% Mahabharata: Virataparvan % Last updated: Thu Dec 1 2011 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 04001001 जनमेजय उवाच 04001001a कथं विराटनगरे मम पूर्वपितामहाः 04001001c अज्ञातवासमुषिता दुर्योधनभयार्दिताः 04001002 वैशंपायन उवाच 04001002a तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः 04001002c गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् 04001003a कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः 04001003c अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् 04001004a ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः 04001004c संनिवर्त्यानुजान्सर्वानिति होवाच भारत 04001005a द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् 04001005c त्रयोदशोऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः 04001006a स साधु कौन्तेय इतो वासमर्जुन रोचय 04001006c यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः 04001007 अर्जुन उवाच 04001007a तस्यैव वरदानेन धर्मस्य मनुजाधिप 04001007c अज्ञाता विचरिष्यामो नराणां भरतर्षभ 04001008a किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् 04001008c रमणीयानि गुप्तानि तेषां किंचित्स्म रोचय 04001009a सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् 04001009c पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः 04001009e दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः 04001010a एतेषां कतमो राजन्निवासस्तव रोचते 04001010c वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् 04001011 युधिष्ठिर उवाच 04001011a एवमेतन्महाबाहो यथा स भगवान्प्रभुः 04001011c अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा 04001012a अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् 04001012c संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् 04001013a मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् 04001013c धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः 04001014a विराटनगरे तात संवत्सरमिमं वयम् 04001014c कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत 04001015a यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् 04001015c कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः 04001016 अर्जुन उवाच 04001016a नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि 04001016c विराटनृपतेः साधो रंस्यसे केन कर्मणा 04001017a मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः 04001017c राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव 04001018a न दुःखमुचितं किंचिद्राजन्वेद यथा जनः 04001018c स इमामापदं प्राप्य कथं घोरां तरिष्यसि 04001019 युधिष्ठिर उवाच 04001019a शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः 04001019c विराटमनुसंप्राप्य राजानं पुरुषर्षभम् 04001020a सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः 04001020c कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता 04001021a वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह 04001021c कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् 04001022a आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा 04001022c इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते 04001023a इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा 04001023c वृकोदर विराटे त्वं रंस्यसे केन कर्मणा 04002001 भीम उवाच 04002001a पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः 04002001c उपस्थास्यामि राजानं विराटमिति मे मतिः 04002002a सूपानस्य करिष्यामि कुशलोऽस्मि महानसे 04002002c कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः 04002002e तानप्यभिभविष्यामि प्रीतिं संजनयन्नहम् 04002003a आहरिष्यामि दारूणां निचयान्महतोऽपि च 04002003c तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति 04002004a द्विपा वा बलिनो राजन्वृषभा वा महाबलाः 04002004c विनिग्राह्या यदि मया निग्रहीष्यामि तानपि 04002005a ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः 04002005c तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् 04002006a न त्वेतान्युध्यमानान्वै हनिष्यामि कथंचन 04002006c तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् 04002007a आरालिको गोविकर्ता सूपकर्ता नियोधकः 04002007c आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः 04002008a आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते 04002008c इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा 04002009 युधिष्ठिर उवाच 04002009a यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् 04002009c दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा 04002010a महाबलं महाबाहुमजितं कुरुनन्दनम् 04002010c सोऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः 04002011a योऽयमासाद्य तं दावं तर्पयामास पावकम् 04002011c विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् 04002011e श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति 04002012a सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः 04002012c आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः 04002013a आयुधानां वरो वज्रः ककुद्मी च गवां वरः 04002013c ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः 04002014a धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः 04002014c पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा 04002015a यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर 04002015c एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् 04002016a सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत 04002016c गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति 04002017a उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि 04002017c दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता 04002018a यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् 04002018c यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ 04002018e दक्षिणे चैव सव्ये च गवामिव वहः कृतः 04002019a हिमवानिव शैलानां समुद्रः सरितामिव 04002019c त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् 04002020a मृगाणामिव शार्दूलो गरुडः पततामिव 04002020c वरः संनह्यमानानामर्जुनः किं करिष्यति 04002021 अर्जुन उवाच 04002021a प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते 04002021c ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ 04002022a कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे 04002022c वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा 04002023a पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः 04002023c रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् 04002024a गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा 04002024c शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः 04002025a प्रजानां समुदाचारं बहु कर्मकृतं वदन् 04002025c छादयिष्यामि कौन्तेय माययात्मानमात्मना 04002026a युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका 04002026c उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत 04002027a एतेन विधिना छन्नः कृतकेन यथा नलः 04002027c विहरिष्यामि राजेन्द्र विराटभवने सुखम् 04003001 युधिष्ठिर उवाच 04003001a किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि 04003001c सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः 04003002 नकुल उवाच 04003002a अश्वबन्धो भविष्यामि विराटनृपतेरहम् 04003002c ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम 04003003a कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते 04003003c प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव 04003004a ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः 04003004c तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा 04003005 युधिष्ठिर उवाच 04003005a सहदेव कथं तस्य समीपे विहरिष्यसि 04003005c किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि 04003006 सहदेव उवाच 04003006a गोसंख्याता भविष्यामि विराटस्य महीपतेः 04003006c प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् 04003007a तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते 04003007c निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः 04003008a अहं हि भवता गोषु सततं प्रकृतः पुरा 04003008c तत्र मे कौशलं कर्म अवबुद्धं विशां पते 04003009a लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् 04003009c तत्सर्वं मे सुविदितमन्यच्चापि महीपते 04003010a वृषभानपि जानामि राजन्पूजितलक्षणान् 04003010c येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते 04003011a सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा 04003011c न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव 04003012 युधिष्ठिर उवाच 04003012a इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी 04003012c मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा 04003013a केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति 04003013c न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः 04003014a सुकुमारी च बाला च राजपुत्री यशस्विनी 04003014c पतिव्रता महाभागा कथं नु विचरिष्यति 04003015a माल्यगन्धानलंकारान्वस्त्राणि विविधानि च 04003015c एतान्येवाभिजानाति यतो जाता हि भामिनी 04003016 द्रौपद्युवाच 04003016a सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत 04003016c नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः 04003017a साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि 04003017c आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि 04003018a सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् 04003018c सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् 04003019 युधिष्ठिर उवाच 04003019a कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् 04003019c न पापमभिजानासि साधु साध्वीव्रते स्थिता 04004001 युधिष्ठिर उवाच 04004001a कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ 04004001c मम चापि यथाबुद्धि रुचितानि विनिश्चयात् 04004002a पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु 04004002c सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने 04004003a इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् 04004003c यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः 04004004a इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः 04004004c पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह 04004005a सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः 04004005c गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति 04004006 धौम्य उवाच 04004006a विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः 04004006c अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत 04004007a हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः 04004007c यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति 04004008a दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि 04004008c अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् 04004009a दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् 04004009c तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः 04004010a नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् 04004010c आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् 04004011a अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः 04004011c न तत्रोपविशेज्जातु स राजवसतिं वसेत् 04004012a न चानुशिष्येद्राजानमपृच्छन्तं कदाचन 04004012c तूष्णीं त्वेनमुपासीत काले समभिपूजयन् 04004013a असूयन्ति हि राजानो जनाननृतवादिनः 04004013c तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा 04004014a नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन 04004014c अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये 04004015a विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि 04004015c एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् 04004016a यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह 04004016c अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् 04004017a यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् 04004017c प्रमादमवहेलां च कोपं च परिवर्जयेत् 04004018a समर्थनासु सर्वासु हितं च प्रियमेव च 04004018c संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् 04004019a अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च 04004019c अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् 04004020a नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः 04004020c अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् 04004021a नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् 04004021c स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् 04004022a दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः 04004022c रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते 04004022e नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् 04004023a न च संदर्शने किंचित्प्रवृद्धमपि संजपेत् 04004023c अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् 04004024a न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् 04004024c यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् 04004025a शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः 04004025c प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् 04004026a ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः 04004026c अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च 04004027a यस्य कोपो महाबाधः प्रसादश्च महाफलः 04004027c कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः 04004028a न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् 04004028c सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः 04004029a हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् 04004029c नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् 04004030a न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा 04004030c स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् 04004031a लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः 04004031c असंमूढश्च यो नित्यं स राजवसतिं वसेत् 04004032a राजानं राजपुत्रं वा संवर्तयति यः सदा 04004032c अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् 04004033a प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः 04004033c न निर्बध्नाति राजानं लभते प्रग्रहं पुनः 04004034a प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः 04004034c उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् 04004035a अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः 04004035c न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् 04004036a श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् 04004036c विशेषयेन्न राजानं योग्याभूमिषु सर्वदा 04004037a अम्लानो बलवाञ्शूरश्छायेवानपगः सदा 04004037c सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् 04004038a अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् 04004038c अहं किं करवाणीति स राजवसतिं वसेत् 04004039a उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा 04004039c आदिष्टो न विकल्पेत स राजवसतिं वसेत् 04004040a यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् 04004040c दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् 04004041a समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् 04004041c मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् 04004042a न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत् 04004042c प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् 04004043a यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति 04004043c तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् 04004044a संवत्सरमिमं तात तथाशीला बुभूषवः 04004044c अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ 04004045 युधिष्ठिर उवाच 04004045a अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन 04004045c कुन्तीमृते मातरं नो विदुरं च महामतिम् 04004046a यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति 04004046c तारणायास्य दुःखस्य प्रस्थानाय जयाय च 04004047 वैशंपायन उवाच 04004047a एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः 04004047c अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते 04004048a तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः 04004048c समृद्धिवृद्धिलाभाय पृथिवीविजयाय च 04004049a अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् 04004049c याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः 04005001 वैशंपायन उवाच 04005001a ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः 04005001c बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः 04005002a ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः 04005002c वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः 04005003a विध्यन्तो मृगजातानि महेष्वासा महाबलाः 04005003c उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु 04005004a अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः 04005004c लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् 04005005a ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् 04005005c पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च 04005006a व्यक्तं दूरे विराटस्य राजधानी भविष्यति 04005006c वसामेह परां रात्रिं बलवान्मे परिश्रमः 04005007 युधिष्ठिर उवाच 04005007a धनंजय समुद्यम्य पाञ्चालीं वह भारत 04005007c राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः 04005008 वैशंपायन उवाच 04005008a तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव 04005008c संप्राप्य नगराभ्याशमवतारयदर्जुनः 04005009a स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत् 04005009c क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् 04005010a सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि 04005010c समुद्वेगं जनस्यास्य करिष्यामो न संशयः 04005011a ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः 04005011c एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा 04005012 अर्जुन उवाच 04005012a इयं कूटे मनुष्येन्द्र गहना महती शमी 04005012c भीमशाखा दुरारोहा श्मशानस्य समीपतः 04005013a न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव 04005013c उत्पथे हि वने जाता मृगव्यालनिषेविते 04005014a समासज्यायुधान्यस्यां गच्छामो नगरं प्रति 04005014c एवमत्र यथाजोषं विहरिष्याम भारत 04005015 वैशंपायन उवाच 04005015a एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् 04005015c प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ 04005016a येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् 04005016c स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः 04005017a तदुदारं महाघोषं सपत्नगणसूदनम् 04005017c अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम् 04005018a येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः 04005018c अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः 04005019a पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः 04005019c प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये 04005020a निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे 04005020c पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव 04005021a सैन्धवं येन राजानं परामृषत चानघ 04005021c ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् 04005022a अजयत्पश्चिमामाशां धनुषा येन पाण्डवः 04005022c तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि 04005023a दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः 04005023c अपज्यमकरोद्वीरः सहदेवस्तदायुधम् 04005024a खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् 04005024c विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह 04005025a तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् 04005025c यानि तस्यावकाशानि दृढरूपाण्यमन्यत 04005026a यत्र चापश्यत स वै तिरो वर्षाणि वर्षति 04005026c तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत 04005027a शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः 04005027c विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् 04005027e आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् 04005028a अशीतिशतवर्षेयं माता न इति वादिनः 04005028c कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च 04005028e समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते 04005029a आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः 04005029c आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः 04005030a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04005030c इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः 04005031a ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् 04005031c अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् 04006001 वैशंपायन उवाच 04006001a ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् 04006001c वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा 04006002a नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः 04006002c महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः 04006003a बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा 04006003c महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान् 04006004a तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् 04006004c मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते 04006004e पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम् 04006005a न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् 04006005c न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् 04006006a शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् 04006006c समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः 04006007a वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् 04006007c सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् 04006008a इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो 04006008c तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च 04006009a कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः 04006009c गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् 04006010 युधिष्ठिर उवाच 04006010a युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः 04006010c अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः 04006011 विराट उवाच 04006011a ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव 04006011c प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति 04006012 युधिष्ठिर उवाच 04006012a आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः 04006012c न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः 04006013 विराट उवाच 04006013a हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा 04006013c शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा 04006014a समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः 04006014c पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया 04006015a ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा 04006015c दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम 04006016 वैशंपायन उवाच 04006016a एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा 04006016c उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् 04007001 वैशंपायन उवाच 04007001a अथापरो भीमबलः श्रिया ज्वल;न्नुपाययौ सिंहविलासविक्रमः 04007001c खजं च दर्वीं च करेण धारय;न्नसिं च कालाङ्गमकोशमव्रणम् 04007002a स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन् 04007002c सुकृष्णवासा गिरिराजसारवा;न्स मत्स्यराजं समुपेत्य तस्थिवान् 04007003a तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान् 04007003c सिंहोन्नतांसोऽयमतीव रूपवा;न्प्रदृश्यते को नु नरर्षभो युवा 04007004a अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि संपदम् 04007004c तथास्य चित्तं ह्यपि संवितर्कय;न्नरर्षभस्याद्य न यामि तत्त्वतः 04007005a ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः 04007005c उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् 04007006 विराट उवाच 04007006a न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे 04007006c श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह 04007007 भीम उवाच 04007007a नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् 04007007c आस्वादिता ये नृपते पुराभव;न्युधिष्ठिरेणापि नृपेण सर्वशः 04007008a बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव 04007008c गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् 04007009 विराट उवाच 04007009a ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे 04007009c न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि 04007010a यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः 04007010c नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः 04007011 वैशंपायन उवाच 04007011a तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम् 04007011c उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन 04008001 वैशंपायन उवाच 04008001a ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान् 04008001c जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना 04008002a वासश्च परिधायैकं कृष्णं सुमलिनं महत् 04008002c कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् 04008003a तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् 04008003c अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि 04008004a सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता 04008004c कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति 04008005a तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा 04008005c नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् 04008006a विराटस्य तु कैकेयी भार्या परमसंमता 04008006c अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् 04008007a सा समीक्ष्य तथारूपामनाथामेकवाससम् 04008007c समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि 04008008a सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता 04008008c कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति 04008009 सुदेष्णोवाच 04008009a नैवंरूपा भवन्त्येवं यथा वदसि भामिनि 04008009c प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् 04008010a गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता 04008010c रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी 04008011a सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा 04008011c तेन तेनैव संपन्ना काश्मीरीव तुरंगमा 04008012a स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा 04008012c कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना 04008013a का त्वं ब्रूहि यथा भद्रे नासि दासी कथंचन 04008013c यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः 04008014a अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी 04008014c इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः 04008014e देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे 04008015 द्रौपद्युवाच 04008015a नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी 04008015c सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते 04008016a केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम् 04008016c ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः 04008017a आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम् 04008017c कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् 04008018a तत्र तत्र चराम्येवं लभमाना सुशोभनम् 04008018c वासांसि यावच्च लभे तावत्तावद्रमे तथा 04008019a मालिनीत्येव मे नाम स्वयं देवी चकार सा 04008019c साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् 04008020 सुदेष्णोवाच 04008020a मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते 04008020c नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा 04008021a स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि 04008021c प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः 04008022a वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि 04008022c तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः 04008023a राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् 04008023c विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा 04008024a यं हि त्वमनवद्याङ्गि नरमायतलोचने 04008024c प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् 04008025a यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि 04008025c एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् 04008026a यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः 04008026c तथाविधमहं मन्ये वासं तव शुचिस्मिते 04008027 द्रौपद्युवाच 04008027a नास्मि लभ्या विराटेन न चान्येन कथंचन 04008027c गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि 04008028a पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् 04008028c रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् 04008029a यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् 04008029c प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम 04008030a यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः 04008030c तामेव स ततो रात्रिं प्रविशेदपरां तनुम् 04008031a न चाप्यहं चालयितुं शक्या केनचिदङ्गने 04008031c दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः 04008032 सुदेष्णोवाच 04008032a एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि 04008032c न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन 04008033 वैशंपायन उवाच 04008033a एवं कृष्णा विराटस्य भार्यया परिसान्त्विता 04008033c न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय 04009001 वैशंपायन उवाच 04009001a सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् 04009001c भाषां चैषां समास्थाय विराटमुपयादथ 04009002a तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् 04009002c समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् 04009003a कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि 04009003c न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ 04009004a स प्राप्य राजानममित्रतापन;स्ततोऽब्रवीन्मेघमहौघनिःस्वनः 04009004c वैश्योऽस्मि नाम्नाहमरिष्टनेमि;र्गोसंख्य आसं कुरुपुंगवानाम् 04009005a वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान् 04009005c न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः 04009006 विराट उवाच 04009006a त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि 04009006c आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् 04009007a कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम् 04009007c कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् 04009008 सहदेव उवाच 04009008a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04009008c तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः 04009009a अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे 04009009c तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः 04009010a भूतं भव्यं भविष्यच्च यच्च संख्यागतं क्वचित् 04009010c न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् 04009011a गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः 04009011c आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः 04009012a क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित् 04009012c तैस्तैरुपायैर्विदितं मयैत;देतानि शिल्पानि मयि स्थितानि 04009013a वृषभांश्चापि जानामि राजन्पूजितलक्षणान् 04009013c येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते 04009014 विराट उवाच 04009014a शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः 04009014c पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह 04009015 वैशंपायन उवाच 04009015a तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः 04009015c न चैनमन्येऽपि विदुः कथंचन; प्रादाच्च तस्मै भरणं यथेप्सितम् 04010001 वैशंपायन उवाच 04010001a अथापरोऽदृश्यत रूपसंपदा; स्त्रीणामलंकारधरो बृहत्पुमान् 04010001c प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे 04010002a बहूंश्च दीर्घांश्च विकीर्य मूर्धजा;न्महाभुजो वारणमत्तविक्रमः 04010002c गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः 04010003a तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम् 04010003c विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् 04010004a सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः 04010004c न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् 04010005a सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः 04010005c विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले 04010006a शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा 04010006c आरुह्य यानं परिधावतां भवा;न्सुतैः समो मे भव वा मया समः 04010007a वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व 04010007c नैवंविधाः क्लीबरूपा भवन्ति; कथंचनेति प्रतिभाति मे मनः 04010008 अर्जुन उवाच 04010008a गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते 04010008c त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः 04010009a इदं तु रूपं मम येन किं नु त;त्प्रकीर्तयित्वा भृशशोकवर्धनम् 04010009c बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् 04010010 विराट उवाच 04010010a ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः 04010010c इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि 04010011 वैशंपायन उवाच 04010011a बृहन्नडां तामभिवीक्ष्य मत्स्यरा;ट्कलासु नृत्ते च तथैव वादिते 04010011c अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् 04010012a स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनंजयः प्रभुः 04010012c सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः 04010013a तथा स सत्रेण धनंजयोऽवस;त्प्रियाणि कुर्वन्सह ताभिरात्मवान् 04010013c तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथ वान्तरेचराः 04011001 वैशंपायन उवाच 04011001a अथापरोऽदृश्यत पाण्डवः प्रभु;र्विराटराज्ञस्तुरगान्समीक्षतः 04011001c तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् 04011002a स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् 04011002c ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः 04011003a अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः 04011003c प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा 04011004a अभ्येत्य राजानममित्रहाब्रवी;ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च 04011004c हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् 04011005 विराट उवाच 04011005a ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि 04011005c कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् 04011006 नकुल उवाच 04011006a पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः 04011006c तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन 04011007a अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः 04011007c दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् 04011008a न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः 04011008c जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः 04011009 विराट उवाच 04011009a यदस्ति किंचिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै 04011009c ये चापि केचिन्मम वाजियोजका;स्त्वदाश्रयाः सारथयश्च सन्तु मे 04011010a इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु 04011010c न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम 04011011a युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् 04011011c कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः 04011012 वैशंपायन उवाच 04011012a तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः 04011012c न चैनमन्येऽपि विदुः कथंचन; प्रियाभिरामं विचरन्तमन्तरा 04011013a एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः 04011013c अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः 04012001 जनमेजय उवाच 04012001a एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः 04012001c अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज 04012002 वैशंपायन उवाच 04012002a एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः 04012002c आराधयन्तो राजानं यदकुर्वन्त तच्छृणु 04012003a युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः 04012003c तथैव च विराटस्य सपुत्रस्य विशां पते 04012004a स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः 04012004c अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् 04012005a अज्ञातं च विराटस्य विजित्य वसु धर्मराट् 04012005c भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति 04012006a भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च 04012006c अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे 04012007a वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः 04012007c विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति 04012008a सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः 04012008c दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति 04012009a नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् 04012009c तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति 04012010a कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी 04012010c यथा पुनरविज्ञाता तथा चरति भामिनी 04012011a एवं संपादयन्तस्ते तथान्योन्यं महारथाः 04012011c प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप 04012012a अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः 04012012c आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः 04012013a तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः 04012013c महाकाया महावीर्याः कालखञ्जा इवासुराः 04012014a वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः 04012014c सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः 04012014e असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ 04012015a तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् 04012015c आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन 04012016a यदा सर्वे विमनसस्ते मल्ला हतचेतसः 04012016c अथ सूदेन तं मल्लं योधयामास मत्स्यराट् 04012017a चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् 04012017c न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् 04012018a ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् 04012018c प्रविवेश महारङ्गं विराटमभिहर्षयन् 04012019a बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् 04012019c ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् 04012020a तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ 04012020c मत्ताविव महाकायौ वारणौ षष्टिहायनौ 04012021a चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा 04012021c विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् 04012022a तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् 04012022c ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् 04012023a भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् 04012023c प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः 04012024a तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते 04012024c विराटः परमं हर्षमगच्छद्बान्धवैः सह 04012025a संहर्षात्प्रददौ वित्तं बहु राजा महामनाः 04012025c बल्लवाय महारङ्गे यथा वैश्रवणस्तथा 04012026a एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् 04012026c विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् 04012027a यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते 04012027c ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् 04012028a पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः 04012028c योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः 04012029a बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः 04012029c विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः 04012030a अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः 04012030c तोषयामास नकुलो राजानं राजसत्तम 04012031a तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु 04012031c विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो 04012032a एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः 04012032c कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा 04013001 वैशंपायन उवाच 04013001a वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा 04013001c महारथेषु छन्नेषु मासा दश समत्ययुः 04013002a याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते 04013002c अवसत्परिचारार्हा सुदुःखं जनमेजय 04013003a तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने 04013003c सेनापतिर्विराटस्य ददर्श जलजाननाम् 04013004a तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव 04013004c कीचकः कामयामास कामबाणप्रपीडितः 04013005a स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै 04013005c प्रहसन्निव सेनानीरिदं वचनमब्रवीत् 04013006a नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा 04013006c रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी 04013007a का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश्च शोभना 04013007c चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् 04013008a अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम् 04013008c अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किंचन 04013009a प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम् 04013009c मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम 04013010a ततः सुदेष्णामनुमन्त्र्य कीचक;स्ततः समभ्येत्य नराधिपात्मजाम् 04013010c उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने 04013011a इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि 04013011c अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती 04013012a त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि 04013012c अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने 04013013 द्रौपद्युवाच 04013013a अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे 04013013c विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् 04013014a परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् 04013014c दयिताः प्राणिनां दारा धर्मं समनुचिन्तय 04013015a परदारे न ते बुद्धिर्जातु कार्या कथंचन 04013015c विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् 04013016a मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः 04013016c अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् 04013017a मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् 04013017c दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् 04013018a न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम 04013018c ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः 04013019a अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि 04013019c यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् 04013019e तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि 04013020a अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि 04013020c तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः 04013021a त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक 04013021c किं मातुरङ्के शयितो यथा शिशु;श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् 04014001 वैशंपायन उवाच 04014001a प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत् 04014001c अमर्यादेन कामेन घोरेणाभिपरिप्लुतः 04014002a यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम् 04014002c तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् 04014003a तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा 04014003c विराटमहिषी देवी कृपां चक्रे मनस्विनी 04014004a स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च 04014004c उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् 04014005a पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय 04014005c तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् 04014006a तत्र संप्रेषितामेनां विजने निरवग्रहाम् 04014006c सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि 04014007a कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा 04014007c सुरामाहारयामास राजार्हां सुपरिस्रुताम् 04014008a आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान् 04014008c कारयामास कुशलैरन्नपानं सुशोभनम् 04014009a तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता 04014009c सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् 04014010 सुदेष्णोवाच 04014010a उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् 04014010c पानमानय कल्याणि पिपासा मां प्रबाधते 04014011 द्रौपद्युवाच 04014011a न गच्छेयमहं तस्य राजपुत्रि निवेशनम् 04014011c त्वमेव राज्ञि जानासि यथा स निरपत्रपः 04014012a न चाहमनवद्याङ्गि तव वेश्मनि भामिनि 04014012c कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी 04014013a त्वं चैव देवि जानासि यथा स समयः कृतः 04014013c प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि 04014014a कीचकश्च सुकेशान्ते मूढो मदनदर्पितः 04014014c सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने 04014015a सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः 04014015c अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते 04014016 सुदेष्णोवाच 04014016a नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया 04014017 वैशंपायन उवाच 04014017a इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम् 04014017c सा शङ्कमाना रुदती दैवं शरणमीयुषी 04014017e प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् 04014018 द्रौपद्युवाच 04014018a यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन 04014018c तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः 04014019 वैशंपायन उवाच 04014019a उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः 04014019c स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् 04014020a अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् 04014020c तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् 04014021a तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् 04014021c उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः 04015001 कीचक उवाच 04015001a स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम 04015001c स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् 04015002a सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके 04015002c आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च 04015003a अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् 04015003c एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् 04015004 द्रौपद्युवाच 04015004a अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् 04015004c पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् 04015005 कीचक उवाच 04015005a अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् 04015006 वैशंपायन उवाच 04015006a इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् 04015006c सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् 04015006e सभां शरणमाधावद्यत्र राजा युधिष्ठिरः 04015007a तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् 04015007c अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् 04015008a ततो योऽसौ तदार्केण राक्षसः संनियोजितः 04015008c स कीचकमपोवाह वातवेगेन भारत 04015009a स पपात ततो भूमौ रक्षोबलसमाहतः 04015009c विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः 04015010a तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ 04015010c अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् 04015011a तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः 04015011c दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः 04015012a अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् 04015012c प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् 04015013a सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् 04015013c अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः 04015014a आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् 04015014c दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा 04015015 द्रौपद्युवाच 04015015a येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् 04015015c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015016a ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः 04015016c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015017a येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् 04015017c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015018a ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः 04015018c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015019a सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये 04015019c तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् 04015020a शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् 04015020c चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः 04015021a कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् 04015021c मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः 04015022a क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते 04015022c न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना 04015023a मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् 04015023c यः पश्यन्मां मर्षयति वध्यमानामनागसम् 04015024a न राजन्राजवत्किंचित्समाचरसि कीचके 04015024c दस्यूनामिव धर्मस्ते न हि संसदि शोभते 04015025a न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन 04015025c सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते 04015026a नोपालभे त्वां नृपते विराट जनसंसदि 04015026c नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके 04015026e सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् 04015027 विराट उवाच 04015027a परोक्षं नाभिजानामि विग्रहं युवयोरहम् 04015027c अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम 04015028 वैशंपायन उवाच 04015028a ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् 04015028c साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् 04015029 सभ्या ऊचुः 04015029a यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा 04015029c परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन 04015030 वैशंपायन उवाच 04015030a एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः 04015030c युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् 04015031a अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04015031c गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् 04015032a भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः 04015032c शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत 04015033a मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव 04015033c तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः 04015034a अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि 04015034c विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि 04015034e गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् 04015035 द्रौपद्युवाच 04015035a अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी 04015035c तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता 04015036 वैशंपायन उवाच 04015036a इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् 04015036c केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा 04015037a शुशुभे वदनं तस्या रुदन्त्या विरतं तदा 04015037c मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् 04015038 सुदेष्णोवाच 04015038a कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने 04015038c कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् 04015039 द्रौपद्युवाच 04015039a कीचको मावधीत्तत्र सुराहारीं गतां तव 04015039c सभायां पश्यतो राज्ञो यथैव विजने तथा 04015040 सुदेष्णोवाच 04015040a घातयामि सुकेशान्ते कीचकं यदि मन्यसे 04015040c योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते 04015041 द्रौपद्युवाच 04015041a अन्ये वै तं वधिष्यन्ति येषामागः करोति सः 04015041c मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति 04016001 वैशंपायन उवाच 04016001a सा हता सूतपुत्रेण राजपुत्री समज्वलत् 04016001c वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी 04016001e जगामावासमेवाथ तदा सा द्रुपदात्मजा 04016002a कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा 04016002c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04016003a चिन्तयामास रुदती तस्य दुःखस्य निर्णयम् 04016003c किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम 04016004a इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत् 04016004c नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् 04016005a तत उत्थाय रात्रौ सा विहाय शयनं स्वकम् 04016005c प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती 04016005e दुःखेन महता युक्ता मानसेन मनस्विनी 04016006a सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता 04016006c सर्वश्वेतेव माहेयी वने जाता त्रिहायनी 04016006e उपातिष्ठत पाञ्चाली वाशितेव महागजम् 04016007a सा लतेव महाशालं फुल्लं गोमतितीरजम् 04016007c बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता 04016007e सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव 04016008a वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता 04016008c अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता 04016009a उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः 04016009c नामृतस्य हि पापीयान्भार्यामालभ्य जीवति 04016010a तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि 04016010c तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे 04016011a स संप्रहाय शयनं राजपुत्र्या प्रबोधितः 04016011c उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे 04016012a अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् 04016012c केनास्यर्थेन संप्राप्ता त्वरितेव ममान्तिकम् 04016013a न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे 04016013c आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा 04016014a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 04016014c यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् 04016015a अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु 04016015c अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः 04016016a शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम् 04016016c गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते 04017001 द्रौपद्युवाच 04017001a अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः 04017001c जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि 04017002a यन्मां दासीप्रवादेन प्रातिकामी तदानयत् 04017002c सभायां पार्षदो मध्ये तन्मां दहति भारत 04017003a पार्थिवस्य सुता नाम का नु जीवेत मादृशी 04017003c अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो 04017004a वनवासगतायाश्च सैन्धवेन दुरात्मना 04017004c परामर्शं द्वितीयं च सोढुमुत्सहते नु का 04017005a मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः 04017005c कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी 04017006a एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत 04017006c न मां जानासि कौन्तेय किं फलं जीवितेन मे 04017007a योऽयं राज्ञो विराटस्य कीचको नाम भारत 04017007c सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः 04017008a स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि 04017008c नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै 04017009a तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् 04017009c कालेनेव फलं पक्वं हृदयं मे विदीर्यते 04017010a भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् 04017010c यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् 04017011a को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह 04017011c प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् 04017012a यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् 04017012c सायंप्रातरदेविष्यदपि संवत्सरान्बहून् 04017013a रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् 04017013c अश्वाश्वतरसंघांश्च न जातु क्षयमावहेत् 04017014a सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः 04017014c तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् 04017015a दश नागसहस्राणि पद्मिनां हेममालिनाम् 04017015c यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति 04017016a तथा शतसहस्राणि नृणाममिततेजसाम् 04017016c उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् 04017017a शतं दासीसहस्राणि यस्य नित्यं महानसे 04017017c पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत 04017018a एष निष्कसहस्राणि प्रदाय ददतां वरः 04017018c द्यूतजेन ह्यनर्थेन महता समुपावृतः 04017019a एनं हि स्वरसंपन्ना बहवः सूतमागधाः 04017019c सायंप्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः 04017020a सहस्रमृषयो यस्य नित्यमासन्सभासदः 04017020c तपःश्रुतोपसंपन्नाः सर्वकामैरुपस्थिताः 04017021a अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् 04017021c बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः 04017022a स एष निरयं प्राप्तो मत्स्यस्य परिचारकः 04017022c सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः 04017023a इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः 04017023c आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति 04017024a पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः 04017024c स वशे विवशो राजा परेषामद्य वर्तते 04017025a प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा 04017025c सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः 04017026a यमुपासन्त राजानः सभायामृषिभिः सह 04017026c तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् 04017027a अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् 04017027c दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् 04017028a उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा 04017028c तमुपासीनमद्यान्यं पश्य भारत भारतम् 04017029a एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् 04017029c शोकसागरमध्यस्थां किं मां भीम न पश्यसि 04018001 द्रौपद्युवाच 04018001a इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत 04018001c न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् 04018002a शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा 04018002c कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् 04018003a प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् 04018003c प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव 04018004a स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता 04018004c योध्यमानं महावीर्यैरिमं समनुशोचति 04018005a कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः 04018005c स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ 04018006a सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी 04018006c अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ 04018007a इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् 04018007c क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि 04018008a तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् 04018008c शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे 04018009a यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् 04018009c सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04018010a योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् 04018010c सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः 04018011a यस्माद्भयममित्राणां सदैव पुरुषर्षभात् 04018011c स लोकपरिभूतेन वेषेणास्ते धनंजयः 04018012a यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः 04018012c स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते 04018013a किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते 04018013c वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः 04018014a यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि 04018014c आधारः सर्वविद्यानां स धारयति कुण्डले 04018015a यं स्म राजसहस्राणि तेजसाप्रतिमानि वै 04018015c समरे नातिवर्तन्ते वेलामिव महार्णवः 04018016a सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा 04018016c आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः 04018017a यस्य स्म रथघोषेण समकम्पत मेदिनी 04018017c सपर्वतवना भीम सहस्थावरजङ्गमा 04018018a यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत 04018018c स शोचयति मामद्य भीमसेन तवानुजः 04018019a भूषितं तमलंकारैः कुण्डलैः परिहाटकैः 04018019c कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः 04018020a तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् 04018020c कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः 04018021a यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् 04018021c प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः 04018022a मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् 04018022c पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा 04018023a नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् 04018023c अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् 04018024a तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् 04018024c गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत 04018025a सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः 04018025c न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् 04018025e यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः 04018026a दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् 04018026c गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् 04018027a संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् 04018027c विराटमभिनन्दन्तमथ मे भवति ज्वरः 04018028a सहदेवं हि मे वीरं नित्यमार्या प्रशंसति 04018028c महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति 04018029a ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे 04018029c स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि 04018030a तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् 04018030c सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव 04018031a यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया 04018031c सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् 04018032a अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् 04018032c विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः 04018033a अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् 04018033c विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः 04018034a किं नु मां मन्यसे पार्थ सुखितेति परंतप 04018034c एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः 04018035a अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत 04018035c वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि 04018036a युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत 04018036c शोषयन्ति शरीरं मे किं नु दुःखमतः परम् 04019001 द्रौपद्युवाच 04019001a अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि 04019001c शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् 04019002a विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप 04019002c आसे कालमुपासीना सर्वं दुःखं किलार्तवत् 04019003a अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ 04019003c इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः 04019004a य एव हेतुर्भवति पुरुषस्य जयावहः 04019004c पराजये च हेतुः स इति च प्रतिपालये 04019005a दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे 04019005c पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् 04019006a न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् 04019006c इति चाप्यागमं भूयो दैवस्य प्रतिपालये 04019007a स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति 04019007c इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः 04019008a दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते 04019008c दैवस्य चागमे यत्नस्तेन कार्यो विजानता 04019009a यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् 04019009c पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते 04019010a महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च 04019010c इमामवस्थां संप्राप्ता का मदन्या जिजीविषेत् 04019011a कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत 04019011c पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम 04019012a भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् 04019012c एवं समुदिता नारी का न्वन्या दुःखिता भवेत् 04019013a नूनं हि बालया धातुर्मया वै विप्रियं कृतम् 04019013c यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ 04019014a वर्णावकाशमपि मे पश्य पाण्डव यादृशम् 04019014c यादृशो मे न तत्रासीद्दुःखे परमके तदा 04019015a त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा 04019015c साहं दासत्वमापन्ना न शान्तिमवशा लभे 04019016a नादैविकमिदं मन्ये यत्र पार्थो धनंजयः 04019016c भीमधन्वा महाबाहुरास्ते शान्त इवानलः 04019017a अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः 04019017c विनिपातमिमं मन्ये युष्माकमविचिन्तितम् 04019018a यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा 04019018c सा प्रेक्षे मुखमन्यासामवराणां वरा सती 04019019a पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा 04019019c युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् 04019020a यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी 04019020c आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी 04019021a यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः 04019021c साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी 04019021e इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् 04019022a या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः 04019022c अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् 04019022e पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा 04019023 वैशंपायन उवाच 04019023a इत्यस्य दर्शयामास किणबद्धौ करावुभौ 04019024 द्रौपद्युवाच 04019024a बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन 04019024c साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी 04019025a किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा 04019025c नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते 04019026 वैशंपायन उवाच 04019026a सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी 04019026c रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती 04019027a सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः 04019027c हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् 04019028a नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा 04019028c अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव 04019029a ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः 04019029c मुखमानीय वेपन्त्या रुरोद परवीरहा 04019030a तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् 04019030c ततः परमदुःखार्त इदं वचनमब्रवीत् 04020001 भीमसेन उवाच 04020001a धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च 04020001c यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ 04020002a सभायां स्म विराटस्य करोमि कदनं महत् 04020002c तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् 04020002e तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि 04020003a यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः 04020003c सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च 04020004a दुःशासनस्य पापस्य यन्मया न हृतं शिरः 04020004c तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् 04020004e मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते 04020005a इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः 04020005c शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् 04020006a धनंजयो वा सुश्रोणि यमौ वा तनुमध्यमे 04020006c लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् 04020007a सुकन्या नाम शार्याती भार्गवं च्यवनं वने 04020007c वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी 04020008a नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता 04020008c पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् 04020009a दुहिता जनकस्यापि वैदेही यदि ते श्रुता 04020009c पतिमन्वचरत्सीता महारण्यनिवासिनम् 04020010a रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया 04020010c क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत 04020011a लोपामुद्रा तथा भीरु वयोरूपसमन्विता 04020011c अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् 04020012a यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः 04020012c तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः 04020013a मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम् 04020013c पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि 04020014 द्रौपद्युवाच 04020014a आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम् 04020014c अपारयन्त्या दुःखानि न राजानमुपालभे 04020015a विमुक्तेन व्यतीतेन भीमसेन महाबल 04020015c प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव 04020016a ममेह भीम कैकेयी रूपाभिभवशङ्कया 04020016c नित्यमुद्विजते राजा कथं नेयादिमामिति 04020017a तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः 04020017c कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् 04020018a तमहं कुपिता भीम पुनः कोपं नियम्य च 04020018c अब्रुवं कामसंमूढमात्मानं रक्ष कीचक 04020019a गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया 04020019c ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः 04020020a एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह 04020020c नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते 04020021a शतं सहस्रमपि वा गन्धर्वाणामहं रणे 04020021c समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् 04020022a इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः 04020022c न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् 04020023a धर्मे स्थितास्मि सततं कुलशीलसमन्विता 04020023c नेच्छामि कंचिद्वध्यन्तं तेन जीवसि कीचक 04020024a एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा 04020024c न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति 04020025a पापात्मा पापभावश्च कामरागवशानुगः 04020025c अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः 04020025e दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् 04020026a तद्धर्मे यतमानानां महान्धर्मो नशिष्यति 04020026c समयं रक्षमाणानां भार्या वो न भविष्यति 04020027a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 04020027c प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः 04020028a वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम् 04020028c क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् 04020029a पश्यतो धर्मराजस्य कीचको मां पदावधीत् 04020029c तव चैव समक्षं वै भीमसेन महाबल 04020030a त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात् 04020030c जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह 04020031a जहीममपि पापं त्वं योऽयं मामवमन्यते 04020031c कीचको राजवाल्लभ्याच्छोककृन्मम भारत 04020032a तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि 04020032c यो निमित्तमनर्थानां बहूनां मम भारत 04020033a तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति 04020033c विषमालोड्य पास्यामि मा कीचकवशं गमम् 04020033e श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः 04020034 वैशंपायन उवाच 04020034a इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता 04020034c भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च 04020034e कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् 04021001 भीमसेन उवाच 04021001a तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे 04021001c अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् 04021002a अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संगमम् 04021002c दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते 04021003a यैषा नर्तनशाला वै मत्स्यराजेन कारिता 04021003c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04021004a तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् 04021004c तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् 04021005a यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम् 04021005c कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् 04021006 वैशंपायन उवाच 04021006a तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ 04021006c रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा 04021007a तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः 04021007c गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् 04021008a सभायां पश्यतो राज्ञः पातयित्वा पदाहनम् 04021008c न चैवालभथास्त्राणमभिपन्ना बलीयसा 04021009a प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते 04021009c अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः 04021010a सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते 04021010c अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् 04021011a दासीशतं च ते दद्यां दासानामपि चापरम् 04021011c रथं चाश्वतरीयुक्तमस्तु नौ भीरु संगमः 04021012 द्रौपद्युवाच 04021012a एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक 04021012c न त्वां सखा वा भ्राता वा जानीयात्संगतं मया 04021013a अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम् 04021013c एवं मे प्रतिजानीहि ततोऽहं वशगा तव 04021014 कीचक उवाच 04021014a एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे 04021014c एको भद्रे गमिष्यामि शून्यमावसथं तव 04021015a समागमार्थं रम्भोरु त्वया मदनमोहितः 04021015c यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः 04021016 द्रौपद्युवाच 04021016a यदिदं नर्तनागारं मत्स्यराजेन कारितम् 04021016c दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् 04021017a तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते 04021017c तत्र दोषः परिहृतो भविष्यति न संशयः 04021018 वैशंपायन उवाच 04021018a तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह 04021018c दिवसार्धं समभवन्मासेनैव समं नृप 04021019a कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः 04021019c सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् 04021020a गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः 04021020c अलंचकार सोऽऽत्मानं सत्वरः काममोहितः 04021021a तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् 04021021c अनुचिन्तयतश्चापि तामेवायतलोचनाम् 04021022a आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः 04021022c निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः 04021023a कृतसंप्रत्ययस्तत्र कीचकः काममोहितः 04021023c नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् 04021024a ततस्तु द्रौपदी गत्वा तदा भीमं महानसे 04021024c उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् 04021025a तमुवाच सुकेशान्ता कीचकस्य मया कृतः 04021025c संगमो नर्तनागारे यथावोचः परंतप 04021026a शून्यं स नर्तनागारमागमिष्यति कीचकः 04021026c एको निशि महाबाहो कीचकं तं निषूदय 04021027a तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम् 04021027c गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव 04021028a दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते 04021028c तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर 04021029a अश्रु दुःखाभिभूताया मम मार्जस्व भारत 04021029c आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च 04021030 भीमसेन उवाच 04021030a स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम् 04021030c न ह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि 04021031a या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे 04021031c हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि 04021032a सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते 04021032c कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा 04021033a तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम् 04021033c अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् 04021034a ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुंधराम् 04021034c कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः 04021035 द्रौपद्युवाच 04021035a यथा न संत्यजेथास्त्वं सत्यं वै मत्कृते विभो 04021035c निगूढस्त्वं तथा वीर कीचकं विनिपातय 04021036 भीमसेन उवाच 04021036a एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे 04021036c अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते 04021037a नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः 04021037c अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः 04021038 वैशंपायन उवाच 04021038a भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत् 04021038c मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् 04021039a कीचकश्चाप्यलंकृत्य यथाकाममुपाव्रजत् 04021039c तां वेलां नर्तनागारे पाञ्चालीसंगमाशया 04021040a मन्यमानः स संकेतमागारं प्राविशच्च तम् 04021040c प्रविश्य च स तद्वेश्म तमसा संवृतं महत् 04021041a पूर्वागतं ततस्तत्र भीममप्रतिमौजसम् 04021041c एकान्तमास्थितं चैनमाससाद सुदुर्मतिः 04021042a शयानं शयने तत्र मृत्युं सूतः परामृशत् 04021042c जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह 04021043a उपसंगम्य चैवैनं कीचकः काममोहितः 04021043c हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत 04021044a प्रापितं ते मया वित्तं बहुरूपमनन्तकम् 04021044c तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः 04021045a नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः 04021045c सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् 04021046 भीमसेन उवाच 04021046a दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि 04021046c ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् 04021047 वैशंपायन उवाच 04021047a इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः 04021047c समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् 04021047e भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु 04021048a स केशेषु परामृष्टो बलेन बलिनां वरः 04021048c आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् 04021049a बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः 04021049c वसन्ते वाशिताहेतोर्बलवद्गजयोरिव 04021050a ईषदागलितं चापि क्रोधाच्चलपदं स्थितम् 04021050c कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि 04021051a पातितो भुवि भीमस्तु कीचकेन बलीयसा 04021051c उत्पपाताथ वेगेन दण्डाहत इवोरगः 04021052a स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ 04021052c निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने 04021053a ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः 04021053c बलवच्चापि संक्रुद्धावन्योन्यं तावगर्जताम् 04021054a तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली 04021054c कीचको रोषसंतप्तः पदान्न चलितः पदम् 04021055a मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम् 04021055c बलादहीयत तदा सूतो भीमबलार्दितः 04021056a तं हीयमानं विज्ञाय भीमसेनो महाबलः 04021056c वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् 04021057a क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः 04021057c जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् 04021058a गृहीत्वा कीचकं भीमो विरुराव महाबलः 04021058c शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् 04021059a तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः 04021059c काये प्रवेशयामास पशोरिव पिनाकधृक् 04021060a तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम् 04021060c कृष्णायै दर्शयामास भीमसेनो महाबलः 04021061a उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः 04021061c पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः 04021062a तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम् 04021062c आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् 04021063a कीचकं घातयित्वा तु द्रौपदी योषितां वरा 04021063c प्रहृष्टा गतसंतापा सभापालानुवाच ह 04021064a कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम 04021064c परस्त्रीकामसंमत्तः समागच्छत पश्यत 04021065a तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः 04021065c सहसैव समाजग्मुरादायोल्काः सहस्रशः 04021066a ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम् 04021066c गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् 04021067a क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा 04021067c इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा 04022001 वैशंपायन उवाच 04022001a तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः 04022001c रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः 04022002a सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् 04022002c तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् 04022003a पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् 04022003c संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः 04022004a ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः 04022004c अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् 04022005a समवेतेषु सूतेषु तानुवाचोपकीचकः 04022005c हन्यतां शीघ्रमसती यत्कृते कीचको हतः 04022006a अथ वा नेह हन्तव्या दह्यतां कामिना सह 04022006c मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा 04022007a ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः 04022007c सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि 04022008a पराक्रमं तु सूतानां मत्वा राजान्वमोदत 04022008c सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते 04022009a तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् 04022009c मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् 04022010a ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् 04022010c जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा 04022011a ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता 04022011c प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती 04022012 द्रौपद्युवाच 04022012a जयो जयन्तो विजयो जयत्सेनो जयद्बलः 04022012c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04022013a येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः 04022013c व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् 04022014a रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् 04022014c ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् 04022015 वैशंपायन उवाच 04022015a तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः 04022015c श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् 04022016 भीमसेन उवाच 04022016a अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् 04022016c तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते 04022017 वैशंपायन उवाच 04022017a इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया 04022017c ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च 04022017e अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा 04022018a स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् 04022018c श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः 04022019a स तं वृक्षं दशव्यामं सस्कन्धविटपं बली 04022019c प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः 04022020a ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः 04022020c भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते 04022021a तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् 04022021c वित्रेसुः सर्वतः सूता विषादभयकम्पिताः 04022022a तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा 04022022c दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः 04022022e परस्परमथोचुस्ते विषादभयकम्पिताः 04022023a गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् 04022023c सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् 04022024a ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् 04022024c विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति 04022025a द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव 04022025c शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् 04022026a तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते 04022026c उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् 04022026e अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः 04022027a एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् 04022027c प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव 04022027e अन्येनाहं गमिष्यामि विराटस्य महानसम् 04022028a पञ्चाधिकं शतं तच्च निहतं तत्र भारत 04022028c महावनमिव छिन्नं शिश्ये विगलितद्रुमम् 04022029a एवं ते निहता राजञ्शतं पञ्च च कीचकाः 04022029c स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् 04022030a तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः 04022030c विस्मयं परमं गत्वा नोचुः किंचन भारत 04023001 वैशंपायन उवाच 04023001a ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् 04023001c गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः 04023002a यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः 04023002c विनिकीर्णं प्रदृश्येत तथा सूता महीतले 04023003a सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् 04023003c सर्वं संशयितं राजन्नगरं ते भविष्यति 04023004a तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः 04023004c पुंसामिष्टश्च विषयो मैथुनाय न संशयः 04023005a यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् 04023005c विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् 04023006a तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः 04023006c अब्रवीत्क्रियतामेषां सूतानां परमक्रिया 04023007a एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने 04023007c दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः 04023008a सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः 04023008c सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् 04023009a गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले 04023009c बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् 04023010a न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् 04023010c स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् 04023011a अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च 04023011c मोक्षिता भीमसेनेन जगाम नगरं प्रति 04023012a त्रासितेव मृगी बाला शार्दूलेन मनस्विनी 04023012c गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा 04023013a तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश 04023013c गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् 04023014a ततो महानसद्वारि भीमसेनमवस्थितम् 04023014c ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् 04023015a तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत् 04023015c गन्धर्वराजाय नमो येनास्मि परिमोचिता 04023016 भीमसेन उवाच 04023016a ये यस्या विचरन्तीह पुरुषा वशवर्तिनः 04023016c तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत 04023017 वैशंपायन उवाच 04023017a ततः सा नर्तनागारे धनंजयमपश्यत 04023017c राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् 04023018a ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः 04023018c कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् 04023019 कन्या ऊचुः 04023019a दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता 04023019c दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् 04023020 बृहन्नडोवाच 04023020a कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः 04023020c इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् 04023021 सैरन्ध्र्युवाच 04023021a बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै 04023021c या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् 04023022a न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते 04023022c तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव 04023023 बृहन्नडोवाच 04023023a बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् 04023023c तिर्यग्योनिगता बाले न चैनामवबुध्यसे 04023024 वैशंपायन उवाच 04023024a ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् 04023024c प्रविवेश सुदेष्णायाः समीपमपलायिनी 04023025a तामब्रवीद्राजपुत्री विराटवचनादिदम् 04023025c सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् 04023026a राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् 04023026c त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि 04023027 सैरन्ध्र्युवाच 04023027a त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि 04023027c कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः 04023028a ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् 04023028c ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः 04024001 वैशंपायन उवाच 04024001a कीचकस्य तु घातेन सानुजस्य विशां पते 04024001c अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः 04024002a तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः 04024002c शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः 04024003a आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः 04024003c स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः 04024004a इत्यजल्पन्महाराज परानीकविशातनम् 04024004c देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् 04024005a अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः 04024005c मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च 04024006a संविधाय यथादिष्टं यथादेशप्रदर्शनम् 04024006c कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति 04024007a तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् 04024007c द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना 04024008a संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः 04024008c दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् 04024009a कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा 04024009c पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने 04024010a निर्जने मृगसंकीर्णे नानाद्रुमलतावृते 04024010c लताप्रतानबहुले नानागुल्मसमावृते 04024011a न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः 04024011c मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा 04024012a गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च 04024012c जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च 04024013a नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् 04024013c अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ 04024014a वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम 04024014c कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम् 04024015a मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः 04024015c प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप 04024016a न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता 04024016c सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ 04024017a न हि विद्मो गतिं तेषां वासं वापि महात्मनाम् 04024017c पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् 04024017e स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते 04024018a अन्वेषणे पाण्डवानां भूयः किं करवामहे 04024018c इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् 04024019a येन त्रिगर्ता निकृता बलेन महता नृप 04024019c सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना 04024020a स हतः पतितः शेते गन्धर्वैर्निशि भारत 04024020c अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत 04024021a प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् 04024021c कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् 04025001 वैशंपायन उवाच 04025001a ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा 04025001c चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः 04025002a सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः 04025002c तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः 04025003a अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः 04025003c तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे 04025004a अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः 04025004c निवृत्तसमयास्ते हि सत्यव्रतपरायणाः 04025005a क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः 04025005c दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् 04025006a अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः 04025006c प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् 04025007a तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम् 04025007c राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् 04025008a अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत 04025008c अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः 04025009a चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् 04025009c तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च 04025010a परिचारेषु तीर्थेषु विविधेष्वाकरेषु च 04025010c विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया 04025011a विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः 04025011c अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः 04025012a नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च 04025012c आश्रमेषु च रम्येषु पर्वतेषु गुहासु च 04025013a अथाग्रजानन्तरजः पापभावानुरागिणम् 04025013c ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् 04025014a एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा 04025014c यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः 04025014e एते चान्ये च भूयांसो देशाद्देशं यथाविधि 04025015a न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते 04025015c अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः 04025016a व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः 04025016c अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः 04025017a तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन 04025017c कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप 04026001 वैशंपायन उवाच 04026001a अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् 04026001c न तादृशा विनश्यन्ति नापि यान्ति पराभवम् 04026002a शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः 04026002c धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः 04026003a नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् 04026003c धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् 04026004a अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप 04026004c अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् 04026005a तेषां तथा विधेयानां निभृतानां महात्मनाम् 04026005c किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति 04026006a तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् 04026006c न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया 04026007a सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् 04026007c क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम् 04026008a यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् 04026008c दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः 04026009a शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः 04026009c तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी 04026010a विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे 04026010c ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः 04027001 वैशंपायन उवाच 04027001a ततः शांतनवो भीष्मो भरतानां पितामहः 04027001c श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् 04027002a आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् 04027002c हितार्थं स उवाचेमां भारतीं भारतान्प्रति 04027003a युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् 04027003c असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा 04027003e भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् 04027004a यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् 04027004c सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः 04027005a श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः 04027005c वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः 04027006a समयं समयज्ञास्ते पालयन्तः शुचिव्रताः 04027006c नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् 04027007a धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः 04027007c न नाशमधिगच्छेयुरिति मे धीयते मतिः 04027008a तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत 04027008c न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः 04027009a यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् 04027009c बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् 04027010a सा त्वियं साधु वक्तव्या न त्वनीतिः कथंचन 04027010c वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः 04027011a अवश्यं त्विह धीरेण सतां मध्ये विवक्षता 04027011c यथामति विवक्तव्यं सर्वशो धर्मलिप्सया 04027012a तत्र नाहं तथा मन्ये यथायमितरो जनः 04027012c पुरे जनपदे वापि यत्र राजा युधिष्ठिरः 04027013a नासूयको न चापीर्षुर्नातिवादी न मत्सरी 04027013c भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः 04027014a ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च 04027014c क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः 04027015a सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः 04027015c संपन्नसस्या च मही निरीतीका भविष्यति 04027016a रसवन्ति च धान्यानि गुणवन्ति फलानि च 04027016c गन्धवन्ति च माल्यानि शुभशब्दा च भारती 04027017a वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् 04027017c भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः 04027018a गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः 04027018c पयांसि दधिसर्पींषि रसवन्ति हितानि च 04027019a गुणवन्ति च पानानि भोज्यानि रसवन्ति च 04027019c तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः 04027020a रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः 04027020c दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः 04027021a स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे 04027021c देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते 04027022a संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः 04027022c देवतातिथिपूजासु सर्वभूतानुरागवान् 04027023a इष्टदानो महोत्साहः शश्वद्धर्मपरायणः 04027023c अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः 04027023e भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः 04027024a त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः 04027024c शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः 04027024e भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः 04027025a धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः 04027025c किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः 04027026a यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा 04027026c ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् 04027027a तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः 04027027c गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा 04027028a एवमेतत्तु संचिन्त्य यत्कृतं मन्यसे हितम् 04027028c तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे 04028001 वैशंपायन उवाच 04028001a ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा 04028001c युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् 04028002a धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् 04028002c तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु 04028003a तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् 04028003c नीतिर्विधीयतां चापि सांप्रतं या हिता भवेत् 04028004a नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता 04028004c किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे 04028005a तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु 04028005c गूढभावेषु छन्नेषु काले चोदयमागते 04028006a स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः 04028006c उदये पाण्डवानां च प्राप्ते काले न संशयः 04028007a निवृत्तसमयाः पार्था महात्मानो महाबलाः 04028007c महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः 04028008a तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् 04028008c यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे 04028009a तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः 04028009c नियतं सर्वमित्रेषु बलवत्स्वबलेषु च 04028010a उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत 04028010c प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः 04028011a साम्ना भेदेन दानेन दण्डेन बलिकर्मणा 04028011c न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् 04028012a सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् 04028012c सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि 04028013a योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः 04028013c अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः 04028014a एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः 04028014c यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि 04029001 वैशंपायन उवाच 04029001a अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः 04029001c प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् 04029002a असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह 04029002c सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः 04029003a बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो 04029003c स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत 04029004a असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा 04029004c प्रणेता कीचकश्चास्य बलवानभवत्पुरा 04029005a क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः 04029005c निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् 04029006a तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः 04029006c भविष्यति निरुत्साहो विराट इति मे मतिः 04029007a तत्र यात्रा मम मता यदि ते रोचतेऽनघ 04029007c कौरवाणां च सर्वेषां कर्णस्य च महात्मनः 04029008a एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् 04029008c राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् 04029009a आददामोऽस्य रत्नानि विविधानि वसूनि च 04029009c ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः 04029010a अथ वा गोसहस्राणि बहूनि च शुभानि च 04029010c विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् 04029011a कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते 04029011c गास्तस्यापहरामाशु सह सर्वैः सुसंहताः 04029012a संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् 04029012c हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे 04029013a तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् 04029013c भवतो बलवृद्धिश्च भविष्यति न संशयः 04029014a तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् 04029014c सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः 04029015a तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् 04029015c विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ 04029016a प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः 04029016c आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा 04029017a मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् 04029017c संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः 04029018a किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः 04029018c अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् 04029019a यामो राजन्ननुद्विग्ना विराटविषयं वयम् 04029019c आदास्यामो हि गास्तस्य विविधानि वसूनि च 04029020a ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् 04029020c वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् 04029021a शासने नित्यसंयुक्तं दुःशासनमनन्तरम् 04029021c सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् 04029022a यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः 04029022c सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः 04029023a त्रिगर्तैः सहितो राजा समग्रबलवाहनः 04029023c प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति 04029024a जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् 04029024c विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः 04029025a ते यात्वा सहसा तत्र विराटनगरं प्रति 04029025c क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् 04029026a गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च 04029026c वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् 04029027a स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः 04029027c आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् 04029028a अपरं दिवसं सर्वे राजन्संभूय कौरवाः 04029028c अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः 04030001 वैशंपायन उवाच 04030001a ततस्तेषां महाराज तत्रैवामिततेजसाम् 04030001c छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् 04030002a व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे 04030002c कुर्वतां तस्य कर्माणि विराटस्य महीपतेः 04030003a ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत 04030003c सुशर्मणा गृहीतं तु गोधनं तरसा बहु 04030004a ततो जवेन महता गोपाः पुरमथाव्रजत् 04030004c अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली 04030005a शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः 04030005c सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः 04030006a तं सभायां महाराजमासीनं राष्ट्रवर्धनम् 04030006c सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा 04030007a अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् 04030007c गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते 04030007e तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव 04030008a तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् 04030008c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04030009a राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे 04030009c भानुमन्ति विचित्राणि सूपसेव्यानि भागशः 04030010a सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् 04030010c विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् 04030011a सर्वपारसवं वर्म कल्याणपटलं दृढम् 04030011c शतानीकादवरजो मदिराश्वोऽभ्यहारयत् 04030012a शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् 04030012c अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् 04030013a उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च 04030013c सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् 04030014a दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् 04030014c विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् 04030015a शतशश्च तनुत्राणि यथास्वानि महारथाः 04030015c योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः 04030016a सूपस्करेषु शुभ्रेषु महत्सु च महारथाः 04030016c पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् 04030017a सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः 04030017c महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा 04030018a अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् 04030018c यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् 04030019a अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् 04030019c कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् 04030019e युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः 04030020a एतेषामपि दीयन्तां रथा ध्वजपताकिनः 04030020c कवचानि विचित्राणि दृढानि च मृदूनि च 04030020e प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च 04030021a वीराङ्गरूपाः पुरुषा नागराजकरोपमाः 04030021c नेमे जातु न युध्येरन्निति मे धीयते मतिः 04030022a एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः 04030022c शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् 04030022e सहदेवाय राज्ञे च भीमाय नकुलाय च 04030023a तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः 04030023c निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् 04030024a कवचानि विचित्राणि दृढानि च मृदूनि च 04030024c विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् 04030024e तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः 04030025a तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः 04030025c विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः 04030025e चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः 04030026a भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः 04030026c क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः 04030027a स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः 04030027c राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः 04030028a विशारदानां वश्यानां हृष्टानां चानुयायिनाम् 04030028c अष्टौ रथसहस्राणि दश नागशतानि च 04030028e षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः 04030029a तदनीकं विराटस्य शुशुभे भरतर्षभ 04030029c संप्रयातं महाराज निनीषन्तं गवां पदम् 04030030a तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत 04030030c दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् 04031001 वैशंपायन उवाच 04031001a निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः 04031001c त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति 04031002a ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः 04031002c अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः 04031003a भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः 04031003c ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः 04031004a तेषां समागमो घोरस्तुमुलो लोमहर्षणः 04031004c देवासुरसमो राजन्नासीत्सूर्ये विलम्बति 04031005a उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन 04031005c पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः 04031006a इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत 04031006c खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत 04031007a रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् 04031007c पततां लोकवीराणां सव्यदक्षिणमस्यताम् 04031008a रथा रथैः समाजग्मुः पादातैश्च पदातयः 04031008c सादिभिः सादिनश्चैव गजैश्चापि महागजाः 04031009a असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि 04031009c संरब्धाः समरे राजन्निजघ्नुरितरेतरम् 04031010a निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः 04031010c न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् 04031011a कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम् 04031011c अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् 04031012a अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः 04031012c शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे 04031013a नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः 04031013c आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः 04031014a उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता 04031014c कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत 04031015a शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् 04031015c प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ 04031015e आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि 04031016a लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् 04031016c जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः 04031017a विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् 04031017c हयानां च शतान्यत्र हत्वा पञ्च महारथान् 04031018a चरन्स विविधान्मार्गान्रथेषु रथयूथपः 04031018c त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे 04031019a तौ व्यावहरतां तत्र महात्मानौ महाबलौ 04031019c अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव 04031020a ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः 04031020c शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव 04031021a अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ 04031021c कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ 04031022a ततो राजा सुशर्माणं विव्याध दशभिः शरैः 04031022c पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् 04031023a तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः 04031023c पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् 04031024a ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः 04031024c नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते 04032001 वैशंपायन उवाच 04032001a तमसाभिप्लुते लोके रजसा चैव भारत 04032001c व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः 04032002a ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः 04032002c कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि 04032003a ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत 04032003c घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् 04032004a ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा 04032004c अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः 04032005a ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ 04032005c गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् 04032006a तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति 04032006c गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः 04032007a बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा 04032007c प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् 04032008a तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी 04032008c विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् 04032009a तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव 04032009c स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः 04032010a तस्मिन्गृहीते विरथे विराटे बलवत्तरे 04032010c प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् 04032011a तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः 04032011c अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् 04032012a मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा 04032012c तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् 04032013a उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः 04032013c भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः 04032014 भीमसेन उवाच 04032014a अहमेनं परित्रास्ये शासनात्तव पार्थिव 04032014c पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः 04032015a स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह 04032015c एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् 04032016a सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः 04032016c एनमेव समारुज्य द्रावयिष्यामि शात्रवान् 04032017 वैशंपायन उवाच 04032017a तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम् 04032017c अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः 04032018a मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः 04032018c मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् 04032018e जनाः समवबुध्येरन्भीमोऽयमिति भारत 04032019a अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम् 04032019c चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् 04032020a यदेव मानुषं भीम भवेदन्यैरलक्षितम् 04032020c तदेवायुधमादाय मोक्षयाशु महीपतिम् 04032021a यमौ च चक्ररक्षौ ते भवितारौ महाबलौ 04032021c व्यूहतः समरे तात मत्स्यराजं परीप्सतः 04032022a ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन् 04032022c दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः 04032023a तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः 04032023c वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् 04032024a सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः 04032024c भीमः सप्तशतान्योधान्परलोकमदर्शयत् 04032024e नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः 04032025a शतानि त्रीणि शूराणां सहदेवः प्रतापवान् 04032025c युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः 04032025e भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ 04032026a ततो युधिष्ठिरो राजा त्वरमाणो महारथः 04032026c अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् 04032027a सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम् 04032027c अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् 04032028a ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः 04032028c समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् 04032029a पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः 04032029c अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् 04032030a चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः 04032030c स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा 04032031a ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः 04032031c गदामस्य परामृश्य तमेवाजघ्निवान्बली 04032031e स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा 04032032a भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली 04032032c त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा 04032033a तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे 04032033c अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् 04032034a निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः 04032034c अवजित्य सुशर्माणं धनं चादाय सर्वशः 04032035a स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः 04032035c संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् 04032036a ततो विराटः कौन्तेयानतिमानुषविक्रमान् 04032036c अर्चयामास वित्तेन मानेन च महारथान् 04032037 विराट उवाच 04032037a यथैव मम रत्नानि युष्माकं तानि वै तथा 04032037c कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् 04032038a ददान्यलंकृताः कन्या वसूनि विविधानि च 04032038c मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः 04032039a युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह 04032039c तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि 04032040 वैशंपायन उवाच 04032040a तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक् 04032040c ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः 04032041a प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते 04032041c एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः 04032042a अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम् 04032042c पुनरेव महाबाहुर्विराटो राजसत्तमः 04032042e एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् 04032043a मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण 04032043c तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् 04032044a रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा 04032044c वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते 04032045a त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च 04032045c यतश्च जातः संरम्भः स च शत्रुर्वशं गतः 04032046a ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत 04032046c प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे 04032047a आनृशंस्यपरो नित्यं सुसुखः सततं भव 04032047c गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव 04032047e सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् 04032048a ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत् 04032048c आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम 04032049a कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात् 04032049c वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः 04032050a ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति 04032050c विराटस्य पुराभ्याशे दूता जयमघोषयन् 04033001 वैशंपायन उवाच 04033001a याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति 04033001c दुर्योधनः सहामात्यो विराटमुपयादथ 04033002a भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् 04033002c द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः 04033003a विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् 04033003c दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः 04033004a एते मत्स्यानुपागम्य विराटस्य महीपतेः 04033004c घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा 04033005a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04033005c महता रथवंशेन परिवार्य समन्ततः 04033006a गोपालानां तु घोषेषु हन्यतां तैर्महारथैः 04033006c आरावः सुमहानासीत्संप्रहारे भयंकरे 04033007a गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः 04033007c जगाम नगरायैव परिक्रोशंस्तदार्तवत् 04033008a स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः 04033008c अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह 04033009a दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् 04033009c तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् 04033010a षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते 04033010c तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् 04033011a राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् 04033011c त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् 04033012a त्वया परिषदो मध्ये श्लाघते स नराधिपः 04033012c पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः 04033013a इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः 04033013c तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् 04033014a आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर 04033014c निर्दहैषामनीकानि भीमेन शरतेजसा 04033015a धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः 04033015c द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः 04033016a पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् 04033016c शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय 04033017a श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः 04033017c ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः 04033018a रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया 04033018c छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः 04033019a रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् 04033019c यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः 04033020a त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः 04033020c गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः 04033021a स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम् 04033021c अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् 04034001 उत्तर उवाच 04034001a अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् 04034001c यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः 04034002a तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः 04034002c पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः 04034003a अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः 04034003c यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः 04034004a स लभेयं यदि त्वन्यं हययानविदं नरम् 04034004c त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् 04034005a विगाह्य तत्परानीकं गजवाजिरथाकुलम् 04034005c शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् 04034006a दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् 04034006c द्रोणं च सह पुत्रेण महेष्वासान्समागतान् 04034007a वित्रासयित्वा संग्रामे दानवानिव वज्रभृत् 04034007c अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् 04034008a शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् 04034008c किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् 04034009a पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः 04034009c किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते 04034010 वैशंपायन उवाच 04034010a तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः 04034010c नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् 04034011a अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी 04034011c व्रीडमानेव शनकैरिदं वचनमब्रवीत् 04034012a योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः 04034012c बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः 04034013a धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः 04034013c दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति 04034014a यदा तत्पावको दावमदहत्खाण्डवं महत् 04034014c अर्जुनस्य तदानेन संगृहीता हयोत्तमाः 04034015a तेन सारथिना पार्थः सर्वभूतानि सर्वशः 04034015c अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः 04034016a येयं कुमारी सुश्रोणी भगिनी ते यवीयसी 04034016c अस्याः स वचनं वीर करिष्यति न संशयः 04034017a यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् 04034017c जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् 04034018a एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत 04034018c गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् 04034019a सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् 04034019c यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः 04035001 वैशंपायन उवाच 04035001a स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा 04035001c प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत 04035002a तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् 04035002c प्रणयं भावयन्ती स्म सखीमध्य इदं वचः 04035003a गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे 04035003c तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः 04035004a नचिरं च हतस्तस्य संग्रामे रथसारथिः 04035004c तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् 04035005a तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे 04035005c आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव 04035006a सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे 04035006c पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः 04035007a अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि 04035007c प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् 04035008a एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः 04035008c जगाम राजपुत्रस्य सकाशममितौजसः 04035009a तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् 04035009c अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव 04035010a दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत 04035010c त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् 04035011a पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः 04035011c सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् 04035012a संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे 04035012c कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः 04035013a अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा 04035013c त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः 04035014a एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा 04035014c का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि 04035015a गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् 04035015c तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि 04035016 उत्तर उवाच 04035016a बृहन्नडे गायनो वा नर्तनो वा पुनर्भव 04035016c क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् 04035017 वैशंपायन उवाच 04035017a स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु 04035017c उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम 04035018a ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत 04035018c कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः 04035019a स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः 04035019c कवचेन महार्हेण समनह्यद्बृहन्नडाम् 04035020a स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् 04035020c ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् 04035021a धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् 04035021c आदाय प्रययौ वीरः स बृहन्नडसारथिः 04035022a अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा 04035022c बृहन्नडे आनयेथा वासांसि रुचिराणि नः 04035023a पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च 04035023c विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् 04035024a अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः 04035024c प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः 04035025a यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् 04035025c अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च 04035026a एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् 04035026c कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः 04036001 वैशंपायन उवाच 04036001a स राजधान्या निर्याय वैराटिः पृथिवींजयः 04036001c प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः 04036002a समवेतान्कुरून्यावज्जिगीषूनवजित्य वै 04036002c गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् 04036003a ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः 04036003c ते हया नरसिंहेन चोदिता वातरंहसः 04036003e आलिखन्त इवाकाशमूहुः काञ्चनमालिनः 04036004a नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ 04036004c अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् 04036004e श्मशानमभितो गत्वा आससाद कुरूनथ 04036005a तदनीकं महत्तेषां विबभौ सागरस्वनम् 04036005c सर्पमाणमिवाकाशे वनं बहुलपादपम् 04036006a ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता 04036006c दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम 04036007a तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम् 04036007c कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च 04036008a द्रोणेन च सपुत्रेण महेष्वासेन धीमता 04036008c हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् 04036009a नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे 04036009c बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् 04036009e प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् 04036010a नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् 04036010c रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् 04036010e दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे 04036011a यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः 04036011c अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः 04036012a दुर्योधनस्तथा वीरो राजा च रथिनां वरः 04036012c द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 04036013a दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः 04036013c हृषितानि च रोमाणि कश्मलं चागतं मम 04036014 वैशंपायन उवाच 04036014a अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः 04036014c परिदेवयते मन्दः सकाशे सव्यसाचिनः 04036015a त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् 04036015c सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः 04036016a सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः 04036016c प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे 04036017 अर्जुन उवाच 04036017a भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः 04036017c न च तावत्कृतं किंचित्परैः कर्म रणाजिरे 04036018a स्वयमेव च मामात्थ वह मां कौरवान्प्रति 04036018c सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः 04036019a मध्यमामिषगृध्राणां कुरूणामाततायिनाम् 04036019c नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् 04036020a तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च 04036020c कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे 04036021a न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि 04036021c प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः 04036022a अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि 04036022c न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति 04036023a स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च 04036023c कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव 04036024 उत्तर उवाच 04036024a कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् 04036024c प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे 04036025 वैशंपायन उवाच 04036025a इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली 04036025c त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः 04036026 बृहन्नडोवाच 04036026a नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् 04036026c श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् 04036027 वैशंपायन उवाच 04036027a एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् 04036027c तमन्वधावद्धावन्तं राजपुत्रं धनंजयः 04036027e दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी 04036028a विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा 04036028c सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् 04036029a तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् 04036029c क एष वेषप्रच्छन्नो भस्मनेव हुताशनः 04036030a किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः 04036030c सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च 04036031a तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ 04036031c तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात् 04036032a अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः 04036032c एकः कोऽस्मानुपायायादन्यो लोके धनंजयात् 04036033a एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे 04036033c स एष किल निर्यातो बालभावान्न पौरुषात् 04036034a सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् 04036034c उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः 04036035a स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति 04036035c तं नूनमेष धावन्तं जिघृक्षति धनंजयः 04036036a इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् 04036036c न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते 04036036e छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत 04036037a उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः 04036037c गत्वा पदशतं तूर्णं केशपक्षे परामृशत् 04036038a सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् 04036038c बहुलं कृपणं चैव विराटस्य सुतस्तदा 04036039a शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते 04036039c मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् 04036040a हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः 04036040c मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे 04036041 वैशंपायन उवाच 04036041a एवमादीनि वाक्यानि विलपन्तमचेतसम् 04036041c प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् 04036042a अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् 04036042c यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन 04036042e एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः 04036043a प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः 04036043c अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः 04036044a मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप 04036044c अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् 04036045a प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् 04036045c यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह 04036046a एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः 04036046c समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ 04036047a तत एनं विचेष्टन्तमकामं भयपीडितम् 04036047c रथमारोपयामास पार्थः प्रहरतां वरः 04037001 वैशंपायन उवाच 04037001a तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम् 04037001c शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् 04037002a भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः 04037002c वित्रस्तमनसः सर्वे धनंजयकृताद्भयात् 04037003a तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् 04037003c गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत 04037004a चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः 04037004c भस्मवर्णप्रकाशेन तमसा संवृतं नभः 04037005a रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः 04037005c निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च 04037006a शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः 04037006c हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः 04037007a यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि 04037007c यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् 04037008a रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि 04037008c वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् 04037009a एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः 04037009c आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः 04037010a स एष पार्थो विक्रान्तः सव्यसाची परंतपः 04037010c नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः 04037011a क्लेशितश्च वने शूरो वासवेन च शिक्षितः 04037011c अमर्षवशमापन्नो योत्स्यते नात्र संशयः 04037012a नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः 04037012c महादेवोऽपि पार्थेन श्रूयते युधि तोषितः 04037013 कर्ण उवाच 04037013a सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे 04037013c न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा 04037014 दुर्योधन उवाच 04037014a यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम 04037014c ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् 04037015a अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः 04037015c शरैरेनं सुनिशितैः पातयिष्यामि भूतले 04037016 वैशंपायन उवाच 04037016a तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतपे 04037016c भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् 04038001 वैशंपायन उवाच 04038001a तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् 04038001c सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् 04038002a समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर 04038002c नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् 04038003a भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् 04038003c मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः 04038004a तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम् 04038004c अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत 04038005a युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा 04038005c ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च 04038006a अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् 04038006c एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् 04038007a व्यायामसहमत्यर्थं तृणराजसमं महत् 04038007c सर्वायुधमहामात्रं शत्रुसंबाधकारकम् 04038008a सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् 04038008c अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् 04038008e तादृशान्येव सर्वाणि बलवन्ति दृढानि च 04038009 उत्तर उवाच 04038009a अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् 04038009c तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् 04038010a नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना 04038010c महता राजपुत्रेण मन्त्रयज्ञविदा सता 04038011a स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् 04038011c कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे 04038012 बृहन्नडोवाच 04038012a व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि 04038012c धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते 04038013a दायादं मत्स्यराजस्य कुले जातं मनस्विनम् 04038013c कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज 04038014 वैशंपायन उवाच 04038014a एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली 04038014c आरुरोह शमीवृक्षं वैराटिरवशस्तदा 04038015a तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः 04038015c परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद 04038016a तथा संनहनान्येषां परिमुच्य समन्ततः 04038016c अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह 04038017a तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् 04038017c विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव 04038018a स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् 04038018c हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत 04038019a संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च 04038019c वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् 04038020 उत्तर उवाच 04038020a बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः 04038020c सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् 04038021a वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः 04038021c सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् 04038022a तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः 04038022c पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् 04038023a सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः 04038023c तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् 04038024a शालभा यत्र सौवर्णास्तपनीयविचित्रिताः 04038024c सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् 04038025a इमे च कस्य नाराचाः सहस्रा लोमवाहिनः 04038025c समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये 04038026a विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः 04038026c हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः 04038027a कस्यायमसितावापः पञ्चशार्दूललक्षणः 04038027c वराहकर्णव्यामिश्रः शरान्धारयते दश 04038028a कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः 04038028c शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः 04038029a कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः 04038029c उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः 04038030a कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04038030c वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् 04038031a सुफलश्चित्रकोशश्च किङ्किणीसायको महान् 04038031c कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः 04038032a कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः 04038032c हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः 04038033a कस्य पाञ्चनखे कोशे सायको हेमविग्रहः 04038033c प्रमाणरूपसंपन्नः पीत आकाशसंनिभः 04038034a कस्य हेममये कोशे सुतप्ते पावकप्रभे 04038034c निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः 04038035a निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे 04038035c विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् 04038036 बृहन्नडोवाच 04038036a यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् 04038036c गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः 04038037a सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् 04038037c एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् 04038038a यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् 04038038c येन देवान्मनुष्यांश्च पार्थो विषहते मृधे 04038039a देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 04038039c एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् 04038040a ततोऽनन्तरमेवाथ प्रजापतिरधारयत् 04038040c त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च 04038041a सोमः पञ्चशतं राजा तथैव वरुणः शतम् 04038041c पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः 04038042a महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् 04038042c पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः 04038043a सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः 04038043c येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः 04038044a इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् 04038044c राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् 04038045a सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः 04038045c तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् 04038046a शलभा यत्र सौवर्णास्तपनीयविचित्रिताः 04038046c एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् 04038047a ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः 04038047c एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः 04038048a एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः 04038048c भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् 04038049a ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः 04038049c एते भीमस्य निशिता रिपुक्षयकराः शराः 04038050a हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः 04038050c नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः 04038051a येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे 04038051c कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः 04038052a ये त्विमे भास्कराकाराः सर्वपारशवाः शराः 04038052c एते चित्राः क्रियोपेताः सहदेवस्य धीमतः 04038053a ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः 04038053c हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः 04038054a यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः 04038054c अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः 04038055a वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः 04038055c गुरुभारसहो दिव्यः शात्रवाणां भयंकरः 04038056a सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः 04038056c निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः 04038057a यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने 04038057c नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः 04038058a यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः 04038058c सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् 04039001 उत्तर उवाच 04039001a सुवर्णविकृतानीमान्यायुधानि महात्मनाम् 04039001c रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् 04039002a क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः 04039002c नकुलः सहदेवश्च भीमसेनश्च पाण्डवः 04039003a सर्व एव महात्मानः सर्वामित्रविनाशनाः 04039003c राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन 04039004a द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता 04039004c जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् 04039005 अर्जुन उवाच 04039005a अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः 04039005c बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः 04039006a अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले 04039006c सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः 04039007 उत्तर उवाच 04039007a दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे 04039007c प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते 04039008 अर्जुन उवाच 04039008a हन्त तेऽहं समाचक्षे दश नामानि यानि मे 04039008c अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः 04039008e बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः 04039009 उत्तर उवाच 04039009a केनासि विजयो नाम केनासि श्वेतवाहनः 04039009c किरीटी नाम केनासि सव्यसाची कथं भवान् 04039010a अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च 04039010c धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः 04039010e श्रुता मे तस्य वीरस्य केवला नामहेतवः 04039011 अर्जुन उवाच 04039011a सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् 04039011c मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् 04039012a अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् 04039012c नाजित्वा विनिवर्तामि तेन मां विजयं विदुः 04039013a श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः 04039013c संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः 04039014a उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा 04039014c जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः 04039015a पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः 04039015c किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् 04039016a न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन 04039016c तेन देवमनुष्येषु बीभत्सुरिति मां विदुः 04039017a उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे 04039017c तेन देवमनुष्येषु सव्यसाचीति मां विदुः 04039018a पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः 04039018c करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः 04039019a अहं दुरापो दुर्धर्षो दमनः पाकशासनिः 04039019c तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः 04039020a कृष्ण इत्येव दशमं नाम चक्रे पिता मम 04039020c कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै 04039021 वैशंपायन उवाच 04039021a ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् 04039021c अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः 04039022a दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय 04039022c लोहिताक्ष महाबाहो नागराजकरोपम 04039022e यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम 04039023a यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् 04039023c अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि 04040001 उत्तर उवाच 04040001a आस्थाय विपुलं वीर रथं सारथिना मया 04040001c कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया 04040002 अर्जुन उवाच 04040002a प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव 04040002c सर्वान्नुदामि ते शत्रून्रणे रणविशारद 04040003a स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह 04040003c युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् 04040004a एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे 04040004c एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् 04040004e अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् 04040005a संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् 04040005c त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम् 04040006a ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि 04040006c नगरं ते मया गुप्तं रथोपस्थं भविष्यति 04040007a अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना 04040007c अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् 04040008 उत्तर उवाच 04040008a बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि 04040008c केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् 04040009a इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् 04040009c निश्चयं चापि दुर्मेधा न गच्छामि कथंचन 04040010a एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च 04040010c केन कर्मविपाकेन क्लीबत्वमिदमागतम् 04040011a मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् 04040011c गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् 04040012 अर्जुन उवाच 04040012a भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् 04040012c चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते 04040013a नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः 04040013c समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज 04040014 उत्तर उवाच 04040014a परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा 04040014c न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः 04040015a सहायवानस्मि रणे युध्येयममरैरपि 04040015c साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे 04040016a अहं ते संग्रहीष्यामि हयाञ्शत्रुरथारुजः 04040016c शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ 04040017a दारुको वासुदेवस्य यथा शक्रस्य मातलिः 04040017c तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव 04040018a यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् 04040018c दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः 04040019a योऽयं धुरं धुर्यवरो वामं वहति शोभनः 04040019c तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् 04040020a योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः 04040020c वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् 04040021a योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः 04040021c बलाहकादपि मतः स जवे वीर्यवत्तरः 04040022a त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् 04040022c त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम 04040023 वैशंपायन उवाच 04040023a ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् 04040023c चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे 04040024a कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा 04040024c अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः 04040025a तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः 04040025c यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः 04040026a सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् 04040026c भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् 04040027a तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव 04040027c यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे 04041001 वैशंपायन उवाच 04041001a उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् 04041001c आयुधं सर्वमादाय ततः प्रायाद्धनंजयः 04041002a ध्वजं सिंहं रथात्तस्मादपनीय महारथः 04041002c प्रणिधाय शमीमूले प्रायादुत्तरसारथिः 04041003a दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा 04041003c काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् 04041004a मनसा चिन्तयामास प्रसादं पावकस्य च 04041004c स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् 04041005a सपताकं विचित्राङ्गं सोपासङ्गं महारथः 04041005c रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः 04041006a बद्धासिः सतनुत्राणः प्रगृहीतशरासनः 04041006c ततः प्रायादुदीचीं स कपिप्रवरकेतनः 04041007a स्वनवन्तं महाशङ्खं बलवानरिमर्दनः 04041007c प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् 04041008a ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् 04041008c उत्तरश्चापि संत्रस्तो रथोपस्थ उपाविशत् 04041009a संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः 04041009c उत्तरं च परिष्वज्य समाश्वासयदर्जुनः 04041010a मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप 04041010c कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि 04041011a श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः 04041011c कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् 04041012a स त्वं कथमिहानेन शङ्खशब्देन भीषितः 04041012c विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा 04041013 उत्तर उवाच 04041013a श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः 04041013c कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् 04041014a नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः 04041014c ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् 04041014e धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् 04041015a अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च 04041015c रथस्य च निनादेन मनो मुह्यति मे भृशम् 04041016a व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे 04041016c ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे 04041016e गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ 04041017 अर्जुन उवाच 04041017a एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय 04041017c दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः 04041018 वैशंपायन उवाच 04041018a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04041018c गाण्डीवस्य च घोषेण पृथिवी समकम्पत 04041019 द्रोण उवाच 04041019a यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते 04041019c कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः 04041020a शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः 04041020c अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् 04041021a प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः 04041021c ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् 04041021e शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् 04041022a गोमायुरेष सेनाया रुवन्मध्येऽनुधावति 04041022c अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् 04041022e भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये 04041023a पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति 04041023c विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः 04041023e गाः संप्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः 04042001 वैशंपायन उवाच 04042001a अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् 04042001c द्रोणं च रथशार्दूलं कृपं च सुमहारथम् 04042002a उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् 04042002c पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् 04042003a पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् 04042003c वने जनपदेऽज्ञातैरेष एव पणो हि नः 04042004a तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम् 04042004c अज्ञातवासं बीभत्सुरथास्माभिः समागतः 04042005a अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः 04042005c पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः 04042006a लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत् 04042006c हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति 04042007a अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः 04042007c अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा 04042008a उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम् 04042008c यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः 04042009a त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः 04042009c मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् 04042010a तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम् 04042010c प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् 04042011a सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् 04042011c अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति 04042012a ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः 04042012c अस्मान्वाप्यतिसंधाय कुर्युर्मत्स्येन संगतम् 04042013a अथ वा तानुपायातो मत्स्यो जानपदैः सह 04042013c सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः 04042014a तेषामेव महावीर्यः कश्चिदेव पुरःसरः 04042014c अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् 04042015a यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः 04042015c सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः 04042016a अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः 04042016c भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च 04042017a संभ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः 04042017c नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् 04042018a आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा 04042018c यमेन वापि संग्रामे को हास्तिनपुरं व्रजेत् 04042019a शरैरभिप्रणुन्नानां भग्नानां गहने वने 04042019c को हि जीवेत्पदातीनां भवेदश्वेषु संशयः 04042019e आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् 04042020a जानाति हि मतं तेषामतस्त्रासयतीव नः 04042020c अर्जुनेनास्य संप्रीतिमधिकामुपलक्षये 04042021a तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति 04042021c यथा सेना न भज्येत तथा नीतिर्विधीयताम् 04042022a अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता 04042022c यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् 04042023a अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे 04042023c स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः 04042024a सदा च वायवो वान्ति नित्यं वर्षति वासवः 04042024c स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा 04042025a किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते 04042025c अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् 04042026a आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः 04042026c नैते महाभये प्राप्ते संप्रष्टव्याः कथंचन 04042027a प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च 04042027c कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः 04042028a बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि 04042028c इष्वस्त्रे चारुसंधाने पण्डितास्तत्र शोभनाः 04042029a परेषां विवरज्ञाने मनुष्याचरितेषु च 04042029c अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः 04042030a पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः 04042030c विधीयतां तथा नीतिर्यथा वध्येत वै परः 04042031a गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् 04042031c आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् 04043001 कर्ण उवाच 04043001a सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये 04043001c अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् 04043002a यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः 04043002c अहमावारयिष्यामि वेलेव मकरालयम् 04043003a मम चापप्रमुक्तानां शराणां नतपर्वणाम् 04043003c नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् 04043004a रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया 04043004c छादयन्तु शराः पार्थं शलभा इव पादपम् 04043005a शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम् 04043005c श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव 04043006a समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च 04043006c जातस्नेहश्च युद्धस्य मयि संप्रहरिष्यति 04043007a पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव 04043007c शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः 04043008a एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः 04043008c अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित् 04043009a इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः 04043009c दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम् 04043010a अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् 04043010c धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम् 04043011a अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम् 04043011c शलभानामिवाकाशे प्रचारः संप्रदृश्यताम् 04043012a इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम् 04043012c अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् 04043013a तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम् 04043013c पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् 04043014a अश्ववेगपुरोवातो रथौघस्तनयित्नुमान् 04043014c शरधारो महामेघः शमयिष्यामि पाण्डवम् 04043015a मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः 04043015c शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः 04043016a जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात् 04043016c तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् 04043017a ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया 04043017c अद्यैव पततां भूमौ विनदन्भैरवान्रवान् 04043018a शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् 04043018c दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः 04043019a अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम् 04043019c समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात् 04043020a हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् 04043020c निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः 04043021a कामं गच्छन्तु कुरवो धनमादाय केवलम् 04043021c रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् 04044001 कृप उवाच 04044001a सदैव तव राधेय युद्धे क्रूरतरा मतिः 04044001c नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे 04044002a नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः 04044002c तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः 04044003a देशकालेन संयुक्तं युद्धं विजयदं भवेत् 04044003c हीनकालं तदेवेह फलवन्न भवत्युत 04044003e देशे काले च विक्रान्तं कल्याणाय विधीयते 04044004a आनुकूल्येन कार्याणामन्तरं संविधीयताम् 04044004c भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः 04044005a परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः 04044005c एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् 04044006a एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् 04044006c एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् 04044006e अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् 04044007a एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत 04044007c एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः 04044008a एको गन्धर्वराजानं चित्रसेनमरिंदमः 04044008c विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् 04044009a तथा निवातकवचाः कालखञ्जाश्च दानवाः 04044009c दैवतैरप्यवध्यास्ते एकेन युधि पातिताः 04044010a एकेन हि त्वया कर्ण किं नामेह कृतं पुरा 04044010c एकैकेन यथा तेषां भूमिपाला वशीकृताः 04044011a इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति 04044011c यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् 04044012a आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् 04044012c अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि 04044013a अथ वा कुञ्जरं मत्तमेक एव चरन्वने 04044013c अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि 04044014a समिद्धं पावकं वापि घृतमेदोवसाहुतम् 04044014c घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि 04044015a आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् 04044015c समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् 04044016a अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः 04044016c तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः 04044017a अस्माभिरेष निकृतो वर्षाणीह त्रयोदश 04044017c सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति 04044018a एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् 04044018c अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् 04044019a सह युध्यामहे पार्थमागतं युद्धदुर्मदम् 04044019c सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः 04044020a द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् 04044020c सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः 04044021a वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् 04044021c षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः 04044022a व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः 04044022c युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा 04045001 अश्वत्थामोवाच 04045001a न च तावज्जिता गावो न च सीमान्तरं गताः 04045001c न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे 04045002a संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् 04045002c विजित्य च परां भूमिं नाहुः किंचन पौरुषम् 04045003a पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः 04045003c तूष्णीं धारयते लोकान्वसुधा सचराचरान् 04045004a चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः 04045004c धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति 04045005a अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च 04045005c क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् 04045005e वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् 04045006a वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् 04045006c सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि 04045007a प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति 04045007c तथा नृशंसरूपेण यथान्यः प्राकृतो जनः 04045008a तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः 04045008c निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा 04045009a कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम् 04045009c नकुलं सहदेवं च धनं येषां त्वया हृतम् 04045010a युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः 04045010c इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा 04045011a तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया 04045011c एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला 04045012a मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा 04045012c कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् 04045013a यथाशक्ति मनुष्याणां शममालक्षयामहे 04045013c अन्येषां चैव सत्त्वानामपि कीटपिपीलिके 04045014a द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति 04045014c दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः 04045015a त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि 04045015c वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति 04045016a नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् 04045016c भयादिह न युध्येत कुन्तीपुत्रो धनंजयः 04045017a यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति 04045017c वृक्षं गरुडवेगेन विनिहत्य तमेष्यति 04045018a त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् 04045018c वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् 04045019a दैवं दैवेन युध्येत मानुषेण च मानुषम् 04045019c अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् 04045020a पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः 04045020c एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः 04045021a यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः 04045021c यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् 04045022a अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः 04045022c दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह 04045023a नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च 04045023c ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् 04045024a न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः 04045024c अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः 04045025a अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः 04045025c कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः 04045026a युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम् 04045026c मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् 04046001 भीष्म उवाच 04046001a साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति 04046001c कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति 04046002a आचार्यो नाभिषक्तव्यः पुरुषेण विजानता 04046002c देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः 04046003a यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः 04046003c कथमभ्युदये तेषां न प्रमुह्येत पण्डितः 04046004a स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः 04046004c तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते 04046005a कर्णो यदभ्यवोचन्नस्तेजःसंजननाय तत् 04046005c आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् 04046006a नायं कालो विरोधस्य कौन्तेये समुपस्थिते 04046006c क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च 04046007a भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा 04046007c यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते 04046007e एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् 04046008a चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते 04046008c नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः 04046009a अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः 04046009c ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते 04046010a आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने 04046010c सर्वे संहत्य युध्यामः पाकशासनिमागतम् 04046011a बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः 04046011c मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः 04046012 अश्वत्थामोवाच 04046012a आचार्य एव क्षमतां शान्तिरत्र विधीयताम् 04046012c अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् 04046013 वैशंपायन उवाच 04046013a ततो दुर्योधनो द्रोणं क्षमयामास भारत 04046013c सह कर्णेन भीष्मेण कृपेण च महात्मना 04046014 द्रोण उवाच 04046014a यदेव प्रथमं वाक्यं भीष्मः शांतनवोऽब्रवीत् 04046014c तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् 04046015a यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् 04046015c साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् 04046016a वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनंजयः 04046016c धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति 04046017a यथा नायं समायुज्याद्धार्तराष्ट्रान्कथंचन 04046017c यथा च न पराजय्यात्तथा नीतिर्विधीयताम् 04046018a उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् 04046018c तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि 04047001 भीष्म उवाच 04047001a कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च 04047001c अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा 04047002a ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि 04047002c एवं कालविभागेन कालचक्रं प्रवर्तते 04047003a तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात् 04047003c पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः 04047004a तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः 04047004c त्रयोदशानां वर्षाणामिति मे वर्तते मतिः 04047005a सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम् 04047005c एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः 04047006a सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः 04047006c येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः 04047007a अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम् 04047007c न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः 04047008a तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः 04047008c धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् 04047009a यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम् 04047009c वृणुयुर्मरणं पार्था नानृतत्वं कथंचन 04047010a प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः 04047010c अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः 04047011a प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम् 04047011c तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् 04047011e तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् 04047012a न हि पश्यामि संग्रामे कदाचिदपि कौरव 04047012c एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनंजयः 04047013a संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ 04047013c अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् 04047014a तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम् 04047014c क्रियतामाशु राजेन्द्र संप्राप्तो हि धनंजयः 04047015 दुर्योधन उवाच 04047015a नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह 04047015c युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् 04047016 भीष्म उवाच 04047016a अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते 04047016c क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति 04047016e ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु 04047017a वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम् 04047017c मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् 04047018a आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः 04047018c कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् 04047019a अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः 04047019c अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् 04048001 वैशंपायन उवाच 04048001a तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः 04048001c उपायादर्जुनस्तूर्णं रथघोषेण नादयन् 04048002a ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् 04048002c दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् 04048003a ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् 04048003c महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् 04048004a एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते 04048004c एष घोषः सजलदो रोरवीति च वानरः 04048005a एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् 04048005c उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् 04048006a इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ 04048006c अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ 04048007a निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् 04048007c अभिवादयते पार्थः श्रोत्रे च परिपृच्छति 04048008 अर्जुन उवाच 04048008a इषुपाते च सेनाया हयान्संयच्छ सारथे 04048008c यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः 04048009a सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् 04048009c तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः 04048010a एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् 04048010c भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः 04048011a राजानं नात्र पश्यामि गाः समादाय गच्छति 04048011c दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः 04048012a उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः 04048012c तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् 04048012e तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः 04048013 वैशंपायन उवाच 04048013a एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः 04048013c नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः 04048013e अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः 04048014a उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने 04048014c अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् 04048015a नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति 04048015c तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः 04048016a न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे 04048016c अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् 04048017a किं नो गावः करिष्यन्ति धनं वा विपुलं तथा 04048017c दुर्योधनः पार्थजले पुरा नौरिव मज्जति 04048018a तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः 04048018c शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् 04048019a कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः 04048019c नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः 04048020a तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः 04048020c शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा 04048021a ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् 04048021c विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् 04048022a तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च 04048022c अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् 04048023a ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः 04048023c गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् 04049001 वैशंपायन उवाच 04049001a स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः 04049001c दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् 04049002a गोषु प्रयातासु जवेन मत्स्या;न्किरीटिनं कृतकार्यं च मत्वा 04049002c दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः 04049003a तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि 04049003c मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच 04049004a एतेन तूर्णं प्रतिपादयेमा;ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् 04049004c जवेन सर्वेण कुरु प्रयत्न;मासादयैतद्रथसिंहवृन्दम् 04049005a गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः 04049005c तमेव मां प्रापय राजपुत्र; दुर्योधनापाश्रयजातदर्पम् 04049006a स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः 04049006c विध्वंसयंस्तद्रथिनामनीकं; ततोऽवहत्पाण्डवमाजिमध्ये 04049007a तं चित्रसेनो विशिखैर्विपाठैः; संग्रामजिच्छत्रुसहो जयश्च 04049007c प्रत्युद्ययुर्भारतमापतन्तं; महारथाः कर्णमभीप्समानाः 04049008a ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः 04049008c व्रातान्रथानामदहत्स मन्यु;र्वनं यथाग्निः कुरुपुंगवानाम् 04049009a तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन 04049009c विपाठवर्षेण कुरुप्रवीरो; भीमेन भीमानुजमाससाद 04049010a ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम् 04049010c अपातयद्ध्वजमस्य प्रमथ्य; छिन्नध्वजः सोऽप्यपयाज्जवेन 04049011a तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि 04049011c शत्रुंतपः कोपममृष्यमाणः; समर्पयत्कूर्मनखेन पार्थम् 04049012a स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम् 04049012c शत्रुंतपं पञ्चभिराशु विद्ध्वा; ततोऽस्य सूतं दशभिर्जघान 04049013a ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन 04049013c गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव वातरुग्णः 04049014a रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः 04049014c चकम्पिरे वातवशेन काले; प्रकम्पितानीव महावनानि 04049015a हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः 04049015c वसुप्रदा वासवतुल्यवीर्याः; पराजिता वासवजेन संख्ये 04049015e सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः 04049016a तथा स शत्रून्समरे विनिघ्न;न्गाण्डीवधन्वा पुरुषप्रवीरः 04049016c चचार संख्ये प्रदिशो दिशश्च; दहन्निवाग्निर्वनमातपान्ते 04049017a प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे 04049017c तथा सपत्नान्विकिरन्किरीटी; चचार संख्येऽतिरथो रथेन 04049018a शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः 04049018c एकेन संग्रामजितः शरेण; शिरो जहाराथ किरीटमाली 04049019a तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः 04049019c प्रगृह्य दन्ताविव नागराजो; महर्षभं व्याघ्र इवाभ्यधावत् 04049020a स पाण्डवं द्वादशभिः पृषत्कै;र्वैकर्तनः शीघ्रमुपाजघान 04049020c विव्याध गात्रेषु हयांश्च सर्वा;न्विराटपुत्रं च शरैर्निजघ्ने 04049021a स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात् 04049021c आकर्णपूर्णं च धनुर्विकृष्य; विव्याध बाणैरथ सूतपुत्रम् 04049022a अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी 04049022c स्थितस्य बाणैर्युधि निर्बिभेद; गाण्डीवमुक्तैरशनिप्रकाशैः 04049023a स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी 04049023c विहाय संग्रामशिरः प्रयातो; वैकर्तनः पाण्डवबाणतप्तः 04050001 वैशंपायन उवाच 04050001a अपयाते तु राधेये दुर्योधनपुरोगमाः 04050001c अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् 04050002a बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः 04050002c अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् 04050003a आस्थाय रुचिरं जिष्णो रथं सारथिना मया 04050003c कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया 04050004 अर्जुन उवाच 04050004a लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि 04050004c नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर 04050005a कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् 04050005c एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः 04050006a कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः 04050006c आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः 04050007a सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् 04050007c अत्रैव चाविरोधेन एष धर्मः सनातनः 04050008a यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति 04050008c ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति 04050009a अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते 04050009c आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः 04050010a सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि 04050010c एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः 04050011a य एष तु रथानीके सुवर्णकवचावृतः 04050011c सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति 04050012a यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः 04050012c धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः 04050013a एतस्याभिमुखं वीर रथं पररथारुजः 04050013c प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः 04050014a एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः 04050014c एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः 04050015a नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति 04050015c एष वैकर्तनः कर्णो विदितः पूर्वमेव ते 04050016a एतस्य रथमास्थाय राधेयस्य दुरात्मनः 04050016c यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा 04050017a यस्तु नीलानुसारेण पञ्चतारेण केतुना 04050017c हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् 04050018a यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः 04050018c यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति 04050019a महतो रथवंशस्य नानाध्वजपताकिनः 04050019c बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः 04050020a हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते 04050020c जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः 04050021a एष शांतनवो भीष्मः सर्वेषां नः पितामहः 04050021c राजश्रियावबद्धस्तु दुर्योधनवशानुगः 04050022a पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् 04050022c एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् 04050023a ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् 04050023c यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् 04051001 वैशंपायन उवाच 04051001a तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् 04051001c संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः 04051002a अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः 04051002c भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः 04051003a ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् 04051003c सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः 04051004a तद्देवयक्षगन्धर्वमहोरगसमाकुलम् 04051004c शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् 04051005a अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् 04051005c तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे 04051006a शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः 04051006c मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् 04051007a तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् 04051007c विमानं देवराजस्य शुशुभे खेचरं तदा 04051008a तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः 04051008c गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः 04051009a तथा राजा वसुमना बलाक्षः सुप्रतर्दनः 04051009c अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः 04051010a मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः 04051010c विमाने देवराजस्य समदृश्यन्त सुप्रभाः 04051011a अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः 04051011c तथा धातुर्विधातुश्च कुबेरस्य यमस्य च 04051012a अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः 04051012c यथाभागं यथोद्देशं विमानानि चकाशिरे 04051013a सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः 04051013c अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः 04051014a दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः 04051014c प्रससार वसन्ताग्रे वनानामिव पुष्पताम् 04051015a रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् 04051015c आतपत्राणि वासांसि स्रजश्च व्यजनानि च 04051016a उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः 04051016c दिव्यान्गन्धानुपादाय वायुर्योधानसेवत 04051017a प्रभासितमिवाकाशं चित्ररूपमलंकृतम् 04051017c संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः 04051017e विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः 04052001 वैशंपायन उवाच 04052001a एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः 04052001c आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः 04052001e अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः 04052002a तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ 04052002c शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ 04052003a पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् 04052003c विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः 04052004a तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् 04052004c कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः 04052005a ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् 04052005c दिशः संछादयन्बाणैः प्रदिशश्च महारथः 04052006a एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः 04052006c प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् 04052007a स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः 04052007c तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् 04052007e अर्पयित्वा महात्मानं ननाद समरे कृपः 04052008a ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः 04052008c त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः 04052008e चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः 04052009a ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः 04052009c उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् 04052010a च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः 04052010c नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् 04052011a स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् 04052011c विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः 04052012a ततः पार्थो धनुस्तस्य भल्लेन निशितेन च 04052012c चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् 04052013a अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः 04052013c व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् 04052014a तस्य निर्मुच्यमानस्य कवचात्काय आबभौ 04052014c समये मुच्यमानस्य सर्पस्येव तनुर्यथा 04052015a छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् 04052015c चकार गौतमः सज्यं तदद्भुतमिवाभवत् 04052016a स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा 04052016c एवमन्यानि चापानि बहूनि कृतहस्तवत् 04052016e शारद्वतस्य चिच्छेद पाण्डवः परवीरहा 04052017a स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् 04052017c प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव 04052018a तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् 04052018c वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः 04052018e सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता 04052019a युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः 04052019c तमाशु निशितैः पार्थं बिभेद दशभिः शरैः 04052020a ततः पार्थो महातेजा विशिखानग्नितेजसः 04052020c चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् 04052021a अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् 04052021c षष्ठेन च शिरः कायाच्छरेण रथसारथेः 04052022a त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः 04052022c द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा 04052023a ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव 04052023c त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् 04052024a स छिन्नधन्वा विरथो हताश्वो हतसारथिः 04052024c गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् 04052025a सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता 04052025c अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् 04052026a ततो योधाः परीप्सन्तः शारद्वतममर्षणम् 04052026c सर्वतः समरे पार्थं शरवर्षैरवाकिरन् 04052027a ततो विराटस्य सुतः सव्यमावृत्य वाजिनः 04052027c यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् 04052028a ततः कृपमुपादाय विरथं ते नरर्षभाः 04052028c अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात् 04053001 अर्जुन उवाच 04053001a यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा 04053001c उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता 04053001e तत्र मां वह भद्रं ते द्रोणानीकाय मारिष 04053002a अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः 04053002c स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः 04053002e युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः 04053003a दीर्घबाहुर्महातेजा बलरूपसमन्वितः 04053003c सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् 04053004a बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये 04053004c वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च 04053005a ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष 04053005c धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः 04053006a क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् 04053006c एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे 04053007a तेनाहं योद्धुमिच्छामि महाभागेन संयुगे 04053007c तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय 04053008 वैशंपायन उवाच 04053008a अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् 04053008c चोदयामास तानश्वान्भारद्वाजरथं प्रति 04053009a तमापतन्तं वेगेन पाण्डवं रथिनां वरम् 04053009c द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् 04053010a ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् 04053010c प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः 04053011a अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः 04053011c मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः 04053012a तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि 04053012c आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ 04053013a समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ 04053013c दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् 04053014a हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् 04053014c रथं रथेन द्रोणस्य समासाद्य महारथः 04053015a अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः 04053015c उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा 04053016a उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः 04053016c कोपं नार्हसि नः कर्तुं सदा समरदुर्जय 04053017a अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ 04053017c इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति 04053018a ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् 04053018c अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् 04053019a ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् 04053019c अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् 04053020a एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः 04053020c समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः 04053021a तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे 04053021c उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ 04053021e क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् 04053022a व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः 04053022c शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् 04053023a द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् 04053023c रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत 04053023e इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः 04053024a वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ 04053024c छादयेतां शरव्रातैरन्योन्यमपराजितौ 04053025a विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् 04053025c संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत 04053026a स सायकमयैर्जालैरर्जुनस्य रथं प्रति 04053026c भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् 04053027a पार्थं च स महाबाहुर्महावेगैर्महारथः 04053027c विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् 04053028a तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः 04053028c शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् 04053028e विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् 04053029a नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् 04053029c तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् 04053030a स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः 04053030c युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् 04053031a एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः 04053031c नादृश्यत तदा द्रोणो नीहारेणेव संवृतः 04053032a तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः 04053032c जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः 04053033a दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् 04053033c स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् 04053034a अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् 04053034c व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः 04053034e महानभूत्ततः शब्दो वंशानामिव दह्यताम् 04053035a जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः 04053035c प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् 04053036a ततः कनकपुङ्खानां शराणां नतपर्वणाम् 04053036c वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः 04053037a द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् 04053037c एको दीर्घ इवादृश्यदाकाशे संहतः शरः 04053038a एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् 04053038c आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः 04053039a शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः 04053039c पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव 04053040a युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः 04053040c द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव 04053041a तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् 04053041c शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः 04053042a तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ 04053042c उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः 04053043a अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् 04053043c न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः 04053044a दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः 04053044c इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् 04053045a जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् 04053045c आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः 04053045e अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः 04053046a दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे 04053046c अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् 04053047a तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः 04053047c अमर्षिणोस्तदान्योन्यं देवदानवयोरिव 04053048a ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः 04053048c द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः 04053049a एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् 04053049c एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः 04053050a ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु 04053050c पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः 04053051a ततो नागा रथाश्चैव सादिनश्च विशां पते 04053051c शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः 04053052a बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः 04053052c सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः 04053053a योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः 04053053c बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे 04053054a विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने 04053054c आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः 04053055a अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् 04053055c दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् 04053056a प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् 04053056c जेतारं देवदैत्यानां सर्पाणां च महारथम् 04053057a अविश्रमं च शिक्षां च लाघवं दूरपातिताम् 04053057c पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः 04053058a अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः 04053058c विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ 04053059a तस्य बाणमयं वर्षं शलभानामिवायतम् 04053059c न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् 04053060a अनिशं संदधानस्य शरानुत्सृजतस्तदा 04053060c ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च 04053061a तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे 04053061c शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् 04053062a ततः शतसहस्राणि शराणां नतपर्वणाम् 04053062c युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् 04053063a अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना 04053063c हाहाकारो महानासीत्सैन्यानां भरतर्षभ 04053064a पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् 04053064c गन्धर्वाप्सरसश्चैव ये च तत्र समागताः 04053065a ततो वृन्देन महता रथानां रथयूथपः 04053065c आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् 04053066a अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः 04053066c पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् 04053067a स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे 04053067c किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् 04053068a आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् 04053068c अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् 04053069a स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः 04053069c छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः 04054001 वैशंपायन उवाच 04054001a तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम् 04054001c शरजालेन महता वर्षमाणमिवाम्बुदम् 04054002a तयोर्देवासुरसमः संनिपातो महानभूत् 04054002c किरतोः शरजालानि वृत्रवासवयोरिव 04054003a न स्म सूर्यस्तदा भाति न च वाति समीरणः 04054003c शरगाढे कृते व्योम्नि छायाभूते समन्ततः 04054004a महांश्चटचटाशब्दो योधयोर्हन्यमानयोः 04054004c दह्यतामिव वेणूनामासीत्परपुरंजय 04054005a हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान् 04054005c स राजन्न प्रजानाति दिशं कांचन मोहितः 04054006a ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः 04054006c विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह 04054006e तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम् 04054007a ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम् 04054007c पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः 04054008a ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा 04054008c योजयामास नवया मौर्व्या गाण्डीवमोजसा 04054009a ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत् 04054009c वारणेनेव मत्तेन मत्तो वारणयूथपः 04054010a ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः 04054010c रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम् 04054011a तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः 04054011c युध्यमानौ महात्मानौ यूथपाविव संगतौ 04054012a तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ 04054012c शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः 04054013a अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः 04054013c तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः 04054014a अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे 04054014c जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः 04054015a ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा 04054015c अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत् 04054016a तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः 04054016c ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत् 04054017a स रोषवशमापन्नः कर्णमेव जिघांसया 04054017c अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः 04054018a तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान् 04054018c त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः 04054019a उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः 04054019c अभिदुद्राव सहसा कर्णमेव सपत्नजित् 04054020a तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः 04054020c कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत् 04055001 अर्जुन उवाच 04055001a कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् 04055001c न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् 04055002a अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् 04055002c इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् 04055003a यत्त्वया कथितं पूर्वं मामनासाद्य किंचन 04055003c तदद्य कुरु राधेय कुरुमध्ये मया सह 04055004a यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः 04055004c दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् 04055005a धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा 04055005c तस्य राधेय कोपस्य विजयं पश्य मे मृधे 04055006a एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् 04055006c प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः 04055007 कर्ण उवाच 04055007a ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर 04055007c अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि 04055008a यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् 04055008c इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् 04055009a धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा 04055009c तथैव बद्धमात्मानमबद्धमिव मन्यसे 04055010a यदि तावद्वने वासो यथोक्तश्चरितस्त्वया 04055010c तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि 04055011a यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् 04055011c तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः 04055012a अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः 04055012c योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् 04055013 अर्जुन उवाच 04055013a इदानीमेव तावत्त्वमपयातो रणान्मम 04055013c तेन जीवसि राधेय निहतस्त्वनुजस्तव 04055014a भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः 04055014c त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः 04055015 वैशंपायन उवाच 04055015a इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः 04055015c अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः 04055016a प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् 04055016c शरवर्षेण महता वर्षमाण इवाम्बुदः 04055017a उत्पेतुः शरजालानि घोररूपाणि सर्वशः 04055017c अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् 04055018a सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् 04055018c चिच्छेद निशिताग्रेण शरेण नतपर्वणा 04055019a उपासङ्गादुपादाय कर्णो बाणानथापरान् 04055019c विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत 04055020a ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् 04055020c स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः 04055021a ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः 04055021c तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् 04055022a ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः 04055022c आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि 04055023a अथापरेण बाणेन ज्वलितेन महाभुजः 04055023c विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् 04055024a तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः 04055024c ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् 04055025a स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः 04055025c ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः 04056001 वैशंपायन उवाच 04056001a ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् 04056001c एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः 04056002a अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः 04056002c काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः 04056002e आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे 04056003a अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय 04056003c शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे 04056004a सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम 04056004c दक्षिणेनाथ वामेन कतरेण स्विदस्यति 04056004e इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः 04056005a शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् 04056005c नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् 04056006a पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् 04056006c वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः 04056007a जयतः कौरवीं सेनामेकस्य मम धन्विनः 04056007c शतं मार्गा भविष्यन्ति पावकस्येव कानने 04056007e मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् 04056008a असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च 04056008c दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः 04056009a अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा 04056009c पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च 04056010a अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् 04056010c प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः 04056011a अहं पारे समुद्रस्य हिरण्यपुरमारुजम् 04056011c जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् 04056012a ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् 04056012c वनमादीपयिष्यामि कुरूणामस्त्रतेजसा 04056013a तानहं रथनीडेभ्यः शरैः संनतपर्वभिः 04056013c एकः संकालयिष्यामि वज्रपाणिरिवासुरान् 04056014a रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि 04056014c अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः 04056014e वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् 04056015a धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् 04056015c अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् 04056016a एवमाश्वासितस्तेन वैराटिः सव्यसाचिना 04056016c व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः 04056017a तमायान्तं महाबाहुं जिगीषन्तं रणे परान् 04056017c अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् 04056018a तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः 04056018c आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः 04056019a दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः 04056019c आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् 04056020a दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् 04056020c द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे 04056021a तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् 04056021c चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् 04056022a अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे 04056022c सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः 04056023a तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः 04056023c विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः 04056024a ततस्तमपि कौन्तेयः शरेणानतपर्वणा 04056024c ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् 04056025a ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः 04056025c अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे 04056026a तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः 04056026c विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् 04056027a तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ 04056027c अभिपत्य रथैरन्यैरपनीतौ पदानुगैः 04056028a सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः 04056028c किरीटमाली कौन्तेयो लब्धलक्षो महाबलः 04057001 वैशंपायन उवाच 04057001a अथ संगम्य सर्वे तु कौरवाणां महारथाः 04057001c अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत 04057002a स सायकमयैर्जालैः सर्वतस्तान्महारथान् 04057002c प्राच्छादयदमेयात्मा नीहार इव पर्वतान् 04057003a नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः 04057003c भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् 04057004a नराश्वकायान्निर्भिद्य लोहानि कवचानि च 04057004c पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः 04057005a त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे 04057005c मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः 04057006a उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा 04057006c सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः 04057007a शरैः संताड्यमानानां कवचानां महात्मनाम् 04057007c ताम्रराजतलोहानां प्रादुरासीन्महास्वनः 04057008a छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् 04057008c गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः 04057009a रथोपस्थाभिपतितैरास्तृता मानवैर्मही 04057009c प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः 04057010a श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः 04057010c त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् 04057011a कुण्डलोष्णीषधारीणि जातरूपस्रजानि च 04057011c पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि 04057012a विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः 04057012c सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी 04057013a शिरसां पात्यमानानामन्तरा निशितैः शरैः 04057013c अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ 04057014a दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः 04057014c अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च 04057014e क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः 04057015a तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम् 04057015c सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः 04057016a वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान् 04057016c अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत 04057017a प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् 04057017c अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् 04057018a शरचापप्लवां घोरां मांसशोणितकर्दमाम् 04057018c महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् 04057018e चकार महतीं पार्थो नदीमुत्तरशोणिताम् 04057019a आददानस्य हि शरान्संधाय च विमुञ्चतः 04057019c विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् 04058001 वैशंपायन उवाच 04058001a अथ दुर्योधनः कर्णो दुःशासनविविंशती 04058001c द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे 04058002a पुनरीयुः सुसंरब्धा धनंजयजिघांसया 04058002c विस्फारयन्तश्चापानि बलवन्ति दृढानि च 04058003a तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा 04058003c प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः 04058004a ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः 04058004c तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम् 04058005a शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः 04058005c ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम् 04058006a इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः 04058006c अदूरात्पर्यवस्थाय पूरयामासुरादृताः 04058007a तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः 04058007c न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत 04058008a ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः 04058008c अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत् 04058009a स रश्मिभिरिवादित्यः प्रतपन्समरे बली 04058009c किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून् 04058010a यथा बलाहके विद्युत्पावको वा शिलोच्चये 04058010c तथा गाण्डीवमभवदिन्द्रायुधमिवाततम् 04058011a यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि 04058011c तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत् 04058012a त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः 04058012c सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे 04058012e संग्रामविमुखाः सर्वे योधास्ते हतचेतसः 04058013a एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ 04058013c प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते 04059001 वैशंपायन उवाच 04059001a ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् 04059001c वध्यमानेषु योधेषु धनंजयमुपाद्रवत् 04059002a प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् 04059002c शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः 04059003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 04059003c शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा 04059004a प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् 04059004c प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् 04059005a तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा 04059005c प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः 04059006a ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् 04059006c समपर्यन्महावेगाञ्श्वसमानानिवोरगान् 04059007a ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः 04059007c ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् 04059008a ततो भल्लेन महता पृथुधारेण पाण्डवः 04059008c छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि 04059009a ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् 04059009c शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी 04059010a तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् 04059010c भीष्मस्य सह पार्थेन बलिवासवयोरिव 04059011a भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि 04059011c अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि 04059012a अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः 04059012c गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् 04059013a स तैः संछादयामास भीष्मं शरशतैः शितैः 04059013c पर्वतं वारिधाराभिश्छादयन्निव तोयदः 04059014a तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् 04059014c व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् 04059015a ततस्तानि निकृत्तानि शरजालानि भागशः 04059015c समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति 04059016a ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् 04059016c पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् 04059016e व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः 04059017a ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् 04059017c दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् 04059018a बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः 04059018c कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे 04059019a ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् 04059019c आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् 04059020a अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ 04059020c चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ 04059021a प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् 04059021c कौबेरं वारुणं चैव याम्यं वायव्यमेव च 04059021e प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः 04059022a विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा 04059022c साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् 04059023a नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् 04059023c महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः 04059024a एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत 04059024c अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् 04059024e चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् 04059025a निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे 04059025c समादाय महाबाहुः सज्यं चक्रे महाबलः 04059025e शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये 04059026a अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् 04059026c चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे 04059027a तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् 04059027c न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः 04059028a अथावृणोद्दश दिशः शरैरतिरथस्तदा 04059028c किरीटमाली कौन्तेयः शूरः शांतनवस्तथा 04059029a अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् 04059029c बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम् 04059030a पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः 04059030c शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् 04059031a ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः 04059031c आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः 04059032a निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः 04059032c आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः 04059033a तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः 04059033c प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः 04059034a तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् 04059034c शशंस देवराजाय चित्रसेनः प्रतापवान् 04059035a पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः 04059035c चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः 04059036a नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते 04059036c पौराणानां महास्त्राणां विचित्रोऽयं समागमः 04059037a मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे 04059037c न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् 04059038a उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ 04059038c उभौ सदृशकर्माणावुभौ युधि दुरासदौ 04059039a इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् 04059039c पूजयामास दिव्येन पुष्पवर्षेण भारत 04059040a ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् 04059040c अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः 04059041a ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् 04059041c न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः 04059042a अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 04059042c यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः 04059043a स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् 04059043c गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः 04059044a तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् 04059044c उपदेशमनुस्मृत्य रक्षमाणो महारथम् 04060001 वैशंपायन उवाच 04060001a भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः 04060001c उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद 04060002a स भीमधन्वानमुदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम् 04060002c आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये 04060003a स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन 04060003c रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः 04060004a अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम् 04060004c सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म 04060005a स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः 04060005c शरानुपादाय विषाग्निकल्पा;न्विव्याध राजानमदीनसत्त्वः 04060006a दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः 04060006c अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ 04060007a ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः 04060007c रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् 04060008a तमापतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये 04060008c आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन 04060009a पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् 04060009c विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः 04060010a शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा 04060010c संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य 04060011a निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य 04060011c तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह 04060012a निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम् 04060012c तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद 04060013a ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे 04060013c गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना;स्ते योधमुख्याः सहसापजग्मुः 04060014a दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य 04060014c रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः 04060015a तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी 04060015c प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम् 04060016 अर्जुन उवाच 04060016a विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम् 04060016c न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे 04060017a युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि 04060017c तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र 04060018a मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात् 04060018c न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय 04060019a न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् 04060019c परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष 04061001 वैशंपायन उवाच 04061001a आहूयमानस्तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः 04061001c निवर्तितस्तस्य गिराङ्कुशेन; गजो यथा मत्त इवाङ्कुशेन 04061002a सोऽमृष्यमाणो वचसाभिमृष्टो; महारथेनातिरथस्तरस्वी 04061002c पर्याववर्ताथ रथेन वीरो; भोगी यथा पादतलाभिमृष्टः 04061003a तं प्रेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्धगात्रः 04061003c दुर्योधनं दक्षिणतोऽभ्यगच्छ;त्पार्थं नृवीरो युधि हेममाली 04061004a भीष्मस्ततः शांतनवो निवृत्य; हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान् 04061004c दुर्योधनं पश्चिमतोऽभ्यरक्ष;त्पार्थान्महाबाहुरधिज्यधन्वा 04061005a द्रोणः कृपश्चैव विविंशतिश्च; दुःशासनश्चैव निवृत्य शीघ्रम् 04061005c सर्वे पुरस्ताद्विततेषुचापा; दुर्योधनार्थं त्वरिताभ्युपेयुः 04061006a स तान्यनीकानि निवर्तमाना;न्यालोक्य पूर्णौघनिभानि पार्थः 04061006c हंसो यथा मेघमिवापतन्तं; धनंजयः प्रत्यपतत्तरस्वी 04061007a ते सर्वतः संपरिवार्य पार्थ;मस्त्राणि दिव्यानि समाददानाः 04061007c ववर्षुरभ्येत्य शरैः समन्ता;न्मेघा यथा भूधरमम्बुवेगैः 04061008a ततोऽस्त्रमस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम् 04061008c संमोहनं शत्रुसहोऽन्यदस्त्रं; प्रादुश्चकारैन्द्रिरपारणीयम् 04061009a ततो दिशश्चानुदिशो विवृत्य; शरैः सुधारैर्निशितैः सुपुङ्खैः 04061009c गाण्डीवघोषेण मनांसि तेषां; महाबलः प्रव्यथयां चकार 04061010a ततः पुनर्भीमरवं प्रगृह्य; दोर्भ्यां महाशङ्खमुदारघोषम् 04061010c व्यनादयत्स प्रदिशो दिशः खं; भुवं च पार्थो द्विषतां निहन्ता 04061011a ते शङ्खनादेन कुरुप्रवीराः; संमोहिताः पार्थसमीरितेन 04061011c उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्तिपरा बभूवुः 04061012a तथा विसंज्ञेषु परेषु पार्थः; स्मृत्वा तु वाक्यानि तथोत्तरायाः 04061012c निर्याहि मध्यादिति मत्स्यपुत्र;मुवाच यावत्कुरवो विसंज्ञाः 04061013a आचार्य शारद्वतयोः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम् 04061013c द्रौणेश्च राज्ञश्च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर 04061014a भीष्मस्य संज्ञां तु तथैव मन्ये; जानाति मेऽस्त्रप्रतिघातमेषः 04061014c एतस्य वाहान्कुरु सव्यतस्त्व;मेवं हि यातव्यममूढसंज्ञैः 04061015a रश्मीन्समुत्सृज्य ततो महात्मा; रथादवप्लुत्य विराटपुत्रः 04061015c वस्त्राण्युपादाय महारथानां; तूर्णं पुनः स्वं रथमारुरोह 04061016a ततोऽन्वशासच्चतुरः सदश्वा;न्पुत्रो विराटस्य हिरण्यकक्ष्यान् 04061016c ते तद्व्यतीयुर्ध्वजिनामनीकं; श्वेता वहन्तोऽर्जुनमाजिमध्यात् 04061017a तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैरभ्यहनत्तरस्वी 04061017c स चापि भीष्मस्य हयान्निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः 04061018a ततोऽर्जुनो भीष्ममपास्य युद्धे; विद्ध्वास्य यन्तारमरिष्टधन्वा 04061018c तस्थौ विमुक्तो रथवृन्दमध्या;द्राहुं विदार्येव सहस्ररश्मिः 04061019a लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम् 04061019c रणाद्विमुक्तं स्थितमेकमाजौ; स धार्तराष्ट्रस्त्वरितो बभाषे 04061020a अयं कथं स्विद्भवतां विमुक्त;स्तं वै प्रबध्नीत यथा न मुच्येत् 04061020c तमब्रवीच्छांतनवः प्रहस्य; क्व ते गता बुद्धिरभूत्क्व वीर्यम् 04061021a शान्तिं पराश्वस्य यथा स्थितोऽभू;रुत्सृज्य बाणांश्च धनुश्च चित्रम् 04061021c न त्वेव बीभत्सुरलं नृशंसं; कर्तुं न पापेऽस्य मनो निविष्टम् 04061022a त्रैलोक्यहेतोर्न जहेत्स्वधर्मं; तस्मान्न सर्वे निहता रणेऽस्मिन् 04061022c क्षिप्रं कुरून्याहि कुरुप्रवीर; विजित्य गाश्च प्रतियातु पार्थः 04061023a दुर्योधनस्तस्य तु तन्निशम्य; पितामहस्यात्महितं वचोऽथ 04061023c अतीतकामो युधि सोऽत्यमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम् 04061024a तद्भीष्मवाक्यं हितमीक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम् 04061024c निवर्तनायैव मनो निदध्यु;र्दुर्योधनं ते परिरक्षमाणाः 04061025a तान्प्रस्थितान्प्रीतमनाः स पार्थो; धनंजयः प्रेक्ष्य कुरुप्रवीरान् 04061025c आभाषमाणोऽनुययौ मुहूर्तं; संपूजयंस्तत्र गुरून्महात्मा 04061026a पितामहं शांतनवं स वृद्धं; द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना 04061026c द्रौणिं कृपं चैव गुरूंश्च सर्वा;ञ्शरैर्विचित्रैरभिवाद्य चैव 04061027a दुर्योधनस्योत्तमरत्नचित्रं; चिच्छेद पार्थो मुकुटं शरेण 04061027c आमन्त्र्य वीरांश्च तथैव मान्या;न्गाण्डीवघोषेण विनाद्य लोकान् 04061028a स देवदत्तं सहसा विनाद्य; विदार्य वीरो द्विषतां मनांसि 04061028c ध्वजेन सर्वानभिभूय शत्रू;न्स हेमजालेन विराजमानः 04061029a दृष्ट्वा प्रयातांस्तु कुरून्किरीटी; हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् 04061029c आवर्तयाश्वान्पशवो जितास्ते; याताः परे याहि पुरं प्रहृष्टः 04062001 वैशंपायन उवाच 04062001a ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः 04062001c समानयामास तदा विराटस्य धनं महत् 04062002a गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः 04062002c वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः 04062003a भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः 04062003c मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा 04062004a क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः 04062004c ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते 04062005 अर्जुन उवाच 04062005a स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन 04062005c नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः 04062006 वैशंपायन उवाच 04062006a तस्य तामभयां वाचं श्रुत्वा योधाः समागताः 04062006c आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन् 04062007a ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः 04062007c पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत् 04062008a राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः 04062008c गोकुलानि महाबाहो वीर गोपालकैः सह 04062009a ततोऽपराह्णे यास्यामो विराटनगरं प्रति 04062009c आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः 04062010a गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया 04062010c नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् 04062011 वैशंपायन उवाच 04062011a उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः 04062011c वचनादर्जुनस्यैव आचक्षध्वं जयं मम 04063001 वैशंपायन उवाच 04063001a अवजित्य धनं चापि विराटो वाहिनीपतिः 04063001c प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः 04063002a जित्वा त्रिगर्तान्संग्रामे गाश्चैवादाय केवलाः 04063002c अशोभत महाराजः सह पार्थैः श्रिया वृतः 04063003a तमासनगतं वीरं सुहृदां प्रीतिवर्धनम् 04063003c उपतस्थुः प्रकृतयः समस्ता ब्राह्मणैः सह 04063004a सभाजितः ससैन्यस्तु प्रतिनन्द्याथ मत्स्यराट् 04063004c विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा 04063005a ततः स राजा मत्स्यानां विराटो वाहिनीपतिः 04063005c उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् 04063006a आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि 04063006c अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् 04063007a विजेतुमभिसंरब्ध एक एवातिसाहसात् 04063007c बृहन्नडासहायश्च निर्यातः पृथिवींजयः 04063008a उपयातानतिरथान्द्रोणं शांतनवं कृपम् 04063008c कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् 04063009a राजा विराटोऽथ भृशं प्रतप्तः; श्रुत्वा सुतं ह्येकरथेन यातम् 04063009c बृहन्नडासारथिमाजिवर्धनं; प्रोवाच सर्वानथ मन्त्रिमुख्यान् 04063010a सर्वथा कुरवस्ते हि ये चान्ये वसुधाधिपाः 04063010c त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कदाचन 04063011a तस्माद्गच्छन्तु मे योधा बलेन महता वृताः 04063011c उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः 04063012a हयांश्च नागांश्च रथांश्च शीघ्रं; पदातिसंघांश्च ततः प्रवीरान् 04063012c प्रस्थापयामास सुतस्य हेतो;र्विचित्रशस्त्राभरणोपपन्नान् 04063013a एवं स राजा मत्स्यानां विराटोऽक्षौहिणीपतिः 04063013c व्यादिदेशाथ तां क्षिप्रं वाहिनीं चतुरङ्गिणीम् 04063014a कुमारमाशु जानीत यदि जीवति वा न वा 04063014c यस्य यन्ता गतः षण्ढो मन्येऽहं न स जीवति 04063015a तमब्रवीद्धर्मराजः प्रहस्य; विराटमार्तं कुरुभिः प्रतप्तम् 04063015c बृहन्नडा सारथिश्चेन्नरेन्द्र; परे न नेष्यन्ति तवाद्य गास्ताः 04063016a सर्वान्महीपान्सहितान्कुरूंश्च; तथैव देवासुरयक्षनागान् 04063016c अलं विजेतुं समरे सुतस्ते; स्वनुष्ठितः सारथिना हि तेन 04063017a अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः 04063017c विराटनगरं प्राप्य जयमावेदयंस्तदा 04063018a राज्ञस्ततः समाचख्यौ मन्त्री विजयमुत्तमम् 04063018c पराजयं कुरूणां चाप्युपायान्तं तथोत्तरम् 04063019a सर्वा विनिर्जिता गावः कुरवश्च पराजिताः 04063019c उत्तरः सह सूतेन कुशली च परंतप 04063020 कङ्क उवाच 04063020a दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः 04063020c दिष्ट्या ते जीवितः पुत्रः श्रूयते पार्थिवर्षभ 04063021a नाद्भुतं त्वेव मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् 04063021c ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नडा 04063022 वैशंपायन उवाच 04063022a ततो विराटो नृपतिः संप्रहृष्टतनूरुहः 04063022c श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः 04063022e आच्छादयित्वा दूतांस्तान्मन्त्रिणः सोऽभ्यचोदयत् 04063023a राजमार्गाः क्रियन्तां मे पताकाभिरलंकृताः 04063023c पुष्पोपहारैरर्च्यन्तां देवताश्चापि सर्वशः 04063024a कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः 04063024c वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम 04063025a घण्टापणवकः शीघ्रं मत्तमारुह्य वारणम् 04063025c शृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम 04063026a उत्तरा च कुमारीभिर्बह्वीभिरभिसंवृता 04063026c शृङ्गारवेषाभरणा प्रत्युद्यातु बृहन्नडाम् 04063027a श्रुत्वा तु तद्वचनं पार्थिवस्य; सर्वे पुनः स्वस्तिकपाणयश्च 04063027c भेर्यश्च तूर्याणि च वारिजाश्च; वेषैः परार्ध्यैः प्रमदाः शुभाश्च 04063028a तथैव सूताः सह मागधैश्च; नन्दीवाद्याः पणवास्तूर्यवाद्याः 04063028c पुराद्विराटस्य महाबलस्य; प्रत्युद्ययुः पुत्रमनन्तवीर्यम् 04063029a प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः 04063029c मत्स्यराजो महाप्राज्ञः प्रहृष्ट इदमब्रवीत् 04063029e अक्षानाहर सैरन्ध्रि कङ्क द्यूतं प्रवर्तताम् 04063030a तं तथा वादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत 04063030c न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् 04063031a न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे 04063031c प्रियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे 04063032 विराट उवाच 04063032a स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन 04063032c न मे किंचित्त्वया रक्ष्यमन्तरेणापि देवितुम् 04063033 कङ्क उवाच 04063033a किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद 04063033c देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् 04063034a श्रुतस्ते यदि वा दृष्टः पाण्डवो वै युधिष्ठिरः 04063034c स राज्यं सुमहत्स्फीतं भ्रातॄंश्च त्रिदशोपमान् 04063035a द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये 04063035c अथ वा मन्यसे राजन्दीव्याव यदि रोचते 04063036 वैशंपायन उवाच 04063036a प्रवर्तमाने द्यूते तु मत्स्यः पाण्डवमब्रवीत् 04063036c पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः 04063037a ततोऽब्रवीन्मत्स्यराजं धर्मपुत्रो युधिष्ठिरः 04063037c बृहन्नडा यस्य यन्ता कथं स न विजेष्यति 04063038a इत्युक्तः कुपितो राजा मत्स्यः पाण्डवमब्रवीत् 04063038c समं पुत्रेण मे षण्ढं ब्रह्मबन्धो प्रशंससि 04063039a वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे 04063039c भीष्मद्रोणमुखान्सर्वान्कस्मान्न स विजेष्यति 04063040a वयस्यत्वात्तु ते ब्रह्मन्नपराधमिमं क्षमे 04063040c नेदृशं ते पुनर्वाच्यं यदि जीवितुमिच्छसि 04063041 युधिष्ठिर उवाच 04063041a यत्र द्रोणस्तथा भीष्मो द्रौणिर्वैकर्तनः कृपः 04063041c दुर्योधनश्च राजेन्द्र तथान्ये च महारथाः 04063042a मरुद्गणैः परिवृतः साक्षादपि शतक्रतुः 04063042c कोऽन्यो बृहन्नडायास्तान्प्रतियुध्येत संगतान् 04063043 विराट उवाच 04063043a बहुशः प्रतिषिद्धोऽसि न च वाचं नियच्छसि 04063043c नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् 04063044 वैशंपायन उवाच 04063044a ततः प्रकुपितो राजा तमक्षेणाहनद्भृशम् 04063044c मुखे युधिष्ठिरं कोपान्नैवमित्येव भर्त्सयन् 04063045a बलवत्प्रतिविद्धस्य नस्तः शोणितमागमत् 04063045c तदप्राप्तं महीं पार्थः पाणिभ्यां प्रत्यगृह्णत 04063046a अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् 04063046c सा वेद तमभिप्रायं भर्तुश्चित्तवशानुगा 04063047a पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता 04063047c तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् 04063048a अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा 04063048c अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् 04063049a सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा 04063049c आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् 04063050a ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् 04063050c बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः 04063051a ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् 04063051c प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः 04063052a क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् 04063052c उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा 04063053a एतस्य हि महाबाहो व्रतमेतत्समाहितम् 04063053c यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् 04063053e अन्यत्र संग्रामगतान्न स जीवेदसंशयम् 04063054a न मृष्याद्भृशसंक्रुद्धो मां दृष्ट्वैव सशोणितम् 04063054c विराटमिह सामात्यं हन्यात्सबलवाहनम् 04064001 वैशंपायन उवाच 04064001a ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः 04064001c सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत 04064002a स तं रुधिरसंसिक्तमनेकाग्रमनागसम् 04064002c भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् 04064003a ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः 04064003c केनायं ताडितो राजन्केन पापमिदं कृतम् 04064004 विराट उवाच 04064004a मयायं ताडितो जिह्मो न चाप्येतावदर्हति 04064004c प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति 04064005 उत्तर उवाच 04064005a अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् 04064005c मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् 04064006 वैशंपायन उवाच 04064006a स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः 04064006c क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् 04064007a क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत 04064007c चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम 04064008a यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः 04064008c सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः 04064009a न दूषयामि ते राजन्यच्च हन्याददूषकम् 04064009c बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् 04064010a शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा 04064010c अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत 04064011a क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् 04064011c प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः 04064012a त्वया दायादवानस्मि कैकेयीनन्दिवर्धन 04064012c त्वया मे सदृशः पुत्रो न भूतो न भविष्यति 04064013a पदं पदसहस्रेण यश्चरन्नापराध्नुयात् 04064013c तेन कर्णेन ते तात कथमासीत्समागमः 04064014a मनुष्यलोके सकले यस्य तुल्यो न विद्यते 04064014c यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः 04064014e तेन भीष्मेण ते तात कथमासीत्समागमः 04064015a आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः 04064015c सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः 04064015e तेन द्रोणेन ते तात कथमासीत्समागमः 04064016a आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि 04064016c अश्वत्थामेति विख्यातः कथं तेन समागमः 04064017a रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा 04064017c कृपेण तेन ते तात कथमासीत्समागमः 04064018a पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः 04064018c दुर्योधनेन ते तात कथमासीत्समागमः 04064019 उत्तर उवाच 04064019a न मया निर्जिता गावो न मया निर्जिताः परे 04064019c कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् 04064020a स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् 04064020c स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा 04064021a तेन ता निर्जिता गावस्तेन ते कुरवो जिताः 04064021c तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् 04064022a स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् 04064022c सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः 04064023a दुर्योधनं च समरे सनागमिव यूथपम् 04064023c प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् 04064024a न हास्तिनपुरे त्राणं तव पश्यामि किंचन 04064024c व्यायामेन परीप्सस्व जीवितं कौरवात्मज 04064025a न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु 04064025c पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि 04064026a स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् 04064026c सचिवैः संवृतो राजा रथे नाग इव श्वसन् 04064027a तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष 04064027c यदभ्रघनसंकाशमनीकं व्यधमच्छरैः 04064028a तत्प्रणुद्य रथानीकं सिंहसंहननो युवा 04064028c कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली 04064029a एकेन तेन वीरेण षड्रथाः परिवारिताः 04064029c शार्दूलेनेव मत्तेन मृगास्तृणचरा वने 04064030 विराट उवाच 04064030a क्व स वीरो महाबाहुर्देवपुत्रो महायशाः 04064030c यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे 04064031a इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् 04064031c येन मे त्वं च गावश्च रक्षिता देवसूनुना 04064032 उत्तर उवाच 04064032a अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् 04064032c स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति 04064033 वैशंपायन उवाच 04064033a एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् 04064033c वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् 04064034a ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना 04064034c प्रददौ तानि वासांसि विराटदुहितुः स्वयम् 04064035a उत्तरा तु महार्हाणि विविधानि तनूनि च 04064035c प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी 04064036a मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा 04064036c इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे 04064037a ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ 04064037c सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः 04065001 वैशंपायन उवाच 04065001a ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः 04065001c स्नाताः शुक्लाम्बरधराः समये चरितव्रताः 04065002a युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः 04065002c अभिपद्मा यथा नागा भ्राजमाना महारथाः 04065003a विराटस्य सभां गत्वा भूमिपालासनेष्वथ 04065003c निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः 04065004a तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः 04065004c आजगाम सभां कर्तुं राजकार्याणि सर्वशः 04065005a श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव 04065005c अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् 04065005e मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् 04065006a स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः 04065006c अथ राजासने कस्मादुपविष्टोऽस्यलंकृतः 04065007a परिहासेप्सया वाक्यं विराटस्य निशम्य तत् 04065007c स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् 04065008a इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति 04065008c ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः 04065009a अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः 04065009c अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा 04065010a संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः 04065010c उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः 04065011a एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् 04065011c अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् 04065012a त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः 04065012c सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा 04065013a एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः 04065013c अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः 04065014a एनं नित्यमुपासन्त कुरवः किंकरा यथा 04065014c सर्वे च राजन्राजानो धनेश्वरमिवामराः 04065015a एष सर्वान्महीपालान्करमाहारयत्तदा 04065015c वैश्यानिव महाराज विवशान्स्ववशानपि 04065016a अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् 04065016c उपजीवन्ति राजानमेनं सुचरितव्रतम् 04065017a एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् 04065017c पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो 04065018a एष धर्मे दमे चैव क्रोधे चापि यतव्रतः 04065018c महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः 04065019a श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः 04065019c सगणः सह कर्णेन सौबलेनापि वा विभुः 04065020a न शक्यन्ते ह्यस्य गुणाः प्रसंख्यातुं नरेश्वर 04065020c एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः 04065021a एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः 04065021c कथं नार्हति राजार्हमासनं पृथिवीपतिः 04066001 विराट उवाच 04066001a यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः 04066001c कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली 04066002a नकुलः सहदेवो वा द्रौपदी वा यशस्विनी 04066002c यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् 04066003 अर्जुन उवाच 04066003a य एष बल्लवो ब्रूते सूदस्तव नराधिप 04066003c एष भीमो महाबाहुर्भीमवेगपराक्रमः 04066004a एष क्रोधवशान्हत्वा पर्वते गन्धमादने 04066004c सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् 04066005a गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् 04066005c व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव 04066006a यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः 04066006c गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ 04066007a शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ 04066007c नानारथसहस्राणां समर्थौ पुरुषर्षभौ 04066008a एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी 04066008c सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः 04066009a अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः 04066009c भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः 04066010a उषिताः स्म महाराज सुखं तव निवेशने 04066010c अज्ञातवासमुषिता गर्भवास इव प्रजाः 04066011 वैशंपायन उवाच 04066011a यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः 04066011c तदार्जुनस्य वैराटिः कथयामास विक्रमम् 04066012a अयं स द्विषतां मध्ये मृगाणामिव केसरी 04066012c अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् 04066013a अनेन विद्धो मातङ्गो महानेकेषुणा हतः 04066013c हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम् 04066014a अनेन विजिता गावो जिताश्च कुरवो युधि 04066014c अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ 04066015a तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् 04066015c उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे 04066016a प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये 04066016c उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् 04066017 उत्तर उवाच 04066017a अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् 04066017c पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः 04066018 विराट उवाच 04066018a अहं खल्वपि संग्रामे शत्रूणां वशमागतः 04066018c मोक्षितो भीमसेनेन गावश्च विजितास्तथा 04066019a एतेषां बाहुवीर्येण यदस्माकं जयो मृधे 04066019c वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् 04066019e प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् 04066020a यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः 04066020c क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः 04066021 वैशंपायन उवाच 04066021a ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार 04066021c राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा 04066022a पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् 04066022c धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् 04066023a समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः 04066023c युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ 04066024a नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः 04066024c संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् 04066025a दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् 04066025c दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः 04066026a इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन 04066026c प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया 04066027a उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः 04066027c अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः 04066028a एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम् 04066028c ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् 04066029a प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव 04066029c युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ 04067001 विराट उवाच 04067001a किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम 04067001c प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि 04067002 अर्जुन उवाच 04067002a अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव 04067002c रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि 04067003a प्रियो बहुमतश्चाहं नर्तको गीतकोविदः 04067003c आचार्यवच्च मां नित्यं मन्यते दुहिता तव 04067004a वयःस्थया तया राजन्सह संवत्सरोषितः 04067004c अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो 04067005a तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते 04067005c शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया 04067006a स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः 04067006c अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति 04067007a अभिषङ्गादहं भीतो मिथ्याचारात्परंतप 04067007c स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् 04067008a स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा 04067008c दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः 04067009a अभिमन्युर्महाबाहुः पुत्रो मम विशां पते 04067009c जामाता तव युक्तो वै भर्ता च दुहितुस्तव 04067010 विराट उवाच 04067010a उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये 04067010c य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः 04067011a यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् 04067011c सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः 04067012 वैशंपायन उवाच 04067012a एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः 04067012c अन्वजानात्स संयोगं समये मत्स्यपार्थयोः 04067013a ततो मित्रेषु सर्वेषु वासुदेवे च भारत 04067013c प्रेषयामास कौन्तेयो विराटश्च महीपतिः 04067014a ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः 04067014c उपप्लव्ये विराटस्य समपद्यन्त सर्वशः 04067015a तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् 04067015c आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः 04067016a काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे 04067016c अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते 04067017a अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः 04067017c द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः 04067018a धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः 04067018c समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः 04067018e सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः 04067019a तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः 04067019c प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे 04067020a ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः 04067020c तत्रागमद्वासुदेवो वनमाली हलायुधः 04067020e कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः 04067021a अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च 04067021c अभिमन्युमुपादाय सह मात्रा परंतपाः 04067022a इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः 04067022c आययुः सहिताः सर्वे परिसंवत्सरोषिताः 04067023a दश नागसहस्राणि हयानां च शतायुतम् 04067023c रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् 04067024a वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः 04067024c अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् 04067025a पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् 04067025c स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः 04067025e ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः 04067026a ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा 04067026c पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि 04067027a उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् 04067027c सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् 04067028a गायनाख्यानशीलाश्च नटा वैतालिकास्तथा 04067028c स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः 04067029a सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः 04067029c आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः 04067030a वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः 04067030c सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया 04067031a परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम् 04067031c सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे 04067032a तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः 04067032c सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा 04067033a तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् 04067033c स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः 04067034a प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् 04067034c विवाहं कारयामास सौभद्रस्य महात्मनः 04067035a तस्मै सप्त सहस्राणि हयानां वातरंहसाम् 04067035c द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा 04067036a कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः 04067036c ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः 04067037a गोसहस्राणि रत्नानि वस्त्राणि विविधानि च 04067037c भूषणानि च मुख्यानि यानानि शयनानि च 04067038a तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम् 04067038c नगरं मत्स्यराजस्य शुशुभे भरतर्षभ