c बध्यते मानवो येन शृणु चान्यच्छुभानने 13132030a अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः 13132030c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13132031a ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् 13132031c नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः 13132032a तथैव परदारान्ये कामवृत्तान्रहोगतान् 13132032c मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः 13132033a शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः 13132033c भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः 13132034a श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः 13132034c स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः 13132035a अवैरा ये त्वनायासा मैत्रचित्तपराः सदा 13132035c सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः 13132036a श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः 13132036c धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः 13132037a शुभानामशुभानां च कर्मणां फलसंचये 13132037c विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः 13132038a न्यायोपेता गुणोपेता देवद्विजपराः सदा 13132038c समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः 13132039a शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः 13132039c स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि 13132040 उमोवाच 13132040a महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर 13132040c तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि 13132041a केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो 13132041c तपसा वापि देवेश केनायुर्लभते महत् 13132042a क्षीणायुः केन भवति कर्मणा भुवि मानवः 13132042c विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित 13132043a अपरे च महाभोगा मन्दभोगास्तथापरे 13132043c अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे 13132044a दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव 13132044c प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः 13132045a दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः 13132045c महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः 13132046a अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे 13132046c दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि 13132047 महेश्वर उवाच 13132047a हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् 13132047c मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् 13132048a प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा 13132048c नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः 13132049a निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः 13132049c अपि कीटपिपीलानामशरण्यः सुनिर्घृणः 13132050a एवंभूतो नरो देवि निरयं प्रतिपद्यते 13132050c विपरीतस्तु धर्मात्मा रूपवानभिजायते 13132051a निरयं याति हिंसात्मा याति स्वर्गमहिंसकः 13132051c यातनां निरये रौद्रां स कृच्छ्रां लभते नरः 13132052a अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् 13132052c मानुष्यं लभते चापि हीनायुस्तत्र जायते 13132053a पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः 13132053c अप्रियः सर्वभूतानां हीनायुरुपजायते 13132054a यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः 13132054c निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन 13132055a न घातयति नो हन्ति घ्नन्तं नैवानुमोदते 13132055c सर्वभूतेषु सस्नेहो यथात्मनि तथापरे 13132056a ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते 13132056c उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः 13132057a अथ चेन्मानुषे लोके कदाचिदुपपद्यते 13132057c तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते 13132058a एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् 13132058c प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः 13133001 उमोवाच 13133001a किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः 13133001c स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा 13133002 महेश्वर उवाच 13133002a दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु 13133002c भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः 13133003a प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा 13133003c नैत्यकानि च सर्वाणि किमिच्छकमतीव च 13133004a आसनं शयनं यानं धनं रत्नं गृहांस्तथा 13133004c सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः 13133005a सुप्रतीतमना नित्यं यः प्रयच्छति मानवः 13133005c एवंभूतो मृतो देवि देवलोकेऽभिजायते 13133006a तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् 13133006c सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु 13133007a तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते 13133007c महाभोगे कुले देवि धनधान्यसमाचिते 13133008a तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः 13133008c महाभोगो महाकोशो धनी भवति मानवः 13133009a एते देवि महाभोगाः प्राणिनो दानशीलिनः 13133009c ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः 13133010a अपरे मानवा देवि प्रदानकृपणा द्विजैः 13133010c याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः 13133011a दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि 13133011c याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः 13133012a न धनानि न वासांसि न भोगान्न च काञ्चनम् 13133012c न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन 13133013a अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः 13133013c एवंभूता नरा देवि निरयं यान्त्यबुद्धयः 13133014a ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् 13133014c धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः 13133015a क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः 13133015c निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् 13133016a अल्पभोगकुले जाता अल्पभोगरता नराः 13133016c अनेन कर्मणा देवि भवन्त्यधनिनो नराः 13133017a अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः 13133017c आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः 13133018a मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः 13133018c पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः 13133019a अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि 13133019c अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः 13133020a गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते 13133020c अभिमानप्रवृत्तेन लोभेन समवस्थिताः 13133021a संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च 13133021c एवंविधा नरा देवि सर्वे निरयगामिनः 13133022a ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै 13133022c वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले 13133023a श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् 13133023c कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः 13133024a न स्तम्भी न च मानी यो देवताद्विजपूजकः 13133024c लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् 13133025a सर्ववर्णप्रियकरः सर्वभूतहितः सदा 13133025c अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा 13133026a स्वागतेनैव सर्वेषां भूतानामविहिंसकः 13133026c यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति 13133027a मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् 13133027c अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः 13133028a एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते 13133028c ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् 13133029a तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः 13133029c यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् 13133030a संमतः सर्वभूतानां सर्वलोकनमस्कृतः 13133030c स्वकर्मफलमाप्नोति स्वयमेव नरः सदा 13133031a उदात्तकुलजातीय उदात्ताभिजनः सदा 13133031c एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः 13133032a यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः 13133032c हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः 13133033a लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने 13133033c हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह 13133034a उपक्रामति जन्तूंश्च उद्वेगजननः सदा 13133034c एवंशीलसमाचारो निरयं प्रतिपद्यते 13133035a स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् 13133035c बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले 13133036a लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः 13133036c एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु 13133037a अपरः सर्वभूतानि दयावाननुपश्यति 13133037c मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः 13133038a नोद्वेजयति भूतानि न विहिंसयते तथा 13133038c हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु 13133039a न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च 13133039c उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः 13133040a एवंशीलसमाचारः स्वर्गे समुपजायते 13133040c तत्रासौ भवने दिव्ये मुदा वसति देववत् 13133041a स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते 13133041c अल्पाबाधो निरीतीकः स जातः सुखमेधते 13133042a सुखभागी निरायासो निरुद्वेगः सदा नरः 13133042c एष देवि सतां मार्गो बाधा यत्र न विद्यते 13133043 उमोवाच 13133043a इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः 13133043c ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः 13133043e दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः 13133044a केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् 13133044c अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः 13133044e एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर 13133045a जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा 13133045c नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै 13133046 महेश्वर उवाच 13133046a ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा 13133046c परिपृच्छन्त्यहरहः कुशलाकुशलं तथा 13133047a वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा 13133047c लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा 13133048a स चेन्मानुषतां याति मेधावी तत्र जायते 13133048c श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते 13133049a परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते 13133049c तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह 13133050a मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् 13133050c रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः 13133051a ये तु मूढा दुराचारा वियोनौ मैथुने रताः 13133051c पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते 13133052a पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः 13133052c प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः 13133053 उमोवाच 13133053a सावद्यं किं नु वै कर्म निरवद्यं तथैव च 13133053c श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम 13133054 महेश्वर उवाच 13133054a श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् 13133054c धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते 13133055a यदि मानुषतां देवि कदाचित्स निगच्छति 13133055c मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते 13133056a एष देवि सतां धर्मो मन्तव्यो भूतिकारकः 13133056c नृणां हितार्थाय तव मया वै समुदाहृतः 13133057 उमोवाच 13133057a अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः 13133057c ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् 13133058a व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः 13133058c अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः 13133059a यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे 13133059c केन कर्मविपाकेन भवन्तीह वदस्व मे 13133060 महेश्वर उवाच 13133060a आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः 13133060c प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः 13133061a अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः 13133061c अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः 13133062a ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः 13133062c निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः 13133063a एष देवि मया सर्वः संशयच्छेदनाय ते 13133063c कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः 13134001 महेश्वर उवाच 13134001a परावरज्ञे धर्मज्ञे तपोवननिवासिनि 13134001c साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे 13134002a दक्षे शमदमोपेते निर्ममे धर्मचारिणि 13134002c पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् 13134003a सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती 13134003c मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च 13134004a वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला 13134004c रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः 13134005a अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः 13134005c पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः 13134006a तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि 13134006c स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः 13134007a सहधर्मचरी मे त्वं समशीला समव्रता 13134007c समानसारवीर्या च तपस्तीव्रं कृतं च ते 13134007e त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति 13134008a स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा 13134008c गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा 13134009a मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता 13134009c सुरकार्यकरी च त्वं लोकसंतानकारिणी 13134010a तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे 13134010c तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे 13134011 उमोवाच 13134011a भगवन्सर्वभूतेश भूतभव्यभवोद्भव 13134011c त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे 13134012a इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः 13134012c उपस्पर्शनहेतोस्त्वा समीपस्था उपासते 13134013a एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः 13134013c प्रभवन्योऽनहंवादी स वै पुरुष उच्यते 13134014a स्त्री च भूतेश सततं स्त्रियमेवानुधावति 13134014c मया संमानिताश्चैव भविष्यन्ति सरिद्वराः 13134015a एषा सरस्वती पुण्या नदीनामुत्तमा नदी 13134015c प्रथमा सर्वसरितां नदी सागरगामिनी 13134016a विपाशा च वितस्ता च चन्द्रभागा इरावती 13134016c शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा 13134017a तथा देवनदी चेयं सर्वतीर्थाभिसंवृता 13134017c गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा 13134018a इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा 13134018c स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा 13134019a अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला 13134019c स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः 13134020a अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः 13134020c तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शंकरे 13134021a न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् 13134021c दिवि वा सागरगमास्तेन वो मानयाम्यहम् 13134022 भीष्म उवाच 13134022a एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः 13134022c ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् 13134023a बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता 13134023c शैलराजसुतां देवीं पुण्या पापापहां शिवाम् 13134024a बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा 13134024c सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् 13134025a धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा 13134025c या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे 13134026a प्रभवन्पृच्छते यो हि संमानयति वा पुनः 13134026c नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति 13134027a ज्ञानविज्ञानसंपन्नानूहापोहविशारदान् 13134027c प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति 13134028a अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि 13134028c अन्यथैव ह्यहंमानी दुर्बलं वदते वचः 13134029a दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते 13134029c त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् 13134030 भीष्म उवाच 13134030a ततः साराधिता देवी गङ्गया बहुभिर्गुणैः 13134030c प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी 13134031a स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि 13134031c तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् 13134032a स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः 13134032c सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः 13134033a सुस्वभावा सुवचना सुवृत्ता सुखदर्शना 13134033c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13134034a सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी 13134034c देववत्सततं साध्वी या भर्तारं प्रपश्यति 13134035a शुश्रूषां परिचारं च देववद्या करोति च 13134035c नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना 13134036a पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते 13134036c या साध्वी नियताचारा सा भवेद्धर्मचारिणी 13134037a श्रुत्वा दंपतिधर्मं वै सहधर्मकृतं शुभम् 13134037c अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी 13134038a परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा 13134038c सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता 13134039a न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते 13134039c भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी 13134040a दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् 13134040c पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी 13134041a या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् 13134041c पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी 13134042a शुश्रूषां परिचर्यां च करोत्यविमनाः सदा 13134042c सुप्रतीता विनीता च सा नारी धर्मभागिनी 13134043a न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा 13134043c स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी 13134044a कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता 13134044c सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना 13134045a अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा 13134045c देवतातिथिभृत्यानां निरुप्य पतिना सह 13134046a शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि 13134046c तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते 13134047a श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता 13134047c मातापितृपरा नित्यं या नारी सा तपोधना 13134048a ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा 13134048c बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी 13134049a व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया 13134049c पतिचित्ता पतिहिता सा पतिव्रतभागिनी 13134050a पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः 13134050c या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा 13134051a पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः 13134051c पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः 13134052a पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् 13134052c अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर 13134053a यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् 13134053c पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथंचन 13134054a आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा 13134054c आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया 13134055a एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव 13134055c या त्वेवंभाविनी नारी सा भवेद्धर्मभागिनी 13134056 भीष्म उवाच 13134056a इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् 13134056c लोकान्विसर्जयामास सर्वैरनुचरैः सह 13134057a ततो ययुर्भूतगणाः सरितश्च यथागतम् 13134057c गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् 13135001 वैशंपायन उवाच 13135001a श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः 13135001c युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत 13135002a किमेकं दैवतं लोके किं वाप्येकं परायणम् 13135002c स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् 13135003a को धर्मः सर्वधर्माणां भवतः परमो मतः 13135003c किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् 13135004 भीष्म उवाच 13135004a जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् 13135004c स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः 13135005a तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् 13135005c ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च 13135006a अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् 13135006c लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् 13135007a ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् 13135007c लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् 13135008a एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः 13135008c यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा 13135009a परमं यो महत्तेजः परमं यो महत्तपः 13135009c परमं यो महद्ब्रह्म परमं यः परायणम् 13135010a पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् 13135010c दैवतं देवतानां च भूतानां योऽव्ययः पिता 13135011a यतः सर्वाणि भूतानि भवन्त्यादियुगागमे 13135011c यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये 13135012a तस्य लोकप्रधानस्य जगन्नाथस्य भूपते 13135012c विष्णोर्नामसहस्रं मे शृणु पापभयापहम् 13135013a यानि नामानि गौणानि विख्यातानि महात्मनः 13135013c ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये 13135014a विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः 13135014c भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः 13135015a पूतात्मा परमात्मा च मुक्तानां परमा गतिः 13135015c अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च 13135016a योगो योगविदां नेता प्रधानपुरुषेश्वरः 13135016c नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः 13135017a सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः 13135017c संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः 13135018a स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः 13135018c अनादिनिधनो धाता विधाता धातुरुत्तमः 13135019a अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः 13135019c विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः 13135020a अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः 13135020c प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् 13135021a ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः 13135021c हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः 13135022a ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः 13135022c अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् 13135023a सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः 13135023c अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः 13135024a अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः 13135024c वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः 13135025a वसुर्वसुमनाः सत्यः समात्मा संमितः समः 13135025c अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः 13135026a रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः 13135026c अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः 13135027a सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः 13135027c वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः 13135028a लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः 13135028c चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः 13135029a भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः 13135029c अनघो विजयो जेता विश्वयोनिः पुनर्वसुः 13135030a उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः 13135030c अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः 13135031a वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः 13135031c अतीन्द्रियो महामायो महोत्साहो महाबलः 13135032a महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः 13135032c अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् 13135033a महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः 13135033c अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः 13135034a मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः 13135034c हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः 13135035a अमृत्युः सर्वदृक्सिंहः संधाता संधिमान्स्थिरः 13135035c अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा 13135036a गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः 13135036c निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः 13135037a अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः 13135037c सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् 13135038a आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः 13135038c अहः संवर्तको वह्निरनिलो धरणीधरः 13135039a सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः 13135039c सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः 13135040a असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः 13135040c सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः 13135041a वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः 13135041c वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः 13135042a सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः 13135042c नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः 13135043a ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः 13135043c ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः 13135044a अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः 13135044c औषधं जगतः सेतुः सत्यधर्मपराक्रमः 13135045a भूतभव्यभवन्नाथः पवनः पावनोऽनिलः 13135045c कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः 13135046a युगादिकृद्युगावर्तो नैकमायो महाशनः 13135046c अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् 13135047a इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः 13135047c क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः 13135048a अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः 13135048c अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः 13135049a स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः 13135049c वासुदेवो बृहद्भानुरादिदेवः पुरंदरः 13135050a अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः 13135050c अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः 13135051a पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् 13135051c महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः 13135052a अतुलः शरभो भीमः समयज्ञो हविर्हरिः 13135052c सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिंजयः 13135053a विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः 13135053c महीधरो महाभागो वेगवानमिताशनः 13135054a उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः 13135054c करणं कारणं कर्ता विकर्ता गहनो गुहः 13135055a व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः 13135055c परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः 13135056a रामो विरामो विरतो मार्गो नेयो नयोऽनयः 13135056c वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः 13135057a वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः 13135057c हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः 13135058a ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः 13135058c उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः 13135059a विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् 13135059c अर्थोऽनर्थो महाकोशो महाभोगो महाधनः 13135060a अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः 13135060c नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः 13135061a यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः 13135061c सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् 13135062a सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् 13135062c मनोहरो जितक्रोधो वीरबाहुर्विदारणः 13135063a स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् 13135063c वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः 13135064a धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् 13135064c अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः 13135065a गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः 13135065c आदिदेवो महादेवो देवेशो देवभृद्गुरुः 13135066a उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः 13135066c शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः 13135067a सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः 13135067c विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः 13135068a जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः 13135068c अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः 13135069a अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः 13135069c आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः 13135070a महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः 13135070c त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् 13135071a महावराहो गोविन्दः सुषेणः कनकाङ्गदी 13135071c गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः 13135072a वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः 13135072c वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः 13135073a भगवान्भगहा नन्दी वनमाली हलायुधः 13135073c आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः 13135074a सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः 13135074c दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः 13135075a त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् 13135075c संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् 13135076a शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः 13135076c गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः 13135077a अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः 13135077c श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः 13135078a श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः 13135078c श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः 13135079a स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः 13135079c विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः 13135080a उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः 13135080c भूशयो भूषणो भूतिर्विशोकः शोकनाशनः 13135081a अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः 13135081c अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः 13135082a कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः 13135082c त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः 13135083a कामदेवः कामपालः कामी कान्तः कृतागमः 13135083c अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः 13135084a ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः 13135084c ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः 13135085a महाक्रमो महाकर्मा महातेजा महोरगः 13135085c महाक्रतुर्महायज्वा महायज्ञो महाहविः 13135086a स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः 13135086c पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः 13135087a मनोजवस्तीर्थकरो वसुरेता वसुप्रदः 13135087c वसुप्रदो वासुदेवो वसुर्वसुमना हविः 13135088a सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः 13135088c शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः 13135089a भूतावासो वासुदेवो सर्वासुनिलयोऽनलः 13135089c दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः 13135090a विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् 13135090c अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः 13135091a एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् 13135091c लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः 13135092a सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी 13135092c वीरहा विषमः शून्यो घृताशीरचलश्चलः 13135093a अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् 13135093c सुमेधा मेधजो धन्यः सत्यमेधा धराधरः 13135094a तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः 13135094c प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः 13135095a चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः 13135095c चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् 13135096a समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः 13135096c दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा 13135097a शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः 13135097c इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः 13135098a उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः 13135098c अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी 13135099a सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः 13135099c महाह्रदो महागर्तो महाभूतो महानिधिः 13135100a कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः 13135100c अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः 13135101a सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः 13135101c न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः 13135102a सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः 13135102c अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः 13135103a अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् 13135103c अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः 13135104a भारभृत्कथितो योगी योगीशः सर्वकामदः 13135104c आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः 13135105a धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः 13135105c अपराजितः सर्वसहो नियन्ता नियमो यमः 13135106a सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः 13135106c अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः 13135107a विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः 13135107c रविर्विरोचनः सूर्यः सविता रविलोचनः 13135108a अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः 13135108c अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् 13135109a सनात्सनातनतमः कपिलः कपिरव्ययः 13135109c स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः 13135110a अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः 13135110c शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः 13135111a अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः 13135111c विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः 13135112a उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः 13135112c वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः 13135113a अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः 13135113c चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः 13135114a अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः 13135114c जननो जनजन्मादिर्भीमो भीमपराक्रमः 13135115a आधारनिलयो धाता पुष्पहासः प्रजागरः 13135115c ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः 13135116a प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः 13135116c तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः 13135117a भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः 13135117c यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः 13135118a यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः 13135118c यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च 13135119a आत्मयोनिः स्वयंजातो वैखानः सामगायनः 13135119c देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः 13135120a शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः 13135120c रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः 13135121a इतीदं कीर्तनीयस्य केशवस्य महात्मनः 13135121c नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् 13135122a य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् 13135122c नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः 13135123a वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् 13135123c वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् 13135124a धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् 13135124c कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः 13135125a भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः 13135125c सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् 13135126a यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च 13135126c अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् 13135127a न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति 13135127c भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः 13135128a रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् 13135128c भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः 13135129a दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् 13135129c स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः 13135130a वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः 13135130c सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् 13135131a न वासुदेवभक्तानामशुभं विद्यते क्वचित् 13135131c जन्ममृत्युजराव्याधिभयं वाप्युपजायते 13135132a इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः 13135132c युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः 13135133a न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः 13135133c भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे 13135134a द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः 13135134c वासुदेवस्य वीर्येण विधृतानि महात्मनः 13135135a ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् 13135135c जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् 13135136a इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः 13135136c वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च 13135137a सर्वागमानामाचारः प्रथमं परिकल्प्यते 13135137c आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः 13135138a ऋषयः पितरो देवा महाभूतानि धातवः 13135138c जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् 13135139a योगो ज्ञानं तथा सांख्यं विद्याः शिल्पानि कर्म च 13135139c वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् 13135140a एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः 13135140c त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः 13135141a इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् 13135141c पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च 13135142a विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् 13135142c भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् 13136001 युधिष्ठिर उवाच 13136001a के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च 13136001c किमाचारः कीदृशेषु पितामह न रिष्यते 13136002 भीष्म उवाच 13136002a ब्राह्मणानां परिभवः सादयेदपि देवताः 13136002c ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते 13136003a ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् 13136003c ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः 13136004a ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः 13136004c धनत्यागाभिरामाश्च वाक्संयमरताश्च ये 13136005a रमणीयाश्च भूतानां निधानं च धृतव्रताः 13136005c प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः 13136006a तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् 13136006c प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः 13136007a धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः 13136007c यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः 13136008a पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः 13136008c पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा 13136009a धुरि ये नावसीदन्ति विषमे सद्गवा इव 13136009c पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः 13136010a भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् 13136010c दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि 13136011a सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः 13136011c गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः 13136012a आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः 13136012c परावरविशेषज्ञा गन्तारः परमां गतिम् 13136013a विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः 13136013c मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः 13136014a चन्दने मलपङ्के च भोजनेऽभोजने समाः 13136014c समं येषां दुकूलं च शाणक्षौमाजिनानि च 13136015a तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि 13136015c शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः 13136016a अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् 13136016c लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः 13136017a अपेयः सागरो येषामभिशापान्महात्मनाम् 13136017c येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति 13136018a देवानामपि ये देवाः कारणं कारणस्य च 13136018c प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः 13136019a येषां वृद्धश्च बालश्च सर्वः संमानमर्हति 13136019c तपोविद्याविशेषात्तु मानयन्ति परस्परम् 13136020a अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् 13136020c विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः 13136021a अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् 13136021c प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् 13136022a श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति 13136022c हविर्यज्ञेषु च वहन्भूय एवाभिशोभते 13136023a एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु 13136023c सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् 13137001 युधिष्ठिर उवाच 13137001a कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप 13137001c कं वा कर्मोदयं मत्वा तानर्चसि महामते 13137002 भीष्म उवाच 13137002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 13137002c पवनस्य च संवादमर्जुनस्य च भारत 13137003a सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः 13137003c अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः 13137004a स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् 13137004c शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः 13137005a स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे 13137005c क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च 13137006a आराधयामास च तं कृतवीर्यात्मजो मुनिम् 13137006c न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः 13137007a स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् 13137007c सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा 13137008a मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे 13137008c विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत 13137008e तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः 13137009a चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम 13137009c तं ममानुग्रहकृते दातुमर्हस्यनिन्दित 13137009e अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् 13137010a इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् 13137010c एवं समभवंस्तस्य वरास्ते दीप्ततेजसः 13137011a ततः स रथमास्थाय ज्वलनार्कसमद्युतिः 13137011c अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया 13137011e वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा 13137012a तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी 13137012c न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् 13137012e सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः 13137013 अर्जुन उवाच 13137013a कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये 13137013c कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः 13137014a पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः 13137014c त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते 13137015a ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् 13137015c श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि 13137016a क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् 13137016c क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः 13137017a सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा 13137017c आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो वशे 13137018a कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि 13137018c विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः 13137019a न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन 13137019c देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् 13137020a अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् 13137020c न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् 13137021a अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी 13137021c अथैनमन्तरिक्षस्थस्ततो वायुरभाषत 13137022a त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु 13137022c एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् 13137023a अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः 13137023c निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः 13137024a तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः 13137024c वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् 13137025 अर्जुन उवाच 13137025a अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः 13137025c यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् 13137026a वायोर्वा सदृशं किंचिद्ब्रूहि त्वं ब्राह्मणोत्तमम् 13137026c अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा 13138001 वायुरुवाच 13138001a शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् 13138001c ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः 13138002a त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह 13138002c नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः 13138003a अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा 13138003c अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा 13138004a स ताः पिबन्क्षीरमिव नातृप्यत महातपाः 13138004c अपूरयन्महौघेन महीं सर्वां च पार्थिव 13138005a तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः 13138005c व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् 13138006a अभिशप्तश्च भगवान्गौतमेन पुरंदरः 13138006c अहल्यां कामयानो वै धर्मार्थं च न हिंसितः 13138007a तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा 13138007c ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो 13138008a सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः 13138008c क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः 13138009a मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् 13138009c सुवर्णधारिणा नित्यमवशप्ता द्विजातिना 13138010a समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप 13138010c गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः 13138011a दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् 13138011c तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् 13138012a त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा 13138012c दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् 13138013a अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् 13138013c स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् 13138014a अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् 13138014c कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे 13138015a तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः 13138015c येनेदं निखिलं विश्वं जनितं स्थावरं चरम् 13138016a अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः 13138016c अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् 13138017a द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः 13138017c स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः 13138018a तिष्ठेत्कथमिति ब्रूहि न किंचिद्धि तदा भवेत् 13138018c अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः 13138019a नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः 13138019c इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् 13139001 वायुरुवाच 13139001a इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा 13139001c अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ 13139002a धारणीं सर्वभूतानामयं प्राप्य वरो नृपः 13139002c कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् 13139003a साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् 13139003c अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् 13139004a ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा 13139004c प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः 13139005a रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता 13139005c धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप 13139006a एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः 13139006c त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः 13139007a अथागम्य महाराज नमस्कृत्य च कश्यपम् 13139007c पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः 13139008a एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् 13139008c अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् 13139009a तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः 13139009c शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले 13139010a भद्रा सोमस्य दुहिता रूपेण परमा मता 13139010c तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत 13139011a सा च तीव्रं तपस्तेपे महाभागा यशस्विनी 13139011c उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा 13139012a तत आहूय सोतथ्यं ददावत्र यशस्विनीम् 13139012c भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण 13139013a तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह 13139013c स चागम्य वनप्रस्थं यमुनायां जहार ताम् 13139014a जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति 13139014c परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् 13139015a न हि रम्यतरं किंचित्तस्मादन्यत्पुरोत्तमम् 13139015c प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् 13139015e तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः 13139016a अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् 13139017a तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा 13139017c प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः 13139017e मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि 13139018a लोकपालोऽसि लोकानां न लोकस्य विलोपकः 13139018c सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै 13139019a इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः 13139019c मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् 13139019e ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे 13139020a इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् 13139020c उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव 13139021a गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने 13139021c न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् 13139022a नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः 13139022c अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः 13139023a पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः 13139023c सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा 13139024a ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः 13139024c दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् 13139025a ततस्तदिरिणं जातं समुद्रश्चापसर्पितः 13139025c तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः 13139026a अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति 13139026c अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे 13139027a तस्मिन्संचूर्णिते देशे भद्रामादाय वारिपः 13139027c अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै 13139028a प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् 13139028c मुमोच च जगद्दुःखाद्वरुणं चैव हैहय 13139029a ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् 13139029c उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप 13139030a मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप 13139030c इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ 13139031a एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः 13139031c ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् 13140001 भीष्म उवाच 13140001a इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् 13140001c शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह 13140002a असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः 13140002c यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा 13140003a कर्मेज्या मानवानां च दानवैर्हैहयर्षभ 13140003c भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः 13140004a ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् 13140004c ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् 13140005a अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् 13140005c इदमूचुर्महात्मानं वाक्यं काले जनाधिप 13140006a दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः 13140006c तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुंगव 13140007a इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् 13140007c प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये 13140008a तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा 13140008c अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः 13140009a दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा 13140009c उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् 13140010a बलिस्तु यजते यज्ञमश्वमेधं महीं गतः 13140010c येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः 13140011a ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः 13140011c अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि 13140012a इत्युक्त आह देवान्स न शक्नोमि महीगतान् 13140012c दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव 13140013a एवं दग्धा भगवता दानवाः स्वेन तेजसा 13140013c अगस्त्येन तदा राजंस्तपसा भावितात्मना 13140014a ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ 13140014c ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् 13140015a इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् 13140015c शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः 13140016a आदित्याः सत्रमासन्त सरो वै मानसं प्रति 13140016c वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् 13140017a यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् 13140017c हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः 13140018a अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः 13140018c हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः 13140019a ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् 13140019c विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् 13140020a अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह 13140020c ततस्तैरर्दिता देवाः शरणं वासवं ययुः 13140021a स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ 13140021c ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः 13140022a तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः 13140022c अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा 13140023a कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः 13140023c आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः 13140024a सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् 13140024c हताश्च खलिनो यत्र स देशः खलिनोऽभवत् 13140025a एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः 13140025c ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना 13140026a एतत्कर्म वसिष्ठस्य कथितं ते मयानघ 13140026c ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् 13141001 भीष्म उवाच 13141001a इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् 13141001c शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः 13141002a घोरे तमस्ययुध्यन्त सहिता देवदानवाः 13141002c अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ 13141003a अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः 13141003c देवा नृपतिशार्दूल सहैव बलिभिस्तदा 13141004a असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः 13141004c अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने 13141005a अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् 13141005c असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ 13141006a वयं वध्यामहे चापि शत्रुभिस्तमसावृते 13141006c नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो 13141007a कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव 13141007c तिमिरघ्नश्च सविता दस्युहा चैव नो भव 13141008a एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी 13141008c अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् 13141009a दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव 13141009c प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे 13141010a जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा 13141010c व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा 13141011a अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् 13141011c पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः 13141012a उद्भासितश्च सविता देवास्त्राता हतासुराः 13141012c अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा 13141013a अद्वितीयेन मुनिना जपता चर्मवाससा 13141013c फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् 13141014a तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः 13141014c ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् 13141015a इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् 13141015c शृणु राजन्महत्कर्म च्यवनस्य महात्मनः 13141016a अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् 13141016c प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु 13141017 इन्द्र उवाच 13141017a अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् 13141017c देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः 13141018a अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत 13141018c पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे 13141019 च्यवन उवाच 13141019a न चेत्करिष्यसि वचो मयोक्तं बलसूदन 13141019c मया प्रमथितः सद्यः सोमं पास्यसि वै मखे 13141020a ततः कर्म समारब्धं हिताय सहसाश्विनोः 13141020c च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् 13141021a तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः 13141021c उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् 13141021e तथा वज्रेण भगवानमर्षाकुललोचनः 13141022a तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः 13141022c अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् 13141023a अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह 13141023c मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः 13141024a तस्य दन्तसहस्रं तु बभूव शतयोजनम् 13141024c द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः 13141024e हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् 13141025a जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः 13141025c तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे 13141026a ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा 13141026c अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये 13141026e अश्विभ्यां सह सोमं च पिबामो विगतज्वराः 13141027a ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् 13141027c च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ 13141028a ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः 13141028c अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् 13141029a एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः 13141029c तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् 13141030a एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् 13141030c ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् 13142001 भीष्म उवाच 13142001a तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः 13142001c शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप 13142002a मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः 13142002c तदेयं च्यवनेनेह हृता तेषां वसुंधरा 13142003a उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् 13142003c शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः 13142004 देवा ऊचुः 13142004a मदास्यव्यतिषिक्तानामस्माकं लोकपूजित 13142004c च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो 13142005 ब्रह्मोवाच 13142005a गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः 13142005c प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा 13142006a ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे 13142006c इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति 13142006e भूगतान्हि विजेतारो वयमित्येव पार्थिव 13142007a ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् 13142007c तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः 13142008a स च तान्ब्राह्मणानाह धनी कपवचो यथा 13142008c भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते 13142009a सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः 13142009c सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः 13142010a श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते 13142010c वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते 13142011a दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः 13142011c सर्वे च नियतात्मानो बालानां संविभागिनः 13142012a उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् 13142012c अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते 13142013a एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् 13142013c विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः 13142014 ब्राह्मणा ऊचुः 13142014a कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः 13142014c तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् 13142015a धनी गत्वा कपानाह न वो विप्राः प्रियंकराः 13142015c गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् 13142016a समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः 13142016c व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् 13142017a ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः 13142017c नभसीव यथाभ्राणि व्यराजन्त नराधिप 13142017e प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् 13142018a तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः 13142018c अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् 13142019a इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत 13142019c प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप 13142020a जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो 13142020c ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः 13142021a दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः 13142021c लोके च परमा कीर्तिर्धर्मश्च चरितो महान् 13142022a अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः 13142022c त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह 13142023 वायुरुवाच 13142023a ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च 13142023c भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति 13143001 युधिष्ठिर उवाच 13143001a ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् 13143001c कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप 13143002a कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत 13143002c तानर्चसि महाबाहो सर्वमेतद्वदस्व मे 13143003 भीष्म उवाच 13143003a एष ते केशवः सर्वमाख्यास्यति महामतिः 13143003c व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः 13143004a बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य 13143004c देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति 13143005a उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च 13143005c पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ 13143006a अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम् 13143006c अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु 13143007a कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः 13143007c अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः 13143007e सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् 13143008a अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः 13143008c येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम् 13143009a कृते युगे धर्म आसीत्समग्र;स्त्रेताकाले ज्ञानमनुप्रपन्नः 13143009c बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम 13143010a स पूर्वदेवो निजघान दैत्या;न्स पूर्वदेवश्च बभूव सम्राट् 13143010c स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता 13143011a यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु 13143011c धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति 13143012a त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ 13143012c कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् 13143013a स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च 13143013c स शूलभृच्छोणितभृत्कराल;स्तं कर्मभिर्विदितं वै स्तुवन्ति 13143014a तं गन्धर्वा अप्सरसश्च नित्य;मुपतिष्ठन्ते विबुधानां शतानि 13143014c तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः 13143015a तमध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश्च स्तुवन्ति 13143015c तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति 13143016a स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श 13143016c स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च 13143017a तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति 13143017c तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य 13143018a स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् 13143018c स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः 13143019a तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि 13143019c स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् 13143020a स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे 13143020c तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः 13143021a तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति 13143021c स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति 13143022a स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा 13143022c महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः 13143022e अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि 13143023a स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः 13143023c स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति 13143024a स एवाश्वः श्वेतमश्वं प्रयच्छ;त्स एवाश्वानथ सर्वांश्चकार 13143024c त्रिवन्धुरस्तस्य रथस्त्रिचक्र;स्त्रिवृच्छिराश्चतुरस्रश्च तस्य 13143025a स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम् 13143025c एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः 13143026a स लङ्घयन्वै सरितो जिघांस;न्स तं वज्रं प्रहरन्तं निरास 13143026c स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः 13143027a दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः 13143027c तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् 13143028a वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान् 13143028c कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि 13143029a ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च 13143029c त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव 13143030a संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः 13143030c मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि 13143031a चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः 13143031c नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् 13143032a रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च 13143032c प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त 13143033a वायुर्भूत्वा विक्षिपते च विश्व;मग्निर्भूत्वा दहते विश्वरूपः 13143033c आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसंघान् 13143034a वेद्यं च यद्वेदयते च वेदा;न्विधिश्च यश्चाश्रयते विधेयान् 13143034c धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि 13143035a ज्योतिर्भूतः परमोऽसौ पुरस्ता;त्प्रकाशयन्प्रभया विश्वरूपः 13143035c अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम् 13143036a ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च 13143036c सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि 13143037a विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति 13143037c ततः प्रद्युम्नमनिरुद्धं चतुर्थ;माज्ञापयत्यात्मयोनिर्महात्मा 13143038a स पञ्चधा पञ्चजनोपपन्नं; संचोदयन्विश्वमिदं सिसृक्षुः 13143038c ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ 13143039a स स्थावरं जङ्गमं चैवमेत;च्चतुर्विधं लोकमिमं च कृत्वा 13143039c ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि 13143039e तेन विश्वं कृतमेतद्धि राज;न्स जीवयत्यात्मनैवात्मयोनिः 13143040a ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च 13143040c समासेन विविधान्प्राणिलोका;न्सर्वान्सदा भूतपतिः सिसृक्षुः 13143041a शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि 13143041c यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि 13143042a मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः 13143042c भूतं च यच्चेह न विद्म किंचि;द्विष्वक्सेनात्सर्वमेतत्प्रतीहि 13143043a यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् 13143043c तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् 13143044a एतादृशः केशवोऽयं स्वयंभू;र्नारायणः परमश्चाव्ययश्च 13143044c मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च 13144001 युधिष्ठिर उवाच 13144001a ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन 13144001c वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः 13144002 वासुदेव उवाच 13144002a शृणुष्वावहितो राजन्द्विजानां भरतर्षभ 13144002c यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम 13144003a प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः 13144003c किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन 13144003e ईश्वरस्य सतस्तस्य इह चैव परत्र च 13144004a सदा द्विजातीन्संपूज्य किं फलं तत्र मानद 13144004c एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे 13144005a इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् 13144005c प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः 13144006a व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे 13144006c एते हि सोमराजान ईश्वराः सुखदुःखयोः 13144007a अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक 13144007c ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा 13144008a ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् 13144008c लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः 13144009a तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक 13144009c मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति 13144010a ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च 13144010c भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः 13144011a अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा 13144011c कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः 13144012a अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः 13144012c चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् 13144012e दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि 13144013a स स्म संचरते लोकान्ये दिव्या ये च मानुषाः 13144013c इमा गाथा गायमानश्चत्वरेषु सभासु च 13144014a दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे 13144014c परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् 13144014e यो मां कश्चिद्वासयेत न स मां कोपयेदिह 13144015a तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् 13144016a स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा 13144016c एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् 13144017a अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति 13144017c न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा 13144018a सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च 13144018c कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् 13144019a अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः 13144019c कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः 13144020a सदैव तु मया तस्य चित्तज्ञेन गृहे जनः 13144020c सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा 13144020e भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः 13144021a ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् 13144021c तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् 13144021e क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह 13144022a अविमृश्यैव च ततः कृतवानस्मि तत्तथा 13144022c तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् 13144023a स ददर्श तदाभ्याशे मातरं ते शुभाननाम् 13144023c तामपि स्मयमानः स पायसेनाभ्यलेपयत् 13144024a मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् 13144024c तमारुह्य रथं चैव निर्ययौ स गृहान्मम 13144025a अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् 13144025c प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः 13144026a न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा 13144026c ततः स राजमार्गेण महता निर्ययौ बहिः 13144027a तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः 13144027c तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् 13144028a ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन 13144028c को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह 13144029a आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् 13144029c ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः 13144030a तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि 13144030c तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् 13144031a ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः 13144031c पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः 13144032a तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् 13144032c तथैव पायसादिग्धः प्रसीद भगवन्निति 13144033a ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह 13144033c जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज 13144034a न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत 13144034c प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् 13144034e प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा 13144035a यावदेव मनुष्याणामन्ने भावो भविष्यति 13144035c यथैवान्ने तथा तेषां त्वयि भावो भविष्यति 13144036a यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति 13144036c त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे 13144036e सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन 13144037a यत्ते भिन्नं च दग्धं च यच्च किंचिद्विनाशितम् 13144037c सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन 13144038a यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन 13144038c अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत 13144039a न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै 13144039c नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा 13144039e इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् 13144040a रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः 13144040c कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने 13144041a न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि 13144041c स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि 13144042a षोडशानां सहस्राणां वधूनां केशवस्य ह 13144042c वरिष्ठा सहलोक्या च केशवस्य भविष्यसि 13144043a तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् 13144043c प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् 13144044a एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव 13144044c इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत 13144045a तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् 13144045c यत्किंचिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो 13144046a एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक 13144046c ततः परमहृष्टात्मा प्राविशं गृहमेव च 13144047a प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् 13144047c यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक 13144048a ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् 13144048c अपूजयं च मनसा रौक्मिणेय द्विजं तदा 13144049a इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ 13144049c माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा 13144050a तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो 13144050c पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा 13144051a एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् 13144051c यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ 13145001 युधिष्ठिर उवाच 13145001a दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन 13145001c अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि 13145002a महाभाग्यं च यत्तस्य नामानि च महात्मनः 13145002c तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर 13145003 वासुदेव उवाच 13145003a हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने 13145003c यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः 13145004a प्रयतः प्रातरुत्थाय यदधीये विशां पते 13145004c प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु 13145005a प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः 13145005c शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः 13145006a नास्ति किंचित्परं भूतं महादेवाद्विशां पते 13145006c इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः 13145007a न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः 13145007c न हि भूतं समं तेन त्रिषु लोकेषु विद्यते 13145008a गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः 13145008c विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 13145009a घोरं च निनदं तस्य पर्जन्यनिनदोपमम् 13145009c श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे 13145010a यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् 13145010c न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः 13145010e कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः 13145011a प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ 13145011c विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा 13145011e धनुषा बाणमुत्सृज्य सघोषं विननाद च 13145012a ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः 13145012c विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 13145013a तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः 13145013c बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः 13145014a आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा 13145014c व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः 13145015a अन्धेन तमसा लोकाः प्रावृता न चकाशिरे 13145015c प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत 13145016a भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च 13145016c ऋषयः सर्वभूतानामात्मनश्च हितैषिणः 13145017a ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः 13145017c भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् 13145018a पूषाणं चाभिदुद्राव परेण वपुषान्वितः 13145018c पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् 13145019a ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम् 13145019c पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् 13145020a रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः 13145020c ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः 13145021a जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः 13145021c संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः 13145022a रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् 13145022c भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे 13145023a तेन चैवातिकोपेन स यज्ञः संधितोऽभवत् 13145023c यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते 13145024a असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि 13145024c आयसं राजतं चैव सौवर्णमपरं तथा 13145025a नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि 13145025c अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः 13145026a तत ऊचुर्महात्मानो देवाः सर्वे समागताः 13145026c रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु 13145026e जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद 13145027a स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् 13145027c शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् 13145027e वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् 13145028a देवान्रथवरं कृत्वा विनियुज्य च सर्वशः 13145028c त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः 13145029a शरेणादित्यवर्णेन कालाग्निसमतेजसा 13145029c तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत 13145030a तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः 13145030c उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा 13145031a असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः 13145031c सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् 13145032a न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् 13145032c सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे 13145033a ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् 13145033c अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् 13145034a ततः प्रसादयामासुरुमां रुद्रं च ते सुराः 13145034c बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा 13145035a स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् 13145035c द्वारवत्यां मम गृहे चिरं कालमुपावसत् 13145036a विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि 13145036c तानुदारतया चाहमक्षमं तस्य दुःसहम् 13145037a स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः 13145037c स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः 13145038a स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च 13145038c मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः 13145039a स धाता स विधाता च विश्वकर्मा स सर्ववित् 13145039c नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा 13145039e विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः 13145040a एकधा च द्विधा चैव बहुधा च स एव च 13145040c शतधा सहस्रधा चैव तथा शतसहस्रधा 13145041a ईदृशः स महादेवो भूयश्च भगवानतः 13145041c न हि शक्या गुणा वक्तुमपि वर्षशतैरपि 13146001 वासुदेव उवाच 13146001a युधिष्ठिर महाबाहो महाभाग्यं महात्मनः 13146001c रुद्राय बहुरूपाय बहुनाम्ने निबोध मे 13146002a वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् 13146002c एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा 13146003a द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः 13146003c घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः 13146004a उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः 13146004c शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः 13146005a आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ 13146005c ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा 13146006a यास्य घोरतमा मूर्तिर्जगत्संहरते तया 13146006c ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः 13146007a यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् 13146007c मांसशोणितमज्जादो यत्ततो रुद्र उच्यते 13146008a देवानां सुमहान्यच्च यच्चास्य विषयो महान् 13146008c यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः 13146009a समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः 13146009c शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः 13146010a दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् 13146010c स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः 13146011a यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा 13146011c स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः 13146012a धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते 13146012c विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः 13146013a सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा 13146013c चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् 13146014a सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः 13146014c तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः 13146015a नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् 13146015c महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः 13146016a विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः 13146016c लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते 13146017a ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा 13146017c लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् 13146018a पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः 13146018c सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः 13146019a एष एव श्मशानेषु देवो वसति नित्यशः 13146019c यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् 13146020a विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह 13146020c स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् 13146021a तस्य घोराणि रूपाणि दीप्तानि च बहूनि च 13146021c लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः 13146022a नामधेयानि वेदेषु बहून्यस्य यथार्थतः 13146022c निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा 13146023a वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् 13146023c व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः 13146024a प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् 13146024c ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे 13146025a प्रथमो ह्येष देवानां मुखादग्निरजायत 13146025c ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि 13146026a स मोचयति पुण्यात्मा शरण्यः शरणागतान् 13146026c आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् 13146027a स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः 13146027c शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते 13146028a स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे 13146028c ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते 13146029a महेश्वरश्च लोकानां महतामीश्वरश्च सः 13146029c बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् 13146029e तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् 13147001 वैशंपायन उवाच 13147001a इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने 13147001c भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः 13147002a निर्णये वा महाबुद्धे सर्वधर्मभृतां वर 13147002c प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् 13147003 भीष्म उवाच 13147003a नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः 13147003c शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि 13147004a संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः 13147004c दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् 13147005a प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः 13147005c नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च 13147005e तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः 13147006a अथ चेन्मन्यसे चैकं कारणं किं भवेदिति 13147006c शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च 13147006e प्राणयात्रामनेकां च कल्पयानेन भारत 13147007a तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् 13147007c हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् 13147007e ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते 13147008a तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा 13147008c अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम् 13147009 युधिष्ठिर उवाच 13147009a प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः 13147009c शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह 13147010 भीष्म उवाच 13147010a धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 13147010c संस्था यत्नैरपि कृता कालेन परिभिद्यते 13147011a अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 13147011c ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर 13147012a अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः 13147012c धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः 13147013a अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः 13147013c परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च 13147014a कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ 13147014c धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च 13147015a न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः 13147015c आचारः कारणं चैव धर्मश्चैव त्रयं पुनः 13147016 युधिष्ठिर उवाच 13147016a पुनरेवेह मे बुद्धिः संशये परिमुह्यते 13147016c अपारे मार्गमाणस्य परं तीरमपश्यतः 13147017a वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि 13147017c पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् 13147018 भीष्म उवाच 13147018a धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 13147018c यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा 13147019a एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् 13147019c पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा 13147020a उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर 13147020c जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् 13147021a सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः 13147021c अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर 13147022a अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् 13147022c अजातशत्रो सेवस्व धर्म एष सनातनः 13147023a ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता 13147023c तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः 13147024a प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः 13147024c न स प्रमाणतामर्हो विवादजननो हि सः 13147025a ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च 13147025c एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् 13148001 युधिष्ठिर उवाच 13148001a ये च धर्ममसूयन्ति ये चैनं पर्युपासते 13148001c ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः 13148002 भीष्म उवाच 13148002a रजसा तमसा चैव समवस्तीर्णचेतसः 13148002c नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः 13148003a ये तु धर्मं महाराज सततं पर्युपासते 13148003c सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः 13148004a धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् 13148004c देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते 13148005a मनुष्या यदि वा देवाः शरीरमुपताप्य वै 13148005c धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः 13148006a प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः 13148006c धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः 13148007 युधिष्ठिर उवाच 13148007a असतां कीदृशं रूपं साधवः किं च कुर्वते 13148007c ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः 13148008 भीष्म उवाच 13148008a दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः 13148008c साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् 13148009a राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः 13148009c नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः 13148010a पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः 13148010c न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः 13148011a चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् 13148011c ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् 13148012a वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च 13148012c ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते 13148013a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 13148013c तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः 13148014a सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् 13148014c नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः 13148015a होमकाले यथा वह्निः कालमेव प्रतीक्षते 13148015c ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते 13148015e न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् 13148016a अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः 13148016c तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि 13148017a यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति 13148017c पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् 13148018a स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् 13148018c कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् 13148019a गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च 13148019c गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया 13148020a वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि 13148020c नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते 13148021a न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि 13148021c मैथुनं सततं गुप्तमाहारं च समाचरेत् 13148022a तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि 13148022c दर्शनानां परं ज्ञानं संतोषः परमं सुखम् 13148023a सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः 13148023c श्रुतमाप्नोति हि नरः सततं वृद्धसेवया 13148024a स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् 13148024c यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् 13148025a संस्कृतं पायसं नित्यं यवागूं कृसरं हविः 13148025c अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् 13148026a श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् 13148026c व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् 13148027a न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् 13148027c त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते 13148027e अवराणां समानानां शिष्याणां च समाचरेत् 13148028a पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् 13148028c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 13148029a ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः 13148029c न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः 13148029e पापेनाभिहतः पापः पापमेवाभिजायते 13148030a यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते 13148030c धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् 13148031a यथा लवणमम्भोभिराप्लुतं प्रविलीयते 13148031c प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति 13148032a तस्मात्पापं न गूहेत गूहमानं विवर्धते 13148032c कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत 13148033a आशया संचितं द्रव्यं यत्काले नोपभुज्यते 13148033c अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः 13148034a मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः 13148034c तस्मात्सर्वाणि भूतानि धर्ममेव समासते 13148035a एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् 13148035c धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते 13148036a अर्चेद्देवानदम्भेन सेवेतामायया गुरून् 13148036c निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् 13149001 युधिष्ठिर उवाच 13149001a नाभागधेयः प्राप्नोति धनं सुबलवानपि 13149001c भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति 13149002a नालाभकाले लभते प्रयत्नेऽपि कृते सति 13149002c लाभकालेऽप्रयत्नेन लभते विपुलं धनम् 13149002e कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः 13149003a यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् 13149003c नालभ्यं चोपलभ्येत नृणां भरतसत्तम 13149004a यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः 13149004c मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी 13149005a अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः 13149005c धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः 13149006a अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते 13149006c अनभिज्ञश्च साचिव्यं गमितः केन हेतुना 13149006e विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा 13149007a यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् 13149007c न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् 13149008a यथा पिपासां जयति पुरुषः प्राप्य वै जलम् 13149008c दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः 13149009a नाप्राप्तकालो म्रियते विद्धः शरशतैरपि 13149009c तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति 13149010 भीष्म उवाच 13149010a ईहमानः समारम्भान्यदि नासादयेद्धनम् 13149010c उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति 13149011a दानेन भोगी भवति मेधावी वृद्धसेवया 13149011c अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः 13149012a तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि 13149012c स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः 13149013a यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे 13149013c मशकीटपिपीलानां स्थिरो भव युधिष्ठिर 13150001 भीष्म उवाच 13150001a कार्यते यच्च क्रियते सच्चासच्च कृतं ततः 13150001c तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् 13150002a काल एवात्र कालेन निग्रहानुग्रहौ ददत् 13150002c बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते 13150003a यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी 13150003c तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् 13150004a एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् 13150004c कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् 13150005a यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् 13150005c एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः 13150006a न ह्यधर्मतया धर्मं दद्यात्कालः कथंचन 13150006c तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् 13150007a स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् 13150007c अधर्मः सततो धर्मं कालेन परिरक्षितम् 13150008a कार्यावेतौ हि कालेन धर्मो हि विजयावहः 13150008c त्रयाणामपि लोकानामालोककरणो भवेत् 13150009a तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् 13150009c उह्यमानः स धर्मेण धर्मे बहुभयच्छले 13151001 युधिष्ठिर उवाच 13151001a किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते 13151001c विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् 13151002 भीष्म उवाच 13151002a अयं दैवतवंशो वै ऋषिवंशसमन्वितः 13151002c द्विसंध्यं पठितः पुत्र कल्मषापहरः परः 13151003a देवासुरगुरुर्देवः सर्वभूतनमस्कृतः 13151003c अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः 13151004a पितामहो जगन्नाथः सावित्री ब्रह्मणः सती 13151004c वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः 13151005a उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा 13151005c विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ 13151006a शक्रः शचीपतिर्देवो यमो धूमोर्णया सह 13151006c वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः 13151007a सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः 13151007c षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः 13151008a वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा 13151008c नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः 13151009a तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः 13151009c देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः 13151010a उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा 13151010c विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा 13151011a आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च 13151011c धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः 13151012a शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा 13151012c शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः 13151013a नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः 13151013c वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा 13151014a शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती 13151014c सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च 13151015a गङ्गा महानदी चैव कपिला नर्मदा तथा 13151015c कम्पुना च विशल्या च करतोयाम्बुवाहिनी 13151016a सरयूर्गण्डकी चैव लोहित्यश्च महानदः 13151016c ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा 13151017a गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा 13151017c दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा 13151018a प्रयागं च प्रभासं च पुण्यं नैमिषमेव च 13151018c तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः 13151019a पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् 13151019c सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च 13151020a हिरण्वती वितस्ता च तथैवेक्षुमती नदी 13151020c वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि 13151021a भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च 13151021c ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा 13151022a कौशिकी यमुना सीता तथा चर्मण्वती नदी 13151022c नदी भीमरथी चैव बाहुदा च महानदी 13151022e महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती 13151023a नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् 13151023c गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् 13151024a तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् 13151024c पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् 13151025a हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः 13151025c विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः 13151026a मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः 13151026c शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा 13151027a चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः 13151027c पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः 13151027e दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः 13151028a विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा 13151028c पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया 13151029a कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः 13151029c स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् 13151029e सर्वसंकरपापेभ्यो देवतास्तवनन्दकः 13151030a देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् 13151030c कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् 13151031a यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा 13151031c भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः 13151031e बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः 13151032a भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा 13151032c मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् 13151033a मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् 13151033c दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ 13151034a पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् 13151034c उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् 13151035a ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा 13151035c एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 13151035e अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः 13151036a उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् 13151036c अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् 13151037a विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च 13151037c ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा 13151038a श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा 13151038c देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च 13151039a लोमशो नाचिकेतश्च लोमहर्षण एव च 13151039c ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा 13151040a एष वै समवायस्ते ऋषिदेवसमन्वितः 13151040c आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः 13151041a नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् 13151041c धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् 13151042a कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा 13151042c दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः 13151043a यवनो जनकश्चैव तथा दृढरथो नृपः 13151043c रघुर्नरवरश्चैव तथा दशरथो नृपः 13151044a रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः 13151044c हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता 13151045a महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः 13151045c करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः 13151046a दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः 13151046c मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः 13151047a त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः 13151047c महाभिषश्च विख्यातो निमिराजस्तथाष्टकः 13151048a आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः 13151048c शिबिरौशीनरश्चैव गयश्चैव नराधिपः 13151049a प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः 13151049c ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः 13151050a हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा 13151050c कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः 13151051a मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः 13151051c ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः 13152001 वैशंपायन उवाच 13152001a तूष्णींभूते तदा भीष्मे पटे चित्रमिवार्पितम् 13152001c मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः 13152001e नृपं शयानं गाङ्गेयमिदमाह वचस्तदा 13152002a राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः 13152002c सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः 13152003a उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता 13152003c तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि 13152004a एवमुक्तो भगवता व्यासेन पृथिवीपतिः 13152004c युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः 13152005a उवाच चैनं मधुरं ततः शांतनवो नृपः 13152005c प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः 13152006a यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः 13152006c ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः 13152007a क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय 13152007c श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः 13152008a रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय 13152008c सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः 13152009a अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा 13152009c चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः 13152010a आगन्तव्यं च भवता समये मम पार्थिव 13152010c विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे 13152011a तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् 13152011c प्रययौ सपरीवारो नगरं नागसाह्वयम् 13152012a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् 13152012c सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च 13152013a पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः 13152013c प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् 13153001 वैशंपायन उवाच 13153001a ततः कुन्तीसुतो राजा पौरजानपदं जनम् 13153001c पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति 13153002a सान्त्वयामास नारीश्च हतवीरा हतेश्वराः 13153002c विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः 13153003a सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः 13153003c अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा 13153004a द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः 13153004c प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः 13153005a उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे 13153005c समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः 13153006a स निर्ययौ गजपुराद्याजकैः परिवारितः 13153006c दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् 13153007a घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः 13153007c चन्दनागरुमुख्यानि तथा कालागरूणि च 13153008a प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै 13153008c माल्यानि च महार्हाणि रत्नानि विविधानि च 13153009a धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् 13153009c मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः 13153010a जनार्दनेनानुगतो विदुरेण च धीमता 13153010c युयुत्सुना च कौरव्यो युयुधानेन चाभिभो 13153011a महता राजभोग्येन परिबर्हेण संवृतः 13153011c स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् 13153012a निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा 13153012c आससाद कुरुक्षेत्रे ततः शांतनवं नृपम् 13153013a उपास्यमानं व्यासेन पाराशर्येण धीमता 13153013c नारदेन च राजर्षे देवलेनासितेन च 13153014a हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः 13153014c रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः 13153015a शयानं वीरशयने ददर्श नृपतिस्ततः 13153015c ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् 13153016a अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् 13153016c द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः 13153017a ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः 13153017c आसाद्य शरतल्पस्थमृषिभिः परिवारितम् 13153018a अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः 13153018c भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् 13153019a युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत 13153019c शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते 13153020a प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो 13153020c आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे 13153021a पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः 13153021c उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् 13153022a हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः 13153022c तान्पश्य कुरुशार्दूल समुन्मीलय लोचने 13153023a यच्चेह किंचित्कर्तव्यं तत्सर्वं प्रापितं मया 13153023c यथोक्तं भवता काले सर्वमेव च तत्कृतम् 13153024a एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता 13153024c ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य तम् 13153025a ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् 13153025c ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् 13153026a दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर 13153026c परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः 13153027a अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः 13153027c शरेषु निशिताग्रेषु यथा वर्षशतं तथा 13153028a माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर 13153028c त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति 13153029a एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् 13153029c धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् 13153030a राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः 13153030c बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः 13153031a वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर 13153031c वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे 13153032a न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा 13153032c श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि 13153033a यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः 13153033c तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् 13153034a धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव 13153034c आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् 13153035a तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः 13153035c ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि 13153036 वैशंपायन उवाच 13153036a एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् 13153036c वासुदेवं महाबाहुमभ्यभाषत कौरवः 13153037a भगवन्देवदेवेश सुरासुरनमस्कृत 13153037c त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर 13153038a अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम 13153038c रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् 13153039a उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा 13153039c यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः 13153040a वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 13153040c संधानस्य परः कालस्तवेति च पुनः पुनः 13153041a न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः 13153041c घातयित्वेह पृथिवीं ततः स निधनं गतः 13153042a त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् 13153042c नरेण सहितं देवं बदर्यां सुचिरोषितम् 13153043a तथा मे नारदः प्राह व्यासश्च सुमहातपाः 13153043c नरनारायणावेतौ संभूतौ मनुजेष्विति 13153044 वासुदेव उवाच 13153044a अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव 13153044c न तेऽस्ति वृजिनं किंचिन्मया दृष्टं महाद्युते 13153045a पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः 13153045c तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः 13153046 वैशंपायन उवाच 13153046a एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् 13153046c धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा 13153047a प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ 13153047c सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् 13153048a आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः 13153048c ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत 13153049a इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह 13153049c पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः 13153050a ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः 13153050c आचार्या ऋत्विजश्चैव पूजनीया नराधिप 13154001 वैशंपायन उवाच 13154001a एवमुक्त्वा कुरून्सर्वान्भीष्मः शांतनवस्तदा 13154001c तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम 13154002a धारयामास चात्मानं धारणासु यथाक्रमम् 13154002c तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः 13154003a इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् 13154003c यद्यन्मुञ्चति गात्राणां स शंतनुसुतस्तदा 13154003e तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै 13154004a क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा 13154004c तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः 13154004e सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप 13154005a संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै 13154005c जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च 13154006a महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप 13154006c निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत 13154007a एवं स नृपशार्दूल नृपः शांतनवस्तदा 13154007c समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः 13154008a ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् 13154008c चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा 13154008e युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् 13154009a युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः 13154009c छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् 13154010a धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् 13154010c चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ 13154010e उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा 13154011a स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् 13154011c तालवृन्तान्युपादाय पर्यवीजन्समन्ततः 13154012a ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः 13154012c याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः 13154013a ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि 13154013c कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा 13154014a समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् 13154014c अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः 13154015a संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः 13154015c जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः 13154016a अनुगम्यमाना व्यासेन नारदेनासितेन च 13154016c कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः 13154017a उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः 13154017c विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा 13154018a ततो भागीरथी देवी तनयस्योदके कृते 13154018c उत्थाय सलिलात्तस्माद्रुदती शोकलालसा 13154019a परिदेवयती तत्र कौरवानभ्यभाषत 13154019c निबोधत यथावृत्तमुच्यमानं मयानघाः 13154020a राजवृत्तेन संपन्नः प्रज्ञयाभिजनेन च 13154020c सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः 13154021a जामदग्न्येन रामेण पुरा यो न पराजितः 13154021c दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना 13154022a अश्मसारमयं नूनं हृदयं मम पार्थिवाः 13154022c अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै 13154023a समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे 13154023c विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह 13154024a यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन 13154024c हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः 13154025a जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना 13154025c पीडितो नातियत्नेन निहतः स शिखण्डिना 13154026a एवंविधं बहु तदा विलपन्तीं महानदीम् 13154026c आश्वासयामास तदा साम्ना दामोदरो विभुः 13154027a समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने 13154027c गतः स परमां सिद्धिं तव पुत्रो न संशयः 13154028a वसुरेष महातेजाः शापदोषेण शोभने 13154028c मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि 13154029a स एष क्षत्रधर्मेण युध्यमानो रणाजिरे 13154029c धनंजयेन निहतो नैष नुन्नः शिखण्डिना 13154030a भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे 13154030c न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः 13154031a स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने 13154031c न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः 13154032a तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् 13154032c वसूनेष गतो देवि पुत्रस्ते विज्वरा भव 13154033a इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा 13154033c त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह 13154034a सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः 13154034c अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः