% Mahabharata: Bhismaparvan % Last updated: Mon Jul 26 2021 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 06001001 जनमेजय उवाच 06001001a कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः 06001001c पार्थिवाश्च महाभागा नानादेशसमागताः 06001002 वैशंपायन उवाच 06001002a यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः 06001002c कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते 06001003a अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः 06001003c कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः 06001004a वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः 06001004c आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे 06001005a अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् 06001005c प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः 06001006a समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः 06001006c कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः 06001007a शून्येव पृथिवी सर्वा बालवृद्धावशेषिता 06001007c निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता 06001008a यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् 06001008c तावदेव समावृत्तं बलं पार्थिवसत्तम 06001009a एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् 06001009c पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च 06001010a तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ 06001010c आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् 06001011a संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः 06001011c एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत 06001012a अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च 06001012c योजयामास कौरव्यो युद्धकाल उपस्थिते 06001013a दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः 06001013c सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् 06001014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 06001014c मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् 06001015a दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः 06001015c दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः 06001016a ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः 06001016c बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् 06001017a ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ 06001017c दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ 06001018a पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः 06001018c श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः 06001019a यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः 06001019c त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा 06001020a उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन 06001020c अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 06001021a ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् 06001021c व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् 06001022a वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः 06001022c विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः 06001023a उभे सेने तदा राजन्युद्धाय मुदिते भृशम् 06001023c कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे 06001024a तयोस्तु सेनयोरासीदद्भुतः स समागमः 06001024c युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव 06001025a शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता 06001025c तेन सेनासमूहेन समानीतेन कौरवैः 06001026a ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः 06001026c धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ 06001027a निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् 06001027c यथापुरं यथायोगं न च स्याच्छलनं पुनः 06001028a वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् 06001028c निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन 06001029a रथी च रथिना योध्यो गजेन गजधूर्गतः 06001029c अश्वेनाश्वी पदातिश्च पदातेनैव भारत 06001030a यथायोगं यथावीर्यं यथोत्साहं यथावयः 06001030c समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले 06001031a परेण सह संयुक्तः प्रमत्तो विमुखस्तथा 06001031c क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन 06001032a न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु 06001032c न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन 06001033a एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः 06001033c विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् 06001034a निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः 06001034c हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः 06002001 वैशंपायन उवाच 06002001a ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः 06002001c सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः 06002002a भविष्यति रणे घोरे भरतानां पितामहः 06002002c प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् 06002003a वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् 06002003c शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा 06002004 व्यास उवाच 06002004a राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः 06002004c ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् 06002005a तेषु कालपरीतेषु विनश्यत्सु च भारत 06002005c कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः 06002006a यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते 06002006c चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय 06002007 धृतराष्ट्र उवाच 06002007a न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम 06002007c युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा 06002008 वैशंपायन उवाच 06002008a तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति 06002008c वराणामीश्वरो दाता संजयाय वरं ददौ 06002009 व्यास उवाच 06002009a एष ते संजयो राजन्युद्धमेतद्वदिष्यति 06002009c एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति 06002010a चक्षुषा संजयो राजन्दिव्येनैष समन्वितः 06002010c कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति 06002011a प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा 06002011c मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः 06002012a नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः 06002012c गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते 06002013a अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ 06002013c पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः 06002014a दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि 06002014c न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः 06002015 वैशंपायन उवाच 06002015a एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः 06002015c पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह 06002016a इह युद्धे महाराज भविष्यति महान्क्षयः 06002016c यथेमानि निमित्तानि भयायाद्योपलक्षये 06002017a श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः 06002017c संपतन्ति वनान्तेषु समवायांश्च कुर्वते 06002018a अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः 06002018c क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् 06002019a खटाखटेति वाशन्तो भैरवं भयवेदिनः 06002019c कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् 06002020a उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत 06002020c उदयास्तमने सूर्यं कबन्धैः परिवारितम् 06002021a श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः 06002021c त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत 06002022a ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् 06002022c अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति 06002023a अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् 06002023c चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले 06002024a स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः 06002024c राजानो राजपुत्राश्च शूराः परिघबाहवः 06002025a अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः 06002025c प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये 06002026a देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च 06002026c वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च 06002027a अनाहता दुन्दुभयः प्रणदन्ति विशां पते 06002027c अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः 06002028a कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा 06002028c सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः 06002029a गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः 06002029c अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः 06002030a उभे संध्ये प्रकाशेते दिशां दाहसमन्विते 06002030c आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत 06002031a या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता 06002031c अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः 06002032a रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः 06002032c व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् 06002033a अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् 06002033c वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः 06003001 व्यास उवाच 06003001a खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः 06003001c अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः 06003002a गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् 06003002c क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् 06003003a त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः 06003003c द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः 06003004a जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः 06003004c त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः 06003005a तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् 06003005c वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव 06003006a गोवत्सं वडवा सूते श्वा सृगालं महीपते 06003006c क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः 06003007a स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः 06003007c ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च 06003008a पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि 06003008c नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् 06003009a प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः 06003009c अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः 06003009e उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः 06003010a पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च 06003010c विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति 06003011a अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् 06003011c श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति 06003012a अभावं हि विशेषेण कुरूणां प्रतिपश्यति 06003012c धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति 06003013a सेनयोरशिवं घोरं करिष्यति महाग्रहः 06003013c मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः 06003014a भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते 06003014c शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते 06003014e उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते 06003015a श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः 06003015c ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति 06003016a ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते 06003016c चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः 06003017a वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः 06003017c ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः 06003018a सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी 06003018c पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः 06003019a प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् 06003019c ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत 06003020a निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् 06003020c व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् 06003021a अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च 06003021c कवचानां ध्वजानां च भविष्यति महान्क्षयः 06003022a दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः 06003022c अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् 06003023a एकपक्षाक्षिचरणः शकुनिः खचरो निशि 06003023c रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः 06003024a ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ 06003024c सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् 06003025a संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ 06003025c विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ 06003026a कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् 06003026c वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः 06003027a त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते 06003027c बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम् 06003028a चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् 06003028c इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् 06003029a चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् 06003029c अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः 06003030a रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः 06003030c उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् 06003031a मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् 06003031c अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः 06003032a प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः 06003032c फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव 06003032e पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः 06003033a अद्य चैव निशां व्युष्टामुदये भानुराहतः 06003033c ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् 06003034a आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः 06003034c भूमिपालसहस्राणां भूमिः पास्यति शोणितम् 06003035a कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः 06003035c सहस्रशो महाशब्दं शिखराणि पतन्ति च 06003036a महाभूता भूमिकम्पे चतुरः सागरान्पृथक् 06003036c वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः 06003037a वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः 06003037c पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च 06003038a पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः 06003038c वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः 06003038e स्पर्शा गन्धा रसाश्चैव विपरीता महीपते 06003039a धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः 06003039c मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा 06003040a प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि 06003040c गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः 06003041a पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च 06003041c निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् 06003042a ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः 06003042c रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः 06003043a एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् 06003043c यथा लोकः समुच्छेदं नायं गच्छेत भारत 06003044 वैशंपायन उवाच 06003044a पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् 06003044c दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः 06003045a क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे 06003045c वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् 06003046a इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् 06003046c प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे 06004001 वैशंपायन उवाच 06004001a एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम 06004001c पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् 06004002a पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः 06004002c असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत् 06004003a सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् 06004003c ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा 06004004a धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे 06004004c क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् 06004005a कालोऽयं पुत्ररूपेण तव जातो विशां पते 06004005c न वधः पूज्यते वेदे हितं नैतत्कथंचन 06004006a हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् 06004006c कालेनोत्पथगन्तासि शक्ये सति यथापथि 06004007a कुलस्यास्य विनाशाय तथैव च महीक्षिताम् 06004007c अनर्थो राज्यरूपेण त्यज्यतामसुखावहः 06004008a लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् 06004008c किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् 06004009a यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि 06004009c लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः 06004010a एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः 06004010c आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः 06004011 धृतराष्ट्र उवाच 06004011a यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् 06004011c स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि 06004012a प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः 06004012c न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् 06004013a त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः 06004013c कुरूणां पाण्डवानां च मान्यश्चासि पितामहः 06004014 व्यास उवाच 06004014a वैचित्रवीर्य नृपते यत्ते मनसि वर्तते 06004014c अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् 06004015 धृतराष्ट्र उवाच 06004015a यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् 06004015c तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः 06004016 व्यास उवाच 06004016a प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः 06004016c पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः 06004017a गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र 06004017c विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः 06004018a इष्टा वाचः पृष्ठतो वायसानां; संप्रस्थितानां च गमिष्यतां च 06004018c ये पृष्ठतस्ते त्वरयन्ति राज;न्ये त्वग्रतस्ते प्रतिषेधयन्ति 06004019a कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र 06004019c प्रदक्षिणाश्चैव भवन्ति संख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः 06004020a अलंकारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम् 06004020c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून् 06004021a हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत 06004021c न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् 06004022a इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः 06004022c पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते 06004023a शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः 06004023c सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः 06004024a अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च 06004024c अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च 06004025a एतानि जयमानानां लक्षणानि विशां पते 06004025c भवन्ति विपरीतानि मुमूर्षूणां जनाधिप 06004026a अल्पायां वा महत्यां वा सेनायामिति निश्चितम् 06004026c हर्षो योधगणस्यैकं जयलक्षणमुच्यते 06004027a एको दीर्णो दारयति सेनां सुमहतीमपि 06004027c तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि 06004028a दुर्निवारतमा चैव प्रभग्ना महती चमूः 06004028c अपामिव महावेगस्त्रस्ता मृगगणा इव 06004029a नैव शक्या समाधातुं संनिपाते महाचमूः 06004029c दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि 06004029e भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते 06004030a प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः 06004030c नैव स्थापयितुं शक्या शूरैरपि महाचमूः 06004031a संभृत्य महतीं सेनां चतुरङ्गां महीपतिः 06004031c उपायपूर्वं मेधावी यतेत सततोत्थितः 06004032a उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् 06004032c जघन्य एष विजयो यो युद्धेन विशां पते 06004032e महादोषः संनिपातस्ततो व्यङ्गः स उच्यते 06004033a परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः 06004033c पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् 06004033e अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः 06004034a न वैनतेयो गरुडः प्रशंसति महाजनम् 06004034c दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत 06004035a न बाहुल्येन सेनाया जयो भवति भारत 06004035c अध्रुवो हि जयो नाम दैवं चात्र परायणम् 06004035e जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत 06005001 वैशंपायन उवाच 06005001a एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते 06005001c धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत 06005002a स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः 06005002c संजयं संशितात्मानमपृच्छद्भरतर्षभ 06005003a संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः 06005003c अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि 06005004a पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः 06005004c न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् 06005005a भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् 06005005c मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय 06005006a बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च 06005006c कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले 06005007a देशानां च परीमाणं नगराणां च संजय 06005007c श्रोतुमिच्छामि तत्त्वेन यत एते समागताः 06005008a दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा 06005008c प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः 06005009 संजय उवाच 06005009a यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् 06005009c शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ 06005010a द्विविधानीह भूतानि त्रसानि स्थावराणि च 06005010c त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः 06005011a त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः 06005011c जरायुजानां प्रवरा मानवाः पशवश्च ये 06005012a नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश 06005012c अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः 06005013a सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा 06005013c ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप 06005014a गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः 06005014c एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 06005015a एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश 06005015c वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः 06005016a ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् 06005016c सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् 06005017a उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः 06005017c वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः 06005018a एषां विंशतिरेकोना महाभूतेषु पञ्चसु 06005018c चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता 06005019a य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् 06005019c तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति 06005020a भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति 06005020c भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् 06005021a यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् 06005021c तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् 06006001 धृतराष्ट्र उवाच 06006001a नदीनां पर्वतानां च नामधेयानि संजय 06006001c तथा जनपदानां च ये चान्ये भूमिमाश्रिताः 06006002a प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः 06006002c निखिलेन समाचक्ष्व काननानि च संजय 06006003 संजय उवाच 06006003a पञ्चेमानि महाराज महाभूतानि संग्रहात् 06006003c जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः 06006004a भूमिरापस्तथा वायुरग्निराकाशमेव च 06006004c गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः 06006005a शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 06006005c भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः 06006006a चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते 06006006c शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः 06006006e शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च 06006007a एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु 06006007c वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः 06006008a अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा 06006008c यदा तु विषमीभावमाविशन्ति परस्परम् 06006008e तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा 06006009a आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः 06006009c सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् 06006010a तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 06006010c तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते 06006011a अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् 06006011c प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् 06006012a सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन 06006012c परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः 06006013a नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः 06006013c पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा 06006014a वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् 06006014c लावणेन समुद्रेण समन्तात्परिवारितः 06006015a यथा च पुरुषः पश्येदादर्शे मुखमात्मनः 06006015c एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले 06006016a द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् 06006016c सर्वौषधिसमावापैः सर्वतः परिबृंहितः 06006016e आपस्ततोऽन्या विज्ञेया एष संक्षेप उच्यते 06007001 धृतराष्ट्र उवाच 06007001a उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय 06007001c यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे 06007001e तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् 06007002 वैशंपायन उवाच 06007002a एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत् 06007002c प्रागायता महाराज षडेते रत्नपर्वताः 06007002e अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ 06007003a हिमवान्हेमकूटश्च निषधश्च नगोत्तमः 06007003c नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः 06007003e सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः 06007004a एते वै पर्वता राजन्सिद्धचारणसेविताः 06007004c तेषामन्तरविष्कम्भो योजनानि सहस्रशः 06007005a तत्र पुण्या जनपदास्तानि वर्षाणि भारत 06007005c वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः 06007006a इदं तु भारतं वर्षं ततो हैमवतं परम् 06007006c हेमकूटात्परं चैव हरिवर्षं प्रचक्षते 06007007a दक्षिणेन तु नीलस्य निषधस्योत्तरेण च 06007007c प्रागायतो महाराज माल्यवान्नाम पर्वतः 06007008a ततः परं माल्यवतः पर्वतो गन्धमादनः 06007008c परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः 06007009a आदित्यतरुणाभासो विधूम इव पावकः 06007009c योजनानां सहस्राणि षोडशाधः किल स्मृतः 06007010a उच्चैश्च चतुराशीतिर्योजनानां महीपते 06007010c ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति 06007011a तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो 06007011c भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत 06007011e उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः 06007012a विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल 06007012c स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् 06007013a मेरुरुत्तममध्यानामधमानां च पक्षिणाम् 06007013c अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् 06007014a तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः 06007014c चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् 06007015a स पर्वतो महाराज दिव्यपुष्पफलान्वितः 06007015c भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः 06007016a तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः 06007016c अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः 06007017a तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः 06007017c समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः 06007018a तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः 06007018c अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो 06007019a सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः 06007019c तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि 06007020a तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते 06007020c तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः 06007021a तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते 06007021c ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति 06007022a पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् 06007022c कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् 06007023a तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः 06007023c उमासहायो भगवान्रमते भूतभावनः 06007024a कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् 06007024c त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः 06007025a तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः 06007025c पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः 06007026a तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर 06007026c त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना 06007027a पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा 06007027c पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे 06007027e तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः 06007028a तां धारयामास पुरा दुर्धरां पर्वतैरपि 06007028c शतं वर्षसहस्राणां शिरसा वै महेश्वरः 06007029a मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते 06007029c जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः 06007030a आयुर्दश सहस्राणि वर्षाणां तत्र भारत 06007030c सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः 06007031a अनामया वीतशोका नित्यं मुदितमानसाः 06007031c जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः 06007032a गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः 06007032c संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः 06007033a गन्धमादनपादेषु परेष्वपरगण्डिकाः 06007033c एकादश सहस्राणि वर्षाणां परमायुषः 06007034a तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः 06007034c स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः 06007035a नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् 06007035c वर्षमैरावतं नाम ततः शृङ्गवतः परम् 06007036a धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे 06007036c इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह 06007037a उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः 06007037c आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः 06007038a समन्वितानि भूतानि तेषु वर्षेषु भारत 06007038c एवमेषा महाराज पर्वतैः पृथिवी चिता 06007039a हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः 06007039c यत्र वैश्रवणो राजा गुह्यकैः सह मोदते 06007040a अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति 06007040c हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः 06007041a तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् 06007041c रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 06007041e दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः 06007042a यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः 06007042c तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः 06007043a सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः 06007043c उपास्यते तिग्मतेजा वृतो भूतैः समागतैः 06007043e नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः 06007044a तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता 06007044c ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते 06007045a वस्वोकसारा नलिनी पावना च सरस्वती 06007045c जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी 06007046a अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः 06007046c उपासते यत्र सत्रं सहस्रयुगपर्यये 06007047a दृश्यादृश्या च भवति तत्र तत्र सरस्वती 06007047c एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः 06007048a रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः 06007048c सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः 06007049a देवासुराणां च गृहं श्वेतः पर्वत उच्यते 06007049c गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप 06007049e शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः 06007050a इत्येतानि महाराज सप्त वर्षाणि भागशः 06007050c भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च 06007051a तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी 06007051c अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता 06007052a यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् 06007052c पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे 06007052e कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च 06007053a ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः 06007053c एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् 06008001 धृतराष्ट्र उवाच 06008001a मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय 06008001c निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् 06008002 संजय उवाच 06008002a दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे 06008002c उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः 06008003a तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः 06008003c पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च 06008004a सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप 06008004c अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप 06008005a ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् 06008005c वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च 06008006a सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 06008006c सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप 06008007a देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः 06008007c तुल्यरूपगुणोपेताः समेषु विषमेषु च 06008008a मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः 06008008c तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् 06008009a मिथुनं जायमानं वै समं तच्च प्रवर्धते 06008009c तुल्यरूपगुणोपेतं समवेषं तथैव च 06008009e एकैकमनुरक्तं च चक्रवाकसमं विभो 06008010a निरामया वीतशोका नित्यं मुदितमानसाः 06008010c दश वर्षसहस्राणि दश वर्षशतानि च 06008010e जीवन्ति ते महाराज न चान्योन्यं जहत्युत 06008011a भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः 06008011c ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च 06008012a उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः 06008012c मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् 06008013a तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते 06008013c भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः 06008014a कालाम्रश्च महाराज नित्यपुष्पफलः शुभः 06008014c द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः 06008015a तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः 06008015c स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः 06008016a चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः 06008016c चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः 06008017a दश वर्षसहस्राणि तत्रायुर्भरतर्षभ 06008017c कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः 06008018a दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु 06008018c सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः 06008019a सर्वकामफलः पुण्यः सिद्धचारणसेवितः 06008019c तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः 06008020a योजनानां सहस्रं च शतं च भरतर्षभ 06008020c उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर 06008021a अरत्नीनां सहस्रं च शतानि दश पञ्च च 06008021c परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् 06008022a पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् 06008022c मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् 06008023a तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप 06008023c मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् 06008024a पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप 06008024c तस्मिन्फलरसे पीते न जरा बाधते च तान् 06008025a तत्र जाम्बूनदं नाम कनकं देवभूषणम् 06008025c तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः 06008026a तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् 06008026c नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ 06008027a तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका 06008027c योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः 06008028a महारजतसंकाशा जायन्ते तत्र मानवाः 06008028c ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः 06008029a तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः 06008029c रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् 06008030a षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च 06008030c अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् 06008031a षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च 06008031c आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् 06009001 धृतराष्ट्र उवाच 06009001a वर्षाणां चैव नामानि पर्वतानां च संजय 06009001c आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः 06009002 संजय उवाच 06009002a दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु 06009002c वर्षं रमणकं नाम जायन्ते तत्र मानवाः 06009003a शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः 06009003c रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः 06009004a दश वर्षसहस्राणि शतानि दश पञ्च च 06009004c जीवन्ति ते महाराज नित्यं मुदितमानसाः 06009005a दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च 06009005c वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी 06009006a यक्षानुगा महाराज धनिनः प्रियदर्शनाः 06009006c महाबलास्तत्र सदा राजन्मुदितमानसाः 06009007a एकादश सहस्राणि वर्षाणां ते जनाधिप 06009007c आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च 06009008a शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप 06009008c एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् 06009009a सर्वरत्नमयं चैकं भवनैरुपशोभितम् 06009009c तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली 06009010a उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप 06009010c वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् 06009011a न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः 06009011c चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः 06009012a पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः 06009012c पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः 06009013a अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः 06009013c देवलोकच्युताः सर्वे तथा विरजसो नृप 06009014a त्रयोदश सहस्राणि वर्षाणां ते जनाधिप 06009014c आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम 06009015a क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः 06009015c हरिर्वसति वैकुण्ठः शकटे कनकात्मके 06009016a अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् 06009016c अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् 06009017a स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ 06009017c संक्षेपो विस्तरश्चैव कर्ता कारयिता च सः 06009018a पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव 06009018c स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः 06009019 वैशंपायन उवाच 06009019a एवमुक्तः संजयेन धृतराष्ट्रो महामनाः 06009019c ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप 06009020a स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः 06009020c असंशयं सूतपुत्र कालः संक्षिपते जगत् 06009020e सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् 06009021a नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् 06009021c देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् 06010001 धृतराष्ट्र उवाच 06010001a यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् 06010001c यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम 06010002a यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः 06010002c एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय 06010003 संजय उवाच 06010003a न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम 06010003c गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः 06010004a अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः 06010004c ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् 06010005a अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् 06010005c प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च 06010006a पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः 06010006c ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च 06010007a तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च 06010007c ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा 06010008a अन्येषां च महाराज क्षत्रियाणां बलीयसाम् 06010008c सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् 06010009a तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम 06010009c शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि 06010010a महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि 06010010c विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः 06010011a तेषां सहस्रशो राजन्पर्वतास्तु समीपतः 06010011c अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः 06010012a अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः 06010012c आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो 06010013a नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् 06010013c गोदावरीं नर्मदां च बाहुदां च महानदीम् 06010014a शतद्रुं चन्द्रभागां च यमुनां च महानदीम् 06010014c दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् 06010015a नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् 06010015c इरावतीं वितस्तां च पयोष्णीं देविकामपि 06010016a वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् 06010016c करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् 06010017a गोमतीं धूतपापां च वन्दनां च महानदीम् 06010017c कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् 06010018a रथस्थां शतकुम्भां च सरयूं च नरेश्वर 06010018c चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा 06010019a शतावरीं पयोष्णीं च परां भैमरथीं तथा 06010019c कावेरीं चुलुकां चापि वापीं शतबलामपि 06010020a निचीरां महितां चापि सुप्रयोगां नराधिप 06010020c पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् 06010021a पूर्वाभिरामां वीरां च भीमामोघवतीं तथा 06010021c पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् 06010022a पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् 06010022c पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा 06010023a धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव 06010023c सदानीरामधृष्यां च कुशधारां महानदीम् 06010024a शशिकान्तां शिवां चैव तथा वीरवतीमपि 06010024c वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् 06010025a हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् 06010025c रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् 06010026a उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् 06010026c वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् 06010027a विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि 06010027c शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् 06010028a शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् 06010028c कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् 06010029a दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् 06010029c चरक्षां महिरोहीं च तथा जम्बुनदीमपि 06010030a सुनसां तमसां दासीं त्रसामन्यां वराणसीम् 06010030c लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् 06010031a मानवीं वृषभां चैव महानद्यो जनाधिप 06010031c सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् 06010032a ब्रह्माणीं च महागौरीं दुर्गामपि च भारत 06010032c चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् 06010033a मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् 06010033c शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् 06010034a लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् 06010034c कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत 06010035a सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष 06010035c विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः 06010036a तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः 06010036c इत्येताः सरितो राजन्समाख्याता यथास्मृति 06010037a अत ऊर्ध्वं जनपदान्निबोध गदतो मम 06010037c तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः 06010038a शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च 06010038c मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः 06010039a चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः 06010039c उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह 06010040a पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः 06010040c सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः 06010041a जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत 06010041c कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः 06010042a गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः 06010042c अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः 06010043a आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् 06010043c वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः 06010044a विदेहका मागधाश्च सुह्माश्च विजयास्तथा 06010044c अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च 06010045a मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः 06010045c वाहीका वाटधानाश्च आभीराः कालतोयकाः 06010046a अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः 06010046c अटवीशबराश्चैव मरुभौमाश्च मारिष 06010047a उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा 06010047c कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः 06010048a अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च 06010048c बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः 06010049a मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप 06010049c पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा 06010050a शका निषादा निषधास्तथैवानर्तनैरृताः 06010050c दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा 06010051a तीरग्राहास्तरतोया राजिका रस्यकागणाः 06010051c तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः 06010052a काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा 06010052c अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा 06010053a दर्वीकाः सकचा दर्वा वातजामरथोरगाः 06010053c बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः 06010054a वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा 06010054c वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः 06010055a कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः 06010055c किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः 06010056a ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष 06010056c अथापरे जनपदा दक्षिणा भरतर्षभ 06010057a द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः 06010057c उन्नत्यका माहिषका विकल्पा मूषकास्तथा 06010058a कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः 06010058c कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः 06010059a समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः 06010059c ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः 06010060a त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा 06010060c तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह 06010061a मालका मल्लकाश्चैव तथैवापरवर्तकाः 06010061c कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा 06010062a मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः 06010062c आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा 06010063a हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः 06010063c उत्तराश्चापरे म्लेच्छा जना भरतसत्तम 06010064a यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः 06010064c सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह 06010065a तथैव मरधाश्चीनास्तथैव दशमालिकाः 06010065c क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च 06010066a शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह 06010066c खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः 06010067a आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः 06010067c औपकाश्च कलिङ्गाश्च किरातानां च जातयः 06010068a तामरा हंसमार्गाश्च तथैव करभञ्जकाः 06010068c उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो 06010069a यथागुणबलं चापि त्रिवर्गस्य महाफलम् 06010069c दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता 06010070a तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः 06010070c ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः 06010071a देवमानुषकायानां कामं भूमिः परायणम् 06010071c अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् 06010072a राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् 06010072c न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् 06010073a तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः 06010073c साम्ना दानेन भेदेन दण्डेनैव च पार्थिव 06010074a पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव 06010074c भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी 06011001 धृतराष्ट्र उवाच 06011001a भारतस्यास्य वर्षस्य तथा हैमवतस्य च 06011001c प्रमाणमायुषः सूत फलं चापि शुभाशुभम् 06011002a अनागतमतिक्रान्तं वर्तमानं च संजय 06011002c आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च 06011003 संजय उवाच 06011003a चत्वारि भारते वर्षे युगानि भरतर्षभ 06011003c कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन 06011004a पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो 06011004c संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते 06011005a चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम 06011005c आयुःसंख्या कृतयुगे संख्याता राजसत्तम 06011006a तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप 06011006c द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति 06011007a न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ 06011007c गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च 06011008a महाबला महासत्त्वाः प्रजागुणसमन्विताः 06011008c अजायन्त कृते राजन्मुनयः सुतपोधनाः 06011009a महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः 06011009c जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः 06011010a आयुष्मन्तो महावीरा धनुर्धरवरा युधि 06011010c जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः 06011011a सर्ववर्णा महाराज जायन्ते द्वापरे सति 06011011c महोत्साहा महावीर्याः परस्परवधैषिणः 06011012a तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप 06011012c लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत 06011013a ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च 06011013c पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत 06011014a संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप 06011014c गुणोत्तरं हैमवतं हरिवर्षं ततः परम् 06012001 धृतराष्ट्र उवाच 06012001a जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय 06012001c विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः 06012002a समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन 06012002c शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय 06012003a शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च 06012003c ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा 06012004 संजय उवाच 06012004a राजन्सुबहवो द्वीपा यैरिदं संततं जगत् 06012004c सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा 06012005a अष्टादश सहस्राणि योजनानां विशां पते 06012005c षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः 06012006a लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः 06012006c नानाजनपदाकीर्णो मणिविद्रुमचित्रितः 06012007a नैकधातुविचित्रैश्च पर्वतैरुपशोभितः 06012007c सिद्धचारणसंकीर्णः सागरः परिमण्डलः 06012008a शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव 06012008c शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन 06012009a जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप 06012009c विष्कम्भेण महाराज सागरोऽपि विभागशः 06012009e क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः 06012010a तत्र पुण्या जनपदा न तत्र म्रियते जनः 06012010c कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते 06012011a शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ 06012011c उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि 06012012 धृतराष्ट्र उवाच 06012012a शाकद्वीपस्य संक्षेपो यथावदिह संजय 06012012c उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः 06012013 संजय उवाच 06012013a तथैव पर्वता राजन्सप्तात्र मणिभूषिताः 06012013c रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु 06012013e अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप 06012014a देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते 06012014c प्रागायतो महाराज मलयो नाम पर्वतः 06012014e यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः 06012015a ततः परेण कौरव्य जलधारो महागिरिः 06012015c यत्र नित्यमुपादत्ते वासवः परमं जलम् 06012015e यतो वर्षं प्रभवति वर्षाकाले जनेश्वर 06012016a उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः 06012016c रेवती दिवि नक्षत्रं पितामहकृतो विधिः 06012017a उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः 06012017c यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर 06012018 धृतराष्ट्र उवाच 06012018a सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया 06012018c प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह 06012019 संजय उवाच 06012019a सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन 06012019c गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप 06012020a श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत 06012020c आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः 06012021a ततः परं कौरवेन्द्र दुर्गशैलो महोदयः 06012021c केसरी केसरयुतो यतो वातः प्रवायति 06012022a तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः 06012022c वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः 06012023a महामेरुर्महाकाशो जलदः कुमुदोत्तरः 06012023c जलधारात्परो राजन्सुकुमार इति स्मृतः 06012024a रैवतस्य तु कौमारः श्यामस्य तु मणीचकः 06012024c केसरस्याथ मोदाकी परेण तु महापुमान् 06012025a परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च 06012025c जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः 06012026a शाको नाम महाराज तस्य द्वीपस्य मध्यगः 06012026c तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः 06012027a तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च 06012027c धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत 06012028a वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते 06012028c दीर्घायुषो महाराज जरामृत्युविवर्जिताः 06012029a प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः 06012029c नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः 06012030a सुकुमारी कुमारी च सीता कावेरका तथा 06012030c महानदी च कौरव्य तथा मणिजला नदी 06012030e इक्षुवर्धनिका चैव तथा भरतसत्तम 06012031a ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह 06012031c सहस्राणां शतान्येव यतो वर्षति वासवः 06012032a न तासां नामधेयानि परिमाणं तथैव च 06012032c शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः 06012033a तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः 06012033c मगाश्च मशकाश्चैव मानसा मन्दगास्तथा 06012034a मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप 06012034c मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः 06012035a मानसेषु महाराज वैश्याः कर्मोपजीविनः 06012035c सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः 06012035e शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः 06012036a न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः 06012036c स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् 06012037a एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् 06012037c एतावदेव श्रोतव्यं शाकद्वीपे महौजसि 06013001 संजय उवाच 06013001a उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा 06013001c यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे 06013002a घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः 06013002c सुरोदः सागरश्चैव तथान्यो घर्मसागरः 06013003a परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप 06013003c सर्वतश्च महाराज पर्वतैः परिवारिताः 06013004a गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् 06013004c पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप 06013005a तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः 06013005c प्रजापतिमुपासीनः प्रजानां विदधे सुखम् 06013006a कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह 06013006c संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप 06013007a क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः 06013007c संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा 06013008a गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् 06013008c यत्र नित्यं निवसति श्रीमान्कमललोचनः 06013008e मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः 06013009a कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः 06013009c सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः 06013010a द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः 06013010c चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः 06013011a षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः 06013011c तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः 06013012a औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् 06013012c तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् 06013013a धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् 06013013c सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः 06013014a एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर 06013014c विहरन्ति रमन्ते च न तेषु म्रियते जनः 06013015a न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप 06013015c गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव 06013016a अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर 06013016c यथाश्रुतं महाराज तदव्यग्रमनाः शृणु 06013017a क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः 06013017c क्रौञ्चात्परो वामनको वामनादन्धकारकः 06013018a अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः 06013018c मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः 06013019a गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः 06013019c परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन 06013020a देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु 06013020c क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः 06013021a मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह 06013021c उष्णात्परः प्रावरकः प्रावरादन्धकारकः 06013022a अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः 06013022c मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः 06013023a सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप 06013023c एते देशा महाराज देवगन्धर्वसेविताः 06013024a पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् 06013024c तत्र नित्यं निवसति स्वयं देवः प्रजापतिः 06013025a तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः 06013025c वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप 06013026a जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत 06013026c द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन 06013027a विप्राणां ब्रह्मचर्येण सत्येन च दमेन च 06013027c आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः 06013028a एको जनपदो राजन्द्वीपेष्वेतेषु भारत 06013028c उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते 06013029a ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः 06013029c द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा 06013030a स राजा स शिवो राजन्स पिता स पितामहः 06013030c गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः 06013031a भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् 06013031c सिद्धमेव महाराज भुञ्जते तत्र नित्यदा 06013032a ततः परं समा नाम दृश्यते लोकसंस्थितिः 06013032c चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् 06013033a तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः 06013033c दिग्गजा भरतश्रेष्ठ वामनैरावतादयः 06013033e सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः 06013034a तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे 06013034c असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा 06013035a तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च 06013035c असंबाधा महाराज तान्निगृह्णन्ति ते गजाः 06013036a पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैः 06013036c ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः 06013037a श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः 06013037c आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः 06013038 धृतराष्ट्र उवाच 06013038a परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितः 06013038c दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय 06013039 संजय उवाच 06013039a उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः 06013039c स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः 06013040a परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः 06013040c योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै 06013041a परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ 06013041c षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा 06013042a चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः 06013042c विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् 06013042e एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः 06013043a सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन 06013043c विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् 06013044a अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ 06013044c श्रूयते परमोदारः पतंगोऽसौ विभावसुः 06013044e एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत 06013045a स राहुश्छादयत्येतौ यथाकालं महत्तया 06013045c चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः 06013046a इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा 06013046c सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि 06013047a यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् 06013047c तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति 06013048a श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् 06013048c श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः 06013048e आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते 06013049a यः शृणोति महीपाल पर्वणीदं यतव्रतः 06013049c प्रीयन्ते पितरस्तस्य तथैव च पितामहाः 06013050a इदं तु भारतं वर्षं यत्र वर्तामहे वयम् 06013050c पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि 06014001 वैशंपायन उवाच 06014001a अथ गावल्गणिर्धीमान्समरादेत्य संजयः 06014001c प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् 06014002a ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः 06014002c आचष्ट निहतं भीष्मं भरतानाममध्यमम् 06014003a संजयोऽहं महाराज नमस्ते भरतर्षभ 06014003c हतो भीष्मः शांतनवो भरतानां पितामहः 06014004a ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् 06014004c शरतल्पगतः सोऽद्य शेते कुरुपितामहः 06014005a यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् 06014005c स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना 06014006a यः सर्वान्पृथिवीपालान्समवेतान्महामृधे 06014006c जिगायैकरथेनैव काशिपुर्यां महारथः 06014007a जामदग्न्यं रणे राममायोध्य वसुसंभवः 06014007c न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना 06014008a महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव 06014008c समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः 06014009a शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः 06014009c नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः 06014010a पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे 06014010c प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः 06014011a परिरक्ष्य स सेनां ते दशरात्रमनीकहा 06014011c जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् 06014012a यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः 06014012c जघान युधि योधानामर्बुदं दशभिर्दिनैः 06014013a स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः 06014013c तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत 06015001 धृतराष्ट्र उवाच 06015001a कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना 06015001c कथं रथात्स न्यपतत्पिता मे वासवोपमः 06015002a कथमासंश्च मे पुत्रा हीना भीष्मेण संजय 06015002c बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा 06015003a तस्मिन्हते महासत्त्वे महेष्वासे महाबले 06015003c महारथे नरव्याघ्रे किमु आसीन्मनस्तदा 06015004a आर्तिः परा माविशति यतः शंससि मे हतम् 06015004c कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् 06015005a के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः 06015005c केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय 06015006a के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् 06015006c रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः 06015007a यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा 06015007c सहस्ररश्मिप्रतिमः परेषां भयमादधत् 06015007e अकरोद्दुष्करं कर्म रणे कौरवशासनात् 06015008a ग्रसमानमनीकानि य एनं पर्यवारयन् 06015008c कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके 06015008e कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् 06015009a निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् 06015009c चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् 06015010a अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् 06015010c पातयामास कौन्तेयः कथं तमजितं युधि 06015011a उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे 06015011c परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः 06015012a पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे 06015012c कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः 06015013a परिकृष्य स सेनां मे दशरात्रमनीकहा 06015013c जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् 06015014a यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् 06015014c जघान युधि योधानामर्बुदं दशभिर्दिनैः 06015015a स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः 06015015c मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः 06015016a कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी 06015016c प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् 06015017a कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः 06015017c कथं च नाजयद्भीष्मो द्रोणे जीवति संजय 06015018a कृपे संनिहिते तत्र भरद्वाजात्मजे तथा 06015018c भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः 06015019a कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना 06015019c भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः 06015020a यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् 06015020c अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् 06015021a तं हतं समरे भीष्मं महारथबलोचितम् 06015021c संजयाचक्ष्व मे वीरं येन शर्म न विद्महे 06015022a मामकाः के महेष्वासा नाजहुः संजयाच्युतम् 06015022c दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् 06015023a यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः 06015023c कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् 06015024a मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् 06015024c धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः 06015025a यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् 06015025c निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् 06015026a इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् 06015026c कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् 06015026e गदासिमकरावर्तं हयग्राहं गजाकुलम् 06015027a हयान्गजान्पदातांश्च रथांश्च तरसा बहून् 06015027c निमज्जयन्तं समरे परवीरापहारिणम् 06015028a विदह्यमानं कोपेन तेजसा च परंतपम् 06015028c वेलेव मकरावासं के वीराः पर्यवारयन् 06015029a भीष्मो यदकरोत्कर्म समरे संजयारिहा 06015029c दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् 06015030a केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः 06015030c पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः 06015031a के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके 06015031c केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः 06015032a वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान् 06015032c समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् 06015033a पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् 06015033c समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय 06015034a रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते 06015034c दुर्जयानामनीकानि नाजयंस्तरसा युधि 06015035a सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः 06015035c कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः 06015036a यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः 06015036c तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय 06015037a यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः 06015037c न पाण्डवानगणयत्कथं स निहतः परैः 06015038a यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः 06015038c काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः 06015039a यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे 06015039c शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि 06015040a प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् 06015040c वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् 06015041a सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् 06015041c हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् 06015042a धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः 06015042c यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः 06015043a जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः 06015043c अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः 06015044a तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् 06015044c हतं शंससि भीष्मं मे किं नु दुःखमतः परम् 06015045a असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः 06015045c जामदग्न्यस्तथा रामः परवीरनिघातिना 06015046a तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् 06015046c तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः 06015047a यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् 06015047c परमास्त्रविदं वीरं जघान भरतर्षभम् 06015048a के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि 06015048c शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः 06015049a योषेव हतवीरा मे सेना पुत्रस्य संजय 06015049c अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम 06015050a पौरुषं सर्वलोकस्य परं यस्य महाहवे 06015050c परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा 06015051a जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु संजय 06015051c घातयित्वा महावीर्यं पितरं लोकधार्मिकम् 06015052a अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः 06015052c भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः 06015053a अद्रिसारमयं नूनं सुदृढं हृदयं मम 06015053c यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते 06015054a यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे 06015054c अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि 06015055a न चास्त्रेण न शौर्येण तपसा मेधया न च 06015055c न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते 06015056a कालो नूनं महावीर्यः सर्वलोकदुरत्ययः 06015056c यत्र शांतनवं भीष्मं हतं शंससि संजय 06015057a पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् 06015057c आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात् 06015058a यदादित्यमिवापश्यत्पतितं भुवि संजय 06015058c दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत 06015059a नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् 06015059c शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् 06015060a दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः 06015060c यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः 06015061a वयं वा राज्यमिच्छामो घातयित्वा पितामहम् 06015061c क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः 06015062a एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय 06015062c पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् 06015063a अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् 06015063c कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन् 06015064a कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः 06015064c कथं वा निहतो भीष्मः पिता संजय मे परैः 06015065a दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 06015065c दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् 06015066a यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् 06015066c शरशक्तिगदाखड्गतोमराक्षां भयावहाम् 06015067a प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् 06015067c प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः 06015068a केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः 06015068c अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय 06015069a न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् 06015069c पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् 06015070a आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् 06015070c त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय 06015071a महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् 06015071c दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः 06015072a श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् 06015072c तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय 06015073a संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् 06015073c अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय 06015074a यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता 06015074c तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः 06015075a यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः 06015075c क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् 06016001 संजय उवाच 06016001a त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि 06016001c न तु दुर्योधने दोषमिममासक्तुमर्हसि 06016002a य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः 06016002c एनसा तेन नान्यं स उपाशङ्कितुमर्हति 06016003a महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् 06016003c स वध्यः सर्वलोकस्य निन्दितानि समाचरन् 06016004a निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया 06016004c अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने 06016005a हयानां च गजानां च शूराणां चामितौजसाम् 06016005c प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च 06016006a शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः 06016006c दिष्टमेतत्पुरा नूनमेवंभावि नराधिप 06016007a नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते 06016007c यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् 06016008a दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च 06016008c परचित्तस्य विज्ञानमतीतानागतस्य च 06016009a व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा 06016009c शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः 06016010a शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् 06016010c भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् 06016011a तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः 06016011c दुर्योधनो महाराज दुःशासनमथाब्रवीत् 06016012a दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः 06016012c अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय 06016013a अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः 06016013c पाण्डवानां ससैन्यानां कुरूणां च समागमः 06016014a नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् 06016014c हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् 06016015a अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् 06016015c श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम 06016016a तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः 06016016c शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः 06016017a तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः 06016017c सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् 06016018a अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् 06016018c मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना 06016019a वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् 06016019c गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः 06016020a संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः 06016020c यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु 06016021a ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् 06016021c क्रोशतां भूमिपालानां युज्यतां युज्यतामिति 06016022a शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत 06016022c हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा 06016023a गजानां बृंहतां चैव योधानां चाभिगर्जताम् 06016023c क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् 06016024a उदतिष्ठन्महाराज सर्वं युक्तमशेषतः 06016024c सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः 06016024e तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च 06016025a तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः 06016025c विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः 06016026a रथानीकान्यदृश्यन्त नगराणीव भूरिशः 06016026c अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् 06016027a धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः 06016027c योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः 06016028a गजा रथाः पदाताश्च तुरगाश्च विशां पते 06016028c व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः 06016029a ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः 06016029c स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः 06016030a काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः 06016030c अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः 06016031a महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव 06016031c संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः 06016032a उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः 06016032c ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः 06016033a शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः 06016033c विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः 06016034a श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः 06016034c बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः 06016035a दशैते पुरुषव्याघ्राः शूराः परिघबाहवः 06016035c अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः 06016036a एते चान्ये च बहवो दुर्योधनवशानुगाः 06016036c राजानो राजपुत्राश्च नीतिमन्तो महाबलाः 06016037a संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः 06016037c बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः 06016038a सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः 06016038c समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः 06016039a एकादशी धार्तराष्ट्री कौरवाणां महाचमूः 06016039c अग्रतः सर्वसैन्यानां यत्र शांतनवोऽग्रणीः 06016040a श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् 06016040c अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् 06016041a हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् 06016041c श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः 06016042a दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः 06016042c सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः 06016043a जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा 06016043c धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः 06016044a एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत 06016044c पाण्डवानां तथा सप्त महापुरुषपालिताः 06016045a उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ 06016045c युगान्ते समुपेतौ द्वौ दृश्येते सागराविव 06016046a नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः 06016046c अनीकानां समेतानां समवायस्तथाविधः 06017001 संजय उवाच 06017001a यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् 06017001c तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः 06017002a मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत 06017002c दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः 06017003a द्विधाभूत इवादित्य उदये प्रत्यदृश्यत 06017003c ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि 06017004a ववाशिरे च दीप्तायां दिशि गोमायुवायसाः 06017004c लिप्समानाः शरीराणि मांसशोणितभोजनाः 06017005a अहन्यहनि पार्थानां वृद्धः कुरुपितामहः 06017005c भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ 06017006a जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ 06017006c युयुधाते तवार्थाय यथा स समयः कृतः 06017007a सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव 06017007c समानीय महीपालानिदं वचनमब्रवीत् 06017008a इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् 06017008c गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् 06017009a एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः 06017009c संभावयत चात्मानमव्यग्रमनसो युधि 06017010a नाभागो हि ययातिश्च मान्धाता नहुषो नृगः 06017010c संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः 06017011a अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे 06017011c यदाजौ निधनं याति सोऽस्य धर्मः सनातनः 06017012a एवमुक्ता महीपाला भीष्मेण भरतर्षभ 06017012c निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः 06017013a स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः 06017013c न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ 06017014a अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः 06017014c निर्ययुः सिंहनादेन नादयन्तो दिशो दश 06017015a श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः 06017015c तान्यनीकान्यशोभन्त रथैरथ पदातिभिः 06017016a भेरीपणवशब्दैश्च पटहानां च निस्वनैः 06017016c रथनेमिनिनादैश्च बभूवाकुलिता मही 06017017a काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः 06017017c भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव 06017018a तालेन महता भीष्मः पञ्चतारेण केतुना 06017018c विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः 06017019a ये त्वदीया महेष्वासा राजानो भरतर्षभ 06017019c अवर्तन्त यथादेशं राजञ्शांतनवस्य ते 06017020a स तु गोवासनः शैब्यः सहितः सर्वराजभिः 06017020c ययौ मातङ्गराजेन राजार्हेण पताकिना 06017020e पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः 06017021a अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः 06017021c श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः 06017022a शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः 06017022c एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः 06017022e स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः 06017023a तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् 06017023c भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः 06017024a जाम्बूनदमयी वेदिः कमण्डलुविभूषिता 06017024c केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह 06017025a अनेकशतसाहस्रमनीकमनुकर्षतः 06017025c महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः 06017026a तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः 06017026c क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः 06017027a स्यन्दनेन महार्हेण केतुना वृषभेण च 06017027c प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ 06017028a तदङ्गपतिना गुप्तं कृपेण च महात्मना 06017028c शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् 06017029a अनीकप्रमुखे तिष्ठन्वराहेण महायशाः 06017029c शुशुभे केतुमुख्येन राजतेन जयद्रथः 06017030a शतं रथसहस्राणां तस्यासन्वशवर्तिनः 06017030c अष्टौ नागसहस्राणि सादिनामयुतानि षट् 06017031a तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् 06017031c अनन्तरथनागाश्वमशोभत महद्बलम् 06017032a षष्ट्या रथसहस्रैस्तु नागानामयुतेन च 06017032c पतिः सर्वकलिङ्गानां ययौ केतुमता सह 06017033a तस्य पर्वतसंकाशा व्यरोचन्त महागजाः 06017033c यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः 06017034a शुशुभे केतुमुख्येन पादपेन कलिङ्गपः 06017034c श्वेतच्छत्रेण निष्केण चामरव्यजनेन च 06017035a केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् 06017035c आस्थितः समरे राजन्मेघस्थ इव भानुमान् 06017036a तेजसा दीप्यमानस्तु वारणोत्तममास्थितः 06017036c भगदत्तो ययौ राजा यथा वज्रधरस्तथा 06017037a गजस्कन्धगतावास्तां भगदत्तेन संमितौ 06017037c विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ 06017038a स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् 06017038c वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः 06017039a द्रोणेन विहितो राजन्राज्ञा शांतनवेन च 06017039c तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च 06018001 संजय उवाच 06018001a ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः 06018001c अश्रूयत महाराज योधानां प्रयुयुत्सताम् 06018002a शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः 06018002c रथानां नेमिघोषैश्च दीर्यतीव वसुंधरा 06018003a हयानां हेषमाणानां योधानां तत्र गर्जताम् 06018003c क्षणेन खं दिशश्चैव शब्देनापूरितं तदा 06018004a पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च 06018004c समकम्पन्त सैन्यानि परस्परसमागमे 06018005a तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः 06018005c भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः 06018006a ध्वजा बहुविधाकारास्तावकानां नराधिप 06018006c काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः 06018007a स्वेषां चैव परेषां च समदृश्यन्त भारत 06018007c महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव 06018008a काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः 06018008c संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव 06018009a उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः 06018009c ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः 06018010a पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप 06018010c दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा 06018011a विविंशतिश्चित्रसेनो विकर्णश्च महारथः 06018011c सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः 06018012a रथा विंशतिसाहस्रास्तथैषामनुयायिनः 06018012c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 06018013a शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा 06018013c सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 06018014a द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः 06018014c महता रथवंशेन तेऽभ्यरक्षन्पितामहम् 06018015a अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 06018015c मागधो येन नृपतिस्तद्रथानीकमन्वयात् 06018016a रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् 06018016c अभूवन्वाहिनीमध्ये शतानामयुतानि षट् 06018017a पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः 06018017c अनेकशतसाहस्रा नखरप्रासयोधिनः 06018018a अक्षौहिण्यो दशैका च तव पुत्रस्य भारत 06018018c अदृश्यन्त महाराज गङ्गेव यमुनान्तरे 06019001 धृतराष्ट्र उवाच 06019001a अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः 06019001c कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः 06019002a यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् 06019002c कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः 06019003 संजय उवाच 06019003a धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः 06019003c अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम् 06019004a महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः 06019004c संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् 06019005a सूचीमुखमनीकं स्यादल्पानां बहुभिः सह 06019005c अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः 06019006a एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव 06019006c तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः 06019007a एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् 06019007c अचलं नाम वज्राख्यं विहितं वज्रपाणिना 06019008a यः स वात इवोद्धूतः समरे दुःसहः परैः 06019008c स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः 06019009a तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः 06019009c अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः 06019010a यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः 06019010c निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव 06019011a तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् 06019011c भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः 06019012a न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम् 06019012c द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् 06019013a भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् 06019013c चरन्वेगेन महता समुद्रमपि शोषयेत् 06019014a केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् 06019014c एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर 06019015a धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् 06019015c ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष 06019015e अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे 06019016a एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः 06019016c व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा 06019017a संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः 06019017c गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत 06019018a भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः 06019018c नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् 06019019a समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः 06019019c भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः 06019020a चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती 06019020c द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः 06019021a धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः 06019021c सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः 06019022a शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः 06019022c यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ 06019023a पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः 06019023c चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 06019024a राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः 06019024c बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव 06019025a अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः 06019025c विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी 06019026a तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः 06019026c नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः 06019027a समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः 06019027c भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् 06019028a त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् 06019028c अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः 06019029a पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः 06019029c अनेकशतसाहस्रा भीमसेनस्य रक्षिणः 06019030a वारणा दशसाहस्राः प्रभिन्नकरटामुखाः 06019030c शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः 06019031a क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः 06019031c राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः 06019032a भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् 06019032c प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः 06019033a तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् 06019033c न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके 06019034a वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः 06019034c चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना 06019035a यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् 06019035c अजेयो मानुषे लोके पाण्डवैरभिरक्षितः 06019036a संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति 06019036c प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् 06019037a विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः 06019037c रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् 06019038a पपात महती चोल्का प्राङ्मुखी भरतर्षभ 06019038c उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना 06019039a अथ सज्जीयमानेषु सैन्येषु भरतर्षभ 06019039c निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह 06019039e व्यशीर्यत सनादा च तदा भरतसत्तम 06019040a निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् 06019040c प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन 06019041a ध्वजानां धूयमानानां सहसा मातरिश्वना 06019041c किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः 06019042a महतां सपताकानामादित्यसमतेजसाम् 06019042c सर्वं झणझणीभूतमासीत्तालवनेष्विव 06019043a एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः 06019043c व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् 06019044a स्रंसन्त इव मज्जानो योधानां भरतर्षभ 06019044c दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् 06020001 धृतराष्ट्र उवाच 06020001a सूर्योदये संजय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन् 06020001c मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् 06020002a केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त 06020002c केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् 06020003 संजय उवाच 06020003a उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र 06020003c उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे 06020004a उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये 06020004c तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते 06020005a पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः 06020005c दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् 06020006a शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त 06020006c गजेन्द्राणां मदगन्धांश्च तीव्रा;न्न सेहिरे तव पुत्रस्य नागाः 06020007a दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् 06020007c समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च 06020008a चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे 06020008c तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः 06020009a भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः 06020009c श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः 06020010a तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च 06020010c ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः 06020011a शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः 06020011c आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् 06020012a वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च 06020012c शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः 06020013a शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी 06020013c शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति 06020014a महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः 06020014c बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति 06020015a संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः 06020015c येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः 06020016a साग्रं शतसहस्रं तु नागानां तव भारत 06020016c नागे नागे रथशतं शतं चाश्वा रथे रथे 06020017a अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः 06020017c एवं व्यूढान्यनीकानि भीष्मेण तव भारत 06020018a अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् 06020018c दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः 06020019a महारथौघविपुलः समुद्र इव पर्वणि 06020019c भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि 06020020a अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम् 06020020c तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च 06021001 संजय उवाच 06021001a बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् 06021001c विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः 06021002a व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः 06021002c अभेद्यमिव संप्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् 06021003a धनंजय कथं शक्यमस्माभिर्योद्धुमाहवे 06021003c धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः 06021004a अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना 06021004c कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा 06021005a ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन 06021005c कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति 06021006a अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा 06021006c विषण्णमभिसंप्रेक्ष्य तव राजन्ननीकिनीम् 06021007a प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि 06021007c जयन्त्यल्पतरा येन तन्निबोध विशां पते 06021008a तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे 06021008c नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव 06021009a एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् 06021009c पितामहः किल पुरा महेन्द्रादीन्दिवौकसः 06021010a न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः 06021010c यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च 06021011a त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः 06021011c युध्यध्वमनहंकारा यतो धर्मस्ततो जयः 06021012a एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः 06021012c यथा मे नारदः प्राह यतः कृष्णस्ततो जयः 06021013a गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् 06021013c अन्यथा विजयश्चास्य संनतिश्चापरो गुणः 06021014a अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः 06021014c पुरुषः सनातनतमो यतः कृष्णस्ततो जयः 06021015a पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः 06021015c सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति 06021016a अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् 06021016c तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः 06021017a तस्य ते न व्यथां कांचिदिह पश्यामि भारत 06021017c यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः 06022001 संजय उवाच 06022001a ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् 06022001c प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ 06022002a यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः 06022002c स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः 06022003a मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना 06022003c धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् 06022004a अनीकं दक्षिणं राजन्युयुधानेन पालितम् 06022004c श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता 06022005a महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम् 06022005c युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये 06022006a समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति 06022006c प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम् 06022007a पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव 06022007c जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः 06022008a ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान् 06022008c कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः 06022009a सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः 06022009c रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः 06022010a तमास्थितः केशवसंगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः 06022010c धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् 06022011a उद्वर्तयिष्यंस्तव पुत्रसेना;मतीव रौद्रं स बिभर्ति रूपम् 06022011c अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् 06022012a स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता 06022012c तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् 06022013a समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः 06022013c वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः 06022014a अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् 06022014c अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः 06022015 वासुदेव उवाच 06022015a य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च 06022015c स एष भीष्मः कुरुवंशकेतु;र्येनाहृतास्त्रिंशतो वाजिमेधाः 06022016a एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम् 06022016c एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण 06022017 धृतराष्ट्र उवाच 06022017a केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय 06022017c उदग्रमनसः केऽत्र के वा दीना विचेतसः 06022018a के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने 06022018c मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय 06022019a कस्य सेनासमुदये गन्धमाल्यसमुद्भवः 06022019c वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् 06022020 संजय उवाच 06022020a उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा 06022020c स्रग्धूपपानगन्धानामुभयत्र समुद्भवः 06022021a संहतानामनीकानां व्यूढानां भरतर्षभ 06022021c संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् 06022022a वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः 06022022c कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् 06023001 धृतराष्ट्र उवाच 06023001a धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः 06023001c मामकाः पाण्डवाश्चैव किमकुर्वत संजय 06023002 संजय उवाच 06023002a दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा 06023002c आचार्यमुपसंगम्य राजा वचनमब्रवीत् 06023003a पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् 06023003c व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता 06023004a अत्र शूरा महेष्वासा भीमार्जुनसमा युधि 06023004c युयुधानो विराटश्च द्रुपदश्च महारथः 06023005a धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् 06023005c पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः 06023006a युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् 06023006c सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः 06023007a अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम 06023007c नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते 06023008a भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः 06023008c अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च 06023009a अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः 06023009c नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः 06023010a अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् 06023010c पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् 06023011a अयनेषु च सर्वेषु यथाभागमवस्थिताः 06023011c भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 06023012a तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः 06023012c सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 06023013a ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः 06023013c सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् 06023014a ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ 06023014c माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः 06023015a पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः 06023015c पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 06023016a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 06023016c नकुलः सहदेवश्च सुघोषमणिपुष्पकौ 06023017a काश्यश्च परमेष्वासः शिखण्डी च महारथः 06023017c धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः 06023018a द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते 06023018c सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् 06023019a स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् 06023019c नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् 06023020a अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः 06023020c प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः 06023021a हृषीकेशं तदा वाक्यमिदमाह महीपते 06023021c सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत 06023022a यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् 06023022c कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे 06023023a योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः 06023023c धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः 06023024a एवमुक्तो हृषीकेशो गुडाकेशेन भारत 06023024c सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् 06023025a भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् 06023025c उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति 06023026a तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् 06023026c आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा 06023027a श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि 06023027c तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् 06023028a कृपया परयाविष्टो विषीदन्निदमब्रवीत् 06023028c दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् 06023029a सीदन्ति मम गात्राणि मुखं च परिशुष्यति 06023029c वेपथुश्च शरीरे मे रोमहर्षश्च जायते 06023030a गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते 06023030c न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः 06023031a निमित्तानि च पश्यामि विपरीतानि केशव 06023031c न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे 06023032a न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च 06023032c किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा 06023033a येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च 06023033c त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च 06023034a आचार्याः पितरः पुत्रास्तथैव च पितामहाः 06023034c मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा 06023035a एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन 06023035c अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते 06023036a निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन 06023036c पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः 06023037a तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् 06023037c स्वजनं हि कथं हत्वा सुखिनः स्याम माधव 06023038a यद्यप्येते न पश्यन्ति लोभोपहतचेतसः 06023038c कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् 06023039a कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् 06023039c कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन 06023040a कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः 06023040c धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत 06023041a अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः 06023041c स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः 06023042a संकरो नरकायैव कुलघ्नानां कुलस्य च 06023042c पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः 06023043a दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः 06023043c उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः 06023044a उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन 06023044c नरके नियतं वासो भवतीत्यनुशुश्रुम 06023045a अहो बत महत्पापं कर्तुं व्यवसिता वयम् 06023045c यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः 06023046a यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः 06023046c धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् 06023047a एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् 06023047c विसृज्य सशरं चापं शोकसंविग्नमानसः 06024001 संजय उवाच 06024001a तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् 06024001c विषीदन्तमिदं वाक्यमुवाच मधुसूदनः 06024002 श्रीभगवानुवाच 06024002a कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् 06024002c अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन 06024003a क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते 06024003c क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप 06024004 अर्जुन उवाच 06024004a कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन 06024004c इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन 06024005a गुरूनहत्वा हि महानुभावा;ञ्श्रेयो भोक्तुं भैक्षमपीह लोके 06024005c हत्वार्थकामांस्तु गुरूनिहैव; भुञ्जीय भोगान्रुधिरप्रदिग्धान् 06024006a न चैतद्विद्मः कतरन्नो गरीयो; यद्वा जयेम यदि वा नो जयेयुः 06024006c यानेव हत्वा न जिजीविषाम;स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः 06024007a कार्पण्यदोषोपहतस्वभावः; पृच्छामि त्वां धर्मसंमूढचेताः 06024007c यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे; शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् 06024008a न हि प्रपश्यामि ममापनुद्या;द्यच्छोकमुच्छोषणमिन्द्रियाणाम् 06024008c अवाप्य भूमावसपत्नमृद्धं; राज्यं सुराणामपि चाधिपत्यम् 06024009 संजय उवाच 06024009a एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप 06024009c न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह 06024010a तमुवाच हृषीकेशः प्रहसन्निव भारत 06024010c सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः 06024011 श्रीभगवानुवाच 06024011a अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे 06024011c गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः 06024012a न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः 06024012c न चैव न भविष्यामः सर्वे वयमतः परम् 06024013a देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा 06024013c तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति 06024014a मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः 06024014c आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत 06024015a यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ 06024015c समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते 06024016a नासतो विद्यते भावो नाभावो विद्यते सतः 06024016c उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः 06024017a अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् 06024017c विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति 06024018a अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः 06024018c अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत 06024019a य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् 06024019c उभौ तौ न विजानीतो नायं हन्ति न हन्यते 06024020a न जायते म्रियते वा कदाचि;न्नायं भूत्वा भविता वा न भूयः 06024020c अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे 06024021a वेदाविनाशिनं नित्यं य एनमजमव्ययम् 06024021c कथं स पुरुषः पार्थ कं घातयति हन्ति कम् 06024022a वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि 06024022c तथा शरीराणि विहाय जीर्णा;न्यन्यानि संयाति नवानि देही 06024023a नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः 06024023c न चैनं क्लेदयन्त्यापो न शोषयति मारुतः 06024024a अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च 06024024c नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः 06024025a अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते 06024025c तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि 06024026a अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् 06024026c तथापि त्वं महाबाहो नैनं शोचितुमर्हसि 06024027a जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च 06024027c तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि 06024028a अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत 06024028c अव्यक्तनिधनान्येव तत्र का परिदेवना 06024029a आश्चर्यवत्पश्यति कश्चिदेन;माश्चर्यवद्वदति तथैव चान्यः 06024029c आश्चर्यवच्चैनमन्यः शृणोति; श्रुत्वाप्येनं वेद न चैव कश्चित् 06024030a देही नित्यमवध्योऽयं देहे सर्वस्य भारत 06024030c तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि 06024031a स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि 06024031c धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते 06024032a यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् 06024032c सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् 06024033a अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि 06024033c ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि 06024034a अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् 06024034c संभावितस्य चाकीर्तिर्मरणादतिरिच्यते 06024035a भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः 06024035c येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् 06024036a अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः 06024036c निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् 06024037a हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् 06024037c तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः 06024038a सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ 06024038c ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि 06024039a एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु 06024039c बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि 06024040a नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते 06024040c स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् 06024041a व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन 06024041c बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् 06024042a यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः 06024042c वेदवादरताः पार्थ नान्यदस्तीति वादिनः 06024043a कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् 06024043c क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति 06024044a भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् 06024044c व्यवसायात्मिका बुद्धिः समाधौ न विधीयते 06024045a त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन 06024045c निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् 06024046a यावानर्थ उदपाने सर्वतः संप्लुतोदके 06024046c तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 06024047a कर्मण्येवाधिकारस्ते मा फलेषु कदाचन 06024047c मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि 06024048a योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय 06024048c सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते 06024049a दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय 06024049c बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः 06024050a बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते 06024050c तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् 06024051a कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः 06024051c जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् 06024052a यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति 06024052c तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च 06024053a श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला 06024053c समाधावचला बुद्धिस्तदा योगमवाप्स्यसि 06024054 अर्जुन उवाच 06024054a स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव 06024054c स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् 06024055 श्रीभगवानुवाच 06024055a प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् 06024055c आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते 06024056a दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः 06024056c वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते 06024057a यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् 06024057c नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता 06024058a यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः 06024058c इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता 06024059a विषया विनिवर्तन्ते निराहारस्य देहिनः 06024059c रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते 06024060a यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः 06024060c इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः 06024061a तानि सर्वाणि संयम्य युक्त आसीत मत्परः 06024061c वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता 06024062a ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते 06024062c सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते 06024063a क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः 06024063c स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति 06024064a रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् 06024064c आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति 06024065a प्रसादे सर्वदुःखानां हानिरस्योपजायते 06024065c प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते 06024066a नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना 06024066c न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् 06024067a इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते 06024067c तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि 06024068a तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः 06024068c इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता 06024069a या निशा सर्वभूतानां तस्यां जागर्ति संयमी 06024069c यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः 06024070a आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् 06024070c तद्वत्कामा यं प्रविशन्ति सर्वे; स शान्तिमाप्नोति न कामकामी 06024071a विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः 06024071c निर्ममो निरहंकारः स शान्तिमधिगच्छति 06024072a एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति 06024072c स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति 06025001 अर्जुन उवाच 06025001a ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन 06025001c तत्किं कर्मणि घोरे मां नियोजयसि केशव 06025002a व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे 06025002c तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् 06025003 श्रीभगवानुवाच 06025003a लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ 06025003c ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् 06025004a न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते 06025004c न च संन्यसनादेव सिद्धिं समधिगच्छति 06025005a न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् 06025005c कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः 06025006a कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् 06025006c इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते 06025007a यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन 06025007c कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते 06025008a नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः 06025008c शरीरयात्रापि च ते न प्रसिध्येदकर्मणः 06025009a यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः 06025009c तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर 06025010a सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः 06025010c अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् 06025011a देवान्भावयतानेन ते देवा भावयन्तु वः 06025011c परस्परं भावयन्तः श्रेयः परमवाप्स्यथ 06025012a इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः 06025012c तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः 06025013a यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः 06025013c भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् 06025014a अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः 06025014c यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः 06025015a कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 06025015c तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् 06025016a एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः 06025016c अघायुरिन्द्रियारामो मोघं पार्थ स जीवति 06025017a यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः 06025017c आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते 06025018a नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन 06025018c न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः 06025019a तस्मादसक्तः सततं कार्यं कर्म समाचर 06025019c असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः 06025020a कर्मणैव हि संसिद्धिमास्थिता जनकादयः 06025020c लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि 06025021a यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः 06025021c स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते 06025022a न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन 06025022c नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि 06025023a यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः 06025023c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 06025024a उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् 06025024c संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः 06025025a सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत 06025025c कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् 06025026a न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् 06025026c जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् 06025027a प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः 06025027c अहंकारविमूढात्मा कर्ताहमिति मन्यते 06025028a तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः 06025028c गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते 06025029a प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु 06025029c तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् 06025030a मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा 06025030c निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः 06025031a ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः 06025031c श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः 06025032a ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् 06025032c सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः 06025033a सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि 06025033c प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति 06025034a इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ 06025034c तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ 06025035a श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् 06025035c स्वधर्मे निधनं श्रेयः परधर्मो भयावहः 06025036 अर्जुन उवाच 06025036a अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः 06025036c अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः 06025037 श्रीभगवानुवाच 06025037a काम एष क्रोध एष रजोगुणसमुद्भवः 06025037c महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् 06025038a धूमेनाव्रियते वह्निर्यथादर्शो मलेन च 06025038c यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् 06025039a आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा 06025039c कामरूपेण कौन्तेय दुष्पूरेणानलेन च 06025040a इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते 06025040c एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् 06025041a तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ 06025041c पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् 06025042a इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः 06025042c मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः 06025043a एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना 06025043c जहि शत्रुं महाबाहो कामरूपं दुरासदम् 06026001 श्रीभगवानुवाच 06026001a इमं विवस्वते योगं प्रोक्तवानहमव्ययम् 06026001c विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् 06026002a एवं परंपराप्राप्तमिमं राजर्षयो विदुः 06026002c स कालेनेह महता योगो नष्टः परंतप 06026003a स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः 06026003c भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् 06026004 अर्जुन उवाच 06026004a अपरं भवतो जन्म परं जन्म विवस्वतः 06026004c कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति 06026005 श्रीभगवानुवाच 06026005a बहूनि मे व्यतीतानि जन्मानि तव चार्जुन 06026005c तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप 06026006a अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् 06026006c प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया 06026007a यदा यदा हि धर्मस्य ग्लानिर्भवति भारत 06026007c अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् 06026008a परित्राणाय साधूनां विनाशाय च दुष्कृताम् 06026008c धर्मसंस्थापनार्थाय संभवामि युगे युगे 06026009a जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः 06026009c त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन 06026010a वीतरागभयक्रोधा मन्मया मामुपाश्रिताः 06026010c बहवो ज्ञानतपसा पूता मद्भावमागताः 06026011a ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् 06026011c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 06026012a काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः 06026012c क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा 06026013a चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः 06026013c तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् 06026014a न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा 06026014c इति मां योऽभिजानाति कर्मभिर्न स बध्यते 06026015a एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः 06026015c कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् 06026016a किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः 06026016c तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् 06026017a कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः 06026017c अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः 06026018a कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः 06026018c स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् 06026019a यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः 06026019c ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः 06026020a त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः 06026020c कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः 06026021a निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः 06026021c शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् 06026022a यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः 06026022c समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते 06026023a गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः 06026023c यज्ञायाचरतः कर्म समग्रं प्रविलीयते 06026024a ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् 06026024c ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना 06026025a दैवमेवापरे यज्ञं योगिनः पर्युपासते 06026025c ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति 06026026a श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति 06026026c शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति 06026027a सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे 06026027c आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते 06026028a द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे 06026028c स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः 06026029a अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे 06026029c प्राणापानगती रुद्ध्वा प्राणायामपरायणाः 06026030a अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति 06026030c सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः 06026031a यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् 06026031c नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम 06026032a एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे 06026032c कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे 06026033a श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप 06026033c सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते 06026034a तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया 06026034c उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः 06026035a यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव 06026035c येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि 06026036a अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः 06026036c सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि 06026037a यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन 06026037c ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा 06026038a न हि ज्ञानेन सदृशं पवित्रमिह विद्यते 06026038c तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति 06026039a श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः 06026039c ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति 06026040a अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति 06026040c नायं लोकोऽस्ति न परो न सुखं संशयात्मनः 06026041a योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् 06026041c आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय 06026042a तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः 06026042c छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत 06027001 अर्जुन उवाच 06027001a संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि 06027001c यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् 06027002 श्रीभगवानुवाच 06027002a संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ 06027002c तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते 06027003a ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति 06027003c निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते 06027004a सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः 06027004c एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् 06027005a यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते 06027005c एकं सांख्यं च योगं च यः पश्यति स पश्यति 06027006a संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः 06027006c योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति 06027007a योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः 06027007c सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते 06027008a नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् 06027008c पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् 06027009a प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि 06027009c इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् 06027010a ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः 06027010c लिप्यते न स पापेन पद्मपत्रमिवाम्भसा 06027011a कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि 06027011c योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये 06027012a युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् 06027012c अयुक्तः कामकारेण फले सक्तो निबध्यते 06027013a सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी 06027013c नवद्वारे पुरे देही नैव कुर्वन्न कारयन् 06027014a न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः 06027014c न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते 06027015a नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः 06027015c अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः 06027016a ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः 06027016c तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् 06027017a तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः 06027017c गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः 06027018a विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि 06027018c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 06027019a इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः 06027019c निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः 06027020a न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् 06027020c स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः 06027021a बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् 06027021c स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते 06027022a ये हि संस्पर्शजा भोगा दुःखयोनय एव ते 06027022c आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः 06027023a शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् 06027023c कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः 06027024a योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः 06027024c स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति 06027025a लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः 06027025c छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः 06027026a कामक्रोधवियुक्तानां यतीनां यतचेतसाम् 06027026c अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् 06027027a स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः 06027027c प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ 06027028a यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः 06027028c विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः 06027029a भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् 06027029c सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति 06028001 श्रीभगवानुवाच 06028001a अनाश्रितः कर्मफलं कार्यं कर्म करोति यः 06028001c स संन्यासी च योगी च न निरग्निर्न चाक्रियः 06028002a यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव 06028002c न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन 06028003a आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते 06028003c योगारूढस्य तस्यैव शमः कारणमुच्यते 06028004a यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते 06028004c सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते 06028005a उद्धरेदात्मनात्मानं नात्मानमवसादयेत् 06028005c आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 06028006a बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः 06028006c अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् 06028007a जितात्मनः प्रशान्तस्य परमात्मा समाहितः 06028007c शीतोष्णसुखदुःखेषु तथा मानावमानयोः 06028008a ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः 06028008c युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः 06028009a सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 06028009c साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते 06028010a योगी युञ्जीत सततमात्मानं रहसि स्थितः 06028010c एकाकी यतचित्तात्मा निराशीरपरिग्रहः 06028011a शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः 06028011c नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् 06028012a तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः 06028012c उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये 06028013a समं कायशिरोग्रीवं धारयन्नचलं स्थिरः 06028013c संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् 06028014a प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः 06028014c मनः संयम्य मच्चित्तो युक्त आसीत मत्परः 06028015a युञ्जन्नेवं सदात्मानं योगी नियतमानसः 06028015c शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति 06028016a नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः 06028016c न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन 06028017a युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 06028017c युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 06028018a यदा विनियतं चित्तमात्मन्येवावतिष्ठते 06028018c निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा 06028019a यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता 06028019c योगिनो यतचित्तस्य युञ्जतो योगमात्मनः 06028020a यत्रोपरमते चित्तं निरुद्धं योगसेवया 06028020c यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति 06028021a सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् 06028021c वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः 06028022a यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः 06028022c यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते 06028023a तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् 06028023c स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा 06028024a संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः 06028024c मनसैवेन्द्रियग्रामं विनियम्य समन्ततः 06028025a शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया 06028025c आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् 06028026a यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् 06028026c ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् 06028027a प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् 06028027c उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् 06028028a युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः 06028028c सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते 06028029a सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि 06028029c ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः 06028030a यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति 06028030c तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 06028031a सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः 06028031c सर्वथा वर्तमानोऽपि स योगी मयि वर्तते 06028032a आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन 06028032c सुखं वा यदि वा दुःखं स योगी परमो मतः 06028033 अर्जुन उवाच 06028033a योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन 06028033c एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् 06028034a चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् 06028034c तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् 06028035 श्रीभगवानुवाच 06028035a असंशयं महाबाहो मनो दुर्निग्रहं चलम् 06028035c अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते 06028036a असंयतात्मना योगो दुष्प्राप इति मे मतिः 06028036c वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः 06028037 अर्जुन उवाच 06028037a अयतिः श्रद्धयोपेतो योगाच्चलितमानसः 06028037c अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति 06028038a कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति 06028038c अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि 06028039a एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः 06028039c त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते 06028040 श्रीभगवानुवाच 06028040a पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते 06028040c न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति 06028041a प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः 06028041c शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते 06028042a अथ वा योगिनामेव कुले भवति धीमताम् 06028042c एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् 06028043a तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् 06028043c यतते च ततो भूयः संसिद्धौ कुरुनन्दन 06028044a पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः 06028044c जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते 06028045a प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः 06028045c अनेकजन्मसंसिद्धस्ततो याति परां गतिम् 06028046a तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः 06028046c कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन 06028047a योगिनामपि सर्वेषां मद्गतेनान्तरात्मना 06028047c श्रद्धावान्भजते यो मां स मे युक्ततमो मतः 06029001 श्रीभगवानुवाच 06029001a मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः 06029001c असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु 06029002a ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः 06029002c यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते 06029003a मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये 06029003c यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः 06029004a भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च 06029004c अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा 06029005a अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् 06029005c जीवभूतां महाबाहो ययेदं धार्यते जगत् 06029006a एतद्योनीनि भूतानि सर्वाणीत्युपधारय 06029006c अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा 06029007a मत्तः परतरं नान्यत्किंचिदस्ति धनंजय 06029007c मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव 06029008a रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः 06029008c प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु 06029009a पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ 06029009c जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु 06029010a बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् 06029010c बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् 06029011a बलं बलवतां चाहं कामरागविवर्जितम् 06029011c धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ 06029012a ये चैव सात्त्विका भावा राजसास्तामसाश्च ये 06029012c मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि 06029013a त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् 06029013c मोहितं नाभिजानाति मामेभ्यः परमव्ययम् 06029014a दैवी ह्येषा गुणमयी मम माया दुरत्यया 06029014c मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते 06029015a न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः 06029015c माययापहृतज्ञाना आसुरं भावमाश्रिताः 06029016a चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन 06029016c आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ 06029017a तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते 06029017c प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः 06029018a उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् 06029018c आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् 06029019a बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते 06029019c वासुदेवः सर्वमिति स महात्मा सुदुर्लभः 06029020a कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः 06029020c तं तं नियममास्थाय प्रकृत्या नियताः स्वया 06029021a यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति 06029021c तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् 06029022a स तया श्रद्धया युक्तस्तस्या राधनमीहते 06029022c लभते च ततः कामान्मयैव विहितान्हि तान् 06029023a अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् 06029023c देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि 06029024a अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः 06029024c परं भावमजानन्तो ममाव्ययमनुत्तमम् 06029025a नाहं प्रकाशः सर्वस्य योगमायासमावृतः 06029025c मूढोऽयं नाभिजानाति लोको मामजमव्ययम् 06029026a वेदाहं समतीतानि वर्तमानानि चार्जुन 06029026c भविष्याणि च भूतानि मां तु वेद न कश्चन 06029027a इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत 06029027c सर्वभूतानि संमोहं सर्गे यान्ति परंतप 06029028a येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् 06029028c ते द्वंद्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः 06029029a जरामरणमोक्षाय मामाश्रित्य यतन्ति ये 06029029c ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् 06029030a साधिभूताधिदैवं मां साधियज्ञं च ये विदुः 06029030c प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः 06030001 अर्जुन उवाच 06030001a किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम 06030001c अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते 06030002a अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन 06030002c प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः 06030003 श्रीभगवानुवाच 06030003a अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते 06030003c भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः 06030004a अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् 06030004c अधियज्ञोऽहमेवात्र देहे देहभृतां वर 06030005a अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् 06030005c यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः 06030006a यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् 06030006c तं तमेवैति कौन्तेय सदा तद्भावभावितः 06030007a तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च 06030007c मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः 06030008a अभ्यासयोगयुक्तेन चेतसा नान्यगामिना 06030008c परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् 06030009a कविं पुराणमनुशासितार;मणोरणीयांसमनुस्मरेद्यः 06030009c सर्वस्य धातारमचिन्त्यरूप;मादित्यवर्णं तमसः परस्तात् 06030010a प्रयाणकाले मनसाचलेन; भक्त्या युक्तो योगबलेन चैव 06030010c भ्रुवोर्मध्ये प्राणमावेश्य सम्य;क्स तं परं पुरुषमुपैति दिव्यम् 06030011a यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतयो वीतरागाः 06030011c यदिच्छन्तो ब्रह्मचर्यं चरन्ति; तत्ते पदं संग्रहेण प्रवक्ष्ये 06030012a सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च 06030012c मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् 06030013a ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् 06030013c यः प्रयाति त्यजन्देहं स याति परमां गतिम् 06030014a अनन्यचेताः सततं यो मां स्मरति नित्यशः 06030014c तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः 06030015a मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् 06030015c नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः 06030016a आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन 06030016c मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते 06030017a सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः 06030017c रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः 06030018a अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे 06030018c रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके 06030019a भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते 06030019c रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे 06030020a परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः 06030020c यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति 06030021a अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् 06030021c यं प्राप्य न निवर्तन्ते तद्धाम परमं मम 06030022a पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया 06030022c यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् 06030023a यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः 06030023c प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ 06030024a अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् 06030024c तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः 06030025a धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् 06030025c तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते 06030026a शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते 06030026c एकया यात्यनावृत्तिमन्ययावर्तते पुनः 06030027a नैते सृती पार्थ जानन्योगी मुह्यति कश्चन 06030027c तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन 06030028a वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् 06030028c अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् 06031001 श्रीभगवानुवाच 06031001a इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे 06031001c ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् 06031002a राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् 06031002c प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् 06031003a अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप 06031003c अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि 06031004a मया ततमिदं सर्वं जगदव्यक्तमूर्तिना 06031004c मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः 06031005a न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् 06031005c भूतभृन्न च भूतस्थो ममात्मा भूतभावनः 06031006a यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् 06031006c तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय 06031007a सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् 06031007c कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् 06031008a प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः 06031008c भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् 06031009a न च मां तानि कर्माणि निबध्नन्ति धनंजय 06031009c उदासीनवदासीनमसक्तं तेषु कर्मसु 06031010a मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् 06031010c हेतुनानेन कौन्तेय जगद्विपरिवर्तते 06031011a अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् 06031011c परं भावमजानन्तो मम भूतमहेश्वरम् 06031012a मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः 06031012c राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः 06031013a महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः 06031013c भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् 06031014a सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः 06031014c नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते 06031015a ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते 06031015c एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् 06031016a अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् 06031016c मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् 06031017a पिताहमस्य जगतो माता धाता पितामहः 06031017c वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च 06031018a गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् 06031018c प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् 06031019a तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च 06031019c अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन 06031020a त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते 06031020c ते पुण्यमासाद्य सुरेन्द्रलोक;मश्नन्ति दिव्यान्दिवि देवभोगान् 06031021a ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति 06031021c एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते 06031022a अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते 06031022c तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् 06031023a येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः 06031023c तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् 06031024a अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च 06031024c न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते 06031025a यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः 06031025c भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् 06031026a पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति 06031026c तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः 06031027a यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् 06031027c यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् 06031028a शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः 06031028c संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि 06031029a समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः 06031029c ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् 06031030a अपि चेत्सुदुराचारो भजते मामनन्यभाक् 06031030c साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः 06031031a क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति 06031031c कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति 06031032a मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः 06031032c स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् 06031033a किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा 06031033c अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् 06031034a मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 06031034c मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः 06032001 श्रीभगवानुवाच 06032001a भूय एव महाबाहो शृणु मे परमं वचः 06032001c यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया 06032002a न मे विदुः सुरगणाः प्रभवं न महर्षयः 06032002c अहमादिर्हि देवानां महर्षीणां च सर्वशः 06032003a यो मामजमनादिं च वेत्ति लोकमहेश्वरम् 06032003c असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते 06032004a बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः 06032004c सुखं दुःखं भवोऽभावो भयं चाभयमेव च 06032005a अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः 06032005c भवन्ति भावा भूतानां मत्त एव पृथग्विधाः 06032006a महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा 06032006c मद्भावा मानसा जाता येषां लोक इमाः प्रजाः 06032007a एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः 06032007c सोऽविकम्पेन योगेन युज्यते नात्र संशयः 06032008a अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते 06032008c इति मत्वा भजन्ते मां बुधा भावसमन्विताः 06032009a मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् 06032009c कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च 06032010a तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् 06032010c ददामि बुद्धियोगं तं येन मामुपयान्ति ते 06032011a तेषामेवानुकम्पार्थमहमज्ञानजं तमः 06032011c नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता 06032012 अर्जुन उवाच 06032012a परं ब्रह्म परं धाम पवित्रं परमं भवान् 06032012c पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् 06032013a आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा 06032013c असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे 06032014a सर्वमेतदृतं मन्ये यन्मां वदसि केशव 06032014c न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः 06032015a स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम 06032015c भूतभावन भूतेश देवदेव जगत्पते 06032016a वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः 06032016c याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि 06032017a कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् 06032017c केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया 06032018a विस्तरेणात्मनो योगं विभूतिं च जनार्दन 06032018c भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् 06032019 श्रीभगवानुवाच 06032019a हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः 06032019c प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे 06032020a अहमात्मा गुडाकेश सर्वभूताशयस्थितः 06032020c अहमादिश्च मध्यं च भूतानामन्त एव च 06032021a आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् 06032021c मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी 06032022a वेदानां सामवेदोऽस्मि देवानामस्मि वासवः 06032022c इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना 06032023a रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् 06032023c वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् 06032024a पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् 06032024c सेनानीनामहं स्कन्दः सरसामस्मि सागरः 06032025a महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् 06032025c यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः 06032026a अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः 06032026c गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः 06032027a उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् 06032027c ऐरावतं गजेन्द्राणां नराणां च नराधिपम् 06032028a आयुधानामहं वज्रं धेनूनामस्मि कामधुक् 06032028c प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः 06032029a अनन्तश्चास्मि नागानां वरुणो यादसामहम् 06032029c पितॄणामर्यमा चास्मि यमः संयमतामहम् 06032030a प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् 06032030c मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् 06032031a पवनः पवतामस्मि रामः शस्त्रभृतामहम् 06032031c झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी 06032032a सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन 06032032c अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् 06032033a अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च 06032033c अहमेवाक्षयः कालो धाताहं विश्वतोमुखः 06032034a मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् 06032034c कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा 06032035a बृहत्साम तथा साम्नां गायत्री छन्दसामहम् 06032035c मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः 06032036a द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् 06032036c जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् 06032037a वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः 06032037c मुनीनामप्यहं व्यासः कवीनामुशना कविः 06032038a दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् 06032038c मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् 06032039a यच्चापि सर्वभूतानां बीजं तदहमर्जुन 06032039c न तदस्ति विना यत्स्यान्मया भूतं चराचरम् 06032040a नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप 06032040c एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया 06032041a यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा 06032041c तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् 06032042a अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन 06032042c विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् 06033001 अर्जुन उवाच 06033001a मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् 06033001c यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम 06033002a भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया 06033002c त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् 06033003a एवमेतद्यथात्थ त्वमात्मानं परमेश्वर 06033003c द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम 06033004a मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो 06033004c योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् 06033005 श्रीभगवानुवाच 06033005a पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः 06033005c नानाविधानि दिव्यानि नानावर्णाकृतीनि च 06033006a पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा 06033006c बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत 06033007a इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् 06033007c मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि 06033008a न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा 06033008c दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् 06033009 संजय उवाच 06033009a एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः 06033009c दर्शयामास पार्थाय परमं रूपमैश्वरम् 06033010a अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् 06033010c अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् 06033011a दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् 06033011c सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् 06033012a दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता 06033012c यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः 06033013a तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा 06033013c अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा 06033014a ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः 06033014c प्रणम्य शिरसा देवं कृताञ्जलिरभाषत 06033015 अर्जुन उवाच 06033015a पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसंघान् 06033015c ब्रह्माणमीशं कमलासनस्थ;मृषींश्च सर्वानुरगांश्च दिव्यान् 06033016a अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम् 06033016c नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप 06033017a किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम् 06033017c पश्यामि त्वां दुर्निरीक्ष्यं समन्ता;द्दीप्तानलार्कद्युतिमप्रमेयम् 06033018a त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम् 06033018c त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे 06033019a अनादिमध्यान्तमनन्तवीर्य;मनन्तबाहुं शशिसूर्यनेत्रम् 06033019c पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम् 06033020a द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः 06033020c दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन् 06033021a अमी हि त्वा सुरसंघा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति 06033021c स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः 06033022a रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च 06033022c गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे 06033023a रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम् 06033023c बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् 06033024a नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम् 06033024c दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो 06033025a दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि 06033025c दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास 06033026a अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः 06033026c भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः 06033027a वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि 06033027c केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः 06033028a यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति 06033028c तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति 06033029a यथा प्रदीप्तं ज्वलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः 06033029c तथैव नाशाय विशन्ति लोका;स्तवापि वक्त्राणि समृद्धवेगाः 06033030a लेलिह्यसे ग्रसमानः समन्ता;ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः 06033030c तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो 06033031a आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद 06033031c विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम् 06033032 श्रीभगवानुवाच 06033032a कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः 06033032c ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः 06033033a तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् 06033033c मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन् 06033034a द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान् 06033034c मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान् 06033035 संजय उवाच 06033035a एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी 06033035c नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य 06033036 अर्जुन उवाच 06033036a स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च 06033036c रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः 06033037a कस्माच्च ते न नमेरन्महात्म;न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे 06033037c अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत् 06033038a त्वमादिदेवः पुरुषः पुराण;स्त्वमस्य विश्वस्य परं निधानम् 06033038c वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप 06033039a वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च 06033039c नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते 06033040a नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व 06033040c अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः 06033041a सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति 06033041c अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि 06033042a यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु 06033042c एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम् 06033043a पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान् 06033043c न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव 06033044a तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम् 06033044c पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम् 06033045a अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे 06033045c तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास 06033046a किरीटिनं गदिनं चक्रहस्त;मिच्छामि त्वां द्रष्टुमहं तथैव 06033046c तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते 06033047 श्रीभगवानुवाच 06033047a मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात् 06033047c तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम् 06033048a न वेदयज्ञाध्ययनैर्न दानै;र्न च क्रियाभिर्न तपोभिरुग्रैः 06033048c एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर 06033049a मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम् 06033049c व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य 06033050 संजय उवाच 06033050a इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः 06033050c आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा 06033051 अर्जुन उवाच 06033051a दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन 06033051c इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः 06033052 श्रीभगवानुवाच 06033052a सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम 06033052c देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः 06033053a नाहं वेदैर्न तपसा न दानेन न चेज्यया 06033053c शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा 06033054a भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन 06033054c ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप 06033055a मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः 06033055c निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव 06034001 अर्जुन उवाच 06034001a एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते 06034001c ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः 06034002 श्रीभगवानुवाच 06034002a मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते 06034002c श्रद्धया परयोपेतास्ते मे युक्ततमा मताः 06034003a ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते 06034003c सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् 06034004a संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः 06034004c ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः 06034005a क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् 06034005c अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते 06034006a ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः 06034006c अनन्येनैव योगेन मां ध्यायन्त उपासते 06034007a तेषामहं समुद्धर्ता मृत्युसंसारसागरात् 06034007c भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् 06034008a मय्येव मन आधत्स्व मयि बुद्धिं निवेशय 06034008c निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः 06034009a अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् 06034009c अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय 06034010a अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव 06034010c मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि 06034011a अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः 06034011c सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् 06034012a श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते 06034012c ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् 06034013a अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च 06034013c निर्ममो निरहंकारः समदुःखसुखः क्षमी 06034014a संतुष्टः सततं योगी यतात्मा दृढनिश्चयः 06034014c मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः 06034015a यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः 06034015c हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः 06034016a अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः 06034016c सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः 06034017a यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति 06034017c शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः 06034018a समः शत्रौ च मित्रे च तथा मानावमानयोः 06034018c शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः 06034019a तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् 06034019c अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः 06034020a ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते 06034020c श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः 06035001 श्रीभगवानुवाच 06035001a इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते 06035001c एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः 06035002a क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत 06035002c क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम 06035003a तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् 06035003c स च यो यत्प्रभावश्च तत्समासेन मे शृणु 06035004a ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् 06035004c ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः 06035005a महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च 06035005c इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः 06035006a इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः 06035006c एतत्क्षेत्रं समासेन सविकारमुदाहृतम् 06035007a अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् 06035007c आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः 06035008a इन्द्रियार्थेषु वैराग्यमनहंकार एव च 06035008c जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 06035009a असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु 06035009c नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु 06035010a मयि चानन्ययोगेन भक्तिरव्यभिचारिणी 06035010c विविक्तदेशसेवित्वमरतिर्जनसंसदि 06035011a अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् 06035011c एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा 06035012a ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते 06035012c अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते 06035013a सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् 06035013c सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति 06035014a सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् 06035014c असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च 06035015a बहिरन्तश्च भूतानामचरं चरमेव च 06035015c सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् 06035016a अविभक्तं च भूतेषु विभक्तमिव च स्थितम् 06035016c भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च 06035017a ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते 06035017c ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् 06035018a इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः 06035018c मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते 06035019a प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि 06035019c विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् 06035020a कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते 06035020c पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते 06035021a पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् 06035021c कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु 06035022a उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः 06035022c परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः 06035023a य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह 06035023c सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते 06035024a ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना 06035024c अन्ये सांख्येन योगेन कर्मयोगेन चापरे 06035025a अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते 06035025c तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः 06035026a यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् 06035026c क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ 06035027a समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् 06035027c विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति 06035028a समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् 06035028c न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् 06035029a प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः 06035029c यः पश्यति तथात्मानमकर्तारं स पश्यति 06035030a यदा भूतपृथग्भावमेकस्थमनुपश्यति 06035030c तत एव च विस्तारं ब्रह्म संपद्यते तदा 06035031a अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः 06035031c शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते 06035032a यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते 06035032c सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते 06035033a यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः 06035033c क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत 06035034a क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा 06035034c भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् 06036001 श्रीभगवानुवाच 06036001a परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् 06036001c यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः 06036002a इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः 06036002c सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च 06036003a मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् 06036003c संभवः सर्वभूतानां ततो भवति भारत 06036004a सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः 06036004c तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता 06036005a सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः 06036005c निबध्नन्ति महाबाहो देहे देहिनमव्ययम् 06036006a तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् 06036006c सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ 06036007a रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् 06036007c तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् 06036008a तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् 06036008c प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत 06036009a सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत 06036009c ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत 06036010a रजस्तमश्चाभिभूय सत्त्वं भवति भारत 06036010c रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा 06036011a सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते 06036011c ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत 06036012a लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा 06036012c रजस्येतानि जायन्ते विवृद्धे भरतर्षभ 06036013a अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च 06036013c तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन 06036014a यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् 06036014c तदोत्तमविदां लोकानमलान्प्रतिपद्यते 06036015a रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते 06036015c तथा प्रलीनस्तमसि मूढयोनिषु जायते 06036016a कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् 06036016c रजसस्तु फलं दुःखमज्ञानं तमसः फलम् 06036017a सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च 06036017c प्रमादमोहौ तमसो भवतोऽज्ञानमेव च 06036018a ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 06036018c जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः 06036019a नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति 06036019c गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति 06036020a गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् 06036020c जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते 06036021 अर्जुन उवाच 06036021a कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो 06036021c किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते 06036022 श्रीभगवानुवाच 06036022a प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव 06036022c न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति 06036023a उदासीनवदासीनो गुणैर्यो न विचाल्यते 06036023c गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते 06036024a समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः 06036024c तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः 06036025a मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः 06036025c सर्वारम्भपरित्यागी गुणातीतः स उच्यते 06036026a मां च योऽव्यभिचारेण भक्तियोगेन सेवते 06036026c स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते 06036027a ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च 06036027c शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च 06037001 श्रीभगवानुवाच 06037001a ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् 06037001c छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् 06037002a अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः 06037002c अधश्च मूलान्यनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके 06037003a न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च संप्रतिष्ठा 06037003c अश्वत्थमेनं सुविरूढमूल;मसङ्गशस्त्रेण दृढेन छित्त्वा 06037004a ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः 06037004c तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी 06037005a निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः 06037005c द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै;र्गच्छन्त्यमूढाः पदमव्ययं तत् 06037006a न तद्भासयते सूर्यो न शशाङ्को न पावकः 06037006c यद्गत्वा न निवर्तन्ते तद्धाम परमं मम 06037007a ममैवांशो जीवलोके जीवभूतः सनातनः 06037007c मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति 06037008a शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः 06037008c गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् 06037009a श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च 06037009c अधिष्ठाय मनश्चायं विषयानुपसेवते 06037010a उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् 06037010c विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः 06037011a यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् 06037011c यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः 06037012a यदादित्यगतं तेजो जगद्भासयतेऽखिलम् 06037012c यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् 06037013a गामाविश्य च भूतानि धारयाम्यहमोजसा 06037013c पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः 06037014a अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः 06037014c प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् 06037015a सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च 06037015c वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् 06037016a द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च 06037016c क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते 06037017a उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः 06037017c यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः 06037018a यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः 06037018c अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः 06037019a यो मामेवमसंमूढो जानाति पुरुषोत्तमम् 06037019c स सर्वविद्भजति मां सर्वभावेन भारत 06037020a इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ 06037020c एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत 06038001 श्रीभगवानुवाच 06038001a अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः 06038001c दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् 06038002a अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् 06038002c दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् 06038003a तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता 06038003c भवन्ति संपदं दैवीमभिजातस्य भारत 06038004a दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च 06038004c अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् 06038005a दैवी संपद्विमोक्षाय निबन्धायासुरी मता 06038005c मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव 06038006a द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च 06038006c दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु 06038007a प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः 06038007c न शौचं नापि चाचारो न सत्यं तेषु विद्यते 06038008a असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् 06038008c अपरस्परसंभूतं किमन्यत्कामहैतुकम् 06038009a एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः 06038009c प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः 06038010a काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः 06038010c मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः 06038011a चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः 06038011c कामोपभोगपरमा एतावदिति निश्चिताः 06038012a आशापाशशतैर्बद्धाः कामक्रोधपरायणाः 06038012c ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् 06038013a इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् 06038013c इदमस्तीदमपि मे भविष्यति पुनर्धनम् 06038014a असौ मया हतः शत्रुर्हनिष्ये चापरानपि 06038014c ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी 06038015a आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया 06038015c यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः 06038016a अनेकचित्तविभ्रान्ता मोहजालसमावृताः 06038016c प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ 06038017a आत्मसंभाविताः स्तब्धा धनमानमदान्विताः 06038017c यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् 06038018a अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः 06038018c मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः 06038019a तानहं द्विषतः क्रूरान्संसारेषु नराधमान् 06038019c क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु 06038020a आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि 06038020c मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् 06038021a त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः 06038021c कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् 06038022a एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः 06038022c आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् 06038023a यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः 06038023c न स सिद्धिमवाप्नोति न सुखं न परां गतिम् 06038024a तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ 06038024c ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि 06039001 अर्जुन उवाच 06039001a ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः 06039001c तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः 06039002 श्रीभगवानुवाच 06039002a त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा 06039002c सात्त्विकी राजसी चैव तामसी चेति तां शृणु 06039003a सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत 06039003c श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः 06039004a यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः 06039004c प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः 06039005a अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः 06039005c दम्भाहंकारसंयुक्ताः कामरागबलान्विताः 06039006a कर्शयन्तः शरीरस्थं भूतग्राममचेतसः 06039006c मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् 06039007a आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः 06039007c यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु 06039008a आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः 06039008c रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः 06039009a कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः 06039009c आहारा राजसस्येष्टा दुःखशोकामयप्रदाः 06039010a यातयामं गतरसं पूति पर्युषितं च यत् 06039010c उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् 06039011a अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते 06039011c यष्टव्यमेवेति मनः समाधाय स सात्त्विकः 06039012a अभिसंधाय तु फलं दम्भार्थमपि चैव यत् 06039012c इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् 06039013a विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् 06039013c श्रद्धाविरहितं यज्ञं तामसं परिचक्षते 06039014a देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् 06039014c ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते 06039015a अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् 06039015c स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते 06039016a मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः 06039016c भावसंशुद्धिरित्येतत्तपो मानसमुच्यते 06039017a श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः 06039017c अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते 06039018a सत्कारमानपूजार्थं तपो दम्भेन चैव यत् 06039018c क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् 06039019a मूढग्राहेणात्मनो यत्पीडया क्रियते तपः 06039019c परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् 06039020a दातव्यमिति यद्दानं दीयतेऽनुपकारिणे 06039020c देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् 06039021a यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः 06039021c दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् 06039022a अदेशकाले यद्दानमपात्रेभ्यश्च दीयते 06039022c असत्कृतमवज्ञातं तत्तामसमुदाहृतम् 06039023a ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः 06039023c ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा 06039024a तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः 06039024c प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् 06039025a तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः 06039025c दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः 06039026a सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते 06039026c प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते 06039027a यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते 06039027c कर्म चैव तदर्थीयं सदित्येवाभिधीयते 06039028a अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् 06039028c असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह 06040001 अर्जुन उवाच 06040001a संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् 06040001c त्यागस्य च हृषीकेश पृथक्केशिनिषूदन 06040002 श्रीभगवानुवाच 06040002a काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः 06040002c सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः 06040003a त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः 06040003c यज्ञदानतपःकर्म न त्याज्यमिति चापरे 06040004a निश्चयं शृणु मे तत्र त्यागे भरतसत्तम 06040004c त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः 06040005a यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् 06040005c यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् 06040006a एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च 06040006c कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् 06040007a नियतस्य तु संन्यासः कर्मणो नोपपद्यते 06040007c मोहात्तस्य परित्यागस्तामसः परिकीर्तितः 06040008a दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् 06040008c स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् 06040009a कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन 06040009c सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः 06040010a न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते 06040010c त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः 06040011a न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः 06040011c यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते 06040012a अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् 06040012c भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् 06040013a पञ्चैतानि महाबाहो कारणानि निबोध मे 06040013c सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् 06040014a अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 06040014c विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् 06040015a शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः 06040015c न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः 06040016a तत्रैवं सति कर्तारमात्मानं केवलं तु यः 06040016c पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः 06040017a यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते 06040017c हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते 06040018a ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना 06040018c करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः 06040019a ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः 06040019c प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि 06040020a सर्वभूतेषु येनैकं भावमव्ययमीक्षते 06040020c अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् 06040021a पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् 06040021c वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् 06040022a यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् 06040022c अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् 06040023a नियतं सङ्गरहितमरागद्वेषतः कृतम् 06040023c अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते 06040024a यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः 06040024c क्रियते बहुलायासं तद्राजसमुदाहृतम् 06040025a अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् 06040025c मोहादारभ्यते कर्म यत्तत्तामसमुच्यते 06040026a मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः 06040026c सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते 06040027a रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः 06040027c हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः 06040028a अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः 06040028c विषादी दीर्घसूत्री च कर्ता तामस उच्यते 06040029a बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु 06040029c प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय 06040030a प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये 06040030c बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी 06040031a यया धर्ममधर्मं च कार्यं चाकार्यमेव च 06040031c अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी 06040032a अधर्मं धर्ममिति या मन्यते तमसावृता 06040032c सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी 06040033a धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः 06040033c योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी 06040034a यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन 06040034c प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी 06040035a यया स्वप्नं भयं शोकं विषादं मदमेव च 06040035c न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी 06040036a सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ 06040036c अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति 06040037a यत्तदग्रे विषमिव परिणामेऽमृतोपमम् 06040037c तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् 06040038a विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् 06040038c परिणामे विषमिव तत्सुखं राजसं स्मृतम् 06040039a यदग्रे चानुबन्धे च सुखं मोहनमात्मनः 06040039c निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् 06040040a न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः 06040040c सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः 06040041a ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 06040041c कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः 06040042a शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च 06040042c ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् 06040043a शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् 06040043c दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् 06040044a कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् 06040044c परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् 06040045a स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः 06040045c स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु 06040046a यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् 06040046c स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः 06040047a श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् 06040047c स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् 06040048a सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् 06040048c सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः 06040049a असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः 06040049c नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति 06040050a सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे 06040050c समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा 06040051a बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च 06040051c शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च 06040052a विविक्तसेवी लघ्वाशी यतवाक्कायमानसः 06040052c ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः 06040053a अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् 06040053c विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते 06040054a ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति 06040054c समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् 06040055a भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः 06040055c ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् 06040056a सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः 06040056c मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् 06040057a चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः 06040057c बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव 06040058a मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि 06040058c अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि 06040059a यदहंकारमाश्रित्य न योत्स्य इति मन्यसे 06040059c मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति 06040060a स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा 06040060c कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् 06040061a ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति 06040061c भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया 06040062a तमेव शरणं गच्छ सर्वभावेन भारत 06040062c तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् 06040063a इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया 06040063c विमृश्यैतदशेषेण यथेच्छसि तथा कुरु 06040064a सर्वगुह्यतमं भूयः शृणु मे परमं वचः 06040064c इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् 06040065a मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 06040065c मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे 06040066a सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज 06040066c अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः 06040067a इदं ते नातपस्काय नाभक्ताय कदाचन 06040067c न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति 06040068a य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति 06040068c भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः 06040069a न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः 06040069c भविता न च मे तस्मादन्यः प्रियतरो भुवि 06040070a अध्येष्यते च य इमं धर्म्यं संवादमावयोः 06040070c ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः 06040071a श्रद्धावाननसूयश्च शृणुयादपि यो नरः 06040071c सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् 06040072a कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा 06040072c कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय 06040073 अर्जुन उवाच 06040073a नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत 06040073c स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव 06040074 संजय उवाच 06040074a इत्यहं वासुदेवस्य पार्थस्य च महात्मनः 06040074c संवादमिममश्रौषमद्भुतं रोमहर्षणम् 06040075a व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् 06040075c योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् 06040076a राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् 06040076c केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः 06040077a तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः 06040077c विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः 06040078a यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः 06040078c तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम 06041001 संजय उवाच 06041001a ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् 06041001c पुनरेव महानादं व्यसृजन्त महारथाः 06041002a पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः 06041002c दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् 06041003a ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः 06041003c सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् 06041004a अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर 06041004c सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया 06041005a ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् 06041005c समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् 06041006a ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते 06041006c ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप 06041007a विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् 06041007c अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः 06041008a पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः 06041008c वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् 06041009a तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः 06041009c अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् 06041010a वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह 06041010c यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः 06041011 अर्जुन उवाच 06041011a किं ते व्यवसितं राजन्यदस्मानपहाय वै 06041011c पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् 06041012 भीमसेन उवाच 06041012a क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः 06041012c दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव 06041013 नकुल उवाच 06041013a एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत 06041013c भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु 06041014 सहदेव उवाच 06041014a अस्मिन्रणसमूहे वै वर्तमाने महाभये 06041014c योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप 06041015 संजय उवाच 06041015a एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन 06041015c नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः 06041016a तानुवाच महाप्राज्ञो वासुदेवो महामनाः 06041016c अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव 06041017a एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च 06041017c अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः 06041018a श्रूयते हि पुराकल्पे गुरूनननुमान्य यः 06041018c युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः 06041019a अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः 06041019c ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम 06041020a एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति 06041020c हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् 06041021a दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः 06041021c मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः 06041022a व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् 06041022c युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः 06041023a धनंजये कथं नाथे पाण्डवे च वृकोदरे 06041023c नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः 06041024a न नूनं क्षत्रियकुले जातः संप्रथिते भुवि 06041024c यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे 06041025a ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् 06041025c हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् 06041026a व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते 06041026c युधिष्ठिरं ससोदर्यं सहितं केशवेन ह 06041027a ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् 06041027c निःशब्दमभवत्तूर्णं पुनरेव विशां पते 06041028a किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति 06041028c किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति 06041029a विवक्षितं किमस्येति संशयः सुमहानभूत् 06041029c उभयोः सेनयो राजन्युधिष्ठिरकृते तदा 06041030a स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् 06041030c भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः 06041031a तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः 06041031c भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् 06041032 युधिष्ठिर उवाच 06041032a आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह 06041032c अनुजानीहि मां तात आशिषश्च प्रयोजय 06041033 भीष्म उवाच 06041033a यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते 06041033c शपेयं त्वां महाराज पराभावाय भारत 06041034a प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव 06041034c यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे 06041035a व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि 06041035c एवं गते महाराज न तवास्ति पराजयः 06041036a अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 06041036c इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 06041037a अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन 06041037c हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि 06041038 युधिष्ठिर उवाच 06041038a मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः 06041038c युध्यस्व कौरवस्यार्थे ममैष सततं वरः 06041039 भीष्म उवाच 06041039a राजन्किमत्र साह्यं ते करोमि कुरुनन्दन 06041039c कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् 06041040 युधिष्ठिर उवाच 06041040a कथं जयेयं संग्रामे भवन्तमपराजितम् 06041040c एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि 06041041 भीष्म उवाच 06041041a न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे 06041041c विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः 06041042 युधिष्ठिर उवाच 06041042a हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते 06041042c जयोपायं ब्रवीहि त्वमात्मनः समरे परैः 06041043 भीष्म उवाच 06041043a न शत्रुं तात पश्यामि समरे यो जयेत माम् 06041043c न तावन्मृत्युकालो मे पुनरागमनं कुरु 06041044 संजय उवाच 06041044a ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन 06041044c शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च 06041045a प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति 06041045c पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह 06041046a स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् 06041046c उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः 06041047a आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः 06041047c जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज 06041048 द्रोण उवाच 06041048a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06041048c शपेयं त्वां महाराज पराभावाय सर्वशः 06041049a तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ 06041049c अनुजानामि युध्यस्व विजयं समवाप्नुहि 06041050a करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् 06041050c एवं गते महाराज युद्धादन्यत्किमिच्छसि 06041051a अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 06041051c इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 06041052a अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि 06041052c योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया 06041053 युधिष्ठिर उवाच 06041053a जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् 06041053c युध्यस्व कौरवस्यार्थे वर एष वृतो मया 06041054 द्रोण उवाच 06041054a ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव 06041054c अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि 06041055a यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः 06041055c युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते 06041056 युधिष्ठिर उवाच 06041056a पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् 06041056c कथं जयेयं संग्रामे भवन्तमपराजितम् 06041057 द्रोण उवाच 06041057a न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे 06041057c ममाशु निधने राजन्यतस्व सह सोदरैः 06041058 युधिष्ठिर उवाच 06041058a हन्त तस्मान्महाबाहो वधोपायं वदात्मनः 06041058c आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते 06041059 द्रोण उवाच 06041059a न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् 06041059c युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् 06041060a ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् 06041060c हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते 06041061a शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् 06041061c श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते 06041062 संजय उवाच 06041062a एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः 06041062c अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति 06041063a सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् 06041063c उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः 06041064a अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 06041064c जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ 06041065 कृप उवाच 06041065a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06041065c शपेयं त्वां महाराज पराभावाय सर्वशः 06041066a अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 06041066c इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 06041067a तेषामर्थे महाराज योद्धव्यमिति मे मतिः 06041067c अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि 06041068 युधिष्ठिर उवाच 06041068a हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः 06041069 संजय उवाच 06041069a इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः 06041069c तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् 06041069e अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि 06041070a प्रीतस्त्वभिगमेनाहं जयं तव नराधिप 06041070c आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते 06041071a एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा 06041071c अनुमान्य कृपं राजा प्रययौ येन मद्रराट् 06041072a स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् 06041072c उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः 06041073a अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 06041073c जयेयं च महाराज अनुज्ञातस्त्वया रिपून् 06041074 शल्य उवाच 06041074a यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 06041074c शपेयं त्वां महाराज पराभावाय वै रणे 06041075a तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते 06041075c अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि 06041076a ब्रूहि चैव परं वीर केनार्थः किं ददामि ते 06041076c एवं गते महाराज युद्धादन्यत्किमिच्छसि 06041077a अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 06041077c इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 06041078a करिष्यामि हि ते कामं भागिनेय यथेप्सितम् 06041078c ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि 06041079 युधिष्ठिर उवाच 06041079a मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् 06041079c कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् 06041080 शल्य उवाच 06041080a ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम 06041080c कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः 06041081 युधिष्ठिर उवाच 06041081a स एव मे वरः सत्य उद्योगे यस्त्वया कृतः 06041081c सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया 06041082 शल्य उवाच 06041082a संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः 06041082c गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव 06041083 संजय उवाच 06041083a अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् 06041083c निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः 06041084a वासुदेवस्तु राधेयमाहवेऽभिजगाम वै 06041084c तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः 06041085a श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि 06041085c अस्मान्वरय राधेय यावद्भीष्मो न हन्यते 06041086a हते तु भीष्मे राधेय पुनरेष्यसि संयुगे 06041086c धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् 06041087 कर्ण उवाच 06041087a न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव 06041087c त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् 06041088 संजय उवाच 06041088a तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत 06041088c युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः 06041089a अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः 06041089c योऽस्मान्वृणोति तदहं वरये साह्यकारणात् 06041090a अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् 06041090c प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् 06041091a अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् 06041091c युष्मदर्थे महाराज यदि मां वृणुषेऽनघ 06041092 युधिष्ठिर उवाच 06041092a एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् 06041092c युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः 06041093a वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् 06041093c त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते 06041094a भजस्वास्मान्राजपुत्र भजमानान्महाद्युते 06041094c न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः 06041095 संजय उवाच 06041095a ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव 06041095c जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् 06041096a ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः 06041096c जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् 06041097a प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः 06041097c ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः 06041098a अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् 06041098c सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः 06041099a रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः 06041099c धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा 06041100a गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् 06041100c दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् 06041101a सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् 06041101c दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः 06041102a साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः 06041102c वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः 06041103a म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा 06041103c वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः 06041104a ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् 06041104c शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः 06042001 धृतराष्ट्र उवाच 06042001a एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च 06042001c के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा 06042002 संजय उवाच 06042002a भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव 06042002c भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया 06042003a तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः 06042003c भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः 06042004a क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः 06042004c भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः 06042005a उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् 06042005c वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् 06042006a महान्त्यनीकानि महासमुच्छ्रये; समागमे पाण्डवधार्तराष्ट्रयोः 06042006c चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वायुना 06042007a नरेन्द्रनागाश्वरथाकुलाना;मभ्यायतीनामशिवे मुहूर्ते 06042007c बभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् 06042008a तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे 06042008c भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा 06042009a शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् 06042009c सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् 06042010a हयानां हेषमाणानामनीकेषु सहस्रशः 06042010c सर्वानभ्यभवच्छब्दान्भीमसेनस्य निस्वनः 06042011a तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः 06042011c जीमूतस्येव नदतः शक्राशनिसमस्वनम् 06042012a वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः 06042012c शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः 06042013a दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् 06042013c विभीषयंस्तव सुतांस्तव सेनां समभ्ययात् 06042014a तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् 06042014c छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् 06042015a दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः 06042015c दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप 06042016a विविंशतिश्चित्रसेनो विकर्णश्च महारथः 06042016c पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् 06042017a महाचापानि धुन्वन्तो जलदा इव विद्युतः 06042017c आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् 06042018a अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः 06042018c नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 06042019a धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः 06042019c वज्रैरिव महावेगैः शिखराणि धराभृताम् 06042020a तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने 06042020c तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः 06042021a लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ 06042021c निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् 06042022a नोपशाम्यति निर्घोषो धनुषां कूजतां तथा 06042022c विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् 06042023a सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत 06042023c ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् 06042024a ततस्ते जातसंरम्भाः परस्परकृतागसः 06042024c अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः 06042025a कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले 06042025c शुशुभाते रणेऽतीव पटे चित्रगते इव 06042026a ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः 06042026c सहसैन्याः समापेतुः पुत्रस्य तव शासनात् 06042027a युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः 06042027c विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् 06042028a उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः 06042028c अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 06042029a प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि 06042029c नात्र स्वेषां परेषां वा विशेषः समजायत 06042030a तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये 06042030c अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत 06043001 संजय उवाच 06043001a पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते 06043001c प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् 06043002a कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् 06043002c सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् 06043003a आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह 06043003c जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् 06043004a तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ 06043004c पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः 06043005a तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः 06043005c घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् 06043006a तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे 06043006c बभूव रथनिर्घोषः पर्जन्यनिनदोपमः 06043007a ते मनः क्रूरमाधाय समभित्यक्तजीविताः 06043007c पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 06043008a स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम् 06043008c प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे 06043009a अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् 06043009c अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि 06043010a तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ 06043010c गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली 06043010e तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि 06043011a सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् 06043011c तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् 06043012a सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् 06043012c आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् 06043013a तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ 06043013c वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ 06043014a अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् 06043014c ततः कोसलको राजा सौभद्रस्य विशां पते 06043014e ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् 06043015a सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ 06043015c बृहद्बलं महाराज विव्याध नवभिः शरैः 06043016a अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः 06043016c ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् 06043016e अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः 06043017a मानिनं समरे दृप्तं कृतवैरं महारथम् 06043017c भीमसेनस्तव सुतं दुर्योधनमयोधयत् 06043018a तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ 06043018c अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे 06043019a तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ 06043019c विस्मयः सर्वभूतानां समपद्यत भारत 06043020a दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् 06043020c अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः 06043021a तस्य माद्रीसुतः केतुं सशरं च शरासनम् 06043021c चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत 06043021e अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् 06043022a पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे 06043022c युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् 06043023a दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् 06043023c विव्याध शरवर्षेण यतमानं महाहवे 06043024a सहदेवस्ततो वीरो दुर्मुखस्य महाहवे 06043024c शरेण भृशतीक्ष्णेन पातयामास सारथिम् 06043025a तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ 06043025c त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ 06043026a युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् 06043026c तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष 06043027a तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः 06043027c अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् 06043028a ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः 06043028c छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 06043029a धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत 06043029c तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् 06043029e त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् 06043030a शरं चैव महाघोरं कालदण्डमिवापरम् 06043030c प्रेषयामास समरे सोऽस्य काये न्यमज्जत 06043031a अथान्यद्धनुरादाय सायकांश्च चतुर्दश 06043031c द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे 06043031e तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् 06043032a सौमदत्तिं रणे शङ्खो रभसं रभसो युधि 06043032c प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् 06043033a तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् 06043033c सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् 06043034a तयोः समभवद्युद्धं घोररूपं विशां पते 06043034c दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव 06043035a बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते 06043035c अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः 06043036a बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् 06043036c शरैर्बहुभिरानर्छत्सिंहनादमथानदत् 06043037a चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः 06043037c विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् 06043038a तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः 06043038c समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव 06043039a राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः 06043039c अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे 06043040a घटोत्कचस्तु संक्रुद्धो राक्षसं तं महाबलम् 06043040c नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत 06043041a अलम्बुसस्तु समरे भैमसेनिं महाबलम् 06043041c बहुधा वारयामास शरैः संनतपर्वभिः 06043042a व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ 06043042c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 06043043a शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली 06043043c अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् 06043044a नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् 06043044c शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् 06043045a सायकेन सुपीतेन तीक्ष्णेन निशितेन च 06043045c तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे 06043046a भगदत्तं रणे शूरं विराटो वाहिनीपतिः 06043046c अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत 06043047a विराटो भगदत्तेन शरवर्षेण ताडितः 06043047c अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् 06043048a भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् 06043048c छादयामास समरे मेघः सूर्यमिवोदितम् 06043049a बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ 06043049c तं कृपः शरवर्षेण छादयामास भारत 06043050a गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् 06043050c तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै 06043051a विरथावसियुद्धाय समीयतुरमर्षणौ 06043051c तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् 06043052a द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् 06043052c अभ्युद्ययौ संप्रहृष्टो हृष्टरूपं परंतप 06043053a ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः 06043053c ताडयामास समरे स च तं प्रत्यविध्यत 06043054a तयोः समभवद्युद्धं घोररूपं सुदारुणम् 06043054c ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव 06043055a विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् 06043055c अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत 06043056a विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः 06043056c सुतसोमो विकर्णं च तदद्भुतमिवाभवत् 06043057a सुशर्माणं नरव्याघ्रं चेकितानो महारथः 06043057c अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी 06043058a सुशर्मा तु महाराज चेकितानं महारथम् 06043058c महता शरवर्षेण वारयामास संयुगे 06043059a चेकितानोऽपि संरब्धः सुशर्माणं महाहवे 06043059c प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् 06043060a शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी 06043060c अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् 06043061a यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः 06043061c व्यदारयत संग्रामे मघवानिव दानवम् 06043062a शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे 06043062c व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः 06043063a सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् 06043063c श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे 06043064a सुदक्षिणस्तु समरे साहदेविं महारथम् 06043064c विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् 06043065a श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् 06043065c शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः 06043066a इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् 06043066c प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः 06043067a आर्जुनिस्तस्य समरे हयान्हत्वा महारथः 06043067c ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् 06043068a श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् 06043068c निजघान गदाग्रेण ततो युद्धमवर्तत 06043069a विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् 06043069c ससेनं ससुतं वीरं संससज्जतुराहवे 06043070a तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् 06043070c यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह 06043071a अनुविन्दस्तु गदया कुन्तिभोजमताडयत् 06043071c कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् 06043072a कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः 06043072c स च तं प्रतिविव्याध तदद्भुतमिवाभवत् 06043073a केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष 06043073c ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे 06043074a वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् 06043074c उत्तरं योधयामास विव्याध निशितैः शरैः 06043074e उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः 06043075a चेदिराट्समरे राजन्नुलूकं समभिद्रवत् 06043075c उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः 06043076a तयोर्युद्धं समभवद्घोररूपं विशां पते 06043076c दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ 06043077a एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् 06043077c पदातीनां च समरे तव तेषां च संकुलम् 06043078a मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् 06043078c तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन 06043079a गजो गजेन समरे रथी च रथिनं ययौ 06043079c अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् 06043080a ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत 06043080c शूराणां समरे तत्र समासाद्य परस्परम् 06043081a तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः 06043081c प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् 06043082a ततो दन्तिसहस्राणि रथानां चापि मारिष 06043082c अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः 06043083a तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः 06043083c सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः 06044001 संजय उवाच 06044001a राजञ्शतसहस्राणि तत्र तत्र तदा तदा 06044001c निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत 06044002a न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् 06044002c न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः 06044003a मातुलं न च स्वस्रीयो न सखायं सखा तथा 06044003c आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह 06044004a रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः 06044004c अभज्यन्त युगैरेव युगानि भरतर्षभ 06044005a रथेषाश्च रथेषाभिः कूबरा रथकूबरैः 06044005c संहताः संहतैः केचित्परस्परजिघांसवः 06044006a न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः 06044006c प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः 06044007a बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् 06044007c सतोमरपताकैश्च वारणाः परवारणैः 06044008a अभिसृत्य महाराज वेगवद्भिर्महागजैः 06044008c दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः 06044009a अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः 06044009c सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः 06044010a प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः 06044010c क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः 06044011a सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः 06044011c ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः 06044012a विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः 06044012c प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् 06044013a गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः 06044013c ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः 06044014a गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः 06044014c आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः 06044015a प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः 06044015c व्यदृश्यन्त महाराज परस्परजिघांसवः 06044016a राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः 06044016c प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् 06044017a अवक्षिप्तावधूतानामसीनां वीरबाहुभिः 06044017c संजज्ञे तुमुलः शब्दः पततां परमर्मसु 06044018a गदामुसलरुग्णानां भिन्नानां च वरासिभिः 06044018c दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः 06044019a तत्र तत्र नरौघाणां क्रोशतामितरेतरम् 06044019c शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत 06044020a हयैरपि हयारोहाश्चामरापीडधारिभिः 06044020c हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः 06044021a तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः 06044021c आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः 06044022a अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् 06044022c शिरांस्याददिरे वीरा रथिनामश्वसादिनः 06044023a बहूनपि हयारोहान्भल्लैः संनतपर्वभिः 06044023c रथी जघान संप्राप्य बाणगोचरमागतान् 06044024a नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः 06044024c पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः 06044025a पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः 06044025c प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः 06044026a साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः 06044026c सहसा चिक्षिपुस्तत्र संकुले भैरवे सति 06044027a साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः 06044027c रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः 06044028a पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः 06044028c साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा 06044029a केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः 06044029c विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः 06044030a आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः 06044030c नराश्वकायान्निर्भिद्य लौहानि कवचानि च 06044031a निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः 06044031c महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते 06044032a द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि 06044032c विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे 06044033a अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् 06044033c विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः 06044034a शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः 06044034c हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः 06044035a रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः 06044035c विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् 06044036a पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः 06044036c मातुलान्भागिनेयांश्च परानपि च संयुगे 06044037a विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत 06044037c बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः 06044037e क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः 06044038a तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते 06044038c भूमौ निपतिताः संख्ये जलमेव ययाचिरे 06044039a रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत 06044039c व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् 06044040a अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् 06044040c नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष 06044040e तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् 06044041a निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् 06044041c भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् 06044042a अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः 06044042c निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः 06044043a अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे 06044043c प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः 06044043e अशोभन्त महाराज पुष्पिता इव किंशुकाः 06044044a संबभूवुरनीकेषु बहवो भैरवस्वनाः 06044044c वर्तमाने महाभीमे तस्मिन्वीरवरक्षये 06044045a अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे 06044045c स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः 06044046a सखायं च सखा राजन्संबन्धी बान्धवं तथा 06044046c एवं युयुधिरे तत्र कुरवः पाण्डवैः सह 06044047a वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे 06044047c भीष्ममासाद्य पार्थानां वाहिनी समकम्पत 06044048a केतुना पञ्चतारेण तालेन भरतर्षभ 06044048c राजतेन महाबाहुरुच्छ्रितेन महारथे 06044048e बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा 06045001 संजय उवाच 06045001a गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे 06045001c वर्तमाने महारौद्रे महावीरवरक्षये 06045002a दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः 06045002c भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः 06045003a एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ 06045003c पाण्डवानामनीकानि विजगाहे महारथः 06045004a चेदिकाशिकरूषेषु पाञ्चालेषु च भारत 06045004c भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत 06045005a शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् 06045005c निचकर्त महावेगैर्भल्लैः संनतपर्वभिः 06045006a नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ 06045006c केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः 06045007a अभिमन्युः सुसंक्रुद्धः पिशङ्गैस्तुरगोत्तमैः 06045007c संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति 06045008a जाम्बूनदविचित्रेण कर्णिकारेण केतुना 06045008c अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् 06045009a स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा 06045009c भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह 06045010a कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः 06045010c विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् 06045011a पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च 06045011c ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् 06045012a दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना 06045012c जहार सारथेः कायाच्छिरः संनतपर्वणा 06045013a धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् 06045013c कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः 06045014a जघान परमक्रुद्धो नृत्यन्निव महारथः 06045014c तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि 06045015a लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः 06045015c सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम् 06045016a तस्य लाघवमार्गस्थमलातसदृशप्रभम् 06045016c दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् 06045017a तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः 06045017c विव्याध समरे तूर्णमार्जुनिं परवीरहा 06045018a ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः 06045018c सारथिं च त्रिभिर्बाणैराजघान यतव्रतः 06045019a तथैव कृतवर्मा च कृपः शल्यश्च मारिष 06045019c विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् 06045020a स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः 06045020c ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति 06045021a ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः 06045021c ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् 06045022a तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत 06045022c यतमानस्य समरे भीष्ममर्दयतः शरैः 06045023a पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् 06045023c स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् 06045024a ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः 06045024c चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः 06045025a स राजतो महास्कन्धस्तालो हेमविभूषितः 06045025c सौभद्रविशिखैश्छिन्नः पपात भुवि भारत 06045026a ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ 06045026c दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् 06045027a अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च 06045027c प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः 06045028a ततः शतसहस्रेण सौभद्रं प्रपितामहः 06045028c अवाकिरदमेयात्मा शराणां नतपर्वणाम् 06045029a ततो दश महेष्वासाः पाण्डवानां महारथाः 06045029c रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः 06045030a विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः 06045030c भीमश्च केकयाश्चैव सात्यकिश्च विशां पते 06045031a जवेनापततां तेषां भीष्मः शांतनवो रणे 06045031c पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः 06045032a पूर्णायतविसृष्टेन क्षुरेण निशितेन च 06045032c ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा 06045033a जाम्बूनदमयः केतुः केसरी नरसत्तम 06045033c पपात भीमसेनस्य भीष्मेण मथितो रथात् 06045034a भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शांतनवं रणे 06045034c कृपमेकेन विव्याध कृतवर्माणमष्टभिः 06045035a प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना 06045035c अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः 06045036a तस्य वारणराजस्य जवेनापततो रथी 06045036c शल्यो निवारयामास वेगमप्रतिमं रणे 06045037a तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः 06045037c पदा युगमधिष्ठाय जघान चतुरो हयान् 06045038a स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् 06045038c उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् 06045039a तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः 06045039c स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः 06045040a समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् 06045040c वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् 06045041a भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः 06045041c भीममार्तस्वरं कृत्वा पपात च ममार च 06045042a एतदीदृशकं कृत्वा मद्रराजो महारथः 06045042c आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 06045043a उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् 06045043c कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् 06045043e शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव 06045044a स विस्फार्य महच्चापं कार्तस्वरविभूषितम् 06045044c अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली 06045045a महता रथवंशेन समन्तात्परिवारितः 06045045c सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति 06045046a तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् 06045046c तावकानां रथाः सप्त समन्तात्पर्यवारयन् 06045046e मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् 06045047a ततो भीष्मो महाबाहुर्विनद्य जलदो यथा 06045047c तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे 06045048a तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् 06045048c संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः 06045049a तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः 06045049c भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत 06045050a हाहाकारो महानासीद्योधानां युधि युध्यताम् 06045050c तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः 06045051a अथ शल्यो गदापाणिरवतीर्य महारथात् 06045051c शङ्खस्य चतुरो वाहानहनद्भरतर्षभ 06045052a स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः 06045052c बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत 06045053a ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः 06045053c यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् 06045054a पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् 06045054c भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः 06045055a उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् 06045055c अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् 06045055e प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् 06045056a अग्निनेव प्रदग्धानि वनानि शिशिरात्यये 06045056c शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह 06045056e अतिष्ठत रणे भीष्मो विधूम इव पावकः 06045057a मध्यंदिने यथादित्यं तपन्तमिव तेजसा 06045057c न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् 06045058a वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः 06045058c त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव 06045059a हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते 06045059c हाहाकारो महानासीत्पाण्डुसैन्येषु भारत 06045060a ततो भीष्मः शांतनवो नित्यं मण्डलकार्मुकः 06045060c मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव 06045061a शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः 06045061c जघान पाण्डवरथानादिश्यादिश्य भारत 06045062a ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः 06045062c प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन 06045063a भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे 06045063c अवहारमकुर्वन्त सैन्यानां भरतर्षभ 06046001 संजय उवाच 06046001a कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ 06046001c भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा 06046002a धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् 06046002c भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः 06046003a शुचा परमया युक्तश्चिन्तयानः पराजयम् 06046003c वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् 06046004a कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् 06046004c शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् 06046005a कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् 06046005c लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् 06046006a एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् 06046006c दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् 06046007a शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे 06046007c वरुणः पाशभृच्चापि कुबेरो वा गदाधरः 06046008a न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः 06046008c सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः 06046009a आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव 06046009c वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् 06046010a न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे 06046010c क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् 06046011a यथानलं प्रज्वलितं पतंगाः समभिद्रुताः 06046011c विनाशायैव गच्छन्ति तथा मे सैनिको जनः 06046012a क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी 06046012c भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः 06046013a मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् 06046013c जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् 06046014a जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् 06046014c न घातयिष्यामि रणे मित्राणीमानि केशव 06046015a रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः 06046015c घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् 06046016a किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् 06046016c मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् 06046017a एको भीमः परं शक्त्या युध्यत्येष महाभुजः 06046017c केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् 06046018a गदया वीरघातिन्या यथोत्साहं महामनाः 06046018c करोत्यसुकरं कर्म गजाश्वरथपत्तिषु 06046019a नालमेष क्षयं कर्तुं परसैन्यस्य मारिष 06046019c आर्जवेनैव युद्धेन वीर वर्षशतैरपि 06046020a एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते 06046020c निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना 06046021a दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः 06046021c धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः 06046022a कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः 06046022c क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः 06046023a स त्वं पश्य महेष्वासं योगीष्वर महारथम् 06046023c यो भीष्मं शमयेत्संख्ये दावाग्निं जलदो यथा 06046024a तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः 06046024c स्वराज्यमनुसंप्राप्ता मोदिष्यन्ति सबान्धवाः 06046025a एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः 06046025c चिरमन्तर्मना भूत्वा शोकोपहतचेतनः 06046026a शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् 06046026c अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् 06046027a मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि 06046027c यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः 06046028a अहं च प्रियकृद्राजन्सात्यकिश्च महारथः 06046028c विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः 06046029a तथैव सबलाः सर्वे राजानो राजसत्तम 06046029c त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते 06046030a एष ते पार्षतो नित्यं हितकामः प्रिये रतः 06046030c सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः 06046030e शिखण्डी च महाबाहो भीष्मस्य निधनं किल 06046031a एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् 06046031c अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः 06046032a धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष 06046032c नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् 06046033a भवान्सेनापतिर्मह्यं वासुदेवेन संमतः 06046033c कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा 06046033e तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ 06046034a स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् 06046034c अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष 06046035a माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः 06046035c ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ 06046036a तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत 06046036c अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा 06046037a रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् 06046037c सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव 06046038a अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः 06046038c समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने 06046039a तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् 06046039c व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः 06046040a यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् 06046040c तं यथावत्प्रतिव्यूह परानीकविनाशनम् 06046040e अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह 06046041a तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव 06046041c प्रभाते सर्वसैन्यानामग्रे चक्रे धनंजयम् 06046042a आदित्यपथगः केतुस्तस्याद्भुतमनोरमः 06046042c शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा 06046043a इन्द्रायुधसवर्णाभिः पताकाभिरलंकृतः 06046043c आकाशग इवाकाशे गन्धर्वनगरोपमः 06046043e नृत्यमान इवाभाति रथचर्यासु मारिष 06046044a तेन रत्नवता पार्थः स च गाण्डीवधन्वना 06046044c बभूव परमोपेतः स्वयंभूरिव भानुना 06046045a शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः 06046045c कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर 06046046a दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह 06046046c अनूपगाः किराताश्च ग्रीवायां भरतर्षभ 06046047a पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा 06046047c निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः 06046048a पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 06046048c द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः 06046049a पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह 06046049c मडका लडकाश्चैव तङ्गणाः परतङ्गणाः 06046050a बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत 06046050c एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः 06046051a अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत 06046051c शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः 06046051e नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः 06046052a रथानामयुतं पक्षौ शिरश्च नियुतं तथा 06046052c पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः 06046052e ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः 06046053a पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः 06046053c जग्मुः परिवृता राजंश्चलन्त इव पर्वताः 06046054a जघनं पालयामास विराटः सह केकयैः 06046054c काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः 06046055a एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः 06046055c सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः 06046056a तेषामादित्यवर्णानि विमलानि महान्ति च 06046056c श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च 06047001 संजय उवाच 06047001a क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव 06047001c व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा 06047002a आचार्यमुपसंगम्य कृपं शल्यं च मारिष 06047002c सौमदत्तिं विकर्णं च अश्वत्थामानमेव च 06047003a दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत 06047003c अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् 06047004a प्राहेदं वचनं काले हर्षयंस्तनयस्तव 06047004c नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः 06047005a एकैकशः समर्था हि यूयं सर्वे महारथाः 06047005c पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः 06047006a अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् 06047006c पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः 06047007a संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा 06047007c आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा 06047008a शत्रुंजयेन सहितास्तथा दुःशासनेन च 06047008c विकर्णेन च वीरेण तथा नन्दोपनन्दकैः 06047009a चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः 06047009c भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः 06047010a ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष 06047010c अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने 06047011a भीष्मः सैन्येन महता समन्तात्परिवारितः 06047011c ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव 06047012a तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् 06047012c कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते 06047013a विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि 06047013c सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् 06047014a गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः 06047014c शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् 06047015a ततो दुर्योधनो राजा सहितः सर्वसोदरैः 06047015c अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः 06047016a दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः 06047016c अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् 06047017a भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष 06047017c विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् 06047018a सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः 06047018c शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः 06047019a अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 06047019c महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः 06047020a पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः 06047020c केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः 06047021a ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत 06047021c दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् 06047022a तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः 06047022c सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 06047023a ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः 06047023c आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् 06047024a ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ 06047024c प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ 06047025a पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः 06047025c पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 06047026a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 06047026c नकुलः सहदेवश्च सुघोषमणिपुष्पकौ 06047027a काशिराजश्च शैब्यश्च शिखण्डी च महारथः 06047027c धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः 06047028a पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः 06047028c सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे 06047029a स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः 06047029c नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् 06047030a एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः 06047030c पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् 06048001 धृतराष्ट्र उवाच 06048001a एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च 06048001c कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे 06048002 संजय उवाच 06048002a समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः 06048002c अपारमिव संदृश्य सागरप्रतिमं बलम् 06048003a तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव 06048003c अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः 06048004a ते मनः क्रूरमास्थाय समभित्यक्तजीविताः 06048004c पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 06048005a ततो युद्धं समभवत्तुमुलं लोमहर्षणम् 06048005c तावकानां परेषां च व्यतिषक्तरथद्विपम् 06048006a मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः 06048006c संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च 06048007a तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः 06048007c अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः 06048008a सौभद्रे भीमसेने च शैनेये च महारथे 06048008c केकये च विराटे च धृष्टद्युम्ने च पार्षते 06048009a एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः 06048009c ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः 06048010a प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे 06048010c सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् 06048011a सादितध्वजनागाश्च हतप्रवरवाजिनः 06048011c विप्रयातरथानीकाः समपद्यन्त पाण्डवाः 06048012a अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् 06048012c वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः 06048013a एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् 06048013c नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः 06048014a एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन 06048014c धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः 06048015a पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना 06048015c सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन 06048016a तमब्रवीद्वासुदेवो यत्तो भव धनंजय 06048016c एष त्वा प्रापये वीर पितामहरथं प्रति 06048017a एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् 06048017c प्रापयामास भीष्माय रथं प्रति जनेश्वर 06048018a चञ्चद्बहुपताकेन बलाकावर्णवाजिना 06048018c समुच्छ्रितमहाभीमनदद्वानरकेतुना 06048018e महता मेघनादेन रथेनादित्यवर्चसा 06048019a विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः 06048019c आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः 06048020a तमापतन्तं वेगेन प्रभिन्नमिव वारणम् 06048020c त्रासयानं रणे शूरान्पातयन्तं च सायकैः 06048021a सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः 06048021c सहसा प्रत्युदीयाय भीष्मः शांतनवोऽर्जुनम् 06048022a को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् 06048022c द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति 06048023a ततो भीष्मो महाराज कौरवाणां पितामहः 06048023c अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् 06048024a द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः 06048024c दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः 06048025a सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः 06048025c विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् 06048026a स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः 06048026c न विव्यथे महाबाहुर्भिद्यमान इवाचलः 06048027a स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः 06048027c द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः 06048028a आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः 06048028c प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ 06048029a तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः 06048029c द्रौपदेयाभिमन्युश्च परिवव्रुर्धनंजयम् 06048030a ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् 06048030c अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः 06048031a भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् 06048031c अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः 06048032a तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् 06048032c प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् 06048033a तेषां तु रथसिंहानां मध्यं प्राप्य धनंजयः 06048033c चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् 06048034a ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः 06048034c पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे 06048035a एष पाण्डुसुतस्तात कृष्णेन सहितो बली 06048035c यततां सर्वसैन्यानां मूलं नः परिकृन्तति 06048035e त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे 06048036a त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः 06048036c न युध्यति रणे पार्थं हितकामः सदा मम 06048037a स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः 06048037c एवमुक्तस्ततो राजन्पिता देवव्रतस्तव 06048037e धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति 06048038a उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः 06048038c सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत 06048039a द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः 06048039c परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष 06048040a तथैव पाण्डवाः सर्वे परिवार्य धनंजयम् 06048040c स्थिता युद्धाय महते ततो युद्धमवर्तत 06048041a गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः 06048041c तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः 06048042a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 06048042c अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः 06048043a शरजालं ततस्तत्तु शरजालेन कौरव 06048043c वारयामास पार्थस्य भीष्मः शांतनवस्तथा 06048044a उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ 06048044c निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ 06048045a भीष्मचापविमुक्तानि शरजालानि संघशः 06048045c शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः 06048046a तथैवार्जुनमुक्तानि शरजालानि भागशः 06048046c गाङ्गेयशरनुन्नानि न्यपतन्त महीतले 06048047a अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः 06048047c भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः 06048048a अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ 06048048c रथेषां रथचक्रे च चिक्रीडतुररिंदमौ 06048049a ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः 06048049c वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे 06048050a भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः 06048050c विरराज रणे राजन्सपुष्प इव किंशुकः 06048051a ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् 06048051c गाङ्गेयसारथिं संख्ये निर्बिभेद त्रिभिः शरैः 06048052a यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति 06048052c नाशक्नुतां तदान्योन्यमभिसंधातुमाहवे 06048053a मण्डलानि विचित्राणि गतप्रत्यागतानि च 06048053c अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् 06048054a अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ 06048054c राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः 06048055a उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः 06048055c तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ 06048056a तयोः शङ्खप्रणादेन रथनेमिस्वनेन च 06048056c दारिता सहसा भूमिश्चकम्प च ननाद च 06048057a न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ 06048057c बलिनौ समरे शूरावन्योन्यसदृशावुभौ 06048058a चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः 06048058c तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे 06048059a तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् 06048059c विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे 06048060a न तयोर्विवरं कश्चिद्रणे पश्यति भारत 06048060c धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् 06048061a उभौ हि शरजालेन तावदृश्यौ बभूवतुः 06048061c प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे 06048062a तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः 06048062c अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् 06048063a न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ 06048063c सदेवासुरगन्धर्वैर्लोकैरपि कथंचन 06048064a आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् 06048064c नैतादृशानि युद्धानि भविष्यन्ति कथंचन 06048065a नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता 06048065c सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे 06048066a तथैव पाण्डवं युद्धे देवैरपि दुरासदम् 06048066c न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् 06048067a इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः 06048067c गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशां पते 06048068a त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत 06048068c अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे 06048069a शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः 06048069c शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि 06048069e उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् 06048070a वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे 06048070c द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः 06049001 धृतराष्ट्र उवाच 06049001a कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः 06049001c रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय 06049002a दिष्टमेव परं मन्ये पौरुषादपि संजय 06049002c यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम् 06049003a भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् 06049003c स कथं पाण्डवं युद्धे नातरत्संजयौजसा 06049004 संजय उवाच 06049004a शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् 06049004c न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः 06049005a द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् 06049005c सारथिं चास्य भल्लेन रथनीडादपातयत् 06049006a तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः 06049006c पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष 06049007a धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः 06049007c विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् 06049008a ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् 06049008c शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् 06049009a आददे च शरं घोरं पार्षतस्य वधं प्रति 06049009c शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् 06049010a हाहाकारो महानासीत्सर्वसैन्यस्य भारत 06049010c तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे 06049011a तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् 06049011c यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः 06049012a तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः 06049012c चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह 06049013a तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह 06049013c धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 06049014a ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् 06049014c द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी 06049015a तामापतन्तीं सहसा शक्तिं कनकभूषणाम् 06049015c त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव 06049016a शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् 06049016c ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर 06049017a शरवर्षं ततस्तं तु संनिवार्य महायशाः 06049017c द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् 06049018a स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः 06049018c द्रोणाय प्रेषयामास गिरिसारमयीं बली 06049019a सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया 06049019c तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् 06049020a लाघवाद्व्यंसयामास गदां हेमविभूषिताम् 06049020c व्यंसयित्वा गदां तां च प्रेषयामास पार्षते 06049021a भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् 06049021c ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 06049022a अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः 06049022c द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः 06049023a रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ 06049023c वसन्तसमये राजन्पुष्पिताविव किंशुकौ 06049024a अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे 06049024c द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् 06049025a अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः 06049025c अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् 06049026a सारथिं चास्य भल्लेन रथनीडादपातयत् 06049026c अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 06049027a पातयामास समरे सिंहनादं ननाद च 06049027c ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् 06049028a स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः 06049028c गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् 06049029a तामस्य विशिखैस्तूर्णं पातयामास भारत 06049029c रथादनवरूढस्य तदद्भुतमिवाभवत् 06049030a ततः स विपुलं चर्म शतचन्द्रं च भानुमत् 06049030c खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली 06049031a अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया 06049031c आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् 06049032a तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् 06049032c लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत 06049033a यदेनं शरवर्षेण वारयामास पार्षतम् 06049033c न शशाक ततो गन्तुं बलवानपि संयुगे 06049034a तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् 06049034c वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् 06049035a ततो भीमो महाबाहुः सहसाभ्यपतद्बली 06049035c साहाय्यकारी समरे पार्षतस्य महात्मनः 06049036a स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः 06049036c पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् 06049037a ततो दुर्योधनो राजा कलिङ्गं समचोदयत् 06049037c सैन्येन महता युक्तं भारद्वाजस्य रक्षणे 06049038a ततः सा महती सेना कलिङ्गानां जनेश्वर 06049038c भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् 06049039a पाञ्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः 06049039c विराटद्रुपदौ वृद्धौ योधयामास संगतौ 06049039e धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् 06049040a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06049040c कलिङ्गानां च समरे भीमस्य च महात्मनः 06049040e जगतः प्रक्षयकरं घोररूपं भयानकम् 06050001 धृतराष्ट्र उवाच 06050001a तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः 06050001c कथमद्भुतकर्माणं भीमसेनं महाबलम् 06050002a चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् 06050002c योधयामास समरे कलिङ्गः सह सेनया 06050003 संजय उवाच 06050003a पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः 06050003c महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति 06050004a तामापतन्तीं सहसा कलिङ्गानां महाचमूम् 06050004c रथनागाश्वकलिलां प्रगृहीतमहायुधाम् 06050005a भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् 06050005c केतुमन्तं च नैषादिमायान्तं सह चेदिभिः 06050006a ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह 06050006c आससाद रणे भीमं व्यूढानीकेषु चेदिषु 06050007a रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः 06050007c अयुतेन गजानां च निषादैः सह केतुमान् 06050007e भीमसेनं रणे राजन्समन्तात्पर्यवारयत् 06050008a चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः 06050008c अभ्यवर्तन्त सहसा निषादान्सह राजभिः 06050009a ततः प्रववृते युद्धं घोररूपं भयानकम् 06050009c प्रजानन्न च योधान्स्वान्परस्परजिघांसया 06050010a घोरमासीत्ततो युद्धं भीमस्य सहसा परैः 06050010c यथेन्द्रस्य महाराज महत्या दैत्यसेनया 06050011a तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत 06050011c बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः 06050012a अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते 06050012c महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम् 06050013a योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया 06050013c स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः 06050014a विमर्दः सुमहानासीदल्पानां बहुभिः सह 06050014c कलिङ्गैः सह चेदीनां निषादैश्च विशां पते 06050015a कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः 06050015c भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः 06050016a सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु 06050016c स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः 06050017a न चचाल रथोपस्थाद्भीमसेनो महाबलः 06050017c शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् 06050018a कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः 06050018c शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः 06050019a ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः 06050019c योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः 06050020a शक्रदेवस्तु समरे विसृजन्सायकान्बहून् 06050020c अश्वाञ्जघान समरे भीमसेनस्य सायकैः 06050020e ववर्ष शरवर्षाणि तपान्ते जलदो यथा 06050021a हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः 06050021c शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् 06050022a स तया निहतो राजन्कलिङ्गस्य सुतो रथात् 06050022c सध्वजः सह सूतेन जगाम धरणीतलम् 06050023a हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः 06050023c रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः 06050024a ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् 06050024c उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् 06050025a चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ 06050025c नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् 06050026a कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह 06050026c प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् 06050026e प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः 06050027a तमापतन्तं वेगेन प्रेरितं निशितं शरम् 06050027c भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना 06050027e उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् 06050028a कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे 06050028c तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् 06050029a तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः 06050029c चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना 06050030a निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश 06050030c भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः 06050031a भानुमांस्तु ततो भीमं शरवर्षेण छादयन् 06050031c ननाद बलवन्नादं नादयानो नभस्तलम् 06050032a न तं स ममृषे भीमः सिंहनादं महारणे 06050032c ततः स्वरेण महता विननाद महास्वनम् 06050033a तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी 06050033c न भीमं समरे मेने मानुषं भरतर्षभ 06050034a ततो भीमो महाराज नदित्वा विपुलं स्वनम् 06050034c सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् 06050035a आरुरोह ततो मध्यं नागराजस्य मारिष 06050035c खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् 06050036a सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः 06050036c गुरुभारसहस्कन्धे नागस्यासिमपातयत् 06050037a छिन्नस्कन्धः स विनदन्पपात गजयूथपः 06050037c आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः 06050038a ततस्तस्मादवप्लुत्य गजाद्भारत भारतः 06050038c खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः 06050039a स चचार बहून्मार्गानभीतः पातयन्गजान् 06050039c अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत 06050040a अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः 06050040c पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः 06050040e श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः 06050041a छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः 06050041c खड्गेन शितधारेण संयुगे गजयोधिनाम् 06050042a पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः 06050042c मोहयामास च तदा कालान्तकयमोपमः 06050043a मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् 06050043c सासिमुत्तमवेगेन विचरन्तं महारणे 06050044a निकृत्य रथिनामाजौ रथेषाश्च युगानि च 06050044c जघान रथिनश्चापि बलवानरिमर्दनः 06050045a भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत 06050045c भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् 06050045e संपातं समुदीर्यं च दर्शयामास पाण्डवः 06050046a केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना 06050046c विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः 06050047a छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे 06050047c वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः 06050047e निपेतुरुर्व्यां च तथा विनदन्तो महारवान् 06050048a छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च 06050048c परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः 06050049a ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा 06050049c तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च 06050050a अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह 06050050c घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि 06050050e पततः पतितांश्चैव पश्यामः सह सादिभिः 06050051a छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः 06050051c आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव 06050052a विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः 06050052c अश्वारोहवरांश्चापि पातयामास भारत 06050052e तद्घोरमभवद्युद्धं तस्य तेषां च भारत 06050053a खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः 06050053c परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः 06050054a कवचान्यथ चर्माणि चित्राण्यास्तरणानि च 06050054c तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे 06050055a प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा 06050055c स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव 06050056a आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः 06050056c पातयामास खड्गेन सध्वजानपि पाण्डवः 06050057a मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः 06050057c मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः 06050058a निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् 06050058c खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् 06050059a ऊरुवेगेन चाप्यन्यान्पातयामास भूतले 06050059c अपरे चैनमालोक्य भयात्पञ्चत्वमागताः 06050060a एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् 06050060c परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् 06050061a ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ 06050061c श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् 06050062a तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः 06050062c भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे 06050063a कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः 06050063c भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः 06050064a अथाशोकः समादाय रथं हेमपरिष्कृतम् 06050064c भीमं संपादयामास रथेन रथसारथिः 06050065a तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः 06050065c कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् 06050066a ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् 06050066c प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् 06050067a स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः 06050067c समाहतो भृशं राजन्कलिङ्गेन महायशाः 06050067e संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः 06050068a क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः 06050068c कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः 06050069a क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ 06050069c सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् 06050070a ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः 06050070c केतुमन्तं रणे भीमोऽगमयद्यमसादनम् 06050071a ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम् 06050071c अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् 06050072a ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः 06050072c कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् 06050073a संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् 06050073c गदामादाय तरसा परिप्लुत्य महाबलः 06050073e भीमः सप्तशतान्वीराननयद्यमसादनम् 06050074a पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः 06050074c प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् 06050075a एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः 06050075c बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् 06050076a हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना 06050076c विप्रजग्मुरनीकेषु मेघा वातहता इव 06050076e मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः 06050077a ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली 06050077c सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् 06050078a मोहश्चापि कलिङ्गानामाविवेश परंतप 06050078c प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः 06050079a भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः 06050079c मार्गान्बहून्विचरता धावता च ततस्ततः 06050079e मुहुरुत्पतता चैव संमोहः समजायत 06050080a भीमसेनभयत्रस्तं सैन्यं च समकम्पत 06050080c क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः 06050081a त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा 06050081c पुनरावर्तमानेषु विद्रवत्सु च संघशः 06050082a सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः 06050082c अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः 06050083a सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः 06050083c भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः 06050084a धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः 06050084c महता मेघवर्णेन नागानीकेन पृष्ठतः 06050085a एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः 06050085c भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 06050086a न हि पाञ्चालराजस्य लोके कश्चन विद्यते 06050086c भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः 06050087a सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् 06050087c भीमसेनं महाबाहुं पार्षतः परवीरहा 06050088a ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः 06050088c शङ्खं दध्मौ च समरे सिंहनादं ननाद च 06050089a स च पारावताश्वस्य रथे हेमपरिष्कृते 06050089c कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् 06050090a धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् 06050090c भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् 06050091a तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ 06050091c कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ 06050092a स तत्र गत्वा शैनेयो जवेन जयतां वरः 06050092c पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः 06050093a स कृत्वा कदनं तत्र प्रगृहीतशरासनः 06050093c आस्थितो रौद्रमात्मानं जघान समरे परान् 06050094a कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् 06050094c रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् 06050095a अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् 06050095c संततार सुदुस्तारां भीमसेनो महाबलः 06050096a भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप 06050096c कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते 06050097a ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे 06050097c अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः 06050098a तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः 06050098c अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् 06050099a परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे 06050099c त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा 06050100a प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव 06050100c यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः 06050101a ततः शरसहस्रेण संनिवार्य महारथान् 06050101c हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः 06050102a हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् 06050102c शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति 06050103a अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव 06050103c त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत 06050104a ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् 06050104c भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ 06050105a सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया 06050105c सारथिं कुरुवृद्धस्य पातयामास सायकैः 06050106a भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः 06050106c वातायमानैस्तैरश्वैरपनीतो रणाजिरात् 06050107a भीमसेनस्ततो राजन्नपनीते महाव्रते 06050107c प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः 06050108a स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत 06050108c नैनमभ्युत्सहन्केचित्तावका भरतर्षभ 06050109a धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः 06050109c पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् 06050110a संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ 06050110c धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् 06050111a अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः 06050111c प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः 06050112a दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् 06050112c शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः 06050113a स्वबाहुबलवीर्येण नागाश्वरथसंकुलः 06050113c महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया 06050114a एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः 06050114c रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् 06050115a ततः स्वरथमारुह्य पुनरेव महारथः 06050115c तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् 06051001 संजय उवाच 06051001a गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत 06051001c रथनागाश्वपत्तीनां सादिनां च महाक्षये 06051002a द्रोणपुत्रेण शल्येन कृपेण च महात्मना 06051002c समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः 06051003a स लोकविदितानश्वान्निजघान महाबलः 06051003c द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः 06051004a ततः शल्यरथं तूर्णमास्थाय हतवाहनः 06051004c द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः 06051005a धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत 06051005c सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् 06051006a स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः 06051006c अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ 06051007a आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा 06051007c शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः 06051008a लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् 06051008c अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत 06051009a दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः 06051009c विव्याध समरे राजंस्तदद्भुतमिवाभवत् 06051010a अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ 06051010c शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत 06051011a लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा 06051011c मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः 06051012a तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा 06051012c अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् 06051013a तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ 06051013c अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ 06051014a ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् 06051014c पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः 06051015a संनिवृत्ते तव सुते सर्व एव जनाधिपाः 06051015c आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् 06051016a स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः 06051016c न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः 06051017a सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः 06051017c अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम् 06051018a ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः 06051018c अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् 06051019a उद्धूतं सहसा भौमं नागाश्वरथसादिभिः 06051019c दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत 06051020a तानि नागसहस्राणि भूमिपालशतानि च 06051020c तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः 06051021a प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः 06051021c कुरूणामनयस्तीव्रः समदृश्यत दारुणः 06051022a नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः 06051022c प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः 06051023a सादितध्वजनागास्तु हताश्वा रथिनो भृशम् 06051023c विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः 06051024a विरथा रथिनश्चान्ये धावमानाः समन्ततः 06051024c तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः 06051025a हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः 06051025c अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः 06051026a रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः 06051026c पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः 06051027a सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते 06051027c सप्रासांश्च सतूणीरान्सशरान्सशरासनान् 06051028a साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् 06051028c निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा 06051029a परिघाणां प्रवृद्धानां मुद्गराणां च मारिष 06051029c प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे 06051030a परश्वधानां तीक्ष्णानां तोमराणां च भारत 06051030c वर्मणां चापविद्धानां कवचानां च भूतले 06051031a ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः 06051031c छत्राणां हेमदण्डानां चामराणां च भारत 06051032a प्रतोदानां कशानां च योक्त्राणां चैव मारिष 06051032c राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ 06051033a नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत 06051033c योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन 06051034a यो यो हि समरे पार्थं प्रत्युद्याति विशां पते 06051034c स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते 06051035a तेषु विद्रवमाणेषु तव योधेषु सर्वशः 06051035c अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ 06051036a तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव 06051036c अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव 06051037a एष पाण्डुसुतो वीरः कृष्णेन सहितो बली 06051037c तथा करोति सैन्यानि यथा कुर्याद्धनंजयः 06051038a न ह्येष समरे शक्यो जेतुमद्य कथंचन 06051038c यथास्य दृश्यते रूपं कालान्तकयमोपमम् 06051039a न निवर्तयितुं चापि शक्येयं महती चमूः 06051039c अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी 06051040a एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते 06051040c वपूंषि सर्वलोकस्य संहरन्निव सर्वथा 06051041a तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ 06051041c श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन 06051042a एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् 06051042c अवहारमथो चक्रे तावकानां महारथः 06051043a ततोऽवहारः सैन्यानां तव तेषां च भारत 06051043c अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति 06052001 संजय उवाच 06052001a प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः 06052001c अनीकान्यनुसंयाने व्यादिदेशाथ भारत 06052002a गारुडं च महाव्यूहं चक्रे शांतनवस्तदा 06052002c पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः 06052003a गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव 06052003c चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः 06052004a अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ 06052004c त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ 06052005a भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष 06052005c मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये 06052006a जयद्रथेन सहिता ग्रीवायां संनिवेशिताः 06052006c पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः 06052007a विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह 06052007c पुच्छमासन्महाराज शूरसेनाश्च सर्वशः 06052008a मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह 06052008c दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः 06052009a काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा 06052009c बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः 06052010a व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः 06052010c धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे 06052010e अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् 06052011a दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत 06052011c नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः 06052012a तदन्वेव विराटश्च द्रुपदश्च महारथः 06052012c तदनन्तरमेवासीन्नीलो नीलायुधैः सह 06052013a नीलादनन्तरं चैव धृष्टकेतुर्महारथः 06052013c चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः 06052014a धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः 06052014c मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत 06052015a तथैव धर्मराजोऽपि गजानीकेन संवृतः 06052015c ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः 06052016a अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् 06052016c भैमसेनिस्ततो राजन्केकयाश्च महारथाः 06052017a ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः 06052017c सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः 06052018a एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः 06052018c वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः 06052019a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 06052019c तावकानां परेषां च निघ्नतामितरेतरम् 06052020a हयौघाश्च रथौघाश्च तत्र तत्र विशां पते 06052020c संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् 06052021a धावतां च रथौघानां निघ्नतां च पृथक्पृथक् 06052021c बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः 06052022a दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् 06052022c संप्रहारे सुतुमुले तव तेषां च भारत 06053001 संजय उवाच 06053001a ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च 06053001c धनंजयो रथानीकमवधीत्तव भारत 06053001e शरैरतिरथो युद्धे पातयन्रथयूथपान् 06053002a ते वध्यमानाः पार्थेन कालेनेव युगक्षये 06053002c धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् 06053002e प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् 06053003a एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् 06053003c बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे 06053004a द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च 06053004c पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन 06053005a उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् 06053005c दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन 06053006a अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे 06053006c वर्तते स्म तदा युद्धं तत्र तत्र विशां पते 06053007a न व्यूहो भिद्यते तत्र कौरवाणां कथंचन 06053007c रक्षितः सत्यसंधेन भारद्वाजेन धीमता 06053008a तथैव पाण्डवेयानां रक्षितः सव्यसाचिना 06053008c नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः 06053009a सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः 06053009c उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः 06053010a हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे 06053010c ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे 06053011a रथी रथिनमासाद्य शरैः कनकभूषणैः 06053011c पातयामास समरे तस्मिन्नतिभयंकरे 06053012a गजारोहा गजारोहान्नाराचशरतोमरैः 06053012c संसक्ताः पातयामासुस्तव तेषां च संघशः 06053013a पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः 06053013c न्यपातयन्त संहृष्टाः परस्परकृतागसः 06053014a पदाती रथिनं संख्ये रथी चापि पदातिनम् 06053014c न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि 06053015a गजारोहा हयारोहान्पातयां चक्रिरे तदा 06053015c हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् 06053016a गजारोहवरैश्चापि तत्र तत्र पदातयः 06053016c पातिताः समदृश्यन्त तैश्चापि गजयोधिनः 06053017a पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः 06053017c पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः 06053018a ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा 06053018c प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा 06053019a शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि 06053019c निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा 06053020a परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः 06053020c भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता 06053021a नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे 06053021c अगम्यरूपा पृथिवी मांसशोणितकर्दमा 06053022a प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः 06053022c दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर 06053023a उत्थितान्यगणेयानि कबन्धानि समन्ततः 06053023c चिह्नभूतानि जगतो विनाशार्थाय भारत 06053024a तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे 06053024c प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः 06053025a ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः 06053025c पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः 06053026a एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः 06053026c पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः 06053027a तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः 06053027c सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत 06053028a तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः 06053028c द्रावयामासुराजौ ते त्रिदशा दानवानिव 06053029a तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः 06053029c रक्तोक्षिता घोररूपा विरेजुर्दानवा इव 06053030a विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि 06053030c व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले 06053031a ततो रथसहस्रेण पुत्रो दुर्योधनस्तव 06053031c अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् 06053032a तथैव पाण्डवाः सर्वे महत्या सेनया सह 06053032c द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ 06053033a किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् 06053033c आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् 06053034a ततः प्रववृते भूयः संग्रामो लोमहर्षणः 06053034c तावकानां परेषां च समरे विजिगीषताम् 06054001 संजय उवाच 06054001a ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे 06054001c रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् 06054002a अथैनं रथवृन्देन कोष्टकीकृत्य भारत 06054002c शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् 06054003a शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह 06054003c प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि 06054003e चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति 06054004a शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् 06054004c रुरोध सर्वतः पार्थः शरैः कनकभूषणैः 06054005a तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् 06054005c देवदानवगन्धर्वाः पिशाचोरगराक्षसाः 06054005e साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् 06054006a सात्यकिं चाभिमन्युं च महत्या सेनया सह 06054006c गान्धाराः समरे शूरा रुरुधुः सहसौबलाः 06054007a तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् 06054007c तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि 06054008a सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये 06054008c अभिमन्यो रथं तूर्णमारुरोह परंतपः 06054009a तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् 06054009c व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः 06054010a द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् 06054010c नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 06054011a ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ 06054011c मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् 06054012a तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम् 06054012c यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् 06054013a कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ 06054013c दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् 06054014a तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् 06054014c अतीत्य पितरं युद्धे यदयुध्यत भारत 06054015a भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् 06054015c हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः 06054016a ततो दुर्योधनो राजा प्रहारवरमोहितः 06054016c निषसाद रथोपस्थे कश्मलं च जगाम ह 06054017a तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः 06054017c अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत 06054018a ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः 06054018c निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः 06054019a पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः 06054019c द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः 06054019e जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः 06054020a द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे 06054020c नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ 06054021a वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते 06054021c विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः 06054022a ततो रथसहस्रेषु विद्रवत्सु ततस्ततः 06054022c तावास्थितावेकरथं सौभद्रशिनिपुंगवौ 06054022e सौबलीं समरे सेनां शातयेतां समन्ततः 06054023a शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ 06054023c अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले 06054024a अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते 06054024c ववर्ष शरवर्षेण धाराभिरिव तोयदः 06054025a वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे 06054025c दुद्राव कौरवं सैन्यं विषादभयकम्पितम् 06054026a द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ 06054026c न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ 06054027a ततो दुर्योधनो राजा समाश्वस्य विशां पते 06054027c न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः 06054028a यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत 06054028c तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः 06054029a तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः 06054029c अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे 06054030a पुनरावर्ततां तेषां वेग आसीद्विशां पते 06054030c पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति 06054031a संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः 06054031c अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः 06054032a पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत 06054032c नानुरूपमहं मन्ये त्वयि जीवति कौरव 06054033a द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने 06054033c कृपे चैव महेष्वासे द्रवतीयं वरूथिनी 06054034a न पाण्डवाः प्रतिबलास्तव राजन्कथंचन 06054034c तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च 06054035a अनुग्राह्याः पाण्डुसुता नूनं तव पितामह 06054035c यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् 06054036a सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे 06054036c न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी 06054037a श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च 06054037c कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि 06054038a यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे 06054038c विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ 06054039a एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः 06054039c अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी 06054040a बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः 06054040c अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः 06054041a यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम 06054041c करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः 06054042a अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः 06054042c मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः 06054043a एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर 06054043c दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् 06054044a पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत् 06054044c दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् 06055001 धृतराष्ट्र उवाच 06055001a प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे 06055001c क्रोधितो मम पुत्रेण दुःखितेन विशेषतः 06055002a भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय 06055002c पितामहे वा पाञ्चालास्तन्ममाचक्ष्व संजय 06055003 संजय उवाच 06055003a गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत 06055003c जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु 06055004a सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव 06055004c अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् 06055004e महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः 06055005a प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् 06055005c अस्माकं पाण्डवैः सार्धमनयात्तव भारत 06055006a धनुषां कूजतां तत्र तलानां चाभिहन्यताम् 06055006c महान्समभवच्छब्दो गिरीणामिव दीर्यताम् 06055007a तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव 06055007c स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः 06055008a काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च 06055008c शिलानामिव शैलेषु पतितानामभूत्स्वनः 06055009a पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः 06055009c व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः 06055010a हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः 06055010c प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः 06055011a प्रावर्तत महावेगा नदी रुधिरवाहिनी 06055011c मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा 06055012a वराश्वनरनागानां शरीरप्रभवा तदा 06055012c परलोकार्णवमुखी गृध्रगोमायुमोदिनी 06055013a न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप 06055013c यथा तव सुतानां च पाण्डवानां च भारत 06055014a नासीद्रथपथस्तत्र योधैर्युधि निपातितैः 06055014c गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम् 06055015a विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष 06055015c शुशुभे तद्रणस्थानं शरदीव नभस्तलम् 06055016a विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः 06055016c अभीताः समरे शत्रूनभ्यधावन्त दंशिताः 06055017a तात भ्रातः सखे बन्धो वयस्य मम मातुल 06055017c मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे 06055018a आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि 06055018c स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः 06055019a तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः 06055019c मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव 06055020a शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः 06055020c जघान पाण्डवरथानादिश्यादिश्य भारत 06055021a स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् 06055021c अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते 06055022a तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा 06055022c अनेकशतसाहस्रं समपश्यन्त लाघवात् 06055023a मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे 06055023c पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः 06055024a उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो 06055024c एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत 06055025a न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् 06055025c विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् 06055026a कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् 06055026c व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु 06055026e अमानुषेण रूपेण चरन्तं पितरं तव 06055027a शलभा इव राजानः पतन्ति विधिचोदिताः 06055027c भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः 06055028a न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे 06055028c नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः 06055029a भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा 06055029c गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम् 06055030a द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि 06055030c नाराचेन सुतीक्ष्णेन निजघान पिता तव 06055031a यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन 06055031c मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते 06055032a एवं सा धर्मराजस्य वध्यमाना महाचमूः 06055032c भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा 06055033a प्रकीर्यत महासेना शरवर्षाभितापिता 06055033c पश्यतो वासुदेवस्य पार्थस्य च महात्मनः 06055034a यतमानापि ते वीरा द्रवमाणान्महारथान् 06055034c नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः 06055035a महेन्द्रसमवीर्येण वध्यमाना महाचमूः 06055035c अभज्यत महाराज न च द्वौ सह धावतः 06055036a आविद्धनरनागाश्वं पतितध्वजकूबरम् 06055036c अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् 06055037a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 06055037c प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः 06055038a विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः 06055038c प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत 06055039a तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् 06055039c ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा 06055040a प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः 06055040c उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् 06055041a अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्त्वया 06055041c प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे 06055042a यत्त्वया कथितं वीर पुरा राज्ञां समागमे 06055042c भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् 06055043a सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे 06055043c इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम 06055044a बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः 06055044c द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले 06055045a दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम् 06055045c भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव 06055046a एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः 06055046c चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम् 06055047a ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः 06055047c यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव 06055048a ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् 06055048c दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे 06055049a ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः 06055049c धनंजयरथं तूर्णं शरवर्षैरवाकिरत् 06055050a क्षणेन स रथस्तस्य सहयः सहसारथिः 06055050c शरवर्षेण महता संछन्नो न प्रकाशते 06055051a वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् 06055051c चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः 06055052a ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् 06055052c पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः 06055053a स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः 06055053c निमेषान्तरमात्रेण सज्यं चक्रे पिता तव 06055054a विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम् 06055054c अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः 06055055a तस्य तत्पूजयामास लाघवं शंतनोः सुतः 06055055c साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन 06055056a त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय 06055056c प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह 06055057a इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः 06055057c मुमोच समरे वीरः शरान्पार्थरथं प्रति 06055058a अदर्शयद्वासुदेवो हययाने परं बलम् 06055058c मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु 06055059a तथापि भीष्मः सुदृढं वासुदेवधनंजयौ 06055059c विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष 06055060a शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ 06055060c गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ 06055061a पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः 06055061c कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः 06055062a वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः 06055062c मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा 06055063a ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम् 06055063c संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् 06055064a भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि 06055064c प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः 06055065a वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् 06055065c युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले 06055066a अमृष्यमाणो भगवान्केशवः परवीरहा 06055066c अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् 06055067a एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् 06055067c किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् 06055068a द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः 06055068c एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान् 06055068e आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम् 06055069a सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः 06055069c भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् 06055070a अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे 06055070c कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् 06055071a तथा चिन्तयतस्तस्य भूय एव पितामहः 06055071c प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति 06055072a तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः 06055072c न चान्तरिक्षं न दिशो न भूमि;र्न भास्करोऽदृश्यत रश्मिमाली 06055072e ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः 06055073a द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च 06055073c श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च 06055074a प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च 06055074c किरीटिनं त्वरमाणाभिसस्रु;र्निदेशगाः शांतनवस्य राज्ञः 06055075a तं वाजिपादातरथौघजालै;रनेकसाहस्रशतैर्ददर्श 06055075c किरीटिनं संपरिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च 06055076a ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात् 06055076c अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम् 06055077a स तान्यनीकानि महाधनुष्मा;ञ्शिनिप्रवीरः सहसाभिपत्य 06055077c चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य 06055078a विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम् 06055078c युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः 06055079a क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः 06055079c मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम् 06055080a तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात् 06055080c पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम् 06055081a अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता 06055081c उवाच शैनेयमभिप्रशंस;न्दृष्ट्वा कुरूनापततः समन्तात् 06055082a ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु 06055082c भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च संख्ये सगणं मयाद्य 06055083a नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् 06055083c तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य 06055084a निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम् 06055084c प्रीतिं करिष्यामि धनंजयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च 06055085a निहत्य सर्वान्धृतराष्ट्रपुत्रां;स्तत्पक्षिणो ये च नरेन्द्रमुख्याः 06055085c राज्येन राजानमजातशत्रुं; संपादयिष्याम्यहमद्य हृष्टः 06055086a ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम् 06055086c क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान् 06055087a संकम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम् 06055087c मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम् 06055088a सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी 06055088c व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः 06055089a सुदर्शनं चास्य रराज शौरे;स्तच्चक्रपद्मं सुभुजोरुनालम् 06055089c यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम् 06055090a तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् 06055090c तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम् 06055091a तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य 06055091c सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा 06055092a स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम् 06055092c अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः 06055093a तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम् 06055093c असंभ्रमात्कार्मुकबाणपाणी; रथे स्थितः शांतनवोऽभ्युवाच 06055094a एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे 06055094c प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य संख्ये 06055095a त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके 06055095c संभावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात् 06055096a रथादवप्लुत्य ततस्त्वरावा;न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् 06055096c जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः 06055097a निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी 06055097c आदाय वेगेन जगाम विष्णु;र्जिष्णुं महावात इवैकवृक्षम् 06055098a पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम् 06055098c बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथंचित् 06055099a अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली 06055099c उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम् 06055100a न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च 06055100c अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज संप्रयुक्तः 06055101a ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य 06055101c स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह 06055102a स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता 06055102c विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः 06055103a व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम् 06055103c विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः 06055104a मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च 06055104c ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम् 06055105a गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च 06055105c जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः 06055106a तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम् 06055106c अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः 06055107a अथार्जुनाय प्रजहार भल्ला;न्भूरिश्रवाः सप्त सुवर्णपुङ्खान् 06055107c दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शांतनवश्च शक्तिम् 06055108a स सप्तभिः सप्त शरप्रवेका;न्संवार्य भूरिश्रवसा विसृष्टान् 06055108c शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ 06055109a ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम् 06055109c गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः 06055110a ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम् 06055110c माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे 06055111a तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान् 06055111c शरौघजालैर्विमलाग्निवर्णै;र्निवारयामास किरीटमाली 06055112a शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून् 06055112c निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम् 06055113a ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य 06055113c गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार 06055114a तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च 06055114c अन्तर्हिता गाण्डिवनिस्वनेन; बभूवुरुग्राश्च रणप्रणादाः 06055115a गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः 06055115c पाञ्चालराजो द्रुपदश्च वीर;स्तं देशमाजग्मुरदीनसत्त्वाः 06055116a सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः 06055116c ततस्ततः संनतिमेव जग्मु;र्न तं प्रतीपोऽभिससार कश्चित् 06055117a तस्मिन्सुघोरे नृपसंप्रहारे; हताः प्रवीराः सरथाः ससूताः 06055117c गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः 06055118a परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः 06055118c दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः 06055119a निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु 06055119c पदातिसंघाश्च रथाश्च संख्ये; हयाश्च नागाश्च धनंजयेन 06055120a बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम् 06055120c ऐन्द्रेण तेनास्त्रवरेण राज;न्महाहवे भिन्नतनुत्रदेहाः 06055121a ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा 06055121c नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै 06055122a वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा 06055122c परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का 06055123a प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला 06055123c शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसंकुला 06055124a नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा 06055124c तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसंघैश्च तरक्षुभिश्च 06055125a उपेतकूलां ददृशुः समन्ता;त्क्रूरां महावैतरणीप्रकाशाम् 06055125c प्रवर्तितामर्जुनबाणसंघै;र्मेदोवसासृक्प्रवहां सुभीमाम् 06055126a ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः 06055126c वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसंघान् 06055126e विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च 06055127a ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः 06055127c तदैन्द्रमस्त्रं विततं सुघोर;मसह्यमुद्वीक्ष्य युगान्तकल्पम् 06055128a अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च 06055128c चक्रुर्निशां संधिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम् 06055129a अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनंजयोऽपि 06055129c ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम् 06055129e ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः 06055130a रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन 06055130c प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च 06055130e महत्कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश्चिदन्यः 06055131a श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ 06055131c द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन् 06055131e स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन 06055132a इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः 06055132c उल्कासहस्रैश्च सुसंप्रदीप्तै;र्विभ्राजमानैश्च तथा प्रदीपैः 06055132e किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम् 06056001 संजय उवाच 06056001a व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्मा 06056001c ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः 06056002a तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ 06056002c जयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात् 06056003a स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन् 06056003c रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः 06056004a तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः 06056004c सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः 06056005a सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्च 06056005c बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा 06056006a ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्ता 06056006c सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः 06056007a तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् 06056007c व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः 06056008a स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः 06056008c वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम् 06056009a सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्ये 06056009c कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः 06056010a प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन 06056010c तं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम् 06056011a यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन 06056011c तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः 06056012a ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ 06056012c शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः 06056013a ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः 06056013c क्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च 06056014a तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम् 06056014c महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः 06056015a रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः 06056015c गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः 06056016a आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानि 06056016c प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः 06056017a सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः 06056017c विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् 06056018a गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः 06056018c गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम् 06056019a गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः 06056019c आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम् 06056020a संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम् 06056020c महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् 06056021a तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः 06056021c महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत् 06056022a तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुः 06056022c कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् 06056023a ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा 06056023c जवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः 06056024a तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिः 06056024c बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः 06056025a ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् 06056025c जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः 06056026a ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेन 06056026c विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली 06056027a तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुः 06056027c भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः 06056028a एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम् 06056028c ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम् 06057001 संजय उवाच 06057001a द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष 06057001c पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् 06057002a संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः 06057002c पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा 06057003a नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे 06057003c बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे 06057004a तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् 06057004c दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् 06057005a पीडयानं च तत्सैन्यं पौत्रं तव विशां पते 06057005c दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् 06057006a ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् 06057006c प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च 06057007a तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् 06057007c व्यदृश्यत महच्चापं समरे युध्यतः परैः 06057008a स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः 06057008c ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् 06057009a रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना 06057009c शितेनोरगसंकाशां पत्रिणा विजहार ताम् 06057010a शल्यस्य च महाघोरानस्यतः शतशः शरान् 06057010c निवार्यार्जुनदायादो जघान समरे हयान् 06057011a भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः 06057011c नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् 06057012a ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः 06057012c पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः 06057013a धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि 06057013c सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् 06057014a तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ 06057014c ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् 06057015a स वारणरथौघानां सहस्रैर्बहुभिर्वृतः 06057015c वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः 06057016a धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् 06057016c ययौ तन्मद्रकानीकं केकयांश्च परंतपः 06057017a तेन कीर्तिमता गुप्तमनीकं दृढधन्वना 06057017c प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत 06057018a सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन 06057018c त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् 06057019a ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः 06057019c हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः 06057020a दमनं चापि दायादं पौरवस्य महात्मनः 06057020c जघान विपुलाग्रेण नाराचेन परंतपः 06057021a ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् 06057021c अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् 06057022a सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् 06057022c भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् 06057023a अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् 06057023c अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी 06057024a स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ 06057024c पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः 06057025a स संगृह्य महाघोरं निस्त्रिंशवरमायसम् 06057025c पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् 06057026a तं महौघमिवायान्तं खात्पतन्तमिवोरगम् 06057026c भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् 06057027a दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् 06057027c अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः 06057028a तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः 06057028c शितनिस्त्रिंशहस्तस्य शरावरणधारिणः 06057029a बाणवेगमतीतस्य रथाभ्याशमुपेयुषः 06057029c त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः 06057030a तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् 06057030c हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि 06057031a तं निहत्य गदाग्रेण लेभे स परमं यशः 06057031c पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः 06057032a तस्मिन्हते महेष्वासे राजपुत्रे महारथे 06057032c हाहाकारो महानासीत्तव सैन्यस्य मारिष 06057033a ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् 06057033c अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् 06057034a तौ तत्र समरे वीरौ समेतौ रथिनां वरौ 06057034c ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा 06057035a ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा 06057035c आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् 06057036a तथैव पार्षतं शूरं शल्यः समितिशोभनः 06057036c आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत 06058001 धृतराष्ट्र उवाच 06058001a दैवमेव परं मन्ये पौरुषादपि संजय 06058001c यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते 06058002a नित्यं हि मामकांस्तात हतानेव हि शंससि 06058002c अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् 06058003a हीनान्पुरुषकारेण मामकानद्य संजय 06058003c पतितान्पात्यमानांश्च हतानेव च शंससि 06058004a युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति 06058004c पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः 06058005a सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च 06058005c अश्रौषं सततं तात दुःसहानि बहूनि च 06058006a तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः 06058006c मामका वा जयं युद्धे प्राप्नुयुर्येन संजय 06058007 संजय उवाच 06058007a क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् 06058007c शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् 06058008a धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः 06058008c पीडयामास संक्रुद्धो मद्राधिपतिमायसैः 06058009a तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् 06058009c न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् 06058010a नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे 06058010c मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् 06058011a ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे 06058011c धनुश्चिच्छेद भल्लेन पीतेन निशितेन च 06058012a अथैनं शरवर्षेण छादयामास भारत 06058012c गिरिं जलागमे यद्वज्जलदा जलधारिणः 06058013a अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडिते 06058013c अभिदुद्राव वेगेन मद्रराजरथं प्रति 06058014a ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः 06058014c आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः 06058015a ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे 06058015c मद्रराजरथं तूर्णं परिवार्यावतस्थिरे 06058016a दुर्योधनो विकर्णश्च दुःशासनविविंशती 06058016c दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः 06058017a सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत 06058017c एते मद्राधिपरथं पालयन्तः स्थिता रणे 06058018a तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः 06058018c द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ 06058019a नानारूपाणि शस्त्राणि विसृजन्तो विशां पते 06058019c अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः 06058019e ते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव 06058020a तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे 06058020c तावकानां परेषां च प्रेक्षका रथिनोऽभवन् 06058021a शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः 06058021c अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे 06058022a ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः 06058022c महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः 06058023a दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे 06058023c विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् 06058024a दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः 06058024c दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः 06058024e विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा 06058025a तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः 06058025c एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् 06058026a सत्यव्रतं तु समरे पुरुमित्रं च भारत 06058026c अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः 06058027a माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ 06058027c छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् 06058028a ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ 06058028c शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ 06058028e छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः 06058029a अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः 06058029c विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः 06058030a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 06058030c भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् 06058031a दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत् 06058031c अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 06058031e मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् 06058032a आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः 06058032c गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् 06058033a अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् 06058033c अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः 06058034a स गजान्गदया निघ्नन्व्यचरत्समरे बली 06058034c भीमसेनो महाबाहुः सवज्र इव वासवः 06058035a तस्य नादेन महता मनोहृदयकम्पिना 06058035c व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः 06058036a ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः 06058036c नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 06058037a पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् 06058037c अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा 06058038a क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि 06058038c पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् 06058039a शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः 06058039c अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः 06058040a हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः 06058040c अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव 06058041a धृष्टद्युम्नहतानन्यानपश्याम महागजान् 06058041c पतितान्पात्यमानांश्च पार्षतेन महात्मना 06058042a मागधोऽथ महीपालो गजमैरावतोपमम् 06058042c प्रेषयामास समरे सौभद्रस्य रथं प्रति 06058043a तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम् 06058043c जघानैकेषुणा वीरः सौभद्रः परवीरहा 06058044a तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः 06058044c राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः 06058045a विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः 06058045c व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव 06058046a एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् 06058046c अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव 06058047a भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् 06058047c भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् 06058048a नदतः सीदतश्चान्यान्विमुखान्समरे गजान् 06058048c विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् 06058049a भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् 06058049c अपश्याम हतान्नागान्निष्टनन्तस्तथापरे 06058050a वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः 06058050c विह्वलन्तो गता भूमिं शैला इव धरातले 06058051a मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः 06058051c व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः 06058052a गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः 06058052c घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् 06058053a निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः 06058053c सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् 06058054a तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः 06058054c पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः 06058055a शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः 06058055c कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत 06058056a व्यायच्छमानं गदया दिक्षु सर्वासु भारत 06058056c नृत्यमानमपश्याम नृत्यन्तमिव शंकरम् 06058057a यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् 06058057c अपश्याम महाराज रौद्रां विशसनीं गदाम् 06058058a विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च 06058058c पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 06058059a यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् 06058059c तथा भीमो गजानीकं गदया पर्यकालयत् 06058060a गदया वध्यमानास्ते मार्गणैश्च समन्ततः 06058060c स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव 06058061a महावात इवाभ्राणि विधमित्वा स वारणान् 06058061c अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् 06059001 संजय उवाच 06059001a तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव 06059001c भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् 06059002a ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् 06059002c अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् 06059003a तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् 06059003c आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि 06059004a रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् 06059004c अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् 06059005a तं भीमसेनः समरे महोदधिमिवापरम् 06059005c सेनासागरमक्षोभ्यं वेलेव समवारयत् 06059006a तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् 06059006c भीमसेनस्य समरे राजन्कर्मातिमानुषम् 06059007a उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् 06059007c असंभ्रमं भीमसेनो गदया समताडयत् 06059008a स संवार्य बलौघांस्तान्गदया रथिनां वरः 06059008c अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः 06059009a तस्मिन्सुतुमुले घोरे काले परमदारुणे 06059009c भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः 06059010a द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः 06059010c न प्राजहन्भीमसेनं भये जाते महाबलम् 06059011a ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् 06059011c अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः 06059011e पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः 06059012a व्यचरत्समरे भीमो युगान्ते पावको यथा 06059012c विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः 06059013a ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः 06059013c प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः 06059014a मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः 06059014c सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः 06059015a तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः 06059015c रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् 06059016a पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् 06059016c यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् 06059016e ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् 06059017a आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः 06059017c बभौ रूपं महाघोरं कालस्येव युगक्षये 06059018a तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः 06059018c दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् 06059019a यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः 06059019c तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत 06059020a प्रदारयन्तं सैन्यानि बलौघेनापराजितम् 06059020c ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् 06059021a तं तथा भीमकर्माणं प्रगृहीतमहागदम् 06059021c दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् 06059022a महता मेघघोषेण रथेनादित्यवर्चसा 06059022c छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् 06059023a तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् 06059023c भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः 06059024a तस्मिन्क्षणे सात्यकिः सत्यसंधः; शिनिप्रवीरोऽभ्यपतत्पितामहम् 06059024c निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम् 06059025a तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन 06059025c नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः 06059026a अविध्यदेनं निशितैः शराग्रै;रलम्बुसो राजवरार्श्यशृङ्गिः 06059026c तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन 06059027a अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् 06059027c प्रावर्तयन्तं कुरुपुंगवांश्च; पुनः पुनश्च प्रणदन्तमाजौ 06059028a नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम् 06059028c न तत्र कश्चिन्नविषण्ण आसी;दृते राजन्सोमदत्तस्य पुत्रात् 06059029a स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः 06059029c दृष्ट्वा रथान्स्वान्व्यपनीयमाना;न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् 06060001 संजय उवाच 06060001a ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः 06060001c अविध्यद्भृशसंक्रुद्धस्तोत्त्रैरिव महाद्विपम् 06060002a कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः 06060002c अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः 06060003a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 06060003c सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् 06060004a तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे 06060004c परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः 06060005a भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत 06060005c दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् 06060006a रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः 06060006c नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् 06060006e विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः 06060007a दुर्योधनस्तु समरे भीमसेनं महाबलम् 06060007c आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः 06060008a ततो भीमो महाबाहुः स्वरथं सुमहाबलः 06060008c आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् 06060009a एते महारथाः शूरा धार्तराष्ट्रा महाबलाः 06060009c मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि 06060010a एतानद्य हनिष्यामि पश्यतस्ते न संशयः 06060010c तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे 06060011a एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव 06060011c विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः 06060011e नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 06060012a तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् 06060012c त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत 06060013a भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् 06060013c मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव 06060014a भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा 06060014c पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना 06060015a अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत् 06060015c पुत्रस्य ते महाराज वधार्थं भरतर्षभ 06060016a समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् 06060016c तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् 06060017a सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव 06060017c अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् 06060018a संधत्त विशिखं घोरं कालमृत्युसमप्रभम् 06060018c तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे 06060019a स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् 06060019c स निषण्णो रथोपस्थे मूर्छामभिजगाम ह 06060020a तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः 06060020c नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः 06060021a ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् 06060021c पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि 06060022a प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः 06060022c दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 06060023a शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः 06060023c रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् 06060024a प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश 06060024c सेनापतिः सुषेणश्च जलसंधः सुलोचनः 06060025a उग्रो भीमरथो भीमो भीमबाहुरलोलुपः 06060025c दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः 06060026a विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः 06060026c भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् 06060027a पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः 06060027c सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा 06060027e सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः 06060028a जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम् 06060028c सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे 06060029a उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि 06060029c पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् 06060030a भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् 06060030c निनाय समरे भीमः परलोकाय मारिष 06060031a भीमं भीमरथं चोभौ भीमसेनो हसन्निव 06060031c भ्रातरौ रभसौ राजन्ननयद्यमसादनम् 06060032a ततः सुलोचनं भीमः क्षुरप्रेण महामृधे 06060032c मिषतां सर्वसैन्यानामनयद्यमसादनम् 06060033a पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् 06060033c शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः 06060033e विप्रद्रुता दिशो राजन्वध्यमाना महात्मना 06060034a ततोऽब्रवीच्छांतनवः सर्वानेव महारथान् 06060034c एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् 06060035a यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान् 06060035c निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः 06060036a एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः 06060036c अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् 06060037a भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते 06060037c अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः 06060038a आपतन्नेव च रणे भीमसेनं शिलाशितैः 06060038c अदृश्यं समरे चक्रे जीमूत इव भास्करम् 06060039a अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः 06060039c भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः 06060040a त एनं शरवर्षेण समन्तात्पर्यवारयन् 06060040c गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः 06060041a स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् 06060041c प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः 06060042a संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे 06060042c गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् 06060043a स चोदितो मदस्रावी भगदत्तेन वारणः 06060043c अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः 06060043e द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् 06060044a तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः 06060044c असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् 06060045a ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे 06060045c आजघान नरव्याघ्र शरेण नतपर्वणा 06060046a सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः 06060046c मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः 06060047a तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् 06060047c ननाद बलवन्नादं भगदत्तः प्रतापवान् 06060048a ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् 06060048c संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत 06060049a स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् 06060049c अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः 06060050a ऐरावतं समारुह्य स्वयं मायामयं कृतम् 06060050c तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः 06060051a अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः 06060051c त्रय एते महानागा राक्षसैः समधिष्ठिताः 06060052a महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु 06060052c तेजोवीर्यबलोपेता महाबलपराक्रमाः 06060053a घटोत्कचस्तु स्वं नागं चोदयामास तं ततः 06060053c सगजं भगदत्तं तु हन्तुकामः परंतपः 06060054a ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः 06060054c परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् 06060054e भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् 06060055a संपीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः 06060055c सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् 06060056a तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् 06060056c श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् 06060057a एष युध्यति संग्रामे हैडिम्बेन दुरात्मना 06060057c भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते 06060058a राक्षसश्च महामायः स च राजातिकोपनः 06060058c तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ 06060059a श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः 06060059c हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः 06060060a तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् 06060060c अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते 06060061a ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे 06060061c महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः 06060062a भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः 06060062c युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः 06060063a भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः 06060063c सहिताः सर्वराजानो भगदत्तपरीप्सया 06060063e उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् 06060064a तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः 06060064c पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् 06060065a तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् 06060065c ननाद सुमहानादं विस्फोटमशनेरिव 06060066a तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः 06060066c भीष्मः शांतनवो भूयो भारद्वाजमभाषत 06060067a न रोचते मे संग्रामो हैडिम्बेन दुरात्मना 06060067c बलवीर्यसमाविष्टः ससहायश्च सांप्रतम् 06060068a नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् 06060068c लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः 06060068e पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः 06060069a तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः 06060069c घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह 06060070a पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः 06060070c उपायेनापयानं ते घटोत्कचभयार्दिताः 06060071a कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः 06060071c सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह 06060072a एवं तदभवद्युद्धं दिवसं भरतर्षभ 06060072c पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् 06060073a कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् 06060073c व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः 06060074a शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः 06060074c युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे 06060075a पुरस्कृत्य महाराज भीमसेनघटोत्कचौ 06060075c पूजयन्तस्तदान्योन्यं मुदा परमया युताः 06060076a नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् 06060076c सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः 06060077a विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् 06060077c घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष 06060077e प्रयाताः शिबिरायैव निशाकाले परंतपाः 06060078a दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च 06060078c मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः 06060079a ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि 06060079c प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः 06061001 धृतराष्ट्र उवाच 06061001a भयं मे सुमहज्जातं विस्मयश्चैव संजय 06061001c श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् 06061002a पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः 06061002c चिन्ता मे महती सूत भविष्यति कथं त्विति 06061003a ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम 06061003c यथा हि दृश्यते सर्वं दैवयोगेन संजय 06061004a यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् 06061004c पाण्डवानामनीकानि योधयन्ति प्रहारिणः 06061005a केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः 06061005c केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते 06061005e येन क्षयं न गच्छन्ति दिवि तारागणा इव 06061006a पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः 06061006c मय्येव दण्डः पतति दैवात्परमदारुणः 06061007a यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः 06061007c एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय 06061008a न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन 06061008c समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः 06061009a पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् 06061009c घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः 06061010a न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे 06061010c ध्रुवं विनाशः समरे पुत्राणां मम संजय 06061011a तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः 06061011c पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि 06061012a दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे 06061012c भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः 06061012e द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः 06061013a निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् 06061013c विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय 06061014 संजय उवाच 06061014a शृणु राजन्नवहितः श्रुत्वा चैवावधारय 06061014c नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् 06061014e न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः 06061015a युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे 06061015c धर्मेण सर्वकार्याणि कीर्तितानीति भारत 06061015e आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः 06061016a न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः 06061016c श्रिया परमया युक्ता यतो धर्मस्ततो जयः 06061016e तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव 06061017a तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा 06061017c निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे 06061018a सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर 06061018c निकृतानीह पाण्डूनां नीचैरिव यथा नरैः 06061019a सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् 06061019c सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज 06061019e न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते 06061020a तस्य पापस्य सततं क्रियमाणस्य कर्मणः 06061020c संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् 06061020e स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः 06061021a नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः 06061021c विदुरेणाथ भीष्मेण द्रोणेन च महात्मना 06061022a तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि 06061022c वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् 06061022e पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् 06061023a शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि 06061023c कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति 06061023e तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम 06061024a दुर्योधनेन संपृष्ट एतमर्थं पितामहः 06061024c दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् 06061025a शोकसंमूढहृदयो निशाकाले स्म कौरवः 06061025c पितामहं महाप्राज्ञं विनयेनोपगम्य ह 06061025e यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर 06061026 दुर्योधन उवाच 06061026a त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च 06061026c कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः 06061027a भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् 06061027c महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः 06061028a त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः 06061028c पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे 06061029a तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः 06061029c यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे 06061030 भीष्म उवाच 06061030a शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव 06061030c बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् 06061031a क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम 06061031c एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो 06061032a भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी 06061032c दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् 06061033a न च मे क्रोशतस्तात श्रुतवानसि वै पुरा 06061033c तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे 06061034a यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् 06061034c तं शृणुष्व महाराज मम कीर्तयतः प्रभो 06061035a नास्ति लोकेषु तद्भूतं भविता नो भविष्यति 06061035c यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना 06061036a यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः 06061036c पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् 06061037a पुरा किल सुराः सर्वे ऋषयश्च समागताः 06061037c पितामहमुपासेदुः पर्वते गन्धमादने 06061038a मध्ये तेषां समासीनः प्रजापतिरपश्यत 06061038c विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे 06061039a ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् 06061039c नमश्चकार हृष्टात्मा परमं परमेश्वरम् 06061040a ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् 06061040c स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् 06061041a यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः 06061041c जगाद जगतः स्रष्टा परं परमधर्मवित् 06061042a विश्वावसुर्विश्वमूर्तिर्विश्वेशो; विष्वक्सेनो विश्वकर्मा वशी च 06061042c विश्वेश्वरो वासुदेवोऽसि तस्मा;द्योगात्मानं दैवतं त्वामुपैमि 06061043a जय विश्व महादेव जय लोकहिते रत 06061043c जय योगीश्वर विभो जय योगपरावर 06061044a पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर 06061044c भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज 06061045a असंख्येयगुणाजेय जय सर्वपरायण 06061045c नारायण सुदुष्पार जय शार्ङ्गधनुर्धर 06061046a सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय 06061046c विश्वेश्वर महाबाहो जय लोकार्थतत्पर 06061047a महोरग वराहाद्य हरिकेश विभो जय 06061047c हरिवास विशामीश विश्वावासामिताव्यय 06061048a व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय 06061048c असंख्येयात्मभावज्ञ जय गम्भीर कामद 06061049a अनन्त विदितप्रज्ञ नित्यं भूतविभावन 06061049c कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय 06061050a गुह्यात्मन्सर्वभूतात्मन्स्फुटसंभूतसंभव 06061050c भूतार्थतत्त्व लोकेश जय भूतविभावन 06061051a आत्मयोने महाभाग कल्पसंक्षेपतत्पर 06061051c उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय 06061052a निसर्गसर्गाभिरत कामेश परमेश्वर 06061052c अमृतोद्भव सद्भाव युगाग्ने विजयप्रद 06061053a प्रजापतिपते देव पद्मनाभ महाबल 06061053c आत्मभूत महाभूत कर्मात्मञ्जय कर्मद 06061054a पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः 06061054c मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी 06061055a बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो 06061055c तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः 06061056a अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती 06061056c वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् 06061057a न संख्यां न परीमाणं न तेजो न पराक्रमम् 06061057c न बलं योगयोगीश जानीमस्ते न संभवम् 06061058a त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः 06061058c अर्चयामः सदा विष्णो परमेशं महेश्वरम् 06061059a ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः 06061059c पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः 06061060a एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् 06061060c पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन 06061061a त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् 06061061c त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा 06061062a पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् 06061062c तस्माद्भव विशालाक्ष यदुवंशविवर्धनः 06061063a धर्मसंस्थापनार्थाय दैतेयानां वधाय च 06061063c जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो 06061064a यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो 06061064c वासुदेव तदेतत्ते मयोद्गीतं यथातथम् 06061065a सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना 06061065c कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् 06061066a प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् 06061066c अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् 06061067a वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः 06061067c विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो 06061068a तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै 06061068c धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः 06061069a त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम 06061069c तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् 06061070a स्थिताश्च सर्वे त्वयि भूतसंघाः; कृत्वाश्रयं त्वां वरदं सुबाहो 06061070c अनादिमध्यान्तमपारयोगं; लोकस्य सेतुं प्रवदन्ति विप्राः 06062001 भीष्म उवाच 06062001a ततः स भगवान्देवो लोकानां परमेश्वरः 06062001c ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा 06062002a विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् 06062002c तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत 06062003a ततो देवर्षिगन्धर्वा विस्मयं परमं गताः 06062003c कौतूहलपराः सर्वे पितामहमथाब्रुवन् 06062004a को न्वयं यो भगवता प्रणम्य विनयाद्विभो 06062004c वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् 06062005a एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः 06062005c देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा 06062006a यत्तत्परं भविष्यं च भवितव्यं च यत्परम् 06062006c भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् 06062007a तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः 06062007c जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः 06062008a मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः 06062008c असुराणां वधार्थाय संभवस्व महीतले 06062009a संग्रामे निहता ये ते दैत्यदानवराक्षसाः 06062009c त इमे नृषु संभूता घोररूपा महाबलाः 06062010a तेषां वधार्थं भगवान्नरेण सहितो वशी 06062010c मानुषीं योनिमास्थाय चरिष्यति महीतले 06062011a नरनारायणौ यौ तौ पुराणावृषिसत्तमौ 06062011c सहितौ मानुषे लोके संभूतावमितद्युती 06062012a अजेयौ समरे यत्तौ सहितावमरैरपि 06062012c मूढास्त्वेतौ न जानन्ति नरनारायणावृषी 06062013a तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः 06062013c वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः 06062014a तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः 06062014c नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः 06062015a एतत्परमकं गुह्यमेतत्परमकं पदम् 06062015c एतत्परमकं ब्रह्म एतत्परमकं यशः 06062016a एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् 06062016c एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च 06062017a एतत्परमकं तेज एतत्परमकं सुखम् 06062017c एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा 06062018a तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः 06062018c नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः 06062019a यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः 06062019c हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् 06062020a योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् 06062020c अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः 06062021a देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् 06062021c पद्मनाभं न जानाति तमाहुस्तामसं जनाः 06062022a किरीटकौस्तुभधरं मित्राणामभयंकरम् 06062022c अवजानन्महात्मानं घोरे तमसि मज्जति 06062023a एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः 06062023c वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः 06062024a एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा 06062024c विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् 06062025a ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च 06062025c कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः 06062026a एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् 06062026c वासुदेवं कथयतां समवाये पुरातनम् 06062027a जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः 06062027c व्यासनारदयोश्चापि श्रुतं श्रुतविशारद 06062028a एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् 06062028c वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् 06062029a यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता 06062029c कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः 06062030a वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः 06062030c मा गच्छ संयुगं तेन वासुदेवेन धीमता 06062030e मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे 06062031a मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः 06062031c यस्माद्द्विषसि गोविन्दं पाण्डवं च धनंजयम् 06062031e नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः 06062032a तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः 06062032c सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः 06062033a लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः 06062033c योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः 06062034a राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः 06062034c यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः 06062035a तस्य माहात्म्ययोगेन योगेनात्मन एव च 06062035c धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति 06062036a श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः 06062036c बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति 06062037a स एष शाश्वतो देवः सर्वगुह्यमयः शिवः 06062037c वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत 06062038a ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः 06062038c सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः 06062039a द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च 06062039c सात्वतं विधिमास्थाय गीतः संकर्षणेन यः 06062040a स एष सर्वासुरमर्त्यलोकं; समुद्रकक्ष्यान्तरिताः पुरीश्च 06062040c युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः 06063001 दुर्योधन उवाच 06063001a वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते 06063001c तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह 06063002 भीष्म उवाच 06063002a वासुदेवो महद्भूतं संभूतं सह दैवतैः 06063002c न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ 06063002e मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् 06063003a सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः 06063003c आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् 06063004a स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः 06063004c अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः 06063004e सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह 06063005a मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च 06063005c सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः 06063006a एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह 06063006c निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः 06063007a एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः 06063007c एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः 06063008a भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् 06063008c उभे संध्ये दिशः खं च नियमं च जनार्दनः 06063009a ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् 06063009c स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः 06063010a अग्रजं सर्वभूतानां संकर्षणमकल्पयत् 06063010c शेषं चाकल्पयद्देवमनन्तमिति यं विदुः 06063011a यो धारयति भूतानि धरां चेमां सपर्वताम् 06063011c ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् 06063012a कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् 06063012c तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् 06063012e ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः 06063013a तस्य तात वधादेव देवदानवमानवाः 06063013c मधुसूदनमित्याहुरृषयश्च जनार्दनम् 06063013e वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः 06063014a एष माता पिता चैव सर्वेषां प्राणिनां हरिः 06063014c परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति 06063015a मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा 06063015c वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च 06063015e तपसा नियतो देवो निधानं सर्वदेहिनाम् 06063016a ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च 06063016c योगभूतं परिचरन्केशवं महदाप्नुयात् 06063017a केशवः परमं तेजः सर्वलोकपितामहः 06063017c एवमाहुर्हृषीकेशं मुनयो वै नराधिप 06063018a एवमेनं विजानीहि आचार्यं पितरं गुरुम् 06063018c कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः 06063019a यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् 06063019c सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् 06063020a ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः 06063020c भये महति ये मग्नाः पाति नित्यं जनार्दनः 06063021a एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत 06063021c सर्वात्मना महात्मानं केशवं जगदीश्वरम् 06063021e प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् 06064001 भीष्म उवाच 06064001a शृणु चेदं महाराज ब्रह्मभूतस्तवं मम 06064001c ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि 06064002a साध्यानामपि देवानां देवदेवेश्वरः प्रभुः 06064002c लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् 06064002e भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह 06064003a यज्ञानां चैव यज्ञं त्वां तपश्च तपसामपि 06064003c देवानामपि देवं च त्वामाह भगवान्भृगुः 06064003e पुराणे भैरवं रूपं विष्णो भूतपतेति वै 06064004a वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा 06064004c देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् 06064005a पूर्वे प्रजानिसर्गेषु दक्षमाहुः प्रजापतिम् 06064005c स्रष्टारं सर्वभूतानामङ्गिरास्त्वां ततोऽब्रवीत् 06064006a अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् 06064006c देवा वाक्संभवाश्चेति देवलस्त्वसितोऽब्रवीत् 06064007a शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी धृता 06064007c जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः 06064008a एवं त्वामभिजानन्ति तपसा भाविता नराः 06064008c आत्मदर्शनतृप्तानामृषीणां चापि सत्तमः 06064009a राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् 06064009c सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन 06064010a एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः 06064010c केशवस्य यथातत्त्वं सुप्रीतो भव केशवे 06064011 संजय उवाच 06064011a पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव 06064011c केशवं बहु मेने स पाण्डवांश्च महारथान् 06064012a तमब्रवीन्महाराज भीष्मः शांतनवः पुनः 06064012c माहात्म्यं ते श्रुतं राजन्केशवस्य महात्मनः 06064013a नरस्य च यथातत्त्वं यन्मां त्वं परिपृच्छसि 06064013c यदर्थं नृषु संभूतौ नरनारायणावुभौ 06064014a अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ 06064014c यथा च पाण्डवा राजन्नगम्या युधि कस्यचित् 06064015a प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु 06064015c तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः 06064016a पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी 06064016c नरनारायणौ देवाववज्ञाय नशिष्यसि 06064017a एवमुक्त्वा तव पिता तूष्णीमासीद्विशां पते 06064017c व्यसर्जयच्च राजानं शयनं च विवेश ह 06064018a राजापि शिबिरं प्रायात्प्रणिपत्य महात्मने 06064018c शिश्ये च शयने शुभ्रे तां रात्रिं भरतर्षभ 06065001 संजय उवाच 06065001a व्युषितायां च शर्वर्यामुदिते च दिवाकरे 06065001c उभे सेने महाराज युद्धायैव समीयतुः 06065002a अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः 06065002c ते सर्वे सहिता युद्धे समालोक्य परस्परम् 06065003a पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव 06065003c व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः 06065004a अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः 06065004c तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः 06065005a स निर्ययौ रथानीकं पिता देवव्रतस्तव 06065005c महता रथवंशेन संवृतो रथिनां वरः 06065006a इतरेतरमन्वीयुर्यथाभागमवस्थिताः 06065006c रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा 06065007a तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः 06065007c श्येनेन व्यूहराजेन तेनाजय्येन संयुगे 06065008a अशोभत मुखे तस्य भीमसेनो महाबलः 06065008c नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः 06065009a शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः 06065009c विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा 06065010a अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा 06065010c महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे 06065011a दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः 06065011c पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् 06065012a पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः 06065012c भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः 06065013a प्रविश्य तु रणे भीमो मकरं मुखतस्तदा 06065013c भीष्ममासाद्य संग्रामे छादयामास सायकैः 06065014a ततो भीष्मो महास्त्राणि पातयामास भारत 06065014c मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे 06065015a संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः 06065015c भीष्मं शरसहस्रेण विव्याध रणमूर्धनि 06065016a परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे 06065016c स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः 06065017a ततो दुर्योधनो राजा भारद्वाजमभाषत 06065017c पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः 06065017e भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः 06065018a आचार्य सततं त्वं हि हितकामो ममानघ 06065018c वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् 06065019a देवानपि रणे जेतुं प्रार्थयामो न संशयः 06065019c किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् 06065020a एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष 06065020c अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः 06065021a सात्यकिस्तु तदा द्रोणं वारयामास भारत 06065021c ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06065022a शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् 06065022c अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव 06065023a भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत 06065023c संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् 06065024a ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष 06065024c भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः 06065025a तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष 06065025c विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् 06065026a भीष्मद्रोणौ च संक्रुद्धावापतन्तौ महाबलौ 06065026c प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे 06065027a प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् 06065027c अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् 06065028a शिखण्डिनं समासाद्य भरतानां पितामहः 06065028c अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् 06065029a ततो द्रोणो महाराज अभ्यद्रवत तं रणे 06065029c रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः 06065030a शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् 06065030c अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम् 06065031a ततो बलेन महता पुत्रस्तव विशां पते 06065031c जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः 06065032a तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम् 06065032c भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् 06065033a तद्युद्धमभवद्घोरं देवानां दानवैरिव 06065033c जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम् 06066001 संजय उवाच 06066001a अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा 06066001c भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव 06066002a पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत 06066002c कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् 06066003a तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये 06066003c अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् 06066004a नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः 06066004c भेरीशङ्खनिनादैश्च तुमुलः समपद्यत 06066005a युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः 06066005c अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः 06066006a शिरसां पात्यमानानां समरे निशितैः शरैः 06066006c अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ 06066007a कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च 06066007c पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ 06066008a विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः 06066008c सहस्ताभरणैश्चान्यैरभवच्छादिता मही 06066009a कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः 06066009c मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः 06066010a गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते 06066010c आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा 06066011a रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः 06066011c आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् 06066012a स संप्रहारस्तुमुलः कटुकः शोणितोदकः 06066012c प्रावर्तत कुरूणां च पाण्डवानां च भारत 06066013a तस्मिन्महाभये घोरे तुमुले लोमहर्षणे 06066013c ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः 06066014a क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः 06066014c तावकानां परेषां च संयुगे भरतोत्तम 06066014e अश्वाश्च पर्यधावन्त हतारोहा दिशो दश 06066015a उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः 06066015c तावकानां परेषां च योधानां भरतर्षभ 06066016a अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् 06066016c संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते 06066017a गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः 06066017c जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः 06066018a अपरे बाहुभिर्वीरा नियुद्धकुशला युधि 06066018c बहुधा समसज्जन्त आयसैः परिघैरिव 06066019a मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते 06066019c अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह 06066020a विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः 06066020c अन्योन्यमभिधावन्त परस्परवधैषिणः 06066021a ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः 06066021c पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत 06066022a तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् 06066022c भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः 06067001 संजय उवाच 06067001a दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् 06067001c तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः 06067002a पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च 06067002c ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् 06067003a असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् 06067003c बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् 06067003e अपश्याम महाराज ध्वजं गाण्डिवधन्वनः 06067004a विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे 06067004c ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे 06067005a अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः 06067005c सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् 06067006a चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् 06067006c दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः 06067007a अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः 06067007c दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः 06067008a कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः 06067008c अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ 06067009a भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः 06067009c तेषामार्तायनमभूद्भीष्मः शंतनवो रणे 06067010a समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा 06067010c सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 06067011a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः 06067011c सर्वसैन्यानि भीतानि व्यवलीयन्त भारत 06067012a अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः 06067012c गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः 06067013a मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते 06067013c सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः 06067014a नागा नरगणौघाश्च दुःशासनपुरःसराः 06067014c जयद्रथश्च नृपतिः सहितः सर्वराजभिः 06067015a हयारोहवराश्चैव तव पुत्रेण चोदिताः 06067015c चतुर्दश सहस्राणि सौबलं पर्यवारयन् 06067016a ततस्ते सहिताः सर्वे विभक्तरथवाहनाः 06067016c पाण्डवान्समरे जग्मुस्तावका भरतर्षभ 06067017a रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् 06067017c घोरमायोधनं जज्ञे महाभ्रसदृशं रजः 06067018a तोमरप्रासनाराचगजाश्वरथयोधिनाम् 06067018c बलेन महता भीष्मः समसज्जत्किरीटिना 06067019a आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः 06067019c अजातशत्रुर्मद्राणामृषभेण यशस्विना 06067019e सहपुत्रः सहामात्यः शल्येन समसज्जत 06067020a विकर्णः सहदेवेन चित्रसेनः शिखण्डिना 06067020c मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते 06067021a द्रुपदश्चेकितानश्च सात्यकिश्च महारथः 06067021c द्रोणेन समसज्जन्त सपुत्रेण महात्मना 06067021e कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ 06067022a एवं प्रजविताश्वानि भ्रान्तनागरथानि च 06067022c सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः 06067023a निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः 06067023c प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते 06067024a प्रववौ च महावातः पांसुवर्षं पपात च 06067024c नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः 06067025a प्रमोहः सर्वसत्त्वानामतीव समपद्यत 06067025c रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् 06067026a वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् 06067026c संघातः शरजालानां तुमुलः समपद्यत 06067027a प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः 06067027c नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ 06067028a आर्षभाणि विचित्राणि रुक्मजालावृतानि च 06067028c संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ 06067029a सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः 06067029c दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च 06067030a भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः 06067030c हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः 06067031a परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः 06067031c रथान्विपरिकर्षन्तो हतेषु रथयोधिषु 06067032a शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः 06067032c युगानि पर्यकर्षन्त तत्र तत्र स्म भारत 06067033a अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः 06067033c एकेन बलिना राजन्वारणेन हता रथाः 06067034a गन्धहस्तिमदस्रावमाघ्राय बहवो रणे 06067034c संनिपाते बलौघानां वीतमाददिरे गजाः 06067035a सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः 06067035c बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः 06067036a संनिपाते बलौघानां प्रेषितैर्वरवारणैः 06067036c निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः 06067037a नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे 06067037c व्यदृश्यन्त महाराज संभग्ना रथकूबराः 06067038a विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः 06067038c द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे 06067039a रथेषु च रथान्युद्धे संसक्तान्वरवारणाः 06067039c विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः 06067040a तेषां तथा कर्षतां च गजानां रूपमाबभौ 06067040c सरःसु नलिनीजालं विषक्तमिव कर्षताम् 06067041a एवं संछादितं तत्र बभूवायोधनं महत् 06067041c सादिभिश्च पदातैश्च सध्वजैश्च महारथैः 06068001 संजय उवाच 06068001a शिखण्डी सह मत्स्येन विराटेन विशां पते 06068001c भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् 06068002a द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् 06068002c राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः 06068003a सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः 06068003c प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ 06068004a पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् 06068004c दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत 06068005a सहदेवस्तु शकुनिमुलूकं च महारथम् 06068005c पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ 06068006a युधिष्ठिरो महाराज गजानीकं महारथः 06068006c समवर्तत संग्रामे पुत्रेण निकृतस्तव 06068007a माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि 06068007c त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः 06068008a अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् 06068008c सात्यकिश्चेकितानश्च सौभद्रश्च महारथः 06068009a धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः 06068009c पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः 06068010a सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः 06068010c द्रोणेन समरे राजन्समियायेन्द्रकर्मणा 06068011a एवमेते महेष्वासास्तावकाः पाण्डवैः सह 06068011c समेत्य समरे शूराः संप्रहारं प्रचक्रिरे 06068012a मध्यंदिनगते सूर्ये नभस्याकुलतां गते 06068012c कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् 06068013a ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे 06068013c सपताका रथा रेजुर्वैयाघ्रपरिवारणाः 06068014a समेतानां च समरे जिगीषूणां परस्परम् 06068014c बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् 06068015a तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् 06068015c यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह 06068016a नैव खं न दिशो राजन्न सूर्यं शत्रुतापन 06068016c विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः 06068017a शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् 06068017c निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः 06068018a कवचानां विचित्राणां भूषणानां प्रभास्तथा 06068018c खं दिशः प्रदिशश्चैव भासयामासुरोजसा 06068018e विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् 06068019a रथसिंहासनव्याघ्राः समायान्तश्च संयुगे 06068019c विरेजुः समरे राजन्ग्रहा इव नभस्तले 06068020a भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् 06068020c अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः 06068021a ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः 06068021c अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः 06068022a तस्य शक्तिं महावेगां भीमसेनो महाबलः 06068022c क्रुद्धाशीविषसंकाशां प्रेषयामास भारत 06068023a तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् 06068023c चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः 06068024a ततोऽपरेण भल्लेन पीतेन निशितेन च 06068024c कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत 06068025a सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे 06068025c शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर 06068026a ततः संधाय वै तीक्ष्णं शरं परमदारुणम् 06068026c वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् 06068027a तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ 06068027c तेन तेनैव धावन्ति मनोमारुतरंहसः 06068028a ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् 06068028c हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् 06068029a अभिद्रवत गृह्णीत हयान्यच्छत धावत 06068029c इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति 06068030a एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः 06068030c व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा 06068031a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 06068031c आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः 06068032a धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे 06068032c अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् 06068033a तथैव तावका राजन्भीष्मद्रोणमुखाः परान् 06068033c अभ्यधावन्त वेगेन ततो युद्धमवर्तत 06069001 संजय उवाच 06069001a विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम् 06069001c विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः 06069002a तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः 06069002c रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः 06069003a द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः 06069003c अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे 06069004a कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा 06069004c अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः 06069005a सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः 06069005c अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे 06069006a अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः 06069006c वासुदेवं च सप्तत्या विव्याध परमेषुभिः 06069007a ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः 06069007c दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः 06069008a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 06069008c गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः 06069008e जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् 06069009a तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम् 06069009c तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे 06069010a न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना 06069010c तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः 06069010e तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् 06069011a तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः 06069011c यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे 06069012a स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः 06069012c अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् 06069013a ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः 06069013c ब्राह्मणश्च विशेषेण माननीयो ममेति च 06069014a समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः 06069014c कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति 06069015a द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः 06069015c युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी 06069016a दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः 06069016c भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत् 06069017a भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम् 06069017c चित्रं कार्मुकमादत्त शरांश्च निशितान्दश 06069018a आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः 06069018c अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि 06069019a तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः 06069019c रराजोरसि वै सूर्यो ग्रहैरिव समावृतः 06069020a पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः 06069020c नामृष्यत यथा नागस्तलशब्दं समीरितम् 06069021a ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः 06069021c भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् 06069022a तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ 06069022c पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ 06069023a चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा 06069023c अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः 06069024a सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि 06069024c नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् 06069025a तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः 06069025c सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः 06069026a स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् 06069026c चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः 06069026e भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् 06069027a ततस्ते तावका वीरा राजपुत्रा महारथाः 06069027c समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः 06069027e तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् 06069028a तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव 06069028c दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम् 06069029a अपेतशिशिरे काले समिद्धमिव पावकः 06069029c अत्यरोचत सौभद्रस्तव सैन्यानि शातयन् 06069030a तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते 06069030c लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे 06069031a अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् 06069031c विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः 06069032a तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः 06069032c अविध्यत महाराज तदद्भुतमिवाभवत् 06069033a तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः 06069033c अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः 06069034a हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा 06069034c शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति 06069035a तामापतन्तीं सहसा घोररूपां दुरासदाम् 06069035c अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् 06069036a ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा 06069036c अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः 06069037a ततः समाकुले तस्मिन्वर्तमाने महाभये 06069037c अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः 06069038a तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः 06069038c जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् 06069039a मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः 06069039c बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह 06069040a ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् 06069040c सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः 06069041a हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः 06069041c रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी 06070001 संजय उवाच 06070001a अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः 06070001c विकृष्य चापं समरे भारसाधनमुत्तमम् 06070002a प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् 06070002c प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् 06070003a तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः 06070003c आददानस्य भूयश्च संदधानस्य चापरान् 06070004a क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः 06070004c ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः 06070005a तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः 06070005c रथानामयुतं तस्य प्रेषयामास भारत 06070006a तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः 06070006c जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् 06070007a स कृत्वा दारुणं कर्म प्रगृहीतशरासनः 06070007c आससाद ततो वीरो भूरिश्रवसमाहवे 06070008a स हि संदृश्य सेनां तां युयुधानेन पातिताम् 06070008c अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः 06070009a इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः 06070009c व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान् 06070009e सहस्रशो महाराज दर्शयन्पाणिलाघवम् 06070010a शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः 06070010c न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः 06070010e विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् 06070011a तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः 06070011c महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः 06070012a समासाद्य महेष्वासं भूरिश्रवसमाहवे 06070012c ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे 06070013a भो भो कौरवदायाद सहास्माभिर्महाबल 06070013c एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा 06070014a अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे 06070014c वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः 06070015a एवमुक्तस्तदा शूरैस्तानुवाच महाबलः 06070015c वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् 06070016a साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः 06070016c युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे 06070017a एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः 06070017c महता शरवर्षेण अभ्यवर्षन्नरिंदमम् 06070018a अपराह्णे महाराज संग्रामस्तुमुलोऽभवत् 06070018c एकस्य च बहूनां च समेतानां रणाजिरे 06070019a तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् 06070019c प्रावृषीव महाशैलं सिषिचुर्जलदा नृप 06070020a तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् 06070020c असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः 06070021a तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् 06070021c यदेको बहुभिर्युद्धे समसज्जदभीतवत् 06070022a विसृज्य शरवृष्टिं तां दश राजन्महारथाः 06070022c परिवार्य महाबाहुं निहन्तुमुपचक्रमुः 06070023a सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत 06070023c चिच्छेद दशभिर्बाणैर्निमेषेण महारथः 06070024a अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः 06070024c चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः 06070024e ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः 06070025a तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् 06070025c वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् 06070026a रथं रथेन समरे पीडयित्वा महाबलौ 06070026c तावन्योन्यस्य समरे निहत्य रथवाजिनः 06070026e विरथावभिवल्गन्तौ समेयातां महारथौ 06070027a प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ 06070027c शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ 06070028a ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् 06070028c भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा 06070029a तवापि तनयो राजन्भूरिश्रवसमाहवे 06070029c आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् 06070030a तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् 06070030c अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ 06070031a लोहितायति चादित्ये त्वरमाणो धनंजयः 06070031c पञ्चविंशतिसाहस्रान्निजघान महारथान् 06070032a ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे 06070032c संप्राप्यैव गता नाशं शलभा इव पावकम् 06070033a ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः 06070033c परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् 06070034a एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति 06070034c सर्वेषामेव सैन्यानां प्रमोहः समजायत 06070035a अवहारं ततश्चक्रे पिता देवव्रतस्तव 06070035c संध्याकाले महाराज सैन्यानां श्रान्तवाहनः 06070036a पाण्डवानां कुरूणां च परस्परसमागमे 06070036c ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् 06070037a ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत 06070037c पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि 06071001 संजय उवाच 06071001a विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः 06071001c व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः 06071002a तत्र शब्दो महानासीत्तव तेषां च भारत 06071002c युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् 06071003a संनह्यतां पदातीनां हयानां चैव भारत 06071003c शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् 06071004a ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत 06071004c व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् 06071005a एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः 06071005c व्यादिदेश महाराज रथिनो रथिनां वरः 06071006a शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः 06071006c चक्षुषी सहदेवश्च नकुलश्च महारथः 06071006e तुण्डमासीन्महाराज भीमसेनो महाबलः 06071007a सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः 06071007c सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः 06071008a पृष्ठमासीन्महाराज विराटो वाहिनीपतिः 06071008c धृष्टद्युम्नेन सहितो महत्या सेनया वृतः 06071009a केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः 06071009c धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् 06071009e दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे 06071010a पादयोस्तु महाराज स्थितः श्रीमान्महारथः 06071010c कुन्तिभोजः शतानीको महत्या सेनया वृतः 06071011a शिखण्डी तु महेष्वासः सोमकैः संवृतो बली 06071011c इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ 06071012a एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः 06071012c सूर्योदये महाराज पुनर्युद्धाय दंशिताः 06071013a कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः 06071013c समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः 06071014a व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव 06071014c क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् 06071015a तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत 06071015c अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर 06071016a कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः 06071016c शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् 06071017a ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष 06071017c दुर्योधनो महाराज राजभिर्बहुभिर्वृतः 06071018a प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः 06071018c उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः 06071019a स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः 06071019c वामं पक्षं समाश्रित्य दंशितः समवस्थितः 06071020a तुषारा यवनाश्चैव शकाश्च सह चूचुपैः 06071020c दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत 06071021a श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष 06071021c व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् 06071022a ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह 06071022c सूर्योदये महाराज ततो युद्धमभून्महत् 06071023a प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः 06071023c हयारोहा हयारोहान्रथिनश्चापि सादिनः 06071024a सारथिं च रथी राजन्कुञ्जरांश्च महारणे 06071024c हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः 06071025a रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः 06071025c अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः 06071026a भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः 06071026c शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी 06071027a तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः 06071027c तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता 06071028a भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी 06071028c अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् 06071029a द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः 06071029c विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् 06071030a दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे 06071030c सारथिं प्रेषयामास यमस्य सदनं प्रति 06071031a स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् 06071031c व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः 06071032a ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम 06071032c सृञ्जयाः केकयैः सार्धं पलायनपराभवन् 06071033a तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् 06071033c मुह्यते तत्र तत्रैव समदेव वराङ्गना 06071034a अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये 06071034c आसीद्व्यतिकरो घोरस्तव तेषां च भारत 06071035a तदद्भुतमपश्याम तावकानां परैः सह 06071035c एकायनगताः सर्वे यदयुध्यन्त भारत 06071036a प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते 06071036c युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः 06072001 धृतराष्ट्र उवाच 06072001a एवं बहुगुणं सैन्यमेवं बहुविधं परम् 06072001c व्यूढमेवं यथाशास्त्रममोघं चैव संजय 06072002a पुष्टमस्माकमत्यन्तमभिकामं च नः सदा 06072002c प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् 06072003a नातिवृद्धमबालं च न कृशं न च पीवरम् 06072003c लघुवृत्तायतप्रायं सारगात्रमनामयम् 06072004a आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् 06072004c असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् 06072005a प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च 06072005c भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः 06072006a कम्पनेषु च चापेषु कणपेषु च सर्वशः 06072006c क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् 06072007a अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् 06072007c शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् 06072008a आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 06072008c सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 06072009a नागाश्वरथयानेषु बहुशः सुपरीक्षितम् 06072009c परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 06072010a न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः 06072010c न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः 06072011a समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् 06072011c कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च 06072012a सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः 06072012c लोकपालोपमैस्तात पालितं लोकविश्रुतैः 06072013a बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः 06072013c अस्मानभिगतैः कामात्सबलैः सपदानुगैः 06072014a महोदधिमिवापूर्णमापगाभिः समन्ततः 06072014c अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम् 06072015a नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् 06072015c क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् 06072016a ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् 06072016c वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् 06072017a अपारमिव गर्जन्तं सागरप्रतिमं महत् 06072017c द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा 06072018a कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा 06072018c भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः 06072019a गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः 06072019c यदहन्यत संग्रामे दिष्टमेतत्पुरातनम् 06072020a नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः 06072020c ऋषयो वा महाभागाः पुराणा भुवि संजय 06072021a ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा 06072021c वध्यते यत्र संग्रामे किमन्यद्भागधेयतः 06072022a विपरीतमिदं सर्वं प्रतिभाति स्म संजय 06072022c यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् 06072023a अथ वा पाण्डवार्थाय देवास्तत्र समागताः 06072023c युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय 06072024a उक्तो हि विदुरेणेह हितं पथ्यं च संजय 06072024c न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम 06072025a तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः 06072025c आसीद्यथागतं तात येन दृष्टमिदं पुरा 06072026a अथ वा भाव्यमेवं हि संजयैतेन सर्वथा 06072026c पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा 06073001 संजय उवाच 06073001a आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् 06073001c न हि दुर्योधनस्तानि पश्यते भरतर्षभ 06073001e यानि त्वं दृष्टवान्राजन्धर्मसंकरकारिते 06073002a तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते 06073002c तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः 06073002e त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना 06073003a आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते 06073003c इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् 06073004a तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् 06073004c शृणु युद्धं यथावृत्तं शंसतो मम मारिष 06073005a भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम् 06073005c आससाद ततो वीरः सर्वान्दुर्योधनानुजान् 06073006a दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् 06073006c जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् 06073007a चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च 06073007c एतानन्यांश्च सुबहून्समीपस्थान्महारथान् 06073008a धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः 06073008c भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् 06073009a अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः 06073009c जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः 06073010a स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः 06073010c प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः 06073011a संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत् 06073011c यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान् 06073012a ततः शतसहस्राणि रथिनां सर्वशः प्रभो 06073012c छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे 06073013a स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः 06073013c जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् 06073014a तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् 06073014c समस्तानां वधे राजन्मतिं चक्रे महामनाः 06073015a ततो रथं समुत्सृज्य गदामादाय पाण्डवः 06073015c जघान धार्तराष्ट्राणां तं बलौघमहार्णवम् 06073016a भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः 06073016c द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः 06073017a विदार्य महतीं सेनां तावकानां नरर्षभः 06073017c आससाद रथं शून्यं भीमसेनस्य संयुगे 06073018a दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् 06073018c धृष्टद्युम्नो महाराज दुर्मना गतचेतनः 06073019a अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन् 06073019c मम प्राणैः प्रियतमः क्व भीम इति दुःखितः 06073020a विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः 06073020c संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान् 06073021a प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् 06073021c मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः 06073022a प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् 06073022c यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः 06073023a ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम् 06073023c सर्वेषामेव सैन्यानां संघर्षः समजायत 06073024a तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके 06073024c भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव 06073025a विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः 06073025c प्रत्युवाच ततः सूतं रणमध्ये महाबलः 06073026a न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम् 06073026c भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः 06073027a यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति 06073027c एकायनगते भीमे मयि चावस्थिते युधि 06073028a अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः 06073028c यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान् 06073029a मम भीमः सखा चैव संबन्धी च महाबलः 06073029c भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् 06073030a सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः 06073030c निघ्नन्तं मामरीन्पश्य दानवानिव वासवम् 06073031a एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम् 06073031c भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः 06073032a स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम् 06073032c वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान् 06073033a ते हन्यमानाः समरे रथिनः सादिनस्तथा 06073033c पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत् 06073034a हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष 06073034c वध्यतो भीमसेनेन कृतिना चित्रयोधिना 06073035a ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् 06073035c अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः 06073036a अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः 06073036c सैन्येन घोरेण सुसंगतेन; दृष्ट्वा बली पार्षतो भीमसेनम् 06073037a अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम् 06073037c आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले 06073038a निःशल्यमेनं च चकार तूर्ण;मारोपयच्चात्मरथं महात्मा 06073038c भृशं परिष्वज्य च भीमसेन;माश्वासयामास च शत्रुमध्ये 06073039a भ्रातॄनथोपेत्य तवापि पुत्र;स्तस्मिन्विमर्दे महति प्रवृत्ते 06073039c अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम् 06073039e तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम् 06073040a श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः 06073040c वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः 06073041a प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः 06073041c शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः 06073041e निहत्य तांश्चापि शरैः सुतीक्ष्णै;र्न विव्यथे समरे चित्रयोधी 06073042a समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे 06073042c जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः 06073042e क्रुद्धो भृशं तव पुत्रेषु राज;न्दैत्येषु यद्वत्समरे महेन्द्रः 06073043a ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः 06073043c प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात् 06073043e परीतकालानिव नष्टसंज्ञा;न्मोहोपेतांस्तव पुत्रान्निशम्य 06073044a एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः 06073044c द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः 06073045a सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः 06073045c अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् 06073046a जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् 06073046c तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः 06073047a अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः 06073047c प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव 06073048a ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात् 06073048c तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् 06073048e धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे 06073049a मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः 06073049c ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत् 06073050a अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः 06073050c पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ 06073051a ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् 06073051c गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि 06073052a सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः 06073052c प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः 06073053a त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः 06073053c बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः 06073053e मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि 06073054a केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् 06073054c अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः 06073055a ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः 06073055c बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे 06073056a तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् 06073056c भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता 06073057a न संधारयितुं शक्ता तव सेना जनाधिप 06073057c मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता 06073058a तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः 06073058c परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ 06073059a तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान् 06073059c बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् 06073060a दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः 06073060c नाशंसत वधं वीरः पुत्राणां तव पार्षतः 06073061a ततो रथं समारोप्य केकयस्य वृकोदरम् 06073061c अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् 06073062a तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् 06073062c क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः 06073063a अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते 06073063c दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् 06073064a अथान्यद्धनुरादाय पार्षतः परवीरहा 06073064c द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः 06073065a तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः 06073065c हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः 06073066a वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान् 06073066c सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे 06073067a हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः 06073067c आरुरोह महाबाहुरभिमन्योर्महारथम् 06073068a ततः सरथनागाश्वा समकम्पत वाहिनी 06073068c पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः 06073069a तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा 06073069c नाशक्नुवन्वारयितुं समस्तास्ते महारथाः 06073070a वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः 06073070c व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः 06073071a तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव 06073071c दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम् 06073071e चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत 06074001 संजय उवाच 06074001a ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा 06074001c शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् 06074002a एकीभूताः पुनश्चैव तव पुत्रा महारथाः 06074002c समेत्य समरे भीमं योधयामासुरुद्यताः 06074003a भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः 06074003c समारुह्य महाबाहुर्ययौ येन तवात्मजः 06074004a प्रगृह्य च महावेगं परासुकरणं दृढम् 06074004c चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान् 06074005a ततो दुर्योधनो राजा भीमसेनं महाबलम् 06074005c नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् 06074006a सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना 06074006c क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् 06074007a दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 06074007c स तथाभिहतो राजा नाचलद्गिरिराडिव 06074008a तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् 06074008c दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः 06074009a संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः 06074009c निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः 06074010a तानापतत एवाजौ भीमसेनो महाबलः 06074010c प्रत्युद्ययौ महाराज गजः प्रतिगजानिव 06074011a भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् 06074011c चित्रसेनं महाराज तव पुत्रं महायशाः 06074012a तथेतरांस्तव सुतांस्ताडयामास भारत 06074012c शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः 06074013a ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः 06074013c अभिमन्युप्रभृतयस्ते द्वादश महारथाः 06074014a प्रेषिता धर्मराजेन भीमसेनपदानुगाः 06074014c प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् 06074015a दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः 06074015c सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् 06074016a महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् 06074016c तत्यजुः समरे भीमं तव पुत्रा महाबलाः 06074017a तान्नामृष्यत कौन्तेयो जीवमाना गता इति 06074017c अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् 06074018a अथाभिमन्युं समरे भीमसेनेन संगतम् 06074018c पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः 06074019a दुर्योधनप्रभृतयः प्रगृहीतशरासनाः 06074019c भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः 06074020a अपराह्णे ततो राजन्प्रावर्तत महान्रणः 06074020c तावकानां च बलिनां परेषां चैव भारत 06074021a अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् 06074021c अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् 06074022a हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः 06074022c आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् 06074023a स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ 06074023c आर्जुनिः शरजालेन छादयामास भारत 06074024a दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः 06074024c विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः 06074025a दुःशासनस्तु समरे केकयान्पञ्च मारिष 06074025c योधयामास राजेन्द्र तदद्भुतमिवाभवत् 06074026a द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् 06074026c एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते 06074027a पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे 06074027c सायकैर्निशितै राजन्नाजघान पृथक्पृथक् 06074028a तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः 06074028c गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः 06074029a भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् 06074029c कालयामास बलवान्पालः पशुगणानिव 06074030a ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते 06074030c दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः 06074031a उत्तस्थुः समरे तत्र कबन्धानि समन्ततः 06074031c कुरूणां चापि सैन्येषु पाण्डवानां च भारत 06074032a शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् 06074032c रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् 06074033a छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः 06074033c पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः 06074034a निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः 06074034c भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा 06074035a तत्राद्भुतमपश्याम तव तेषां च भारत 06074035c न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति 06074036a एवं युयुधिरे वीराः प्रार्थयाना महद्यशः 06074036c तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि 06075001 संजय उवाच 06075001a ततो दुर्योधनो राजा लोहितायति भास्करे 06075001c संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत 06075002a तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् 06075002c भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् 06075003a अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः 06075003c अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् 06075004a अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः 06075004c द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि 06075005a यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे 06075005c तस्य पापस्य गान्धारे पश्य व्यसनमागतम् 06075006a कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा 06075006c अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि 06075007a याचमानं च यन्मोहाद्दाशार्हमवमन्यसे 06075007c उलूकस्य समादेशं यद्ददासि च हृष्टवत् 06075008a अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम् 06075008c समीकरिष्ये तत्पापं यत्पुरा कृतवानसि 06075009a एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् 06075009c समादाय शरान्घोरान्महाशनिसमप्रभान् 06075010a षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने 06075010c ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् 06075011a ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे 06075011c चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् 06075012a द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः 06075012c छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् 06075013a त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् 06075013c छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः 06075014a रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः 06075014c पपात सहसा भूमिं विद्युज्जलधरादिव 06075015a ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् 06075015c ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः 06075016a अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् 06075016c आजघान रणे भीमः स्मयन्निव महारथः 06075017a ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः 06075017c दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 06075018a कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् 06075018c आरोपयद्रथं राजन्दुर्योधनममर्षणम् 06075019a स गाढविद्धो व्यथितो भीमसेनेन संयुगे 06075019c निषसाद रथोपस्थे राजा दुर्योधनस्तदा 06075020a परिवार्य ततो भीमं हन्तुकामो जयद्रथः 06075020c रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः 06075021a धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् 06075021c केकया द्रौपदेयाश्च तव पुत्रानयोधयन् 06075022a चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः 06075022c चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ 06075023a अष्टावेते महेष्वासाः सुकुमारा यशस्विनः 06075023c अभिमन्युरथं राजन्समन्तात्पर्यवारयन् 06075024a आजघान ततस्तूर्णमभिमन्युर्महामनाः 06075024c एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः 06075024e वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः 06075025a अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् 06075025c ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः 06075026a स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः 06075026c अभिमन्युर्महाराज तावकान्समकम्पयत् 06075026e यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् 06075027a विकर्णस्य ततो भल्लान्प्रेषयामास भारत 06075027c चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् 06075027e ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे 06075028a पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् 06075028c प्रेषयामास सौभद्रो विकर्णाय महाबलः 06075029a ते विकर्णं समासाद्य कङ्कबर्हिणवाससः 06075029c भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः 06075030a ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले 06075030c विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् 06075031a विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः 06075031c अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् 06075032a अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः 06075032c अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः 06075033a दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः 06075033c ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः 06075034a अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः 06075034c जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् 06075035a स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः 06075035c शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव 06075036a सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः 06075036c विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना 06075037a तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः 06075037c पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् 06075038a श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव 06075038c अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम् 06075039a तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः 06075039c चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव 06075039e क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत 06075040a तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् 06075040c अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः 06075041a शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् 06075041c विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः 06075042a अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना 06075042c शतानीको जयत्सेनं विव्याध हृदये भृशम् 06075043a तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके 06075043c चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः 06075044a अथान्यद्धनुरादाय भारसाधनमुत्तमम् 06075044c समादत्त शितान्बाणाञ्शतानीको महाबलः 06075045a तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः 06075045c मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव 06075046a ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष 06075046c चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः 06075047a अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः 06075047c जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः 06075048a अथापरेण भल्लेन सुमुक्तेन निपातिना 06075048c दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम् 06075049a दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः 06075049c जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् 06075050a छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् 06075050c अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः 06075051a तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः 06075051c प्रत्युद्ययुर्महाराज गजा इव महागजान् 06075052a दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा 06075052c शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः 06075052e प्रत्युद्याता महाराज केकयान्भ्रातरः समम् 06075053a रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः 06075053c नानावर्णविचित्राभिः पताकाभिरलंकृतैः 06075054a वरचापधरा वीरा विचित्रकवचध्वजाः 06075054c विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् 06075055a तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम् 06075055c अवर्तत महारौद्रं निघ्नतामितरेतरम् 06075055e अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम् 06075056a मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् 06075056c रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः 06075057a ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः 06075057c नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम् 06075057e पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् 06075058a एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् 06075058c कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप 06075059a धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ 06075059c मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ 06076001 संजय उवाच 06076001a अथ शूरा महाराज परस्परकृतागसः 06076001c जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः 06076002a विश्रम्य च यथान्यायं पूजयित्वा परस्परम् 06076002c संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया 06076003a ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः 06076003c विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् 06076004a सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानि 06076004c विदार्य हत्वा च निपीड्य शूरा;स्ते पाण्डवानां त्वरिता रथौघाः 06076005a संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् 06076005c प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः 06076006a क्रुद्धं तमुद्वीक्ष्य भयेन राज;न्संमूर्छितो नालभं शान्तिमद्य 06076006c इच्छे प्रसादात्तव सत्यसंध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् 06076007a तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा 06076007c तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः 06076008a परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र 06076008c इच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे 06076009a एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः 06076009c ये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति 06076010a ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया च 06076010c अहं ह्येतान्प्रतियोत्स्यामि राज;न्सर्वात्मना जीवितं त्यज्य वीर 06076011a रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य 06076011c सर्वांस्तवार्थाय सदेवदैत्याँ;ल्लोकान्दहेयं किमु शत्रूंस्तवेह 06076012a तत्पाण्डवान्योधयिष्यामि राज;न्प्रियं च ते सर्वमहं करिष्ये 06076012c श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव 06076013a सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् 06076013c तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि 06076014a प्रहर्षयुक्तानि तु तानि राज;न्महान्ति नानाविधशस्त्रवन्ति 06076014c स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि 06076015a वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता;श्चकाशिरे दन्तिगणाः समन्तात् 06076015c शस्त्रास्त्रविद्भिर्नरदेव योधै;रधिष्ठिताः सैन्यगणास्त्वदीयाः 06076016a रथैश्च पादातगजाश्वसंघैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैः 06076016c समुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् 06076017a रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् 06076017c नानारङ्गाः समरे तत्र राज;न्मेघैर्युक्ता विद्युतः खे यथैव 06076018a धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरः 06076018c विमथ्यतो देवमहासुरौघै;र्यथार्णवस्यादियुगे तदानीम् 06076019a तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् 06076019c बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् 06077001 संजय उवाच 06077001a अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् 06077001c अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः 06077002a अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः 06077002c अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः 06077003a विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः 06077003c त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः 06077004a बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः 06077004c रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः 06077005a देशजाश्च हया राजन्स्वारूढा हयसादिभिः 06077005c गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः 06077006a पदाताश्च तथा शूरा नानाप्रहरणायुधाः 06077006c नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः 06077007a एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः 06077007c देवानपि रणे जेतुं समर्था इति मे मतिः 06077008a अवश्यं तु मया राजंस्तव वाच्यं हितं सदा 06077008c अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः 06077008e वासुदेवसहायाश्च महेन्द्रसमविक्रमाः 06077009a सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव 06077009c पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः 06077010a एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् 06077010c ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा 06077011a ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् 06077011c अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः 06077012a मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् 06077012c संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः 06077013a रथैरनेकसाहस्रैः समन्तात्परिवारितम् 06077013c अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः 06077014a नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे 06077014c अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः 06077015a एवंव्यूहं महाराज तव सैन्यं महारथैः 06077015c स्थितं रणाय महते भीष्मेण युधि पालितम् 06077016a दशाश्वानां सहस्राणि दन्तिनां च तथैव च 06077016c रथानामयुतं चापि पुत्राश्च तव दंशिताः 06077016e चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् 06077017a रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते 06077017c संनद्धाः समदृश्यन्त राजानश्च महाबलाः 06077018a दुर्योधनस्तु समरे दंशितो रथमास्थितः 06077018c व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे 06077019a ततः शब्दो महानासीत्पुत्राणां तव भारत 06077019c रथघोषश्च तुमुलो वादित्राणां च निस्वनः 06077020a भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि 06077020c मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् 06077020e सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः 06077021a मण्डलं तु समालोक्य व्यूहं परमदारुणम् 06077021c स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् 06077022a तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः 06077022c रथिनः सादिनश्चैव सिंहनादमथानदन् 06077023a बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः 06077023c इतरेतरतः शूराः सहसैन्याः प्रहारिणः 06077024a भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् 06077024c स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् 06077025a नकुलः सहदेवश्च राजन्मद्रेशमीयतुः 06077025c विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ 06077026a सर्वे नृपास्तु समरे धनंजयमयोधयन् 06077026c भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् 06077027a चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो 06077027c आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् 06077028a प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः 06077028c अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् 06077029a अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् 06077029c ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् 06077030a भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् 06077030c श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः 06077031a चेकितानस्तु समरे कृपमेवान्वयोधयत् 06077031c शेषाः प्रतिययुर्यत्ता भीममेव महारथम् 06077032a ततो राजसहस्राणि परिवव्रुर्धनंजयम् 06077032c शक्तितोमरनाराचगदापरिघपाणयः 06077033a अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् 06077033c पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे 06077033e व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना 06077034a युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् 06077034c त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव 06077035a अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन 06077035c य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे 06077036a एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च 06077036c ववर्ष शरवर्षाणि नराधिपगणान्प्रति 06077037a तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् 06077037c तडागमिव धाराभिर्यथा प्रावृषि तोयदाः 06077038a हाहाकारो महानासीत्तव सैन्ये विशां पते 06077038c छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे 06077039a देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः 06077039c विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ 06077040a ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् 06077040c तत्राद्भुतमपश्याम विजयस्य पराक्रमम् 06077041a शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् 06077041c न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते 06077042a तेषां राजसहस्राणां हयानां दन्तिनां तथा 06077042c द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष 06077043a ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः 06077043c अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा 06077044a आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् 06077044c संचुक्षुभे महाराज वातैरिव महार्णवः 06078001 संजय उवाच 06078001a तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि 06078001c प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना 06078002a क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव 06078002c प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति 06078003a दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् 06078003c त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् 06078004a तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् 06078004c मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः 06078005a एष भीष्मः शांतनवो योद्धुकामो धनंजयम् 06078005c सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः 06078006a तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् 06078006c संयत्ताः समरे सर्वे पालयध्वं पितामहम् 06078007a बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः 06078007c नरेन्द्राणां महाराज समाजग्मुः पितामहम् 06078008a ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् 06078008c रणे भारतमायान्तमाससाद महाबलम् 06078009a महाश्वेताश्वयुक्तेन भीमवानरकेतुना 06078009c महता मेघनादेन रथेनाति विराजत 06078010a समरे सर्वसैन्यानामुपयातं धनंजयम् 06078010c अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् 06078011a अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् 06078011c मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् 06078012a तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् 06078012c न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् 06078013a स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः 06078013c भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः 06078014a भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा 06078014c ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे 06078015a तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः 06078015c अन्यदादत्त वेगेन धनुर्भारसहं दृढम् 06078015e शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव 06078016a द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः 06078016c ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः 06078016e धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः 06078017a तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः 06078017c अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा 06078018a स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः 06078018c आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः 06078019a ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ 06078019c महता शरवर्षेण वारयामासतुर्बलात् 06078020a भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् 06078020c चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर 06078021a स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे 06078021c जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः 06078022a स पपात रथात्तूर्णं भारद्वाजशराहतः 06078022c धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः 06078023a हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् 06078023c उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् 06078024a भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् 06078024c दारयामास समरे शतशोऽथ सहस्रशः 06078025a शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे 06078025c आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः 06078026a स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः 06078026c शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः 06078027a अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः 06078027c सूतं ध्वजमथो राजंस्तुरगानायुधं तथा 06078027e शरैर्बहुभिरुद्दिश्य पातयामास संयुगे 06078028a स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः 06078028c खड्गमादाय निशितं विमलं च शरावरम् 06078028e श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः 06078029a सखड्गस्य महाराज चरतस्तस्य संयुगे 06078029c नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् 06078030a ततः शरसहस्राणि बहूनि भरतर्षभ 06078030c प्रेषयामास समरे द्रौणिः परमकोपनः 06078031a तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् 06078031c असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः 06078032a ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् 06078032c चर्माच्छिनदसिं चास्य खण्डयामास संयुगे 06078032e शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः 06078033a शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः 06078033c आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् 06078034a तमापतन्तं सहसा कालानलसमप्रभम् 06078034c चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् 06078034e शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः 06078035a शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः 06078035c आरुरोह रथं तूर्णं माधवस्य महात्मनः 06078036a सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे 06078036c अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली 06078037a राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत 06078037c अर्धचन्द्रेण समरे तं च विव्याध सायकैः 06078037e मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् 06078038a तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् 06078038c नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः 06078039a ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत 06078039c विजयाद्यदनुप्राप्तं माधवेन यशस्विना 06078040a तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा 06078040c अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः 06078040e पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06078041a तत्तथा पीडितं तेन माधवेन महात्मना 06078041c प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे 06078042a तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि 06078042c शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् 06078043a न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः 06078043c निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः 06078044a एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली 06078044c धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् 06078044e छादयामास समरे शरैः संनतपर्वभिः 06078045a संछाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत 06078045c विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः 06078046a धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः 06078046c षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् 06078047a तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष 06078047c हयांश्च चतुरः शीघ्रं निजघान महारथः 06078047e शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः 06078048a स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली 06078048c पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति 06078049a शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः 06078049c राजानं सर्वलोकस्य रथमारोपयत्स्वकम् 06078050a ततो नृपं पराजित्य पार्षतः परवीरहा 06078050c न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् 06078051a कृतवर्मा रणे भीमं शरैरार्छन्महारथम् 06078051c प्रच्छादयामास च तं महामेघो रविं यथा 06078052a ततः प्रहस्य समरे भीमसेनः परंतपः 06078052c प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे 06078053a तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः 06078053c नाकम्पत महाराज भीमं चार्छच्छितैः शरैः 06078054a तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः 06078054c सारथिं पातयामास ध्वजं च सुपरिष्कृतम् 06078055a शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा 06078055c शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत 06078056a हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ 06078056c स्यालस्य ते महाराज तव पुत्रस्य पश्यतः 06078057a भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् 06078057c निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः 06079001 धृतराष्ट्र उवाच 06079001a बहूनीह विचित्राणि द्वैरथानि स्म संजय 06079001c पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः 06079002a न चैव मामकं कंचिद्धृष्टं शंससि संजय 06079002c नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि 06079003a जीयमानान्विमनसो मामकान्विगतौजसः 06079003c वदसे संयुगे सूत दिष्टमेतदसंशयम् 06079004 संजय उवाच 06079004a यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः 06079004c दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ 06079005a गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् 06079005c महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति 06079006a तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् 06079006c प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे 06079007a घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् 06079007c न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि 06079008a तवापराधात्सुमहान्सपुत्रस्य विशां पते 06079008c पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः 06079009a आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप 06079009c न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् 06079010a युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः 06079010c चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः 06079011a पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः 06079011c तन्ममैकमना भूत्वा शृणु देवासुरोपमम् 06079012a आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ 06079012c इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ 06079012e तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् 06079013a इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ 06079013c विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः 06079013e तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ 06079014a युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत 06079014c यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् 06079015a इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः 06079015c चतुर्भिश्चतुरो वाहाननयद्यमसादनम् 06079016a भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष 06079016c चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् 06079017a त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः 06079017c धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् 06079018a तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ 06079018c शरान्मुमुचतुस्तूर्णमिरावति महात्मनि 06079019a ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः 06079019c दिवाकरपथं प्राप्य छादयामासुरम्बरम् 06079020a इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ 06079020c ववर्ष शरवर्षेण सारथिं चाप्यपातयत् 06079021a तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ 06079021c रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः 06079022a तौ स जित्वा महाराज नागराजसुतासुतः 06079022c पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् 06079023a सा वध्यमाना समरे धार्तराष्ट्री महाचमूः 06079023c वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः 06079024a हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् 06079024c रथेनादित्यवर्णेन सध्वजेन महाबलः 06079025a ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः 06079025c यथा वज्रधरः पूर्वं संग्रामे तारकामये 06079026a तत्र देवाः सगन्धर्वा ऋषयश्च समागताः 06079026c विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः 06079027a यथा सुरपतिः शक्रस्त्रासयामास दानवान् 06079027c तथैव समरे राजंस्त्रासयामास पाण्डवान् 06079028a तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् 06079028c त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत 06079029a भैमसेनिं रथस्थं तु तत्रापश्याम भारत 06079029c शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः 06079030a निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत 06079030c आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे 06079031a घटोत्कचस्ततो राजन्भगदत्तं महारणे 06079031c शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः 06079032a निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् 06079032c भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् 06079033a स ताड्यमानो बहुभिः शरैः संनतपर्वभिः 06079033c न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः 06079034a तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश 06079034c प्रेषयामास समरे तांश्च चिच्छेद राक्षसः 06079035a स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः 06079035c भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः 06079036a ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत 06079036c तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः 06079037a स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् 06079037c शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति 06079038a तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् 06079038c त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् 06079039a शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् 06079039c यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः 06079040a तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् 06079040c अजेयं समरे राजन्यमेन वरुणेन च 06079041a पाण्डवीं समरे सेनां संममर्द सकुञ्जरः 06079041c यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम् 06079042a मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः 06079042c स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ 06079043a सहदेवस्तु समरे मातुलं वीक्ष्य संगतम् 06079043c अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् 06079044a छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् 06079044c तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् 06079045a ततः प्रहस्य समरे नकुलस्य महारथः 06079045c अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः 06079045e प्रेषयामास समरे यमस्य सदनं प्रति 06079046a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 06079046c आरुरोह ततो यानं भ्रातुरेव यशस्विनः 06079047a एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके 06079047c मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् 06079048a स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः 06079048c स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः 06079048e प्रहसन्निव तां चापि शरवृष्टिं जघान ह 06079049a सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् 06079049c मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत 06079050a स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् 06079050c मद्रराजं विनिर्भिद्य निपपात महीतले 06079051a स गाढविद्धो व्यथितो रथोपस्थे महारथः 06079051c निषसाद महाराज कश्मलं च जगाम ह 06079052a तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे 06079052c अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् 06079053a दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् 06079053c सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् 06079054a निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ 06079054c दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः 06079055a अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते 06079055c यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ 06080001 संजय उवाच 06080001a ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे 06080001c श्रुतायुषमभिप्रेक्ष्य चोदयामास वाजिनः 06080002a अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् 06080002c विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः 06080003a स संवार्य रणे राजा प्रेषितान्धर्मसूनुना 06080003c शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् 06080004a ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 06080004c असूनिव विचिन्वन्तो देहे तस्य महात्मनः 06080005a पाण्डवस्तु भृशं विद्धस्तेन राज्ञा महात्मना 06080005c रणे वराहकर्णेन राजानं हृदि विव्यधे 06080006a अथापरेण भल्लेन केतुं तस्य महात्मनः 06080006c रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् 06080007a केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः 06080007c पाण्डवं विशिखैस्तीक्ष्णै राजन्विव्याध सप्तभिः 06080008a ततः क्रोधात्प्रजज्वाल धर्मपुत्रो युधिष्ठिरः 06080008c यथा युगान्ते भूतानि धक्ष्यन्निव हुताशनः 06080009a क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः 06080009c प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् 06080010a सर्वेषां चैव भूतानामिदमासीन्मनोगतम् 06080010c त्रीँल्लोकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै 06080011a ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् 06080011c लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा 06080012a स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् 06080012c दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् 06080013a ततः सर्वाणि सैन्यानि तावकानि विशां पते 06080013c निराशान्यभवंस्तत्र जीवितं प्रति भारत 06080014a स तु धैर्येण तं कोपं संनिवार्य महायशाः 06080014c श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः 06080015a अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे 06080015c निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः 06080016a सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः 06080016c निजघान शरैः क्षिप्रं सूतं च सुमहाबलः 06080017a हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् 06080017c विप्रदुद्राव वेगेन श्रुतायुः समरे तदा 06080018a तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे 06080018c दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् 06080019a एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः 06080019c व्यात्ताननो यथा कालस्तव सैन्यं जघान ह 06080020a चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् 06080020c प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः 06080021a संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि 06080021c चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः 06080022a अथापरेण भल्लेन धनुश्चिच्छेद मारिष 06080022c सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् 06080022e हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी 06080023a सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः 06080023c स तया वीरघातिन्या गदया गदिनां वरः 06080023e गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् 06080024a भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश 06080024c ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् 06080025a चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् 06080025c गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः 06080026a तामापतन्तीं विमलामश्मगर्भां महागदाम् 06080026c शरैरनेकसाहस्रैर्वारयामास गौतमः 06080027a चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत 06080027c लाघवं परमास्थाय गौतमं समुपाद्रवत् 06080028a गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् 06080028c वेगेन महता राजंश्चेकितानमुपाद्रवत् 06080029a तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ 06080029c निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः 06080030a निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ 06080030c धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् 06080030e मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ 06080031a ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया 06080031c चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् 06080031e रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः 06080032a तथैव शकुनिः शूरः स्यालस्तव विशां पते 06080032c आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् 06080033a सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः 06080033c नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि 06080034a सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत 06080034c मध्यंदिने महाराज रश्मिभिस्तपनो यथा 06080035a भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् 06080035c हतसूतहयं चक्रे विरथं सायकोत्तमैः 06080036a विरथं चैनमालोक्य हताश्वं हतसारथिम् 06080036c महता शरवर्षेण छादयामास संयुगे 06080037a स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः 06080037c आरुरोह ततो यानं शतानीकस्य मारिष 06080038a चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा 06080038c रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः 06080039a अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत 06080039c शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः 06080040a विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे 06080040c न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा 06080041a ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः 06080041c संवृतं समरे भीष्मं देवैरपि दुरासदम् 06080042a प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव 06080042c अभिमन्युं समुद्दिश्य बालमेकं महारथम् 06080042e वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः 06080043a चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः 06080043c एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः 06080043e यथा न हन्युर्नः सेनां तथा माधव चोदय 06080044a एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा 06080044c रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे 06080045a निष्टानको महानासीत्तव सैन्यस्य मारिष 06080045c यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति 06080046a समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः 06080046c सुशर्माणमथो राजन्निदं वचनमब्रवीत् 06080047a जानामि त्वां युधि श्रेष्ठमत्यन्तं पूर्ववैरिणम् 06080047c पर्यायस्याद्य संप्राप्तं फलं पश्य सुदारुणम् 06080047e अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् 06080048a एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः 06080048c श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः 06080048e न चैनमब्रवीत्किंचिच्छुभं वा यदि वाशुभम् 06080049a अभि गत्वार्जुनं वीरं राजभिर्बहुभिर्वृतः 06080049c पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः 06080050a परिवार्यार्जुनं संख्ये तव पुत्रैः सहानघ 06080050c शरैः संछादयामास मेघैरिव दिवाकरम् 06080051a ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः 06080051c तावकानां च समरे पाण्डवानां च भारत 06081001 संजय उवाच 06081001a स तुद्यमानस्तु शरैर्धनंजयः; पदा हतो नाग इव श्वसन्बली 06081001c बाणेन बाणेन महारथानां; चिच्छेद चापानि रणे प्रसह्य 06081002a संछिद्य चापानि च तानि राज्ञां; तेषां रणे वीर्यवतां क्षणेन 06081002c विव्याध बाणैर्युगपन्महात्मा; निःशेषतां तेष्वथ मन्यमानः 06081003a निपेतुराजौ रुधिरप्रदिग्धा;स्ते ताडिताः शक्रसुतेन राजन् 06081003c विभिन्नगात्राः पतितोत्तमाङ्गा; गतासवश्छिन्नतनुत्रकायाः 06081004a महीं गताः पार्थबलाभिभूता; विचित्ररूपा युगपद्विनेशुः 06081004c दृष्ट्वा हतांस्तान्युधि राजपुत्रां;स्त्रिगर्तराजः प्रययौ क्षणेन 06081005a तेषां रथानामथ पृष्ठगोपा; द्वात्रिंशदन्येऽब्यपतन्त पार्थम् 06081005c तथैव ते संपरिवार्य पार्थं; विकृष्य चापानि महारवाणि 06081005e अवीवृषन्बाणमहौघवृष्ट्या; यथा गिरिं तोयधरा जलौघैः 06081006a संपीड्यमानस्तु शरौघवृष्ट्या; धनंजयस्तान्युधि जातरोषः 06081006c षष्ट्या शरैः संयति तैलधौतै;र्जघान तानप्यथ पृष्ठगोपान् 06081007a षष्टिं रथांस्तानवजित्य संख्ये; धनंजयः प्रीतमना यशस्वी 06081007c अथात्वरद्भीष्मवधाय जिष्णु;र्बलानि राज्ञां समरे निहत्य 06081008a त्रिगर्तराजो निहतान्समीक्ष्य; महारथांस्तानथ बन्धुवर्गान् 06081008c रणे पुरस्कृत्य नराधिपांस्ता;ञ्जगाम पार्थं त्वरितो वधाय 06081009a अभिद्रुतं चास्त्रभृतां वरिष्ठं; धनंजयं वीक्ष्य शिखण्डिमुख्याः 06081009c अभ्युद्ययुस्ते शितशस्त्रहस्ता; रिरक्षिषन्तो रथमर्जुनस्य 06081010a पार्थोऽपि तानापततः समीक्ष्य; त्रिगर्तराज्ञा सहितान्नृवीरान् 06081010c विध्वंसयित्वा समरे धनुष्मा;न्गाण्डीवमुक्तैर्निशितैः पृषत्कैः 06081010e भीष्मं यियासुर्युधि संददर्श; दुर्योधनं सैन्धवादींश्च राज्ञः 06081011a आवारयिष्णूनभिसंप्रयाय; मुहूर्तमायोध्य बलेन वीरः 06081011c उत्सृज्य राजानमनन्तवीर्यो; जयद्रथादींश्च नृपान्महौजाः 06081011e ययौ ततो भीमबलो मनस्वी; गाङ्गेयमाजौ शरचापपाणिः 06081012a युधिष्ठिरश्चोग्रबलो महात्मा; समाययौ त्वरितो जातकोपः 06081012c मद्राधिपं समभित्यज्य संख्ये; स्वभागमाप्तं तमनन्तकीर्तिः 06081012e सार्धं स माद्रीसुतभीमसेनै;र्भीष्मं ययौ शांतनवं रणाय 06081013a तैः संप्रयुक्तः स महारथाग्र्यै;र्गङ्गासुतः समरे चित्रयोधी 06081013c न विव्यथे शांतनवो महात्मा; समागतैः पाण्डुसुतैः समस्तैः 06081014a अथैत्य राजा युधि सत्यसंधो; जयद्रथोऽत्युग्रबलो मनस्वी 06081014c चिच्छेद चापानि महारथानां; प्रसह्य तेषां धनुषा वरेण 06081015a युधिष्ठिरं भीमसेनं यमौ च; पार्थं तथा युधि संजातकोपः 06081015c दुर्योधनः क्रोधविषो महात्मा; जघान बाणैरनलप्रकाशैः 06081016a कृपेण शल्येन शलेन चैव; तथा विभो चित्रसेनेन चाजौ 06081016c विद्धाः शरैस्तेऽतिविवृद्धकोपै;र्देवा यथा दैत्यगणैः समेतैः 06081017a छिन्नायुधं शांतनवेन राजा; शिखण्डिनं प्रेक्ष्य च जातकोपः 06081017c अजातशत्रुः समरे महात्मा; शिखण्डिनं क्रुद्ध उवाच वाक्यम् 06081018a उक्त्वा तथा त्वं पितुरग्रतो मा;महं हनिष्यामि महाव्रतं तम् 06081018c भीष्मं शरौघैर्विमलार्कवर्णैः; सत्यं वदामीति कृता प्रतिज्ञा 06081019a त्वया न चैनां सफलां करोषि; देवव्रतं यन्न निहंसि युद्धे 06081019c मिथ्याप्रतिज्ञो भव मा नृवीर; रक्षस्व धर्मं च कुलं यशश्च 06081020a प्रेक्षस्व भीष्मं युधि भीमवेगं; सर्वांस्तपन्तं मम सैन्यसंघान् 06081020c शरौघजालैरतितिग्मतेजैः; कालं यथा मृत्युकृतं क्षणेन 06081021a निकृत्तचापः समरानपेक्षः; पराजितः शांतनवेन राज्ञा 06081021c विहाय बन्धूनथ सोदरांश्च; क्व यास्यसे नानुरूपं तवेदम् 06081022a दृष्ट्वा हि भीष्मं तमनन्तवीर्यं; भग्नं च सैन्यं द्रवमाणमेवम् 06081022c भीतोऽसि नूनं द्रुपदस्य पुत्र; तथा हि ते मुखवर्णोऽप्रहृष्टः 06081023a आज्ञायमानेऽपि धनंजयेन; महाहवे संप्रसक्ते नृवीर 06081023c कथं हि भीष्मात्प्रथितः पृथिव्यां; भयं त्वमद्य प्रकरोषि वीर 06081024a स धर्मराजस्य वचो निशम्य; रूक्षाक्षरं विप्रलापानुबद्धम् 06081024c प्रत्यादेशं मन्यमानो महात्मा; प्रतत्वरे भीष्मवधाय राजन् 06081025a तमापतन्तं महता जवेन; शिखण्डिनं भीष्ममभिद्रवन्तम् 06081025c आवारयामास हि शल्य एनं; शस्त्रेण घोरेण सुदुर्जयेन 06081026a स चापि दृष्ट्वा समुदीर्यमाण;मस्त्रं युगान्ताग्निसमप्रभावम् 06081026c नासौ व्यमुह्यद्द्रुपदस्य पुत्रो; राजन्महेन्द्रप्रतिमप्रभावः 06081027a तस्थौ च तत्रैव महाधनुष्मा;ञ्शरैस्तदस्त्रं प्रतिबाधमानः 06081027c अथाददे वारुणमन्यदस्त्रं; शिखण्ड्यथोग्रं प्रतिघाताय तस्य 06081027e तदस्त्रमस्त्रेण विदार्यमाणं; खस्थाः सुरा ददृशुः पार्थिवाश्च 06081028a भीष्मस्तु राजन्समरे महात्मा; धनुः सुचित्रं ध्वजमेव चापि 06081028c छित्त्वानदत्पाण्डुसुतस्य वीरो; युधिष्ठिरस्याजमीढस्य राज्ञः 06081029a ततः समुत्सृज्य धनुः सबाणं; युधिष्ठिरं वीक्ष्य भयाभिभूतम् 06081029c गदां प्रगृह्याभिपपात संख्ये; जयद्रथं भीमसेनः पदातिः 06081030a तमापतन्तं महता जवेन; जयद्रथः सगदं भीमसेनम् 06081030c विव्याध घोरैर्यमदण्डकल्पैः; शितैः शरैः पञ्चशतैः समन्तात् 06081031a अचिन्तयित्वा स शरांस्तरस्वी; वृकोदरः क्रोधपरीतचेताः 06081031c जघान वाहान्समरे समस्ता;नारट्टजान्सिन्धुराजस्य संख्ये 06081032a ततोऽभिवीक्ष्याप्रतिमप्रभाव;स्तवात्मजस्त्वरमाणो रथेन 06081032c अभ्याययौ भीमसेनं निहन्तुं; समुद्यतास्त्रः सुरराजकल्पः 06081033a भीमोऽप्यथैनं सहसा विनद्य; प्रत्युद्ययौ गदया तर्जमानः 06081033c समुद्यतां तां यमदण्डकल्पां; दृष्ट्वा गदां ते कुरवः समन्तात् 06081034a विहाय सर्वे तव पुत्रमुग्रं; पातं गदायाः परिहर्तुकामाः 06081034c अपक्रान्तास्तुमुले संविमर्दे; सुदारुणे भारत मोहनीये 06081035a अमूढचेतास्त्वथ चित्रसेनो; महागदामापतन्तीं निरीक्ष्य 06081035c रथं समुत्सृज्य पदातिराजौ; प्रगृह्य खड्गं विमलं च चर्म 06081035e अवप्लुतः सिंह इवाचलाग्रा;ज्जगाम चान्यं भुवि भूमिदेशम् 06081036a गदापि सा प्राप्य रथं सुचित्रं; साश्वं ससूतं विनिहत्य संख्ये 06081036c जगाम भूमिं ज्वलिता महोल्का; भ्रष्टाम्बराद्गामिव संपतन्ती 06081037a आश्चर्यभूतं सुमहत्त्वदीया; दृष्ट्वैव तद्भारत संप्रहृष्टाः 06081037c सर्वे विनेदुः सहिताः समन्ता;त्पुपूजिरे तव पुत्रं ससैन्याः 06082001 संजय उवाच 06082001a विरथं तं समासाद्य चित्रसेनं मनस्विनम् 06082001c रथमारोपयामास विकर्णस्तनयस्तव 06082002a तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम् 06082002c भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत् 06082003a ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः 06082003c मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् 06082004a युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः 06082004c महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ 06082005a ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि 06082005c भीष्मं संछादयामास यथा मेघो दिवाकरम् 06082006a तेन सम्यक्प्रणीतानि शरजालानि भारत 06082006c प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः 06082007a तथैव शरजालानि भीष्मेणास्तानि मारिष 06082007c आकाशे समदृश्यन्त खगमानां व्रजा इव 06082008a निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि 06082008c अदृश्यं समरे चक्रे शरजालेन भागशः 06082009a ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः 06082009c नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् 06082010a असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः 06082010c चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् 06082011a तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम् 06082011c निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् 06082012a हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः 06082012c आरुरोह रथं तूर्णं नकुलस्य महात्मनः 06082013a यमावपि सुसंक्रुद्धः समासाद्य रणे तदा 06082013c शरैः संछादयामास भीष्मः परपुरंजयः 06082014a तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ 06082014c जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया 06082015a ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् 06082015c भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान् 06082016a ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् 06082016c महता रथवंशेन परिवव्रुः पितामहम् 06082017a स समन्तात्परिवृतः पिता देवव्रतस्तव 06082017c चिक्रीड धनुषा राजन्पातयानो महारथान् 06082018a तं चरन्तं रणे पार्था ददृशुः कौरवं युधि 06082018c मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने 06082019a तर्जयानं रणे शूरांस्त्रासयानं च सायकैः 06082019c दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव 06082020a रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम् 06082020c अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः 06082021a शिरांसि रथिनां भीष्मः पातयामास संयुगे 06082021c तालेभ्य इव पक्वानि फलानि कुशलो नरः 06082022a पतद्भिश्च महाराज शिरोभिर्धरणीतले 06082022c बभूव तुमुलः शब्दः पततामश्मनामिव 06082023a तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे 06082023c सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् 06082024a भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् 06082024c एकमेकं समाहूय युद्धायैवोपतस्थिरे 06082025a शिखण्डी तु समासाद्य भरतानां पितामहम् 06082025c अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् 06082026a अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे 06082026c प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः 06082027a सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम् 06082027c सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान् 06082028a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 06082028c अपरां दिशमास्थाय स्थिते सवितरि प्रभो 06082029a धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः 06082029c पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः 06082029e शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे 06082030a ते हन्यमानाः समरे तावकाः पुरुषर्षभ 06082030c आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् 06082030e यथोत्साहं च समरे जघ्नुर्लोकं महारथाः 06082031a तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् 06082031c वध्यतां समरे राजन्पार्षतेन महात्मना 06082032a तं श्रुत्वा निनदं घोरं तावकानां महारथौ 06082032c विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ 06082033a तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ 06082033c छादयामासतुरुभौ शरवर्षेण पार्षतम् 06082034a अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः 06082034c आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः 06082035a ततो युधिष्ठिरो राजा महत्या सेनया वृतः 06082035c आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ 06082036a तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष 06082036c विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान् 06082037a अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ 06082037c अयोधयत संग्रामे वज्रपाणिरिवासुरान् 06082038a द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव 06082038c व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः 06082039a दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते 06082039c परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह 06082040a ततो दुर्योधनो राजा लोहितायति भास्करे 06082040c अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत 06082041a युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् 06082041c अस्तं गिरिमथारूढे नप्रकाशति भास्करे 06082042a प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी 06082042c गोमायुगणसंकीर्णा क्षणेन रजनीमुखे 06082043a शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् 06082043c घोरमायोधनं जज्ञे भूतसंघसमाकुलम् 06082044a राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः 06082044c समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः 06082045a अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् 06082045c विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति 06082046a युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा 06082046c ययौ स्वशिबिरं राजा निशायां सेनया वृतः 06082047a भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् 06082047c अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति 06082048a दुर्योधनोऽपि नृपतिः परिवार्य महारणे 06082048c भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति 06082049a द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः 06082049c परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति 06082050a तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः 06082050c परिवार्य रणे योधान्ययतुः शिबिरं प्रति 06082051a एवमेते महाराज तावकाः पाण्डवैः सह 06082051c पर्यवर्तन्त सहिता निशाकाले परंतपाः 06082052a ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा 06082052c न्यविशन्त महाराज पूजयन्तः परस्परम् 06082053a रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि 06082053c अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः 06082054a कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः 06082054c गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः 06082055a मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम् 06082055c न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः 06082056a ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप 06082056c हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः 06083001 संजय उवाच 06083001a परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः 06083001c कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः 06083002a ततः शब्दो महानासीत्सेनयोरुभयोरपि 06083002c निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् 06083003a ततो दुर्योधनो राजा चित्रसेनो विविंशतिः 06083003c भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः 06083004a एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः 06083004c व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः 06083005a भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते 06083005c सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् 06083006a अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ 06083006c मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः 06083007a ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् 06083007c पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः 06083008a द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् 06083008c मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते 06083009a प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः 06083009c मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः 06083010a बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः 06083010c काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः 06083011a द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत 06083011c प्रययौ सिंहनादेन नादयानो धरातलम् 06083012a तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा 06083012c द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः 06083013a दुर्योधनादनु कृपस्ततः शारद्वतो ययौ 06083013c एवमेष महाव्यूहः प्रययौ सागरोपमः 06083014a रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो 06083014c अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च 06083015a तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः 06083015c युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् 06083016a पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् 06083016c प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम् 06083017a ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम् 06083017c शृङ्गाटकं महाराज परव्यूहविनाशनम् 06083018a शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः 06083018c रथैरनेकसाहस्रैस्तथा हयपदातिभिः 06083019a नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः 06083019c मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ 06083020a अथेतरे महेष्वासाः सहसैन्या नराधिपाः 06083020c व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः 06083021a अभिमन्युस्ततः पश्चाद्विराटश्च महारथः 06083021c द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः 06083022a एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः 06083022c अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः 06083023a भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः 06083023c क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम् 06083024a ततः शूराः समासाद्य समरे ते परस्परम् 06083024c नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः 06083025a मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् 06083025c युद्धाय समवर्तन्त समाहूयेतरेतरम् 06083026a ततः प्रववृते युद्धं घोररूपं भयावहम् 06083026c तावकानां परेषां च निघ्नतामितरेतरम् 06083027a नाराचा निशिताः संख्ये संपतन्ति स्म भारत 06083027c व्यात्तानना भयकरा उरगा इव संघशः 06083028a निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः 06083028c अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः 06083029a गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः 06083029c पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः 06083029e निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः 06083030a आर्षभाणि च चर्माणि शतचन्द्राणि भारत 06083030c अशोभन्त रणे राजन्पतमानानि सर्वशः 06083031a तेऽन्योन्यं समरे सेने युध्यमाने नराधिप 06083031c अशोभेतां यथा दैत्यदेवसेने समुद्यते 06083031e अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः 06083032a रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे 06083032c युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः 06083033a दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् 06083033c दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् 06083034a प्रासैरभिहताः केचिद्गजयोधाः समन्ततः 06083034c पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव 06083035a पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम् 06083035c चित्ररूपधराः शूरा नखरप्रासयोधिनः 06083036a अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः 06083036c शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् 06083037a ततः शांतनवो भीष्मो रथघोषेण नादयन् 06083037c अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन् 06083038a पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम् 06083038c अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः 06083039a ततः प्रववृते युद्धं तव तेषां च भारत 06083039c नराश्वरथनागानां व्यतिषक्तं परस्परम् 06084001 संजय उवाच 06084001a भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः 06084001c न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् 06084002a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 06084002c अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः 06084003a स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान् 06084003c पाञ्चालांश्च महेष्वासान्पातयामास सायकैः 06084004a ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह 06084004c भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् 06084005a स तेषां रथिनां वीरो भीष्मः शांतनवो युधि 06084005c चिच्छेद सहसा राजन्बाहूनथ शिरांसि च 06084006a विरथान्रथिनश्चक्रे पिता देवव्रतस्तव 06084006c पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् 06084007a निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् 06084007c अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् 06084008a न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते 06084008c अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् 06084009a स हि भीष्मं समासाद्य ताडयामास संयुगे 06084009c ततो निष्टानको घोरो भीष्मभीमसमागमे 06084010a बभूव सर्वसैन्यानां घोररूपो भयानकः 06084010c तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् 06084011a ततो दुर्योधनो राजा सोदर्यैः परिवारितः 06084011c भीष्मं जुगोप समरे वर्तमाने जनक्षये 06084012a भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः 06084012c विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः 06084012e सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा 06084013a क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि 06084013c हते तस्मिन्महाराज तव पुत्रे महारथे 06084013e नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे 06084014a आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः 06084014c अपराजितः पण्डितको विशालाक्षः सुदुर्जयः 06084015a पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः 06084015c अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः 06084016a महोदरस्तु समरे भीमं विव्याध पत्रिभिः 06084016c नवभिर्वज्रसंकाशैर्नमुचिं वृत्रहा यथा 06084017a आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः 06084017c नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः 06084018a अपराजितो महाराज पराजिष्णुर्महारथः 06084018c शरैर्बहुभिरानर्छद्भीमसेनं महाबलम् 06084019a रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत् 06084019c स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे 06084020a धनुः प्रपीड्य वामेन करेणामित्रकर्शनः 06084020c शिरश्चिच्छेद समरे शरेण नतपर्वणा 06084021a अपराजितस्य सुनसं तव पुत्रस्य संयुगे 06084021c पराजितस्य भीमेन निपपात शिरो महीम् 06084022a अथापरेण भल्लेन कुण्डधारं महारथम् 06084022c प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः 06084023a ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् 06084023c प्रेषयामास समरे पण्डितं प्रति भारत 06084024a स शरः पण्डितं हत्वा विवेश धरणीतलम् 06084024c यथा नरं निहत्याशु भुजगः कालचोदितः 06084025a विशालाक्षशिरश्छित्त्वा पातयामास भूतले 06084025c त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् 06084026a महोदरं महेष्वासं नाराचेन स्तनान्तरे 06084026c विव्याध समरे राजन्स हतो न्यपतद्भुवि 06084027a आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे 06084027c भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा 06084028a बह्वाशिनं ततो भीमः शरेण नतपर्वणा 06084028c प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति 06084029a प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते 06084029c मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् 06084030a ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः 06084030c अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् 06084031a एवमेते महेष्वासाः पुत्रास्तव विशां पते 06084031c भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः 06084032a यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् 06084032c तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः 06084033a लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप 06084033c न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् 06084034a तथैव हि वधार्थाय पुत्राणां पाण्डवो बली 06084034c नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् 06084035a ततो दुर्योधनो राजा भीष्ममासाद्य मारिष 06084035c दुःखेन महताविष्टो विललापातिकर्शितः 06084036a निहता भ्रातरः शूरा भीमसेनेन मे युधि 06084036c यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः 06084037a भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते 06084037c सोऽहं कापथमारूढः पश्य दैवमिदं मम 06084038a एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव 06084038c दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम् 06084039a उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च 06084039c गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् 06084040a समयश्च मया पूर्वं कृतो वः शत्रुकर्शन 06084040c नाहं युधि विमोक्तव्यो नाप्याचार्यः कथंचन 06084041a यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे 06084041c हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते 06084042a स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम् 06084042c योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् 06084043a न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः 06084043c तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत 06085001 धृतराष्ट्र उवाच 06085001a दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय 06085001c भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे 06085002a अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय 06085002c मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् 06085003a यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत 06085003c यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः 06085004a सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः 06085004c अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् 06085005a अन्येषां चैव वीराणां मध्यगास्तनया मम 06085005c यदहन्यन्त संग्रामे किमन्यद्भागधेयतः 06085006a न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत 06085006c वार्यमाणो मया तात भीष्मेण विदुरेण च 06085007a गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया 06085007c नावबुध्यत्पुरा मोहात्तस्य प्राप्तमिदं फलम् 06085008a यद्भीमसेनः समरे पुत्रान्मम विचेतसः 06085008c अहन्यहनि संक्रुद्धो नयते यमसादनम् 06085009 संजय उवाच 06085009a इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् 06085009c न बुद्धवानसि विभो प्रोच्यमानं हितं तदा 06085010a निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च 06085010c सुहृदां हितकामानां ब्रुवतां तत्तदेव च 06085011a न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् 06085011c तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् 06085012a विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् 06085012c अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः 06085013a तदेतत्समतिक्रान्तं पूर्वमेव विशां पते 06085013c तस्मान्मे शृणु तत्त्वेन यथा युद्धमवर्तत 06085014a मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत 06085014c लोकक्षयकरो राजंस्तन्मे निगदतः शृणु 06085015a ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् 06085015c संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया 06085016a धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः 06085016c युक्तानीका महाराज भीष्ममेव समभ्ययुः 06085017a अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे 06085017c दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः 06085018a अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः 06085018c भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् 06085019a त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि 06085019c तथैव कौरवे राजन्नवध्यन्त परे रणे 06085020a द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह 06085020c अभ्यद्रवत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् 06085021a तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् 06085021c वध्यतां समरे राजन्भारद्वाजेन धन्विना 06085022a द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे 06085022c विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव 06085023a कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे 06085023c अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव 06085024a तथैव कौरवेयाणां भीमसेनो महाबलः 06085024c चकार कदनं घोरं क्रुद्धः काल इवापरः 06085025a वध्यतां तत्र सैन्यानामन्योन्येन महारणे 06085025c प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी 06085026a स संग्रामो महाराज घोररूपोऽभवन्महान् 06085026c कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः 06085027a ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः 06085027c गजानीकं समासाद्य प्रेषयामास मृत्यवे 06085028a तत्र भारत भीमेन नाराचाभिहता गजाः 06085028c पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः 06085029a छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष 06085029c क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे 06085030a नकुलः सहदेवश्च हयानीकमभिद्रुतौ 06085030c ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः 06085030e वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः 06085031a पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी 06085031c निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः 06085031e हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा 06085032a अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः 06085032c प्रबभौ वसुधा घोरा तत्र तत्र विशां पते 06085033a रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः 06085033c हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः 06085034a उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वषः 06085034c अनुकर्षैः शुभै राजन्योक्त्रैश्चव्यसुरश्मिभिः 06085034e संछन्ना वसुधा भाति वसन्ते कुसुमैरिव 06085035a एवमेष क्षयो वृत्तः पाण्डूनामपि भारत 06085035c क्रुद्धे शांतनवे भीष्मे द्रोणे च रथसत्तमे 06085036a अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि 06085036c तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः 06086001 संजय उवाच 06086001a वर्तमाने तथा रौद्रे राजन्वीरवरक्षये 06086001c शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् 06086002a तथैव सात्वतो राजन्हार्दिक्यः परवीरहा 06086002c अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम् 06086003a ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् 06086003c आरट्टानां महीजानां सिन्धुजानां च सर्वशः 06086004a वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् 06086004c ये चापरे तित्तिरजा जवना वातरंहसः 06086005a सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः 06086005c हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली 06086005e अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः 06086006a अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् 06086006c सुतायां नागराजस्य जातः पार्थेन धीमता 06086007a ऐरावतेन सा दत्ता अनपत्या महात्मना 06086007c पत्यौ हते सुपर्णेन कृपणा दीनचेतना 06086008a भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् 06086008c एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः 06086009a स नागलोके संवृद्धो मात्रा च परिरक्षितः 06086009c पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना 06086010a रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः 06086010c इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् 06086011a सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् 06086011c अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः 06086011e इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो 06086012a मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् 06086012c तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः 06086013a परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः 06086013c प्रीतिमानभवत्पार्थो देवराजनिवेशने 06086014a सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप 06086014c प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत 06086014e युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो 06086015a बाढमित्येवमुक्त्वा च युद्धकाल उपागतः 06086015c कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप 06086016a ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः 06086016c उत्पेतुः सहसा राजन्हंसा इव महोदधौ 06086017a ते त्वदीयान्समासाद्य हयसंघान्महाजवान् 06086017c क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् 06086017e निपेतुः सहसा राजन्सुवेगाभिहता भुवि 06086018a निपतद्भिस्तथा तैश्च हयसंघैः परस्परम् 06086018c शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा 06086019a तथैव च महाराज समेत्यान्योन्यमाहवे 06086019c परस्परवधं घोरं चक्रुस्ते हयसादिनः 06086020a तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् 06086020c उभयोरपि संशान्ता हयसंघाः समन्ततः 06086021a प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः 06086021c विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् 06086022a ततः क्षीणे हयानीके किंचिच्छेषे च भारत 06086022c सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि 06086023a वायुवेगसमस्पर्शा जवे वायुसमांस्तथा 06086023c आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान् 06086024a गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः 06086024c षडेते बलसंपन्ना निर्ययुर्महतो बलात् 06086025a वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः 06086025c संनद्धा युद्धकुशला रौद्ररूपा महाबलाः 06086026a तदनीकं महाबाहो भित्त्वा परमदुर्जयम् 06086026c बलेन महता युक्ताः स्वर्गाय विजयैषिणः 06086026e विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः 06086027a तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् 06086027c अब्रवीत्समरे योधान्विचित्राभरणायुधान् 06086028a यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः 06086028c हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् 06086029a बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः 06086029c जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः 06086030a तदनीकमनीकेन समरे वीक्ष्य पातितम् 06086030c अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे 06086030e इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् 06086031a ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् 06086031c ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् 06086032a इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः 06086032c स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः 06086033a उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः 06086033c एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे 06086034a इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः 06086034c मोहयामास समरे विद्ध्वा परपुरंजयः 06086035a प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः 06086035c तैरेव ताडयामास सुबलस्यात्मजान्रणे 06086036a निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् 06086036c पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि 06086037a ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः 06086037c भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् 06086038a इरावानपि खड्गेन दर्शयन्पाणिलाघवम् 06086038c अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः 06086039a लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः 06086039c अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः 06086040a भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः 06086040c परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः 06086041a अथाभ्याशगतानां स खड्गेनामित्रकर्शनः 06086041c उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत 06086042a आयुधानि च सर्वेषां बाहूनपि च भूषितान् 06086042c अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः 06086043a वृषकस्तु महाराज बहुधा परिविक्षतः 06086043c अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् 06086044a तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः 06086044c अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम् 06086045a आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् 06086045c वैरिणं भीमसेनस्य पूर्वं बकवधेन वै 06086046a पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली 06086046c मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम् 06086047a त्वं च कामगमस्तात मायास्त्रे च विशारदः 06086047c कृतवैरश्च पार्थेन तस्मादेनं रणे जहि 06086048a बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः 06086048c प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा 06086049a स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः 06086049c वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः 06086049e निहन्तुकामः समरे इरावन्तं महाबलम् 06086050a इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी 06086050c हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् 06086051a तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः 06086051c त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे 06086052a तेन मायामयाः कॢप्ता हयास्तावन्त एव हि 06086052c स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः 06086053a ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः 06086053c अचिराद्गमयामासुः प्रेतलोकं परस्परम् 06086054a तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ 06086054c संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ 06086055a आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् 06086055c इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः 06086056a समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः 06086056c चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् 06086057a स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् 06086057c इरावन्तमभिक्रुद्धं मोहयन्निव मायया 06086058a ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् 06086058c विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः 06086058e चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः 06086059a तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः 06086059c संबभूव महाराज समवाप च यौवनम् 06086060a माया हि सहजा तेषां वयो रूपं च कामजम् 06086060c एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत 06086061a इरावानपि संक्रुद्धो राक्षसं तं महाबलम् 06086061c परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः 06086062a स तेन बलिना वीरश्छिद्यमान इव द्रुमः 06086062c राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् 06086063a परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु 06086063c ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे 06086064a आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् 06086064c कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे 06086064e संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् 06086065a तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः 06086065c इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे 06086066a तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः 06086066c योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् 06086067a स नागैर्बहुशो राजन्सर्वतः संवृतो रणे 06086067c दधार सुमहद्रूपमनन्त इव भोगवान् 06086067e ततो बहुविधैर्नागैश्छादयामास राक्षसम् 06086068a छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः 06086068c सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् 06086069a मायया भक्षिते तस्मिन्नन्वये तस्य मातृके 06086069c विमोहितमिरावन्तमसिना राक्षसोऽवधीत् 06086070a सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् 06086070c इरावतः शिरो रक्षः पातयामास भूतले 06086071a तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे 06086071c विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः 06086072a तस्मिन्महति संग्रामे तादृशे भैरवे पुनः 06086072c महान्व्यतिकरो घोरः सेनयोः समपद्यत 06086073a हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः 06086073c रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः 06086074a तथा पत्तिरथौघाश्च हयाश्च बहवो रणे 06086074c रथिभिर्निहता राजंस्तव तेषां च संकुले 06086075a अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् 06086075c जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः 06086076a तथैव तावका राजन्सृञ्जयाश्च महाबलाः 06086076c जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् 06086077a मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः 06086077c बाहुभिः समयुध्यन्त समवेताः परस्परम् 06086078a तथा मर्मातिगैर्भीष्मो निजघान महारथान् 06086078c कम्पयन्समरे सेनां पाण्डवानां महाबलः 06086079a तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः 06086079c दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा 06086080a तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् 06086080c अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् 06086081a तथैव भीमसेनस्य पार्षतस्य च भारत 06086081c रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः 06086082a दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् 06086082c एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान् 06086083a किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः 06086083c इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः 06086084a वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ 06086084c उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् 06086085a आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः 06086085c तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः 06086086a न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति 06086086c संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप 06087001 धृतराष्ट्र उवाच 06087001a इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः 06087001c संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय 06087002 संजय उवाच 06087002a इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः 06087002c व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः 06087003a नदतस्तस्य शब्देन पृथिवी सागराम्बरा 06087003c सपर्वतवना राजंश्चचाल सुभृशं तदा 06087003e अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा 06087004a तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत 06087004c ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च 06087005a सर्व एव च राजेन्द्र तावका दीनचेतसः 06087005c सर्पवत्समवेष्टन्त सिंहभीता गजा इव 06087006a निनदत्सुमहानादं निर्घातमिव राक्षसः 06087006c ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् 06087007a नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः 06087007c आजगाम सुसंक्रुद्धः कालान्तकयमोपमः 06087008a तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् 06087008c स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् 06087009a ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् 06087009c प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः 06087010a पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः 06087010c कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् 06087011a तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् 06087011c पुत्रं तव महाराज चुकोप स निशाचरः 06087012a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 06087012c राक्षसानां च राजेन्द्र दुर्योधनबलस्य च 06087013a गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम् 06087013c अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः 06087014a नदन्तो विविधान्नादान्मेघा इव सविद्युतः 06087014c शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः 06087015a भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः 06087015c पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् 06087016a भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् 06087016c अपश्याम महाराज वध्यमानान्निशाचरैः 06087017a तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु 06087017c दुर्योधनो महाराज राक्षसान्समुपाद्रवत् 06087018a अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः 06087018c मुमोच निशितान्बाणान्राक्षसेषु महाबलः 06087019a जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् 06087019c संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव 06087020a वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् 06087020c शरैश्चतुर्भिश्चतुरो निजघान महारथः 06087021a ततः पुनरमेयात्मा शरवर्षं दुरासदम् 06087021c मुमोच भरतश्रेष्ठ निशाचरबलं प्रति 06087022a तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष 06087022c क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः 06087023a विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम् 06087023c अभिदुद्राव वेगेन दुर्योधनमरिंदमम् 06087024a तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् 06087024c न विव्यथे महाराज पुत्रो दुर्योधनस्तव 06087025a अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः 06087025c ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः 06087025e यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः 06087026a यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला 06087026c सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया 06087027a तव च प्रियकामेन आश्रमस्था दुरात्मना 06087027c सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम 06087028a एतेषामवमानानामन्येषां च कुलाधम 06087028c अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् 06087029a एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम् 06087029c संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् 06087030a शरवर्षेण महता दुर्योधनमवाकिरत् 06087030c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06088001 संजय उवाच 06088001a ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि 06088001c दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः 06088002a ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः 06088002c संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ 06088003a मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् 06088003c तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे 06088003e आशीविषा इव क्रुद्धाः पर्वते गन्धमादने 06088004a स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः 06088004c दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः 06088004e जग्राह च महाशक्तिं गिरीणामपि दारणीम् 06088005a संप्रदीप्तां महोल्काभामशनीं मघवानिव 06088005c समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव 06088006a तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् 06088006c कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् 06088007a स नागप्रवरेणाजौ बलिना शीघ्रगामिना 06088007c यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत 06088007e रथं च वारयामास कुञ्जरेण सुतस्य ते 06088008a मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता 06088008c घटोत्कचो महाराज क्रोधसंरक्तलोचनः 06088008e उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे 06088009a स तयाभिहतो राजंस्तेन बाहुविमुक्तया 06088009c संजातरुधिरोत्पीडः पपात च ममार च 06088010a पतत्यथ गजे चापि वङ्गानामीश्वरो बली 06088010c जवेन समभिद्रुत्य जगाम धरणीतलम् 06088011a दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम् 06088011c प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् 06088012a क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् 06088012c प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः 06088013a संधाय च शितं बाणं कालाग्निसमतेजसम् 06088013c मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे 06088014a तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् 06088014c लाघवाद्वञ्चयामास महाकायो घटोत्कचः 06088015a भूय एव ननादोग्रः क्रोधसंरक्तलोचनः 06088015c त्रासयन्सर्वभूतानि युगान्ते जलदो यथा 06088016a तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः 06088016c आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् 06088017a यथैष निनदो घोरः श्रूयते राक्षसेरितः 06088017c हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह 06088018a नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् 06088018c तत्र गच्छत भद्रं वो राजानं परिरक्षत 06088019a अभिद्रुतं महाभागं राक्षसेन दुरात्मना 06088019c एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः 06088020a पितामहवचः श्रुत्वा त्वरमाणा महारथाः 06088020c उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः 06088021a द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः 06088021c कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः 06088022a अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः 06088022c रथाश्चानेकसाहस्रा ये तेषामनुयायिनः 06088022e अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव 06088023a तदनीकमनाधृष्यं पालितं लोकसत्तमैः 06088023c आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः 06088023e नाकम्पत महाबाहुर्मैनाक इव पर्वतः 06088024a प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः 06088024c शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि 06088025a ततः समभवद्युद्धं तुमुलं लोमहर्षणम् 06088025c राक्षसानां च मुख्यस्य दुर्योधनबलस्य च 06088026a धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् 06088026c अश्रूयत महाराज वंशानां दह्यतामिव 06088027a शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् 06088027c शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् 06088028a वीरबाहुविसृष्टानां तोमराणां विशां पते 06088028c रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव 06088029a ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः 06088029c राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् 06088030a आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् 06088030c सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् 06088031a बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 06088031c कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः 06088032a पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च 06088032c जत्रुदेशे समासाद्य विकर्णं समताडयत् 06088032e न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः 06088033a ततः पुनरमेयात्मा नाराचान्दश पञ्च च 06088033c भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ 06088033e ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् 06088034a विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् 06088034c तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् 06088035a सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् 06088035c उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः 06088036a चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः 06088036c जघान चतुरो वाहान्क्रोधसंरक्तलोचनः 06088037a पूर्णायतविसृष्टेन पीतेन निशितेन च 06088037c निर्बिभेद महाराज राजपुत्रं बृहद्बलम् 06088037e स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06088038a भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः 06088038c चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् 06088038e बिभिदुस्ते महाराज शल्यं युद्धविशारदम् 06089001 संजय उवाच 06089001a विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः 06089001c जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् 06089002a तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् 06089002c अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः 06089003a तालमात्राणि चापानि विकर्षन्तो महाबलाः 06089003c तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् 06089004a अथैनं शरवर्षेण समन्तात्पर्यवारयन् 06089004c पर्वतं वारिधाराभिः शरदीव बलाहकाः 06089005a स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः 06089005c उत्पपात तदाकाशं समन्ताद्वैनतेयवत् 06089006a व्यनदत्सुमहानादं जीमूत इव शारदः 06089006c दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः 06089007a राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः 06089007c उवाच भरतश्रेष्ठो भीमसेनमिदं वचः 06089008a युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः 06089008c यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् 06089008e अतिभारं च पश्यामि तत्र तात समाहितम् 06089009a पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः 06089009c तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः 06089010a एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् 06089010c गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् 06089011a भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः 06089011c प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् 06089011e वेगेन महता राजन्पर्वकाले यथोदधिः 06089012a तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 06089012c श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः 06089013a अभिमन्युमुखाश्चैव द्रौपदेया महारथाः 06089013c क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च 06089014a अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः 06089014c महता रथवंशेन हैडिम्बं पर्यवारयन् 06089015a कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः 06089015c अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् 06089016a सिंहनादेन महता नेमिघोषेण चैव हि 06089016c खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् 06089017a तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् 06089017c भीमसेनभयोद्विग्नं विवर्णवदनं तथा 06089017e परिवृत्तं महाराज परित्यज्य घटोत्कचम् 06089018a ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् 06089018c तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् 06089019a नानारूपाणि शस्त्राणि विसृजन्तो महारथाः 06089019c अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे 06089019e व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् 06089020a हया गजैः समाजग्मुः पादाता रथिभिः सह 06089020c अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः 06089021a सहसा चाभवत्तीव्रं संनिपातान्महद्रजः 06089021c रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् 06089022a धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् 06089022c नैव स्वे न परे राजन्समजानन्परस्परम् 06089023a पिता पुत्रं न जानीते पुत्रो वा पितरं तथा 06089023c निर्मर्यादे तथा भूते वैशसे लोमहर्षणे 06089024a शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् 06089024c सुमहानभवच्छब्दो वंशानामिव दह्यताम् 06089025a गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी 06089025c प्रावर्तत नदी तत्र केशशैवलशाद्वला 06089026a नराणां चैव कायेभ्यः शिरसां पततां रणे 06089026c शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव 06089027a विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः 06089027c अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा 06089028a नानाविधानि शस्त्राणि विसृजन्तो महारथाः 06089028c अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे 06089029a हया हयान्समासाद्य प्रेषिता हयसादिभिः 06089029c समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः 06089030a नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् 06089030c उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे 06089031a प्रेषिताश्च महामात्रैर्वारणाः परवारणाः 06089031c अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे 06089032a ते जातरुधिरापीडाः पताकाभिरलंकृताः 06089032c संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः 06089033a केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः 06089033c विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव 06089034a केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे 06089034c निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः 06089035a पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः 06089035c मुमुचुः शोणितं भूरि धातूनिव महीधराः 06089036a नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः 06089036c हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः 06089037a केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः 06089037c रथान्हयान्पदातांश्च ममृदुः शतशो रणे 06089038a तथा हया हयारोहैस्ताडिताः प्रासतोमरैः 06089038c तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः 06089039a रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः 06089039c परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् 06089040a स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् 06089040c प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः 06089041a तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे 06089041c धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् 06090001 संजय उवाच 06090001a स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् 06090001c अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् 06090002a प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् 06090002c महता शरवर्षेण पाण्डवं समवाकिरत् 06090003a अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम् 06090003c भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः 06090004a तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः 06090004c संदधे निशितं बाणं गिरीणामपि दारणम् 06090004e तेनोरसि महाबाहुर्भीमसेनमताडयत् 06090005a स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् 06090005c समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् 06090006a तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः 06090006c क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः 06090007a अभिमन्युमुखाश्चैव पाण्डवानां महारथाः 06090007c समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः 06090008a संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान् 06090008c भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् 06090009a क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत 06090009c संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे 06090010a एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः 06090010c भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः 06090011a नानाविधानि शस्त्राणि विसृजन्तो जये रताः 06090011c नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् 06090012a तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः 06090012c तावकाः समवर्तन्त पाण्डवानामनीकिनीम् 06090013a कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः 06090013c चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः 06090013e आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् 06090014a ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे 06090014c पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः 06090015a एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् 06090015c भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् 06090016a भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् 06090016c पर्वतं वारिधाराभिः शरदीव बलाहकः 06090017a तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः 06090017c त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः 06090018a स गाढविद्धो व्यथितो वयोवृद्धश्च भारत 06090018c प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् 06090019a गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् 06090019c द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ 06090020a तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ 06090020c भीमसेनो महाबाहुर्गदामादाय सत्वरः 06090021a अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः 06090021c समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे 06090022a तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् 06090022c कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् 06090023a तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ 06090023c अभ्यधावत वेगेन त्वरमाणो वृकोदरः 06090024a तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् 06090024c समभ्यधावंस्त्वरिताः कौरवाणां महारथाः 06090025a भारद्वाजमुखाः सर्वे भीमसेनजिघांसया 06090025c नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् 06090025e सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः 06090026a तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् 06090026c अभिमन्युप्रभृतयः पाण्डवानां महारथाः 06090026e अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् 06090027a अनूपाधिपतिः शूरो भीमस्य दयितः सखा 06090027c नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् 06090027e स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः 06090028a स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा 06090028c यथा शक्रो महाराज पुरा विव्याध दानवम् 06090029a विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् 06090029c येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा 06090030a तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा 06090030c संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः 06090031a स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् 06090031c दध्रे नीलविनाशाय मतिं मतिमतां वरः 06090032a ततः संधाय विमलान्भल्लान्कर्मारपायितान् 06090032c जघान चतुरो वाहान्पातयामास च ध्वजम् 06090033a सप्तमेन च भल्लेन नीलं विव्याध वक्षसि 06090033c स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06090034a मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् 06090034c घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः 06090035a अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् 06090035c तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः 06090036a तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् 06090036c अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् 06090037a निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् 06090037c येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः 06090038a विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः 06090038c अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः 06090039a प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम् 06090039c मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः 06090040a ततस्ते तावकाः सर्वे मायया विमुखीकृताः 06090040c अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले 06090040e विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् 06090041a द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च 06090041c प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः 06090042a विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः 06090042c हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः 06090043a तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति 06090043c मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च 06090044a युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे 06090044c घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः 06090044e नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः 06090045a तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः 06090045c घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे 06090045e शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् 06090046a एवं तव बलं सर्वं हैडिम्बेन दुरात्मना 06090046c सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः 06091001 संजय उवाच 06091001a तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा 06091001c गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च 06091002a तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे 06091002c घटोत्कचस्य विजयमात्मनश्च पराजयम् 06091003a कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः 06091003c अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् 06091004a भवन्तं समुपाश्रित्य वासुदेवं यथा परैः 06091004c पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो 06091005a एकादश समाख्याता अक्षौहिण्यश्च या मम 06091005c निदेशे तव तिष्ठन्ति मया सार्धं परंतप 06091006a सोऽहं भरतशार्दूल भीमसेनपुरोगमैः 06091006c घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः 06091007a तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः 06091007c तदिच्छामि महाभाग त्वत्प्रसादात्परंतप 06091008a राक्षसापसदं हन्तुं स्वयमेव पितामह 06091008c त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि 06091009a एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम 06091009c दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् 06091010a शृणु राजन्मम वचो यत्त्वा वक्ष्यामि कौरव 06091010c यथा त्वया महाराज वर्तितव्यं परंतप 06091011a आत्मा रक्ष्यो रणे तात सर्वावस्थास्वरिंदम 06091011c धर्मराजेन संग्रामस्त्वया कार्यः सदानघ 06091012a अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः 06091012c राजधर्मं पुरस्कृत्य राजा राजानमृच्छति 06091013a अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः 06091013c शल्यश्च सौमदत्तिश्च विकर्णश्च महारथः 06091014a तव च भ्रातरः शूरा दुःशासनपुरोगमाः 06091014c त्वदर्थं प्रतियोत्स्यामो राक्षसं तं महाबलम् 06091015a तस्मिन्रौद्रे राक्षसेन्द्रे यदि ते हृच्छयो महान् 06091015c अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः 06091015e भगदत्तो महीपालः पुरंदरसमो युधि 06091016a एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् 06091016c समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः 06091017a गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् 06091017c वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् 06091017e राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा 06091018a तव दिव्यानि चास्त्राणि विक्रमश्च परंतप 06091018c समागमश्च बहुभिः पुराभूदसुरैः सह 06091019a त्वं तस्य राजशार्दूल प्रतियोद्धा महाहवे 06091019c स्वबलेन वृतो राजञ्जहि राक्षसपुंगवम् 06091020a एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः 06091020c प्रययौ सिंहनादेन परानभिमुखो द्रुतम् 06091021a तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् 06091021c अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः 06091022a भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः 06091022c द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च मारिष 06091023a चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा 06091023c सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् 06091024a ततः समभवद्युद्धं घोररूपं भयानकम् 06091024c पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् 06091025a प्रमुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः 06091025c ते निपेतुर्महाराज नागेषु च रथेषु च 06091026a प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः 06091026c परस्परं समासाद्य संनिपेतुरभीतवत् 06091027a मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे 06091027c बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् 06091028a हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः 06091028c चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् 06091029a पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः 06091029c न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः 06091030a रथिनश्च तथा राजन्कर्णिनालीकसायकैः 06091030c निहत्य समरे वीरान्सिंहनादान्विनेदिरे 06091031a तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे 06091031c भगदत्तो महेष्वासो भीमसेनमथाद्रवत् 06091032a कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् 06091032c पर्वतेन यथा तोयं स्रवमाणेन सर्वतः 06091033a किरञ्शरसहस्राणि सुप्रतीकशिरोगतः 06091033c ऐरावतस्थो मघवान्वारिधारा इवानघ 06091034a स भीमं शरधाराभिस्ताडयामास पार्थिवः 06091034c पर्वतं वारिधाराभिः प्रावृषीव बलाहकः 06091035a भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् 06091035c निजघान महेष्वासः संक्रुद्धः शरवृष्टिभिः 06091036a तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् 06091036c चोदयामास नागेन्द्रं भीमसेनरथं प्रति 06091037a स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा 06091037c अभ्यधावत वेगेन भीमसेनमरिंदमम् 06091038a तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः 06091038c अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः 06091039a केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः 06091039c दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष 06091039e चेदिपश्चित्रकेतुश्च संक्रुद्धाः सर्व एव ते 06091040a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः 06091040c तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् 06091041a स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः 06091041c संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् 06091042a दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् 06091042c समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् 06091043a तमापतन्तं समरे गजं गजपतिः स च 06091043c दधार सुप्रतीकोऽपि वेलेव मकरालयम् 06091044a वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः 06091044c साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् 06091045a ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश 06091045c प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम 06091046a तस्य वर्म मुखत्राणं शातकुम्भपरिष्कृतम् 06091046c विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः 06091047a स गाढविद्धो व्यथितो नागो भरतसत्तम 06091047c उपावृत्तमदः क्षिप्रं स न्यवर्तत वेगतः 06091048a प्रदुद्राव च वेगेन प्रणदन्भैरवं स्वनम् 06091048c स मर्दमानः स्वबलं वायुर्वृक्षानिवौजसा 06091049a तस्मिन्पराजिते नागे पाण्डवानां महारथाः 06091049c सिंहनादं विनद्योच्चैर्युद्धायैवोपतस्थिरे 06091050a ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् 06091050c किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च 06091051a तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् 06091051c श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः 06091051e भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् 06091052a अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि 06091052c तस्मिन्क्षणे समभवत्संवर्तक इवानलः 06091053a रथसंघांस्तथा नागान्हयांश्च सह सादिभिः 06091053c पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशः 06091053e अमृद्नात्समरे राजन्संप्रधावंस्ततस्ततः 06091054a तेन संलोड्यमानं तु पाण्डूनां तद्बलं महत् 06091054c संचुकोच महाराज चर्मेवाग्नौ समाहितम् 06091055a भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता 06091055c घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत् 06091056a विकटः पुरुषो राजन्दीप्तास्यो दीप्तलोचनः 06091056c रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव 06091057a जग्राह विपुलं शूलं गिरीणामपि दारणम् 06091057c नागं जिघांसुः सहसा चिक्षेप च महाबलः 06091057e सविष्फुलिङ्गज्वालाभिः समन्तात्परिवेष्टितम् 06091058a तमापतन्तं सहसा दृष्ट्वा ज्वालाकुलं रणे 06091058c चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं स पार्थिवः 06091058e चिच्छेद सुमहच्छूलं तेन बाणेन वेगवत् 06091059a निपपात द्विधा छिन्नं शूलं हेमपरिष्कृतम् 06091059c महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता 06091060a शूलं निपतितं दृष्ट्वा द्विधा कृत्तं स पार्थिवः 06091060c रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् 06091060e चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् 06091061a तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव 06091061c उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च 06091062a बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत 06091062c पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् 06091063a तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा 06091063c दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः 06091064a पाण्डवाश्च महेष्वासा भीमसेनपुरोगमाः 06091064c साधु साध्विति नादेन पृथिवीमनुनादयन् 06091065a तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् 06091065c नामृष्यत महेष्वासो भगदत्तः प्रतापवान् 06091066a स विस्फार्य महच्चापमिन्द्राशनिसमस्वनम् 06091066c अभिदुद्राव वेगेन पाण्डवानां महारथान् 06091066e विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् 06091067a भीममेकेन विव्याध राक्षसं नवभिः शरैः 06091067c अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा 06091068a पूर्णायतविसृष्टेन स्वर्णपुङ्खेन पत्रिणा 06091068c बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे 06091068e पपात सहसा तस्य सशरं धनुरुत्तमम् 06091069a द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् 06091069c भीमसेनस्य च क्रोधान्निजघान तुरंगमान् 06091070a ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः 06091070c निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः 06091071a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 06091071c विशोको भरतश्रेष्ठ भगदत्तेन संयुगे 06091072a ततो भीमो महाराज विरथो रथिनां वरः 06091072c गदां प्रगृह्य वेगेन प्रचस्कन्द महारथात् 06091073a तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् 06091073c तावकानां भयं घोरं समपद्यत भारत 06091074a एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः 06091074c आजगाम महाराज निघ्नञ्शत्रून्सहस्रशः 06091075a यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ परंतपौ 06091075c प्राग्ज्योतिषेण संसक्तौ भीमसेनघटोत्कचौ 06091076a दृष्ट्वा तु पाण्डवो राजन्युध्यमानान्महारथान् 06091076c त्वरितो भरतश्रेष्ठ तत्रायाद्विकिरञ्शरान् 06091077a ततो दुर्योधनो राजा त्वरमाणो महारथः 06091077c सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् 06091078a तामापतन्तीं सहसा कौरवाणां महाचमूम् 06091078c अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः 06091079a भगदत्तोऽपि समरे तेन नागेन भारत 06091079c विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् 06091080a तदासीत्तुमुलं युद्धं भगदत्तस्य मारिष 06091080c पाञ्चालैः सृञ्जयैश्चैव केकयैश्चोद्यतायुधैः 06091081a भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ 06091081c आश्रावयद्यथावृत्तमिरावद्वधमुत्तमम् 06092001 संजय उवाच 06092001a पुत्रं तु निहतं श्रुत्वा इरावन्तं धनंजयः 06092001c दुःखेन महताविष्टो निःश्वसन्पन्नगो यथा 06092002a अब्रवीत्समरे राजन्वासुदेवमिदं वचः 06092002c इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा 06092003a कुरूणां पाण्डवानां च क्षयं घोरं महामतिः 06092003c ततो निवारयितवान्धृतराष्ट्रं जनेश्वरम् 06092004a अवध्या बहवो वीराः संग्रामे मधुसूदन 06092004c निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः 06092005a अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् 06092005c धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः 06092006a अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् 06092006c किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् 06092007a दुर्योधनापराधेन शकुनेः सौबलस्य च 06092007c क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च 06092008a इदानीं च विजानामि सुकृतं मधुसूदन 06092008c कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् 06092008e राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः 06092009a दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले 06092009c निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् 06092010a अशक्तमिति मामेते ज्ञास्यन्ति क्षत्रिया रणे 06092010c युद्धं ममैभिरुचितं ज्ञातिभिर्मधुसूदन 06092011a संचोदय हयान्क्षिप्रं धार्तराष्ट्रचमूं प्रति 06092011c प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् 06092011e नायं क्लीबयितुं कालो विद्यते माधव क्वचित् 06092012a एवमुक्तस्तु पार्थेन केशवः परवीरहा 06092012c चोदयामास तानश्वान्पाण्डुरान्वातरंहसः 06092013a अथ शब्दो महानासीत्तव सैन्यस्य भारत 06092013c मारुतोद्धूतवेगस्य सागरस्येव पर्वणि 06092014a अपराह्णे महाराज संग्रामः समपद्यत 06092014c पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः 06092015a ततो राजंस्तव सुता भीमसेनमुपाद्रवन् 06092015c परिवार्य रणे द्रोणं वसवो वासवं यथा 06092016a ततः शांतनवो भीष्मः कृपश्च रथिनां वरः 06092016c भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् 06092017a हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ 06092017c अम्बष्ठकस्तु नृपतिरभिमन्युमवारयत् 06092018a शेषास्त्वन्ये महाराज शेषानेव महारथान् 06092018c ततः प्रववृते युद्धं घोररूपं भयावहम् 06092019a भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर 06092019c प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव 06092020a पुत्रास्तु तव कौन्तेयं छादयां चक्रिरे शरैः 06092020c प्रावृषीव महाराज जलदाः पर्वतं यथा 06092021a स च्छाद्यमानो बहुधा पुत्रैस्तव विशां पते 06092021c सृक्किणी विलिहन्वीरः शार्दूल इव दर्पितः 06092022a व्यूढोरस्कं ततो भीमः पातयामास पार्थिव 06092022c क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः 06092023a अपरेण तु भल्लेन पीतेन निशितेन च 06092023c अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा 06092024a ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् 06092024c स सप्त त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष 06092025a प्रेषिता भीमसेनेन शरास्ते दृढधन्वना 06092025c अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् 06092026a अनाधृष्टिं कुण्डभेदं वैराटं दीर्घलोचनम् 06092026c दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् 06092027a प्रपतन्त स्म ते वीरा विरेजुर्भरतर्षभ 06092027c वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव 06092028a ततः प्रदुद्रुवुः शेषाः पुत्रास्तव विशां पते 06092028c तं कालमिव मन्यन्तो भीमसेनं महाबलम् 06092029a द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव 06092029c यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः 06092030a तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् 06092030c द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव 06092031a यथा हि गोवृषो वर्षं संधारयति खात्पतत् 06092031c भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् 06092032a अद्भुतं च महाराज तत्र चक्रे वृकोदरः 06092032c यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्ययोधयत् 06092033a पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः 06092033c मृगेष्विव महाराज चरन्व्याघ्रो महाबलः 06092034a यथा वा पशुमध्यस्थो द्रावयेत पशून्वृकः 06092034c वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे 06092035a गाङ्गेयो भगदत्तश्च गौतमश्च महारथः 06092035c पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् 06092036a अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे 06092036c प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे 06092037a अभिमन्युश्च राजानमम्बष्ठं लोकविश्रुतम् 06092037c विरथं रथिनां श्रेष्ठं कारयामास सायकैः 06092038a विरथो वध्यमानः स सौभद्रेण यशस्विना 06092038c अवप्लुत्य रथात्तूर्णं सव्रीडो मनुजाधिपः 06092039a असिं चिक्षेप समरे सौभद्रस्य महात्मनः 06092039c आरुरोह रथं चैव हार्दिक्यस्य महात्मनः 06092040a आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः 06092040c लाघवाद्व्यंसयामास सौभद्रः परवीरहा 06092041a व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा 06092041c साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते 06092042a धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् 06092042c तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् 06092043a तत्राक्रन्दो महानासीत्तव तेषां च भारत 06092043c निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् 06092044a अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मारिष 06092044c नखैर्दन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा 06092045a बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः 06092045c विवरं प्राप्य चान्योन्यमनयन्यमसादनम् 06092046a न्यहनच्च पिता पुत्रं पुत्रश्च पितरं रणे 06092046c व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः 06092047a रणे चारूणि चापानि हेमपृष्ठानि भारत 06092047c हतानामपविद्धानि कलापाश्च महाधनाः 06092048a जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः 06092048c तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः 06092049a हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् 06092049c चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् 06092050a सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् 06092050c जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः 06092051a अपकृत्ताश्च पतिता मुसलानि गुरूणि च 06092051c परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष 06092052a पतितांस्तोमरांश्चापि चित्रा हेमपरिष्कृताः 06092052c कुथाश्च बहुधाकाराश्चामरव्यजनानि च 06092053a नानाविधानि शस्त्राणि विसृज्य पतिता नराः 06092053c जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः 06092054a गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः 06092054c गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ 06092055a तथैवाश्वनृनागानां शरीरैराबभौ तदा 06092055c संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः 06092056a समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः 06092056c निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः 06092057a परिघैर्भिण्डिपालैश्च शतघ्नीभिस्तथैव च 06092057c शरीरैः शस्त्रभिन्नैश्च समास्तीर्यत मेदिनी 06092058a निःशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः 06092058c गतासुभिरमित्रघ्न विबभौ संवृता मही 06092059a सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः 06092059c हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् 06092060a बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः 06092060c पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी 06092061a कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः 06092061c रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः 06092062a विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः 06092062c विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः 06092063a रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः 06092063c वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः 06092064a अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि 06092064c प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः 06092065a स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही 06092065c नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता 06092066a दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः 06092066c करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः 06092066e विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः 06092067a नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् 06092067c वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः 06092068a घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः 06092068c विघाटितविचित्राभिः कुथाभी राङ्कवैस्तथा 06092069a ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च 06092069c यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः 06092070a अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः 06092070c सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा 06092071a प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः 06092071c उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः 06092072a विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः 06092072c अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा 06092073a नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः 06092073c छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि 06092074a पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः 06092074c कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः 06092075a अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः 06092075c ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा 06092076a एवमेते महासेने मृदिते तत्र भारत 06092076c परस्परं समासाद्य तव तेषां च संयुगे 06092077a तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत 06092077c रात्रिः समभवद्घोरा नापश्याम ततो रणम् 06092078a ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः 06092078c घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे 06092079a अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः 06092079c न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा 06093001 संजय उवाच 06093001a ततो दुर्योधनो राजा शकुनिश्चापि सौबलः 06093001c दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः 06093002a समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् 06093002c कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति 06093003a ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः 06093003c सूतपुत्रं समाभाष्य सौबलं च महाबलम् 06093004a द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे 06093004c न पार्थान्प्रतिबाधन्ते न जाने तत्र कारणम् 06093005a अवध्यमानास्ते चापि क्षपयन्ति बलं मम 06093005c सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे 06093006a निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि 06093006c सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् 06093007a तमब्रवीन्महाराज सूतपुत्रो नराधिपम् 06093007c मा शुचो भरतश्रेष्ठ प्रकरिष्ये प्रियं तव 06093008a भीष्मः शांतनवस्तूर्णमपयातु महारणात् 06093008c निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत 06093009a अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः 06093009c पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप 06093010a पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै 06093010c अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् 06093011a अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः 06093011c स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् 06093012a स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति 06093012c अनुमान्य रणे भीष्मं शस्त्रं न्यासय भारत 06093013a न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् 06093013c मयैकेन रणे राजन्ससुहृद्गणबान्धवान् 06093014a एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव 06093014c अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः 06093015a अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः 06093015c दुःशासन तथा क्षिप्रं सर्वमेवोपपादय 06093016a एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः 06093016c अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् 06093017a आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम 06093017c ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् 06093018a निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते 06093018c सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः 06093019a ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् 06093019c आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा 06093020a अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः 06093020c धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् 06093021a भाण्डीपुष्पनिकाशेन तपनीयनिभेन च 06093021c अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना 06093022a अरजोम्बरसंवीतः सिंहखेलगतिर्नृपः 06093022c शुशुभे विमलार्चिष्मञ्शरदीव दिवाकरः 06093023a तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति 06093023c अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः 06093023e भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् 06093024a हयानन्ये समारुह्य गजानन्ये च भारत 06093024c रथैरन्ये नरश्रेष्ठाः परिवव्रुः समन्ततः 06093025a आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः 06093025c प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि 06093026a संपूज्यमानः कुरुभिः कौरवाणां महारथः 06093026c प्रययौ सदनं राजन्गाङ्गेयस्य यशस्विनः 06093026e अन्वीयमानः सहितैः सोदरैः सर्वतो नृपः 06093027a दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा 06093027c हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् 06093028a प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतोदिशम् 06093028c शुश्राव मधुरा वाचो नानादेशनिवासिनाम् 06093029a संस्तूयमानः सूतैश्च मागधैश्च महायशाः 06093029c पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः 06093030a प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचनैः 06093030c परिवव्रुर्महात्मानं प्रज्वलद्भिः समन्ततः 06093031a स तैः परिवृतो राजा प्रदीपैः काञ्चनैः शुभैः 06093031c शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः 06093032a कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः 06093032c प्रोत्सारयन्तः शनकैस्तं जनं सर्वतोदिशम् 06093033a संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् 06093033c अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः 06093034a अभिवाद्य ततो भीष्मं निषण्णः परमासने 06093034c काञ्चने सर्वतोभद्रे स्पर्ध्यास्तरणसंवृते 06093034e उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः 06093035a त्वां वयं समुपाश्रित्य संयुगे शत्रुसूदन 06093035c उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् 06093036a किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् 06093036c तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो 06093036e जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् 06093037a पूर्वमुक्तं महाबाहो निहनिष्यामि सोमकान् 06093037c पाञ्चालान्पाण्डवैः सार्धं करूषांश्चेति भारत 06093038a तद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् 06093038c सोमकांश्च महेष्वासान्सत्यवाग्भव भारत 06093039a दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो 06093039c मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् 06093040a अनुजानीहि समरे कर्णमाहवशोभिनम् 06093040c स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् 06093041a एतावदुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव 06093041c नोवाच वचनं किंचिद्भीष्मं भीमपराक्रमम् 06094001 संजय उवाच 06094001a वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः 06094001c दुःखेन महताविष्टो नोवाचाप्रियमण्वपि 06094002a स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः 06094002c श्वसमानो यथा नागः प्रणुन्नो वै शलाकया 06094003a उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत 06094003c सदेवासुरगन्धर्वं लोकं लोकविदां वरः 06094003e अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः 06094004a किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि 06094004c घटमानं यथाशक्ति कुर्वाणं च तव प्रियम् 06094004e जुह्वानं समरे प्राणांस्तवैव हितकाम्यया 06094005a यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् 06094005c पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् 06094006a यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा 06094006c अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् 06094007a द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो 06094007c सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् 06094008a यच्च नः सहितान्सर्वान्विराटनगरे तदा 06094008c एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् 06094009a द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे 06094009c कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम् 06094009e वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् 06094010a निवातकवचान्युद्धे वासवेनापि दुर्जयान् 06094010c जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् 06094011a को हि शक्तो रणे जेतुं पाण्डव