% Mahabharata: Dronaparvan % Last updated: Sun May 14 2023 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 07001001 जनमेजय उवाच 07001001a तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् 07001001c हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना 07001002a धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः 07001002c किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् 07001003a तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः 07001003c पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति 07001004a तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् 07001004c यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम 07001005 वैशंपायन उवाच 07001005a निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः 07001005c लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः 07001006a तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् 07001006c आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा 07001007a शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् 07001007c आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत 07001008a श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् 07001008c पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा 07001009 धृतराष्ट्र उवाच 07001009a संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् 07001009c किमकार्षुः परं तात कुरवः कालचोदिताः 07001010a तस्मिन्विनिहते शूरे दुराधर्षे महौजसि 07001010c किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे 07001011a तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय 07001011c भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् 07001012a देवव्रते तु निहते कुरूणामृषभे तदा 07001012c यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय 07001013 संजय उवाच 07001013a शृणु राजन्नेकमना वचनं ब्रुवतो मम 07001013c यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे 07001014a निहते तु तदा भीष्मे राजन्सत्यपराक्रमे 07001014c तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् 07001015a विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते 07001015c स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने 07001016a शयनं कल्पयामासुर्भीष्मायामिततेजसे 07001016c सोपधानं नरव्याघ्र शरैः संनतपर्वभिः 07001017a विधाय रक्षां भीष्माय समाभाष्य परस्परम् 07001017c अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् 07001018a क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् 07001018c पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः 07001019a ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः 07001019c तावकानामनीकानि परेषां चापि निर्ययुः 07001020a व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते 07001020c अमर्षवशमापन्नाः कालोपहतचेतसः 07001021a अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः 07001021c निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः 07001022a मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च 07001022c कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः 07001023a अजावय इवागोपा वने श्वापदसंकुले 07001023c भृशमुद्विग्नमनसो हीना देवव्रतेन ते 07001024a पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी 07001024c द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना 07001025a विपन्नसस्येव मही वाक्चैवासंस्कृता यथा 07001025c आसुरीव यथा सेना निगृहीते पुरा बलौ 07001026a विधवेव वरारोहा शुष्कतोयेव निम्नगा 07001026c वृकैरिव वने रुद्धा पृषती हतयूथपा 07001027a स्वाधर्षा हतसिंहेव महती गिरिकन्दरा 07001027c भारती भरतश्रेष्ठ पतिते जाह्नवीसुते 07001028a विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे 07001028c बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता 07001029a सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा 07001029c विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ 07001030a तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः 07001030c पाताल इव मज्जन्तो हीना देवव्रतेन ते 07001030e कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः 07001031a सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् 07001031c बन्धुमापद्गतस्येव तमेवोपागमन्मनः 07001032a चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः 07001032c राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् 07001033a स हि नायुध्यत तदा दशाहानि महायशाः 07001033c सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् 07001034a भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः 07001034c रथेषु गण्यमानेषु बलविक्रमशालिषु 07001034e संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः 07001035a रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः 07001035c पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् 07001036a स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् 07001036c त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन 07001037a त्वया तु पाण्डवेयेषु निहतेषु महामृधे 07001037c दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव 07001038a पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि 07001038c हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् 07001039a एवमुक्त्वा महाराज दशाहानि महायशाः 07001039c नायुध्यत ततः कर्णः पुत्रस्य तव संमते 07001040a भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव 07001040c जघान समरे योधानसंख्येयपराक्रमः 07001041a तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि 07001041c त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् 07001042a तावकास्तव पुत्राश्च सहिताः सर्वराजभिः 07001042c हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् 07001043a जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् 07001043c अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव 07001044a स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् 07001044c त्रिदशानिव गोविन्दः सततं सुमहाभयात् 07001045 वैशंपायन उवाच 07001045a तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः 07001045c आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् 07001046a यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा 07001046c अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् 07001047a अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः 07001047c संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् 07001048a अपि तत्पूरयां चक्रे धनुर्धरवरो युधि 07001048c यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् 07001049a तत्खण्डं पूरयामास परेषामादधद्भयम् 07001049c कृतवान्मम पुत्राणां जयाशां सफलामपि 07002001 संजय उवाच 07002001a हतं भीष्ममाधिरथिर्विदित्वा; भिन्नां नावमिवात्यगाधे कुरूणाम् 07002001c सोदर्यवद्व्यसनात्सूतपुत्रः; संतारयिष्यंस्तव पुत्रस्य सेनाम् 07002002a श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं; निपातितं शांतनवं महारथम् 07002002c अथोपायात्तूर्णममित्रकर्शनो; धनुर्धराणां प्रवरस्तदा वृषः 07002003a हते तु भीष्मे रथसत्तमे परै;र्निमज्जतीं नावमिवार्णवे कुरून् 07002003c पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः; संतारयिष्यंस्तव पुत्रस्य सेनाम् 07002004 कर्ण उवाच 07002004a यस्मिन्धृतिर्बुद्धिपराक्रमौजो; दमः सत्यं वीरगुणाश्च सर्वे 07002004c अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः; प्रिया च वागनपायीनि भीष्मे 07002005a ब्रह्मद्विषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म 07002005c स चेत्प्रशान्तः परवीरहन्ता; मन्ये हतानेव हि सर्वयोधान् 07002006a नेह ध्रुवं किंचन जातु विद्यते; अस्मिँल्लोके कर्मणोऽनित्ययोगात् 07002006c सूर्योदये को हि विमुक्तसंशयो; भावं कुर्वीताद्य महाव्रते हते 07002007a वसुप्रभावे वसुवीर्यसंभवे; गते वसूनेव वसुंधराधिपे 07002007c वसूनि पुत्रांश्च वसुंधरां तथा; कुरूंश्च शोचध्वमिमां च वाहिनीम् 07002008 संजय उवाच 07002008a महाप्रभावे वरदे निपातिते; लोकश्रेष्ठे शांतनवे महौजसि 07002008c पराजितेषु भरतेषु दुर्मनाः; कर्णो भृशं न्यश्वसदश्रु वर्तयन् 07002009a इदं तु राधेयवचो निशम्य ते; सुताश्च राजंस्तव सैनिकाश्च ह 07002009c परस्परं चुक्रुशुरार्तिजं भृशं; तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् 07002010a प्रवर्तमाने तु पुनर्महाहवे; विगाह्यमानासु चमूषु पार्थिवैः 07002010c अथाब्रवीद्धर्षकरं वचस्तदा; रथर्षभान्सर्वमहारथर्षभः 07002011 कर्ण उवाच 07002011a जगत्यनित्ये सततं प्रधावति; प्रचिन्तयन्नस्थिरमद्य लक्षये 07002011c भवत्सु तिष्ठत्स्विह पातितो रणे; गिरिप्रकाशः कुरुपुंगवः कथम् 07002012a निपातिते शांतनवे महारथे; दिवाकरे भूतलमास्थिते यथा 07002012c न पार्थिवाः सोढुमलं धनंजयं; गिरिप्रवोढारमिवानिलं द्रुमाः 07002013a हतप्रधानं त्विदमार्तरूपं; परैर्हतोत्साहमनाथमद्य वै 07002013c मया कुरूणां परिपाल्यमाहवे; बलं यथा तेन महात्मना तथा 07002014a समाहितं चात्मनि भारमीदृशं; जगत्तथानित्यमिदं च लक्षये 07002014c निपातितं चाहवशौण्डमाहवे; कथं नु कुर्यामहमाहवे भयम् 07002015a अहं तु तान्कुरुवृषभानजिह्मगैः; प्रवेरयन्यमसदनं रणे चरन् 07002015c यशः परं जगति विभाव्य वर्तिता; परैर्हतो युधि शयिताथ वा पुनः 07002016a युधिष्ठिरो धृतिमतिधर्मतत्त्ववा;न्वृकोदरो गजशततुल्यविक्रमः 07002016c तथार्जुनस्त्रिदशवरात्मजो यतो; न तद्बलं सुजयमथामरैरपि 07002017a यमौ रणे यत्र यमोपमौ बले; ससात्यकिर्यत्र च देवकीसुतः 07002017c न तद्बलं कापुरुषोऽभ्युपेयिवा;न्निवर्तते मृत्युमुखादिवासकृत् 07002018a तपोऽभ्युदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः 07002018c मनश्च मे शत्रुनिवारणे ध्रुवं; स्वरक्षणे चाचलवद्व्यवस्थितम् 07002019a एवं चैषां बुध्यमानः प्रभावं; गत्वैवाहं ताञ्जयाम्यद्य सूत 07002019c मित्रद्रोहो मर्षणीयो न मेऽयं; भग्ने सैन्ये यः सहायः स मित्रम् 07002020a कर्तास्म्येतत्सत्पुरुषार्यकर्म; त्यक्त्वा प्राणाननुयास्यामि भीष्मम् 07002020c सर्वान्संख्ये शत्रुसंघान्हनिष्ये; हतस्तैर्वा वीरलोकं गमिष्ये 07002021a संप्राक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे 07002021c मया कृत्यमिति जानामि सूत; तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये 07002022a कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसं;स्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् 07002022c सर्वान्संख्ये शत्रुसंघान्निहत्य; दास्याम्यहं धार्तराष्ट्राय राज्यम् 07002023a निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि 07002023c शिरस्त्राणं चार्कसमानभासं; धनुः शरांश्चापि विषाहिकल्पान् 07002024a उपासङ्गान्षोडश योजयन्तु; धनूंषि दिव्यानि तथाहरन्तु 07002024c असींश्च शक्तीश्च गदाश्च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम् 07002025a एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे ध्वजमिन्दीवराभम् 07002025c श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा सजालाम् 07002026a अश्वानग्र्यान्पाण्डुराभ्रप्रकाशा;न्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः 07002026c तप्तैर्भाण्डैः काञ्चनैरभ्युपेता;ञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व 07002027a रथं चाग्र्यं हेमजालावनद्धं; रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः 07002027c द्रव्यैर्युक्तं संप्रहारोपपन्नै;र्वाहैर्युक्तं तूर्णमावर्तयस्व 07002028a चित्राणि चापानि च वेगवन्ति; ज्याश्चोत्तमाः संहननोपपन्नाः 07002028c तूणांश्च पूर्णान्महतः शराणा;मासज्य गात्रावरणानि चैव 07002029a प्रायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीरकांस्यं च हैमम् 07002029c आनीय मालामवबध्य चाङ्गे; प्रवादयन्त्वाशु जयाय भेरीः 07002030a प्रयाहि सूताशु यतः किरीटी; वृकोदरो धर्मसुतो यमौ च 07002030c तान्वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतो द्विषद्भिः 07002031a यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः; समास्थितो भीमसेनार्जुनौ च 07002031c वासुदेवः सात्यकिः सृञ्जयाश्च; मन्ये बलं तदजय्यं महीपैः 07002032a तं चेन्मृत्युः सर्वहरोऽभिरक्षे;त्सदाप्रमत्तः समरे किरीटिनम् 07002032c तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्मपथा यमाय 07002033a न त्वेवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत्तथाहं ब्रवीमि 07002033c मित्रद्रुहो दुर्बलभक्तयो ये; पापात्मानो न ममैते सहायाः 07002034 संजय उवाच 07002034a स सिद्धिमन्तं रथमुत्तमं दृढं; सकूबरं हेमपरिष्कृतं शुभम् 07002034c पताकिनं वातजवैर्हयोत्तमै;र्युक्तं समास्थाय ययौ जयाय 07002035a संपूज्यमानः कुरुभिर्महात्मा; रथर्षभः पाण्डुरवाजियाता 07002035c ययौ तदायोधनमुग्रधन्वा; यत्रावसानं भरतर्षभस्य 07002036a वरूथिना महता सध्वजेन; सुवर्णमुक्तामणिवज्रशालिना 07002036c सदश्वयुक्तेन रथेन कर्णो; मेघस्वनेनार्क इवामितौजाः 07002037a हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै स्वरथे धनुर्धरः 07002037c स्थितो रराजाधिरथिर्महारथः; स्वयं विमाने सुरराडिव स्थितः 07003001 संजय उवाच 07003001a शरतल्पे महात्मानं शयानममितौजसम् 07003001c महावातसमूहेन समुद्रमिव शोषितम् 07003002a दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना 07003002c जयाशां तव पुत्राणां संभग्नां शर्म वर्म च 07003003a अपाराणामिव द्वीपमगाधे गाधमिच्छताम् 07003003c स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् 07003004a महान्तमिव मैनाकमसह्यं भुवि पातितम् 07003004c नभश्च्युतमिवादित्यं पतितं धरणीतले 07003005a शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् 07003005c मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् 07003006a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07003006c धनंजयशरव्याप्तं पितरं ते महाव्रतम् 07003007a तं वीरशयने वीरं शयानं पुरुषर्षभम् 07003007c भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् 07003008a अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् 07003008c अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत 07003009a कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत 07003009c पुण्यया क्षेमया वाचा चक्षुषा चावलोकय 07003010a न नूनं सुकृतस्येह फलं कश्चित्समश्नुते 07003010c यत्र धर्मपरो वृद्धः शेते भुवि भवानिह 07003011a कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च 07003011c नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम 07003012a बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् 07003012c योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि 07003013a अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् 07003013c पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् 07003014a अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः 07003014c कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः 07003015a अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः 07003015c त्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान् 07003016a समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् 07003016c धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः 07003017a येन येन प्रसरतो वाय्वग्नी सहितौ वने 07003017c तेन तेन प्रदहतो भगवन्तौ यदिच्छतः 07003018a यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः 07003018c यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः 07003019a नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च 07003019c श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत 07003020a कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः 07003020c शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः 07003021a को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति 07003021c यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07003022a अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः 07003022c तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः 07003023a तमद्याहं पाण्डवं युद्धशौण्ड;ममृष्यमाणो भवतानुशिष्टः 07003023c आशीविषं दृष्टिहरं सुघोर;मियां पुरस्कृत्य वधं जयं वा 07004001 संजय उवाच 07004001a तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः 07004001c देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः 07004002a समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः 07004002c सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा 07004003a पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव 07004003c बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः 07004004a स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा 07004004c कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया 07004005a गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः 07004005c अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया 07004006a हिमवद्दुर्गनिलयाः किराता रणकर्कशाः 07004006c दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा 07004007a तत्र तत्र च संग्रामे दुर्योधनहितैषिणा 07004007c बहवश्च जिता वीरास्त्वया कर्ण महौजसा 07004008a यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः 07004008c तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव 07004009a शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः 07004009c अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम् 07004010a भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा 07004010c तवापि धर्मतः सर्वे यथा तस्य वयं तथा 07004011a यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम् 07004011c सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः 07004012a स सत्यसंगरो भूत्वा ममेदमिति निश्चितम् 07004012c कुरूणां पालय बलं यथा दुर्योधनस्तथा 07004013a इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च 07004013c ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति 07004014a सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् 07004014c व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् 07004015a कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् 07004015c क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि 07004015e धनुःशब्दैश्च विविधैः कुरवः समपूजयन् 07005001 संजय उवाच 07005001a रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् 07005001c हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् 07005002a सनाथमिदमत्यर्थं भवता पालितं बलम् 07005002c मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम् 07005003 कर्ण उवाच 07005003a ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप 07005003c यथा चार्थपतिः कृत्यं पश्यते न तथेतरः 07005004a ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर 07005004c नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम 07005005 दुर्योधन उवाच 07005005a भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च 07005005c श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा 07005006a तेनातियशसा कर्ण घ्नता शत्रुगणान्मम 07005006c सुयुद्धेन दशाहानि पालिताः स्मो महात्मना 07005007a तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् 07005007c कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् 07005008a न ऋते नायकं सेना मुहूर्तमपि तिष्ठति 07005008c आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले 07005009a यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा 07005009c द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् 07005010a स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु 07005010c पश्य सेनापतिं युक्तमनु शांतनवादिह 07005011a यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे 07005011c तं वयं सहिताः सर्वे प्रकरिष्याम मारिष 07005012 कर्ण उवाच 07005012a सर्व एव महात्मान इमे पुरुषसत्तमाः 07005012c सेनापतित्वमर्हन्ति नात्र कार्या विचारणा 07005013a कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः 07005013c युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः 07005014a युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः 07005014c एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः 07005015a अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि 07005015c शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत 07005016a अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः 07005016c युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः 07005017a को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे 07005017c सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् 07005018a न च स ह्यस्ति ते योधः सर्वराजसु भारत 07005018c यो द्रोणं समरे यान्तं नानुयास्यति संयुगे 07005019a एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि 07005019c एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते 07005020a एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु 07005020c जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः 07005021 संजय उवाच 07005021a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा 07005021c सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् 07005022a वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया 07005022c वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् 07005023a तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि 07005023c युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते 07005024a स भवान्पातु नः सर्वान्विबुधानिव वासवः 07005024c भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम 07005025a रुद्राणामिव कापाली वसूनामिव पावकः 07005025c कुबेर इव यक्षाणां मरुतामिव वासवः 07005026a वसिष्ठ इव विप्राणां तेजसामिव भास्करः 07005026c पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् 07005027a नक्षत्राणामिव शशी दितिजानामिवोशनाः 07005027c श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव 07005028a अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ 07005028c ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव 07005029a प्रयातु नो भवानग्रे देवानामिव पावकिः 07005029c अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् 07005030a उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः 07005030c अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते 07005031a ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् 07005031c जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि 07005032a एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः 07005032c सिंहनादेन महता हर्षयन्तस्तवात्मजम् 07005033a सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् 07005033c दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः 07005034 द्रोण उवाच 07005034a वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् 07005034c त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च 07005035a ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः 07005035c चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् 07005036 संजय उवाच 07005036a स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः 07005036c द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा 07005037a अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः 07005037c सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः 07005038a ततो वादित्रघोषेण सह पुंसां महास्वनैः 07005038c प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा 07005039a ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च 07005039c संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् 07005040a जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा 07005040c सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान् 07006001 संजय उवाच 07006001a सेनापत्यं तु संप्राप्य भारद्वाजो महारथः 07006001c युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह 07006002a सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः 07006002c दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः 07006003a प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः 07006003c ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः 07006004a कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः 07006004c दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् 07006005a तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः 07006005c ययुरश्वैर्महावेगैः शकाश्च यवनैः सह 07006006a मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः 07006006c शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह 07006007a सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः 07006007c तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः 07006008a हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् 07006008c ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् 07006009a तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् 07006009c हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः 07006010a न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत 07006010c विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह 07006011a हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः 07006011c न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः 07006012a कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् 07006012c किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् 07006013a भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना 07006013c तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् 07006014a एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते 07006014c राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः 07006015a अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् 07006015c परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् 07006015e प्रीयमाणेन विहितो धर्मराजेन भारत 07006016a व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ 07006016c वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ 07006017a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 07006017c आदित्यपथगः केतुः पार्थस्यामिततेजसः 07006018a दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः 07006018c यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् 07006019a अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 07006019c वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् 07006020a चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः 07006020c परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् 07006021a एवमेतौ महात्मानौ बलसेनाग्रगावुभौ 07006021c तावकानां मुखं कर्णः परेषां च धनंजयः 07006022a ततो जाताभिसंरम्भौ परस्परवधैषिणौ 07006022c अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ 07006023a ततः प्रयाते सहसा भारद्वाजे महारथे 07006023c अन्तर्नादेन घोरेण वसुधा समकम्पत 07006024a ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् 07006024c वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् 07006025a अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत 07006025c गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः 07006025e उपर्युपरि सेनां ते तदा पर्यपतन्नृप 07006026a गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् 07006026c अकार्षुरपसव्यं च बहुशः पृतनां तव 07006026e चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् 07006027a अपतद्दीप्यमाना च सनिर्घाता सकम्पना 07006027c उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः 07006028a परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् 07006028c भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ 07006029a एते चान्ये च बहवः प्रादुरासन्सुदारुणाः 07006029c उत्पाता युधि वीराणां जीवितक्षयकारकाः 07006030a ततः प्रववृते युद्धं परस्परवधैषिणाम् 07006030c कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् 07006031a ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह 07006031c प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः 07006032a स पाण्डवानां महतीं महेष्वासो महाद्युतिः 07006032c वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः 07006033a द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः 07006033c प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् 07006034a संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः 07006034c व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः 07006035a बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे 07006035c अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् 07006036a ते वध्यमाना द्रोणेन वासवेनेव दानवाः 07006036c पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः 07006037a ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः 07006037c अभिनच्छरवर्षेण द्रोणानीकमनेकधा 07006038a द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः 07006038c संनिवार्य ततः सेनां कुरूनप्यवधीद्बली 07006039a संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे 07006039c स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् 07006040a स बाणवर्षं सुमहदसृजत्पार्षतं प्रति 07006040c मघवान्समभिक्रुद्धः सहसा दानवेष्विव 07006041a ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः 07006041c पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः 07006042a अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली 07006042c अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् 07006043a खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् 07006043c स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः संजहारारिसेनाम् 07007001 संजय उवाच 07007001a तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् 07007001c व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् 07007002a ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ 07007002c अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् 07007003a तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः 07007003c पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः 07007004a केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः 07007004c युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा 07007005a द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः 07007005c चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः 07007006a ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः 07007006c कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः 07007007a संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे 07007007c व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत 07007008a स तीव्रं कोपमास्थाय रथे समरदुर्मदः 07007008c व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः 07007009a रथानश्वान्नरान्नागानभिधावंस्ततस्ततः 07007009c चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा 07007010a तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः 07007010c आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः 07007011a तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् 07007011c दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः 07007012a तेषां प्रद्रवतां भीमः पुनरावर्ततामपि 07007012c वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः 07007013a शूराणां हर्षजननो भीरूणां भयवर्धनः 07007013c द्यावापृथिव्योर्विवरं पूरयामास सर्वतः 07007014a ततः पुनरपि द्रोणो नाम विश्रावयन्युधि 07007014c अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् 07007015a स तथा तान्यनीकानि पाण्डवेयस्य धीमतः 07007015c कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली 07007016a उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् 07007016c कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः 07007017a तस्य हर्षप्रणादेन बाणवेगेन चाभिभो 07007017c प्राकम्पन्त रणे योधा गावः शीतार्दिता इव 07007018a द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च 07007018c धनुःशब्देन चाकाशे शब्दः समभवन्महान् 07007019a अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः 07007019c व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु 07007020a तं कार्मुकमहावेगमस्त्रज्वलितपावकम् 07007020c द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह 07007021a तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् 07007021c द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् 07007022a तन्वता परमास्त्राणि शरान्सततमस्यता 07007022c द्रोणेन विहितं दिक्षु बाणजालमदृश्यत 07007023a पदातिषु रथाश्वेषु वारणेषु च सर्वशः 07007023c तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत 07007024a स केकयानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य 07007024c युधिष्ठिरानीकमदीनयोधी; द्रोणोऽभ्ययात्कार्मुकबाणपाणिः 07007025a तं भीमसेनश्च धनंजयश्च; शिनेश्च नप्ता द्रुपदात्मजश्च 07007025c शैब्यात्मजः काशिपतिः शिबिश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः 07007026a तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः 07007026c भित्त्वा शरीराणि गजाश्वयूनां; जग्मुर्महीं शोणितदिग्धवाजाः 07007027a सा योधसंघैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च 07007027c प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः 07007028a शैनेयभीमार्जुनवाहिनीपा;ञ्शैब्याभिमन्यू सह काशिराज्ञा 07007028c अन्यांश्च वीरान्समरे प्रमृद्ना;द्द्रोणः सुतानां तव भूतिकामः 07007029a एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा 07007029c प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् 07007030a एवं रुक्मरथः शूरो हत्वा शतसहस्रशः 07007030c पाण्डवानां रणे योधान्पार्षतेन निपातितः 07007031a अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् 07007031c निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् 07007032a पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः 07007032c हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् 07007033a ततो निनादो भूतानामाकाशे समजायत 07007033c सैन्यानां च ततो राजन्नाचार्ये निहते युधि 07007034a द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् 07007034c अहो धिगिति भूतानां शब्दः समभवन्महान् 07007035a देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः 07007035c ददृशुर्निहतं तत्र भारद्वाजं महारथम् 07007036a पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे 07007036c तेन नादेन महता समकम्पत मेदिनी 07008001 धृतराष्ट्र उवाच 07008001a किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः 07008001c तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि 07008002a रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः 07008002c प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् 07008003a कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् 07008003c किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः 07008004a क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् 07008004c दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् 07008005a पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् 07008005c कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् 07008006a व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः 07008006c यद्द्रोणो निहतः शूरः पार्षतेन महात्मना 07008007a अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् 07008007c तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् 07008008a श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् 07008008c जातरूपपरिष्कारं नाद्य शोकमपानुदे 07008009a न नूनं परदुःखेन कश्चिन्म्रियति संजय 07008009c यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये 07008010a अश्मसारमयं नूनं हृदयं सुदृढं मम 07008010c यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते 07008011a ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः 07008011c ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः 07008012a शोषणं सागरस्येव मेरोरिव विसर्पणम् 07008012c पतनं भास्करस्येव न मृष्ये द्रोणपातनम् 07008013a दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता 07008013c योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः 07008014a मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे 07008014c बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् 07008015a ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः 07008015c रथे वातजवा युक्ताः सर्वशब्दातिगा रणे 07008016a बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः 07008016c दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः 07008017a करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् 07008017c ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः 07008018a आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः 07008018c हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः 07008019a ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः 07008019c कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् 07008020a जातरूपपरिष्कारमास्थाय रथमुत्तमम् 07008020c भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि 07008021a विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः 07008021c स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि 07008022a दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् 07008022c के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः 07008023a ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः 07008023c दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् 07008024a उताहो सर्वसैन्येन धर्मराजः सहानुजः 07008024c पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् 07008025a नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः 07008025c ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् 07008026a न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः 07008026c धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना 07008027a तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः 07008027c केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः 07008028a व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा 07008028c कर्मण्यसुकरे सक्तं जघानेति मतिर्मम 07008029a योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् 07008029c ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः 07008029e स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् 07008030a अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया 07008030c अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् 07008031a यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः 07008031c स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् 07008032a दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः 07008032c स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः 07008033a क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः 07008033c न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति 07008034a यं द्वौ न जहतः शब्दौ जीवमानं कदाचन 07008034c ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् 07008035a नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् 07008035c कथं संजय दुर्धर्षमनाधृष्ययशोबलम् 07008036a केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः 07008036c पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे 07008037a के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 07008037c द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् 07008038a एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय 07008038c पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् 07008039a मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् 07008039c भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय 07009001 वैशंपायन उवाच 07009001a एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् 07009001c जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ 07009002a तं विसंज्ञं निपतितं सिषिचुः परिचारकाः 07009002c जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना 07009003a पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः 07009003c परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः 07009004a उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् 07009004c आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः 07009005a आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः 07009005c निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः 07009006a स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः 07009006c पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् 07009007a यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः 07009007c आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् 07009008a प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् 07009008c आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् 07009008e वाशितासंगमे यद्वदजय्यं प्रतियूथपैः 07009009a अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः 07009009c यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा 07009009e कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः 07009010a चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् 07009010c दान्तं बहुमतं लोके के शूराः पर्यवारयन् 07009011a के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् 07009011c समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः 07009012a तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् 07009012c तं भीमसेनमायान्तं के शूराः पर्यवारयन् 07009013a यदायाज्जलदप्रख्यो रथः परमवीर्यवान् 07009013c पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् 07009014a ववर्ष शरवर्षाणि वर्षाणि मघवानिव 07009014c इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः 07009014e अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च 07009015a चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः 07009015c रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः 07009016a रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः 07009016c मर्मातिगो बाणधारस्तुमुलः शोणितोदकः 07009017a संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा 07009017c गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः 07009018a युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः 07009018c गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा 07009019a कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् 07009019c यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् 07009020a कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनंजयः 07009020c वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः 07009020e को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति 07009021a यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् 07009021c के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् 07009022a के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 07009022c अमानुषाणां जेतारं युद्धेष्वपि धनंजयम् 07009023a न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः 07009023c गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् 07009024a विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः 07009024c अशक्यः स रथो जेतुं मन्ये देवासुरैरपि 07009025a सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः 07009025c मेधावी निपुणो धीमान्युधि सत्यपराक्रमः 07009026a आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् 07009026c यदायान्नकुलो धीमान्के शूराः पर्यवारयन् 07009027a आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् 07009027c शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि 07009028a आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् 07009028c द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् 07009029a यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् 07009029c आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् 07009030a सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् 07009030c सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे 07009031a बलिनं सत्यकर्माणमदीनमपराजितम् 07009031c वासुदेवसमं युद्धे वासुदेवादनन्तरम् 07009032a युक्तं धनंजयप्रेष्ये शूरमाचार्यकर्मणि 07009032c पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् 07009033a वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् 07009033c रामेण सममस्त्रेषु यशसा विक्रमेण च 07009034a सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् 07009034c सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे 07009035a तमेवंगुणसंपन्नं दुर्वारमपि दैवतैः 07009035c समासाद्य महेष्वासं के वीराः पर्यवारयन् 07009036a पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् 07009036c नित्यमुत्तमकर्माणमुत्तमौजसमाहवे 07009037a युक्तं धनंजयहिते ममानर्थाय चोत्तमम् 07009037c यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् 07009038a महारथसमाख्यातं द्रोणायोद्यन्तमाहवे 07009038c त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् 07009039a एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः 07009039c धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् 07009040a योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् 07009040c अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् 07009041a स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् 07009041c शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि 07009042a देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः 07009042c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009043a यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात् 07009043c यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा 07009044a वासुदेवसमं वीर्ये धनंजयसमं बले 07009044c तेजसादित्यसदृशं बृहस्पतिसमं मतौ 07009045a अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् 07009045c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009046a तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा 07009046c यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् 07009047a द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः 07009047c यद्द्रोणमाद्रवन्संख्ये के वीरास्तानवारयन् 07009048a ये ते द्वादशवर्षाणि क्रीडामुत्सृज्य बालकाः 07009048c अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् 07009049a क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः 07009049c धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् 07009050a शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः 07009050c चेकितानं महेष्वासं कस्तं द्रोणादवारयत् 07009051a वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि 07009051c अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् 07009052a भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः 07009052c इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः 07009053a मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः 07009053c तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् 07009054a यं योधयन्तो राजानो नाजयन्वारणावते 07009054c षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् 07009055a धनुष्मतां वरं शूरं सत्यसंधं महाबलम् 07009055c द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् 07009056a यः पुत्रं काशिराजस्य वाराणस्यां महारथम् 07009056c समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् 07009057a धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् 07009057c युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च 07009058a निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः 07009058c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 07009059a उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् 07009059c शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् 07009060a य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् 07009060c महता रथवंशेन मुख्यारिघ्नो महारथः 07009061a दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् 07009061c निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः 07009062a पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् 07009062c तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे 07009063a न पूर्वे नापरे चक्रुरिदं केचन मानवाः 07009063c इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे 07009064a पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु 07009064c जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति 07009065a अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत 07009065c गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः 07009066a तस्य नप्तारमायान्तं शैब्यं कः समवारयत् 07009066c द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् 07009067a विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः 07009067c प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् 07009068a सद्यो वृकोदराज्जातो महाबलपराक्रमः 07009068c मायावी राक्षसो घोरो यस्मान्मम महद्भयम् 07009069a पार्थानां जयकामं तं पुत्राणां मम कण्टकम् 07009069c घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् 07009070a एते चान्ये च बहवो येषामर्थाय संजय 07009070c त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि 07009071a येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः 07009071c हितार्थी चापि पार्थानां कथं तेषां पराजयः 07009072a लोकानां गुरुरत्यन्तं लोकनाथः सनातनः 07009072c नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः 07009073a यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 07009073c तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः 07010001 धृतराष्ट्र उवाच 07010001a शृणु दिव्यानि कर्माणि वासुदेवस्य संजय 07010001c कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् 07010002a संवर्धता गोपकुले बालेनैव महात्मना 07010002c विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय 07010003a उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे 07010003c जघान हयराजं यो यमुनावनवासिनम् 07010004a दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् 07010004c वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह 07010005a प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् 07010005c मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः 07010006a तथा कंसो महातेजा जरासंधेन पालितः 07010006c विक्रमेणैव कृष्णेन सगणः शातितो रणे 07010007a सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः 07010007c भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् 07010008a बलदेवद्वितीयेन कृष्णेनामित्रघातिना 07010008c तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् 07010009a दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः 07010009c आराधितः सदारेण स चास्मै प्रददौ वरान् 07010010a तथा गान्धारराजस्य सुतां वीरः स्वयंवरे 07010010c निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः 07010011a अमृष्यमाणा राजानो यस्य जात्या हया इव 07010011c रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः 07010012a जरासंधं महाबाहुमुपायेन जनार्दनः 07010012c परेण घातयामास पृथगक्षौहिणीपतिम् 07010013a चेदिराजं च विक्रान्तं राजसेनापतिं बली 07010013c अर्घे विवदमानं च जघान पशुवत्तदा 07010014a सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् 07010014c समुद्रकुक्षौ विक्रम्य पातयामास माधवः 07010015a अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् 07010015c वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे 07010016a आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् 07010016c काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् 07010017a काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय 07010017c त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् 07010018a नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति 07010018c जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् 07010019a प्रविश्य मकरावासं यादोभिरभिसंवृतम् 07010019c जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा 07010020a युधि पञ्चजनं हत्वा पातालतलवासिनम् 07010020c पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् 07010021a खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् 07010021c आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः 07010022a वैनतेयं समारुह्य त्रासयित्वामरावतीम् 07010022c महेन्द्रभवनाद्वीरः पारिजातमुपानयत् 07010023a तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् 07010023c राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम 07010024a यच्च तन्महदाश्चर्यं सभायां मम संजय 07010024c कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति 07010025a यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् 07010025c तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् 07010026a नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः 07010026c कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय 07010027a तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः 07010027c आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः 07010028a उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् 07010028c पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः 07010029a एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः 07010029c कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः 07010030a आहूता वृष्णिवीरेण केशवेन महात्मना 07010030c ततः संशयितं सर्वं भवेदिति मतिर्मम 07010031a नागायुतबलो वीरः कैलासशिखरोपमः 07010031c वनमाली हली रामस्तत्र यत्र जनार्दनः 07010032a यमाहुः सर्वपितरं वासुदेवं द्विजातयः 07010032c अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय 07010033a स यदा तात संनह्येत्पाण्डवार्थाय केशवः 07010033c न तदा प्रत्यनीकेषु भविता तस्य कश्चन 07010034a यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् 07010034c वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् 07010035a ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे 07010035c कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् 07010036a यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः 07010036c रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः 07010037a न केनचिदुपायेन कुरूणां दृश्यते जयः 07010037c तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत 07010038a अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः 07010038c अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती 07010039a प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः 07010039c मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् 07010040a मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः 07010040c न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् 07010041a पूर्वदेवौ महात्मानौ नरनारायणावुभौ 07010041c एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि 07010042a मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ 07010042c नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः 07010043a युगस्येव विपर्यासो लोकानामिव मोहनम् 07010043c भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः 07010044a न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च 07010044c न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते 07010045a लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ 07010045c भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय 07010046a यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे 07010046c अद्य तामनुजानीमो भीष्मद्रोणवधेन च 07010047a तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः 07010047c पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि 07010048a अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः 07010048c यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ 07010049a प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति 07010049c क्रूरः सर्वविनाशाय कालः समतिवर्तते 07010050a अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः 07010050c अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम 07010051a तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे 07010051c अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे 07011001 संजय उवाच 07011001a हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् 07011001c यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः 07011002a सेनापतित्वं संप्राप्य भारद्वाजो महारथः 07011002c मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् 07011003a यत्कौरवाणामृषभादापगेयादनन्तरम् 07011003c सेनापत्येन मां राजन्नद्य सत्कृतवानसि 07011004a सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव 07011004c करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि 07011005a ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः 07011005c तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् 07011006a ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् 07011006c गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय 07011007a ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः 07011007c सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् 07011008a धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि 07011008c न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि 07011009a किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि 07011009c नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् 07011010a आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते 07011010c यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि 07011011a अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् 07011011c राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि 07011012a धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः 07011012c अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् 07011013a द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत 07011013c सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते 07011014a नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि 07011014c तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् 07011015a वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम 07011015c हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् 07011016a न च शक्यो रणे सर्वैर्निहन्तुममरैरपि 07011016c य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् 07011017a सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते 07011017c पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः 07011018a सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 07011018c अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् 07011019a तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् 07011019c तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् 07011020 द्रोण उवाच 07011020a न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि 07011020c मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः 07011021a न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि 07011021c प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् 07011022a असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि 07011022c तरुणः कीर्तियुक्तश्च एकायनगतश्च सः 07011023a अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् 07011023c अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् 07011024a स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते 07011024c अपनीते ततः पार्थे धर्मराजो जितस्त्वया 07011025a ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ 07011025c एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति 07011026a अहं गृहीत्वा राजानं सत्यधर्मपरायणम् 07011026c आनयिष्यामि ते राजन्वशमद्य न संशयः 07011027a यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः 07011027c अपनीते नरव्याघ्रे कुन्तीपुत्रे धनंजये 07011028a फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः 07011028c ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः 07011029 संजय उवाच 07011029a सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे 07011029c गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः 07011030a पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः 07011030c ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः 07011031a ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् 07011031c सैन्यस्थानेषु सर्वेषु व्याघोषितमरिंदम 07012001 संजय उवाच 07012001a ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् 07012001c सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह 07012002a तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत 07012002c आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् 07012003a ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः 07012003c अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः 07012004a श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् 07012004c यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् 07012005a सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन 07012005c तच्चान्तरममोघेषौ त्वयि तेन समाहितम् 07012006a स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् 07012006c यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् 07012007 अर्जुन उवाच 07012007a यथा मे न वधः कार्य आचार्यस्य कथंचन 07012007c तथा तव परित्यागो न मे राजंश्चिकीर्षितः 07012008a अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि 07012008c प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन 07012009a त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति 07012009c न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन 07012010a प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 07012010c न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् 07012011a यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् 07012011c देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे 07012012a मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि 07012012c द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि 07012013a न स्मराम्यनृतां वाचं न स्मरामि पराजयम् 07012013c न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् 07012014 संजय उवाच 07012014a ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 07012014c प्रावाद्यन्त महाराज पाण्डवानां निवेशने 07012015a सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् 07012015c धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः 07012016a तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः 07012016c त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे 07012017a ततो व्यूढान्यनीकानि तव तेषां च भारत 07012017c शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे 07012018a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07012018c पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि 07012019a यतमानाः प्रयत्नेन द्रोणानीकविशातने 07012019c न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् 07012020a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 07012020c न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना 07012021a आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् 07012021c संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते 07012022a ततो रुक्मरथो राजन्नर्केणेव विराजता 07012022c वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे 07012023a तमुद्यतं रथेनैकमाशुकारिणमाहवे 07012023c अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः 07012024a तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् 07012024c त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् 07012025a मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः 07012025c यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत 07012026a न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष 07012026c वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः 07012027a मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् 07012027c धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः 07012028a स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः 07012028c पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् 07013001 संजय उवाच 07013001a ततः स पाण्डवानीके जनयंस्तुमुलं महत् 07013001c व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः 07013002a निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् 07013002c दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः 07013003a प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः 07013003c ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः 07013004a रथिनः सादिनश्चैव नागानश्वान्पदातिनः 07013004c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07013005a नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये 07013005c अश्मवर्षमिवावर्षत्परेषामावहद्भयम् 07013006a व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः 07013006c वर्धयामास संत्रासं शात्रवाणाममानुषम् 07013007a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 07013007c भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः 07013008a स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः 07013008c युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् 07013009a अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् 07013009c बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् 07013010a शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् 07013010c कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् 07013011a मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् 07013011c संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् 07013012a नरनागाश्वसंभूतां शरवेगौघवाहिनीम् 07013012c शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् 07013013a उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् 07013013c रथनागह्रदोपेतां नानाभरणनीरजाम् 07013014a महारथशतावर्तां भूमिरेणूर्मिमालिनीम् 07013014c महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् 07013015a शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् 07013015c छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् 07013016a चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् 07013016c बडगृध्रसृगालानां घोरसंघैर्निषेविताम् 07013017a निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः 07013017c वहन्तीं पितृलोकाय शतशो राजसत्तम 07013018a शरीरशतसंबाधां केशशैवलशाद्वलाम् 07013018c नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् 07013019a तं जयन्तमनीकानि तानि तान्येव भारत 07013019c सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः 07013020a तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः 07013020c सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् 07013021a शतमायस्तु शकुनिः सहदेवं समाद्रवत् 07013021c सनियन्तृध्वजरथं विव्याध निशितैः शरैः 07013022a तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि 07013022c नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् 07013023a सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् 07013023c स तस्य गदया राजन्रथात्सूतमपातयत् 07013024a ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ 07013024c चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ 07013025a द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः 07013025c बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः 07013026a विविंशतिं भीमसेनो विंशत्या निशितैः शरैः 07013026c विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् 07013027a विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् 07013027c भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् 07013028a स तन्न ममृषे वीरः शत्रोर्विजयमाहवे 07013028c ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् 07013029a शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः 07013029c विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव 07013030a तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः 07013030c निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान् 07013031a धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् 07013031c कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः 07013032a तं कृपः शरवर्षेण महता समवाकिरत् 07013032c निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् 07013033a सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे 07013033c विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव 07013034a सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः 07013034c नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् 07013035a सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् 07013035c स चापि तं तोमरेण जत्रुदेशे अताडयत् 07013036a वैकर्तनं तु समरे विराटः प्रत्यवारयत् 07013036c सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् 07013037a तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् 07013037c यत्सैन्यं वारयामास शरैः संनतपर्वभिः 07013038a द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः 07013038c तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 07013038e भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ 07013039a भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् 07013039c महता सायकौघेन छादयामास वीर्यवान् 07013040a शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते 07013040c नवत्या सायकानां तु कम्पयामास भारत 07013041a राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ 07013041c चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ 07013042a मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् 07013042c अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ 07013043a चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् 07013043c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 07013044a लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् 07013044c यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे 07013045a ततः प्रजविताश्वेन विधिवत्कल्पितेन च 07013045c रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् 07013046a ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः 07013046c तेन चक्रे महद्युद्धमभिमन्युररिंदमः 07013047a पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् 07013047c तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् 07013048a सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः 07013048c पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः 07013049a ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः 07013049c समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् 07013050a द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः 07013050c तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा 07013050e उद्बबर्ह सितं खड्गमाददानः शरावरम् 07013051a स तेनानेकतारेण चर्मणा कृतहस्तवत् 07013051c भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः 07013052a भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् 07013052c चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत 07013053a स पौरवरथस्येषामाप्लुत्य सहसा नदन् 07013053c पौरवं रथमास्थाय केशपक्षे परामृशत् 07013054a जघानास्य पदा सूतमसिनापातयद्ध्वजम् 07013054c विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् 07013055a तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः 07013055c उक्षाणमिव सिंहेन पात्यमानमचेतनम् 07013056a तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् 07013056c पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः 07013057a स बर्हिणमहावाजं किङ्किणीशतजालवत् 07013057c चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् 07013058a ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् 07013058c उत्पपात रथात्तूर्णं श्येनवन्निपपात च 07013059a प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः संप्रवेरितान् 07013059c चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च 07013060a स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः 07013060c तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली 07013061a वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् 07013061c ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् 07013062a तौ परस्परमासाद्य खड्गदन्तनखायुधौ 07013062c हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव 07013063a संपातेष्वभिपातेषु निपातेष्वसिचर्मणोः 07013063c न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः 07013064a अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् 07013064c बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत 07013065a बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् 07013065c ददृशाते महात्मानौ सपक्षाविव पर्वतौ 07013066a ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः 07013066c शरावरणपक्षान्ते प्रजहार जयद्रथः 07013067a रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे 07013067c सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः 07013068a भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् 07013068c सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः 07013069a तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् 07013069c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07013070a ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः 07013070c ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् 07013071a सिन्धुराजं परित्यज्य सौभद्रः परवीरहा 07013071c तापयामास तत्सैन्यं भुवनं भास्करो यथा 07013072a तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् 07013072c चिक्षेप समरे घोरां दीप्तामग्निशिखामिव 07013073a तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् 07013073c वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् 07013074a तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः 07013074c सहिताः सर्वराजानः सिंहनादमथानदन् 07013075a ततस्तामेव शल्यस्य सौभद्रः परवीरहा 07013075c मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् 07013076a सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा 07013076c जघान सूतं शल्यस्य रथाच्चैनमपातयत् 07013077a ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः 07013077c सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ 07013077e यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः 07013078a बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः 07013078c प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् 07013078e तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् 07013079a अथैनं सहसा सर्वे समन्तान्निशितैः शरैः 07013079c अभ्याकिरन्महाराज जलदा इव पर्वतम् 07013080a तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् 07013080c आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् 07014001 धृतराष्ट्र उवाच 07014001a बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय 07014001c त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् 07014002a आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः 07014002c कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् 07014003a न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् 07014003c तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे 07014004 संजय उवाच 07014004a सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् 07014004c समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् 07014005a तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् 07014005c जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् 07014006a सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् 07014006c एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः 07014007a वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् 07014007c शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः 07014008a तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् 07014008c ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् 07014009a ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः 07014009c सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः 07014010a पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् 07014010c पाण्डवानां कुरूणां च साधु साध्विति निस्वनः 07014011a न हि मद्राधिपादन्यः सर्वराजसु भारत 07014011c सोढुमुत्सहते वेगं भीमसेनस्य संयुगे 07014012a तथा मद्राधिपस्यापि गदावेगं महात्मनः 07014012c सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् 07014013a पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी 07014013c प्रजज्वाल तथाविद्धा भीमेन महती गदा 07014014a तथैव चरतो मार्गान्मण्डलानि च भागशः 07014014c महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा 07014015a तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः 07014015c आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ 07014016a मण्डलावर्तमार्गेषु गदाविहरणेषु च 07014016c निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 07014017a ताडिता भीमसेनेन शल्यस्य महती गदा 07014017c साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत 07014018a तथैव भीमसेनस्य द्विषताभिहता गदा 07014018c वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ 07014019a गदा क्षिप्ता तु समरे मद्रराजेन भारत 07014019c व्योम संदीपयाना सा ससृजे पावकं बहु 07014020a तथैव भीमसेनेन द्विषते प्रेषिता गदा 07014020c तापयामास तत्सैन्यं महोल्का पतती यथा 07014021a ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् 07014021c श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् 07014022a नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ 07014022c तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् 07014023a ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ 07014023c ददृशाते महात्मानौ पुष्पिताविव किंशुकौ 07014024a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 07014024c गदाभिघातसंह्रादः शक्राशनिरवोपमः 07014025a गदया मद्रराजेन सव्यदक्षिणमाहतः 07014025c नाकम्पत तदा भीमो भिद्यमान इवाचलः 07014026a तथा भीमगदावेगैस्ताड्यमानो महाबलः 07014026c धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः 07014027a आपेततुर्महावेगौ समुच्छ्रितमहागदौ 07014027c पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः 07014028a अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव 07014028c सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः 07014029a तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ 07014029c युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव 07014030a ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः 07014030c शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः 07014031a दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् 07014031c विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् 07014032a ततः सगदमारोप्य मद्राणामधिपं रथम् 07014032c अपोवाह रणात्तूर्णं कृतवर्मा महारथः 07014033a क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः 07014033c भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत 07014034a ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् 07014034c सनागरथपत्त्यश्वाः समकम्पन्त मारिष 07014035a ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः 07014035c भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव 07014036a निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः 07014036c व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः 07014037a सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः 07014037c भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह 07015001 संजय उवाच 07015001a तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् 07015001c दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया 07015002a शरा दश दिशो मुक्ता वृषसेनेन मारिष 07015002c विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् 07015003a तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः 07015003c भानोरिव महाबाहो ग्रीष्मकाले मरीचयः 07015004a तेनार्दिता महाराज रथिनः सादिनस्तथा 07015004c निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः 07015005a हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः 07015005c अपातयद्रणे राजञ्शतशोऽथ सहस्रशः 07015006a दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् 07015006c सहिताः सर्वराजानः परिवव्रुः समन्ततः 07015007a नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् 07015007c विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः 07015008a तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् 07015008c तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः 07015009a कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा 07015009c तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः 07015010a छादयन्तो महाराज द्रौपदेयान्महारथान् 07015010c शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव 07015011a तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः 07015011c पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः 07015012a तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 07015012c त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः 07015013a एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः 07015013c परस्परमुदीक्षन्तः परस्परकृतागसः 07015014a तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् 07015014c युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् 07015015a भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः 07015015c बभासे स रणोद्देशः कालसूर्यैरिवोदितैः 07015016a तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् 07015016c महाबलानां बलिभिर्दानवानां यथा सुरैः 07015017a ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् 07015017c त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् 07015018a तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् 07015018c अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत 07015019a ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः 07015019c प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् 07015020a तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः 07015020c तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् 07015021a चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः 07015021c दधार द्रोणमायान्तं वेलेव सरितां पतिम् 07015022a द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् 07015022c सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् 07015023a कुमारस्तु ततो द्रोणं सायकेन महाहवे 07015023c विव्याधोरसि संक्रुद्धः सिंहवच्चानदन्मुहुः 07015024a संवार्य तु रणे द्रोणः कुमारं वै महाबलः 07015024c शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः 07015025a तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् 07015025c चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः 07015026a स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः 07015026c तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः 07015027a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 07015027c नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः 07015028a युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः 07015028c सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः 07015029a व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् 07015029c अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् 07015030a युगंधरस्ततो राजन्भारद्वाजं महारथम् 07015030c वारयामास संक्रुद्धं वातोद्धूतमिवार्णवम् 07015031a युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः 07015031c युगंधरं च भल्लेन रथनीडादपाहरत् 07015032a ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः 07015032c व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् 07015033a एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् 07015033c आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् 07015034a व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः 07015034c पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः 07015035a त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् 07015035c प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् 07015036a ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च 07015036c तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् 07015037a ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् 07015037c व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली 07015038a तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् 07015038c युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः 07015039a ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले 07015039c हृतो राजेति योधानां समीपस्थे यतव्रते 07015040a अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् 07015040c अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति 07015040e आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे 07015041a एवं संजल्पतां तेषां तावकानां महारथः 07015041c आयाज्जवेन कौन्तेयो रथघोषेण नादयन् 07015042a शोणितोदां रथावर्तां कृत्वा विशसने नदीम् 07015042c शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम् 07015043a तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् 07015043c नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः 07015044a ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् 07015044c छादयन्निषुजालेन महता मोहयन्निव 07015045a शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् 07015045c नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः 07015046a न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी 07015046c अदृश्यत महाराज बाणभूतमिवाभवत् 07015047a नादृश्यत तदा राजंस्तत्र किंचन संयुगे 07015047c बाणान्धकारे महति कृते गाण्डीवधन्वना 07015048a सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते 07015048c नाज्ञायत तदा शत्रुर्न सुहृन्न च किंचन 07015049a ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः 07015049c तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् 07015050a स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् 07015050c ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः 07015050e पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः 07015051a एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनंजयः 07015051c पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः 07015052a मसारगल्वर्कसुवर्णरूप्यै;र्वज्रप्रवालस्फटिकैश्च मुख्यैः 07015052c चित्रे रथे पाण्डुसुतो बभासे; नक्षत्रचित्रे वियतीव चन्द्रः 07016001 संजय उवाच 07016001a ते सेने शिबिरं गत्वा न्यविशेतां विशां पते 07016001c यथाभागं यथान्यायं यथागुल्मं च सर्वशः 07016002a कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः 07016002c दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् 07016003a उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये 07016003c शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः 07016004a इति तद्वः प्रयततां कृतं पार्थेन संयुगे 07016004c मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ 07016005a अपनीते तु योगेन केनचिच्छ्वेतवाहने 07016005c तत एष्यति ते राजन्वशमद्य युधिष्ठिरः 07016006a कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु 07016006c तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन 07016007a एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप 07016007c ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः 07016008a अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् 07016008c मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् 07016009a एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् 07016009c समानेष्यामि सगणं वशमद्य न संशयः 07016010a यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः 07016010c अथापयाति संग्रामाद्विजयात्तद्विशिष्यते 07016011a द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः 07016011c भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् 07016012a वयं विनिकृता राजन्सदा गाण्डीवधन्वना 07016012c अनागःस्वपि चागस्कृदस्मासु भरतर्षभ 07016013a ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् 07016013c क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः 07016014a स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः 07016014c कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् 07016015a भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् 07016015c वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः 07016016a अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः 07016016c सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति 07016017a एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत 07016017c सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च 07016018a सहिता भ्रातरः पञ्च रथानामयुतेन च 07016018c न्यवर्तन्त महाराज कृत्वा शपथमाहवे 07016019a मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः 07016019c सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः 07016020a माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि 07016020c रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह 07016021a नानाजनपदेभ्यश्च रथानामयुतं पुनः 07016021c समुत्थितं विशिष्टानां संशपार्थमुपागतम् 07016022a ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् 07016022c जगृहुः कुशचीराणि चित्राणि कवचानि च 07016023a ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः 07016023c मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः 07016024a यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः 07016024c योक्ष्यमाणास्तदात्मानं यशसा विजयेन च 07016025a ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः 07016025c प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः 07016026a ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् 07016026c गाश्च वासांसि च पुनः समाभाष्य परस्परम् 07016027a प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् 07016027c तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः 07016028a शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे 07016028c धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे 07016029a ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् 07016029c पानपस्य च ये लोका गुरुदाररतस्य च 07016030a ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः 07016030c शरणागतं च त्यजतो याचमानं तथा घ्नतः 07016031a अगारदाहिनां ये च ये च गां निघ्नतामपि 07016031c अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि 07016032a जायां च ऋतुकाले वै ये मोहादभिगच्छताम् 07016032c श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम् 07016033a न्यासापहारिणां ये च श्रुतं नाशयतां च ये 07016033c कोपेन युध्यमानानां ये च नीचानुसारिणाम् 07016034a नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् 07016034c तानाप्नुयामहे लोकान्ये च पापकृतामपि 07016035a यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम् 07016035c तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः 07016036a यदि त्वसुकरं लोके कर्म कुर्याम संयुगे 07016036c इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः 07016037a एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे 07016037c आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति 07016038a आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः 07016038c धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् 07016039a आहूतो न निवर्तेयमिति मे व्रतमाहितम् 07016039c संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः 07016040a एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे 07016040c वधाय सगणस्यास्य मामनुज्ञातुमर्हसि 07016041a नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ 07016041c सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि 07016042 युधिष्ठिर उवाच 07016042a श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् 07016042c यथा तदनृतं तस्य भवेत्तद्वत्समाचर 07016043a द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः 07016043c प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ 07016044 अर्जुन उवाच 07016044a अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि 07016044c ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति 07016045a हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो 07016045c सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन 07016046 संजय उवाच 07016046a अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः 07016046c प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः 07016047a विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली 07016047c क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव 07016048a ततो दौर्योधनं सैन्यं मुदा परमया युतम् 07016048c गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे 07016049a ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा 07016049c गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके 07017001 संजय उवाच 07017001a ततः संशप्तका राजन्समे देशे व्यवस्थिताः 07017001c व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः 07017002a ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष 07017002c उदक्रोशन्नरव्याघ्राः शब्देन महता तदा 07017003a स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् 07017003c आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः 07017004a अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः 07017004c किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् 07017005a पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे 07017005c भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् 07017006a अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् 07017006c कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् 07017007a एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः 07017007c आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् 07017008a स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् 07017008c दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः 07017009a तेन शब्देन वित्रस्ता संशप्तकवरूथिनी 07017009c निश्चेष्टावस्थिता संख्ये अश्मसारमयी यथा 07017010a वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः 07017010c विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः 07017011a उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् 07017011c युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः 07017012a तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः 07017012c अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः 07017013a ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः 07017013c प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः 07017014a एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः 07017014c स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी 07017015a भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् 07017015c आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः 07017016a ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति 07017016c भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने 07017017a ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः 07017017c अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् 07017018a तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः 07017018c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07017019a हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः 07017019c चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् 07017020a ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् 07017020c सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् 07017021a तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः 07017021c प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् 07017022a सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः 07017022c अथास्य सशिरस्त्राणं शिरः कायादपाहरत् 07017023a तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः 07017023c व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् 07017024a ततो जघान संक्रुद्धो वासविस्तां महाचमूम् 07017024c शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः 07017025a ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः 07017025c सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् 07017026a ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः 07017026c अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव 07017027a ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् 07017027c अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ 07017028a शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः 07017028c गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः 07017029a नावहास्याः कथं लोके कर्मणानेन संयुगे 07017029c भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् 07017030a एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः 07017030c शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् 07017031a ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः 07017031c नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् 07018001 संजय उवाच 07018001a दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः 07018001c वासुदेवं महात्मानमर्जुनः समभाषत 07018002a चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति 07018002c नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः 07018003a पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च 07018003c अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव 07018004a ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् 07018004c प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः 07018005a बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा 07018005c उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः 07018006a मण्डलानि ततश्चक्रे गतप्रत्यागतानि च 07018006c यथा शक्ररथो राजन्युद्धे देवासुरे पुरा 07018007a अथ नारायणाः क्रुद्धा विविधायुधपाणयः 07018007c छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् 07018008a अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ 07018008c कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् 07018009a क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः 07018009c गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे 07018010a बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् 07018010c देवदत्तं महाशङ्खं पूरयामास पाण्डवः 07018011a अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः 07018011c ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् 07018012a आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः 07018012c अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे 07018013a अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ 07018013c इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे 07018014a मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् 07018014c अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः 07018015a ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् 07018015c कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् 07018016a अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि 07018016c माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः 07018017a ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः 07018017c व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च 07018018a ततो नैवार्जुनस्तत्र न रथो न च केशवः 07018018c प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः 07018019a ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः 07018019c हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा 07018020a भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः 07018020c सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष 07018021a ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् 07018021c क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् 07018022a तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः 07018022c वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् 07018023a ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् 07018023c उवाह भगवान्वायुः शुष्कपर्णचयानिव 07018024a उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना 07018024c प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष 07018025a तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः 07018025c जघान निशितैर्बाणैः सहस्राणि शतानि च 07018026a शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् 07018026c हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् 07018027a पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् 07018027c नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः 07018028a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 07018028c शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् 07018029a मुण्डतालवनानीव तत्र तत्र चकाशिरे 07018029c छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् 07018030a सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः 07018030c पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः 07018031a चामरापीडकवचाः स्रस्तान्त्रनयनासवः 07018031c सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ 07018032a विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः 07018032c पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः 07018033a तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि 07018033c भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ 07018034a रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः 07018034c मही चाप्यभवद्दुर्गा कबन्धशतसंकुला 07018035a तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे 07018035c आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् 07018036a ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः 07018036c तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः 07018037a सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः 07018037c आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः 07018038a एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि 07018038c व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् 07018039a तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः 07018039c युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् 07019001 संजय उवाच 07019001a परिणाम्य निशां तां तु भारद्वाजो महारथः 07019001c बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् 07019002a विधाय योगं पार्थेन संशप्तकगणैः सह 07019002c निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति 07019003a व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् 07019003c अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया 07019004a व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा 07019004c व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः 07019005a मुखमासीत्सुपर्णस्य भारद्वाजो महारथः 07019005c शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह 07019006a चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः 07019006c भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् 07019007a कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः 07019007c शका यवनकाम्बोजास्तथा हंसपदाश्च ये 07019008a ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः 07019008c गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः 07019009a भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः 07019009c अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः 07019010a विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः 07019010c वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः 07019011a पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः 07019011c गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः 07019012a पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः 07019012c महत्या सेनया तस्थौ नानाध्वजसमुत्थया 07019013a जयद्रथो भीमरथः सांयात्रिकसभो जयः 07019013c भूमिंजयो वृषक्राथो नैषधश्च महाबलः 07019014a वृता बलेन महता ब्रह्मलोकपुरस्कृताः 07019014c व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः 07019015a द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः 07019015c वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते 07019016a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 07019016c सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे 07019017a तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् 07019017c आस्थितः शुशुभे राजन्नंशुमानुदये यथा 07019018a माल्यदामवता राजा श्वेतच्छत्रेण धार्यता 07019018c कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना 07019019a नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ 07019019c अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् 07019020a नानानृपतिभिर्वीरैर्विविधायुधभूषणैः 07019020c समन्वितः पार्वतीयैः शक्रो देवगणैरिव 07019021a ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् 07019021c अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् 07019022a ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो 07019022c पारावतसवर्णाश्व तथा नीतिर्विधीयताम् 07019023 धृष्टद्युम्न उवाच 07019023a द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत 07019023c अहमावारयिष्यामि द्रोणमद्य सहानुगम् 07019024a मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि 07019024c न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन 07019025 संजय उवाच 07019025a एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली 07019025c पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् 07019026a अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् 07019026c क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव 07019027a तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः 07019027c प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् 07019028a स संप्रहारस्तुमुलः समरूप इवाभवत् 07019028c पार्षतस्य च शूरस्य दुर्मुखस्य च भारत 07019029a पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् 07019029c भारद्वाजं शरौघेण महता समवारयत् 07019030a द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः 07019030c नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् 07019031a तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः 07019031c द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः 07019032a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 07019032c तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् 07019033a मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् 07019033c तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत 07019034a नैव स्वे न परे राजन्नज्ञायन्त परस्परम् 07019034c अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत 07019035a चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु 07019035c तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे 07019036a तत्प्रकीर्णपताकानां रथवारणवाजिनाम् 07019036c बलाकाशबलाभ्राभं ददृशे रूपमाहवे 07019037a नरानेव नरा जघ्नुरुदग्राश्च हया हयान् 07019037c रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् 07019038a समुच्छ्रितपताकानां गजानां परमद्विपैः 07019038c क्षणेन तुमुलो घोरः संग्रामः समवर्तत 07019039a तेषां संसक्तगात्राणां कर्षतामितरेतरम् 07019039c दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत 07019040a विप्रकीर्णपताकास्ते विषाणजनिताग्नयः 07019040c बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः 07019041a विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः 07019041c संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी 07019042a तेषामाहन्यमानानां बाणतोमरवृष्टिभिः 07019042c वारणानां रवो जज्ञे मेघानामिव संप्लवे 07019043a तोमराभिहताः केचिद्बाणैश्च परमद्विपाः 07019043c वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् 07019044a विषाणाभिहताश्चापि केचित्तत्र गजा गजैः 07019044c चक्रुरार्तस्वरं घोरमुत्पातजलदा इव 07019045a प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः 07019045c उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः 07019046a महामात्रा महामात्रैस्ताडिताः शरतोमरैः 07019046c गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः 07019047a निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः 07019047c छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् 07019048a हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः 07019048c दिशो जग्मुर्महानागाः केचिदेकचरा इव 07019049a ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः 07019049c पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः 07019050a तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः 07019050c आहता सहसा भूमिश्चकम्पे च ननाद च 07019051a सादितैः सगजारोहैः सपताकैः समन्ततः 07019051c मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः 07019052a गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे 07019052c रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः 07019053a क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः 07019053c परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश 07019054a गजाश्वरथसंघानां शरीरौघसमावृता 07019054c बभूव पृथिवी राजन्मांसशोणितकर्दमा 07019055a प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः 07019055c सचक्राश्च विचक्राश्च रथैरेव महारथाः 07019056a रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः 07019056c हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः 07019057a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 07019057c इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन 07019058a आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे 07019058c दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः 07019059a शोणितैः सिच्यमानानि वस्त्राणि कवचानि च 07019059c छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत 07019060a हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः 07019060c संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः 07019061a स गजौघमहावेगः परासुनरशैवलः 07019061c रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः 07019062a तं वाहनमहानौभिर्योधा जयधनैषिणः 07019062c अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे 07019063a शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु 07019063c न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः 07019064a वर्तमाने तथा युद्धे घोररूपे भयंकरे 07019064c मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् 07020001 संजय उवाच 07020001a ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् 07020001c महता शरवर्षेण प्रत्यगृह्णादभीतवत् 07020002a ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले 07020002c जिघृक्षति महासिंहे गजानामिव यूथपम् 07020003a दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः 07020003c युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् 07020004a तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् 07020004c विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव 07020005a ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः 07020005c अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः 07020006a स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् 07020006c द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः 07020007a ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे 07020007c वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् 07020008a संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् 07020008c चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह 07020009a वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे 07020009c विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् 07020010a द्रोणस्तु शरवर्षेण छाद्यमानो महारथः 07020010c वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी 07020011a ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च 07020011c षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् 07020012a अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् 07020012c साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् 07020013a स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे 07020013c ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् 07020014a हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी 07020014c अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः 07020015a तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः 07020015c पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् 07020016a स सत्यजितमालक्ष्य तथोदीर्णं महाहवे 07020016c अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः 07020017a तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे 07020017c अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः 07020018a पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः 07020018c युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् 07020019a ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा 07020019c व्यधमत्तान्यनीकानि तूलराशिमिवानिलः 07020020a निर्दहन्तमनीकानि तानि तानि पुनः पुनः 07020020c द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत 07020021a सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः 07020021c षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् 07020022a तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् 07020022c क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः 07020023a मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि 07020023c पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः 07020024a तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् 07020024c दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः 07020025a उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः 07020025c ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे 07020026a नागानश्वान्पदातींश्च रथिनो गजसादिनः 07020026c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 07020027a नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये 07020027c अश्मवर्षमिवावर्षत्परेषां भयमादधत् 07020028a सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव 07020028c बली शूरो महेष्वासो मित्राणामभयंकरः 07020029a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 07020029c दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः 07020030a द्रोणस्तु पाण्डवानीके चकार कदनं महत् 07020030c यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः 07020031a स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः 07020031c महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् 07020032a कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् 07020032c गजवाजिमहाग्राहामसिमीनां दुरासदाम् 07020033a वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् 07020033c चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् 07020034a शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् 07020034c रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् 07020034e मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् 07020035a उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् 07020035c वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् 07020036a हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् 07020036c क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् 07020036e द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् 07020037a क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् 07020037c निषेवितां महारौद्रैः पिशिताशैः समन्ततः 07020038a तं दहन्तमनीकानि रथोदारं कृतान्तवत् 07020038c सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः 07020039a तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः 07020039c राजानो राजपुत्राश्च समन्तात्पर्यवारयन् 07020040a ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः 07020040c अभ्यतीत्य रथानीकं दृढसेनमपातयत् 07020041a ततो राजानमासाद्य प्रहरन्तमभीतवत् 07020041c अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् 07020042a स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः 07020042c त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन 07020043a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 07020043c वसुदानं च भल्लेन प्रेषयद्यमसादनम् 07020044a अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् 07020044c क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् 07020045a युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् 07020045c विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् 07020046a ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः 07020046c अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् 07020047a तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् 07020047c स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् 07020048a तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे 07020048c हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् 07020049a तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् 07020049c सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली 07020050a सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ 07020050c वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् 07020051a एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् 07020051c सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः 07020052a तावकास्तु महाराज जयं लब्ध्वा महाहवे 07020052c पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः 07020053a ते दानवा इवेन्द्रेण वध्यमाना महात्मना 07020053c पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत 07021001 धृतराष्ट्र उवाच 07021001a भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे 07021001c पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत 07021002a आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् 07021002c असेवितां कापुरुषैः सेवितां पुरुषर्षभैः 07021003a स हि वीरो नरः सूत यो भग्नेषु निवर्तते 07021003c अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् 07021004a जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् 07021004c त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम् 07021005a महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् 07021005c कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् 07021006a भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् 07021006c के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय 07021007 संजय उवाच 07021007a तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः 07021007c पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् 07021008a द्रोणचापविमुक्तेन शरौघेणासुहारिणा 07021008c सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् 07021009a कौरवाः सिंहनादेन नानावाद्यस्वनेन च 07021009c रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् 07021010a तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः 07021010c दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव 07021011a पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः 07021011c सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना 07021012a नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः 07021012c यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः 07021013a अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना 07021013c पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः 07021014a संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना 07021014c एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः 07021015a भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः 07021015c अन्योन्यं समलीयन्त पलायनपरायणाः 07021016a एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः 07021016c मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् 07021017a व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः 07021017c निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः 07021018 कर्ण उवाच 07021018a नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् 07021018c न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते 07021019a न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः 07021019c शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः 07021020a विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः 07021020c स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः 07021021a निकृतो हि महाबाहुरमितौजा वृकोदरः 07021021c वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति 07021022a असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः 07021022c आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति 07021023a तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः 07021023c पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः 07021024a शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः 07021024c विशेषतश्च भीमेन संरब्धेनाभिचोदिताः 07021025a ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः 07021025c वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव 07021026a एकायनगता ह्येते पीडयेयुर्यतव्रतम् 07021026c अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः 07021026e असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे 07021027a अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् 07021027c ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः 07021027e काका इव महानागं मा वै हन्युर्यतव्रतम् 07021028 संजय उवाच 07021028a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा 07021028c भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति 07021029a तत्रारावो महानासीदेकं द्रोणं जिघांसताम् 07021029c पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः 07022001 धृतराष्ट्र उवाच 07022001a सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय 07022001c ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः 07022002 संजय उवाच 07022002a ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् 07022002c रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत 07022003a दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः 07022003c वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः 07022004a कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् 07022004c भीमवेगा नरव्याघ्रमवहन्वातरंहसः 07022005a हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे 07022005c अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् 07022006a राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् 07022006c जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः 07022007a ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि 07022007c राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत 07022008a तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः 07022008c केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च 07022008e स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः 07022009a ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः 07022009c वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः 07022010a हारिद्रसमवर्णास्तु जवना हेममालिनः 07022010c पुत्रं विराटराजस्य सत्वराः समुदावहन् 07022011a इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः 07022011c जातरूपसमाभासः सर्वे लोहितकध्वजाः 07022012a ते हेममालिनः शूराः सर्वे युद्धविशारदाः 07022012c वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः 07022013a आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् 07022013c दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् 07022014a तथा द्वादशसाहस्राः पाञ्चालानां महारथाः 07022014c तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः 07022015a पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष 07022015c आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः 07022016a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 07022016c काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः 07022017a बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः 07022017c पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् 07022018a मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः 07022018c शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् 07022019a युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः 07022019c काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् 07022020a श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः 07022020c यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् 07022021a सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत 07022021c माषपुष्पसवर्णास्तमवहन्वाजिनो रणे 07022022a सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि 07022022c तस्मिञ्जातः सोमसंक्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः 07022023a नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः 07022023c आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् 07022024a काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः 07022024c द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् 07022025a श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः 07022025c ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः 07022026a यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे 07022026c अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे 07022027a एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः 07022027c तं बृहन्तो महाकाया युयुत्सुमवहन्रणे 07022028a पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् 07022028c ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः 07022029a कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः 07022029c सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः 07022030a रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः 07022030c सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् 07022031a रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः 07022031c काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् 07022032a अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् 07022032c तं सत्यधृतिमायान्तमरुणाः समुदावहन् 07022033a यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् 07022033c पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् 07022034a तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 07022034c श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो 07022035a युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः 07022035c भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः 07022036a प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः 07022036c नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः 07022037a शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः 07022037c समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः 07022038a बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः 07022038c ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः 07022039a इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः 07022039c आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः 07022040a अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव 07022040c राजानं रोचमानं ते हयाः संख्ये समावहन् 07022041a कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः 07022041c जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् 07022042a ये तु पुष्करनालस्य समवर्णा हयोत्तमाः 07022042c जवे श्येनसमाश्चित्राः सुदामानमुदावहन् 07022043a शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः 07022043c पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् 07022044a पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः 07022044c तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः 07022045a माषवर्णास्तु जवना बृहन्तो हेममालिनः 07022045c दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् 07022046a शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः 07022046c पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् 07022047a बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः 07022047c कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् 07022048a शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः 07022048c युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः 07022049a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07022049c अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत 07022050a समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् 07022050c अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् 07022051a नीलोत्पलसवर्णास्तु तपनीयविभूषिताः 07022051c शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः 07022052a कलायपुष्पवर्णास्तु श्वेतलोहितराजयः 07022052c रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् 07022053a यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् 07022053c तं पटच्चरहन्तारं शुकवर्णावहन्हयाः 07022054a चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् 07022054c ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः 07022055a एकवर्णेन सर्वेण ध्वजेन कवचेन च 07022055c धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत 07022056a नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः 07022056c वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत 07022057a ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः 07022057c ते रोचमानस्य सुतं हेमवर्णमुदावहन् 07022058a योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः 07022058c श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् 07022059a आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् 07022059c अवहन्रथमुख्यानामयुतानि चतुर्दश 07022060a नानारूपेण वर्णेन नानाकृतिमुखा हयाः 07022060c रथचक्रध्वजं वीरं घटोत्कचमुदावहन् 07022061a सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् 07022061c राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः 07022061e वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः 07022062a ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः 07022062c प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः 07022063a अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् 07022063c सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत 07023001 धृतराष्ट्र उवाच 07023001a व्यथयेयुरिमे सेनां देवानामपि संयुगे 07023001c आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः 07023002a संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः 07023002c तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः 07023003a दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी 07023003c अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः 07023004a स एव महतीं सेनां समावर्तयदाहवे 07023004c किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् 07023005a युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः 07023005c स तथाकृष्यते तेन न यथा स्वयमिच्छति 07023006a द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः 07023006c स पुनर्भागधेयेन सहायानुपलब्धवान् 07023007a अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये 07023007c चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः 07023008a पृथिवी भूयसी तात मम पार्थस्य नो तथा 07023008c इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा 07023009a तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः 07023009c निहतः पार्षतेनाजौ किमन्यद्भागधेयतः 07023010a मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् 07023010c सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् 07023011a समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः 07023011c भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे 07023012a यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् 07023012c दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह 07023013a नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि 07023013c पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् 07023014a यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः 07023014c सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति 07023015a अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय 07023015c अवशेषं न पश्यामि ककुदे मृदिते सति 07023016a कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः 07023016c यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ 07023017a व्यक्तमेव च मे शंस यथा युद्धमवर्तत 07023017c केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् 07023018a धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः 07023018c तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः 07023019a यथासीच्च निवृत्तेषु पाण्डवेषु च संजय 07023019c मम सैन्यावशेषस्य संनिपातः सुदारुणः 07023019e मामकानां च ये शूराः कांस्तत्र समवारयन् 07024001 संजय उवाच 07024001a महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु 07024001c दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः 07024002a तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव 07024002c ततो हतममन्याम द्रोणं दृष्टिपथे हते 07024003a तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः 07024003c दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् 07024004a यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः 07024004c वारयध्वं यथायोगं पाण्डवानामनीकिनीम् 07024005a ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव 07024005c आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् 07024006a तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे 07024006c तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् 07024007a त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः 07024007c बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि 07024008a कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते 07024008c पर्यवारयदायान्तं शूरं समितिशोभनम् 07024009a तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् 07024009c कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् 07024010a सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् 07024010c उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् 07024011a क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके 07024011c नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् 07024012a अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् 07024012c विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः 07024013a युयुत्सुं पाण्डवार्थाय यतमानं महारथम् 07024013c सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् 07024014a सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ 07024014c युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ 07024015a राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 07024015c वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् 07024016a तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् 07024016c मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् 07024017a तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् 07024017c क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः 07024018a तथैव राजा बाह्लीको राजानं द्रुपदं शरैः 07024018c आद्रवन्तं सहानीकं सहानीको न्यवारयत् 07024019a तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः 07024019c यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः 07024020a विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् 07024020c सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् 07024021a तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् 07024021c मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् 07024022a नाकुलिं तु शतानीकं भूतकर्मा सभापतिः 07024022c अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् 07024023a ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः 07024023c चक्रे विबाहुशिरसं भूतकर्माणमाहवे 07024024a सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् 07024024c द्रोणायाभिमुखं वीरं विविंशतिरवारयत् 07024025a सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः 07024025c विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः 07024026a अथ भीमरथः शाल्वमाशुगैरायसैः शितैः 07024026c षड्भिः साश्वनियन्तारमनयद्यमसादनम् 07024027a श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः 07024027c चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् 07024028a तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ 07024028c पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् 07024029a तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे 07024029c द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् 07024030a तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः 07024030c सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् 07024031a प्रवपन्निव बीजानि बीजकाले नरर्षभ 07024031c द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् 07024032a यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः 07024032c तं पटच्चरहन्तारं लक्ष्मणः समवारयत् 07024033a स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत 07024033c लक्ष्मणे शरजालानि विसृजन्बह्वशोभत 07024034a विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् 07024034c पर्यवारयदायान्तं युवानं समरे युवा 07024035a ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् 07024035c विधूय तद्बाणजालं बभौ तव सुतो बली 07024036a अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे 07024036c द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् 07024037a स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः 07024037c सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः 07024038a दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली 07024038c द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् 07024039a स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् 07024039c तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् 07024040a कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् 07024040c द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् 07024041a ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन् 07024041c स च तांश्छादयामास शरजालैः पुनः पुनः 07024042a नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः 07024042c साश्वसूतध्वजरथाः परस्परशराचिताः 07024043a पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह 07024043c नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् 07024044a तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् 07024044c सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः 07024045a क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि 07024045c द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः 07024046a तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् 07024046c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07024047a राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् 07024047c चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् 07024048a तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया 07024048c स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् 07024049a वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः 07024049c अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् 07024050a युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ 07024050c ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः 07024051a सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् 07024051c पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् 07024052a स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने 07024052c पुनः पताकां सूतं च छत्रं चापातयद्रथात् 07024053a अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा 07024053c साश्वसूतध्वजरथं तं चकर्त वरासिना 07024054a रथं च स्वं समास्थाय धनुरादाय चापरम् 07024054c स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् 07024055a मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः 07024055c पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः 07024056a आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् 07024056c सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः 07024057a तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः 07024057c राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः 07024058a तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः 07024058c तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः 07024059a एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् 07024059c पदातीनां च भद्रं ते तव तेषां च संकुलम् 07024060a नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः 07024060c द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् 07024061a इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो 07024061c तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च 07025001 धृतराष्ट्र उवाच 07025001a तेष्वेवं संनिवृत्तेषु प्रत्युद्यातेषु भागशः 07025001c कथं युयुधिरे पार्था मामकाश्च तरस्विनः 07025002a किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति 07025002c संशप्तका वा पार्थस्य किमकुर्वत संजय 07025003 संजय उवाच 07025003a तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः 07025003c स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः 07025004a स नाग इव नागेन गोवृषेणेव गोवृषः 07025004c समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् 07025005a स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः 07025005c अभिनत्कुञ्जरानीकमचिरेणैव मारिष 07025006a ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् 07025006c भीमसेनस्य नाराचैर्विमुखा विमदीकृताः 07025007a विधमेदभ्रजालानि यथा वायुः समन्ततः 07025007c व्यधमत्तान्यनीकानि तथैव पवनात्मजः 07025008a स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत 07025008c भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः 07025009a ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः 07025009c गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः 07025010a तथा गजानां कदनं कुर्वाणमनिलात्मजम् 07025010c क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः 07025011a ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः 07025011c क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः 07025012a स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् 07025012c नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव 07025013a तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् 07025013c भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः 07025014a दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष 07025014c चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः 07025015a तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् 07025015c कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् 07025016a तस्य कायं विनिर्भिद्य ममज्ज धरणीतले 07025016c ततः पपात द्विरदो वज्राहत इवाचलः 07025017a तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः 07025017c शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः 07025018a तस्मिन्निपतिते वीरे संप्राद्रवत सा चमूः 07025018c संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती 07025019a तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः 07025019c प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् 07025020a येन नागेन मघवानजयद्दैत्यदानवान् 07025020c स नागप्रवरो भीमं सहसा समुपाद्रवत् 07025021a श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च 07025021c व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् 07025022a ततः सर्वस्य सैन्यस्य नादः समभवन्महान् 07025022c हा हा विनिहतो भीमः कुञ्जरेणेति मारिष 07025023a तेन नादेन वित्रस्ता पाण्डवानामनीकिनी 07025023c सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः 07025024a ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् 07025024c भगदत्तं सपाञ्चालः सर्वतः समवारयत् 07025025a तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः 07025025c अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः 07025026a स विघातं पृषत्कानामङ्कुशेन समाचरन् 07025026c गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः 07025027a तदद्भुतमपश्याम भगदत्तस्य संयुगे 07025027c तथा वृद्धस्य चरितं कुञ्जरेण विशां पते 07025028a ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् 07025028c तिर्यग्यातेन नागेन समदेनाशुगामिना 07025029a तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः 07025029c सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा 07025030a प्राग्ज्योतिषपतेर्नागः संनिपत्यापवृत्य च 07025030c पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् 07025031a तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः 07025031c जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् 07025032a उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः 07025032c रथानीकेन महता सर्वतः पर्यवारयत् 07025033a स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः 07025033c पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः 07025034a मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् 07025034c किरतां शरवर्षाणि स नागः पर्यवर्तत 07025035a ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् 07025035c प्रेषयामास सहसा युयुधानरथं प्रति 07025036a शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः 07025036c अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् 07025037a बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः 07025037c तस्थौ सात्यकिमासाद्य संप्लुतस्तं रथं पुनः 07025038a स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् 07025038c निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् 07025039a ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः 07025039c तमेकं द्विरदं संख्ये मेनिरे शतशो नृपाः 07025040a ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः 07025040c ऐरावतस्थेन यथा देवराजेन दानवाः 07025041a तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः 07025041c गजवाजिकृतः शब्दः सुमहान्समजायत 07025042a भगदत्तेन समरे काल्यमानेषु पाण्डुषु 07025042c प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् 07025043a तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा 07025043c सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः 07025044a ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः 07025044c समुक्षञ्शरवर्षेण रथस्थोऽन्तकसंनिभः 07025045a ततो रुचिरपर्वाणं शरेण नतपर्वणा 07025045c सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् 07025046a तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः 07025046c चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् 07025047a त एनं शरधाराभिर्धाराभिरिव तोयदाः 07025047c सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः 07025048a ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः 07025048c प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् 07025049a सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् 07025049c पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम् 07025050a स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः 07025050c बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् 07025051a तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः 07025051c त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः 07025052a सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ 07025052c संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् 07025053a नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः 07025053c परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् 07025054a गोपाल इव दण्डेन यथा पशुगणान्वने 07025054c आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः 07025055a क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः 07025055c बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः 07025056a स नागराजः प्रवराङ्कुशाहतः; पुरा सपक्षोऽद्रिवरो यथा नृप 07025056c भयं तथा रिपुषु समादधद्भृशं; वणिग्गणानां क्षुभितो यथार्णवः 07025057a ततो ध्वनिर्द्विरदरथाश्वपार्थिवै;र्भयाद्द्रवद्भिर्जनितोऽतिभैरवः 07025057c क्षितिं वियद्द्यां विदिशो दिशस्तथा; समावृणोत्पार्थिव संयुगे तदा 07025058a स तेन नागप्रवरेण पार्थिवो; भृशं जगाहे द्विषतामनीकिनीम् 07025058c पुरा सुगुप्तां विबुधैरिवाहवे; विरोचनो देववरूथिनीमिव 07025059a भृशं ववौ ज्वलनसखो वियद्रजः; समावृणोन्मुहुरपि चैव सैनिकान् 07025059c तमेकनागं गणशो यथा गजाः; समन्ततो द्रुतमिव मेनिरे जनाः 07026001 संजय उवाच 07026001a यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि 07026001c तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे 07026002a रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् 07026002c भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् 07026003a यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन 07026003c त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः 07026004a इन्द्रादनवरः संख्ये गजयानविशारदः 07026004c प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः 07026005a स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि 07026005c सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः 07026006a सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ 07026006c स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति 07026007a न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् 07026007c त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः 07026008a शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् 07026008c अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् 07026009a वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः 07026009c दार्यते भगदत्तेन यत्र पाण्डववाहिनी 07026010a तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः 07026010c संशप्तकाः समारोहन्सहस्राणि चतुर्दश 07026011a दशैव तु सहस्राणि त्रिगर्तानां नराधिप 07026011c चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः 07026012a दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष 07026012c आहूयमानस्य च तैरभवद्धृदयं द्विधा 07026013a किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् 07026013c इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् 07026014a तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह 07026014c अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा 07026015a स संनिवृत्तः सहसा कपिप्रवरकेतनः 07026015c एको रथसहस्राणि निहन्तुं वासवी रणे 07026016a सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः 07026016c अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् 07026017a स तु संवर्तयामास द्वैधीभावेन पाण्डवः 07026017c रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा 07026018a ततः शतसहस्राणि शराणां नतपर्वणाम् 07026018c व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः 07026019a नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः 07026019c न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः 07026020a यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः 07026020c ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् 07026021a शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः 07026021c केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ 07026022a द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः 07026022c हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः 07026023a विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः 07026023c सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः 07026024a सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः 07026024c संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना 07026025a बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष 07026025c संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे 07026026a जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः 07026026c नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने 07026027a क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव 07026027c धनंजयं भूतगणाः साधु साध्वित्यपूजयन् 07026028a दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः 07026028c विस्मयं परमं गत्वा तलमाहत्य पूजयत् 07026029a ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः 07026029c भगदत्ताय याहीति पार्थः कृष्णमचोदयत् 07027001 संजय उवाच 07027001a यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् 07027001c अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् 07027002a तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् 07027002c सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् 07027003a ततः श्वेतहयः कृष्णमब्रवीदजितं जयः 07027003c एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत 07027004a दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन 07027004c द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् 07027005a किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् 07027005c इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् 07027006a एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् 07027006c येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् 07027007a ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः 07027007c ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत 07027008a त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः 07027008c साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् 07027009a ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् 07027009c चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् 07027010a शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः 07027010c सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत 07027011a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 07027011c राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् 07027012a ततो धनंजयो बाणैस्तत एव महारथान् 07027012c आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः 07027013a तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः 07027013c नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः 07027014a संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः 07027014c सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति 07027015a यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् 07027015c धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् 07027016a तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः 07027016c कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः 07027017a तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी 07027017c व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् 07027018a ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् 07027018c मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये 07027019a व्यपेतहृदयत्रास आपद्धर्मातिगो रथः 07027019c आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि 07027020a यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः 07027020c मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव 07027021a तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः 07027021c तेन नागेन सहसा धनंजयमुपाद्रवत् 07027022a तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् 07027022c स संनिपातस्तुमुलो बभूव रथनागयोः 07027023a कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च 07027023c संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ 07027024a ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः 07027024c अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् 07027025a स चापि शरवर्षं तच्छरवर्षेण वासविः 07027025c अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् 07027026a ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् 07027026c शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत 07027027a ततः स शरजालेन महताभ्यवकीर्य तौ 07027027c चोदयामास तं नागं वधायाच्युतपार्थयोः 07027028a तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् 07027028c चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः 07027029a संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् 07027029c सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः 07027030a स तु नागो द्विपरथान्हयांश्चारुज्य मारिष 07027030c प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः 07028001 धृतराष्ट्र उवाच 07028001a तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः 07028001c प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् 07028002 संजय उवाच 07028002a प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ 07028002c मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे 07028003a तथा हि शरवर्षाणि पातयत्यनिशं प्रभो 07028003c भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः 07028004a अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः 07028004c अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः 07028005a अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः 07028005c निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः 07028006a तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च 07028006c लाडयन्निव राजानं भगदत्तमयोधयत् 07028007a सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश 07028007c प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् 07028008a ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः 07028008c शरजालेन स बभौ व्यभ्रः पर्वतराडिव 07028009a ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् 07028009c व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् 07028010a ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः 07028010c विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् 07028011a सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः 07028011c भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः 07028012a व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च 07028012c तैरर्जुनस्य समरे किरीटं परिवर्तितम् 07028013a परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः 07028013c सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् 07028014a एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् 07028014c अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् 07028015a तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च 07028015c त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् 07028016a विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् 07028016c अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि 07028017a विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् 07028017c उरसा प्रतिजग्राह पार्थं संछाद्य केशवः 07028018a वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि 07028018c ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत 07028019a अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन 07028019c इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि 07028020a यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे 07028020c ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते 07028021a सबाणः सधनुश्चाहं ससुरासुरमानवान् 07028021c शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव 07028022a ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः 07028022c शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ 07028023a चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः 07028023c आत्मानं प्रविभज्येह लोकानां हितमादधे 07028024a एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता 07028024c अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी 07028025a अपरा कुरुते कर्म मानुषं लोकमाश्रिता 07028025c शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् 07028026a यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम 07028026c वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा 07028027a तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा 07028027c प्रायाचत वरं यं मां नरकार्थाय तं शृणु 07028028a देवानामसुराणां च अवध्यस्तनयोऽस्तु मे 07028028c उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि 07028029a एवं वरमहं श्रुत्वा जगत्यास्तनये तदा 07028029c अमोघमस्त्रमददं वैष्णवं तदहं पुरा 07028030a अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे 07028030c नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति 07028031a अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः 07028031c भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा 07028032a तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी 07028032c स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः 07028033a तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् 07028033c नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष 07028034a तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् 07028034c वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् 07028035a वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् 07028035c यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा 07028036a एवमुक्तस्ततः पार्थः केशवेन महात्मना 07028036c भगदत्तं शितैर्बाणैः सहसा समवाकिरत् 07028037a ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः 07028037c कुम्भयोरन्तरे नागं नाराचेन समार्पयत् 07028038a समासाद्य तु तं नागं बाणो वज्र इवाचलम् 07028038c अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः 07028039a स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ 07028039c नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः 07028040a ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा 07028040c बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः 07028041a स भिन्नहृदयो राजा भगदत्तः किरीटिना 07028041c शरासनं शरांश्चैव गतासुः प्रमुमोच ह 07028042a शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः 07028042c नालताडनविभ्रष्टं पलाशं नलिनादिव 07028043a स हेममाली तपनीयभाण्डा;त्पपात नागाद्गिरिसंनिकाशात् 07028043c सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः 07028044a निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे 07028044c ततोऽपरांस्तव जयकाङ्क्षिणो नरा;न्बभञ्ज वायुर्बलवान्द्रुमानिव 07029001 संजय उवाच 07029001a प्रियमिन्द्रस्य सततं सखायममितौजसम् 07029001c हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत 07029002a ततो गान्धारराजस्य सुतौ परपुरंजयौ 07029002c आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ 07029003a तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ 07029003c अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् 07029004a वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् 07029004c तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः 07029005a ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि 07029005c गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः 07029006a ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् 07029006c प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः 07029007a हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः 07029007c आरुरोह रथं भ्रातुरन्यच्च धनुराददे 07029008a तावेकरथमारूढौ भ्रातरौ वृषकाचलौ 07029008c शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः 07029009a स्यालौ तव महात्मानौ राजानौ वृषकाचलौ 07029009c भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव 07029010a लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः 07029010c निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा 07029011a तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ 07029011c संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः 07029012a तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ 07029012c गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ 07029013a तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ 07029013c यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ 07029014a दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ 07029014c भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते 07029015a निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः 07029015c कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः 07029016a लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः 07029016c गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः 07029017a सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः 07029017c क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः 07029018a चक्राणि विशिखाः प्रासा विविधान्यायुधानि च 07029018c प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति 07029019a खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः 07029019c ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः 07029020a विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति 07029020c संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च 07029021a ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः 07029021c विसृजन्निषुजालानि सहसा तान्यताडयत् 07029022a ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः 07029022c विरुवन्तो महारावान्विनेशुः सर्वतो हताः 07029023a ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति 07029023c तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् 07029024a तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् 07029024c हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः 07029025a अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः 07029025c प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् 07029026a एवं बहुविधा मायाः सौबलस्य कृताः कृताः 07029026c जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा 07029027a तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः 07029027c अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा 07029028a ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु 07029028c अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् 07029029a सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी 07029029c द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् 07029030a द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः 07029030c केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना 07029031a नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् 07029031c गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया 07029032a शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् 07029032c गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् 07029033a ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम् 07029033c सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् 07029034a नानाविधान्यनीकानि पुत्राणां तव भारत 07029034c अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः 07029035a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 07029035c महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् 07029036a ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् 07029036c स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः 07029037a तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः 07029037c शलभा इव संपेतुः संवृण्वाना दिशो दश 07029038a तुरगं रथिनं नागं पदातिमपि मारिष 07029038c विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः 07029039a न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः 07029039c पृथगेकशरारुग्णा निपेतुस्ते गतासवः 07029040a हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः 07029040c तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह 07029041a पिता सुतं त्यजति सुहृद्वरं सुहृ;त्तथैव पुत्रः पितरं शरातुरः 07029041c स्वरक्षणे कृतमतयस्तदा जना;स्त्यजन्ति वाहानपि पार्थपीडिताः 07030001 धृतराष्ट्र उवाच 07030001a तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय 07030001c चलितानां द्रुतानां च कथमासीन्मनो हि वः 07030002a अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् 07030002c दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय 07030003 संजय उवाच 07030003a तथापि तव पुत्रस्य प्रियकामा विशां पते 07030003c यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः 07030004a समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे 07030004c अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् 07030005a अन्तरं भीमसेनस्य प्रापतन्नमितौजसः 07030005c सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो 07030006a द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् 07030006c मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् 07030007a द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे 07030007c कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत 07030008a यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् 07030008c तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते 07030009a यथाभागविपर्यासे संग्रामे भैरवे सति 07030009c वीराः समासदन्वीरानगच्छन्भीरवः परान् 07030010a अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः 07030010c अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः 07030011a ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः 07030011c त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे 07030012a अयसामिव संपातः शिलानामिव चाभवत् 07030012c दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् 07030013a न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् 07030013c दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा 07030014a प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने 07030014c प्रवर्तता बलौघेन महता भारपीडिता 07030015a घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः 07030015c अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् 07030016a समासाद्य तु पाण्डूनामनीकानि सहस्रशः 07030016c द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः 07030017a तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा 07030017c पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् 07030018a तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा 07030018c नैव तस्योपमा काचित्संभवेदिति मे मतिः 07030019a ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् 07030019c शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः 07030020a तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् 07030020c पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत 07030021a नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा 07030021c मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः 07030022a तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् 07030022c व्याकोशपद्माभमुखं नीलो विव्याध सायकैः 07030023a तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः 07030023c धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत 07030024a सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् 07030024c द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् 07030025a तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् 07030025c भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ 07030026a संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः 07030026c प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ 07030027a ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला 07030027c आचार्यपुत्रेण हते नीले ज्वलिततेजसि 07030028a अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः 07030028c कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष 07030029a दक्षिणेन तु सेनायाः कुरुते कदनं बली 07030029c संशप्तकावशेषस्य नारायणबलस्य च 07031001 संजय उवाच 07031001a प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः 07031001c सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः 07031002a तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः 07031002c जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह 07031003a कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः 07031003c षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् 07031004a भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः 07031004c द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः 07031005a दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः 07031005c आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे 07031006a तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते 07031006c अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् 07031007a ते ययुर्भीमसेनस्य समीपममितौजसः 07031007c युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ 07031008a ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः 07031008c महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः 07031009a समापेतुर्महावीर्या भीमप्रभृतयो रथाः 07031009c तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः 07031010a महाबलानतिरथान्वीरान्समरशोभिनः 07031010c बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः 07031011a सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् 07031011c आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः 07031012a निकृष्टमसियुद्धं च बभूव कटुकोदयम् 07031012c कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम् 07031013a अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः 07031013c नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष 07031014a तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः 07031014c शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः 07031015a अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् 07031015c विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् 07031016a नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः 07031016c बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् 07031017a कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् 07031017c पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव 07031018a गृध्रपत्राधिवासांसि शयनानि नराधिपाः 07031018c ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते 07031019a हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते 07031019c पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत 07031020a अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् 07031020c युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः 07031021a सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् 07031021c गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ 07031022a रथिना ताडितो नागो नाराचेनापतद्व्यसुः 07031022c सारोहश्चापतद्वाजी गजेनाताडितो भृशम् 07031023a निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् 07031023c हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि 07031024a प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः 07031024c इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः 07031025a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 07031025c उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् 07031026a आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् 07031026c नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम् 07031027a तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः 07031027c सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा 07031028a प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् 07031028c अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् 07031029a शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् 07031029c स्वानन्योऽथ परानन्यो जघान निशितैः शरैः 07031030a गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः 07031030c मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे 07031031a तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् 07031031c अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् 07031032a शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् 07031032c बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् 07031033a सर्वमाविग्नमभवन्न प्राज्ञायत किंचन 07031033c सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत 07031034a ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् 07031034c नित्याभित्वरितानेव त्वरयामास पाण्डवान् 07031035a कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः 07031035c सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति 07031036a गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत 07031036c इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति 07031037a ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः 07031037c विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् 07031038a ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः 07031038c शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह 07031039a ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान् 07031039c चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् 07031040a तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष 07031040c वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून् 07031041a एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली 07031041c अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति 07031042a तं शरौघमहावर्तं शोणितोदं महाह्रदम् 07031042c तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः 07031043a तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः 07031043c दीप्यमानमपश्याम तेजसा वानरध्वजम् 07031044a संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः 07031044c स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् 07031045a प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा 07031045c युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः 07031046a तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः 07031046c ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः 07031047a केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः 07031047c पार्थबाणहताः केचिन्निपेतुर्विगतासवः 07031048a तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् 07031048c न जघानार्जुनो योधान्योधव्रतमनुस्मरन् 07031049a ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः 07031049c कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः 07031050a तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् 07031050c मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् 07031051a स भारतरथश्रेष्ठः सर्वभारतहर्षणः 07031051c प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः 07031052a तस्य दीप्तशरौघस्य दीप्तचापधरस्य च 07031052c शरौघाञ्शरजालेन विदुधाव धनंजयः 07031052e अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् 07031053a धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः 07031053c विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः 07031054a अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः 07031054c तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः 07031055a ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव 07031055c रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् 07031056a ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः 07031056c दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति 07031057a ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः 07031057c ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् 07031058a अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः 07031058c कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः 07031059a ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः 07031059c जहार सद्यो भल्लेन विपाटस्य शिरो रथात् 07031060a पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना 07031060c प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः 07031061a ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् 07031061c वरासिना कर्णपक्षाञ्जघान दश पञ्च च 07031062a पुनः स्वरथमास्थाय धनुरादाय चापरम् 07031062c विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः 07031063a धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् 07031063c जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् 07031064a ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् 07031064c आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे 07031065a शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति 07031065c सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् 07031066a भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् 07031066c पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 07031067a ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः 07031067c निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् 07031068a धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च 07031068c नकुलः सहदेवश्च सात्यकिं जुगुपू रणे 07031069a एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् 07031069c तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः 07031070a पदातिरथनागाश्वैर्गजाश्वरथपत्तयः 07031070c रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः 07031071a अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह 07031071c संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः 07031072a एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् 07031072c महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् 07031073a ततो हता नररथवाजिकुञ्जरै;रनेकशो द्विपरथवाजिपत्तयः 07031073c गजैर्गजा रथिभिरुदायुधा रथा; हयैर्हयाः पत्तिगणैश्च पत्तयः 07031074a रथैर्द्विपा द्विरदवरैर्महाहया; हयैर्नरा वररथिभिश्च वाजिनः 07031074c निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षयं गताः प्रमथितवर्मभूषणाः 07031075a तथा परैर्बहुकरणैर्वरायुधै;र्हता गताः प्रतिभयदर्शनाः क्षितिम् 07031075c विपोथिता हयगजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः 07031076a प्रमोदने श्वापदपक्षिरक्षसां; जनक्षये वर्तति तत्र दारुणे 07031076c महाबलास्ते कुपिताः परस्परं; निषूदयन्तः प्रविचेरुरोजसा 07031077a ततो बले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसंप्लुते 07031077c दिवाकरेऽस्तंगिरिमास्थिते शनै;रुभे प्रयाते शिबिराय भारत 07032001 संजय उवाच 07032001a पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा 07032001c द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे 07032002a सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः 07032002c रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश 07032003a अवहारं ततः कृत्वा भारद्वाजस्य संमते 07032003c लब्धलक्ष्यैः परैर्दीना भृशावहसिता रणे 07032004a श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् 07032004c केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति 07032004e अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः 07032005a ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत् 07032005c प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः 07032005e शृण्वतां सर्वभूतानां संरब्धो वाक्यकोविदः 07032006a नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम 07032006c तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् 07032007a इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः 07032007c जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः 07032008a वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि 07032008c आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथंचन 07032009a ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽब्रवीन्नृपम् 07032009c नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिये 07032010a ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः 07032010c नालं लोका रणे जेतुं पाल्यमानं किरीटिना 07032011a विश्वसृग्यत्र गोविन्दः पृतनारिस्तथार्जुनः 07032011c तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः 07032012a सत्यं तु ते ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् 07032012c अद्यैषां प्रवरं वीरं पातयिष्ये महारथम् 07032013a तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि 07032013c योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् 07032014a न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किंचन 07032014c तेन ह्युपात्तं बलवत्सर्वज्ञानमितस्ततः 07032015a द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः 07032015c आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम् 07032016a तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः 07032016c तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् 07032017a ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत 07032017c चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः 07032018a तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत 07032018c बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा 07032019a स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः 07032019c षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः 07032020a वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः 07032020c सौभद्रे निहते राजन्नवहारमकुर्वत 07032021 धृतराष्ट्र उवाच 07032021a पुत्रं पुरुषसिंहस्य संजयाप्राप्तयौवनम् 07032021c रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः 07032022a दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः 07032022c यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् 07032023a बालमत्यन्तसुखिनं विचरन्तमभीतवत् 07032023c कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् 07032024a बिभित्सता रथानीकं सौभद्रेणामितौजसा 07032024c विक्रीडितं यथा संख्ये तन्ममाचक्ष्व संजय 07032025 संजय उवाच 07032025a यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् 07032025c तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः 07032025e विक्रीडितं कुमारेण यथानीकं बिभित्सता 07032026a दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे 07032026c वनौकसामिवारण्ये त्वदीयानामभूद्भयम् 07033001 संजय उवाच 07033001a समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः 07033001c सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः 07033002a सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया 07033002c नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् 07033003a सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः 07033003c सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः 07033004a युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् 07033004c रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः 07033005a प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः 07033005c उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ 07033006a गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः 07033006c नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् 07033007a श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः 07033007c सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः 07033008a ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः 07033008c अभिमन्यौ किलैकस्था दृश्यन्ते गुणसंचयाः 07033009a युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च 07033009c कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः 07033010a धनंजयस्य रूपेण विक्रमेण श्रुतेन च 07033010c विनयात्सहदेवस्य सदृशो नकुलस्य च 07033011 धृतराष्ट्र उवाच 07033011a अभिमन्युमहं सूत सौभद्रमपराजितम् 07033011c श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः 07033012 संजय उवाच 07033012a चक्रव्यूहो महाराज आचार्येणाभिकल्पितः 07033012c तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः 07033013a संघातो राजपुत्राणां सर्वेषामभवत्तदा 07033013c कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः 07033014a रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः 07033014c सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः 07033015a तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् 07033015c पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् 07033016a अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः 07033016c अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः 07033017a कर्णदुःशासनकृपैर्वृतो राजा महारथैः 07033017c देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः 07033017e चामरव्यजनाक्षेपैरुदयन्निव भास्करः 07033018a प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके 07033018c सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः 07033019a सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः 07033019c सुतास्तव महाराज त्रिंशत्त्रिदशसंनिभाः 07033020a गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा 07033020c पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः 07034001 संजय उवाच 07034001a तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् 07034001c पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः 07034002a सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः 07034002c कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः 07034003a आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् 07034003c चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः 07034004a युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः 07034004c उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः 07034005a द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् 07034005c केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः 07034006a एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः 07034006c समभ्यधावन्सहसा भारद्वाजं युयुत्सवः 07034007a समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् 07034007c असंभ्रान्तः शरौघेण महता समवारयत् 07034008a महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् 07034008c द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः 07034009a पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः 07034009c न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः 07034010a तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् 07034010c यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह 07034011a तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः 07034011c बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् 07034012a अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः 07034012c अविषह्यं गुरुं भारं सौभद्रे समवासृजत् 07034013a वासुदेवादनवरं फल्गुनाच्चामितौजसम् 07034013c अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः 07034014a एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु 07034014c चक्रव्यूहस्य न वयं विद्म भेदं कथंचन 07034015a त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा 07034015c चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते 07034016a अभिमन्यो वरं तात याचतां दातुमर्हसि 07034016c पितॄणां मातुलानां च सैन्यानां चैव सर्वशः 07034017a धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् 07034017c क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय 07034018 अभिमन्युरुवाच 07034018a द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि 07034018c पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च 07034019a उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने 07034019c नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि 07034020 युधिष्ठिर उवाच 07034020a भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः 07034020c वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि 07034021a धनंजयसमं युद्धे त्वां वयं तात संयुगे 07034021c प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः 07034022 भीम उवाच 07034022a अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः 07034022c पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः 07034023a सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः 07034023c वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् 07034024 अभिमन्युरुवाच 07034024a अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् 07034024c पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् 07034025a तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः 07034025c मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे 07034026a शिशुनैकेन संग्रामे काल्यमानानि संघशः 07034026c अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया 07034027 युधिष्ठिर उवाच 07034027a एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् 07034027c यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् 07034028a रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः 07034028c साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः 07034029 संजय उवाच 07034029a तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् 07034029c सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय 07035001 संजय उवाच 07035001a सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः 07035001c अचोदयत यन्तारं द्रोणानीकाय भारत 07035002a तेन संचोद्यमानस्तु याहि याहीति सारथिः 07035002c प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः 07035003a अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः 07035003c संप्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि 07035004a आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः 07035004c अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः 07035005a ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् 07035005c सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा 07035006a ऐरावतगतं शक्रं सहामरगणैरहम् 07035006c योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः 07035006e न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् 07035007a अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज 07035007c पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति 07035008a ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः 07035008c याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् 07035009a ततः संचोदयामास हयानस्य त्रिहायनान् 07035009c नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् 07035010a ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः 07035010c द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः 07035011a तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः 07035011c अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः 07035012a स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः 07035012c युयुत्सया द्रोणमुखान्महारथा;न्समासदत्सिंहशिशुर्यथा गजान् 07035013a ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे 07035013c आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव 07035014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 07035014c संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः 07035015a प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे 07035015c द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः 07035016a तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् 07035016c हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः 07035017a नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः 07035017c हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः 07035018a घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति 07035018c असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः 07035019a बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि 07035019c संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् 07035020a तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् 07035020c क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः 07035021a ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः 07035021c अभिपेतुस्तमेवाजौ शलभा इव पावकम् 07035022a ततस्तेषां शरीरैश्च शरीरावयवैश्च सः 07035022c संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे 07035023a बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् 07035023c सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् 07035024a सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् 07035024c सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् 07035025a सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् 07035025c समुद्गरक्षेपणीयान्सपाशपरिघोपलान् 07035026a सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् 07035026c संचिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः 07035027a तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः 07035027c पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष 07035028a सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः 07035028c संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु 07035029a चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः 07035029c विनालनलिनाकारैर्दिवाकरशशिप्रभैः 07035030a हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः 07035030c द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः 07035031a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 07035031c वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् 07035032a विजङ्घकूबराक्षांश्च विनेमीननरानपि 07035032c विचक्रोपस्करोपस्थान्भग्नोपकरणानपि 07035033a प्रशातितोपकरणान्हतयोधान्सहस्रशः 07035033c शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत 07035034a पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् 07035034c तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् 07035035a घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् 07035035c शरैर्निशितधाराग्रैः शात्रवाणामशातयत् 07035036a वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 07035036c स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः 07035037a स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः 07035037c विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् 07035038a निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् 07035038c हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् 07035039a निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् 07035039c निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत 07035040a एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् 07035040c तथा विमथितं तेन त्र्यङ्गं तव बलं महत् 07035040e व्यहनत्स पदात्योघांस्त्वदीयानेव भारत 07035041a एवमेकेन तां सेनां सौभद्रेण शितैः शरैः 07035041c भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् 07035042a त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश 07035042c संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः 07035043a पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07035043c गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः 07035044a हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान् 07035044c प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् 07036001 संजय उवाच 07036001a तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा 07036001c दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् 07036002a ततो राजानमावृत्तं सौभद्रं प्रति संयुगे 07036002c दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् 07036003a पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् 07036003c तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् 07036004a ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः 07036004c त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् 07036005a द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः 07036005c बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः 07036006a पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् 07036006c सौभद्रं शरवर्षेण महता समवाकिरन् 07036007a संमोहयित्वा तमथ दुर्योधनममोचयन् 07036007c आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः 07036008a ताञ्शरौघेण महता साश्वसूतान्महारथान् 07036008c विमुखीकृत्य सौभद्रः सिंहनादमथानदत् 07036009a तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः 07036009c नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः 07036010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07036010c व्यसृजन्निषुजालानि नानालिङ्गानि संघशः 07036011a तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः 07036011c तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् 07036012a ततस्ते कोपितास्तेन शरैराशीविषोपमैः 07036012c परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् 07036013a समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् 07036013c अभिमन्युर्दधारैको वेलेव मकरालयम् 07036014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 07036014c अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः 07036015a तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे 07036015c दुःसहो नवभिर्बाणैरभिमन्युमविध्यत 07036016a दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः 07036016c द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः 07036017a विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः 07036017c बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः 07036018a भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः 07036018c द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः 07036019a स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः 07036019c नृत्यन्निव महाराज चापहस्तः प्रतापवान् 07036020a ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः 07036020c विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् 07036021a गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः 07036021c दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् 07036021e विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् 07036022a तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् 07036022c बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् 07036023a ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे 07036023c संचचाल बलं सर्वं पलायनपरायणम् 07036024a ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः 07036024c शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः 07036025a वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः 07036025c वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः 07036025e दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् 07036026a सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः 07036026c शरमादत्त कर्णाय परकायावभेदनम् 07036027a तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः 07036027c प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 07036028a स तेनातिप्रहारेण व्यथितो विह्वलन्निव 07036028c संचचाल रणे कर्णः क्षितिकम्पे यथाचलः 07036029a अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् 07036029c कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली 07036030a कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् 07036030c अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः 07036031a स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः 07036031c विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः 07036032a शल्यं च बाणवर्षेण समीपस्थमवाकिरत् 07036032c उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् 07036033a ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः 07036033c शल्यो राजन्रथोपस्थे निषसाद मुमोह च 07036034a तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना 07036034c संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः 07036035a प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् 07036035c त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव 07036036a स तु रणयशसाभिपूज्यमानः; पितृसुरचारणसिद्धयक्षसंघैः 07036036c अवनितलगतैश्च भूतसंघै;रतिविबभौ हुतभुग्यथाज्यसिक्तः 07037001 धृतराष्ट्र उवाच 07037001a तथा प्रमथमानं तं महेष्वासमजिह्मगैः 07037001c आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् 07037002 संजय उवाच 07037002a शृणु राजन्कुमारस्य रणे विक्रीडितं महत् 07037002c बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् 07037003a मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे 07037003c शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् 07037004a स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् 07037004c उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् 07037005a तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् 07037005c छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् 07037006a चक्रे युगेषां तूणीराननुकर्षं च सायकैः 07037006c पताकां चक्रगोप्तारौ सर्वोपकरणानि च 07037006e व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन 07037007a स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः 07037007c वायुनेव महाचैत्यः संभग्नोऽमिततेजसा 07037007e अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् 07037008a आर्जुनेः कर्म तद्दृष्ट्व प्रणेदुश्च समन्ततः 07037008c नादेन सर्वभूतानि साधु साध्विति भारत 07037009a शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः 07037009c कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् 07037010a अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः 07037010c रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः 07037011a बाणशब्देन महता खुरनेमिस्वनेन च 07037011c हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः 07037012a ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् 07037012c ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति 07037013a तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव 07037013c यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः 07037014a संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च 07037014c आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत 07037015a वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात् 07037015c अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् 07037016a दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः 07037016c संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत 07037017a चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत 07037017c तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा 07037018a ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः 07037018c महाशनिमुचः काले पयोदस्येव निस्वनः 07037019a ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः 07037019c संमिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत 07037020a मृदुर्भूत्वा महाराज दारुणः समपद्यत 07037020c वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः 07037021a शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् 07037021c मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः 07037022a क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः 07037022c नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि 07037023a अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः 07037023c ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् 07038001 धृतराष्ट्र उवाच 07038001a द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय 07038001c मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् 07038002a विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः 07038002c विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह 07038003 संजय उवाच 07038003a हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् 07038003c एकस्य च बहूनां च यथासीत्तुमुलो रणः 07038004a अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् 07038004c रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् 07038005a द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् 07038005c दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् 07038006a नानानृपान्नृपसुतान्सैन्यानि विविधानि च 07038006c अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् 07038007a निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् 07038007c अदर्शयत तेजस्वी दिक्षु सर्वासु भारत 07038008a तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः 07038008c समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः 07038009a अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् 07038009c हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् 07038010a घट्टयन्निव मर्माणि तव पुत्रस्य मारिष 07038010c अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् 07038011a एष गच्छति सौभद्रः पार्थानामग्रतो युवा 07038011c नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् 07038012a नकुलं सहदेवं च भीमसेनं च पाण्डवम् 07038012c बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा 07038013a नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् 07038013c इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति 07038014a द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः 07038014c आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव 07038015a अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् 07038015c दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् 07038016a सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः 07038016c अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति 07038017a न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः 07038017c किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः 07038018a अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति 07038018c पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् 07038019a संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः 07038019c आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् 07038020a एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः 07038020c संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः 07038021a दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा 07038021c अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः 07038022a अहमेनं हनिष्यामि महाराज ब्रवीमि ते 07038022c मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् 07038022e ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् 07038023a उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः 07038023c श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ 07038023e गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः 07038024a तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः 07038024c एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् 07038025a तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव 07038025c शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव 07038026a एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव 07038026c सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् 07038027a तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः 07038027c अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् 07038028a दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः 07038028c अयोधयत सौभद्रमभिमन्युश्च तं रणे 07038029a तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् 07038029c चरमाणावयुध्येतां रथशिक्षाविशारदौ 07038030a अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् 07038030c निनदमतिभृशं नराः प्रचक्रु;र्लवणजलोद्भवसिंहनादमिश्रम् 07039001 संजय उवाच 07039001a शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् 07039001c अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् 07039002a दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम् 07039002c निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् 07039003a यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः 07039003c कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः 07039003e जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता 07039004a परवित्तापहारस्य क्रोधस्याप्रशमस्य च 07039004c लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च 07039005a पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् 07039005c तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् 07039006a सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते 07039006c शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः 07039007a अद्याहमनृणस्तस्य कोपस्य भविता रणे 07039007c अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः 07039008a अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि 07039008c न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् 07039009a एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् 07039009c संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् 07039010a तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् 07039010c अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् 07039011a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07039011c दुःशासनो महाराज कश्मलं चाविशन्महत् 07039012a सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् 07039012c रणमध्यादपोवाह सौभद्रशरपीडितम् 07039013a पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् 07039013c पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् 07039014a वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः 07039014c प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः 07039015a पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् 07039015c अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् 07039016a धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा 07039016c धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः 07039017a सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ 07039017c केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः 07039018a पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः 07039018c अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः 07039019a ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह 07039019c जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् 07039020a दुर्योधनो महाराज राधेयमिदमब्रवीत् 07039020c पश्य दुःशासनं वीरमभिमन्युवशं गतम् 07039021a प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे 07039021c सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः 07039022a ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् 07039022c अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव 07039023a तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः 07039023c अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे 07039024a अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः 07039024c अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः 07039025a तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे 07039025c आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् 07039026a ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् 07039026c सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् 07039027a सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् 07039027c समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् 07039028a स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः 07039028c समरेऽमरसंकाशः सौभद्रो न व्यषीदत 07039029a ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः 07039029c छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् 07039029e स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् 07039030a ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः 07039030c सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् 07039031a तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः 07039031c वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः 07040001 संजय उवाच 07040001a सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः 07040001c तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् 07040002a सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् 07040002c सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव 07040003a पितृपैतामहं कर्म कुर्वाणमतिमानुषम् 07040003c दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् 07040004a तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा 07040004c शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि 07040005a कर्णिकारमिवोद्धूतं वातेन मथितं नगात् 07040005c भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ 07040006a विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः 07040006c अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे 07040007a ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् 07040007c झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः 07040008a कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना 07040008c अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत 07040009a शलभैरिव चाकाशे धाराभिरिव चावृते 07040009c अभिमन्योः शरै राजन्न प्राज्ञायत किंचन 07040010a तावकानां तु योधानां वध्यतां निशितैः शरैः 07040010c अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत 07040011a सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः 07040011c शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ 07040012a स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् 07040012c मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत 07040013a रथनागाश्वमनुजानर्दयन्निशितैः शरैः 07040013c स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम् 07040014a सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः 07040014c स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः 07040015a ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः 07040015c निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम् 07040016a सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07040016c दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः 07040017a शराश्चापानि खड्गाश्च शरीराणि शिरांसि च 07040017c सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः 07040018a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07040018c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः 07040018e शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः 07040019a निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते 07040019c अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा 07040020a वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् 07040020c प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः 07040020e स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् 07040021a सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् 07040021c व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् 07040022a तं तदा नानुपश्याम सैन्येन रजसावृतम् 07040022c आददानं गजाश्वानां नृणां चायूंषि भारत 07040023a क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा 07040023c अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् 07040024a स वासवसमः संख्ये वासवस्यात्मजात्मजः 07040024c अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत 07041001 धृतराष्ट्र उवाच 07041001a बालमत्यन्तसुखिनमवार्यबलदर्पितम् 07041001c युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् 07041002a गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः 07041002c अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी 07041003 संजय उवाच 07041003a युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ 07041003c धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः 07041003e धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे 07041004a अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः 07041004c तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् 07041005a ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् 07041005c जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् 07041006a सैन्धवस्य महाराज पुत्रो राजा जयद्रथः 07041006c स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् 07041007a उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् 07041007c वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् 07041008 धृतराष्ट्र उवाच 07041008a अतिभारमहं मन्ये सैन्धवे संजयाहितम् 07041008c यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् 07041009a अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे 07041009c तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः 07041010a किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः 07041010c सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् 07041011 संजय उवाच 07041011a द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः 07041011c मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः 07041012a इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः 07041012c क्षुत्पिपासातपसहः कृशो धमनिसंततः 07041012e देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् 07041013a भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् 07041013c स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् 07041013e वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि 07041014a एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः 07041014c उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् 07041015a पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् 07041015c एको रणे धारयेयं समस्तानिति भारत 07041016a एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् 07041016c ददामि ते वरं सौम्य विना पार्थं धनंजयम् 07041017a धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् 07041017c एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः 07041018a स तेन वरदानेन दिव्येनास्त्रबलेन च 07041018c एकः संधारयामास पाण्डवानामनीकिनीम् 07041019a तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् 07041019c परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् 07041020a दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् 07041020c उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् 07042001 संजय उवाच 07042001a यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् 07042001c शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् 07042002a तमूहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः 07042002c विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः 07042003a गन्धर्वनगराकारं विधिवत्कल्पितं रथम् 07042003c तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् 07042004a श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च 07042004c स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे 07042005a मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् 07042005c वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् 07042006a स विस्फार्य महच्चापं किरन्निषुगणान्बहून् 07042006c तत्खण्डं पूरयामास यद्व्यदारयदार्जुनिः 07042007a स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् 07042007c धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः 07042008a द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् 07042008c केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः 07042009a युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् 07042009c इषुजालेन महता तदद्भुतमिवाभवत् 07042010a अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् 07042010c चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् 07042011a अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् 07042011c विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभिस्त्रिभिः 07042012a तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिः पुनः 07042012c धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् 07042013a सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् 07042013c भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष 07042014a स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् 07042014c सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी 07042015a ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः 07042015c सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् 07042016a संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा 07042016c तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् 07042017a सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः 07042017c पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः 07042018a यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः 07042018c पाण्डवाश्चान्वपद्यन्त प्रत्यैकश्येन सैन्धवम् 07042019a यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः 07042019c तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् 07043001 संजय उवाच 07043001a सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु 07043001c सुघोरमभवद्युद्धं त्वदीयानां परैः सह 07043002a प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् 07043002c व्यक्षोभयत तेजस्वी मकरः सागरं यथा 07043003a तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् 07043003c यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः 07043004a तेषां तस्य च संमर्दो दारुणः समपद्यत 07043004c सृजतां शरवर्षाणि प्रसक्तममितौजसाम् 07043005a रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः 07043005c वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् 07043006a तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः 07043006c वातायमानैरथ तैरश्वैरपहृतो रणात् 07043007a तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् 07043007c रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः 07043008a तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन् 07043008c आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् 07043009a सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् 07043009c अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे 07043010a तमयस्मयवर्माणमिषुणा आशुपातिना 07043010c विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ 07043011a वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः 07043011c परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः 07043012a विस्फारयन्तश्चापानि नानारूपाण्यनेकशः 07043012c तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह 07043013a तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च 07043013c सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः 07043014a सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः 07043014c अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 07043015a स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 07043015c वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः 07043016a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07043016c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः 07043017a अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः 07043017c रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही 07043018a निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः 07043018c जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत 07043019a दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा 07043019c रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत 07043020a काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च 07043020c धनुषश्च शराणां च तदपश्याम केवलम् 07043021a तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् 07043021c आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् 07044001 संजय उवाच 07044001a आददानस्तु शूराणामायूंष्यभवदार्जुनिः 07044001c अन्तकः सर्वभूतानां प्राणान्काल इवागते 07044002a स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली 07044002c अभिमन्युस्तदानीकं लोडयन्बह्वशोभत 07044003a प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः 07044003c सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् 07044004a सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः 07044004c प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् 07044005a अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः 07044005c स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् 07044006a क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् 07044006c जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे 07044007a ये केचन गतास्तस्य समीपमपलायिनः 07044007c न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः 07044008a महाग्राहगृहीतेव वातवेगभयार्दिता 07044008c समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे 07044009a अथ रुक्मरथो नाम मद्रेश्वरसुतो बली 07044009c त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् 07044010a अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते 07044010c अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः 07044011a एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् 07044011c सुकल्पितेनोह्यमानः स्यन्दनेन विराजता 07044012a सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् 07044012c त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः 07044013a स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ 07044013c भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् 07044014a दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् 07044014c जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना 07044015a संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः 07044015c वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः 07044016a तालमात्राणि चापानि विकर्षन्तो महारथाः 07044016c आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् 07044017a शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः 07044017c दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् 07044018a छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् 07044018c वैवस्वतस्य भवनं गतमेनममन्यत 07044019a सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः 07044019c अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः 07044020a ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष 07044020c आचितं समपश्याम श्वाविधं शललैरिव 07044021a स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः 07044021c गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् 07044022a अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् 07044022c तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् 07044023a एकः स शतधा राजन्दृश्यते स्म सहस्रधा 07044023c अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन् 07044024a रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः 07044024c बिभेद शतधा राजञ्शरीराणि महीक्षिताम् 07044025a प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः 07044025c राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः 07044026a धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् 07044026c शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः 07044027a चूतारामो यथा भग्नः पञ्चवर्षफलोपगः 07044027c राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् 07044028a क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान् 07044028c एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् 07044029a रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् 07044029c दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः 07044030a तयोः क्षणमिवापूर्णः संग्रामः समपद्यत 07044030c अथाभवत्ते विमुखः पुत्रः शरशतार्दितः 07045001 धृतराष्ट्र उवाच 07045001a यथा वदसि मे सूत एकस्य बहुभिः सह 07045001c संग्रामं तुमुलं घोरं जयं चैव महात्मनः 07045002a अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् 07045002c किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः 07045003a दुर्योधनेऽथ विमुखे राजपुत्रशते हते 07045003c सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः 07045004 संजय उवाच 07045004a संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः 07045004c पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 07045005a हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्संबन्धिबान्धवान् 07045005c उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् 07045006a तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः 07045006c कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः 07045007a अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् 07045007c तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः 07045008a एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः 07045008c इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् 07045009a तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत 07045009c अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः 07045010a तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः 07045010c स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् 07045011a पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् 07045011c पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् 07045012a अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् 07045012c आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् 07045013a लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा 07045013c शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः 07045014a संक्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः 07045014c पौत्रस्तव महाराज तव पौत्रमभाषत 07045015a सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि 07045015c पश्यतां बान्धवानां त्वां नयामि यमसादनम् 07045016a एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा 07045016c उद्बबर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् 07045017a स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् 07045017c सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् 07045017e लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः 07045018a ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते 07045018c हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः 07045019a ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः 07045019c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 07045020a स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः 07045020c वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् 07045021a आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः 07045021c कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् 07045021e तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते 07045022a ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः 07045022c यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे 07045023a ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् 07045023c अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः 07045023e परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः 07045024a तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् 07045024c शरौघेणाप्रमेयेण त्वरमाणो जिघांसया 07045025a सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः 07045025c छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् 07045026a कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च 07045026c युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन् 07046001 धृतराष्ट्र उवाच 07046001a तथा प्रविष्टं तरुणं सौभद्रमपराजितम् 07046001c कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् 07046002a आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः 07046002c प्लवमानमिवाकाशे के शूराः समवारयन् 07046003 संजय उवाच 07046003a अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः 07046003c अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः 07046004a तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः 07046004c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 07046005a दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् 07046005c सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् 07046006a सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः 07046006c तालमात्राणि चापानि विकर्षन्तो महारथाः 07046007a तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् 07046007c व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा 07046008a द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् 07046008c अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः 07046009a रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः 07046009c अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः 07046010a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 07046010c फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा 07046011a पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी 07046011c अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 07046012a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 07046012c पुत्राणां तव वीराणां पश्यतामवधीद्बली 07046013a तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 07046013c वरं वरममित्राणामारुजन्तमभीतवत् 07046014a स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष 07046014c पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः 07046015a षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः 07046015c उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् 07046016a स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः 07046016c प्रत्यविध्यन्महातेजा बलवानपकारिणम् 07046017a तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् 07046017c अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे 07046018a कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश 07046018c बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश 07046019a तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः 07046019c तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः 07046020a तं कोसलानामधिपः कर्णिनाताडयद्धृदि 07046020c स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ 07046021a अथ कोसलराजस्तु विरथः खड्गचर्मधृत् 07046021c इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् 07046022a स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् 07046022c हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् 07046023a बभञ्ज च सहस्राणि दश राजन्महात्मनाम् 07046023c सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् 07046024a तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे 07046024c विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः 07047001 संजय उवाच 07047001a स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः 07047001c शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् 07047002a प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः 07047002c स तैराचितसर्वाङ्गो बह्वशोभत भारत 07047003a कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् 07047003c कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः 07047004a तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ 07047004c बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ 07047005a अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः 07047005c साश्वसूतध्वजरथान्सौभद्रो निजघान ह 07047006a अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः 07047006c प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् 07047007a मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः 07047007c साश्वं ससूतं तरुणमश्वकेतुमपातयत् 07047008a मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् 07047008c क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् 07047009a तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् 07047009c सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् 07047010a ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः 07047010c संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् 07047011a पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा 07047011c दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे 07047012a एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् 07047012c नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् 07047013a तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् 07047013c तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् 07047014a तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी 07047014c तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् 07047015a शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् 07047015c सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् 07047016a तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् 07047016c सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः 07047017a अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा 07047017c पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः 07047018a ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत 07047018c अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति 07047019a अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् 07047019c शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत 07047020a धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते 07047020c संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः 07047021a आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः 07047021c प्रहर्षयति मा भूयः सौभद्रः परवीरहा 07047022a अति मा नन्दयत्येष सौभद्रो विचरन्रणे 07047022c अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः 07047023a अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः 07047023c न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः 07047024a अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः 07047024c स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना 07047025a तेजस्विनः कुमारस्य शराः परमदारुणाः 07047025c क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः 07047026a तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव 07047026c अभेद्यमस्य कवचं युवा चाशुपराक्रमः 07047027a उपदिष्टा मया अस्य पितुः कवचधारणा 07047027c तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः 07047028a शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः 07047028c अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी 07047029a एतत्कुरु महेष्वास राधेय यदि शक्यते 07047029c अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु 07047030a सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः 07047030c विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि 07047031a तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् 07047031c अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् 07047032a अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी 07047032c शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् 07047033a त्वरमाणास्त्वराकाले विरथं षण्महारथाः 07047033c शरवर्षैरकरुणा बालमेकमवाकिरन् 07047034a स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् 07047034c खड्गचर्मधरः श्रीमानुत्पपात विहायसम् 07047035a मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च 07047035c आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव 07047036a मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः 07047036c विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः 07047037a तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् 07047037c राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् 07047038a व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् 07047038c आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत 07047039a स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः 07047039c रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन् 07047040a स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः 07047040c प्रभुरमितबलो रणेऽभिमन्यु;र्नृपवरमध्यगतो भृशं व्यराजत् 07048001 संजय उवाच 07048001a विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः 07048001c रराजातिरथः संख्ये जनार्दन इवापरः 07048002a मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् 07048002c वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि 07048003a तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा 07048003c महारथस्ततः कार्ष्णिः संजग्राह महागदाम् 07048004a विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः 07048004c अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् 07048005a स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव 07048005c अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः 07048006a तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी 07048006c शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत 07048007a ततः सुबलदायादं कालकेयमपोथयत् 07048007c जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् 07048008a पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश 07048008c केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् 07048008e दौःशासनिरथं साश्वं गदया समपोथयत् 07048009a ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष 07048009c अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् 07048010a तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ 07048010c भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ 07048011a तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ 07048011c इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ 07048012a दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः 07048012c प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् 07048013a गदावेगेन महता व्यायामेन च मोहितः 07048013c विचेता न्यपतद्भूमौ सौभद्रः परवीरहा 07048013e एवं विनिहतो राजन्नेको बहुभिराहवे 07048014a क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः 07048014c अशोभत हतो वीरो व्याधैर्वनगजो यथा 07048015a तं तथा पतितं शूरं तावकाः पर्यवारयन् 07048015c दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये 07048016a विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् 07048016c अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् 07048017a उपप्लुतं यथा सोमं संशुष्कमिव सागरम् 07048017c पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् 07048018a तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः 07048018c मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः 07048019a आसीत्परमको हर्षस्तावकानां विशां पते 07048019c इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् 07048020a अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते 07048020c दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् 07048021a द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः 07048021c एकोऽयं निहतः शेते नैष धर्मो मतो हि नः 07048022a तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी 07048022c द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी 07048023a रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता 07048023c उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः 07048024a विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता 07048024c चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः 07048025a रथाश्वनरनागानामलंकारैश्च सुप्रभैः 07048025c खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव 07048026a चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः 07048026c विविधैरायुधैश्चान्यैः संवृता भूरशोभत 07048027a वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः 07048027c सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः 07048028a साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः 07048028c पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः 07048029a पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः 07048029c ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः 07048030a पदातिसंघैश्च हतैर्विविधायुधभूषणैः 07048030c भीरूणां त्रासजननी घोररूपाभवन्मही 07048031a तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् 07048031c तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा 07048032a अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने 07048032c संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः 07048033a दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते 07048033c अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् 07048034a स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः 07048034c संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् 07048035a इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः 07048035c धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् 07048036a युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् 07048036c पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् 07048037a हत्वा दशसहस्राणि कौसल्यं च महारथम् 07048037c कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् 07048038a रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः 07048038c अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् 07048039a वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः 07048039c निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः 07048040a निरीक्षमाणास्तु वयं परे चायोधनं शनैः 07048040c अपयाता महाराज ग्लानिं प्राप्ता विचेतसः 07048041a ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिरवर्तताद्भुतः 07048041c कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम् 07048042a वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम् 07048042c दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम् 07048043a महाभ्रकूटाचलशृङ्गसंनिभै;र्गजैरनेकैरिव वज्रपातितैः 07048043c सवैजयन्त्यङ्कुशवर्मयन्तृभि;र्निपातितैर्निष्टनतीव गौश्चिता 07048044a हतेश्वरैश्चूर्णितपत्त्युपस्करै;र्हताश्वसूतैर्विपताककेतुभिः 07048044c महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप 07048045a रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः 07048045c निरस्तजिह्वादशनान्त्रलोचनै;र्धरा बभौ घोरविरूपदर्शना 07048046a प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः 07048046c महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः 07048047a अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः 07048047c वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसंघाश्च सुदारुणा रणे 07048048a त्वचो विनिर्भिद्य पिबन्वसामसृ;क्तथैव मज्जां पिशितानि चाश्नुवन् 07048048c वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः 07048049a शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा 07048049c मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी 07048050a महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी 07048050c उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी 07048051a पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः 07048051c सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः 07048052a तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम् 07048052c निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसंकुलम् 07048053a अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम् 07048053c रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम् 07049001 संजय उवाच 07049001a तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे 07049001c विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः 07049002a उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् 07049002c तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः 07049003a ततो युधिष्ठिरो राजा विललाप सुदुःखितः 07049003c अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे 07049004a द्रोणानीकमसंबाधं मम प्रियचिकीर्षया 07049004c भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी 07049005a यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे 07049005c प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः 07049006a अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः 07049006c क्षिप्रं ह्यभिमुखः संख्ये विसंज्ञो विमुखीकृतः 07049007a स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् 07049007c प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् 07049008a कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् 07049008c सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् 07049009a किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् 07049009c तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ 07049010a अहमेव सुभद्रायाः केशवार्जुनयोरपि 07049010c प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् 07049011a न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते 07049011c मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् 07049012a यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च 07049012c भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः 07049013a कथं हि बालस्तरुणो युद्धानामविशारदः 07049013c सदश्व इव संबाधे विषमे क्षेममर्हति 07049014a नो चेद्धि वयमप्येनं महीमनुशयीमहि 07049014c बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा 07049015a अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली 07049015c वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः 07049016a यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः 07049016c निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् 07049017a महेन्द्रशत्रवो येन हिरण्यपुरवासिनः 07049017c अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः 07049018a परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः 07049018c तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् 07049019a भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् 07049019c पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति 07049020a क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः 07049020c व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् 07049021a न मे जयः प्रीतिकरो न राज्यं; न चामरत्वं न सुरैः सलोकता 07049021c इमं समीक्ष्याप्रतिवीर्यपौरुषं; निपातितं देववरात्मजात्मजम् 07050001 संजय उवाच 07050001a तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये 07050001c आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते 07050002a व्यपयातेषु सैन्येषु वासाय भरतर्षभ 07050002c हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः 07050003a प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् 07050003c गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत 07050004a किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव 07050004c स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत 07050005a अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति 07050005c भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् 07050006a बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः 07050006c अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम 07050007 वासुदेव उवाच 07050007a व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति 07050007c मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति 07050008 संजय उवाच 07050008a ततः संध्यामुपास्यैव वीरौ वीरावसादने 07050008c कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ 07050009a ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् 07050009c वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् 07050010a ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा 07050010c बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः 07050011a नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन 07050011c मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह 07050011e वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह 07050012a मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च 07050012c स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः 07050013a योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः 07050013c कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् 07050014a अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव 07050014c न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् 07050015a अपि पाञ्चालराजस्य विराटस्य च मानद 07050015c सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत 07050016a न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह 07050016c रणादायान्तमुचितं प्रत्युद्याति हसन्निव 07050017a एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् 07050017c ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः 07050018a दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः 07050018c अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् 07050019a मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते 07050019c न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ 07050020a मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः 07050020c न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे 07050021a न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः 07050021c कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः 07050022a भित्त्वानीकं महेष्वासः परेषां बहुशो युधि 07050022c कच्चिन्न निहतः शेते सौभद्रः परवीरहा 07050023a लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु 07050023c उपेन्द्रसदृशं ब्रूत कथमायोधने हतः 07050024a सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् 07050024c सदा मम प्रियं ब्रूत कथमायोधने हतः 07050025a वार्ष्णेयीदयितं शूरं मया सततलालितम् 07050025c अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः 07050026a सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः 07050026c विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः 07050027a सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च 07050027c यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07050028a मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् 07050028c मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् 07050029a स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा 07050029c बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् 07050030a महोत्साहं महाबाहुं दीर्घराजीवलोचनम् 07050030c भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् 07050031a कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम् 07050031c युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् 07050032a स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् 07050032c न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम् 07050032e यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 07050033a सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् 07050033c अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे 07050034a तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् 07050034c अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे 07050035a रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् 07050035c अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे 07050036a अभिवादनदक्षं तं पितॄणां वचने रतम् 07050036c नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे 07050037a सुकुमारः सदा वीरो महार्हशयनोचितः 07050037c भूमावनाथवच्छेते नूनं नाथवतां वरः 07050038a शयानं समुपासन्ति यं पुरा परमस्त्रियः 07050038c तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः 07050039a यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः 07050039c बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः 07050040a छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् 07050040c नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति 07050041a हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने 07050041c भाग्यहीनस्य कालेन यथा मे नीयसे बलात् 07050042a साद्य संयमनी नूनं सदा सुकृतिनां गतिः 07050042c स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते 07050043a नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः 07050043c शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् 07050044a एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा 07050044c दुःखेन महताविष्टो युधिष्ठिरमपृच्छत 07050045a कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन 07050045c स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः 07050046a स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः 07050046c असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् 07050047a पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् 07050047c इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः 07050048a अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च 07050048c सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति 07050049a वज्रसारमयं नूनं हृदयं सुदृढं मम 07050049c अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते 07050050a कथं बाले महेष्वासे नृशंसा मर्मभेदिनः 07050050c स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् 07050051a यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति 07050051c उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति 07050052a नूनं स पतितः शेते धरण्यां रुधिरोक्षितः 07050052c शोभयन्मेदिनीं गात्रैरादित्य इव पातितः 07050053a रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति 07050053c सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती 07050053e द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् 07050054a वज्रसारमयं नूनं हृदयं यन्न यास्यति 07050054c सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् 07050055a हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः 07050055c युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् 07050056a अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः 07050056c किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् 07050057a किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे 07050057c सिंहवन्नदत प्रीताः शोककाल उपस्थिते 07050058a आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः 07050058c अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् 07050059a इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः 07050059c अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः 07050060a किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम 07050060c अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् 07050061a निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् 07050061c मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् 07050062a सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् 07050062c क्षत्रियाणां विशेषेण येषां युद्धेन जीविका 07050063a एषा वै युध्यमानानां शूराणामनिवर्तिनाम् 07050063c विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर 07050064a ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् 07050064c गतः पुण्यकृतां लोकानभिमन्युर्न संशयः 07050065a एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ 07050065c संग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद 07050066a स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् 07050066c वीरैराकाङ्क्षितं मृत्युं संप्राप्तोऽभिमुखो रणे 07050067a मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः 07050067c धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः 07050068a इमे ते भ्रातरः सर्वे दीना भरतसत्तम 07050068c त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव 07050069a एतांस्त्वं वचसा साम्ना समाश्वासय मानद 07050069c विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि 07050070a एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा 07050070c ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् 07050071a स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः 07050071c अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा 07050072a सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया 07050072c संग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः 07050073a कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् 07050073c सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः 07050074a यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम 07050074c पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः 07050075a कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् 07050075c नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः 07050076a अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः 07050076c यत्राभिमन्युः समरे पश्यतां वो निपातितः 07050077a आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् 07050077c युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् 07050078a आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः 07050078c वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् 07050079a एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् 07050079c न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् 07050080a तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः 07050080c पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा 07050081a नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् 07050081c अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात् 07050082a सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ 07050082c बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः 07050083a ततस्तं पुत्रशोकेन भृशं पीडितमानसम् 07050083c राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् 07051001 युधिष्ठिर उवाच 07051001a त्वयि याते महाबाहो संशप्तकबलं प्रति 07051001c प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम 07051002a व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः 07051002c प्रतिव्यूह्य रथानीकं यतमानं तथा रणे 07051003a स वार्यमाणो रथिभी रक्षितेन मया तथा 07051003c अस्मानपि जघानाशु पीडयन्निशितैः शरैः 07051004a ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः 07051004c प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु 07051005a वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् 07051005c उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो 07051006a स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् 07051006c असह्यमपि तं भारं वोढुमेवोपचक्रमे 07051007a स तवास्त्रोपदेशेन वीर्येण च समन्वितः 07051007c प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् 07051008a तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे 07051008c प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् 07051009a ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः 07051009c वरदानेन रुद्रस्य सर्वान्नः समवारयत् 07051010a ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः 07051010c कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् 07051011a परिवार्य तु तैः सर्वैर्युधि बालो महारथैः 07051011c यतमानः परं शक्त्या बहुभिर्विरथीकृतः 07051012a ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् 07051012c संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् 07051013a स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् 07051013c राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् 07051014a बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह 07051014c ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् 07051015a एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् 07051015c स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् 07051016 संजय उवाच 07051016a ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् 07051016c हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि 07051017a विषण्णवदनाः सर्वे परिगृह्य धनंजयम् 07051017c नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् 07051018a प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः 07051018c कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः 07051019a पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् 07051019c उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् 07051020a सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् 07051020c न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति 07051021a न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् 07051021c भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् 07051022a धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् 07051022c पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् 07051023a रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन 07051023c अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः 07051024a यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः 07051024c मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् 07051025a ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् 07051025c गुरुदारगामिनां ये च पिशुनानां च ये तथा 07051026a साधूनसूयतां ये च ये चापि परिवादिनाम् 07051026c ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् 07051027a भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् 07051027c ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि 07051028a पायसं वा यवान्नं वा शाकं कृसरमेव वा 07051028c संयावापूपमांसानि ये च लोका वृथाश्नताम् 07051028e तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् 07051029a वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् 07051029c अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् 07051030a स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् 07051030c याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः 07051030e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 07051031a नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः 07051031c उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः 07051031e आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् 07051032a भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा 07051032c असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् 07051032e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 07051033a संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् 07051033c न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् 07051034a अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च 07051034c अनर्हते च यो दद्याद्वृषलीपत्युरेव च 07051035a मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः 07051035c तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् 07051036a धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः 07051036c ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् 07051036e यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् 07051037a इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत 07051037c यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति 07051037e इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम् 07051038a असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा 07051038c चरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः 07051039a यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा 07051039c तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता 07051040a एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् 07051040c तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् 07051041a अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः 07051041c प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः 07051042a स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः 07051042c जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा 07051043a ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः 07051043c सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना 07052001 संजय उवाच 07052001a श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् 07052001c चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः 07052002a शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् 07052002c मज्जमान इवागाधे विपुले शोकसागरे 07052003a जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु 07052003c स तेषां नरदेवानां सकाशे परिदेवयन् 07052004a अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् 07052004c योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना 07052005a स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् 07052005c तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया 07052006a अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः 07052006c पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् 07052007a द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः 07052007c दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् 07052008a किमङ्ग पुनरेकेन फल्गुनेन जिघांसता 07052008c न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः 07052009a प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् 07052009c सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः 07052010a वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना 07052010c तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः 07052011a न देवा न च गन्धर्वा नासुरोरगराक्षसाः 07052011c उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः 07052012a तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः 07052012c अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः 07052013a एवं विलपमानं तं भयाद्व्याकुलचेतसम् 07052013c आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् 07052014a न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ 07052014c मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि 07052015a अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः 07052015c भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः 07052016a पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः 07052016c सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः 07052017a दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः 07052017c विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः 07052018a त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः 07052018c स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव 07052019a अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे 07052019c यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् 07052020a एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः 07052020c दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् 07052021a उपसंग्रहणं कृत्वा द्रोणाय स विशां पते 07052021c उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा 07052022a निमित्ते दूरपातित्वे लघुत्वे दृढवेधने 07052022c मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च 07052023a विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः 07052023c ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे 07052024 द्रोण उवाच 07052024a सममाचार्यकं तात तव चैवार्जुनस्य च 07052024c योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः 07052025a न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन 07052025c अहं हि रक्षिता तात भयात्त्वां नात्र संशयः 07052026a न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि 07052026c व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति 07052027a तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय 07052027c पितृपैतामहं मार्गमनुयाहि नराधिप 07052028a अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया 07052028c इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् 07052029a दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु 07052029c भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् 07052030a कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः 07052030c अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् 07052031a पर्यायेण वयं सर्वे कालेन बलिना हताः 07052031c परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः 07052032a तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः 07052032c क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् 07052033 संजय उवाच 07052033a एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः 07052033c अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे 07053001 संजय उवाच 07053001a प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा 07053001c वासुदेवो महाबाहुर्धनंजयमभाषत 07053002a भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् 07053002c सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् 07053003a असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः 07053003c कथं नु सर्वलोकस्य नावहास्या भवेमहि 07053004a धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः 07053004c त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः 07053005a त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा 07053005c सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः 07053006a तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः 07053006c नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः 07053007a सुमहाञ्शब्दसंपातः कौरवाणां महाभुज 07053007c आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः 07053008a अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः 07053008c रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः 07053009a तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव 07053009c प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन 07053010a ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव 07053010c आसन्सुयोधनामात्याः स च राजा जयद्रथः 07053011a अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः 07053011c आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः 07053012a स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः 07053012c सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि 07053013a मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः 07053013c प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम 07053014a तां न देवा न गन्धर्वा नासुरोरगराक्षसाः 07053014c उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः 07053015a ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः 07053015c पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् 07053016a अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन 07053016c अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति 07053017a एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः 07053017c श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत 07053018a तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः 07053018c मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् 07053019a नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् 07053019c योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे 07053020a वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः 07053020c कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः 07053021a महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा 07053021c पदातिना महातेजा गिरौ हिमवति प्रभुः 07053022a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 07053022c जघानैकरथेनैव देवराजप्रचोदितः 07053023a समायुक्तो हि कौन्तेयो वासुदेवेन धीमता 07053023c सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः 07053024a सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना 07053024c द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे 07053025a स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन 07053025c संविधानं च विहितं रथाश्च किल सज्जिताः 07053026a कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः 07053026c कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः 07053027a शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः 07053027c पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः 07053027e स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः 07053028a धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि 07053028c अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः 07053028e एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः 07053029a तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय 07053029c सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा 07053030a भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै 07053030c मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये 07053031 अर्जुन उवाच 07053031a षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् 07053031c तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये 07053032a अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन 07053032c मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा 07053033a द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः 07053033c मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले 07053034a यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः 07053034c मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः 07053035a पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः 07053035c द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः 07053036a ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च 07053036c त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन 07053037a तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया 07053037c सत्येन ते शपे कृष्ण तथैवायुधमालभे 07053038a यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः 07053038c तमेव प्रथमं द्रोणमभियास्यामि केशव 07053039a तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः 07053039c तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् 07053040a द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः 07053040c शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि 07053041a नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् 07053041c पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः 07053042a गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे 07053042c नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः 07053043a यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया 07053043c उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि 07053044a ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे 07053044c मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् 07053045a शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः 07053045c आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि 07053046a क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् 07053046c सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् 07053047a बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः 07053047c मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति 07053048a सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे 07053048c मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः 07053049a तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः 07053049c नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि 07053050a गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ 07053050c त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया 07053051a यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् 07053051c एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन 07053052a मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् 07053052c मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम् 07053053a यथा हि यात्वा संग्रामे न जीये विजयामि च 07053053c तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् 07053054a ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः 07053054c श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः 07053055 संजय उवाच 07053055a एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना 07053055c संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् 07053056a यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम 07053056c तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् 07054001 संजय उवाच 07054001a तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ 07054001c निद्रां नैवोपलेभाते वासुदेवधनंजयौ 07054002a नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः 07054002c व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति 07054003a ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः 07054003c सकबन्धस्तथादित्ये परिघः समदृश्यत 07054004a शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः 07054004c चचाल चापि पृथिवी सशैलवनकानना 07054005a चुक्षुभुश्च महाराज सागरा मकरालयाः 07054005c प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः 07054006a रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् 07054006c क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये 07054007a वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह 07054007c तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् 07054008a सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ 07054008c श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः 07054009a अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः 07054009c आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह 07054010a स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव 07054010c साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो 07054011a ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः 07054011c भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् 07054012a मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा 07054012c सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता 07054013a कुले जतस्य वीरस्य क्षत्रियस्य विशेषतः 07054013c सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः 07054014a दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः 07054014c क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् 07054015a जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे 07054015c गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् 07054016a तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च 07054016c सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः 07054017a वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा 07054017c मा शुचस्तनयं भद्रे गतः स परमां गतिम् 07054018a प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः 07054018c अस्यावलेपस्य फलं ससुहृद्गणबान्धवः 07054019a व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् 07054019c न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् 07054020a श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् 07054020c समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः 07054021a क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् 07054021c यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः 07054022a व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् 07054022c गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि 07054023a अनु जातश्च पितरं मातृपक्षं च वीर्यवान् 07054023c सहस्रशो रिपून्हत्वा हतः शूरो महारथः 07054024a आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् 07054024c श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि 07054025a यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा 07054025c चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् 07054026a यदि च मनुजपन्नगाः पिशाचा; रजनिचराः पतगाः सुरासुराश्च 07054026c रणगतमभियान्ति सिन्धुराजं; न स भविता सह तैरपि प्रभाते 07055001 संजय उवाच 07055001a एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः 07055001c सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता 07055002a हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह 07055002c निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः 07055003a कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् 07055003c मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना 07055004a नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् 07055004c सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् 07055005a चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् 07055005c भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् 07055006a शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् 07055006c भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः 07055007a योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः 07055007c कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे 07055008a योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः 07055008c सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते 07055009a पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो 07055009c पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् 07055010a अतृप्तदर्शना पुत्र दर्शनस्य तवानघ 07055010c मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् 07055011a विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च 07055011c तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् 07055012a धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 07055012c धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् 07055013a धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् 07055013c ये त्वा रणे गतं वीरं न जानन्ति निपातितम् 07055014a अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् 07055014c अभिमन्युमपश्यन्ती शोकव्याकुललोचना 07055015a स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 07055015c कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् 07055016a हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे 07055016c अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् 07055017a इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् 07055017c कथं संधारयिष्यामि विवत्सामिव धेनुकाम् 07055018a अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक 07055018c विहाय फलकाले मां सुगृद्धां तव दर्शने 07055019a नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा 07055019c यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः 07055020a यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् 07055020c चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् 07055021a कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि 07055021c सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि 07055022a या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् 07055022c हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज 07055023a गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः 07055023c नैवेशिकं चाभिमतं ददतां या गतिः शुभा 07055024a ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः 07055024c एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक 07055025a राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती 07055025c चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः 07055026a दीनानुकम्पिनां या च सततं संविभागिनाम् 07055026c पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक 07055027a व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि 07055027c अमोघातिथिनां या च तां गतिं व्रज पुत्रक 07055028a ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् 07055028c न चान्यदारसेवीनां तां गतिं व्रज पुत्रक 07055029a साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः 07055029c नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि 07055030a मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् 07055030c परोपतापत्यक्तानां तां गतिं व्रज पुत्रक 07055031a ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः 07055031c यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक 07055032a एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् 07055032c अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा 07055033a ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः 07055033c उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ 07055034a सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः 07055034c सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः 07055035a विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् 07055035c भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् 07055036a सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् 07055036c गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः 07055037a ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने 07055037c सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः 07055038a कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः 07055038c कृतवान्यादृगद्यैकस्तव पुत्रो महारथः 07055039a एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् 07055039c पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः 07055040a ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः 07055040c विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम् 07056001 संजय उवाच 07056001a ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः 07056001c स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे 07056001e संतस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः 07056002a ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः 07056002c अलंचकार तां शय्यां परिवार्यायुधोत्तमैः 07056003a ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः 07056003c दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् 07056004a ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् 07056004c अलंकृत्योपहारं तं नैशमस्मै न्यवेदयत् 07056005a स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत 07056005c सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् 07056006a स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् 07056006c दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् 07056006e शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् 07056007a न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् 07056007c प्रजागरः सर्वजनमाविवेश विशां पते 07056008a पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना 07056008c सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना 07056009a तत्कथं नु महाबाहुर्वासविः परवीरहा 07056009c प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् 07056010a कष्टं हीदं व्यवसितं पाण्डवेन महात्मना 07056010c पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता 07056011a भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च 07056011c धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् 07056012a स हत्वा सैन्धवं संख्ये पुनरेतु धनंजयः 07056012c जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् 07056013a अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति 07056013c न ह्येतदनृतं कर्तुमर्हः पार्थो धनंजयः 07056014a धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने 07056014c तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः 07056015a यदि नः सुकृतं किंचिद्यदि दत्तं हुतं यदि 07056015c फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् 07056016a एवं कथयतां तेषां जयमाशंसतां प्रभो 07056016c कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत 07056017a तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः 07056017c स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत 07056018a अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना 07056018c जयद्रथं हनिष्यामि श्वोभूत इति दारुक 07056019a तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति 07056019c यथा जयद्रथं पार्थो न हन्यादिति संयुगे 07056020a अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् 07056020c द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः 07056021a एको वीरः सहस्राक्षो दैत्यदानवमर्दिता 07056021c सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् 07056022a सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 07056022c अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् 07056023a न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः 07056023c कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् 07056024a अनर्जुनमिमं लोकं मुहूर्तमपि दारुक 07056024c उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा 07056025a अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः 07056025c अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः 07056026a श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे 07056026c धनंजयार्थं समरे पराक्रान्तस्य दारुक 07056027a श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च 07056027c साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक 07056028a श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् 07056028c मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् 07056029a श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः 07056029c ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः 07056030a यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु 07056030c इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः 07056031a यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् 07056031c कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः 07056032a गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् 07056032c आरोप्य वै रथे सूत सर्वोपकरणानि च 07056033a स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे 07056033c वैनतेयस्य वीरस्य समरे रथशोभिनः 07056034a छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः 07056034c विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् 07056035a बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च 07056035c युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक 07056036a पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् 07056036c श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् 07056037a एकाह्नाहममर्षं च सर्वदुःखानि चैव ह 07056037c भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक 07056038a सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे 07056038c पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् 07056039a यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति 07056039c आशंसे सारथे तत्र भवितास्य ध्रुवो जयः 07056040 दारुक उवाच 07056040a जय एव ध्रुवस्तस्य कुत एव पराजयः 07056040c यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् 07056041a एवं चैतत्करिष्यामि यथा मामनुशाससि 07056041c सुप्रभातामिमां रात्रिं जयाय विजयस्य हि 07057001 संजय उवाच 07057001a कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः 07057001c प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः 07057002a तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् 07057002c आससाद महातेजा ध्यायन्तं गरुडध्वजः 07057003a प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनंजयः 07057003c नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा 07057004a प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ 07057004c न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा 07057005a ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् 07057005c कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् 07057006a मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः 07057006c कालः सर्वाणि भूतानि नियच्छति परे विधौ 07057007a किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर 07057007c न शोचितव्यं विदुषा शोकः कार्यविनाशनः 07057008a शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् 07057008c क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि 07057009a इत्युक्तो वासुदेवेन बीभत्सुरपराजितः 07057009c आबभाषे तदा विद्वानिदं वचनमर्थवत् 07057010a मया प्रतिज्ञा महती जयद्रथवधे कृता 07057010c श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव 07057011a मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत 07057011c पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः 07057012a दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः 07057012c प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः 07057013a दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते 07057013c द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् 07057014a शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः 07057014c संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः 07057015a इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः 07057015c हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः 07057016a पार्थ पाशुपतं नाम परमास्त्रं सनातनम् 07057016c येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः 07057017a यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् 07057017c अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् 07057018a तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय 07057018c ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् 07057019a ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः 07057019c भूमावासीन एकाग्रो जगाम मनसा भवम् 07057020a ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे 07057020c आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् 07057021a ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् 07057021c वायुवेगगतिः पार्थः खं भेजे सहकेशवः 07057022a केशवेन गृहीतः स दक्षिणे विभुना भुजे 07057022c प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् 07057023a उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् 07057023c कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् 07057024a सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् 07057024c सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् 07057025a सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् 07057025c पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् 07057026a मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् 07057026c हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् 07057026e तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् 07057027a स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् 07057027c पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् 07057027e ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि 07057028a सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च 07057028c पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च 07057029a वृषदंशं च शैलेन्द्रं महामन्दरमेव च 07057029c अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् 07057030a तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः 07057030c शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् 07057031a चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् 07057031c समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् 07057032a वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् 07057032c विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् 07057033a ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् 07057033c अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् 07057034a समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् 07057034c तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् 07057035a सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा 07057035c शूलिनं जटिलं गौरं वल्कलाजिनवाससम् 07057036a नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् 07057036c पार्वत्या सहितं देवं भूतसंघैश्च भास्वरैः 07057037a गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् 07057037c वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् 07057038a स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः 07057038c गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् 07057039a वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् 07057039c पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् 07057040a लोकादिं विश्वकर्माणमजमीशानमव्ययम् 07057040c मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् 07057041a स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् 07057041c देवदानवयक्षाणां मानवानां च साधनम् 07057042a योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् 07057042c चराचरस्य स्रष्टारं प्रतिहर्तारमेव च 07057043a कालकोपं महात्मानं शक्रसूर्यगुणोदयम् 07057043c अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः 07057044a यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः 07057044c तमजं कारणात्मानं जग्मतुः शरणं भवम् 07057045a अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत 07057045c ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् 07057046a ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव 07057046c स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ 07057046e किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् 07057047a येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम् 07057047c व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् 07057048a ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली 07057048c वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती 07057049a नमो भवाय शर्वाय रुद्राय वरदाय च 07057049c पशूनां पतये नित्यमुग्राय च कपर्दिने 07057050a महादेवाय भीमाय त्र्यम्बकाय च शंभवे 07057050c ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने 07057051a कुमारगुरवे नित्यं नीलग्रीवाय वेधसे 07057051c विलोहिताय धूम्राय व्याधायानपराजिते 07057052a नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे 07057052c हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे 07057053a अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च 07057053c वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे 07057054a तप्यमानाय सलिले ब्रह्मण्यायाजिताय च 07057054c विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते 07057055a नमो नमस्ते सेव्याय भूतानां प्रभवे सदा 07057055c ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च 07057056a नमोऽस्तु वाचस्पतये प्रजानां पतये नमः 07057056c नमो विश्वस्य पतये महतां पतये नमः 07057057a नमः सहस्रशिरसे सहस्रभुजमन्यवे 07057057c सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे 07057058a नमो हिरण्यवर्णाय हिरण्यकवचाय च 07057058c भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो 07057059a एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः 07057059c प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये 07057060a ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् 07057060c ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् 07057061a तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः 07057061c ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् 07057062a ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः 07057062c इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् 07057063a ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः 07057063c वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत 07057064a सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ 07057064c तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा 07057065a येन देवारयः सर्वे मया युधि निपातिताः 07057065c तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् 07057066a तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह 07057066c प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् 07057067a निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् 07057067c तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी 07057068a ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् 07057068c नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ 07057069a द्वितीयं चापरं नागं सहस्रशिरसं वरम् 07057069c वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् 07057070a ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली 07057070c तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् 07057071a गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् 07057071c अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् 07057072a ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ 07057072c धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत 07057073a ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् 07057073c आजह्रतुर्महात्मानौ ददतुश्च महात्मने 07057074a ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत 07057074c पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः 07057075a स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः 07057075c व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् 07057076a तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः 07057076c श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः 07057077a सरस्येव च तं बाणं मुमोचातिबलः प्रभुः 07057077c चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः 07057078a ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा 07057078c वरमारण्यकं दत्तं दर्शनं शंकरस्य च 07057078e मनसा चिन्तयामास तन्मे संपद्यतामिति 07057079a तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः 07057079c तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् 07057080a संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत 07057080c ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् 07057081a अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ 07057081c प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ 07057081e इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ 07058001 संजय उवाच 07058001a तयोः संवदतोरेव कृष्णदारुकयोस्तदा 07058001c सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत 07058002a पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः 07058002c वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् 07058003a नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः 07058003c कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः 07058004a मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः 07058004c आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः 07058005a एवमेतानि सर्वाणि तथान्यान्यपि भारत 07058005c वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः 07058006a स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् 07058006c पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् 07058007a प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे 07058007c उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः 07058008a ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् 07058008c स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे 07058009a भद्रासने सूपविष्टः परिधायाम्बरं लघु 07058009c सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः 07058010a उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः 07058010c आप्लुतः साधिवासेन जलेन च सुगन्धिना 07058011a हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः 07058011c स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः 07058012a जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः 07058012c ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् 07058013a समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा 07058013c मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः 07058014a द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः 07058014c तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् 07058015a दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च 07058015c सहस्रानुचरान्सौरानष्टौ दशशतानि च 07058016a अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः 07058016c तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः 07058017a प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः 07058017c अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः 07058018a तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः 07058018c हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् 07058019a स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् 07058019c माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् 07058020a पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा 07058020c स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् 07058021a मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् 07058021c दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः 07058022a ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः 07058022c सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् 07058023a परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् 07058023c विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् 07058024a तत्र तस्योपविष्टस्य भूषणानि महात्मनः 07058024c उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः 07058025a युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः 07058025c रूपमासीन्महाराज द्विषतां शोकवर्धनम् 07058026a पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः 07058026c दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः 07058027a संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः 07058027c उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः 07058028a ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् 07058028c नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् 07058029a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07058029c नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी 07058030a ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः 07058030c शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् 07058031a कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा 07058031c अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै 07058031e न्यवेदयद्धृषीकेशमुपयातं महात्मने 07058032a सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् 07058032c अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् 07058033a ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने 07058033c सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः 07059001 युधिष्ठिर उवाच 07059001a सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन 07059001c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 07059002 संजय उवाच 07059002a वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् 07059002c ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः 07059003a अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् 07059003c विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् 07059004a शिखण्डिनं यमौ चैव चेकितानं च केकयान् 07059004c युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् 07059005a एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् 07059005c उपतस्थुर्महात्मानं विविशुश्चासनेषु ते 07059006a एकस्मिन्नासने वीरावुपविष्टौ महाबलौ 07059006c कृष्णश्च युयुधानश्च महात्मानौ महाद्युती 07059007a ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् 07059007c अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः 07059008a एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः 07059008c प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च 07059009a त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् 07059009c क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः 07059010a त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल 07059010c सुखमायत्तमत्यर्थं यात्रा च मधुसूदन 07059011a स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम 07059011c अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता 07059012a स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् 07059012c पारं तितीर्षतामद्य प्लवो नो भव माधव 07059013a न हि तत्कुरुते संख्ये कार्तवीर्यसमस्त्वपि 07059013c रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः 07059014 वासुदेव उवाच 07059014a सामरेष्वपि लोकेषु सर्वेषु न तथाविधः 07059014c शरासनधरः कश्चिद्यथा पार्थो धनंजयः 07059015a वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः 07059015c युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् 07059016a स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः 07059016c सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति 07059017a अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 07059017c धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः 07059018a अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् 07059018c अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः 07059019a तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा 07059019c भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः 07059020a यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ 07059020c राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले 07059021a निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति 07059021c विशोको विज्वरो राजन्भव भूतिपुरस्कृतः 07060001 संजय उवाच 07060001a तथा संभाषतां तेषां प्रादुरासीद्धनंजयः 07060001c दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् 07060002a तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् 07060002c समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः 07060003a मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना 07060003c आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत 07060004a व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान् 07060004c यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः 07060005a तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् 07060005c दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् 07060006a ततस्तत्कथयामास यथादृष्टं धनंजयः 07060006c आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् 07060007a ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः 07060007c नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् 07060008a अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना 07060008c त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः 07060009a अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः 07060009c हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् 07060010a रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ 07060010c जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् 07060011a तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् 07060011c रथं रथवरस्याजौ वानरर्षभलक्षणम् 07060012a स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः 07060012c बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा 07060013a ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः 07060013c कृताह्निकाय पार्थाय न्यवेदयत तं रथम् 07060014a तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् 07060014c बाणबाणासनी वाहं प्रदक्षिणमवर्तत 07060015a ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः 07060015c स्तूयमानो जयाशीभिरारुरोह महारथम् 07060016a जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् 07060016c अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा 07060017a स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः 07060017c विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः 07060018a अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ 07060018c शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ 07060019a अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः 07060019c मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः 07060020a स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः 07060020c सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी 07060021a सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा 07060021c सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये 07060022a ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः 07060022c प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः 07060023a सजयाशीः सपुण्याहः सूतमागधनिस्वनः 07060023c युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् 07060024a तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः 07060024c ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् 07060025a प्रादुरासन्निमित्तानि विजयाय बहूनि च 07060025c पाण्डवानां त्वदीयानां विपरीतानि मारिष 07060026a दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् 07060026c युयुधानं महेष्वासमिदं वचनमब्रवीत् 07060027a युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः 07060027c यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव 07060028a सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः 07060028c यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते 07060029a यथा परमकं कृत्यं सैन्धवस्य वधे मम 07060029c तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे 07060030a स त्वमद्य महाबाहो राजानं परिपालय 07060030c यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा 07060031a त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे 07060031c शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ 07060032a मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत 07060032c राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया 07060033a न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः 07060033c किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् 07060034a एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा 07060034c तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः 07061001 धृतराष्ट्र उवाच 07061001a श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः 07061001c अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः 07061002a जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः 07061002c कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः 07061003a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् 07061003c आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे 07061004a कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः 07061004c दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः 07061005a किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति 07061005c परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् 07061006a बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः 07061006c न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने 07061007a स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम 07061007c सूतमागधसंघानां नर्तकानां च सर्वशः 07061008a शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः 07061008c दीनानामद्य तं शब्दं न शृणोमि समीरितम् 07061009a निवेशने सत्यधृतेः सोमदत्तस्य संजय 07061009c आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् 07061010a तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् 07061010c निवेशनं हतोत्साहं पुत्राणां मम लक्षये 07061011a विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः 07061011c अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः 07061012a ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते 07061012c द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् 07061013a वितण्डालापसंलापैर्हुतयाचितवन्दितैः 07061013c गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् 07061014a उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः 07061014c सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा 07061015a द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये 07061015c अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः 07061016a विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः 07061016c श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु 07061017a नित्यप्रमुदितानां च तालगीतस्वनो महान् 07061017c नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः 07061018a सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः 07061018c सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः 07061019a ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः 07061019c द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् 07061020a नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः 07061020c वादित्रनादितानां च सोऽद्य न श्रूयते महान् 07061021a यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः 07061021c आगतः सर्वभूतानामनुकम्पार्थमच्युतः 07061022a ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा 07061022c वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 07061023a कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः 07061023c शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् 07061023e हितार्थमभिजल्पन्तं न तथास्त्यपराजयः 07061024a प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् 07061024c अनुनेयानि जल्पन्तमनयान्नान्वपद्यत 07061025a ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः 07061025c अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः 07061026a न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति 07061026c सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति 07061027a शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा 07061027c अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय 07061028a एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः 07061028c सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः 07061029a श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः 07061029c कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः 07061030a धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् 07061030c प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते 07061031a अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः 07061031c तेषामपि समुद्रान्ता पितृपैतामही मही 07061032a नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि 07061032c सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः 07061033a शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः 07061033c द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च 07061034a अन्येषां चैव वृद्धानां भरतानां महात्मनाम् 07061034c त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् 07061035a कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा 07061035c कृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः 07061036a मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् 07061036c नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः 07061037a इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् 07061037c न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् 07061038a वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः 07061038c उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः 07061039a धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः 07061039c अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः 07061040a चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः 07061040c द्रौपदेया विराटश्च द्रुपदश्च महारथः 07061040e यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः 07061041a क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः 07061041c दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः 07061042a अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् 07061042c दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् 07061043a येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः 07061043c संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः 07061044a तेषां मम विलापानां न हि दुर्योधनः स्मरेत् 07061044c हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे 07061045a तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् 07061045c दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः 07061046a हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् 07061046c अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः 07061047a आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय 07061047c यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् 07061047e अभिमन्यौ हते तात कथमासीन्मनो हि वः 07061048a न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः 07061048c अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः 07061049a किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् 07061049c दुःशासनः सौबलश्च तेषामेवं गते अपि 07061049e सर्वेषां समवेतानां पुत्राणां मम संजय 07061050a यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् 07061050c लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः 07061051a राज्यकामस्य मूढस्य रागोपहतचेतसः 07061051c दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय 07062001 संजय उवाच 07062001a हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् 07062001c शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् 07062002a गतोदके सेतुबन्धो यादृक्तादृगयं तव 07062002c विलापो निष्फलो राजन्मा शुचो भरतर्षभ 07062003a अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः 07062003c मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् 07062004a यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् 07062004c निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् 07062005a युद्धकाले पुनः प्राप्ते तदैव भवता यदि 07062005c निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् 07062006a दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि 07062006c कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् 07062007a तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः 07062007c पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः 07062008a स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे 07062008c वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् 07062009a त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् 07062009c दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् 07062010a तत्ते विलपितं सर्वं मया राजन्निशामितम् 07062010c अर्थे निविशमानस्य विषमिश्रं यथा मधु 07062011a न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा 07062011c न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप 07062012a व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम् 07062012c तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते 07062013a परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे 07062013c तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् 07062014a पितृपैतामहं राज्यमपवृत्तं तदानघ 07062014c अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः 07062015a पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा 07062015c ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः 07062016a तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् 07062016c यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना 07062017a यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप 07062017c बहुधा व्याहरन्दोषान्न तदद्योपपद्यते 07062018a न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे 07062018c चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः 07062019a यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ 07062019c रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः 07062020a येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः 07062020c येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः 07062021a को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः 07062021c अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः 07062022a यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः 07062022c क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः 07062023a यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् 07062023c कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः 07063001 संजय उवाच 07063001a तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः 07063001c स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः 07063002a शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् 07063002c श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् 07063003a विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च 07063003c विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः 07063004a विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् 07063004c पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः 07063005a चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया 07063005c संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः 07063006a सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः 07063006c समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् 07063007a अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः 07063007c चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः 07063008a नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः 07063008c संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः 07063009a क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः 07063009c क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा 07063010a ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् 07063010c इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः 07063011a तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु 07063011c भारद्वाजो महाराज जयद्रथमथाब्रवीत् 07063012a त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः 07063012c अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा 07063013a शतं चाश्वसहस्राणां रथानामयुतानि षट् 07063013c द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश 07063014a पदातीनां सहस्राणि दंशितान्येकविंशतिः 07063014c गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत 07063015a तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः 07063015c किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव 07063016a एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः 07063016c संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः 07063016e वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः 07063017a चामरापीडिनः सर्वे जाम्बूनदविभूषिताः 07063017c जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः 07063017e ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः 07063018a मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः 07063018c नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् 07063019a अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव 07063019c अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः 07063020a ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ 07063020c सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ 07063021a दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः 07063021c व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः 07063022a नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः 07063022c रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् 07063023a पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः 07063023c सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः 07063024a एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः 07063024c सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः 07063025a अनन्तरं च काम्बोजो जलसंधश्च मारिष 07063025c दुर्योधनः सहामात्यस्तदनन्तरमेव च 07063026a ततः शतसहस्राणि योधानामनिवर्तिनाम् 07063026c व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः 07063027a तेषां च पृष्ठतो राज बलेन महता वृतः 07063027c जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः 07063028a शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः 07063028c अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् 07063029a श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः 07063029c धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः 07063030a पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् 07063030c द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् 07063031a सिद्धचारणसंघानां विस्मयः सुमहानभूत् 07063031c द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् 07063032a सशैलसागरवनां नानाजनपदाकुलाम् 07063032c ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे 07063033a बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम् 07063033c अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा 07064001 संजय उवाच 07064001a ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष 07064001c ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च 07064002a अनीकानां च संह्रादे वादित्राणां च निस्वने 07064002c प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे 07064003a अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु 07064003c रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत 07064004a वडानां वायसानां च पुरस्तात्सव्यसाचिनः 07064004c बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत 07064005a मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः 07064005c दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा 07064006a सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः 07064006c चचाल च मही कृत्स्ना भये घोरे समुत्थिते 07064007a विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 07064007c ववुरायाति कौन्तेये संग्रामे समुपस्थिते 07064008a नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः 07064008c पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा 07064009a ततो रथसहस्रेण द्विरदानां शतेन च 07064009c त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः 07064010a अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव 07064010c अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् 07064011a अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् 07064011c अहमावारयिष्यामि वेलेव मकरालयम् 07064012a अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् 07064012c विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि 07064013a एवं ब्रुवन्महाराज महात्मा स महामतिः 07064013c महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः 07064014a ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः 07064014c दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः 07064015a शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव 07064015c युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः 07064016a क्रोधामर्षबलोद्धूतो निवातकवचान्तकः 07064016c जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् 07064017a आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् 07064017c शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली 07064018a रथप्रवरमास्थाय नरो नारायणानुगः 07064018c विधुन्वन्गाण्डिवं संख्ये बभौ सूर्य इवोदितः 07064019a सोऽग्रानीकस्य महत इषुपाते धनंजयः 07064019c व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् 07064020a अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष 07064020c प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा 07064021a तयोः शङ्खप्रणादेन तव सैन्ये विशां पते 07064021c आसन्संहृष्टरोमाणः कम्पिता गतचेतसः 07064022a यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् 07064022c तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः 07064023a प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः 07064023c एवं सवाहनं सर्वमाविग्नमभवद्बलम् 07064024a व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष 07064024c विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः 07064025a ततः कपिर्महानादं सह भूतैर्ध्वजालयैः 07064025c अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् 07064026a ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 07064026c पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः 07064027a नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः 07064027c सिंहनादैः सवादित्रैः समाहूतैर्महारथैः 07064028a तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने 07064028c अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः 07064029a चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः 07064029c एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् 07064030a एवमुक्तो महाबाहुः केशवः सव्यसाचिना 07064030c अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः 07064031a स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः 07064031c एकस्य च बहूनां च रथनागनरक्षयः 07064032a ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् 07064032c परानवाकिरत्पार्थः पर्वतानिव नीरदः 07064033a ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् 07064033c अवाकिरन्बाणजालैस्ततः कृष्णधनंजयौ 07064034a ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि 07064034c शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः 07064035a उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः 07064035c सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत 07064036a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07064036c विनिकीर्णानि योधानां वदनानि चकाशिरे 07064037a तपनीयविचित्राणि सिक्तानि रुधिरेण च 07064037c अदृश्यन्त यथा राजन्मेघसंघाः सविद्युतः 07064038a शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले 07064038c कालेन परिपक्वानां तालानां पततामिव 07064039a ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति 07064039c कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति 07064040a नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः 07064040c अमृष्यमाणाः कौन्तेयं संग्रामे जयगृद्धिनः 07064041a हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी 07064041c बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत 07064042a अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो 07064042c तव सैन्येषु योधानां पार्थभूतमिवाभवत् 07064043a अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे 07064043c पार्थभूतममन्यन्त जगत्कालेन मोहिताः 07064044a निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः 07064044c शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् 07064045a सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः 07064045c सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः 07064046a सबाणवर्माभरणाः सगदाः साङ्गदा रणे 07064046c महाभुजगसंकाशा बाहवः परिघोपमाः 07064047a उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः 07064047c वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः 07064048a यो यः स्म समरे पार्थं प्रतिसंरभते नरः 07064048c तस्य तस्यान्तको बाणः शरीरमुपसर्पति 07064049a नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा 07064049c न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि 07064050a यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् 07064050c लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः 07064051a हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च 07064051c अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् 07064052a आवर्तमानमावृत्तं युध्यमानं च पाण्डवः 07064052c प्रमुखे तिष्ठमानं च न कंचिन्न निहन्ति सः 07064053a यथोदयन्वै गगने सूर्यो हन्ति महत्तमः 07064053c तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः 07064054a हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत 07064054c अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः 07064055a यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा 07064055c तथा धनंजयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः 07064056a तत्तथा तव पुत्रस्य सैन्यं युधि परंतप 07064056c प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् 07064057a मारुतेनेव महता मेघानीकं विधूयता 07064057c प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् 07064058a प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः 07064058c कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च 07064059a चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः 07064059c सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः 07064060a पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे 07064060c शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ 07064060e तव योधा हतोत्साहा विभ्रान्तमनसस्तदा 07065001 धृतराष्ट्र उवाच 07065001a तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना 07065001c के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् 07065002a आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः 07065002c द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः 07065003 संजय उवाच 07065003a तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा 07065003c हतवीरे हतोत्साहे पलायनकृतक्षणे 07065004a पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः 07065004c न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् 07065005a ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् 07065005c दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् 07065006a स काञ्चनविचित्रेण कवचेन समावृतः 07065006c जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः 07065007a नागानीकेन महता ग्रसन्निव महीमिमाम् 07065007c दुःशासनो महाराज सव्यसाचिनमावृणोत् 07065008a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 07065008c ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् 07065009a भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् 07065009c स मुहूर्तं प्रतिभयो दारुणः समपद्यत 07065010a तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् 07065010c व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् 07065011a सिंहनादेन महता नरसिंहो धनंजयः 07065011c गजानीकममित्राणामभितो व्यधमच्छरैः 07065012a महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् 07065012c किरीटी तद्गजानीकं प्राविशन्मकरो यथा 07065013a काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये 07065013c ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः 07065014a खुरशब्देन चाश्वानां नेमिघोषेण तेन च 07065014c तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च 07065014e देवदत्तस्य घोषेण गाण्डीवनिनदेन च 07065015a मन्दवेगतरा नागा बभूवुस्ते विचेतसः 07065015c शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना 07065016a ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः 07065016c अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः 07065017a आरावं परमं कृत्वा वध्यमानाः किरीटिना 07065017c निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः 07065018a अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च 07065018c शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः 07065019a गजस्कन्धगतानां च पुरुषाणां किरीटिना 07065019c आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः 07065020a सकुण्डलानां पततां शिरसां धरणीतले 07065020c पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् 07065021a यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः 07065021c भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे 07065022a केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा 07065022c द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले 07065023a मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च 07065023c रथिनां कुट्टयामास भल्लैः संनतपर्वभिः 07065024a न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् 07065024c मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते 07065025a अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः 07065025c मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले 07065026a उत्थितान्यगणेयानि कबन्धानि समन्ततः 07065026c अदृश्यन्त महाराज तस्मिन्परमसंकुले 07065027a सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 07065027c अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 07065028a सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 07065028c चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः 07065029a वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः 07065029c स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 07065030a निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः 07065030c अदृश्यत मही तत्र दारुणप्रतिदर्शना 07065031a एवं दुःशासनबलं वध्यमानं किरीटिना 07065031c संप्राद्रवन्महाराज व्यथितं वै सनायकम् 07065032a ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः 07065032c द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् 07066001 संजय उवाच 07066001a दुःशासनबलं हत्वा सव्यसाची धनंजयः 07066001c सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् 07066002a स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07066002c कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् 07066003a शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे 07066003c भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् 07066004a भवान्पितृसमो मह्यं धर्मराजसमोऽपि च 07066004c तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते 07066005a अश्वत्थामा यथा तात रक्षणीयस्तवानघ 07066005c तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम 07066006a तव प्रसादादिच्छामि सिन्धुराजानमाहवे 07066006c निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो 07066007a एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव 07066007c मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः 07066008a एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् 07066008c सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् 07066009a ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः 07066009c द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः 07066010a विव्याध च रणे द्रोणमनुमान्य विशां पते 07066010c क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः 07066011a तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ 07066011c विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ 07066012a इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् 07066012c तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः 07066012e द्रोणः शरैरसंभ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् 07066013a विव्याध च हयानस्य ध्वजं सारथिमेव च 07066013c अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् 07066014a एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः 07066014c विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् 07066014e मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् 07066015a पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् 07066015c चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् 07066016a तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना 07066016c मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः 07066017a विद्रुताश्च रणे पेतुः संछिन्नायुधजीविताः 07066017c रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः 07066018a चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः 07066018c तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् 07066019a पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः 07066019c हंसा हिमवतः पृष्ठे वारिविप्रहता इव 07066020a रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः 07066020c युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः 07066021a तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् 07066021c स द्रोणमेघः शरवर्षवेगैः; प्राच्छादयन्मेघ इवार्करश्मीन् 07066022a अथात्यर्थविसृष्टेन द्विषतामसुभोजिना 07066022c आजघ्ने वक्षसि द्रोणो नाराचेन धनंजयम् 07066023a स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः 07066023c धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः 07066024a द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् 07066024c अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः 07066025a विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी 07066025c अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः 07066026a प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् 07066026c मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् 07066027a तेऽभ्ययुः समरे राजन्वासुदेवधनंजयौ 07066027c द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः 07066028a तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा 07066028c वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् 07066029a ततोऽब्रवीद्वासुदेवो धनंजयमिदं वचः 07066029c पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् 07066030a द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् 07066030c पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव 07066031a ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः 07066031c परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् 07066032a ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते 07066032c ननु नाम रणे शत्रुमजित्वा न निवर्तसे 07066033 अर्जुन उवाच 07066033a गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते 07066033c न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् 07066034 संजय उवाच 07066034a एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः 07066034c त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् 07066035a तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ 07066035c अन्वयातां महात्मानौ विशन्तं तावकं बलम् 07066036a ततो जयो महाराज कृतवर्मा च सात्त्वतः 07066036c काम्बोजश्च श्रुतायुश्च धनंजयमवारयन् 07066037a तेषां दशसहस्राणि रथानामनुयायिनाम् 07066037c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 07066038a माचेल्लका ललित्थाश्च केकया मद्रकास्तथा 07066038c नारायणाश्च गोपालाः काम्बोजानां च ये गणाः 07066039a कर्णेन विजिताः पूर्वं संग्रामे शूरसंमताः 07066039c भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति 07066040a पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् 07066040c त्यजन्तं तुमुले प्राणान्संनद्धं चित्रयोधिनम् 07066041a गाहमानमनीकानि मातङ्गमिव यूथपम् 07066041c महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् 07066042a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 07066042c अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च 07066043a जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् 07066043c न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् 07067001 संजय उवाच 07067001a संनिरुद्धस्तु तैः पार्थो महाबलपराक्रमः 07067001c द्रुतं समनुयातश्च द्रोणेन रथिनां वरः 07067002a किरन्निषुगणांस्तीक्ष्णान्स्वरश्मीनिव भास्करः 07067002c तापयामास तत्सैन्यं देहं व्याधिगणो यथा 07067003a अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः 07067003c छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः 07067004a विद्रुतानि च सैन्यानि शरार्तानि समन्ततः 07067004c इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किंचन 07067005a तेषामायच्छतां संख्ये परस्परमजिह्मगैः 07067005c अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् 07067006a सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसंगरः 07067006c अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः 07067007a तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः 07067007c अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् 07067008a तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः 07067008c अभ्यधावदिषूनस्यन्निषुवेगविघातकान् 07067009a तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः 07067009c प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् 07067010a तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि 07067010c यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः 07067011a क्षरन्निव महामेघो वारिधाराः सहस्रशः 07067011c द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः 07067012a अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष 07067012c प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् 07067013a द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् 07067013c वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः 07067014a पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् 07067014c विसृजन्तं शितान्बाणानवारयत तं युधि 07067015a अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ 07067015c आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् 07067016a वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् 07067016c किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् 07067017a सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् 07067017c अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् 07067018a ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम 07067018c अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः 07067019a तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा 07067019c पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् 07067020a भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् 07067020c एकैकं पञ्चविंशत्या सायकानां समार्पयत् 07067021a तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः 07067021c शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः 07067022a अथान्यद्धनुरादाय कृतवर्मा महारथः 07067022c पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत 07067023a पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः 07067023c तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे 07067024a विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति 07067024c चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् 07067025a ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् 07067025c कुरुसांबन्धिकं कृत्वा प्रमथ्यैनं विशातय 07067026a ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः 07067026c अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् 07067027a अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने 07067027c विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः 07067028a चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ 07067028c पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः 07067029a तावविध्यत्ततो भोजः सर्वपारशवैः शरैः 07067029c त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् 07067030a तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः 07067030c संचिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च 07067031a अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः 07067031c कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् 07067032a तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः 07067032c तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् 07067033a न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा 07067033c धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ 07067034a अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः 07067034c नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः 07067035a तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः 07067035c अभ्यद्रवत्सुसंक्रुद्धो विधुन्वानो महद्धनुः 07067036a स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् 07067036c क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् 07067037a तमर्जुनो नवत्या तु शराणां नतपर्वणाम् 07067037c आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् 07067038a स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् 07067038c अथैनं सप्तसप्तत्या नाराचानां समार्पयत् 07067039a तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च 07067039c आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः 07067040a अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः 07067040c वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् 07067041a ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिंदमः 07067041c शरैरनेकसाहस्रैः पीडयामास भारत 07067042a अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः 07067042c विव्याध चैनं सप्तत्या नाराचानां महाबलः 07067043a हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः 07067043c अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् 07067044a वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः 07067044c पर्णाशा जननी यस्य शीततोया महानदी 07067045a तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् 07067045c अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम 07067046a वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् 07067046c दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति 07067047a नास्ति चाप्यमरत्वं वै मनुष्यस्य कथंचन 07067047c सर्वेणावश्यमर्तव्यं जातेन सरितां वरे 07067048a दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा 07067048c अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः 07067049a इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् 07067049c यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः 07067050a उवाच चैनं भगवान्पुनरेव जलेश्वरः 07067050c अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति 07067051a स तया वीरघातिन्या जनार्दनमताडयत् 07067051c प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् 07067052a नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः 07067052c प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता 07067053a जघान चास्थितं वीरं श्रुतायुधममर्षणम् 07067053c हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत 07067054a हाहाकारो महांस्तत्र सैन्यानां समजायत 07067054c स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिंदमम् 07067055a अयुध्यमानाय हि सा केशवाय नराधिप 07067055c क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा 07067056a यथोक्तं वरुणेनाजौ तथा स निधनं गतः 07067056c व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् 07067057a पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः 07067057c संभग्न इव वातेन बहुशाखो वनस्पतिः 07067058a ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः 07067058c प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिंदमम् 07067059a तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः 07067059c अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् 07067060a तस्य पार्थः शरान्सप्त प्रेषयामास भारत 07067060c ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् 07067061a सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे 07067061c अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः 07067062a वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः 07067062c तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष 07067063a भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः 07067063c स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् 07067064a सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः 07067064c सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने 07067065a सा ज्वलन्ती महोल्केव तमासाद्य महारथम् 07067065c सविस्फुलिङ्गा निर्भिद्य निपपात महीतले 07067066a तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः 07067066c साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः 07067066e रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः 07067067a सुदक्षिणं तु काम्बोजं मोघसंकल्पविक्रमम् 07067067c बिभेद हृदि बाणेन पृथुधारेण पाण्डवः 07067068a स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः 07067068c पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः 07067069a गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः 07067069c निर्भग्न इव वातेन कर्णिकारो हिमात्यये 07067070a शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः 07067070c सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः 07067070e पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः 07067071a ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते 07067071c हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् 07068001 संजय उवाच 07068001a हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे 07068001c जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव 07068002a अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 07068002c अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनंजयम् 07068003a तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः 07068003c ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव 07068004a ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् 07068004c रणे सपत्नान्निघ्नन्तं जिगीषन्तṃ परान्युधि 07068005a तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः 07068005c शिरांसि पातयामास बाहूंश्चैव धनंजयः 07068006a शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा 07068006c अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि 07068007a तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ 07068007c श्रुतायुश्चाच्युतायुश्च धनंजयमयुध्यताम् 07068008a बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ 07068008c तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् 07068009a त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः 07068009c अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ 07068010a तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् 07068010c पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा 07068011a श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनंजयम् 07068011c आजघान रथश्रेष्ठः पीतेन निशितेन च 07068012a सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 07068012c आजगाम परं मोहं मोहयन्केशवं रणे 07068013a एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः 07068013c शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् 07068014a क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः 07068014c पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः 07068015a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07068015c सिंहनादो महानासीद्धतं मत्वा धनंजयम् 07068016a कृष्णश्च भृशसंतप्तो दृष्ट्वा पार्थं विचेतसम् 07068016c आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनंजयम् 07068017a ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनंजयम् 07068017c वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः 07068018a सचक्रकूबररथं साश्वध्वजपताकिनम् 07068018c अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् 07068019a प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत 07068019c प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा 07068020a संछन्नं शरजालेन रथं दृष्ट्वा सकेशवम् 07068020c शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ 07068021a प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः 07068021c तस्मादासन्सहस्राणि शराणां नतपर्वणाम् 07068022a ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् 07068022c विचेरुराकाशगताः पार्थबाणविदारिताः 07068023a प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः 07068023c प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् 07068024a तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ 07068024c वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ 07068025a श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः 07068025c लोकविस्मापनमभूत्समुद्रस्येव शोषणम् 07068026a तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् 07068026c अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् 07068027a श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् 07068027c अयुतायुश्च संक्रुद्धो दीर्घायुश्चैव भारत 07068028a पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः 07068028c किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ 07068029a तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः 07068029c प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति 07068030a लोडयन्तमनीकानि द्विपं पद्मसरो यथा 07068030c नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुंगवाः 07068031a अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् 07068031c क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः 07068032a दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः 07068032c प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः 07068033a तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः 07068033c निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् 07068034a तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः 07068034c बभौ कनकपाषाणा भुजगैरिव संवृता 07068035a बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च 07068035c च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः 07068036a शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः 07068036c व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव 07068037a निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः 07068037c गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः 07068038a नानावेषधरा राजन्नानाशस्त्रौघसंवृताः 07068038c रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः 07068039a शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः 07068039c सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः 07068040a चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः 07068040c भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः 07068040e सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः 07068041a विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः 07068041c यवनाः पारदाश्चैव शकाश्च सुनिकैः सह 07068042a गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः 07068042c दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः 07068043a न ते स्म शक्याः संख्यातुं व्राताः शतसहस्रशः 07068043c वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः 07068044a अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनंजयः 07068044c मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् 07068044e म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया 07068045a शरैश्च शतशो विद्धास्ते संघाः संघचारिणः 07068045c प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः 07068046a गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः 07068046c वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा 07068047a पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसंक्रमाम् 07068047c शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् 07068047e प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् 07068048a शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसंभृताम् 07068048c अकरोद्गजसंबाधां नदीमुत्तरशोणिताम् 07068048e देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् 07068049a यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे 07068049c तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता 07068050a षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् 07068050c प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः 07068051a शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः 07068051c शेरते भूमिमासाद्य शैला वज्रहता इव 07068052a स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः 07068052c प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा 07068053a भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् 07068053c निर्दहेदनलोऽरण्यं यथा वायुसमीरितः 07068054a सैन्यारण्यं तव तथा कृष्णानिलसमीरितः 07068054c शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनंजयः 07068055a शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् 07068055c प्रानृत्यदिव संबाधे चापहस्तो धनंजयः 07068056a वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् 07068056c प्राविशद्भारतीं सेनां संक्रुद्धो वै धनंजयः 07068056e तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् 07068057a तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 07068057c न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष 07068057e धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे 07068058a अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः 07068058c आससाद रणे पार्थं केशवं च महारथम् 07068059a ततः स प्रहसन्वीरो गदामुद्यम्य भारत 07068059c रथमावार्य गदया केशवं समताडयत् 07068060a गदया ताडितं दृष्ट्वा केशवं परवीरहा 07068060c अर्जुनो भृशसंक्रुद्धः सोऽम्बष्ठं प्रति भारत 07068061a ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् 07068061c छादयामास समरे मेघः सूर्यमिवोदितम् 07068062a ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः 07068062c अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् 07068063a अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् 07068063c अर्जुनं वासुदेवं च पुनः पुनरताडयत् 07068064a तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ 07068064c चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा 07068065a स पपात हतो राजन्वसुधामनुनादयन् 07068065c इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः 07068066a रथानीकावगाढश्च वारणाश्वशतैर्वृतः 07068066c सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः 07069001 संजय उवाच 07069001a ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया 07069001c द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् 07069002a काम्बोजस्य च दायादे हते राजन्सुदक्षिणे 07069002c श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना 07069003a विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः 07069003c प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् 07069004a त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् 07069004c गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् 07069005a अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् 07069005c अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये 07069006a यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः 07069006c तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः 07069007a असौ धनंजयाग्निर्हि कोपमारुतचोदितः 07069007c सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः 07069008a अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप 07069008c जयद्रथस्य गोप्तारः संशयं परमं गताः 07069009a स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर 07069009c नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः 07069010a सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते 07069010c सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम 07069011a जानामि त्वां महाभाग पाण्डवानां हिते रतम् 07069011c तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् 07069012a यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् 07069012c प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे 07069013a अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम 07069013c पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् 07069014a अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः 07069014c न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् 07069015a नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे 07069015c नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् 07069016a मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना 07069016c आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे 07069017a यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः 07069017c नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः 07069018a स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः 07069018c मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् 07069019 द्रोण उवाच 07069019a नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः 07069019c सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते 07069020a सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः 07069020c अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः 07069021a किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः 07069021c पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः 07069022a न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः 07069022c सेनामुखे च पार्थानामेतद्बलमुपस्थितम् 07069023a युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् 07069023c एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज 07069024a धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम 07069024c तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् 07069025a तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् 07069025c गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः 07069026a राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः 07069026c वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः 07069027 दुर्योधन उवाच 07069027a कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः 07069027c धनंजयो मया शक्य आचार्य प्रतिबाधितुम् 07069028a अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः 07069028c नार्जुनः समरे शक्यो जेतुं परपुरंजयः 07069029a येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः 07069029c अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः 07069030a सुदक्षिणश्च निहतः स च राजा श्रुतायुधः 07069030c श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः 07069031a तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् 07069031c प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद 07069032a क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् 07069032c परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः 07069033 द्रोण उवाच 07069033a सत्यं वदसि कौरव्य दुराधर्षो धनंजयः 07069033c अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि 07069034a अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः 07069034c विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः 07069035a एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् 07069035c यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे 07069036a यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः 07069036c योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् 07069037a न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे 07069037c शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति 07069038a स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् 07069038c त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते 07069039 संजय उवाच 07069039a एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् 07069039c आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि 07069040a रणे तस्मिन्सुमहति विजयाय सुतस्य ते 07069040c विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः 07069041 द्रोण उवाच 07069041a करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः 07069041c सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत 07069042a ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः 07069042c तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः 07069043a स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च 07069043c स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे 07069044a स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा 07069044c लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ 07069045a असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः 07069045c वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप 07069046a धाता विधाता लोकेशो दिशश्च सदिगीश्वराः 07069046c स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः 07069047a विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः 07069047c दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः 07069048a अधस्ताद्धरणीं योऽसौ सदा धारयते नृप 07069048c स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु 07069049a गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः 07069049c पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः 07069050a हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः 07069050c ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् 07069051 देवा ऊचुः 07069051a प्रमर्दितानां वृत्रेण देवानां देवसत्तम 07069051c गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् 07069052 द्रोण उवाच 07069052a अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् 07069052c प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् 07069053a रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः 07069053c त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः 07069054a त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा 07069054c वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् 07069055a स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली 07069055c नागत्वा शंकरस्थानं भगवान्दृश्यते हरः 07069056a दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् 07069056c यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः 07069056e पिनाकी सर्वभूतेशो भगनेत्रनिपातनः 07069057a ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् 07069057c अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् 07069058a सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् 07069058c अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः 07069059a एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः 07069059c तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् 07069060a मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः 07069060c शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर 07069061 महेश्वर उवाच 07069061a विदितं मे यथा देवाः कृत्येयं सुमहाबला 07069061c त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः 07069062a अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् 07069062c ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् 07069062e बधानानेन मन्त्रेण मानसेन सुरेश्वर 07069063 द्रोण उवाच 07069063a इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च 07069063c स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति 07069064a नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे 07069064c न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु 07069065a ततो जघान समरे वृत्रं देवपतिः स्वयम् 07069065c तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ 07069066a अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः 07069066c बृहस्पतिरथोवाच अग्निवेश्याय धीमते 07069067a अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते 07069067c तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम 07069068 संजय उवाच 07069068a एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः 07069068c पुनरेव वचः प्राह शनैराचार्यपुंगवः 07069069a ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव 07069069c हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे 07069070a यथा च ब्रह्मणा बद्धं संग्रामे तारकामये 07069070c शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव 07069071a बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् 07069071c प्रेषयामास राजानं युद्धाय महते द्विजः 07069072a स संनद्धो महाबाहुराचार्येण महात्मना 07069072c रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् 07069073a तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् 07069073c अश्वानामयुतेनैव तथान्यैश्च महारथैः 07069074a वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति 07069074c नानावादित्रघोषेण यथा वैरोचनिस्तथा 07069075a ततः शब्दो महानासीत्सैन्यानां तव भारत 07069075c अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् 07070001 संजय उवाच 07070001a प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा 07070001c दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे 07070002a जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च 07070002c पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत 07070003a तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 07070003c पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् 07070004a राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् 07070004c यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते 07070005a धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः 07070005c द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् 07070006a वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् 07070006c पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः 07070007a महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये 07070007c सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते 07070008a समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् 07070008c जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके 07070009a नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः 07070009c गदाविद्युन्महारौद्रः संग्रामजलदो महान् 07070010a भारद्वाजानिलोद्धूतः शरधारासहस्रवान् 07070010c अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् 07070011a समुद्रमिव घर्मान्ते विवान्घोरो महानिलः 07070011c व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः 07070012a तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् 07070012c बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव 07070013a वारयामास तान्द्रोणो जलौघानचलो यथा 07070013c पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् 07070014a अथापरेऽपि राजानः परावृत्य समन्ततः 07070014c महाबला रणे शूराः पाञ्चालानन्ववारयन् 07070015a ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह 07070015c संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् 07070016a यथैव शरवर्षाणि द्रोणो वर्षति पार्षते 07070016c तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत 07070017a सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः 07070017c ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः 07070018a शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् 07070018c निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् 07070019a यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् 07070019c ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः 07070020a तथा तु यतमानस्य द्रोणस्य युधि भारत 07070020c धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत 07070021a भोजमेके न्यवर्तन्त जलसंधमथापरे 07070021c पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् 07070022a सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः 07070022c व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः 07070023a धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः 07070023c अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव 07070024a कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान् 07070024c संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः 07070025a कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः 07070025c द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी 07070026a अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च 07070026c चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा 07070027a त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः 07070027c अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः 07070028a मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः 07070028c बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः 07070029a रथं नागं हयं चापि पत्तिनश्च विशां पते 07070029c एकैकेनेषुणा संख्ये निर्बिभेद महारथः 07070030a पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत 07070030c दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् 07070031a तत्पच्यमानमर्केण द्रोणसायकतापितम् 07070031c बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत 07070032a तथैव पार्षतेनापि काल्यमानं बलं तव 07070032c अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना 07070033a वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः 07070033c त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः 07070034a तावकानां परेषां च युध्यतां भरतर्षभ 07070034c नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् 07070035a भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् 07070035c विविंशतिश्चित्रसेनो विकर्णश्च महारथः 07070036a विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् 07070036c त्रयाणां तव पुत्राणां त्रय एवानुयायिनः 07070037a बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः 07070037c सहसेनः सहामात्यो द्रौपदेयानवारयत् 07070038a शैब्यो गोवासनो राजा योधैर्दशशतावरैः 07070038c काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् 07070039a अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् 07070039c मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् 07070040a दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः 07070040c सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि 07070041a स्वकेनाहमनीकेन संनद्धकवचावृतः 07070041c चतुःशतैर्महेष्वासैश्चेकितानमवारयम् 07070042a शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् 07070042c गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः 07070043a विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् 07070043c प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि 07070044a शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् 07070044c बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् 07070045a धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः 07070045c आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् 07070046a घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् 07070046c अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे 07070047a अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः 07070047c सैन्येन महता युक्तः क्रुद्धरूपमवारयत् 07070048a सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत 07070048c रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः 07070049a तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ 07070049c द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः 07070050a पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः 07070050c कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः 07070051a नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 07070051c सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा 07071001 संजय उवाच 07071001a राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम 07071001c कुरूणां पाण्डवानां च यथा युद्धमवर्तत 07071002a भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् 07071002c अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः 07071003a रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः 07071003c अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः 07071004a विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः 07071004c आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ 07071005a विराटश्च महाराज तावुभौ समरे स्थितौ 07071005c पराक्रान्तौ पराक्रम्य योधयामास सानुगौ 07071006a तेषां युद्धं समभवद्दारुणं शोणितोदकम् 07071006c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 07071007a बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः 07071007c आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः 07071008a बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः 07071008c आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः 07071009a तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् 07071009c भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 07071010a ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा 07071010c अभवत्संवृतं सर्वं न प्राज्ञायत किंचन 07071011a शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् 07071011c ससैन्यो योधयामास गजः प्रतिगजं यथा 07071012a बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् 07071012c मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे 07071013a अयोधयंस्ते च भृशं तं शरौघैः समन्ततः 07071013c इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर 07071014a वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव 07071014c आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः 07071015a सोऽतिविद्धो बलवता महेष्वासेन धन्विना 07071015c ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः 07071016a समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् 07071016c विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः 07071017a तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ 07071017c रेजतुः समरे राजन्पुष्पिताविव किंशुकौ 07071018a अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः 07071018c अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः 07071019a कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः 07071019c अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव 07071020a ततस्तौ समरे शूरौ योधयन्तौ परस्परम् 07071020c ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा 07071021a शकुनिं रभसं युद्धे कृतवैरं च भारत 07071021c माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे 07071022a तन्मूलः स महाराज प्रावर्तत जनक्षयः 07071022c त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः 07071023a उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः 07071023c य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः 07071024a शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः 07071024c नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् 07071025a विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ 07071025c ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् 07071026a स वध्यमानो बहुभिः शरैः संनतपर्वभिः 07071026c संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः 07071027a घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् 07071027c अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् 07071028a तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 07071028c यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे 07071029a ततो युधिष्ठिरो राजा मद्रराजानमाहवे 07071029c विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः 07071030a ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप 07071030c यथा पूर्वं महद्युद्धं शम्बरामरराजयोः 07071031a विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः 07071031c अयोधयन्भीमसेनं महत्या सेनया वृताः 07072001 संजय उवाच 07072001a तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे 07072001c कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् 07072002a जलसंधं महाबाहुर्भीमसेनो न्यवारयत् 07072002c युधिष्ठिरः सहानीकः कृतवर्माणमाहवे 07072003a किरन्तं शरवर्षाणि रोचमान इवांशुमान् 07072003c धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे 07072004a ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् 07072004c कुरूणां सोमकानां च संक्रुद्धानां परस्परम् 07072005a संक्षये तु तथा भूते वर्तमाने महाभये 07072005c द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् 07072006a द्रोणः पाञ्चालपुत्रेण बली बलवता सह 07072006c विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् 07072007a पुण्डरीकवनानीव विध्वस्तानि समन्ततः 07072007c चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः 07072008a विनिकीर्णानि वीराणामनीकेषु समन्ततः 07072008c वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च 07072009a तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च 07072009c संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः 07072010a कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः 07072010c तालमात्राणि चापानि विकर्षन्तो महारथाः 07072011a असिचर्माणि चापानि शिरांसि कवचानि च 07072011c विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् 07072012a उत्थितान्यगणेयानि कबन्धानि समन्ततः 07072012c अदृश्यन्त महाराज तस्मिन्परमसंकुले 07072013a गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा 07072013c बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष 07072014a भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् 07072014c विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप 07072015a आकर्षन्तः शरीराणि शरीरावयवांस्तथा 07072015c नराश्वगजसंघानां शिरांसि च ततस्ततः 07072016a कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः 07072016c रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा 07072017a असिमार्गान्बहुविधान्विचेरुस्तावका रणे 07072017c ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः 07072018a गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि 07072018c अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः 07072019a रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः 07072019c मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः 07072020a क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः 07072020c उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे 07072021a वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 07072021c धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् 07072022a ते हया साध्वशोभन्त विमिश्रा वातरंहसः 07072022c पारावतसवर्णाश्च रक्तशोणाश्च संयुगे 07072022e हयाः शुशुभिरे राजन्मेघा इव सविद्युतः 07072023a धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम् 07072023c असिचर्माददे वीरो धनुरुत्सृज्य भारत 07072024a चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा 07072024c ईषया समतिक्रम्य द्रोणस्य रथमाविशत् 07072025a अतिष्ठद्युगमध्ये स युगसंनहनेषु च 07072025c जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् 07072026a खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः 07072026c न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् 07072027a यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः 07072027c तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः 07072028a ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् 07072028c द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः 07072029a हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली 07072029c ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी 07072030a अथास्मै त्वरितो बाणमपरं जीवितान्तकम् 07072030c आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा 07072031a तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः 07072031c ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् 07072032a सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष 07072032c द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः 07072033a सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे 07072033c शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् 07072034a ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् 07072034c प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे 07072035a ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः 07072035c सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् 07073001 धृतराष्ट्र उवाच 07073001a बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते 07073001c तेन वृष्णिप्रवीरेण युयुधानेन संजय 07073002a अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः 07073002c नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि 07073003 संजय उवाच 07073003a संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः 07073003c तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् 07073004a संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् 07073004c नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः 07073005a उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः 07073005c रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् 07073006a शरपातमहावर्षं रथघोषबलाहकम् 07073006c कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् 07073007a शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् 07073007c द्रोणमेघमनावार्यं हयमारुतचोदितम् 07073008a दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः 07073008c उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः 07073009a एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् 07073009c आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् 07073010a शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् 07073010c आचार्यं राजपुत्राणां सततं शूरमानिनम् 07073011a ततो रजतसंकाशा माधवस्य हयोत्तमाः 07073011c द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः 07073012a इषुजालावृतं घोरमन्धकारमनन्तरम् 07073012c अनाधृष्यमिवान्येषां शूराणामभवत्तदा 07073013a ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा 07073013c नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः 07073014a इषूणां संनिपातेन शब्दो धाराभिघातजः 07073014c शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः 07073015a नाराचैरतिविद्धानां शराणां रूपमाबभौ 07073015c आशीविषविदष्टानां सर्पाणामिव भारत 07073016a तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः 07073016c अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव 07073017a उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी 07073017c रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा 07073018a निर्मलानामजिह्मानां नाराचानां विशां पते 07073018c निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः 07073019a उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ 07073019c उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ 07073020a स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ 07073020c अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः 07073021a गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः 07073021c उपारमन्महाराज व्याजहार न कश्चन 07073022a तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् 07073022c ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः 07073023a रथिनो हस्तियन्तारो हयारोहाः पदातयः 07073023c अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ 07073024a हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् 07073024c तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः 07073025a मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः 07073025c ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः 07073026a वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः 07073026c विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः 07073027a जातरूपमयीभिश्च राजतीभिश्च मूर्धसु 07073027c गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत 07073028a सबलाकाः सखद्योताः सैरावतशतह्रदाः 07073028c अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः 07073029a अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः 07073029c तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः 07073030a विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः 07073030c सिद्धचारणसंघाश्च विद्याधरमहोरगाः 07073031a गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः 07073031c विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः 07073032a हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ 07073032c अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी 07073033a ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे 07073033c पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते 07073034a निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः 07073034c सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः 07073035a ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत 07073035c सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः 07073036a ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् 07073036c युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् 07073037a एतदस्त्रबलं रामे कार्तवीर्ये धनंजये 07073037c भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे 07073038a तं चास्य मनसा द्रोणः पूजयामास विक्रमम् 07073038c लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः 07073039a तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः 07073039c न तामालक्षयामासुर्लघुतां शीघ्रकारिणः 07073040a देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते 07073040c सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत् 07073041a ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः 07073041c अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत 07073042a तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः 07073042c जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् 07073043a तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे 07073043c युक्तं योगेन योगज्ञास्तावकाः समपूजयन् 07073044a यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः 07073044c तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः 07073045a ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः 07073045c वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् 07073046a तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः 07073046c अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् 07073047a हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ 07073047c न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि 07073048a अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते 07073048c न तावदभिषज्येते व्यावर्तदथ भास्करः 07073049a ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः 07073049c नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् 07073050a धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः 07073050c मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा 07073051a दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः 07073051c द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् 07073052a ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् 07073052c रजसा संवृते लोके शरजालसमावृते 07073053a सर्वमाविग्नमभवन्न प्राज्ञायत किंचन 07073053c सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत 07074001 संजय उवाच 07074001a परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः 07074001c रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः 07074002a तिष्ठतां युध्यमानानां पुनरावर्ततामपि 07074002c भज्यतां जयतां चैव जगाम तदहः शनैः 07074003a तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु 07074003c अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः 07074004a रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः 07074004c चकार तत्र पन्थानं ययौ येन जनार्दनः 07074005a यत्र यत्र रथो याति पाण्डवस्य महात्मनः 07074005c तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते 07074006a रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् 07074006c उत्तमाधममध्यानि मण्डलानि विदर्शयन् 07074007a ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः 07074007c स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः 07074008a वैणवायस्मयशराः स्वायता विविधाननाः 07074008c रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे 07074009a रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् 07074009c रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् 07074010a तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः 07074010c तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् 07074011a न तथा गच्छति रथस्तपनस्य विशां पते 07074011c नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च 07074012a नान्यस्य समरे राजन्गतपूर्वस्तथा रथः 07074012c यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः 07074013a प्रविश्य तु रणे राजन्केशवः परवीरहा 07074013c सेनामध्ये हयांस्तूर्णं चोदयामास भारत 07074014a ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः 07074014c कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः 07074015a क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः 07074015c मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः 07074016a हतानां वाजिनागानां रथानां च नरैः सह 07074016c उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः 07074017a एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप 07074017c सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् 07074018a तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् 07074018c शराणां च शतेनाश्वानविध्येतां मुदान्वितौ 07074019a तावर्जुनो महाराज नवभिर्नतपर्वभिः 07074019c आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः 07074020a ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् 07074020c आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः 07074021a तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः 07074021c चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ 07074022a अथान्ये धनुषी राजन्प्रगृह्य समरे तदा 07074022c पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः 07074023a तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः 07074023c चिच्छेद धनुषी तूर्णं भूय एव धनंजयः 07074024a तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः 07074024c जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी 07074025a ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत 07074025c स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः 07074026a विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् 07074026c हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः 07074027a अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् 07074027c गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः 07074028a अनुविन्दस्तु गदया ललाटे मधुसूदनम् 07074028c स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् 07074029a तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः 07074029c निचकर्त स संछिन्नः पपाताद्रिचयो यथा 07074030a ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः 07074030c अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् 07074031a तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ 07074031c व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये 07074032a तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः 07074032c विबभौ जलदान्भित्त्वा दिवाकर इवोदितः 07074033a तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः 07074033c अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ 07074034a श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् 07074034c सिंहनादेन महता सर्वतः पर्यवारयन् 07074035a तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः 07074035c शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् 07074036a शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः 07074036c किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते 07074037a ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा 07074037c भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः 07074038a मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे 07074038c हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव 07074039a एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् 07074039c ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् 07074040 अर्जुन उवाच 07074040a अहमावारयिष्यामि सर्वसैन्यानि केशव 07074040c त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् 07074041 संजय उवाच 07074041a सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः 07074041c गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः 07074042a तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः 07074042c इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् 07074043a तमेकं रथवंशेन महता पर्यवारयन् 07074043c विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् 07074044a अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् 07074044c छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् 07074045a अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् 07074045c रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः 07074046a तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत 07074046c यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् 07074047a अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः 07074047c इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् 07074048a तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते 07074048c संघर्षेण महार्चिष्मान्पावकः समजायत 07074049a तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः 07074049c हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः 07074050a संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे 07074050c एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत 07074051a शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् 07074051c पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् 07074052a असंख्येयमपारं च रजोऽऽभीलमतीव च 07074052c उष्णीषकमठच्छन्नं पताकाफेनमालिनम् 07074053a रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् 07074053c वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् 07074054a ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् 07074054c असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् 07074055a उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन 07074055c परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् 07074056a इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् 07074056c अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् 07074057a शरवंशं शरस्थूणं शराच्छादनमद्भुतम् 07074057c शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् 07074058a ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् 07074058c शरवेश्मनि पार्थेन कृते तस्मिन्महारणे 07075001 संजय उवाच 07075001a सलिले जनिते तस्मिन्कौन्तेयेन महात्मना 07075001c निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि 07075002a वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः 07075002c मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः 07075003a अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् 07075003c सिद्धचारणसंघानां सैनिकानां च सर्वशः 07075004a पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः 07075004c नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् 07075005a आपतत्सु रथौघेषु प्रभूतगजवाजिषु 07075005c नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति 07075006a व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः 07075006c न चाव्यथत धर्मात्मा वासविः परवीरहा 07075007a स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् 07075007c आगतानग्रसत्पार्थः सरितः सागरो यथा 07075008a अस्त्रवेगेन महता पार्थो बाहुबलेन च 07075008c सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् 07075009a तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः 07075009c अपूजयन्महाराज कौरवाः परमाद्भुतम् 07075010a किमद्भुततरं लोके भविताप्यथ वाप्यभूत् 07075010c यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे 07075011a भयं विपुलमस्मासु तावधत्तां नरोत्तमौ 07075011c तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि 07075012a अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत 07075012c अर्जुनेन कृते संख्ये शरगर्भगृहे तदा 07075013a उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः 07075013c मिषतां सर्वसैन्यानां त्वदीयानां विशां पते 07075014a तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् 07075014c सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि 07075015a शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् 07075015c उपावृत्य यथान्यायं पाययामास वारि सः 07075016a स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् 07075016c योजयामास संहृष्टः पुनरेव रथोत्तमे 07075017a स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः 07075017c समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् 07075018a रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः 07075018c दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् 07075019a विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः 07075019c धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् 07075020a सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ 07075020c बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् 07075021a क्रोशतां यतमानानामसंसक्तौ परंतपौ 07075021c दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु 07075022a तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् 07075022c त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः 07075023a रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् 07075023c जयद्रथाय यात्येष कदर्थीकृत्य नो रणे 07075024a तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः 07075024c अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् 07075025a सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः 07075025c दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी 07075026a विलयं समनुप्राप्ता तच्च राजा न बुध्यते 07075026c इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत 07075027a सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् 07075027c तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् 07075028a ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति 07075028c निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः 07075029a तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् 07075029c नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् 07075030a विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः 07075030c यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् 07075031a गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् 07075031c बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् 07075032a कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः 07075032c तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः 07075033a वातोद्धूतपताकान्तं रथं जलदनिस्वनम् 07075033c घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् 07075034a दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् 07075034c शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् 07075035a ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् 07075035c क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् 07075036a अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् 07075036c दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे 07076001 संजय उवाच 07076001a स्रंसन्त इव मज्जानस्तावकानां भयान्नृप 07076001c तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ 07076002a सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः 07076002c स्थिरीबूता महात्मानः प्रत्यगच्छन्धनंजयम् 07076003a ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः 07076003c तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव 07076004a असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः 07076004c नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् 07076005a तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ 07076005c ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ 07076006a मत्स्याविव महाजालं विदार्य विगतज्वरौ 07076006c तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् 07076007a विमुक्तौ शस्त्रसंबाधाद्द्रोणानीकात्सुदुर्भिदात् 07076007c अदृश्येतां महात्मानौ कालसूर्याविवोदितौ 07076008a अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् 07076008c अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ 07076009a विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव 07076009c व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव 07076010a तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः 07076010c नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् 07076011a तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती 07076011c नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् 07076012a आशा बलवती राजन्पुत्राणामभवत्तव 07076012c द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो 07076013a तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ 07076013c द्रोणानीकं महाराज भोजानीकं च दुस्तरम् 07076014a अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ 07076014c निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे 07076015a मिथश्च समभाषेतामभीतौ भयवर्धनौ 07076015c जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ 07076016a असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः 07076016c चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः 07076017a यद्यस्य समरे गोप्ता शक्रो देवगणैः सह 07076017c तथाप्येनं हनिष्याव इति कृष्णावभाषताम् 07076018a इति कृष्णौ महाबाहू मिथः कथयतां तदा 07076018c सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः 07076019a अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ 07076019c पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ 07076020a व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् 07076020c अदृश्येतां महाबाहू यथा मृत्युजरातिगौ 07076021a तथा हि मुखवर्णोऽयमनयोरिति मेनिरे 07076021c तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः 07076022a द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् 07076022c अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ 07076023a तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ 07076023c अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा 07076024a शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् 07076024c रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे 07076025a उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः 07076025c शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ 07076026a द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात् 07076026c अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः 07076027a ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः 07076027c द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव 07076028a बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः 07076028c तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः 07076029a इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ 07076029c सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् 07076030a जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया 07076030c रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् 07076031a यथा हि मुखवर्णोऽयमनयोरिति मेनिरे 07076031c तव योधा महाराज हतमेव जयद्रथम् 07076032a लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ 07076032c सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः 07076033a शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः 07076033c तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव 07076034a हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः 07076034c समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा 07076035a तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके 07076035c सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे 07076036a तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ 07076036c सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव 07076037a द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा 07076037c ययावेकरथेनाजौ हयसंस्कारवित्प्रभो 07076038a कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः 07076038c अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप 07076039a ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् 07076039c प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनंजयम् 07076040a सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः 07076040c दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् 07076041a ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः 07076041c ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो 07076042a दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् 07076042c अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः 07077001 वासुदेव उवाच 07077001a सुयोधनमतिक्रान्तमेनं पश्य धनंजय 07077001c आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः 07077002a दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः 07077002c दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः 07077003a अत्यन्तसुखसंवृद्धो मानितश्च महारथैः 07077003c कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् 07077004a तेन युद्धमहं मन्ये प्राप्तकालं तवानघ 07077004c अत्र वो द्यूतमायातं विजयायेतराय वा 07077005a अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् 07077005c एष मूलमनर्थानां पाण्डवानां महारथः 07077006a सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः 07077006c कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् 07077007a दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम् 07077007c स यथा जीवितं जह्यात्तथा कुरु धनंजय 07077008a ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् 07077008c न च ते संयुगे वीर्यं जानाति पुरुषर्षभ 07077009a त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः 07077009c नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः 07077010a स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् 07077010c जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः 07077011a एष ह्यनर्थे सततं पराक्रान्तस्तवानघ 07077011c निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् 07077012a बहूनि सुनृशंसानि कृतान्येतेन मानद 07077012c युष्मासु पापमतिना अपापेष्वेव नित्यदा 07077013a तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् 07077013c आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् 07077014a निकृत्या राज्यहरणं वनवासं च पाण्डव 07077014c परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम 07077015a दिष्ट्यैष तव बाणानां गोचरे परिवर्तते 07077015c प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः 07077016a दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह 07077016c दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः 07077017a तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् 07077017c यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे 07077018a अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् 07077018c वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् 07077019 संजय उवाच 07077019a तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम 07077019c सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः 07077020a येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् 07077020c अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे 07077021a अपि तस्या अनर्हायाः परिक्लेशस्य माधव 07077021c कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे 07077022a इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् 07077022c प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् 07077023a तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ 07077023c न चकार भयं प्राप्ते भये महति मारिष 07077024a तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् 07077024c यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् 07077025a ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 07077025c महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे 07077026a तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति 07077026c कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् 07077027a आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना 07077027c संरम्भमगमद्भूयः स च तस्मिन्परंतपः 07077028a तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ 07077028c अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः 07077029a दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष 07077029c प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् 07077030a ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः 07077030c व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ 07077031a तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः 07077031c निराशाः समपद्यन्त पुत्रस्य तव जीविते 07077032a शोकमीयुः परं चैव कुरवः सर्व एव ते 07077032c अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् 07077033a तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ 07077033c हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः 07077034a जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् 07077034c व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे 07077035a इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः 07077035c पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् 07077036a पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च 07077036c तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना 07077037a यद्बलं तव वीर्यं च केशवस्य तथैव च 07077037c तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् 07077038a अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते 07077038c स्वामिसत्कारयुक्तानि यानि तानीह दर्शय 07078001 संजय उवाच 07078001a एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः 07078001c प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् 07078002a वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे 07078002c प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् 07078003a तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः 07078003c अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः 07078004a तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च 07078004c प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः 07078005a अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् 07078005c अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः 07078006a अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् 07078006c त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः 07078007a कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ 07078007c मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव 07078008a न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः 07078008c तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः 07078009a विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् 07078009c व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति 07078010a वज्राशनिसमा घोराः परकायावभेदिनः 07078010c शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना 07078011 अर्जुन उवाच 07078011a द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता 07078011c अन्ते विहितमस्त्राणामेतत्कवचधारणम् 07078012a अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि 07078012c एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् 07078013a न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन 07078013c अपि वज्रेण गोविन्द स्वयं मघवता युधि 07078014a जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् 07078014c यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते 07078015a तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव 07078015c न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन 07078016a एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् 07078016c तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् 07078017a यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव 07078017c स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् 07078018a पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन 07078018c पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् 07078019a इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् 07078019c पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् 07078020a दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् 07078020c नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया 07078021 संजय उवाच 07078021a एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् 07078021c विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् 07078021e तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना 07078022a तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना 07078022c न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः 07078023a नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन 07078023c अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम 07078024a ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः 07078024c अविध्यत रणे राजञ्शरैराशीविषोपमैः 07078024e भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ 07078025a शरवर्षेण महता ततोऽहृष्यन्त तावकाः 07078025c चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा 07078026a ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् 07078026c नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् 07078027a ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः 07078027c हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी 07078028a धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् 07078028c रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे 07078029a दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् 07078029c अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा 07078030a तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः 07078030c समापेतुः परीप्सन्तो धनंजयशरार्दितम् 07078031a ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः 07078031c पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् 07078032a अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत 07078032c अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ 07078033a ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् 07078033c तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः 07078034a ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् 07078034c स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः 07078035a ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् 07078035c धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् 07078036a ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् 07078036c महता शरवर्षेण तलशब्देन चार्जुनः 07078037a पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः 07078037c रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् 07078038a तस्य शङ्खस्य नादेन धनुषो निस्वनेन च 07078038c निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः 07078039a तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः 07078039c जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः 07078040a ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु 07078040c चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् 07078041a बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः 07078041c प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि 07078042a तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् 07078042c प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ 07078043a तेन शब्देन महता पूरितेयं वसुंधरा 07078043c सशैला सार्णवद्वीपा सपाताला विशां पते 07078044a स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश 07078044c प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले 07078045a तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ 07078045c संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः 07078046a अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ 07078046c अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् 07079001 संजय उवाच 07079001a तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ 07079001c प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् 07079002a सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः 07079002c दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः 07079003a रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते 07079003c कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव 07079004a भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः 07079004c कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः 07079005a ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः 07079005c व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः 07079006a ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः 07079006c समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः 07079007a कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् 07079007c व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश 07079008a आजानेयैर्महावेगैर्नानादेशसमुत्थितैः 07079008c पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः 07079009a कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः 07079009c धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन् 07079010a ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः 07079010c पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् 07079011a तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 07079011c प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि 07079011e देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः 07079012a शब्दस्तु देवदत्तस्य धनंजयसमीरितः 07079012c पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् 07079013a तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः 07079013c सर्वशब्दानतिक्रम्य पूरयामास रोदसी 07079014a तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले 07079014c भीरूणां त्रासजनने शूराणां हर्षवर्धने 07079015a प्रवादितासु भेरीषु झर्झरेष्वानकेषु च 07079015c मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः 07079016a महारथसमाख्याता दुर्योधनहितैषिणः 07079016c अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः 07079016e नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः 07079017a अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः 07079017c कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च 07079018a बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् 07079018c उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो 07079019a तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् 07079019c बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् 07079020a स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् 07079020c त्रासयामास तत्सैन्यं युगान्त इव संभृतः 07079021a ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः 07079021c जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् 07079022a ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् 07079022c अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः 07079023a तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् 07079023c अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने 07079024a कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा 07079024c शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् 07079025a गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् 07079025c भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः 07079026a कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः 07079026c जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः 07079026e मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे 07079027a ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् 07079027c वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः 07079028a प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः 07079028c प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् 07079029a कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः 07079029c शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत 07079030a सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः 07079030c शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः 07079031a गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह 07079031c पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् 07079032a भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः 07079032c अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह 07079033a ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः 07079033c प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव 07080001 धृतराष्ट्र उवाच 07080001a ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया 07080001c पार्थानां मामकानां च तान्ममाचक्ष्व संजय 07080002 संजय उवाच 07080002a ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् 07080002c रूपतो वर्णतश्चैव नामतश्च निबोध मे 07080003a तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः 07080003c प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः 07080004a काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः 07080004c काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः 07080005a ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः 07080005c नानावर्णविरागाभिर्विबभुः सर्वतो वृताः 07080006a पताकाश्च ततस्तास्तु श्वसनेन समीरिताः 07080006c नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः 07080007a इन्द्रायुधसवर्णाभाः पताका भरतर्षभ 07080007c दोधूयमाना रथिनां शोभयन्ति महारथान् 07080008a सिंहलाङ्गूलमुग्रास्यं ध्वजं वानरलक्षणम् 07080008c धनंजयस्य संग्रामे प्रत्यपश्याम भैरवम् 07080009a स वानरवरो राजन्पताकाभिरलंकृतः 07080009c त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः 07080010a तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत 07080010c ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् 07080011a काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् 07080011c नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् 07080012a हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे 07080012c आहवे खं महाराज ददृशे पूरयन्निव 07080013a पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे 07080013c नृत्यतीव रथोपस्थे श्वसनेन समीरितः 07080014a आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः 07080014c गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः 07080015a स तेन भ्राजते राजन्गोवृषेण महारथः 07080015c त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते 07080016a मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् 07080016c व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् 07080017a तेन तस्य रथो भाति मयूरेण महात्मनः 07080017c यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता 07080018a मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव 07080018c सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् 07080019a सा सीता भ्राजते तस्य रथमास्थाय मारिष 07080019c सर्वबीजविरूढेव यथा सीता श्रिया वृता 07080020a वराहः सिन्धुराजस्य राजतोऽभिविराजते 07080020c ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः 07080021a शुशुभे केतुना तेन राजतेन जयद्रथः 07080021c यथा देवासुरे युद्धे पुरा पूषा स्म शोभते 07080022a सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः 07080022c ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते 07080023a स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते 07080023c राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः 07080024a शलस्य तु महाराज राजतो द्विरदो महान् 07080024c केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः 07080025a स केतुः शोभयामास सैन्यं ते भरतर्षभ 07080025c यथा श्वेतो महानागो देवराजचमूं तथा 07080026a नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः 07080026c किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे 07080027a व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते 07080027c ध्वजेन महता संख्ये कुरूणामृषभस्तदा 07080028a नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः 07080028c व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः 07080029a दशमस्त्वर्जुनस्यासीदेक एव महाकपिः 07080029c अदीप्यतार्जुनो येन हिमवानिव वह्निना 07080030a ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः 07080030c कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परंतपाः 07080031a तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः 07080031c गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव 07080032a तवापराधाद्धि नरा निहता बहुधा युधि 07080032c नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः 07080033a तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् 07080033c दुर्योधनमुखानां च पाण्डूनामृषभस्य च 07080034a तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः 07080034c यदेको बहुभिः सार्धं समागच्छदभीतवत् 07080035a अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः 07080035c जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् 07080036a तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः 07080036c अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः 07080037a ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः 07080037c अदृश्यं समरे चक्रुः सायकौघैः समन्ततः 07080038a संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने 07080038c महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः 07081001 धृतराष्ट्र उवाच 07081001a अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः 07081001c पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय 07081002 संजय उवाच 07081002a अपराह्णे महाराज संग्रामे लोमहर्षणे 07081002c पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत 07081003a पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः 07081003c अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष 07081004a ततः सुतुमुलस्तेषां संग्रामोऽवर्तताद्भुतः 07081004c पाञ्चालानां कुरूणां च घोरो देवासुरोपमः 07081005a सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह 07081005c तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् 07081006a द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः 07081006c कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् 07081007a तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः 07081007c प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् 07081008a तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः 07081008c विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः 07081009a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 07081009c त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् 07081010a तमापतन्तं सहसा व्यादितास्यमिवान्तकम् 07081010c वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् 07081011a युधिष्ठिरं महाराज जिगीषुं समवस्थितम् 07081011c सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् 07081012a नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी 07081012c अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो 07081013a सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः 07081013c शरैरनेकसाहस्रैः समवाकिरदाशुगैः 07081014a सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् 07081014c शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः 07081015a द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् 07081015c संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् 07081016a भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् 07081016c प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः 07081017a तयोः समभवद्युद्धं नरराक्षसयोर्मृधे 07081017c यादृगेव पुरा वृत्तं रामरावणयोर्नृप 07081018a ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् 07081018c आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत 07081019a तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे 07081019c रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना 07081020a भूय एव तु विंशत्या सायकानां समाचिनोत् 07081020c साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् 07081021a ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः 07081021c अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् 07081022a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे 07081022c चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः 07081023a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07081023c शरैरनेकसाहस्रैः पुरयामास सर्वतः 07081024a अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः 07081024c सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् 07081025a केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् 07081025c हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना 07081026a स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः 07081026c त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे 07081026e आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् 07081027a ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः 07081027c चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् 07081028a छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः 07081028c शक्तिं जग्राह समरे गिरीणामपि दारणीम् 07081028e स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् 07081029a समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली 07081029c नादेन सर्वभूतानि त्रासयन्निव भारत 07081030a शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे 07081030c स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् 07081031a सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07081031c प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा 07081031e द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा 07081032a तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते 07081032c प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः 07081033a तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् 07081033c जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः 07081034a ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् 07081034c अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत 07081035a विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः 07081035c क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः 07081036a तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः 07081036c गदां चिक्षेप सहसा धर्मपुत्राय मारिष 07081037a तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः 07081037c गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परंतपः 07081038a ते गदे सहसा मुक्ते समासाद्य परस्परम् 07081038c संघर्षात्पावकं मुक्त्वा समेयातां महीतले 07081039a ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष 07081039c चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः 07081040a धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् 07081040c केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः 07081041a हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः 07081041c तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ 07081042a विरथं तं समालोक्य व्यायुधं च विशेषतः 07081042c द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो 07081043a मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः 07081043c अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः 07081044a तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना 07081044c हा हेति सहसा शब्दः पाण्डूनां समजायत 07081045a हृतो राजा हृतो राजा भारद्वाजेन मारिष 07081045c इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः 07081046a ततस्त्वरितमारुह्य सहदेवरथं नृपः 07081046c अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः 07082001 संजय उवाच 07082001a बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् 07082001c क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः 07082002a बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् 07082002c आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया 07082003a क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः 07082003c धनुश्चिच्छेद भल्लेन पीतेन निशितेन च 07082004a अथैनं छिन्नधन्वानं शरेण नतपर्वणा 07082004c विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् 07082005a अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव 07082005c व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् 07082006a ततोऽपरेण भल्लेन पीतेन निशितेन च 07082006c जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् 07082007a तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् 07082007c सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् 07082008a तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः 07082008c सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् 07082009a धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी 07082009c वीरधन्वा महेष्वासो वारयामास भारत 07082010a तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ 07082010c शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः 07082011a तावुभौ नरशार्दूलौ युयुधाते परस्परम् 07082011c महावने तीव्रमदौ वारणाविव यूथपौ 07082012a गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ 07082012c युयुधाते महावीर्यौ परस्परजिघांसया 07082013a तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते 07082013c सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् 07082014a वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् 07082014c द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत 07082015a तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः 07082015c शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् 07082016a तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत 07082016c चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति 07082017a स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् 07082017c निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् 07082018a तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे 07082018c बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः 07082019a सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् 07082019c ननाद च महानादं तर्जयन्पाण्डवं रणे 07082020a मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः 07082020c भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव 07082021a तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् 07082021c दुर्मुखो नवभिर्बाणैस्ताडयामास भारत 07082022a दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः 07082022c जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 07082023a अथापरेण भल्लेन पीतेन निशितेन च 07082023c चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् 07082024a क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः 07082024c सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः 07082025a हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा 07082025c आरुरोह रथं राजन्निरमित्रस्य भारत 07082026a सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे 07082026c जघान पृतनामध्ये भल्लेन परवीरहा 07082027a स पपात रथोपस्थान्निरमित्रो जनेश्वरः 07082027c त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् 07082028a तं तु हत्वा महाबाहुः सहदेवो व्यरोचत 07082028c यथा दाशरथी रामः खरं हत्वा महाबलम् 07082029a हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर 07082029c राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् 07082030a नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् 07082030c मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत् 07082031a सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः 07082031c चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे 07082032a तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् 07082032c साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् 07082033a कुमारे निहते तस्मिन्मगधस्य सुते प्रभो 07082033c मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् 07082034a विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः 07082034c भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि 07082035a अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् 07082035c तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः 07082035e नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ 07082036a मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः 07082036c बलं तेऽभज्यत विभो युयुधानशरार्दितम् 07082037a नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः 07082037c विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः 07082038a भज्यमानं बलं राजन्सात्वतेन महात्मना 07082038c नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना 07082039a ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी 07082039c सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे 07083001 संजय उवाच 07083001a द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः 07083001c एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 07083002a ते पीडिता भृशं तेन रौद्रेण सहसा विभो 07083002c प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन 07083003a नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् 07083003c द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः 07083004a तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः 07083004c विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् 07083005a स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् 07083005c एकैकं हृदि चाजघ्ने एकैकेन महायशाः 07083006a ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना 07083006c परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् 07083007a आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः 07083007c प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति 07083008a भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः 07083008c ननाद बलवन्नादं विव्याध च शितैः शरैः 07083009a यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् 07083009c नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् 07083010a साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् 07083010c क्षुरप्रेण शिरो राजन्निचकर्त महामनाः 07083011a तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् 07083011c भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् 07083012a सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः 07083012c वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा 07083013a अलम्बुसस्तु समरे भीमसेनं महाबलम् 07083013c योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा 07083014a संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ 07083014c विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा 07083015a आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः 07083015c विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् 07083016a तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् 07083016c अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः 07083017a स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः 07083017c भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः 07083017e पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा 07083018a सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः 07083018c निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः 07083019a प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः 07083019c विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् 07083019e अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः 07083020a स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः 07083020c शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः 07083021a स वध्यमानः समरे भीमचापच्युतैः शरैः 07083021c स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना 07083022a घोरं रूपमथो कृत्वा भीमसेनमभाषत 07083022c तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् 07083023a बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली 07083023c परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया 07083024a एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा 07083024c महाता शरवर्षेण भृशं तं समवाकिरत् 07083025a भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा 07083025c आकाशं पूरयामास शरैः संनतपर्वभिः 07083026a स वध्यमानो भीमेन निमेषाद्रथमास्थितः 07083026c जगाम धरणीं क्षुद्रः खं चैव सहसागमत् 07083027a उच्चावचानि रूपाणि चकार सुबहूनि च 07083027c उच्चावचास्तथा वाचो व्याजहार समन्ततः 07083028a तेन पाण्डवसैन्यानां मृदिता युधि वारणाः 07083028c हयाश्च बहवो राजन्पत्तयश्च तथा पुनः 07083028e रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः 07083029a शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 07083029c छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् 07083030a नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् 07083030c वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् 07083031a तं तथा समरे राजन्विचरन्तमभीतवत् 07083031c पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् 07083032a तावकानां तु सैन्यानां प्रहर्षः समजायत 07083032c वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः 07083033a तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः 07083033c नामृष्यत यथा नागस्तलशब्दं समीरितम् 07083034a ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः 07083034c संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष 07083035a ततः शरसहस्राणि प्रादुरासन्समन्ततः 07083035c तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् 07083036a तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे 07083036c राक्षसस्य महामायां हत्वा राक्षसमार्दयत् 07083037a स वध्यमानो बहुधा भीमसेनेन राक्षसः 07083037c संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् 07083038a तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना 07083038c अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् 07083039a अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् 07083039c प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः 07084001 संजय उवाच 07084001a अलम्बुसं तथा युद्धे विचरन्तमभीतवत् 07084001c हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः 07084002a तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः 07084002c कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव 07084003a अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् 07084003c घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे 07084003e अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः 07084004a तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् 07084004c विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः 07084005a तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ 07084005c निर्विशेषमयुध्येतां मायाभिरितरेतरम् 07084006a मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् 07084006c मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् 07084007a यां यां घटोत्कचो युद्धे मायां दर्शयते नृप 07084007c तां तामलम्बुसो राजन्माययैव निजघ्निवान् 07084008a तं तथा युध्यमानं तु मायायुद्धविशारदम् 07084008c अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः 07084009a त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः 07084009c अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप 07084010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 07084010c सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् 07084011a स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया 07084011c तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः 07084012a स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् 07084012c मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः 07084012e युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः 07084013a नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष 07084013c पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह 07084014a तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः 07084014c युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत 07084014e नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः 07084015a हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः 07084015c पुनर्विव्याध सप्तत्या ननाद च महाबलः 07084016a सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः 07084016c प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः 07084017a तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः 07084017c हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः 07084018a सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः 07084018c व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् 07084019a ते शरा नतपर्वाणो विविशू राक्षसं तदा 07084019c रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः 07084020a ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् 07084020c प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः 07084021a स वध्यमानः समरे पाण्डवैर्जितकाशिभिः 07084021c दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् 07084022a समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः 07084022c निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि 07084023a बललाघवसंपन्नः संपन्नो विक्रमेण च 07084023c भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् 07084024a स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः 07084024c घटोत्कचेन वीरेण हतः सालकटङ्कटः 07084025a ततः सुमनसः पार्था हते तस्मिन्निशाचरे 07084025c चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह 07084026a तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् 07084026c अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् 07084026e हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ 07084027a जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः 07084027c यदृच्छया निपतितं भूमावङ्गारकं यथा 07084028a घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् 07084028c मुमोच बलवन्नादं बलं हत्वेव वासवः 07084029a स पूज्यमानः पितृभिः सबान्धवै;र्घटोत्कचः कर्मणि दुष्करे कृते 07084029c रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा 07084030a ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् 07084030c निशम्य तं प्रत्यनदंस्तु कौरवा;स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् 07085001 धृतराष्ट्र उवाच 07085001a भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् 07085001c संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे 07085002 संजय उवाच 07085002a शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम् 07085002c द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः 07085003a वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष 07085003c अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् 07085004a तमापतन्तं सहसा भारद्वाजं महारथम् 07085004c सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 07085005a द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः 07085005c अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः 07085006a ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः 07085006c अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः 07085007a दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः 07085007c द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः 07085008a भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् 07085008c सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत 07085009a ततः क्रुद्धो महेष्वासो भूय एव महाबलः 07085009c सात्वतं पीडयामास शतेन नतपर्वणा 07085010a स वध्यमानः समरे भारद्वाजेन सात्यकिः 07085010c नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते 07085011a विषण्णवदनश्चापि युयुधानोऽभवन्नृप 07085011c भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् 07085012a तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते 07085012c प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः 07085013a तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् 07085013c युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत 07085014a एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् 07085014c ग्रस्यते युधि वीरेण भानुमानिव राहुणा 07085014e अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते 07085015a धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप 07085015c अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत 07085015e न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् 07085016a असौ द्रोणो महेष्वासो युयुधानेन संयुगे 07085016c क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा 07085017a तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः 07085017c त्वयैव सहिता यत्ता युयुधानरथं प्रति 07085018a पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः 07085018c सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् 07085019a एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः 07085019c अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् 07085020a तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् 07085020c पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः 07085021a ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् 07085021c अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः 07085022a स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् 07085022c अतिथीनागतान्यद्वत्सलिलेनासनेन च 07085023a तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः 07085023c आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा 07085024a भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् 07085024c मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो 07085025a तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः 07085025c अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् 07085026a वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा 07085026c त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 07085027a द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः 07085027c गभस्तय इवार्कस्य प्रतपन्तः समन्ततः 07085028a तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः 07085028c महारथसमाख्याता धृष्टद्युम्नस्य संमताः 07085029a पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च 07085029c द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् 07085030a केकयानां शतं हत्वा विद्राव्य च समन्ततः 07085030c द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः 07085031a पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि 07085031c द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः 07085032a तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः 07085032c वनौकसामिवारण्ये दह्यतां धूमकेतुना 07085033a तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप 07085033c एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः 07085034a तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे 07085034c न चाप्यभिययुः केचिदपरे नैव विव्यधुः 07085035a वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये 07085035c अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् 07085036a पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् 07085036c युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु 07085036e नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति 07085037a गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः 07085037c कश्मलाभिहतो राजा चिन्तयामास पाण्डवः 07085038a न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् 07085038c कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः 07085039a एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना 07085039c अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत 07085040a बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः 07085040c कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम् 07085041a यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः 07085041c सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः 07085042a सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुंगव 07085042c त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके 07085043a यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः 07085043c स कार्ये सांपराये तु नियोज्य इति मे मतिः 07085044a यथा च केशवो नित्यं पाण्डवानां परायणम् 07085044c तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः 07085045a सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि 07085045c अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि 07085046a स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे 07085046c कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ 07085047a त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः 07085047c लोके विख्यायसे वीर कर्मभिः सत्यवागिति 07085048a यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् 07085048c पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् 07085049a श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः 07085049c दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि 07085050a एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः 07085050c पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो 07085051a एक एव सदा कृष्णो मित्राणामभयंकरः 07085051c रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके 07085052a विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः 07085052c शूर एव सहायः स्यान्नेतरः प्राकृतो जनः 07085053a ईदृशे तु परामर्दे वर्तमानस्य माधव 07085053c त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते 07085054a श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः 07085054c मम संजनयन्हर्षं पुनः पुनरकीर्तयत् 07085055a लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः 07085055c प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे 07085056a महास्कन्धो महोरस्को महाबाहुर्महाधनुः 07085056c महाबलो महावीर्यः स महात्मा महारथः 07085057a शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे 07085057c युयुधानः सहायो मे प्रमथिष्यति कौरवान् 07085058a अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः 07085058c रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः 07085059a गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः 07085059c सहायार्थं महाराज संग्रामोत्तममूर्धनि 07085060a तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् 07085060c साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः 07085061a इति द्वैतवने तात मामुवाच धनंजयः 07085061c परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि 07085062a तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि 07085062c धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः 07085063a यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति 07085063c तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् 07085064a न तत्सौहृदमन्येषु मया शैनेय लक्षितम् 07085064c यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे 07085065a सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च 07085065c सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव 07085066a सत्यस्य च महाबाहो अनुकम्पार्थमेव च 07085066c अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि 07085067a सुयोधनो हि सहसा गतो द्रोणेन दंशितः 07085067c पूर्वमेव तु यातास्ते कौरवाणां महारथाः 07085068a सुमहान्निनदश्चैव श्रूयते विजयं प्रति 07085068c स शैनेय जवेनात्र गन्तुमर्हसि माधव 07085069a भीमसेनो वयं चैव संयत्ताः सहसैनिकाः 07085069c द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति 07085070a पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे 07085070c महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् 07085071a महामारुतवेगेन समुद्रमिव पर्वसु 07085071c धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना 07085072a रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह 07085072c सैन्यं रजःसमुद्धूतमेतत्संपरिवर्तते 07085073a संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः 07085073c अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा 07085074a नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः 07085074c एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः 07085075a शरशक्तिध्वजवनं हयनागसमाकुलम् 07085075c पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् 07085076a शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् 07085076c सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा 07085077a नागानां शृणु शब्दं च पत्तीनां च सहस्रशः 07085077c सादिनां द्रवतां चैव शृणु कम्पयतां महीम् 07085078a पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः 07085078c बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् 07085079a अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् 07085079c तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः 07085079e सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् 07085080a श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः 07085080c लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् 07085081a सूर्योदये महाबाहुर्दिवसश्चातिवर्तते 07085081c तन्न जानामि वार्ष्णेय यदि जीवति वा न वा 07085081e कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् 07085082a एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् 07085082c अविषह्यां महाबाहुः सुरैरपि महामृधे 07085083a न च मे वर्तते बुद्धिरद्य युद्धे कथंचन 07085083c द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् 07085083e प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः 07085084a युगपच्च समेतानां कार्याणां त्वं विचक्षणः 07085084c महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव 07085085a तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा 07085085c अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे 07085086a नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् 07085086c स हि शक्तो रणे तात त्रीँल्लोकानपि संगतान् 07085087a विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते 07085087c किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् 07085088a अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि 07085088c प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् 07085089a तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा 07085089c तादृशस्येदृशे काले मादृशेनाभिचोदितः 07085090a रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ 07085090c प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः 07085091a अस्त्रे नारायणसमः संकर्षणसमो बले 07085091c वीरतायां नरव्याघ्र धनंजयसमो ह्यसि 07085092a भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् 07085092c त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते 07085093a नासाध्यं विद्यते लोके सात्यकेरिति माधव 07085093c तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल 07085094a संभावना हि लोकस्य तव पार्थस्य चोभयोः 07085094c नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि 07085095a परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् 07085095c न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् 07085096a अयुद्धमनवस्थानं संग्रामे च पलायनम् 07085096c भीरूणामसतां मार्गो नैष दाशार्हसेवितः 07085097a तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव 07085097c वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः 07085098a कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् 07085098c मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् 07085099a वासुदेवमतं चैतन्मम चैवार्जुनस्य च 07085099c सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः 07085100a एतद्वचनमाज्ञाय मम सत्यपराक्रम 07085100c प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः 07085101a प्रविश्य च यथान्यायं संगम्य च महारथैः 07085101c यथार्हमात्मनः कर्म रणे सात्वत दर्शय 07086001 संजय उवाच 07086001a प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च 07086001c कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् 07086002a धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः 07086002c सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् 07086003a श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत 07086003c न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् 07086004a एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम् 07086004c वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् 07086005a न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन 07086005c त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे 07086006a लोकत्रयं योधयेयं सदेवासुरमानुषम् 07086006c त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् 07086007a सुयोधनबलं त्वद्य योधयिष्ये समन्ततः 07086007c विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते 07086008a कुशल्यहं कुशलिनं समासाद्य धनंजयम् 07086008c हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् 07086009a अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप 07086009c वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः 07086010a दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः 07086010c मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः 07086011a अद्य माधव राजानमप्रमत्तोऽनुपालय 07086011c आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् 07086012a त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे 07086012c नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् 07086013a जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् 07086013c प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव 07086014a ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति 07086014c शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् 07086015a एवं त्वयि समाधाय धर्मराजं नरोत्तमम् 07086015c अहमद्य गमिष्यामि सैन्धवस्य वधाय हि 07086016a जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव 07086016c धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् 07086017a निगृहीते नरश्रेष्ठे भारद्वाजेन माधव 07086017c सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् 07086018a एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि 07086018c अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः 07086019a सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति 07086019c यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् 07086020a स त्वमद्य महाबाहो प्रियार्थं मम माधव 07086020c जयार्थं च यशोर्थं च रक्ष राजानमाहवे 07086021a स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना 07086021c भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो 07086022a तस्यापि च महाबाहो नित्यं पश्यति संयुगे 07086022c नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो 07086022e मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः 07086023a सोऽहं संभावनां चैतामाचार्यवचनं च तत् 07086023c पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते 07086024a आचार्यो लघुहस्तत्वादभेद्यकवचावृतः 07086024c उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः 07086025a यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः 07086025c तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः 07086026a कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि 07086026c यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् 07086027a मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् 07086027c न स जातु महाबाहुर्भारमुद्यम्य सीदति 07086028a ये च सौवीरका योधास्तथा सैन्धवपौरवाः 07086028c उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः 07086029a ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः 07086029c एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् 07086030a उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा 07086030c सराक्षसगणा राजन्सकिंनरमहोरगा 07086031a जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे 07086031c एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये 07086032a यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ 07086032c न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते 07086033a दैवं कृतास्त्रतां योगममर्षमपि चाहवे 07086033c कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय 07086034a मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति 07086034c द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय 07086035a आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति 07086035c प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत 07086036a कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि 07086036c यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति 07086037a न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे 07086037c क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते 07086038a एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर 07086038c दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् 07086039 युधिष्ठिर उवाच 07086039a एवमेतन्महाबाहो यथा वदसि माधव 07086039c न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष 07086040a करिष्ये परमं यत्नमात्मनो रक्षणं प्रति 07086040c गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः 07086041a आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति 07086041c विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये 07086042a स त्वमातिष्ठ यानाय यत्र यातो धनंजयः 07086042c ममापि रक्षणं भीमः करिष्यति महाबलः 07086043a पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः 07086043c द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः 07086044a केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः 07086044c विराटो द्रुपदश्चैव शिखण्डी च महारथः 07086045a धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष 07086045c नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा 07086045e एते समाहितास्तात रक्षिष्यन्ति न संशयः 07086046a न द्रोणः सह सैन्येन कृतवर्मा च संयुगे 07086046c समासादयितुं शक्तो न च मां धर्षयिष्यति 07086047a धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः 07086047c वारयिष्यति विक्रम्य वेलेव मकरालयम् 07086048a यत्र स्थास्यति संग्रामे पार्षतः परवीरहा 07086048c न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन 07086049a एष द्रोणविनाशाय समुत्पन्नो हुताशनात् 07086049c कवची स शरी खड्गी धन्वी च वरभूषणः 07086050a विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् 07086050c धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति 07087001 संजय उवाच 07087001a धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः 07087001c पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः 07087002a अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः 07087002c न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति 07087003a निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः 07087003c धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ 07087004a कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते 07087004c अनुयास्यामि बीभत्सुं करिष्ये वचनं तव 07087005a न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते 07087005c यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते 07087006a तस्याहं पदवीं यास्ये संदेशात्तव मानद 07087006c त्वत्कृते न च मे किंचिदकर्तव्यं कथंचन 07087007a यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर 07087007c तथा तवापि वचनं विशिष्टतरमेव मे 07087008a प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ 07087008c तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव 07087009a तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो 07087009c भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम 07087010a द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् 07087010c तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः 07087011a यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् 07087011c गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः 07087012a इतस्त्रियोजनं मन्ये तमध्वानं विशां पते 07087012c यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः 07087013a त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् 07087013c आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना 07087014a अनादिष्टस्तु गुरुणा को नु युध्येत मानवः 07087014c आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः 07087014e अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो 07087015a हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् 07087015c इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् 07087016a यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि 07087016c कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः 07087017a आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः 07087017c नागा मेघनिभा राजन्क्षरन्त इव तोयदाः 07087018a नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः 07087018c अन्यत्र हि वधादेषां नास्ति राजन्पराजयः 07087019a अथ यान्रथिनो राजन्समन्तादनुपश्यसि 07087019c एते रुक्मरथा नाम राजपुत्रा महारथाः 07087020a रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते 07087020c धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः 07087021a गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा 07087021c खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः 07087022a शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् 07087022c नित्यं च समरे राजन्विजिगीषन्ति मानवान् 07087023a कर्णेन विजिता राजन्दुःशासनमनुव्रताः 07087023c एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति 07087024a सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः 07087024c तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् 07087025a ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः 07087025c मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् 07087026a एतान्प्रमथ्य संग्रामे प्रियार्थं तव कौरव 07087026c प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः 07087027a यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च 07087027c प्रेक्षसे वर्मसंछन्नान्किरातैः समधिष्ठितान् 07087028a किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना 07087028c स्वलंकृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः 07087029a आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् 07087029c त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् 07087030a तेषामेते महामात्राः किराता युद्धदुर्मदाः 07087030c हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः 07087031a एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना 07087031c मदर्थमद्य संयत्ता दुर्योधनवशानुगाः 07087032a एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् 07087032c सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् 07087033a ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः 07087033c कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः 07087034a जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः 07087034c लब्धलक्ष्या रणे राजन्नैरावणसमा युधि 07087035a उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः 07087035c कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः 07087036a सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः 07087036c अनेकयोनयश्चान्ये तथा मानुषयोनयः 07087037a अनीकमसतामेतद्धूमवर्णमुदीर्यते 07087037c म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् 07087038a एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् 07087038c कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् 07087039a सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् 07087039c कृतार्थमथ चात्मानं मन्यते कालचोदितः 07087040a ते च सर्वेऽनुसंप्राप्ता मम नाराचगोचरम् 07087040c न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः 07087041a तेन संभाविता नित्यं परवीर्योपजीविना 07087041c विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः 07087042a ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः 07087042c एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः 07087043a शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः 07087043c संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः 07087044a अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत 07087044c यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः 07087045a अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः 07087045c तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः 07087046a तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च 07087046c रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः 07087047a अस्मिंस्तु खलु संग्रामे ग्राह्यं विविधमायुधम् 07087047c यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः 07087048a काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः 07087048c नानाशस्त्रसमावापैर्विविधायुधयोधिभिः 07087049a किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः 07087049c लालितैः सततं राज्ञा दुर्योधनहितैषिभिः 07087050a शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः 07087050c अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः 07087051a तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः 07087051c समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः 07087052a तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः 07087052c उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे 07087053a तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च 07087053c रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च 07087054a ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः 07087054c रसवत्पाययामासुः पानं मदसमीरिणम् 07087055a पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृतान् 07087055c विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः 07087056a तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः 07087056c संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे 07087057a महाध्वजेन सिंहेन हेमकेसरमालिना 07087057c संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः 07087057e पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते 07087058a हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे 07087058c योजयामास विधिवद्धेमभाण्डविभूषितान् 07087059a दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा 07087059c न्यवेदयद्रथं युक्तं वासवस्येव मातलिः 07087060a ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः 07087060c स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् 07087060e आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः 07087061a ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु 07087061c लोहिताक्षो बभौ तत्र मदविह्वललोचनः 07087062a आलभ्य वीरकांस्यं च हर्षेण महतान्वितः 07087062c द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः 07087062e उत्सङ्गे धनुरादाय सशरं रथिनां वरः 07087063a कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः 07087063c लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः 07087064a युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः 07087064c तेन मूर्धन्युपाघ्रात आरुरोह महारथम् 07087065a ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः 07087065c अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः 07087066a अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् 07087066c त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते 07087067a अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् 07087067c आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् 07087068a जानीषे मम वीर्यं त्वं तव चाहमरिंदम 07087068c तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् 07087069a तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये 07087069c अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम 07087070a एवमुक्तः प्रत्युवाच भीमसेनं स माधवः 07087070c गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम 07087071a यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः 07087071c निमित्तानि च धन्यानि यथा भीम वदन्ति मे 07087072a निहते सैन्धवे पापे पाण्डवेन महात्मना 07087072c परिष्वजिष्ये राजानं धर्मात्मानं न संशयः 07087073a एतावदुक्त्वा भीमं तु विसृज्य च महामनाः 07087073c संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव 07087074a तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप 07087074c भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत 07087075a ततः प्रयातः सहसा सैन्यं तव स सात्यकिः 07087075c दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् 07088001 संजय उवाच 07088001a प्रयाते तव सैन्यं तु युयुधाने युयुत्सया 07088001c धर्मराजो महाराज स्वेनानीकेन संवृतः 07088001e प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः 07088002a ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः 07088002c प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः 07088003a आगच्छत प्रहरत द्रुतं विपरिधावत 07088003c यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः 07088004a महारथा हि बहवो यतिष्यन्त्यस्य निर्जये 07088004c इति ब्रुवन्तो वेगेन समापेतुर्बलं तव 07088005a वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः 07088005c ततः शब्दो महानासीद्युयुधानरथं प्रति 07088006a प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी 07088006c सात्वतेन महाराज शतधाभिव्यदीर्यत 07088007a तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः 07088007c सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् 07088008a ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना 07088008c आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् 07088009a रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष 07088009c चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः 07088010a अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः 07088010c बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते 07088011a हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः 07088011c ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम 07088012a शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः 07088012c पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी 07088013a गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः 07088013c रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः 07088014a तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः 07088014c उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः 07088014e गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना 07088015a नानाविधानि सैन्यानि तव हत्वा तु सात्वतः 07088015c प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् 07088016a ततस्तेनैव मार्गेण येन यातो धनंजयः 07088016c इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः 07088017a भरद्वाजं समासाद्य युयुधानस्तु मारिष 07088017c नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः 07088018a निवार्य तु रणे द्रोणो युयुधानं महारथम् 07088018c विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः 07088019a सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः 07088019c हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 07088020a तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् 07088020c स तं न ममृषे द्रोणं युयुधानो महारथः 07088021a सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः 07088021c दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च 07088022a युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः 07088022c एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् 07088022e ध्वजमेकेन बाणेन विव्याध युधि मारिष 07088023a तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः 07088023c त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः 07088024a तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः 07088024c प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह 07088025a तवाचार्यो रणं हित्वा गतः कापुरुषो यथा 07088025c युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत 07088026a त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव 07088026c यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् 07088027 सात्यकिरुवाच 07088027a धनंजयस्य पदवीं धर्मराजस्य शासनात् 07088027c गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् 07088028 संजय उवाच 07088028a एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् 07088028c प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् 07088029a द्रोणः करिष्यते यत्नं सर्वथा मम वारणे 07088029c यत्तो याहि रणे सूत शृणु चेदं वचः परम् 07088030a एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् 07088030c अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् 07088031a तदनन्तरमेतच्च बाह्लिकानां बलं महत् 07088031c बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् 07088032a अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे 07088032c अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् 07088033a एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् 07088033c मध्यमं जवमास्थाय वह मामत्र सारथे 07088034a बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः 07088034c दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः 07088035a हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते 07088035c नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् 07088036a एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् 07088036c स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् 07088037a तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् 07088037c युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् 07088038a कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः 07088038c प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः 07088039a प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च 07088039c अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् 07088040a तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः 07088040c चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् 07088041a ततः पुनः षोडशभिर्नतपर्वभिराशुगैः 07088041c सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे 07088042a स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः 07088042c सात्वतेन महाराज कृतवर्मा न चक्षमे 07088043a स वत्सदन्तं संधाय जिह्मगानलसंनिभम् 07088043c आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् 07088044a स तस्य देहावरणं भित्त्वा देहं च सायकः 07088044c सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः 07088045a अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् 07088045c समार्गणगुणं राजन्कृतवर्मा शरासनम् 07088046a विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् 07088046c दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे 07088047a ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः 07088047c अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः 07088048a ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः 07088048c व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः 07088049a सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् 07088049c छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः 07088050a अथास्य भल्लेन शिरः सारथेः समकृन्तत 07088050c स पपात हतः सूतो हार्दिक्यस्य महारथात् 07088050e ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् 07088051a अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् 07088051c तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् 07088052a स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् 07088052c व्यपेतभीरमित्राणामावहत्सुमहद्भयम् 07088052e सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् 07088053a युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः 07088053c प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् 07088054a स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः 07088054c न चचाल तदा राजन्सात्यकिः सत्यविक्रमः 07088055a संधाय च चमूं द्रोणो भोजे भारं निवेश्य च 07088055c अन्वधावद्रणे यत्तो युयुधानं युयुत्सया 07088056a तथा तमनुधावन्तं युयुधानस्य पृष्ठतः 07088056c न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः 07088057a समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् 07088057c पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः 07088057e विक्रम्य वारिता राजन्वीरेण कृतवर्मणा 07088058a यतमानांस्तु तान्सर्वानीषद्विगतचेतसः 07088058c अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् 07088059a निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे 07088059c अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः 07089001 धृतराष्ट्र उवाच 07089001a एवं बहुविधं सैन्यमेवं प्रविचितं वरम् 07089001c व्यूढमेवं यथान्यायमेवं बहु च संजय 07089002a नित्यं पूजितमस्माभिरभिकामं च नः सदा 07089002c प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् 07089003a नातिवृद्धमबालं च न कृशं नातिपीवरम् 07089003c लघुवृत्तायतप्राणं सारगात्रमनामयम् 07089004a आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् 07089004c शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् 07089005a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 07089005c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 07089006a नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् 07089006c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 07089007a न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः 07089007c नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह 07089008a कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् 07089008c कृतमानोपकारं च यशस्वि च मनस्वि च 07089009a सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः 07089009c लोकपालोपमैस्तात पालितं नरसत्तमैः 07089010a बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः 07089010c अस्मानभिसृतैः कामात्सबलैः सपदानुगैः 07089011a महोदधिमिवापूर्णमापगाभिः समन्ततः 07089011c अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम् 07089012a योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् 07089012c क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् 07089013a ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् 07089013c वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् 07089014a द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् 07089014c जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम् 07089015a गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे 07089015c संजयैकरथेनैव युयुधाने च मामकम् 07089016a तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि 07089016c सात्वते च रथोदारे मम सैन्यस्य संजय 07089017a तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ 07089017c सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे 07089018a किं तदा कुरवः कृत्यं विदधुः कालचोदिताः 07089018c दारुणैकायने काले कथं वा प्रतिपेदिरे 07089019a ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान् 07089019c विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै 07089020a अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ 07089020c न च वारयिता कश्चित्तयोरस्तीह संजय 07089021a भृताश्च बहवो योधाः परीक्ष्यैव महारथाः 07089021c वेतनेन यथायोग्यं प्रियवादेन चापरे 07089022a अकारणभृतस्तात मम सैन्ये न विद्यते 07089022c कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् 07089023a न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय 07089023c अल्पदानभृतस्तात न कुप्यभृतको नरः 07089024a पूजिता हि यथाशक्त्या दानमानासनैर्मया 07089024c तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः 07089025a ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना 07089025c शैनेयेन परामृष्टाः किमन्यद्भागधेयतः 07089026a रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः 07089026c एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः 07089027a अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् 07089027c पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत 07089028a सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् 07089028c किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत 07089029a सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ 07089029c दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः 07089030a दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् 07089030c शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः 07089031a दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च 07089031c पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः 07089032a विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये 07089032c पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः 07089033a शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च 07089033c हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः 07089034a व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः 07089034c धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः 07089035a विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् 07089035c तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः 07089036a पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः 07089036c निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः 07089037a द्रोणस्य समतिक्रान्तावनीकमपराजितौ 07089037c क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः 07089038a संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ 07089038c प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ 07089039a तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे 07089039c भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः 07089040a तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु 07089040c कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय 07089041a द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः 07089041c पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे 07089042a बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः 07089042c भारद्वाजस्तथा तेषु कृतवैरो महारथः 07089043a अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति 07089043c तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय 07090001 संजय उवाच 07090001a आत्मापराधात्संभूतं व्यसनं भरतर्षभ 07090001c प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि 07090002a तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च 07090002c द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् 07090002e आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम 07090003a सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः 07090003c वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् 07090004a आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः 07090004c न हि ते सुकृतं किंचिदादौ मध्ये च भारत 07090004e दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः 07090005a तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् 07090005c शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् 07090006a प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे 07090006c भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव 07090007a आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् 07090007c दधारैको रणे पाण्डून्कृतवर्मा महारथः 07090008a यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् 07090008c पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत् 07090009a तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् 07090009c यदेनं सहिताः पार्था नातिचक्रमुराहवे 07090010a ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः 07090010c शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् 07090011a सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः 07090011c शतेन नकुलश्चापि हार्दिक्यं समविध्यत 07090012a द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः 07090012c धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् 07090012e विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः 07090013a शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः 07090013c पुनर्विव्याध विंशत्या सायकानां हसन्निव 07090014a कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् 07090014c एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः 07090014e धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् 07090015a अथैनं छिन्नधन्वानं त्वरमाणो महारथः 07090015c आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः 07090016a स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः 07090016c चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः 07090017a भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः 07090017c विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् 07090018a तं तथा कोष्ठकीकृत्य रथवंशेन मारिष 07090018c विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे 07090019a प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः 07090019c शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् 07090019e चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति 07090020a सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा 07090020c कृतवर्माणमभितः प्रजज्वाल सुदारुणा 07090021a तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् 07090021c द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा 07090022a सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा 07090022c द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता 07090022e शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् 07090023a ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् 07090023c भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् 07090024a अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे 07090024c भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह 07090025a भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष 07090025c रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे 07090026a ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव 07090026c अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत 07090027a त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् 07090027c तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः 07090028a शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः 07090028c धनुश्चिच्छेद समरे प्रहसन्निव भारत 07090029a शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् 07090029c असिं जग्राह समरे शतचन्द्रं च भास्वरम् 07090030a भ्रामयित्वा महाचर्म चामीकरविभूषितम् 07090030c तमसिं प्रेषयामास कृतवर्मरथं प्रति 07090031a स तस्य सशरं चापं छित्त्वा संख्ये महानसिः 07090031c अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् 07090032a एतस्मिन्नेव काले तु त्वरमाणा महारथाः 07090032c विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे 07090033a अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः 07090033c विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा 07090034a विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः 07090034c शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च 07090035a धनुरन्यत्समादाय शिखण्डी तु महायशाः 07090035c अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् 07090036a ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः 07090036c अभिदुद्राव वेगेन याज्ञसेनिं महारथम् 07090037a भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः 07090037c विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् 07090038a तौ दिशागजसंकाशौ ज्वलिताविव पावकौ 07090038c समासेदतुरन्योन्यं शरसंघैररिंदमौ 07090039a विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् 07090039c विसृजन्तौ च शतशो गभस्तीनिव भास्करौ 07090040a तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ 07090040c युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव 07090041a कृतवर्मा तु रभसं याज्ञसेनिं महारथम् 07090041c विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः 07090042a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 07090042c विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः 07090043a तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ 07090043c हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह 07090044a शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् 07090044c अपोवाह रणाद्यन्ता त्वरमाणो महारथम् 07090045a सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् 07090045c परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे 07090046a तत्राद्भुतं परं चक्रे कृतवर्मा महारथः 07090046c यदेकः समरे पार्थान्वारयामास सानुगान् 07090047a पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि 07090047c केकयांश्च महावीर्यान्कृतवर्मा महारथः 07090048a ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः 07090048c इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे 07090049a जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् 07090049c हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः 07090050a ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः 07090050c विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः 07091001 संजय उवाच 07091001a शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि 07091001c द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना 07091002a लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः 07091002c द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् 07091003a श्रुत्वा तु निनदं भीमं तावकानां महाहवे 07091003c शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् 07091004a कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः 07091004c अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः 07091005a ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे 07091005c प्रेषयामास समरे शरांश्च चतुरोऽपरान् 07091006a ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः 07091006c पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः 07091007a ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः 07091007c सेनामस्यार्दयामास शरैः संनतपर्वभिः 07091008a साभज्यताथ पृतना शैनेयशरपीडिता 07091008c ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः 07091009a शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् 07091009c अतीत्य स महाराज द्रोणानीकमहार्णवम् 07091010a पराजित्य च संहृष्टः कृतवर्माणमाहवे 07091010c यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम् 07091011a दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम् 07091011c पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः 07091012a यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः 07091012c सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् 07091013a एते हि बहवः सूत दुर्निवार्याश्च संयुगे 07091013c दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः 07091013e राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः 07091014a त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः 07091014c मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः 07091015a अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे 07091015c त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः 07091016a ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः 07091016c रथेनादित्यवर्णेन भास्वरेण पताकिना 07091017a तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः 07091017c वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः 07091018a आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः 07091018c परिवव्रुस्ततः शूरा गजानीकेन सर्वतः 07091018e किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः 07091019a सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् 07091019c पर्वतानिव वर्षेण तपान्ते जलदो महान् 07091020a वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः 07091020c प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः 07091021a शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः 07091021c विशीर्णकर्णास्यकरा विनियन्तृपताकिनः 07091022a संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः 07091022c हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः 07091023a रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः 07091023c नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः 07091024a तस्मिन्द्रुते गजानीके जलसंधो महारथः 07091024c यत्तः संप्रापयन्नागं रजताश्वरथं प्रति 07091025a रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः 07091025c कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः 07091026a शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् 07091026c उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् 07091027a चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि 07091027c अशोभत महाराज सविद्युदिव तोयदः 07091028a तमापतन्तं सहसा मागधस्य गजोत्तमम् 07091028c सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् 07091029a नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः 07091029c अक्रुध्यत रणे राजञ्जलसंधो महाबलः 07091030a ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः 07091030c अविध्यत शिनेः पौत्रं जलसंधो महोरसि 07091031a ततोऽपरेण भल्लेन पीतेन निशितेन च 07091031c अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् 07091032a सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत 07091032c अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः 07091033a स विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान् 07091033c नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् 07091034a अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमाद्बली 07091034c धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह 07091035a एतावदुक्त्वा शैनेयो जलसंधं महोरसि 07091035c विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव 07091036a क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः 07091036c जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः 07091037a जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम् 07091037c तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष 07091038a स निर्भिद्य भुजं सव्यं माधवस्य महारणे 07091038c अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः 07091039a निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः 07091039c त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत् 07091040a प्रगृह्य तु ततः खड्गं जलसंधो महाबलः 07091040c आर्षभं चर्म च महच्छतचन्द्रमलंकृतम् 07091040e तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह 07091041a शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् 07091041c अलातचक्रवच्चैव व्यरोचत महीं गतः 07091042a अथान्यद्धनुरादाय सर्वकायावदारणम् 07091042c शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् 07091042e विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह 07091043a ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः 07091043c साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्निव 07091044a तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् 07091044c वसुंधराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ 07091045a ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् 07091045c क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः 07091046a तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् 07091046c द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत 07091047a जलसंधं निहत्याजौ त्वरमाणस्तु सात्वतः 07091047c नैषादिं पातयामास गजस्कन्धाद्विशां पते 07091048a रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः 07091048c विलम्बमानमवहत्संश्लिष्टं परमासनम् 07091049a शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् 07091049c घोरमार्तस्वरं कृत्वा विदुद्राव महागजः 07091050a हाहाकारो महानासीत्तव सैन्यस्य मारिष 07091050c जलसंधं हतं दृष्ट्वा वृष्णीनामृषभेण ह 07091051a विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः 07091051c पलायने कृतोत्साहा निरुत्साहा द्विषज्जये 07091052a एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः 07091052c अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् 07091053a तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः 07091053c द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् 07091054a ततः प्रववृते युद्धं कुरूणां सात्वतस्य च 07091054c द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् 07092001 संजय उवाच 07092001a ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः 07092001c त्वरमाणा महाराज युयुधानमयोधयन् 07092002a तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः 07092002c दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः 07092003a विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः 07092003c विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा 07092004a दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः 07092004c चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष 07092005a दुर्योधनश्च महता शरवर्षेण माधवम् 07092005c अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः 07092006a सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः 07092006c तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः 07092007a भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा 07092007c विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः 07092008a दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् 07092008c सत्यव्रतं च नवभिर्विजयं दशभिः शरैः 07092009a ततो रुक्माङ्गदं चापं विधुन्वानो महारथः 07092009c अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् 07092010a राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् 07092010c शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः 07092011a विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् 07092011c अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ 07092012a सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत 07092012c अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा 07092013a सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव 07092013c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 07092014a माधवस्तु रणे राजन्कुरुराजस्य धन्विनः 07092014c धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव 07092014e अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् 07092015a निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा 07092015c नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् 07092016a अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् 07092016c विव्याध सात्यकिं तूर्णं सायकानां शतेन ह 07092017a सोऽतिविद्धो बलवता पुत्रेण तव धन्विना 07092017c अमर्षवशमापन्नस्तव पुत्रमपीडयत् 07092018a पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः 07092018c सात्वतं शरवर्षेण छादयामासुरञ्जसा 07092019a स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः 07092019c एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 07092020a दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः 07092020c प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् 07092021a नागं मणिमयं चैव शरैर्ध्वजमपातयत् 07092021c हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 07092021e सारथिं पातयामास क्षुरप्रेण महायशाः 07092022a एतस्मिन्नन्तरे चैव कुरुराजं महारथम् 07092022c अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः 07092023a स वध्यमानः समरे शैनेयस्य शरोत्तमैः 07092023c प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव 07092023e आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः 07092024a हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे 07092024c ग्रस्यमानं सात्यकिना खे सोममिव राहुणा 07092025a तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः 07092025c अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः 07092026a विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः 07092026c भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः 07092027a तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् 07092027c युयुधानो महाराज यन्तारमिदमब्रवीत् 07092028a कृतवर्मा रथेनैष द्रुतमापतते शरी 07092028c प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् 07092029a ततः प्रजविताश्वेन विधिवत्कल्पितेन च 07092029c आससाद रणे भोजं प्रतिमानं धनुष्मताम् 07092030a ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ 07092030c समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ 07092031a कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् 07092031c निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः 07092032a चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः 07092032c अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह 07092033a रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् 07092033c रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् 07092034a ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे 07092034c प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् 07092035a सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः 07092035c समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः 07092036a त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः 07092036c विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः 07092037a सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः 07092037c व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् 07092038a सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः 07092038c जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् 07092038e अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः 07092039a संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः 07092039c प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे 07092040a स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः 07092040c शरार्दितः सात्यकिना रथोपस्थे नरर्षभः 07092041a सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् 07092041c निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः 07092042a खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् 07092042c प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः 07092043a प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः 07092043c अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् 07092044a समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः 07092044c तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् 07093001 संजय उवाच 07093001a काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः 07093001c भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् 07093002a स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् 07093002c पश्यतां सर्वसैन्यानां बलिवासवयोरिव 07093003a ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः 07093003c त्रिभिराशीविषाकारैर्ललाटे समविध्यत 07093004a तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः 07093004c व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः 07093005a ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् 07093005c भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे 07093006a तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् 07093006c द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् 07093007a तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते 07093007c प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् 07093008a पुनः पञ्चाशतेषूणां शतेन च समार्पयत् 07093008c लघुतां युयुधानस्य लाघवेन विशेषयन् 07093009a समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः 07093009c तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः 07093010a तथैव युयुधानेन सृष्टाः शतसहस्रशः 07093010c अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः 07093011a लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष 07093011c विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ 07093012a सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः 07093012c आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः 07093012e सारथिं च शतेनैव भारद्वाजस्य पश्यतः 07093013a लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः 07093013c सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः 07093013e ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् 07093014a अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा 07093014c धनुश्चिच्छेद समरे माधवस्य महात्मनः 07093015a सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः 07093015c गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् 07093016a तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् 07093016c न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः 07093017a अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः 07093017c विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः 07093018a स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत 07093018c तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः 07093019a ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् 07093019c तरसा प्रेषयामास माधवस्य रथं प्रति 07093020a अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा 07093020c भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना 07093021a ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा 07093021c दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ 07093022a द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः 07093022c अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् 07093023a मुमोह सारथिस्तस्य रथशक्त्या समाहतः 07093023c स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत 07093024a चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् 07093024c अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् 07093025a ततः शरशतेनैव युयुधानो महारथः 07093025c अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते 07093026a तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत 07093026c ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 07093027a निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् 07093027c सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति 07093028a ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि 07093028c अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः 07093029a स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः 07093029c चकार राजतो राजन्भ्राजमान इवांशुमान् 07093030a अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत 07093030c इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः 07093031a ते सात्यकिमपास्याशु राजन्युधि महारथाः 07093031c यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् 07093032a तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् 07093032c प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् 07093033a व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः 07093033c वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः 07093034a पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान् 07093034c शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे 07093035a निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव 07093035c तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः 07094001 संजय उवाच 07094001a द्रोणं स जित्वा पुरुषप्रवीर;स्तथैव हार्दिक्यमुखांस्त्वदीयान् 07094001c प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य 07094002a निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम् 07094002c हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन 07094003a तमेवमुक्त्वा शिनिपुंगवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा 07094003c किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा 07094004a तं यान्तमश्वैः शशिशङ्खवर्णै;र्विगाह्य सैन्यं पुरुषप्रवीरम् 07094004c नाशक्नुवन्वारयितुं समन्ता;दादित्यरश्मिप्रतिमं नराग्र्यम् 07094005a असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम् 07094005c सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये 07094006a अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी 07094006c सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य 07094007a तयोरभूद्भरत संप्रहारः; सुदारुणस्तं समभिप्रशंसन् 07094007c योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः 07094008a शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य;त्सुदर्शनः सात्वतमुख्यमाजौ 07094008c अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि 07094009a तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान् 07094009c द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः 07094010a संप्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः 07094010c क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान् 07094011a पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः 07094011c विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम् 07094012a तथैव तस्यावनिपालपुत्रः; संधाय बाणैरपरैर्ज्वलद्भिः 07094012c आजघ्निवांस्तान्रजतप्रकाशां;श्चतुर्भिरश्वांश्चतुरः प्रसह्य 07094013a तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः 07094013c सुदर्शनस्येषुगणैः सुतीक्ष्णै;र्हयान्निहत्याशु ननाद नादम् 07094014a अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन 07094014c सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य 07094015a सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् 07094015c यथा पुरा वज्रधरः प्रसह्य; बलस्य संख्येऽतिबलस्य राजन् 07094016a निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी 07094016c मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः 07094017a ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः 07094017c सदश्वयुक्तेन रथेन निर्या;ल्लोकान्विसिस्मापयिषुर्नृवीरः 07094018a तत्तस्य विस्मापयनीयमग्र्य;मपूजयन्योधवराः समेताः 07094018c यद्वर्तमानानिषुगोचरेऽरी;न्ददाह बाणैर्हुतभुग्यथैव 07095001 संजय उवाच 07095001a ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुंगवः 07095001c सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् 07095002a रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् 07095002c खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् 07095003a प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् 07095003c योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् 07095004a तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् 07095004c जलसंधबलेनाजौ पुरुषादैरिवावृतम् 07095005a अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव 07095005c तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम् 07095006a हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् 07095006c निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे 07095007a हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनंजयम् 07095007c न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः 07095007e वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् 07095008a पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना 07095008c पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् 07095009a अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् 07095009c स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः 07095010a यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै 07095010c अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः 07095011a शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम् 07095011c यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः 07095012a दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः 07095012c शरबाणासनधरा यवनाश्च प्रहारिणः 07095013a शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः 07095013c अन्ये च बहवो म्लेच्छा विविधायुधपाणयः 07095013e मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः 07095014a एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः 07095014c इदं दुर्गं महाघोरं तीर्णमेवोपधारय 07095015 सूत उवाच 07095015a न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम 07095015c यद्यपि स्यात्सुसंक्रुद्धो जामदग्न्योऽग्रतः स्थितः 07095016a द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा 07095016c तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज 07095017a त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन 07095017c न च मे संभ्रमः कश्चिद्भूतपूर्वः कदाचन 07095017e किमु चैतत्समासाद्य वीर संयुगगोष्पदम् 07095018a आयुष्मन्कतरेण त्वा प्रापयामि धनंजयम् 07095018c केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः 07095018e केषां संयमनीमद्य गन्तुमुत्सहते मनः 07095019a के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् 07095019c दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे 07095019e केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज 07095020 सात्यकिरुवाच 07095020a मुण्डानेतान्हनिष्यामि दानवानिव वासवः 07095020c प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह 07095020e अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् 07095021a अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः 07095021c मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् 07095022a अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे 07095022c श्रुत्वा विरावं बहुधा संतप्स्यति सुयोधनः 07095023a अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः 07095023c आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे 07095024a अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः 07095024c दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति 07095025a अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् 07095025c अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः 07095026a मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु 07095026c सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयोधनः 07095027a अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् 07095027c द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः 07095028a अद्य राजसहस्राणि निहतानि मया रणे 07095028c दृष्ट्वा दुर्योधनो राजा संतप्स्यति महामृधे 07095029a अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु 07095029c हत्वा राजसहस्राणि दर्शयिष्यामि राजसु 07095030 संजय उवाच 07095030a एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः 07095030c शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् 07095031a ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः 07095031c प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः 07095032a सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् 07095032c बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् 07095033a तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः 07095033c अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः 07095034a रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः 07095034c उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि 07095035a शैक्यायसानि वर्माणि कांस्यानि च समन्ततः 07095035c भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् 07095036a ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे 07095036c शतशो न्यपतंस्तत्र व्यसवो वसुधातले 07095037a सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः 07095037c पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः 07095038a काम्बोजानां सहस्रैस्तु शकानां च विशां पते 07095038c शबराणां किरातानां बर्बराणां तथैव च 07095039a अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् 07095039c कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् 07095040a दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः 07095040c तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव 07095041a रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ 07095041c कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् 07095042a वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः 07095042c ते साश्वयाना निहताः समावव्रुर्वसुंधराम् 07095043a अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः 07095043c जिताः संख्ये महाराज युयुधानेन दंशिताः 07095044a पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरंगमान् 07095044c जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् 07095045a काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत 07095045c यवनानां च तत्सैन्यं शकानां च महद्बलम् 07095046a स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः 07095046c प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् 07095047a तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते 07095047c चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् 07096001 संजय उवाच 07096001a जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् 07096001c जगाम तव सैन्यस्य मध्येन रथिनां वरः 07096002a शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः 07096002c मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् 07096003a स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम् 07096003c रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् 07096004a रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः 07096004c रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ 07096005a सधनुर्मण्डलः संख्ये तेजोभास्वररश्मिवान् 07096005c शरदीवोदितः सूर्यो नृसूर्यो विरराज ह 07096006a वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः 07096006c तावकानां बभौ मध्ये गवां मध्ये यथा वृषः 07096007a मत्तद्विरदसंकाशं मत्तद्विरदगामिनम् 07096007c प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् 07096007e व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे 07096008a द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् 07096008c जलसंधार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् 07096009a हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् 07096009c परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः 07096010a दुर्योधनश्चित्रसेनो दुःशासनविविंशती 07096010c शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः 07096011a अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः 07096011c पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः 07096012a अथ शब्दो महानासीत्तव सैन्यस्य मारिष 07096012c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 07096013a तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुंगवः 07096013c शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव 07096014a इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम् 07096014c मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् 07096015a नादयन्वै दिशः सर्वा रथघोषेण सारथे 07096015c पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि 07096016a एतद्बलार्णवं तात वारयिष्ये महारणे 07096016c पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् 07096017a पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे 07096017c एष सैन्यानि शत्रूणां विधमामि शितैः शरैः 07096018a निहतानाहवे पश्य पदात्यश्वरथद्विपान् 07096018c मच्छरैरग्निसंकाशैर्विदेहासून्सहस्रशः 07096019a इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः 07096019c समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः 07096019e जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः 07096020a तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः 07096020c जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् 07096021a स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् 07096021c देवासुररणप्रख्यः प्रावर्तत जनक्षयः 07096022a मेघजालनिभं सैन्यं तव पुत्रस्य मारिष 07096022c प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः 07096023a प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् 07096023c असंभ्रमं महाराज तावकानवधीद्बहून् 07096024a आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् 07096024c न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो 07096025a रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः 07096025c शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः 07096026a संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः 07096026c तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः 07096026e बभ्राम तत्र तत्रैव गावः शीतार्दिता इव 07096027a पदातिनं रथं नागं सादिनं तुरगं तथा 07096027c अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः 07096028a न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः 07096028c यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप 07096028e अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ 07096029a ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः 07096029c विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् 07096030a सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः 07096030c दुःशासनः षोडशभिर्विव्याध शिनिपुंगवम् 07096031a शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः 07096031c दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् 07096032a उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः 07096032c तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः 07096033a गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः 07096033c शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः 07096034a सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च 07096034c दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 07096035a चित्रसेनं शतेनैव दशभिर्दुःसहं तथा 07096035c दुःशासनं च विंशत्या विव्याध शिनिपुंगवः 07096036a अथान्यद्धनुरादाय स्यालस्तव विशां पते 07096036c अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः 07096037a दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः 07096037c दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् 07096038a दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम् 07096038c ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् 07096039a तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् 07096039c पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः 07096040a ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् 07096040c आजघानाशु भल्लेन स हतो न्यपतद्भुवि 07096041a पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो 07096041c वातायमानैस्तैरश्वैरपानीयत संगरात् 07096042a ततस्तव सुता राजन्सैनिकाश्च विशां पते 07096042c राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् 07096043a विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः 07096043c अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः 07096044a विद्राव्य सर्वसैन्यानि तावकानि समन्ततः 07096044c प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति 07096045a तं शरानाददानं च रक्षमाणं च सारथिम् 07096045c आत्मानं मोचयन्तं च तावकाः समपूजयन् 07097001 धृतराष्ट्र उवाच 07097001a संप्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् 07097001c निर्ह्रीका मम ते पुत्राः किमकुर्वत संजय 07097002a कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम् 07097002c शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः 07097003a किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः 07097003c कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः 07097004a कथं च मम पुत्राणां जीवतां तत्र संजय 07097004c शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः 07097005a अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् 07097005c एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः 07097006a विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति 07097006c यत्रावध्यन्त समरे सात्वतेन महात्मना 07097007a एकस्य हि न पर्याप्तं मत्सैन्यं तस्य संजय 07097007c क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः 07097008a निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम् 07097008c यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम 07097009a कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे 07097009c युयुधानो न शकितो हन्तुं यः पुरुषर्षभः 07097010a नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः 07097010c यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः 07097011 संजय उवाच 07097011a तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च 07097011c शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत 07097012a ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः 07097012c परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् 07097013a त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः 07097013c शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा 07097014a कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः 07097014c अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा 07097015a युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् 07097015c शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् 07097016a ततो रथसहस्रेण महारथशतेन च 07097016c द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः 07097017a शरवर्षाणि मुञ्चन्तो विविधानि महारथाः 07097017c अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः 07097018a तांश्च संचोदयन्सर्वान्घ्नतैनमिति भारत 07097018c दुःशासनो महाराज सात्यकिं पर्यवारयत् 07097019a तत्राद्भुतमपश्याम शैनेयचरितं महत् 07097019c यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत 07097020a अवधीच्च रथानीकं द्विरदानां च तद्बलम् 07097020c सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः 07097021a तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः 07097021c अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः 07097022a कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः 07097022c वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुंधरा 07097023a स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष 07097023c संछन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत 07097024a गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः 07097024c अञ्जनस्य कुले जाता वामनस्य च भारत 07097024e सुप्रतीककुले जाता महापद्मकुले तथा 07097025a ऐरावणकुले चैव तथान्येषु कुलेषु च 07097025c जाता दन्तिवरा राजञ्शेरते बहवो हताः 07097026a वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 07097026c तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः 07097027a नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः 07097027c निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः 07097028a तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् 07097028c निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः 07097029a तांश्चापि सर्वान्संप्रेक्ष्य पुत्रो दुःशासनस्तव 07097029c पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् 07097030a अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः 07097030c अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् 07097031a तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः 07097031c अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः 07097032a ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः 07097032c उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः 07097033a क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः 07097033c चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् 07097034a तेषामापततामेव शिलायुद्धं चिकीर्षताम् 07097034c सात्यकिः प्रतिसंधाय त्रिंशतं प्राहिणोच्छरान् 07097035a तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् 07097035c बिभेदोरगसंकाशैर्नाराचैः शिनिपुंगवः 07097036a तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः 07097036c प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष 07097037a ततः पञ्चशताः शूराः समुद्यतमहाशिलाः 07097037c निकृत्तबाहवो राजन्निपेतुर्धरणीतले 07097038a पाषाणयोधिनः शूरान्यतमानानवस्थितान् 07097038c अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् 07097039a ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः 07097039c अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः 07097040a अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः 07097040c नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः 07097041a अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः 07097041c शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः 07097042a अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च 07097042c नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः 07097043a हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः 07097043c कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि 07097044a ततः शब्दः समभवत्तव सैन्यस्य मारिष 07097044c माधवेनार्द्यमानस्य सागरस्येव दारुणः 07097045a तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् 07097045c एष सूत रणे क्रुद्धः सात्वतानां महारथः 07097046a दारयन्बहुधा सैन्यं रणे चरति कालवत् 07097046c यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय 07097047a पाषाणयोधिभिर्नूनं युयुधानः समागतः 07097047c तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः 07097048a विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च 07097048c न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् 07097049a इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः 07097049c प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् 07097050a आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः 07097050c पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः 07097051a एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह 07097051c त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः 07097052a अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम 07097052c स्थाने वा गमने वापि दूरं यातश्च सात्यकिः 07097053a तथैवं वदतस्तस्य भारद्वाजस्य मारिष 07097053c प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् 07097054a ते वध्यमानाः समरे युयुधानेन तावकाः 07097054c युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः 07097055a यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत 07097055c ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति 07098001 संजय उवाच 07098001a दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् 07098001c भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् 07098002a दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः 07098002c कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः 07098003a राजपुत्रो भवानत्र राजभ्राता महारथः 07098003c किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि 07098004a स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह 07098004c एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे 07098005a न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे 07098005c शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः 07098006a अप्रियाणां च वचनं पाण्डवेषु विशेषतः 07098006c द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा 07098007a क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् 07098007c आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि 07098008a शोच्येयं भारती सेना राजा चैव सुयोधनः 07098008c यस्य त्वं कर्कशो भ्राता पलायनपरायणः 07098009a ननु नाम त्वया वीर दीर्यमाणा भयार्दिता 07098009c स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी 07098009e स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् 07098010a विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन 07098010c कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये 07098011a एकेन सात्वतेनाद्य युध्यमानस्य चानघ 07098011c पलायने तव मतिः संग्रामाद्धि प्रवर्तते 07098012a यदा गाण्डीवधन्वानं भीमसेनं च कौरव 07098012c यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि 07098013a युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् 07098013c न तुल्याः सात्यकिशरा येषां भीतः पलायसे 07098014a यदि तावत्कृता बुद्धिः पलायनपरायणा 07098014c पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् 07098015a यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः 07098015c नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः 07098016a यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे 07098016c नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः 07098017a यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः 07098017c कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः 07098018a यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् 07098018c सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः 07098019a पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः 07098019c अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः 07098019e न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः 07098020a स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः 07098020c गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः 07098021a त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत 07098021c आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् 07098022a एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ 07098022c श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः 07098023a सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् 07098023c आसाद्य च रणे यत्तो युयुधानमयोधयत् 07098024a द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा 07098024c अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् 07098025a प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् 07098025c द्रावयामास योधान्वै शतशोऽथ सहस्रशः 07098026a ततो द्रोणो महाराज नाम विश्राव्य संयुगे 07098026c पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् 07098027a तं जयन्तमनीकानि भारद्वाजं ततस्ततः 07098027c पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् 07098028a स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः 07098028c ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः 07098029a तत्राद्भुतं महाराज दृष्टवानस्मि