% Mahabharata: Adiparvan % Last updated: Fri Dec 1 2023 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 01001000a नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 01001000c देवीं सरस्वतीं चैव ततो जयमुदीरयेत् 01001001A लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे 01001002a समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् 01001002c विनयावनतो भूत्वा कदाचित्सूतनन्दनः 01001003a तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः 01001003c चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः 01001004a अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः 01001004c अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः 01001005a अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु 01001005c निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः 01001006a सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च 01001006c अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः 01001007a कुत आगम्यते सौते क्व चायं विहृतस्त्वया 01001007c कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम 01001008 सूत उवाच 01001008a जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः 01001008c समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च 01001009a कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः 01001009c कथिताश्चापि विधिवद्या वैशंपायनेन वै 01001010a श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः 01001010c बहूनि संपरिक्रम्य तीर्थान्यायतनानि च 01001011a समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् 01001011c गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा 01001011e पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् 01001012a दिदृक्षुरागतस्तस्मात्समीपं भवतामिह 01001012c आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः 01001013a अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः 01001013c कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः 01001013e भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः 01001014a पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः 01001014c इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् 01001015 ऋषय ऊचुः 01001015a द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा 01001015c सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् 01001016a तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः 01001016c सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च 01001017a भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् 01001017c संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् 01001018a जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् 01001018c यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया 01001019a वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः 01001019c संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् 01001020 सूत उवाच 01001020a आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् 01001020c ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् 01001021a असच्च सच्चैव च यद्विश्वं सदसतः परम् 01001021c परावराणां स्रष्टारं पुराणं परमव्ययम् 01001022a मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् 01001022c नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् 01001023a महर्षेः पूजितस्येह सर्वलोके महात्मनः 01001023c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01001024a आचख्युः कवयः केचित्संप्रत्याचक्षते परे 01001024c आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि 01001025a इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् 01001025c विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः 01001026a अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः 01001026c छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् 01001027a निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते 01001027c बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् 01001028a युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते 01001028c यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् 01001029a अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् 01001029c अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् 01001030a यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः 01001030c ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ 01001031a प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये 01001031c ततः प्रजानां पतयः प्राभवन्नेकविंशतिः 01001032a पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः 01001032c विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि 01001033a यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा 01001033c ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः 01001034a राजर्षयश्च बहवः सर्वैः समुदिता गुणैः 01001034c आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा 01001035a संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् 01001035c यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् 01001036a यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् 01001036c पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये 01001037a यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये 01001037c दृश्यन्ते तानि तान्येव तथा भावा युगादिषु 01001038a एवमेतदनाद्यन्तं भूतसंहारकारकम् 01001038c अनादिनिधनं लोके चक्रं संपरिवर्तते 01001039a त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च 01001039c त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा 01001040a दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः 01001040c सविता च ऋचीकोऽर्को भानुराशावहो रविः 01001041a पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः 01001041c देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः 01001042a सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः 01001042c दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् 01001043a दश पुत्रसहस्राणि दशज्योतेर्महात्मनः 01001043c ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः 01001044a भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः 01001044c तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च 01001045a ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः 01001045c संभूता बहवो वंशा भूतसर्गाः सविस्तराः 01001046a भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् 01001046c वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च 01001047a धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च 01001047c लोकयात्राविधानं च संभूतं दृष्टवानृषिः 01001048a इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च 01001048c इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् 01001049a विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् 01001049c इष्टं हि विदुषां लोके समासव्यासधारणम् 01001050a मन्वादि भारतं केचिदास्तीकादि तथापरे 01001050c तथोपरिचराद्यन्ये विप्राः सम्यगधीयते 01001051a विविधं संहिताज्ञानं दीपयन्ति मनीषिणः 01001051c व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे 01001052a तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् 01001052c इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः 01001053a पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः 01001053c मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः 01001054a क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा 01001054c त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् 01001055a उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च 01001055c जगाम तपसे धीमान्पुनरेवाश्रमं प्रति 01001056a तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् 01001056c अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः 01001057a जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः 01001057c शशास शिष्यमासीनं वैशंपायनमन्तिके 01001058a स सदस्यैः सहासीनः श्रावयामास भारतम् 01001058c कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः 01001059a विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् 01001059c क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् 01001060a वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् 01001060c दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः 01001061a चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् 01001061c उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः 01001062a ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः 01001062c अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् 01001063a इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् 01001063c ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः 01001064a नारदोऽश्रावयद्देवानसितो देवलः पितॄन् 01001064c गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः 01001065a दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः 01001065c दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी 01001066a युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः 01001066c माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च 01001067a पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च 01001067c अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा 01001068a मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् 01001068c जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः 01001069a मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति 01001069c धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः 01001070a तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः 01001070c मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च 01001071a ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् 01001071c शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः 01001072a पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः 01001072c पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः 01001073a तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा 01001073c शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् 01001074a आहुः केचिन्न तस्यैते तस्यैत इति चापरे 01001074c यदा चिरमृतः पाण्डुः कथं तस्येति चापरे 01001075a स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् 01001075c उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः 01001076a तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् 01001076c अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् 01001077a पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः 01001077c आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् 01001078a तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः 01001078c शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः 01001079a तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च 01001079c न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः 01001080a युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् 01001080c धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 01001081a गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च 01001081c तुतोष लोकः सकलस्तेषां शौर्यगुणेन च 01001082a समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् 01001082c प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् 01001083a ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् 01001083c आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् 01001084a स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् 01001084c आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् 01001085a अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः 01001085c युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः 01001086a सुनयाद्वासुदेवस्य भीमार्जुनबलेन च 01001086c घातयित्वा जरासंधं चैद्यं च बलगर्वितम् 01001087a दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः 01001087c मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च 01001088a समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् 01001088c ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत 01001089a विमानप्रतिमां चापि मयेन सुकृतां सभाम् 01001089c पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत 01001090a यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् 01001090c प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् 01001091a स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च 01001091c कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः 01001092a अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः 01001092c तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् 01001093a नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत 01001093c द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत 01001094a निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् 01001094c विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् 01001095a जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् 01001095c दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा 01001095e धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् 01001096a शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि 01001096c श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः 01001097a न विग्रहे मम मतिर्न च प्रीये कुरुक्षये 01001097c न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च 01001098a वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः 01001098c अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् 01001098e मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् 01001099a राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः 01001099c तच्चावहसनं प्राप्य सभारोहणदर्शने 01001100a अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे 01001100c निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा 01001100e गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् 01001101a तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु 01001101c श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः 01001101e ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत 01001102a यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् 01001102c कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय 01001103a यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन 01001103c इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय 01001104a यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन 01001104c अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय 01001105a यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् 01001105c अन्वागतं भ्रातृभिरप्रमेयै;स्तदा नाशंसे विजयाय संजय 01001106a यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् 01001106c रजस्वलां नाथवतीमनाथव;त्तदा नाशंसे विजयाय संजय 01001107a यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय 01001107c ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय 01001108a यदाश्रौषं स्नातकानां सहस्रै;रन्वागतं धर्मराजं वनस्थम् 01001108c भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय 01001109a यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे 01001109c अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय 01001110a यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् 01001110c अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय 01001111a यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् 01001111c तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय संजय 01001112a यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन 01001112c स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय 01001113a यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत 01001113c प्रश्नानुक्तान्विब्रुवन्तं च सम्य;क्तदा नाशंसे विजयाय संजय 01001114a यदाश्रौषं मामकानां वरिष्ठा;न्धनंजयेनैकरथेन भग्नान् 01001114c विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय 01001115a यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय 01001115c तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय संजय 01001116a यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य 01001116c अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय 01001117a यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य 01001117c अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय 01001118a यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् 01001118c यस्येमां गां विक्रममेकमाहु;स्तदा नाशंसे विजयाय संजय 01001119a यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य 01001119c तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय 01001120a यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् 01001120c आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय 01001121a यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम् 01001121c भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय 01001122a यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति 01001122c हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय संजय 01001123a यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् 01001123c त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय 01001124a यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै 01001124c कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय 01001125a यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् 01001125c नैषां कश्चिद्वध्यते दृश्यरूप;स्तदा नाशंसे विजयाय संजय 01001126a यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् 01001126c शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय 01001127a यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः 01001127c भीष्मं कृत्वा सोमकानल्पशेषां;स्तदा नाशंसे विजयाय संजय 01001128a यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन 01001128c भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय 01001129a यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय 01001129c नित्यं चास्माञ्श्वापदा व्याभषन्त;स्तदा नाशंसे विजयाय संजय 01001130a यदा द्रोणो विविधानस्त्रमार्गा;न्विदर्शयन्समरे चित्रयोधी 01001130c न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय संजय 01001131a यदाश्रौषं चास्मदीयान्महारथा;न्व्यवस्थितानर्जुनस्यान्तकाय 01001131c संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय संजय 01001132a यदाश्रौषं व्यूहमभेद्यमन्यै;र्भारद्वाजेनात्तशस्त्रेण गुप्तम् 01001132c भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय संजय 01001133a यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः 01001133c महारथाः पार्थमशक्नुवन्त;स्तदा नाशंसे विजयाय संजय 01001134a यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् 01001134c क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय 01001135a यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन 01001135c सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय 01001136a यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान्पाययित्वोपवृत्तान् 01001136c पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय 01001137a यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन 01001137c सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय संजय 01001138a यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य 01001138c यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय 01001139a यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः 01001139c धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय 01001140a यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः 01001140c अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय 01001141a यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन 01001141c घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय 01001142a यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् 01001142c यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय 01001143a यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् 01001143c रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय 01001144a यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये 01001144c समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय 01001145a यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् 01001145c नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय संजय 01001146a यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् 01001146c तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय 01001147a यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् 01001147c युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय संजय 01001148a यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत 01001148c सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय 01001149a यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन 01001149c हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय 01001150a यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः 01001150c दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय 01001151a यदाश्रौषं पाण्डवांस्तिष्ठमाना;न्गङ्गाह्रदे वासुदेवेन सार्धम् 01001151c अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय 01001152a यदाश्रौषं विविधांस्तात मार्गा;न्गदायुद्धे मण्डलं संचरन्तम् 01001152c मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय 01001153a यदाश्रौषं द्रोणपुत्रादिभिस्तै;र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् 01001153c कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय संजय 01001154a यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् 01001154c क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय संजय 01001155a यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् 01001155c अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय 01001156a यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे 01001156c द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप 01001157a शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च 01001157c कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः 01001158a कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त 01001158c द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम् 01001159a तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् 01001159c संज्ञां नोपलभे सूत मनो विह्वलतीव मे 01001160a इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः 01001160c मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् 01001161a संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् 01001161c स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे 01001162a तं तथावादिनं दीनं विलपन्तं महीपतिम् 01001162c गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् 01001163a श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् 01001163c द्वैपायनस्य वदतो नारदस्य च धीमतः 01001164a महत्सु राजवंशेषु गुणैः समुदितेषु च 01001164c जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः 01001165a धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः 01001165c अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः 01001166a वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् 01001166c सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् 01001167a बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् 01001167c विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् 01001168a मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च 01001168c रामं दाशरथिं चैव शशबिन्दुं भगीरथम् 01001169a ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् 01001169c चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा 01001170a इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा 01001170c पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः 01001171a तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः 01001171c महारथा महात्मानः सर्वैः समुदिता गुणैः 01001172a पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः 01001172c अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः 01001173a विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः 01001173c उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः 01001174a दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः 01001174c अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः 01001175a देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः 01001175c महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः 01001176a सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः 01001176c जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः 01001177a बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः 01001177c धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः 01001178a अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः 01001178c महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः 01001179a एते चान्ये च बहवः शतशोऽथ सहस्रशः 01001179c श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः 01001180a हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः 01001180c राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः 01001181a येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च 01001181c माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् 01001182a विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः 01001182c सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः 01001183a तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना 01001183c लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि 01001184a श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः 01001184c येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत 01001185a निग्रहानुग्रहौ चापि विदितौ ते नराधिप 01001185c नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे 01001186a भवितव्यं तथा तच्च नातः शोचितुमर्हसि 01001186c दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति 01001187a विधातृविहितं मार्गं न कश्चिदतिवर्तते 01001187c कालमूलमिदं सर्वं भावाभावौ सुखासुखे 01001188a कालः पचति भूतानि कालः संहरति प्रजाः 01001188c निर्दहन्तं प्रजाः कालं कालः शमयते पुनः 01001189a कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् 01001189c कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः 01001189e कालः सर्वेषु भूतेषु चरत्यविधृतः समः 01001190a अतीतानागता भावा ये च वर्तन्ति सांप्रतम् 01001190c तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि 01001191 सूत उवाच 01001191a अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् 01001191c भारताध्ययनात्पुण्यादपि पादमधीयतः 01001191e श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः 01001192a देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा 01001192c कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः 01001193a भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः 01001193c स हि सत्यमृतं चैव पवित्रं पुण्यमेव च 01001194a शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् 01001194c यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः 01001195a असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते 01001195c संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः 01001196a अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् 01001196c अव्यक्तादि परं यच्च स एव परिगीयते 01001197a यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः 01001197c प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् 01001198a श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः 01001198c आसेवन्निममध्यायं नरः पापात्प्रमुच्यते 01001199a अनुक्रमणिमध्यायं भारतस्येममादितः 01001199c आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति 01001200a उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् 01001200c अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम् 01001201a भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च 01001201c नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा 01001202a ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् 01001202c यथैतानि वरिष्ठानि तथा भारतमुच्यते 01001203a यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 01001203c अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति 01001204a इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् 01001204c बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति 01001205a कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते 01001205c भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः 01001206a य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि 01001206c अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः 01001207a यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः 01001207c स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः 01001208a चत्वार एकतो वेदा भारतं चैकमेकतः 01001208c समागतैः सुरर्षिभिस्तुलामारोपितं पुरा 01001208e महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् 01001209a महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते 01001209c निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 01001210a तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः 01001210c प्रसह्य वित्ताहरणं न कल्क;स्तान्येव भावोपहतानि कल्कः 01002001 ऋषय ऊचुः 01002001a समन्तपञ्चकमिति यदुक्तं सूतनन्दन 01002001c एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् 01002002 सूत उवाच 01002002a शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः 01002002c समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः 01002003a त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः 01002003c असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः 01002004a स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः 01002004c समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 01002005a स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः 01002005c पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् 01002006a अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् 01002006c तं क्षमस्वेति सिषिधुस्ततः स विरराम ह 01002007a तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् 01002007c समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् 01002008a येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते 01002008c तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः 01002009a अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् 01002009c समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः 01002010a तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते 01002010c अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया 01002011a एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः 01002011c पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः 01002012a तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः 01002012c यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः 01002013 ऋषय ऊचुः 01002013a अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन 01002013c एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् 01002014a अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् 01002014c यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव 01002015 सूत उवाच 01002015a एको रथो गजश्चैको नराः पञ्च पदातयः 01002015c त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते 01002016a पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः 01002016c त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते 01002017a त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः 01002017c स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः 01002018a चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी 01002018c अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः 01002019a अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः 01002019c संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः 01002020a शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः 01002020c गजानां तु परीमाणमेतदेवात्र निर्दिशेत् 01002021a ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव 01002021c नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः 01002022a पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च 01002022c दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया 01002023a एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः 01002023c यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः 01002024a एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः 01002024c अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः 01002025a समेतास्तत्र वै देशे तत्रैव निधनं गताः 01002025c कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा 01002026a अहानि युयुधे भीष्मो दशैव परमास्त्रवित् 01002026c अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् 01002027a अहनी युयुधे द्वे तु कर्णः परबलार्दनः 01002027c शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् 01002028a तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः 01002028c प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् 01002029a यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् 01002029c आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् 01002030a विचित्रार्थपदाख्यानमनेकसमयान्वितम् 01002030c अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः 01002031a आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् 01002031c इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् 01002032a इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा 01002032c स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् 01002033a अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः 01002033c भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः 01002034a पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः 01002034c पौष्यं पौलोममास्तीकमादिवंशावतारणम् 01002035a ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम् 01002035c दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते 01002036a ततो बकवधः पर्व पर्व चैत्ररथं ततः 01002036c ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते 01002037a क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् 01002037c विदुरागमनं पर्व राज्यलम्भस्तथैव च 01002038a अर्जुनस्य वने वासः सुभद्राहरणं ततः 01002038c सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् 01002039a ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् 01002039c सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् 01002040a जरासंधवधः पर्व पर्व दिग्विजयस्तथा 01002040c पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते 01002041a ततश्चार्घाभिहरणं शिशुपालवधस्ततः 01002041c द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् 01002042a तत आरण्यकं पर्व किर्मीरवध एव च 01002042c ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् 01002043a इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् 01002043c तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः 01002044a जटासुरवधः पर्व यक्षयुद्धमतः परम् 01002044c तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् 01002045a मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् 01002045c संवादश्च ततः पर्व द्रौपदीसत्यभामयोः 01002046a घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः 01002046c व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते 01002047a द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः 01002047c कुण्डलाहरणं पर्व ततः परमिहोच्यते 01002048a आरणेयं ततः पर्व वैराटं तदनन्तरम् 01002048c कीचकानां वधः पर्व पर्व गोग्रहणं ततः 01002049a अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् 01002049c उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् 01002050a ततः संजययानाख्यं पर्व ज्ञेयमतः परम् 01002050c प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 01002051a पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् 01002051c यानसंधिस्ततः पर्व भगवद्यानमेव च 01002052a ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः 01002052c निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः 01002053a रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् 01002053c उलूकदूतागमनं पर्वामर्षविवर्धनम् 01002054a अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् 01002054c भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् 01002055a जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् 01002055c भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् 01002056a पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः 01002056c द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः 01002057a अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते 01002057c जयद्रथवधः पर्व घटोत्कचवधस्ततः 01002058a ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् 01002058c मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते 01002059a कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् 01002059c ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् 01002060a सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् 01002060c अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते 01002061a ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् 01002061c जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् 01002062a श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् 01002062c आभिषेचनिकं पर्व धर्मराजस्य धीमतः 01002063a चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः 01002063c प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् 01002064a शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् 01002064c आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् 01002065a ततः पर्व परिज्ञेयमानुशासनिकं परम् 01002065c स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः 01002066a ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् 01002066c अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् 01002067a पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च 01002067c नारदागमनं पर्व ततः परमिहोच्यते 01002068a मौसलं पर्व च ततो घोरं समनुवर्ण्यते 01002068c महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः 01002069a हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् 01002069c भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् 01002070a एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना 01002070c यथावत्सूतपुत्रेण लोमहर्षणिना पुनः 01002071a कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु 01002071c समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः 01002072a पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् 01002072c पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः 01002073a आस्तीके सर्वनागानां गरुडस्य च संभवः 01002073c क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा 01002074a यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च 01002074c कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् 01002075a विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि 01002075c अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च 01002076a अंशावतरणं चात्र देवानां परिकीर्तितम् 01002076c दैत्यानां दानवानां च यक्षाणां च महौजसाम् 01002077a नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् 01002077c अन्येषां चैव भूतानां विविधानां समुद्भवः 01002078a वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् 01002078c शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि 01002079a तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः 01002079c राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः 01002080a प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च 01002080c हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः 01002081a विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् 01002081c धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा 01002082a कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा 01002082c धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः 01002083a वारणावतयात्रा च मन्त्रो दुर्योधनस्य च 01002083c विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया 01002084a पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् 01002084c घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता 01002085a अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि 01002085c बकस्य निधनं चैव नागराणां च विस्मयः 01002086a अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा 01002086c भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ 01002087a तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् 01002087c पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते 01002088a पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च 01002088c द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः 01002089a विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च 01002089c खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् 01002090a नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया 01002090c सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् 01002091a पार्थस्य वनवासश्च उलूप्या पथि संगमः 01002091c पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च 01002092a द्वारकायां सुभद्रा च कामयानेन कामिनी 01002092c वासुदेवस्यानुमते प्राप्ता चैव किरीटिना 01002093a हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने 01002093c संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् 01002094a अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः 01002094c मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् 01002094e महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः 01002095a इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् 01002095c अध्यायानां शते द्वे तु संख्याते परमर्षिणा 01002095e अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा 01002096a सप्त श्लोकसहस्राणि तथा नव शतानि च 01002096c श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना 01002097a द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते 01002097c सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् 01002098a लोकपालसभाख्यानं नारदाद्देवदर्शनात् 01002098c राजसूयस्य चारम्भो जरासंधवधस्तथा 01002099a गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् 01002099c राजसूयेऽर्घसंवादे शिशुपालवधस्तथा 01002100a यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च 01002100c दुर्योधनस्यावहासो भीमेन च सभातले 01002101a यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् 01002101c यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् 01002102a यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् 01002102c तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः 01002102e पुनरेव ततो द्यूते समाह्वयत पाण्डवान् 01002103a एतत्सर्वं सभापर्व समाख्यातं महात्मना 01002103c अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया 01002104a श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च 01002104c श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः 01002105a अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् 01002105c पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 01002106a वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः 01002106c यत्र सौभवधाख्यानं किर्मीरवध एव च 01002106e अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः 01002107a महादेवेन युद्धं च किरातवपुषा सह 01002107c दर्शनं लोकपालानां स्वर्गारोहणमेव च 01002108a दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः 01002108c युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् 01002109a नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् 01002109c दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे 01002110a वनवासगतानां च पाण्डवानां महात्मनाम् 01002110c स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै 01002111a तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् 01002111c जटासुरस्य तत्रैव वधः समुपवर्ण्यते 01002112a नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने 01002112c यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् 01002113a यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः 01002113c यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा 01002114a आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् 01002114c लोपामुद्राभिगमनमपत्यार्थमृषेरपि 01002115a ततः श्येनकपोतीयमुपाख्यानमनन्तरम् 01002115c इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् 01002116a ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः 01002116c जामदग्न्यस्य रामस्य चरितं भूरितेजसः 01002117a कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते 01002117c सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः 01002118a शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ 01002118c ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः 01002119a जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः 01002119c पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः 01002120a अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् 01002120c विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः 01002121a अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना 01002121c निवातकवचैर्युद्धं हिरण्यपुरवासिभिः 01002122a समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने 01002122c घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः 01002123a पुनरागमनं चैव तेषां द्वैतवनं सरः 01002123c जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् 01002124a यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे 01002124c मार्कण्डेयसमस्यायामुपाख्यानानि भागशः 01002125a संदर्शनं च कृष्णस्य संवादश्चैव सत्यया 01002125c व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च 01002126a सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च 01002126c रामायणमुपाख्यानमत्रैव बहुविस्तरम् 01002127a कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् 01002127c आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् 01002127e जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् 01002128a एतदारण्यकं पर्व तृतीयं परिकीर्तितम् 01002128c अत्राध्यायशते द्वे तु संख्याते परमर्षिणा 01002128e एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः 01002129a एकादश सहस्राणि श्लोकानां षट्शतानि च 01002129c चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् 01002130a अतः परं निबोधेदं वैराटं पर्वविस्तरम् 01002130c विराटनगरं गत्वा श्मशाने विपुलां शमीम् 01002130e दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत 01002131a यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते 01002131c दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् 01002132a गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि 01002132c गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः 01002133a विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः 01002133c अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् 01002134a चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् 01002134c अत्रापि परिसंख्यातमध्यायानां महात्मना 01002135a सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु 01002135c श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु 01002135e पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा 01002136a उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् 01002136c उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया 01002136e दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ 01002137a साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति 01002137c इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः 01002138a अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ 01002138c अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् 01002139a वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः 01002139c अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः 01002140a संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति 01002140c यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् 01002141a श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् 01002141c प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया 01002142a विदुरो यत्र वाक्यानि विचित्राणि हितानि च 01002142c श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् 01002143a तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् 01002143c मनस्तापान्वितो राजा श्रावितः शोकलालसः 01002144a प्रभाते राजसमितौ संजयो यत्र चाभिभोः 01002144c ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च 01002145a यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः 01002145c स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् 01002146a प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै 01002146c शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् 01002147a कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् 01002147c योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् 01002148a रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः 01002148c उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः 01002149a ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् 01002149c नगराद्धास्तिनपुराद्बलसंख्यानमेव च 01002150a यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति 01002150c श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना 01002150e रथातिरथसंख्यानमम्बोपाख्यानमेव च 01002151a एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते 01002151c उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् 01002152a अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् 01002152c श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च 01002153a श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना 01002153c व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः 01002154a अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते 01002154c जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह 01002155a यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् 01002155c यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् 01002156a कश्मलं यत्र पार्थस्य वासुदेवो महामतिः 01002156c मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः 01002157a शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः 01002157c विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् 01002158a षष्ठमेतन्महापर्व भारते परिकीर्तितम् 01002158c अध्यायानां शतं प्रोक्तं सप्तदश तथापरे 01002159a पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च 01002159c श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः 01002159e व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि 01002160a द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते 01002160c यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् 01002161a भगदत्तो महाराजो यत्र शक्रसमो युधि 01002161c सुप्रतीकेन नागेन सह शस्तः किरीटिना 01002162a यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः 01002162c जयद्रथमुखा बालं शूरमप्राप्तयौवनम् 01002163a हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे 01002163c अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः 01002163e संशप्तकावशेषं च कृतं निःशेषमाहवे 01002164a अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान् 01002164c सौमदत्तिर्विराटश्च द्रुपदश्च महारथः 01002164e घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि 01002165a अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते 01002165c अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः 01002166a सप्तमं भारते पर्व महदेतदुदाहृतम् 01002166c अत्र ते पृथिवीपालाः प्रायशो निधनं गताः 01002166e द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः 01002167a अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा 01002167c अष्टौ श्लोकसहस्राणि तथा नव शतानि च 01002168a श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना 01002168c पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि 01002169a अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् 01002169c सारथ्ये विनियोगश्च मद्रराजस्य धीमतः 01002169e आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् 01002170a प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः 01002170c हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् 01002171a अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः 01002171c द्वैरथे यत्र पार्थेन हतः कर्णो महारथः 01002172a अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः 01002172c एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि 01002172e चत्वार्येव सहस्राणि नव श्लोकशतानि च 01002173a अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् 01002173c हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् 01002174a वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः 01002174c विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते 01002175a शल्यस्य निधनं चात्र धर्मराजान्महारथात् 01002175c गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् 01002175e सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता 01002176a नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् 01002176c एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः 01002177a संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते 01002177c त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा 01002177e मुनिना संप्रणीतानि कौरवाणां यशोभृताम् 01002178a अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् 01002178c भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् 01002179a व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः 01002179c कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः 01002180a प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः 01002180c अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् 01002180e पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् 01002181a प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः 01002181c पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः 01002182a यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् 01002182c सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः 01002183a द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता 01002183c कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् 01002184a द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः 01002184c अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् 01002185a भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः 01002185c अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् 01002186a मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः 01002186c यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः 01002187a द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः 01002187c तोयकर्मणि सर्वेषां राज्ञामुदकदानिके 01002188a गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः 01002188c सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् 01002189a अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना 01002189c श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च 01002190a श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया 01002190c सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना 01002191a अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् 01002191c विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः 01002191e क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः 01002192a यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः 01002192c पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे 01002193a यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः 01002193c राज्ञां तानि शरीराणि दाहयामास शास्त्रतः 01002194a एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् 01002194c सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः 01002195a श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते 01002195c संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना 01002195e प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् 01002196a अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् 01002196c यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः 01002196e घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान् 01002197a शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः 01002197c राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः 01002198a आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः 01002198c यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् 01002198e मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः 01002199a द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् 01002199c पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् 01002199e त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः 01002200a श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश 01002200c पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया 01002201a अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् 01002201c यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् 01002201e भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः 01002202a व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः 01002202c विविधानां च दानानां फलयोगाः पृथग्विधाः 01002203a तथा पात्रविशेषाश्च दानानां च परो विधिः 01002203c आचारविधियोगश्च सत्यस्य च परा गतिः 01002204a एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् 01002204c भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता 01002205a एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् 01002205c अध्यायानां शतं चात्र षट्चत्वारिंशदेव च 01002205e श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च 01002206a ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् 01002206c तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् 01002207a सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः 01002207c दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः 01002208a चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः 01002208c तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः 01002209a चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः 01002209c संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः 01002209e अश्वमेधे महायज्ञे नकुलाख्यानमेव च 01002210a इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् 01002210c अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः 01002211a त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च 01002211c विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना 01002212a तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् 01002212c यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः 01002212e धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह 01002213a यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा 01002213c पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 01002214a यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् 01002214c लोकान्तरगतान्वीरानपश्यत्पुनरागतान् 01002215a ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् 01002215c त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः 01002216a यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः 01002216c संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी 01002217a ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः 01002217c नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् 01002218a एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् 01002218c द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया 01002219a सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च 01002219c षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना 01002220a अतः परं निबोधेदं मौसलं पर्व दारुणम् 01002220c यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि 01002220e ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः 01002221a आपाने पानगलिता दैवेनाभिप्रचोदिताः 01002221c एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् 01002222a यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ 01002222c नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् 01002223a यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् 01002223c दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः 01002224a स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः 01002224c ददर्श यदुवीराणामापाने वैशसं महत् 01002225a शरीरं वासुदेवस्य रामस्य च महात्मनः 01002225c संस्कारं लम्भयामास वृष्णीनां च प्रधानतः 01002226a स वृद्धबालमादाय द्वारवत्यास्ततो जनम् 01002226c ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् 01002227a सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् 01002227c नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् 01002228a दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः 01002228c धर्मराजं समासाद्य संन्यासं समरोचयेत् 01002229a इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् 01002229c अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् 01002230a महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् 01002230c यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः 01002230e द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः 01002231a अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा 01002231c विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना 01002232a स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् 01002232c अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया 01002232e श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः 01002233a अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः 01002233c खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् 01002234a एतदखिलमाख्यातं भारतं पर्वसंग्रहात् 01002234c अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया 01002234e तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् 01002235a यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः 01002235c न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः 01002236a श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते 01002236c पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव 01002237a इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः 01002237c पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः 01002238a अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः 01002238c अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः 01002239a क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः 01002239c इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः 01002240a अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते 01002240c आहारमनपाश्रित्य शरीरस्येव धारणम् 01002241a इदं सर्वैः कविवरैराख्यानमुपजीव्यते 01002241c उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः 01002242a द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च 01002242c यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन 01002243a आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेण 01002243c श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन 01003001 सूत उवाच 01003001A जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते 01003001B तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति 01003002A तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः 01003002B स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् 01003003A तं माता रोरूयमाणमुवाच 01003003B किं रोदिषि 01003003C केनास्यभिहत इति 01003004A स एवमुक्तो मातरं प्रत्युवाच 01003004B जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति 01003005A तं माता प्रत्युवाच 01003005B व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति 01003006A स तां पुनरुवाच 01003006B नापराध्यामि किंचित् 01003006C नावेक्षे हवींषि नावलिह इति 01003007A तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते 01003008A स तया क्रुद्धया तत्रोक्तः 01003008B अयं मे पुत्रो न किंचिदपराध्यति 01003008C किमर्थमभिहत इति 01003008D यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति 01003009A स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत् 01003010A स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति 01003011A स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् 01003012A तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम 01003012B तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम 01003013A तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे 01003014A स नमस्कृत्य तमृषिमुवाच 01003014B भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति 01003015A स एवमुक्तः प्रत्युवाच 01003015B भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः 01003015C महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः 01003015D समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् 01003015E अस्य त्वेकमुपांशुव्रतम् 01003015F यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम् 01003015G यद्येतदुत्सहसे ततो नयस्वैनमिति 01003016A तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच 01003016B भगवंस्तथा भविष्यतीति 01003017A स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच 01003017B मयायं वृत उपाध्यायः 01003017C यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति 01003018A तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः 01003018B स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे 01003018C तं च देशं वशे स्थापयामास 01003019A एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः 01003019B तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति 01003020A स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास 01003020B गच्छ केदारखण्डं बधानेति 01003021A स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् 01003022A स क्लिश्यमानोऽपश्यदुपायम् 01003022B भवत्वेवं करिष्यामीति 01003023A स तत्र संविवेश केदारखण्डे 01003023B शयाने तस्मिंस्तदुदकं तस्थौ 01003024A ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् 01003024B क्व आरुणिः पाञ्चाल्यो गत इति 01003025A ते प्रत्यूचुः 01003025B भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति 01003026A स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच 01003026B तस्मात्सर्वे तत्र गच्छामो यत्र स इति 01003027A स तत्र गत्वा तस्याह्वानाय शब्दं चकार 01003027B भो आरुणे पाञ्चाल्य क्वासि 01003027C वत्सैहीति 01003028A स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे 01003028B प्रोवाच चैनम् 01003028C अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः 01003028D तदभिवादये भगवन्तम् 01003028E आज्ञापयतु भवान् 01003028F किं करवाणीति 01003029A तमुपाध्यायोऽब्रवीत् 01003029B यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति 01003030A स उपाध्यायेनानुगृहीतः 01003030B यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति 01003030C सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति 01003031A स एवमुक्त उपाध्यायेनेष्टं देशं जगाम 01003032A अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम 01003033A तमुपाध्यायः प्रेषयामास 01003033B वत्सोपमन्यो गा रक्षस्वेति 01003034A स उपाध्यायवचनादरक्षद्गाः 01003034B स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003035A तमुपाध्यायः पीवानमपश्यत् 01003035B उवाच चैनम् 01003035C वत्सोपमन्यो केन वृत्तिं कल्पयसि 01003035D पीवानसि दृढमिति 01003036A स उपाध्यायं प्रत्युवाच 01003036B भैक्षेण वृत्तिं कल्पयामीति 01003037A तमुपाध्यायः प्रत्युवाच 01003037B ममानिवेद्य भैक्षं नोपयोक्तव्यमिति 01003038A स तथेत्युक्त्वा पुनररक्षद्गाः 01003038B रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003039A तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच 01003039B वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि 01003039C केनेदानीं वृत्तिं कल्पयसीति 01003040A स एवमुक्त उपाध्यायेन प्रत्युवाच 01003040B भगवते निवेद्य पूर्वमपरं चरामि 01003040C तेन वृत्तिं कल्पयामीति 01003041A तमुपाध्यायः प्रत्युवाच 01003041B नैषा न्याय्या गुरुवृत्तिः 01003041C अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः 01003041D लुब्धोऽसीति 01003042A स तथेत्युक्त्वा गा अरक्षत् 01003042B रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे 01003043A तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच 01003043B अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि 01003043C पीवानसि 01003043D केन वृत्तिं कल्पयसीति 01003044A स उपाध्यायं प्रत्युवाच 01003044B भो एतासां गवां पयसा वृत्तिं कल्पयामीति 01003045A तमुपाध्यायः प्रत्युवाच 01003045B नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति 01003046A स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे 01003047A तमुपाध्यायः पीवानमेवापश्यत् 01003047B उवाच चैनम् 01003047C भैक्षं नाश्नासि न चान्यच्चरसि 01003047D पयो न पिबसि 01003047E पीवानसि 01003047F केन वृत्तिं कल्पयसीति 01003048A स एवमुक्त उपाध्यायं प्रत्युवाच 01003048B भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति 01003049A तमुपाध्यायः प्रत्युवाच 01003049B एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति 01003049C तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः 01003049D फेनमपि भवान्न पातुमर्हतीति 01003050A स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् 01003050B तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति 01003050C पयो न पिबति 01003050D फेनं नोपयुङ्क्ते 01003051A स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् 01003052A स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् 01003052B सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् 01003053A अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् 01003053B मयोपमन्युः सर्वतः प्रतिषिद्धः 01003053C स नियतं कुपितः 01003053D ततो नागच्छति चिरगतश्चेति 01003054A स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे 01003054B भो उपमन्यो क्वासि 01003054C वत्सैहीति 01003055A स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः 01003055B अयमस्मि भो उपाध्याय कूपे पतित इति 01003056A तमुपाध्यायः प्रत्युवाच 01003056B कथमसि कूपे पतित इति 01003057A स तं प्रत्युवाच 01003057B अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि 01003057C अतः कूपे पतित इति 01003058A तमुपाध्यायः प्रत्युवाच 01003058B अश्विनौ स्तुहि 01003058C तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति 01003059A स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः 01003060a प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ 01003060c दिव्यौ सुपर्णौ विरजौ विमाना;वधिक्षियन्तौ भुवनानि विश्वा 01003061a हिरण्मयौ शकुनी सांपरायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ 01003061c शुक्रं वयन्तौ तरसा सुवेमा;वभि व्ययन्तावसितं विवस्वत् 01003062a ग्रस्तां सुपर्णस्य बलेन वर्तिका;ममुञ्चतामश्विनौ सौभगाय 01003062c तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् 01003063a षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति 01003063c नानागोष्ठा विहिता एकदोहना;स्तावश्विनौ दुहतो घर्ममुक्थ्यम् 01003064a एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः 01003064c अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी 01003065a एकं चक्रं वर्तते द्वादशारं प्रधि;षण्णाभिमेकाक्षममृतस्य धारणम् 01003065c यस्मिन्देवा अधि विश्वे विषक्ता;स्तावश्विनौ मुञ्चतो मा विषीदतम् 01003066a अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी 01003066c भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य 01003067a युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति 01003067c तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति 01003068a युवां वर्णान्विकुरुथो विश्वरूपां;स्तेऽधिक्षियन्ति भुवनानि विश्वा 01003068c ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति 01003069a तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य 01003069c तौ नासत्यावमृतावृतावृधा;वृते देवास्तत्प्रपदेन सूते 01003070a मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते 01003070c सद्यो जातो मातरमत्ति गर्भ;स्तावश्विनौ मुञ्चथो जीवसे गाः 01003071A एवं तेनाभिष्टुतावश्विनावाजग्मतुः 01003071B आहतुश्चैनम् 01003071C प्रीतौ स्वः 01003071D एष तेऽपूपः 01003071E अशानैनमिति 01003072A स एवमुक्तः प्रत्युवाच 01003072B नानृतमूचतुर्भवन्तौ 01003072C न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति 01003073A ततस्तमश्विनावूचतुः 01003073B आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः 01003073C उपयुक्तश्च स तेनानिवेद्य गुरवे 01003073D त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति 01003074A स एवमुक्तः पुनरेव प्रत्युवाचैतौ 01003074B प्रत्यनुनये भवन्तावश्विनौ 01003074C नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति 01003075A तमश्विनावाहतुः 01003075B प्रीतौ स्वस्तवानया गुरुवृत्त्या 01003075C उपाध्यायस्य ते कार्ष्णायसा दन्ताः 01003075D भवतो हिरण्मया भविष्यन्ति 01003075E चक्षुष्मांश्च भविष्यसि 01003075F श्रेयश्चावाप्स्यसीति 01003076A स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे 01003076B स चास्य प्रीतिमानभूत् 01003077A आह चैनम् 01003077B यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति 01003077C सर्वे च ते वेदाः प्रतिभास्यन्तीति 01003078A एषा तस्यापि परीक्षोपमन्योः 01003079A अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम 01003080A तमुपाध्यायः संदिदेश 01003080B वत्स वेद इहास्यताम् 01003080C भवता मद्गृहे कंचित्कालं शुश्रूषमाणेन भवितव्यम् 01003080D श्रेयस्ते भविष्यतीति 01003081A स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् 01003081B गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः 01003082A तस्य महता कालेन गुरुः परितोषं जगाम 01003082B तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप 01003082C एषा तस्यापि परीक्षा वेदस्य 01003083A स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत 01003083B तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः 01003084A स शिष्यान्न किंचिदुवाच 01003084B कर्म वा क्रियतां गुरुशुश्रूषा वेति 01003084C दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष 01003085A अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः 01003086A स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास 01003086B भो उत्तङ्क यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति 01003087A स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम 01003088A अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म 01003089A स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः 01003089B उपाध्यायिनी ते ऋतुमती 01003089C उपाध्यायश्च प्रोषितः 01003089D अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् 01003089E एतद्विषीदतीति 01003090A स एवमुक्तस्ताः स्त्रियः प्रत्युवाच 01003090B न मया स्त्रीणां वचनादिदमकार्यं कार्यम् 01003090C न ह्यहमुपाध्यायेन संदिष्टः 01003090D अकार्यमपि त्वया कार्यमिति 01003091A तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् 01003091B स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् 01003092A उवाच चैनम् 01003092B वत्सोत्तङ्क किं ते प्रियं करवाणीति 01003092C धर्मतो हि शुश्रूषितोऽस्मि भवता 01003092D तेन प्रीतिः परस्परेण नौ संवृद्धा 01003092E तदनुजाने भवन्तम् 01003092F सर्वामेव सिद्धिं प्राप्स्यसि 01003092G गम्यतामिति 01003093A स एवमुक्तः प्रत्युवाच 01003093B किं ते प्रियं करवाणीति 01003093C एवं ह्याहुः 01003094a यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 01003094c तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति 01003095A सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति 01003096A तेनैवमुक्त उपाध्यायः प्रत्युवाच 01003096B वत्सोत्तङ्क उष्यतां तावदिति 01003097A स कदाचित्तमुपाध्यायमाहोत्तङ्कः 01003097B आज्ञापयतु भवान् 01003097C किं ते प्रियमुपहरामि गुर्वर्थमिति 01003098A तमुपाध्यायः प्रत्युवाच 01003098B वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति 01003098C तद्गच्छ 01003098D एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति 01003098E एषा यद्ब्रवीति तदुपहरस्वेति 01003099A स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् 01003099B भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् 01003099C तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् 01003099D तदाज्ञापयतु भवती 01003099E किमुपहरामि गुर्वर्थमिति 01003100A सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच 01003100B गच्छ पौष्यं राजानम् 01003100C भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले 01003100D ते आनयस्व 01003100E इतश्चतुर्थेऽहनि पुण्यकं भविता 01003100F ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि 01003100G शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि संपादयस्व 01003100H श्रेयो हि ते स्यात्क्षणं कुर्वत इति 01003101A स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः 01003101B स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव 01003102A स पुरुष उत्तङ्कमभ्यभाषत 01003102B उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति 01003103A स एवमुक्तो नैच्छत् 01003104A तमाह पुरुषो भूयः 01003104B भक्षयस्वोत्तङ्क 01003104C मा विचारय 01003104D उपाध्यायेनापि ते भक्षितं पूर्वमिति 01003105A स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः 01003106A तमुपेत्यापश्यदुत्तङ्क आसीनम् 01003106B स तमुपेत्याशीर्भिरभिनन्द्योवाच 01003106C अर्थी भवन्तमुपगतोऽस्मीति 01003107A स एनमभिवाद्योवाच 01003107B भगवन्पौष्यः खल्वहम् 01003107C किं करवाणीति 01003108A तमुवाचोत्तङ्कः 01003108B गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति 01003109A तं पौष्यः प्रत्युवाच 01003109B प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति 01003110A स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् 01003111A स पौष्यं पुनरुवाच 01003111B न युक्तं भवता वयमनृतेनोपचरितुम् 01003111C न हि ते क्षत्रियान्तःपुरे संनिहिता 01003111D नैनां पश्यामीति 01003112A स एवमुक्तः पौष्यस्तं प्रत्युवाच 01003112B संप्रति भवानुच्छिष्टः 01003112C स्मर तावत् 01003112D न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् 01003112E पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति 01003113A अथैवमुक्त उत्तङ्कः स्मृत्वोवाच 01003113B अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति 01003114A तं पौष्यः प्रत्युवाच 01003114B एतत्तदेवं हि 01003114C न गच्छतोपस्पृष्टं भवति न स्थितेनेति 01003115A अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयंगमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् 01003116A सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच 01003116B स्वागतं ते भगवन् 01003116C आज्ञापय किं करवाणीति 01003117A स तामुवाच 01003117B एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति 01003118A सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् 01003119A आह चैनम् 01003119B एते कुण्डले तक्षको नागराजः प्रार्थयति 01003119C अप्रमत्तो नेतुमर्हसीति 01003120A स एवमुक्तस्तां क्षत्रियां प्रत्युवाच 01003120B भवति सुनिर्वृता भव 01003120C न मां शक्तस्तक्षको नागराजो धर्षयितुमिति 01003121A स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् 01003122A स तं दृष्ट्वोवाच 01003122B भोः पौष्य प्रीतोऽस्मीति 01003123A तं पौष्यः प्रत्युवाच 01003123B भगवंश्चिरस्य पात्रमासाद्यते 01003123C भवांश्च गुणवानतिथिः 01003123D तत्करिष्ये श्राद्धम् 01003123E क्षणः क्रियतामिति 01003124A तमुत्तङ्कः प्रत्युवाच 01003124B कृतक्षण एवास्मि 01003124C शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति 01003125A स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास 01003126A अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच 01003126B यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति 01003127A तं पौष्यः प्रत्युवाच 01003127B यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 01003128A सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास 01003129A अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास 01003129B भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च 01003129C तत्क्षामये भवन्तम् 01003129D न भवेयमन्ध इति 01003130A तमुत्तङ्कः प्रत्युवाच 01003130B न मृषा ब्रवीमि 01003130C भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति 01003130D ममापि शापो न भवेद्भवता दत्त इति 01003131A तं पौष्यः प्रत्युवाच 01003131B नाहं शक्तः शापं प्रत्यादातुम् 01003131C न हि मे मन्युरद्याप्युपशमं गच्छति 01003131D किं चैतद्भवता न ज्ञायते यथा 01003132a नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः 01003132c विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् 01003133A इति 01003133B तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् 01003133C गम्यतामिति 01003134A तमुत्तङ्कः प्रत्युवाच 01003134B भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः 01003134C प्राक्च तेऽभिहितम् 01003134D यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति 01003134E दुष्टे चान्ने नैष मम शापो भविष्यतीति 01003135A साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा 01003136A सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च 01003136B अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे 01003137A एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् 01003137B तमुत्तङ्कोऽभिसृत्य जग्राह 01003137C स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश 01003138A प्रविश्य च नागलोकं स्वभवनमगच्छत् 01003138B तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन 01003138C प्रविश्य च नागानस्तुवदेभिः श्लोकैः 01003139a य ऐरावतराजानः सर्पाः समितिशोभनाः 01003139c वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः 01003140a सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः 01003140c आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः 01003141a बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे 01003141c इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना 01003142a शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः 01003142c सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति 01003143a ये चैनमुपसर्पन्ति ये च दूरं परं गताः 01003143c अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः 01003144a यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा 01003144c तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् 01003145a तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ 01003145c कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु 01003146a जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः 01003146c अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् 01003146e करवाणि सदा चाहं नमस्तस्मै महात्मने 01003147A एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ 01003148A तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 01003148B चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् 01003148C पुरुषं चापश्यद्दर्शनीयम् 01003149A स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः 01003150a त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् 01003150c चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति 01003151a तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ 01003151c कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव 01003152a वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता 01003152c कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके 01003153a यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः 01003153c नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय 01003154A ततः स एनं पुरुषः प्राह 01003154B प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण 01003154C किं ते प्रियं करवाणीति 01003155A स तमुवाच 01003155B नागा मे वशमीयुरिति 01003156A स एनं पुरुषः पुनरुवाच 01003156B एतमश्वमपाने धमस्वेति 01003157A स तमश्वमपानेऽधमत् 01003157B अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः 01003158A ताभिर्नागलोको धूपितः 01003159A अथ ससंभ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच 01003159B एते कुण्डले प्रतिगृह्णातु भवानिति 01003160A स ते प्रतिजग्राहोत्तङ्कः 01003160B कुण्डले प्रतिगृह्याचिन्तयत् 01003160C अद्य तत्पुण्यकमुपाध्यायिन्याः 01003160D दूरं चाहमभ्यागतः 01003160E कथं नु खलु संभावयेयमिति 01003161A तत एनं चिन्तयानमेव स पुरुष उवाच 01003161B उत्तङ्क एनमश्वमधिरोह 01003161C एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति 01003162A स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् 01003162B उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे 01003163A अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् 01003163B ते चास्यै कुण्डले प्रायच्छत् 01003164A सा चैनं प्रत्युवाच 01003164B उत्तङ्क देशे कालेऽभ्यागतः 01003164C स्वागतं ते वत्स 01003164D मनागसि मया न शप्तः 01003164E श्रेयस्तवोपस्थितम् 01003164F सिद्धिमाप्नुहीति 01003165A अथोत्तङ्क उपाध्यायमभ्यवादयत् 01003165B तमुपाध्यायः प्रत्युवाच 01003165C वत्सोत्तङ्क स्वागतं ते 01003165D किं चिरं कृतमिति 01003166A तमुत्तङ्क उपाध्यायं प्रत्युवाच 01003166B भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि 01003166C तेनास्मि नागलोकं नीतः 01003167A तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ 01003167B तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः 01003167C किं तत् 01003168A तत्र च मया चक्रं दृष्टं द्वादशारम् 01003168B षट्चैनं कुमाराः परिवर्तयन्ति 01003168C तदपि किम् 01003169A पुरुषश्चापि मया दृष्टः 01003169B स पुनः कः 01003170A अश्वश्चातिप्रमाणयुक्तः 01003170B स चापि कः 01003171A पथि गच्छता मया ऋषभो दृष्टः 01003171B तं च पुरुषोऽधिरूढः 01003171C तेनास्मि सोपचारमुक्तः 01003171D उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय 01003171E उपाध्यायेनापि ते भक्षितमिति 01003171F ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् 01003171G तदिच्छामि भवतोपदिष्टं किं तदिति 01003172A तेनैवमुक्त उपाध्यायः प्रत्युवाच 01003172B ये ते स्त्रियौ धाता विधाता च 01003172C ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी 01003173A यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् 01003173B यः पुरुषः स पर्जन्यः 01003173C योऽश्वः सोऽग्निः 01003174A य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः 01003174B यश्चैनमधिरूढः स इन्द्रः 01003174C यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् 01003175A तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने 01003175B स चापि मम सखा इन्द्रः 01003176A तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि 01003176B तत्सौम्य गम्यताम् 01003176C अनुजाने भवन्तम् 01003176D श्रेयोऽवाप्स्यसीति 01003177A स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे 01003178a स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः 01003178c समागच्छत राजानमुत्तङ्को जनमेजयम् 01003179a पुरा तक्षशिलातस्तं निवृत्तमपराजितम् 01003179c सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् 01003180a तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः 01003180c उवाचैनं वचः काले शब्दसंपन्नया गिरा 01003181a अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम 01003181c बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम 01003182a एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह 01003182c जनमेजयः प्रसन्नात्मा सम्यक्संपूज्य तं मुनिम् 01003183a आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि 01003183c प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् 01003184a स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः 01003184c उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् 01003185a तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता 01003185c तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने 01003186a कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः 01003186c तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः 01003187a तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना 01003187c पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः 01003188a बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः 01003188c अकार्यं कृतवान्पापो योऽदशत्पितरं तव 01003189a राजर्षिवंशगोप्तारममरप्रतिमं नृपम् 01003189c जघान काश्यपं चैव न्यवर्तयत पापकृत् 01003190a दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने 01003190c सर्पसत्रे महाराज त्वयि तद्धि विधीयते 01003191a एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि 01003191c मम प्रियं च सुमहत्कृतं राजन्भविष्यति 01003192a कर्मणः पृथिवीपाल मम येन दुरात्मना 01003192c विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ 01003193a एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह 01003193c उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा 01003194a अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः 01003194c उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति 01003195a तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् 01003195c यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा 01004001A लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे 01004002A पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच 01004002B किं भवन्तः श्रोतुमिच्छन्ति 01004002C किमहं ब्रुवाणीति 01004003A तमृषय ऊचुः 01004003B परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् 01004003C तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते 01004004a योऽसौ दिव्याः कथा वेद देवतासुरसंकथाः 01004004c मनुष्योरगगन्धर्वकथा वेद च सर्वशः 01004005a स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः 01004005c दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः 01004006a सत्यवादी शमपरस्तपस्वी नियतव्रतः 01004006c सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् 01004007a तस्मिन्नध्यासति गुरावासनं परमार्चितम् 01004007c ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः 01004008 सूत उवाच 01004008a एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि 01004008c तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः 01004009a सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् 01004009c देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह 01004010a यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः 01004010c यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः 01004011a ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः 01004011c उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् 01005001 शौनक उवाच 01005001a पुराणमखिलं तात पिता तेऽधीतवान्पुरा 01005001c कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे 01005002a पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् 01005002c कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव 01005003a तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् 01005003c कथयस्व कथामेतां कल्याः स्म श्रवणे तव 01005004 सूत उवाच 01005004a यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः 01005004c वैशंपायनविप्राद्यैस्तैश्चापि कथितं पुरा 01005005a यदधीतं च पित्रा मे सम्यक्चैव ततो मया 01005005c तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः 01005005e पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन 01005006a इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने 01005006c निगदामि कथायुक्तं पुराणाश्रयसंयुतम् 01005007a भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः 01005007c च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः 01005007e प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत 01005008a रुरोरपि सुतो जज्ञे शुनको वेदपारगः 01005008c प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् 01005009a तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः 01005009c धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः 01005010 शौनक उवाच 01005010a सूतपुत्र यथा तस्य भार्गवस्य महात्मनः 01005010c च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः 01005011 सूत उवाच 01005011a भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता 01005011c तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः 01005012a तस्मिन्गर्भे संभृतेऽथ पुलोमायां भृगूद्वह 01005012c समये समशीलिन्यां धर्मपत्न्यां यशस्विनः 01005013a अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे 01005013c आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह 01005014a तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् 01005014c हृच्छयेन समाविष्टो विचेताः समपद्यत 01005015a अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना 01005015c न्यमन्त्रयत वन्येन फलमूलादिना तदा 01005016a तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् 01005016c दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् 01005017a अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् 01005017c तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा 01005018a शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै 01005018c सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते 01005019a मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी 01005019c पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे 01005020a सेयं यदि वरारोहा भृगोर्भार्या रहोगता 01005020c तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् 01005021a मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति 01005021c मत्पूर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् 01005022a तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् 01005022c शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत 01005023a त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा 01005023c साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः 01005024a मत्पूर्वभार्यापहृता भृगुणानृतकारिणा 01005024c सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि 01005025a श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् 01005025c जातवेदः पश्यतस्ते वद सत्यां गिरं मम 01005026a तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् 01005026c भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः 01006001 सूत उवाच 01006001a अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् 01006001c ब्रह्मन्वराहरूपेण मनोमारुतरंहसा 01006002a ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह 01006002c रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् 01006003a तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् 01006003c तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् 01006004a सा तमादाय सुश्रोणी ससार भृगुनन्दनम् 01006004c च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता 01006005a तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः 01006005c रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् 01006005e सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः 01006006a अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी 01006006c अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः 01006007a तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा 01006007c नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः 01006007e वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति 01006008a स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् 01006008c तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् 01006009a स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः 01006009c केनासि रक्षसे तस्मै कथितेह जिहीर्षवे 01006009e न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् 01006010a तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा 01006010c बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः 01006011 पुलोमोवाच 01006011a अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता 01006011c ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव 01006012a साहं तव सुतस्यास्य तेजसा परिमोक्षिता 01006012c भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै 01006013 सूत उवाच 01006013a इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् 01006013c शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि 01007001 सूत उवाच 01007001a शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् 01007001c किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम् 01007002a धर्मे प्रयतमानस्य सत्यं च वदतः समम् 01007002c पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम 01007003a पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् 01007003c स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् 01007004a यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते 01007004c सोऽपि तेनैव पापेन लिप्यते नात्र संशयः 01007005a शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम 01007005c जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् 01007006a योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु 01007006c अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च 01007007a वेदोक्तेन विधानेन मयि यद्धूयते हविः 01007007c देवताः पितरश्चैव तेन तृप्ता भवन्ति वै 01007008a आपो देवगणाः सर्वे आपः पितृगणास्तथा 01007008c दर्शश्च पौर्णमासश्च देवानां पितृभिः सह 01007009a देवताः पितरस्तस्मात्पितरश्चापि देवताः 01007009c एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु 01007010a देवताः पितरश्चैव जुह्वते मयि यत्सदा 01007010c त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः 01007011a अमावास्यां च पितरः पौर्णमास्यां च देवताः 01007011c मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः 01007011e सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् 01007012a चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः 01007012c द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च 01007013a निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः 01007013c विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः 01007014a अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः 01007014c अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः 01007014e विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा 01007015a अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु 01007015c अग्नेरावेदयञ्शापं क्रियासंहारमेव च 01007016a भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे 01007016c कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा 01007016e हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति 01007017a श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् 01007017c उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् 01007018a लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च 01007018c त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः 01007018e स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा 01007019a कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः 01007019c त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह 01007020a न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि 01007020c उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् 01007021a यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते 01007021c तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति 01007022a तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् 01007022c स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो 01007022e देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् 01007023a एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् 01007023c जगाम शासनं कर्तुं देवस्य परमेष्ठिनः 01007024a देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् 01007024c ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे 01007025a दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः 01007025c अग्निश्च परमां प्रीतिमवाप हतकल्मषः 01007026a एवमेष पुरावृत्त इतिहासोऽग्निशापजः 01007026c पुलोमस्य विनाशश्च च्यवनस्य च संभवः 01008001 सूत उवाच 01008001a स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् 01008001c सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् 01008002a प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् 01008002c रुरुः प्रमद्वरायां तु शुनकं समजीजनत् 01008003a तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः 01008003c विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः 01008004a ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः 01008004c स्थूलकेश इति ख्यातः सर्वभूतहिते रतः 01008005a एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् 01008005c गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः 01008006a अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन 01008006c उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति 01008007a उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह 01008007c कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया 01008008a तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः 01008008c स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् 01008009a स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः 01008009c जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च 01008009e ववृधे सा वरारोहा तस्याश्रमपदे शुभा 01008010a प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता 01008010c ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः 01008011a तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् 01008011c बभूव किल धर्मात्मा मदनानुगतात्मवान् 01008012a पितरं सखिभिः सोऽथ वाचयामास भार्गवः 01008012c प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् 01008013a ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् 01008013c विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते 01008014a ततः कतिपयाहस्य विवाहे समुपस्थिते 01008014c सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी 01008015a नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् 01008015c पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता 01008016a स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा 01008016c विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् 01008017a सा दष्टा सहसा भूमौ पतिता गतचेतना 01008017c व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः 01008018a प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता 01008018c भूयो मनोहरतरा बभूव तनुमध्यमा 01008019a ददर्श तां पिता चैव ते चैवान्ये तपस्विनः 01008019c विचेष्टमानां पतितां भूतले पद्मवर्चसम् 01008020a ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः 01008020c स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः 01008021a भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः 01008021c प्रमतिः सह पुत्रेण तथान्ये वनवासिनः 01008022a तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् 01008022c रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ 01009001 सूत उवाच 01009001a तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः 01009001c रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः 01009002a शोकेनाभिहतः सोऽथ विलपन्करुणं बहु 01009002c अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् 01009003a शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी 01009003c बान्धवानां च सर्वेषां किं नु दुःखमतः परम् 01009004a यदि दत्तं तपस्तप्तं गुरवो वा मया यदि 01009004c सम्यगाराधितास्तेन संजीवतु मम प्रिया 01009005a यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः 01009005c प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी 01009006 देवदूत उवाच 01009006a अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा 01009006c न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः 01009007a गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता 01009007c तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन 01009008a उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः 01009008c तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् 01009009 रुरुरुवाच 01009009a क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर 01009009c करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् 01009010 देवदूत उवाच 01009010a आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन 01009010c एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा 01009011 रुरुरुवाच 01009011a आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम 01009011c शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया 01009012 सूत उवाच 01009012a ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ 01009012c धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् 01009013a धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा 01009013c समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे 01009014 धर्मराज उवाच 01009014a प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि 01009014c उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता 01009015 सूत उवाच 01009015a एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा 01009015c रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी 01009016a एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः 01009016c आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति 01009017a तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा 01009017c विवाहं तौ च रेमाते परस्परहितैषिणौ 01009018a स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् 01009018c व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः 01009019a स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः 01009019c अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा 01009020a स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् 01009020c शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् 01009021a तत उद्यम्य दण्डं स कालदण्डोपमं तदा 01009021c अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः 01009022a नापराध्यामि ते किंचिदहमद्य तपोधन 01009022c संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः 01010001 रुरुरुवाच 01010001a मम प्राणसमा भार्या दष्टासीद्भुजगेन ह 01010001c तत्र मे समयो घोर आत्मनोरग वै कृतः 01010002a हन्यां सदैव भुजगं यं यं पश्येयमित्युत 01010002c ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे 01010003 डुण्डुभ उवाच 01010003a अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् 01010003c डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि 01010004a एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् 01010004c डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि 01010005 सूत उवाच 01010005a इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा 01010005c नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् 01010006a उवाच चैनं भगवान्रुरुः संशमयन्निव 01010006c कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः 01010007 डुण्डुभ उवाच 01010007a अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् 01010007c सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः 01010008 रुरुरुवाच 01010008a किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम 01010008c कियन्तं चैव कालं ते वपुरेतद्भविष्यति 01011001 डुण्डुभ उवाच 01011001a सखा बभूव मे पूर्वं खगमो नाम वै द्विजः 01011001c भृशं संशितवाक्तात तपोबलसमन्वितः 01011002a स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् 01011002c अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै 01011003a लब्ध्वा च स पुनः संज्ञां मामुवाच तपोधनः 01011003c निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः 01011004a यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया 01011004c तथावीर्यो भुजंगस्त्वं मम कोपाद्भविष्यसि 01011005a तस्याहं तपसो वीर्यं जानमानस्तपोधन 01011005c भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् 01011006a प्रयतः संभ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः 01011006c सखेति हसतेदं ते नर्मार्थं वै कृतं मया 01011007a क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् 01011007c सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् 01011008a मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः 01011008c नानृतं वै मया प्रोक्तं भवितेदं कथंचन 01011009a यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत 01011009c श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन 01011010a उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः 01011010c तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव 01011011a स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः 01011011c स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् 01011012a अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः 01011012c तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् 01011013a ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः 01011013c वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः 01011014a अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् 01011014c ब्राह्मणस्य परो धर्मो वेदानां धरणादपि 01011015a क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव 01011015c दण्डधारणमुग्रत्वं प्रजानां परिपालनम् 01011016a तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो 01011016c जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा 01011017a परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि 01011017c तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् 01011017e आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम 01012001 रुरुरुवाच 01012001a कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः 01012001c सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम 01012002a किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे 01012002c आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः 01012003 ऋषिरुवाच 01012003a श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् 01012003c ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत 01012004 सूत उवाच 01012004a रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः 01012004c तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि 01012005a लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा 01012005c पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् 01013001 शौनक उवाच 01013001a किमर्थं राजशार्दूलः स राजा जनमेजयः 01013001c सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे 01013002a आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः 01013002c मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् 01013003a कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् 01013003c स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे 01013004 सूत उवाच 01013004a महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज 01013004c सर्वमेतदशेषेण शृणु मे वदतां वर 01013005 शौनक उवाच 01013005a श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् 01013005c आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः 01013006 सूत उवाच 01013006a इतिहासमिमं वृद्धाः पुराणं परिचक्षते 01013006c कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः 01013007a पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः 01013007c शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् 01013008a तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् 01013008c इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते 01013009a आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः 01013009c ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा 01013010a जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः 01013010c यायावराणां धर्मज्ञः प्रवरः संशितव्रतः 01013011a अटमानः कदाचित्स स्वान्ददर्श पितामहान् 01013011c लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् 01013012a तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् 01013012c के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः 01013013a वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते 01013013c मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना 01013014 पितर ऊचुः 01013014a यायावरा नाम वयमृषयः संशितव्रताः 01013014c संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् 01013015a अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः 01013015c मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः 01013016a न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति 01013016c तेन लम्बामहे गर्ते संतानप्रक्षयादिह 01013017a अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा 01013017c कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम 01013018a ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः 01013018c किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि 01013019 जरत्कारुरुवाच 01013019a मम पूर्वे भवन्तो वै पितरः सपितामहाः 01013019c ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् 01013020 पितर ऊचुः 01013020a यतस्व यत्नवांस्तात संतानाय कुलस्य नः 01013020c आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो 01013021a न हि धर्मफलैस्तात न तपोभिः सुसंचितैः 01013021c तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह 01013022a तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु 01013022c पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् 01013023 जरत्कारुरुवाच 01013023a न दारान्वै करिष्यामि सदा मे भावितं मनः 01013023c भवतां तु हितार्थाय करिष्ये दारसंग्रहम् 01013024a समयेन च कर्ताहमनेन विधिपूर्वकम् 01013024c तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् 01013025a सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः 01013025c भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः 01013026a दरिद्राय हि मे भार्यां को दास्यति विशेषतः 01013026c प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति 01013027a एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः 01013027c अनेन विधिना शश्वन्न करिष्येऽहमन्यथा 01013028a तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै 01013028c शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम 01013029 सूत उवाच 01013029a ततो निवेशाय तदा स विप्रः संशितव्रतः 01013029c महीं चचार दारार्थी न च दारानविन्दत 01013030a स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् 01013030c चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव 01013031a तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा 01013031c न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् 01013032a सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि 01013032c मनो निविष्टमभवज्जरत्कारोर्महात्मनः 01013033a तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः 01013033c किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम 01013034 वासुकिरुवाच 01013034a जरत्कारो जरत्कारुः स्वसेयमनुजा मम 01013034c त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम 01013035 सूत उवाच 01013035a मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर 01013035c जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः 01013036a तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः 01013036c स्वसारमृषये तस्मै सुव्रताय तपस्विने 01013037a स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 01013037c आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः 01013038a तपस्वी च महात्मा च वेदवेदाङ्गपारगः 01013038c समः सर्वस्य लोकस्य पितृमातृभयापहः 01013039a अथ कालस्य महतः पाण्डवेयो नराधिपः 01013039c आजहार महायज्ञं सर्पसत्रमिति श्रुतिः 01013040a तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै 01013040c मोचयामास तं शापमास्तीकः सुमहायशाः 01013041a नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् 01013041c पितॄंश्च तारयामास संतत्या तपसा तथा 01013041e व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् 01013042a देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः 01013042c ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान् 01013043a अपहृत्य गुरुं भारं पितॄणां संशितव्रतः 01013043c जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः 01013044a आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः 01013044c जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् 01013045a एतदाख्यानमास्तीकं यथावत्कीर्तितं मया 01013045c प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति 01014001 शौनक उवाच 01014001a सौते कथय तामेतां विस्तरेण कथां पुनः 01014001c आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः 01014002a मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया 01014002c प्रीयामहे भृशं तात पितेवेदं प्रभाषसे 01014003a अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव 01014003c आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद 01014004 सूत उवाच 01014004a आयुष्यमिदमाख्यानमास्तीकं कथयामि ते 01014004c यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया 01014005a पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे 01014005c आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे 01014006a ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह 01014006c प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः 01014006e कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः 01014007a वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते 01014007c हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ 01014008a वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः 01014008c द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले 01014008e ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ 01014009a तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् 01014009c एवमस्त्विति तं चाह कश्यपं विनता तदा 01014010a कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ 01014010c कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् 01014011a धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः 01014011c ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् 01014012a कालेन महता कद्रूरण्डानां दशतीर्दश 01014012c जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा 01014013a तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः 01014013c सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च 01014014a ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः 01014014c अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत 01014015a ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी 01014015c अण्डं बिभेद विनता तत्र पुत्रमदृक्षत 01014016a पूर्वार्धकायसंपन्नमितरेणाप्रकाशता 01014016c स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः 01014017a योऽहमेवं कृतो मातस्त्वया लोभपरीतया 01014017c शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि 01014018a पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह 01014018c एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति 01014019a यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् 01014019c न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् 01014020a प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया 01014020c विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः 01014021a एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः 01014021c अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा 01014022a गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः 01014022c स जातमात्रो विनतां परित्यज्य खमाविशत् 01014023a आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् 01014023c विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः 01015001 सूत उवाच 01015001a एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन 01015001c अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् 01015002a यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् 01015002c मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् 01015003a महौघबलमश्वानामुत्तमं जवतां वरम् 01015003c श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् 01015004 शौनक उवाच 01015004a कथं तदमृतं देवैर्मथितं क्व च शंस मे 01015004c यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः 01015005 सूत उवाच 01015005a ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् 01015005c आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः 01015006a काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् 01015006c अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः 01015007a व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् 01015007c नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् 01015008a अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् 01015008c नानापतगसंघैश्च नादितं सुमनोहरैः 01015009a तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् 01015009c अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः 01015010a ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः 01015010c अमृतार्थे समागम्य तपोनियमसंस्थिताः 01015011a तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् 01015011c चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः 01015012a देवैरसुरसंघैश्च मथ्यतां कलशोदधिः 01015012c भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ 01015013a सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि 01015013c मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः 01016001 सूत उवाच 01016001a ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् 01016001c मन्दरं पर्वतवरं लताजालसमावृतम् 01016002a नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् 01016002c किंनरैरप्सरोभिश्च देवैरपि च सेवितम् 01016003a एकादश सहस्राणि योजनानां समुच्छ्रितम् 01016003c अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् 01016004a तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा 01016004c विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् 01016005a भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् 01016005c मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः 01016006a तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव 01016006c ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः 01016006e नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् 01016007a अथ पर्वतराजानं तमनन्तो महाबलः 01016007c उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् 01016008a ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे 01016008c तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् 01016009a अपांपतिरथोवाच ममाप्यंशो भवेत्ततः 01016009c सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति 01016010a ऊचुश्च कूर्मराजानमकूपारं सुरासुराः 01016010c गिरेरधिष्ठानमस्य भवान्भवितुमर्हति 01016011a कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् 01016011c तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् 01016012a मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् 01016012c देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् 01016012e अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः 01016013a एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः 01016013c विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः 01016014a अनन्तो भगवान्देवो यतो नारायणस्ततः 01016014c शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् 01016015a वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः 01016015c सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् 01016016a ते धूमसंघाः संभूता मेघसंघाः सविद्युतः 01016016c अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् 01016017a तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः 01016017c सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् 01016018a बभूवात्र महाघोषो महामेघरवोपमः 01016018c उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः 01016019a तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा 01016019c विलयं समुपाजग्मुः शतशो लवणाम्भसि 01016020a वारुणानि च भूतानि विविधानि महीधरः 01016020c पातालतलवासीनि विलयं समुपानयत् 01016021a तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् 01016021c न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः 01016022a तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः 01016022c विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् 01016023a ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् 01016023c विगतासूनि सर्वाणि सत्त्वानि विविधानि च 01016024a तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः 01016024c वारिणा मेघजेनेन्द्रः शमयामास सर्वतः 01016025a ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि 01016025c महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः 01016026a तेषाममृतवीर्याणां रसानां पयसैव च 01016026c अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् 01016027a अथ तस्य समुद्रस्य तज्जातमुदकं पयः 01016027c रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् 01016028a ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् 01016028c श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् 01016029a ऋते नारायणं देवं दैत्या नागोत्तमास्तथा 01016029c चिरारब्धमिदं चापि सागरस्यापि मन्थनम् 01016030a ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् 01016030c विधत्स्वैषां बलं विष्णो भवानत्र परायणम् 01016031 विष्णुरुवाच 01016031a बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः 01016031c क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् 01016032 सूत उवाच 01016032a नारायणवचः श्रुत्वा बलिनस्ते महोदधेः 01016032c तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् 01016033a ततः शतसहस्रांशुः समान इव सागरात् 01016033c प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः 01016034a श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी 01016034c सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा 01016035a कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः 01016035c मरीचिविकचः श्रीमान्नारायणउरोगतः 01016036a श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः 01016036c यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः 01016037a धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत 01016037c श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति 01016038a एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः 01016038c अमृतार्थे महान्नादो ममेदमिति जल्पताम् 01016039a ततो नारायणो मायामास्थितो मोहिनीं प्रभुः 01016039c स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः 01016040a ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः 01016040c स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः 01017001 सूत उवाच 01017001a अथावरणमुख्यानि नानाप्रहरणानि च 01017001c प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः 01017002a ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् 01017002c जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः 01017003a ततो देवगणाः सर्वे पपुस्तदमृतं तदा 01017003c विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति 01017004a ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् 01017004c राहुर्विबुधरूपेण दानवः प्रापिबत्तदा 01017005a तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा 01017005c आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया 01017006a ततो भगवता तस्य शिरश्छिन्नमलंकृतम् 01017006c चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा 01017007a तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् 01017007c चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् 01017008a ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै 01017008c शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ 01017009a विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः 01017009c नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् 01017010a ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः 01017010c सुराणामसुराणां च सर्वघोरतरो महान् 01017011a प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः 01017011c तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च 01017012a ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु 01017012c असिशक्तिगदारुग्णा निपेतुर्धरणीतले 01017013a छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे 01017013c तप्तकाञ्चनजालानि निपेतुरनिशं तदा 01017014a रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः 01017014c अद्रीणामिव कूटानि धातुरक्तानि शेरते 01017015a हाहाकारः समभवत्तत्र तत्र सहस्रशः 01017015c अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति 01017016a परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः 01017016c निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् 01017017a छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च 01017017c व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः 01017018a एवं सुतुमुले युद्धे वर्तमाने भयावहे 01017018c नरनारायणौ देवौ समाजग्मतुराहवम् 01017019a तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि 01017019c चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् 01017020a ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् 01017020c विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् 01017021a तदागतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुरच्युतः 01017021c मुमोच वै चपलमुदग्रवेगव;न्महाप्रभं परनगरावदारणम् 01017022a तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा 01017022c विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे 01017023a दहत्क्वचिज्ज्वलन इवावलेलिह;त्प्रसह्य तानसुरगणान्न्यकृन्तत 01017023c प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् 01017024a अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा 01017024c महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह 01017025a अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः 01017025c महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः 01017026a ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः 01017026c परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसंप्रवर्तिते 01017027a नरस्ततो वरकनकाग्रभूषणै;र्महेषुभिर्गगनपथं समावृणोत् 01017027c विदारयन्गिरिशिखराणि पत्रिभि;र्महाभयेऽसुरगणविग्रहे तदा 01017028a ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः 01017028c वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च 01017029a ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः 01017029c विनाद्य खं दिवमपि चैव सर्वश;स्ततो गताः सलिलधरा यथागतम् 01017030a ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् 01017030c ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह 01018001 सूत उवाच 01018001a एतत्ते सर्वमाख्यातममृतं मथितं यथा 01018001c यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः 01018002a यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् 01018002c उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् 01018003 विनतोवाच 01018003a श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे 01018003c ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे 01018004 कद्रूरुवाच 01018004a कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते 01018004c एहि सार्धं मया दीव्य दासीभावाय भामिनि 01018005 सूत उवाच 01018005a एवं ते समयं कृत्वा दासीभावाय वै मिथः 01018005c जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह 01018006a ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती 01018006c आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः 01018007a आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा 01018007c तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान् 01018008a सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति 01018008c जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः 01018009a शापमेनं तु शुश्राव स्वयमेव पितामहः 01018009c अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि 01018010a सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत 01018010c बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया 01018011a तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः 01018011c तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै 01018011e प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने 01019001 सूत उवाच 01019001a ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ 01019001c कद्रूश्च विनता चैव भगिन्यौ ते तपोधन 01019002a अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा 01019002c जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात् 01019003a ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् 01019003c तिमिंगिलझषाकीर्णं मकरैरावृतं तथा 01019004a सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् 01019004c उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् 01019005a आकरं सर्वरत्नानामालयं वरुणस्य च 01019005c नागानामालयं रम्यमुत्तमं सरितां पतिम् 01019006a पातालज्वलनावासमसुराणां च बन्धनम् 01019006c भयंकरं च सत्त्वानां पयसां निधिमर्णवम् 01019007a शुभं दिव्यममर्त्यानाममृतस्याकरं परम् 01019007c अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् 01019008a घोरं जलचरारावरौद्रं भैरवनिस्वनम् 01019008c गम्भीरावर्तकलिलं सर्वभूतभयंकरम् 01019009a वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् 01019009c वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः 01019010a चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् 01019010c पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् 01019011a गां विन्दता भगवता गोविन्देनामितौजसा 01019011c वराहरूपिणा चान्तर्विक्षोभितजलाविलम् 01019012a ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा 01019012c अनासादितगाधं च पातालतलमव्ययम् 01019013a अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः 01019013c युगादिकालशयनं विष्णोरमिततेजसः 01019014a वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् 01019014c अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् 01019015a महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः 01019015c अभिसार्यमाणमनिशं ददृशाते महार्णवम् 01019016a गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः 01019016c विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् 01019017a इत्येवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् 01019017c पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् 01020001 सूत उवाच 01020001a तं समुद्रमतिक्रम्य कद्रूर्विनतया सह 01020001c न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा 01020002a निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् 01020002c विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् 01020003a ततः सा विनता तस्मिन्पणितेन पराजिता 01020003c अभवद्दुःखसंतप्ता दासीभावं समास्थिता 01020004a एतस्मिन्नन्तरे चैव गरुडः काल आगते 01020004c विना मात्रा महातेजा विदार्याण्डमजायत 01020005a अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः 01020005c प्रवृद्धः सहसा पक्षी महाकायो नभोगतः 01020006a तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् 01020006c प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् 01020007a अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि 01020007c असौ हि राशिः सुमहान्समिद्धस्तव सर्पति 01020008 अग्निरुवाच 01020008a नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः 01020008c गरुडो बलवानेष मम तुल्यः स्वतेजसा 01020009 सूत उवाच 01020009a एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् 01020009c अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा 01020010a त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः 01020010c त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् 01020011a बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव 01020011c तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् 01020012a त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे 01020012c समाक्षिपन्भानुमतः प्रभां मुहु;स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् 01020013a दिवाकरः परिकुपितो यथा दहे;त्प्रजास्तथा दहसि हुताशनप्रभ 01020013c भयंकरः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् 01020014a खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् 01020014c महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् 01020015a एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा 01020015c तेजसः प्रतिसंहारमात्मनः स चकार ह 01021001 सूत उवाच 01021001a ततः कामगमः पक्षी महावीर्यो महाबलः 01021001c मातुरन्तिकमागच्छत्परं तीरं महोदधेः 01021002a यत्र सा विनता तस्मिन्पणितेन पराजिता 01021002c अतीव दुःखसंतप्ता दासीभावमुपागता 01021003a ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ 01021003c काल आहूय वचनं कद्रूरिदमभाषत 01021004a नागानामालयं भद्रे सुरम्यं रमणीयकम् 01021004c समुद्रकुक्षावेकान्ते तत्र मां विनते वह 01021005a ततः सुपर्णमाता तामवहत्सर्पमातरम् 01021005c पन्नगान्गरुडश्चापि मातुर्वचनचोदितः 01021006a स सूर्यस्याभितो याति वैनतेयो विहंगमः 01021006c सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् 01021006e तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् 01021007a नमस्ते देवदेवेश नमस्ते बलसूदन 01021007c नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते 01021008a सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव 01021008c त्वमेव परमं त्राणमस्माकममरोत्तम 01021009a ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर 01021009c त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे 01021010a त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् 01021010c त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः 01021011a स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः 01021011c त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः 01021012a त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः 01021012c त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् 01021013a त्वं सर्वममृतं देव त्वं सोमः परमार्चितः 01021013c त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः 01021014a शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा 01021014c संवत्सरर्तवो मासा रजन्यश्च दिनानि च 01021015a त्वमुत्तमा सगिरिवना वसुंधरा; सभास्करं वितिमिरमम्बरं तथा 01021015c महोदधिः सतिमितिमिंगिलस्तथा; महोर्मिमान्बहुमकरो झषालयः 01021016a महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः 01021016c अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये 01021017a त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च 01021017c त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः 01022001 सूत उवाच 01022001a एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः 01022001c नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत् 01022002a ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः 01022002c परस्परमिवात्यर्थं गर्जन्तः सततं दिवि 01022003a संघातितमिवाकाशं जलदैः सुमहाद्भुतैः 01022003c सृजद्भिरतुलं तोयमजस्रं सुमहारवैः 01022004a संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः 01022004c मेघस्तनितनिर्घोषमम्बरं समपद्यत 01022005a नागानामुत्तमो हर्षस्तदा वर्षति वासवे 01022005c आपूर्यत मही चापि सलिलेन समन्ततः 01023001 सूत उवाच 01023001a सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै 01023001c सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम् 01023002a विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् 01023002c भवनैरावृतं रम्यैस्तथा पद्माकरैरपि 01023003a प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् 01023003c दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् 01023004a उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि 01023004c शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः 01023005a किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः 01023005c मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् 01023005e नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् 01023006a तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा 01023006c अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् 01023007a वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् 01023007c त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर 01023008a स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा 01023008c किं कारणं मया मातः कर्तव्यं सर्पभाषितम् 01023009 विनतोवाच 01023009a दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम 01023009c पणं वितथमास्थाय सर्पैरुपधिना कृतम् 01023010 सूत उवाच 01023010a तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः 01023010c उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः 01023011a किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् 01023011c दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः 01023012a श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा 01023012c ततो दास्याद्विप्रमोक्षो भविता तव खेचर 01024001 सूत उवाच 01024001a इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् 01024001c गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् 01024002 विनतोवाच 01024002a समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् 01024002c सहस्राणामनेकानां तान्भुक्त्वामृतमानय 01024003a न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन 01024003c अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः 01024004a अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः 01024004c भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः 01024005 गरुड उवाच 01024005a यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः 01024005c तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि 01024006 विनतोवाच 01024006a यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा 01024006c दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम् 01024007 सूत उवाच 01024007a प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः 01024007c जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् 01024008a पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक 01024008c शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु 01024009a अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा 01024009c अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये 01024010a ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात 01024010c ततो निषादान्बलवानुपागम;द्बुभुक्षितः काल इवान्तको महान् 01024011a स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् 01024011c समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् 01024012a ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् 01024012c ततो निषादास्त्वरिताः प्रवव्रजु;र्यतो मुखं तस्य भुजंगभोजिनः 01024013a तदाननं विवृतमतिप्रमाणव;त्समभ्ययुर्गगनमिवार्दिताः खगाः 01024013c सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने 01024014a ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः 01024014c निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा 01025001 सूत उवाच 01025001a तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया 01025001c दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः 01025002a द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् 01025002c न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा 01025003a ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत 01025003c निषादी मम भार्येयं निर्गच्छतु मया सह 01025004 गरुड उवाच 01025004a एतामपि निषादीं त्वं परिगृह्याशु निष्पत 01025004c तूर्णं संभावयात्मानमजीर्णं मम तेजसा 01025005 सूत उवाच 01025005a ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा 01025005c वर्धयित्वा च गरुडमिष्टं देशं जगाम ह 01025006a सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् 01025006c वितत्य पक्षावाकाशमुत्पपात मनोजवः 01025007a ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः 01025007c अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः 01025007e मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै 01025008a मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै 01025008c न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः 01025009a तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे 01025009c यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो 01025010 कश्यप उवाच 01025010a आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् 01025010c भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः 01025011a स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः 01025011c विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः 01025012a अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः 01025012c विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा 01025012e ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः 01025013a ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः 01025013c विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः 01025014a विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ 01025014c भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते 01025015a तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः 01025015c गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् 01025016a नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि 01025016c यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि 01025017a शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् 01025017c त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि 01025018a एवमन्योन्यशापात्तौ सुप्रतीकविभावसू 01025018c गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ 01025019a रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि 01025019c परस्परद्वेषरतौ प्रमाणबलदर्पितौ 01025020a सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ 01025020c तयोरेकतरः श्रीमान्समुपैति महागजः 01025021a तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः 01025021c उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः 01025022a तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् 01025022c दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् 01025023a तं विक्षोभयमाणं तु सरो बहुझषाकुलम् 01025023c कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् 01025024a षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः 01025024c कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः 01025025a तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ 01025025c उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः 01025026 सूत उवाच 01025026a स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः 01025026c नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् 01025027a समुत्पपात चाकाशं तत उच्चैर्विहंगमः 01025027c सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् 01025028a ते भीताः समकम्पन्त तस्य पक्षानिलाहताः 01025028c न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः 01025029a प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् 01025029c अन्यानतुलरूपाङ्गानुपचक्राम खेचरः 01025030a काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः 01025030c सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् 01025031a तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः 01025031c अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् 01025032a यैषा मम महाशाखा शतयोजनमायता 01025032c एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ 01025033a ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् 01025033c खगोत्तमो द्रुतमभिपत्य वेगवा;न्बभञ्ज तामविरलपत्रसंवृताम् 01026001 सूत उवाच 01026001a स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा 01026001c अभज्यत तरोः शाखा भग्नां चैनामधारयत् 01026002a तां भग्नां स महाशाखां स्मयन्समवलोकयन् 01026002c अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् 01026003a स तद्विनाशसंत्रासादनुपत्य खगाधिपः 01026003c शाखामास्येन जग्राह तेषामेवान्ववेक्षया 01026003e शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् 01026004a एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः 01026004c दयार्थं वालखिल्यानां न च स्थानमविन्दत 01026005a स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् 01026005c ददर्श कश्यपं तत्र पितरं तपसि स्थितम् 01026006a ददर्श तं पिता चापि दिव्यरूपं विहंगमम् 01026006c तेजोवीर्यबलोपेतं मनोमारुतरंहसम् 01026007a शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् 01026007c अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् 01026008a मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् 01026008c अप्रधृष्यमजेयं च देवदानवराक्षसैः 01026009a भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् 01026009c लोकसंलोडनं घोरं कृतान्तसमदर्शनम् 01026010a तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा 01026010c विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् 01026011a पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् 01026011c मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः 01026012a प्रसादयामास स तान्कश्यपः पुत्रकारणात् 01026012c वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् 01026013a प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः 01026013c चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ 01026014a एवमुक्ता भगवता मुनयस्ते समभ्ययुः 01026014c मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः 01026015a ततस्तेष्वपयातेषु पितरं विनतात्मजः 01026015c शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् 01026016a भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् 01026016c वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम 01026017a ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् 01026017c अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः 01026018a तं पर्वतमहाकुक्षिमाविश्य मनसा खगः 01026018c जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः 01026019a न तां वध्रः परिणहेच्छतचर्मा महानणुः 01026019c शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः 01026020a ततः स शतसाहस्रं योजनान्तरमागतः 01026020c कालेन नातिमहता गरुडः पततां वरः 01026021a स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः 01026021c अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः 01026022a पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् 01026022c मुमोच पुष्पवर्षं च समागलितपादपः 01026023a शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः 01026023c मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् 01026024a शाखिनो बहवश्चापि शाखयाभिहतास्तया 01026024c काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः 01026025a ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः 01026025c व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः 01026026a ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः 01026026c भक्षयामास गरुडस्तावुभौ गजकच्छपौ 01026027a ततः पर्वतकूटाग्रादुत्पपात मनोजवः 01026027c प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः 01026028a इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् 01026028c सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता 01026029a तथा वसूनां रुद्राणामादित्यानां च सर्वशः 01026029c साध्यानां मरुतां चैव ये चान्ये देवतागणाः 01026029e स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् 01026030a अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च 01026030c ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः 01026031a निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् 01026031c देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा 01026032a मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि 01026032c उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु 01026032e रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् 01026033a ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः 01026033c उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् 01026034a किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः 01026034c न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् 01026035 बृहस्पतिरुवाच 01026035a तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो 01026035c तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् 01026036a कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः 01026036c हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् 01026037a समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः 01026037c सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् 01026038 सूत उवाच 01026038a श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः 01026038c महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः 01026039a युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् 01026039c अतुलं हि बलं तस्य बृहस्पतिरुवाच मे 01026040a तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः 01026040c परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः 01026041a धारयन्तो महार्हाणि कवचानि मनस्विनः 01026041c काञ्चनानि विचित्राणि वैडूर्यविकृतानि च 01026042a विविधानि च शस्त्राणि घोररूपाण्यनेकशः 01026042c शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः 01026043a सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः 01026043c चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् 01026044a शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् 01026044c स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः 01026045a तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः 01026045c भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः 01026046a अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य 01026046c असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः 01026047a इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् 01026047c विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ 01027001 शौनक उवाच 01027001a कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज 01027001c तपसा वालखिल्यानां संभूतो गरुडः कथम् 01027002a कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः 01027002c अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् 01027003a कथं च कामचारी स कामवीर्यश्च खेचरः 01027003c एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते 01027004 सूत उवाच 01027004a विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि 01027004c शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज 01027005a यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः 01027005c साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल 01027006a तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह 01027006c मुनयो वालखिल्याश्च ये चान्ये देवतागणाः 01027007a शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् 01027007c समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः 01027008a अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः 01027008c पलाशवृन्तिकामेकां सहितान्वहतः पथि 01027009a प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् 01027009c क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके 01027010a तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः 01027010c अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च 01027011a तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः 01027011c आरेभिरे महत्कर्म तदा शक्रभयंकरम् 01027012a जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् 01027012c मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु 01027013a कामवीर्यः कामगमो देवराजभयप्रदः 01027013c इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः 01027014a इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः 01027014c तपसो नः फलेनाद्य दारुणः संभवत्विति 01027015a तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः 01027015c जगाम शरणं तत्र कश्यपं संशितव्रतम् 01027016a तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः 01027016c वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत 01027017a एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः 01027017c तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः 01027018a अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः 01027018c इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः 01027019a न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः 01027019c भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः 01027020a भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् 01027020c प्रसादः क्रियतां चैव देवराजस्य याचतः 01027021a एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः 01027021c प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् 01027022a इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते 01027022c अपत्यार्थं समारम्भो भवतश्चायमीप्सितः 01027023a तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् 01027023c तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि 01027024a एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा 01027024c विनता नाम कल्याणी पुत्रकामा यशस्विनी 01027025a तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः 01027025c उपचक्राम भर्तारं तामुवाचाथ कश्यपः 01027026a आरम्भः सफलो देवि भवितायं तवेप्सितः 01027026c जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ 01027027a तपसा वालखिल्यानां मम संकल्पजौ तथा 01027027c भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ 01027028a उवाच चैनां भगवान्मारीचः पुनरेव ह 01027028c धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः 01027029a एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति 01027029c लोकसंभावितो वीरः कामवीर्यो विहंगमः 01027030a शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः 01027030c त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः 01027031a नैताभ्यां भविता दोषः सकाशात्ते पुरंदर 01027031c व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि 01027032a न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः 01027032c न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः 01027033a एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् 01027033c विनता चापि सिद्धार्था बभूव मुदिता तदा 01027034a जनयामास पुत्रौ द्वावरुणं गरुडं तथा 01027034c अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः 01027035a पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत 01027035c तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन 01028001 सूत उवाच 01028001a ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे 01028001c गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति 01028002a तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः 01028002c परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि 01028003a तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः 01028003c भौवनः सुमहावीर्यः सोमस्य परिरक्षिता 01028004a स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः 01028004c मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि 01028005a रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः 01028005c कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् 01028006a तेनावकीर्णा रजसा देवा मोहमुपागमन् 01028006c न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः 01028007a एवं संलोडयामास गरुडस्त्रिदिवालयम् 01028007c पक्षतुण्डप्रहारैश्च देवान्स विददार ह 01028008a ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् 01028008c विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत 01028009a अथ वायुरपोवाह तद्रजस्तरसा बली 01028009c ततो वितिमिरे जाते देवाः शकुनिमार्दयन् 01028010a ननाद चोच्चैर्बलवान्महामेघरवः खगः 01028010c वध्यमानः सुरगणैः सर्वभूतानि भीषयन् 01028010e उत्पपात महावीर्यः पक्षिराट्परवीरहा 01028011a तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् 01028011c वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् 01028012a पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः 01028012c क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः 01028013a नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः 01028013c कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत 01028014a विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् 01028014c पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् 01028015a ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः 01028015c नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु 01028016a साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् 01028016c प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः 01028017a दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् 01028017c मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् 01028018a अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा 01028018c क्रथनेन च शूरेण तपनेन च खेचरः 01028019a उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा 01028019c प्ररुजेन च संयुद्धं चकार प्रलिहेन च 01028020a तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः 01028020c युगान्तकाले संक्रुद्धः पिनाकीव महाबलः 01028021a महावीर्या महोत्साहास्तेन ते बहुधा क्षताः 01028021c रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः 01028022a तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् 01028022c अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत 01028023a आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् 01028023c दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् 01028024a ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा 01028024c नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन 01028025a ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः 01028025c ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य 01029001 सूत उवाच 01029001a जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः 01029001c प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् 01029002a स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके 01029002c परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् 01029003a ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् 01029003c घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् 01029004a तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः 01029004c अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह 01029005a अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती 01029005c विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ 01029006a चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ 01029006c रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ 01029007a सदा संरब्धनयनौ सदा चानिमिषेक्षणौ 01029007c तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् 01029008a तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् 01029008c अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् 01029009a तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः 01029009c आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः 01029010a समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली 01029010c उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् 01029011a अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् 01029011c अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः 01029012a विष्णुना तु तदाकाशे वैनतेयः समेयिवान् 01029012c तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा 01029013a तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् 01029013c स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः 01029014a उवाच चैनं भूयोऽपि नारायणमिदं वचः 01029014c अजरश्चामरश्च स्याममृतेन विनाप्यहम् 01029015a प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् 01029015c भवतेऽपि वरं दद्मि वृणीतां भगवानपि 01029016a तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् 01029016c ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् 01029017a अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् 01029017c विहंगमं सुरामित्रं हरन्तममृतं बलात् 01029018a तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः 01029018c प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः 01029019a ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम् 01029019c वज्रस्य च करिष्यामि तव चैव शतक्रतो 01029020a एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे 01029020c न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन 01029021a तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा 01029021c सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति 01029022a दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः 01029022c खगो महदिदं भूतमिति मत्वाभ्यभाषत 01029023a बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् 01029023c सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम 01030001 गरुड उवाच 01030001a सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर 01030001c बलं तु मम जानीहि महच्चासह्यमेव च 01030002a कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् 01030002c गुणसंकीर्तनं चापि स्वयमेव शतक्रतो 01030003a सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया 01030003c न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः 01030004a सपर्वतवनामुर्वीं ससागरवनामिमाम् 01030004c पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् 01030005a सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् 01030005c वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् 01030006 सूत उवाच 01030006a इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः 01030006c आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः 01030007a प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् 01030007c न कार्यं तव सोमेन मम सोमः प्रदीयताम् 01030007e अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् 01030008 गरुड उवाच 01030008a किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया 01030008c न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् 01030009a यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् 01030009c त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर 01030010 शक्र उवाच 01030010a वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज 01030010c यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम 01030011 सूत उवाच 01030011a इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् 01030011c स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः 01030012a ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् 01030012c भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः 01030013a तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः 01030013c हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् 01030014a आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् 01030014c अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् 01030015a इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः 01030015c स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः 01030016a अदासी चैव मातेयमद्यप्रभृति चास्तु मे 01030016c यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् 01030017a ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत 01030017c शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः 01030018a अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा 01030018c स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः 01030019a तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् 01030019c सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा 01030020a ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा 01030020c अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः 01030021a ततः सुपर्णः परमप्रहृष्टवा;न्विहृत्य मात्रा सह तत्र कानने 01030021c भुजंगभक्षः परमार्चितः खगै;रहीनकीर्तिर्विनतामनन्दयत् 01030022a इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि 01030022c असंशयं त्रिदिवमियात्स पुण्यभा;ङ्महात्मनः पतगपतेः प्रकीर्तनात् 01031001 शौनक उवाच 01031001a भुजंगमानां शापस्य मात्रा चैव सुतेन च 01031001c विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन 01031002a वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा 01031002c नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः 01031003a पन्नगानां तु नामानि न कीर्तयसि सूतज 01031003c प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् 01031004 सूत उवाच 01031004a बहुत्वान्नामधेयानि भुजगानां तपोधन 01031004c न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु 01031005a शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् 01031005c ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ 01031006a कालियो मणिनागश्च नागश्चापूरणस्तथा 01031006c नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः 01031007a नीलानीलौ तथा नागौ कल्माषशबलौ तथा 01031007c आर्यकश्चादिकश्चैव नागश्च शलपोतकः 01031008a सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः 01031008c आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा 01031009a निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा 01031009c बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः 01031010a कम्बलाश्वतरौ चापि नागः कालीयकस्तथा 01031010c वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ 01031011a नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः 01031011c क्षेमकश्च महानागो नागः पिण्डारकस्तथा 01031012a करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः 01031012c मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः 01031013a अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा 01031013c कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा 01031014a विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् 01031014c हस्तिभद्रः पिठरको मुखरः कोणवासनः 01031015a कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः 01031015c कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा 01031015e कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ 01031016a एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम 01031016c बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः 01031017a एतेषां प्रसवो यश्च प्रसवस्य च संततिः 01031017c असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम 01031018a बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च 01031018c अशक्यान्येव संख्यातुं भुजगानां तपोधन 01032001 शौनक उवाच 01032001a जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः 01032001c शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् 01032002 सूत उवाच 01032002a तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः 01032002c तपो विपुलमातस्थे वायुभक्षो यतव्रतः 01032003a गन्धमादनमासाद्य बदर्यां च तपोरतः 01032003c गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे 01032004a तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च 01032004c एकान्तशीली नियतः सततं विजितेन्द्रियः 01032005a तप्यमानं तपो घोरं तं ददर्श पितामहः 01032005c परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् 01032006a तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः 01032006c किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु 01032007a त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ 01032007c ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् 01032008 शेष उवाच 01032008a सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः 01032008c सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् 01032009a अभ्यसूयन्ति सततं परस्परममित्रवत् 01032009c ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत 01032010a न मर्षयन्ति सततं विनतां ससुतां च ते 01032010c अस्माकं चापरो भ्राता वैनतेयः पितामह 01032011a तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः 01032011c वरप्रदानात्स पितुः कश्यपस्य महात्मनः 01032012a सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् 01032012c कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः 01032013 ब्रह्मोवाच 01032013a जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् 01032013c मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् 01032014a कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम 01032014c भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि 01032015a वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् 01032015c दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि 01032016a दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम 01032016c अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा 01032017 शेष उवाच 01032017a एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह 01032017c धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर 01032018 ब्रह्मोवाच 01032018a प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च 01032018c त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् 01032019a इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च 01032019c त्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात् 01032020 शेष उवाच 01032020a यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिः 01032020c तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते 01032021 ब्रह्मोवाच 01032021a अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति 01032021c इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति 01032022 सूत उवाच 01032022a तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः 01032022c बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः 01032023 ब्रह्मोवाच 01032023a शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः 01032023c अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा 01032024 सूत उवाच 01032024a अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् 01032024c धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः 01032025a सुपर्णं च सखायं वै भगवानमरोत्तमः 01032025c प्रादादनन्ताय तदा वैनतेयं पितामहः 01033001 सूत उवाच 01033001a मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः 01033001c वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् 01033002a ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः 01033002c ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः 01033003 वासुकिरुवाच 01033003a अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः 01033003c तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे 01033004a सर्वेषामेव शापानां प्रतिघातो हि विद्यते 01033004c न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः 01033005a अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः 01033005c शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः 01033006a नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः 01033006c न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् 01033007a तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् 01033007c यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् 01033008a अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे 01033008c यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् 01033009a यथा स यज्ञो न भवेद्यथा वापि पराभवेत् 01033009c जनमेजयस्य सर्पाणां विनाशकरणाय हि 01033010 सूत उवाच 01033010a तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः 01033010c समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः 01033011a एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः 01033011c जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति 01033012a अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः 01033012c मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः 01033013a स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् 01033013c तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते 01033014a स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः 01033014c यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् 01033015a दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् 01033015c हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः 01033016a अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति 01033016c सर्पसत्रविधानज्ञो राजकार्यहिते रतः 01033017a तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति 01033017c तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति 01033018a ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः 01033018c तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति 01033019a तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः 01033019c अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना 01033020a सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा 01033020c अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् 01033021a अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् 01033021c वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः 01033022a स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः 01033022c प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति 01033023a यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः 01033023c जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति 01033024a अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः 01033024c स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना 01033025a अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे 01033025c यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति 01033025e वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् 01033026a अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् 01033026c गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः 01033027a अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः 01033027c दशामैनं प्रगृह्याशु कृतमेवं भविष्यति 01033027e छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति 01033028a एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता 01033028c यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् 01033029a इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् 01033029c वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान् 01033030a नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः 01033030c सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते 01033031a किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् 01033031c अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ 01034001 सूत उवाच 01034001a श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च 01034001c वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् 01034002a न स यज्ञो न भविता न स राजा तथाविधः 01034002c जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् 01034003a दैवेनोपहतो राजन्यो भवेदिह पूरुषः 01034003c स दैवमेवाश्रयते नान्यत्तत्र परायणम् 01034004a तदिदं दैवमस्माकं भयं पन्नगसत्तमाः 01034004c दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम 01034005a अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा 01034005c मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः 01034006a देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो 01034006c पितामहमुपागम्य दुःखार्तानां महाद्युते 01034007 देवा ऊचुः 01034007a का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह 01034007c ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः 01034008a तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह 01034008c एतदिच्छाम विज्ञातुं कारणं यन्न वारिता 01034009 ब्रह्मोवाच 01034009a बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः 01034009c प्रजानां हितकामोऽहं न निवारितवांस्तदा 01034010a ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः 01034010c तेषां विनाशो भविता न तु ये धर्मचारिणः 01034011a यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् 01034011c पन्नगानां निबोधध्वं तस्मिन्काले तथागते 01034012a यायावरकुले धीमान्भविष्यति महानृषिः 01034012c जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः 01034013a तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः 01034013c आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा 01034013e तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः 01034014 देवा ऊचुः 01034014a स मुनिप्रवरो देव जरत्कारुर्महातपाः 01034014c कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् 01034015 ब्रह्मोवाच 01034015a सनामायां सनामा स कन्यायां द्विजसत्तमः 01034015c अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति 01034016 एलापत्र उवाच 01034016a एवमस्त्विति तं देवाः पितामहमथाब्रुवन् 01034016c उक्त्वा चैवं गता देवाः स च देवः पितामहः 01034017a सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव 01034017c जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय 01034018a भैक्षवद्भिक्षमाणाय नागानां भयशान्तये 01034018c ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया 01035001 सूत उवाच 01035001a एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम 01035001c सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् 01035002a ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत 01035002c जरत्कारुं स्वसारं वै परं हर्षमवाप च 01035003a ततो नातिमहान्कालः समतीत इवाभवत् 01035003c अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् 01035004a तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः 01035004c समाप्यैव च तत्कर्म पितामहमुपागमन् 01035005a देवा वासुकिना सार्धं पितामहमथाब्रुवन् 01035005c भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् 01035006a तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि 01035006c जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः 01035007a हितो ह्ययं सदास्माकं प्रियकारी च नागराट् 01035007c कुरु प्रसादं देवेश शमयास्य मनोज्वरम् 01035008 ब्रह्मोवाच 01035008a मयैवैतद्वितीर्णं वै वचनं मनसामराः 01035008c एलापत्रेण नागेन यदस्याभिहितं पुरा 01035009a तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा 01035009c विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः 01035010a उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः 01035010c तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु 01035011a यदेलापत्रेण वचस्तदोक्तं भुजगेन ह 01035011c पन्नगानां हितं देवास्तत्तथा न तदन्यथा 01035012 सूत उवाच 01035012a एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा 01035012c सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् 01035013a जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः 01035013c शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति 01036001 शौनक उवाच 01036001a जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन 01036001c इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः 01036002a किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि 01036002c जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि 01036003 सूत उवाच 01036003a जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् 01036003c शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः 01036004a क्षपयामास तीव्रेण तपसेत्यत उच्यते 01036004c जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा 01036005a एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा 01036005c उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् 01036006 सूत उवाच 01036006a अथ कालस्य महतः स मुनिः संशितव्रतः 01036006c तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत 01036007a स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् 01036007c चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् 01036008a ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु 01036008c परिक्षिदिति विख्यातो राजा कौरववंशभृत् 01036009a यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि 01036009c बभूव मृगयाशीलः पुरास्य प्रपितामहः 01036010a मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा 01036010c अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः 01036011a स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा 01036011c पृष्ठतो धनुरादाय ससार गहने वने 01036012a यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि 01036012c अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः 01036013a न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् 01036013c पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति 01036013e परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः 01036014a दूरं चापहृतस्तेन मृगेण स महीपतिः 01036014c परिश्रान्तः पिपासार्त आससाद मुनिं वने 01036015a गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् 01036015c भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः 01036016a तमभिद्रुत्य वेगेन स राजा संशितव्रतम् 01036016c अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः 01036017a भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः 01036017c मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि 01036018a स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः 01036018c तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् 01036019a धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत 01036019c न च किंचिदुवाचैनं शुभं वा यदि वाशुभम् 01036020a स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् 01036020c दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः 01036021a तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः 01036021c शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः 01036022a स देवं परमीशानं सर्वभूतहिते रतम् 01036022c ब्रह्माणमुपतस्थे वै काले काले सुसंयतः 01036022e स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् 01036023a सख्योक्तः क्रीडमानेन स तत्र हसता किल 01036023c संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः 01036023e ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम 01036024a तेजस्विनस्तव पिता तथैव च तपस्विनः 01036024c शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव 01036025a व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः 01036025c अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु 01036026a क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः 01036026c दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा 01037001 सूत उवाच 01037001a एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः 01037001c मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना 01037002a स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् 01037002c अपृच्छत कथं तातः स मेऽद्य मृतधारकः 01037003 कृश उवाच 01037003a राज्ञा परिक्षिता तात मृगयां परिधावता 01037003c अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः 01037004 शृङ्ग्युवाच 01037004a किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः 01037004c ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् 01037005 कृश उवाच 01037005a स राजा मृगयां यातः परिक्षिदभिमन्युजः 01037005c ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा 01037006a न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने 01037006c पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् 01037007a तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः 01037007c पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव 01037008a स च मौनव्रतोपेतो नैव तं प्रत्यभाषत 01037008c तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् 01037009a शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः 01037009c सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् 01037010 सूत उवाच 01037010a श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः 01037010c कोपसंरक्तनयनः प्रज्वलन्निव मन्युना 01037011a आविष्टः स तु कोपेन शशाप नृपतिं तदा 01037011c वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः 01037012 शृङ्ग्युवाच 01037012a योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च 01037012c स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी 01037013a तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः 01037013c आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः 01037014a सप्तरात्रादितो नेता यमस्य सदनं प्रति 01037014c द्विजानामवमन्तारं कुरूणामयशस्करम् 01037015 सूत उवाच 01037015a इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् 01037015c आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् 01037016a स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै 01037016c शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः 01037017a दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् 01037017c श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना 01037018a राज्ञा परिक्षिता कोपादशपं तमहं नृपम् 01037018c यथार्हति स एवोग्रं शापं कुरुकुलाधमः 01037019a सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः 01037019c वैवस्वतस्य भवनं नेता परमदारुणम् 01037020a तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् 01037020c न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् 01037021a वयं तस्य नरेन्द्रस्य विषये निवसामहे 01037021c न्यायतो रक्षितास्तेन तस्य पापं न रोचये 01037022a सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा 01037022c क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः 01037023a यदि राजा न रक्षेत पीडा वै नः परा भवेत् 01037023c न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् 01037024a रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः 01037024c चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः 01037025a परिक्षित्तु विशेषेण यथास्य प्रपितामहः 01037025c रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा 01037026a तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना 01037026c अजानता व्रतमिदं कृतमेतदसंशयम् 01037027a तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् 01037027c न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा 01038001 शृङ्ग्युवाच 01038001a यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् 01038001c प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया 01038002a नैवान्यथेदं भविता पितरेष ब्रवीमि ते 01038002c नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् 01038003 शमीक उवाच 01038003a जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा 01038003c नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति 01038004a पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु 01038004c यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः 01038005a किं पुनर्बाल एव त्वं तपसा भावितः प्रभो 01038005c वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् 01038006a सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर 01038006c पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् 01038007a स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् 01038007c चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि 01038008a क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् 01038008c ततो धर्मविहीनानां गतिरिष्टा न विद्यते 01038009a शम एव यतीनां हि क्षमिणां सिद्धिकारकः 01038009c क्षमावतामयं लोकः परश्चैव क्षमावताम् 01038010a तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः 01038010c क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् 01038011a मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै 01038011c तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै 01038012a मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना 01038012c ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा 01038013 सूत उवाच 01038013a एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः 01038013c परिक्षिते नृपतये दयापन्नो महातपाः 01038014a संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च 01038014c शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् 01038015a सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् 01038015c विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः 01038016a पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः 01038016c आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः 01038016e शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ 01038017a शमीको नाम राजेन्द्र विषये वर्तते तव 01038017c ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः 01038018a तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः 01038018c अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम 01038018e क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे 01038019a तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै 01038019c तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति 01038020a तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् 01038020c तदन्यथा न शक्यं च कर्तुं केनचिदप्युत 01038021a न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् 01038021c ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना 01038022a इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः 01038022c पर्यतप्यत तत्पापं कृत्वा राजा महातपाः 01038023a तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा 01038023c भूय एवाभवद्राजा शोकसंतप्तमानसः 01038024a अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु 01038024c पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः 01038025a न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत 01038025c अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् 01038026a ततस्तं प्रेषयामास राजा गौरमुखं तदा 01038026c भूयः प्रसादं भगवान्करोत्विति ममेति वै 01038027a तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा 01038027c मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः 01038028a निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् 01038028c प्रासादं कारयामास एकस्तम्भं सुरक्षितम् 01038029a रक्षां च विदधे तत्र भिषजश्चौषधानि च 01038029c ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् 01038030a राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः 01038030c मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः 01038031a प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम 01038031c काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् 01038032a श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् 01038032c तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् 01038033a तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् 01038033c तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् 01038034a तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि 01038034c गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः 01038035a तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् 01038035c क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति 01038036 काश्यप उवाच 01038036a नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् 01038036c तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति 01038037a तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा 01038037c पाण्डवानां कुलकरं राजानममितौजसम् 01038037e गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् 01038038 तक्षक उवाच 01038038a अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् 01038038c निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् 01038039 काश्यप उवाच 01038039a अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् 01038039c करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः 01039001 तक्षक उवाच 01039001a दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् 01039001c ततो वृक्षं मया दष्टमिमं जीवय काश्यप 01039002a परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च 01039002c न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम 01039003 काश्यप उवाच 01039003a दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे 01039003c अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम 01039004 सूत उवाच 01039004a एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना 01039004c अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः 01039005a स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते 01039005c आशीविषविषोपेतः प्रजज्वाल समन्ततः 01039006a तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् 01039006c कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् 01039007a भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा 01039007c भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् 01039008a विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ 01039008c अहं संजीवयाम्येनं पश्यतस्ते भुजंगम 01039009a ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः 01039009c भस्मराशीकृतं वृक्षं विद्यया समजीवयत् 01039010a अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् 01039010c पलाशिनं शाखिनं च तथा विटपिनं पुनः 01039011a तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना 01039011c उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि 01039012a विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा 01039012c कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन 01039013a यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् 01039013c अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् 01039014a विप्रशापाभिभूते च क्षीणायुषि नराधिपे 01039014c घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् 01039015a ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् 01039015c विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् 01039016 काश्यप उवाच 01039016a धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम 01039016c ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम 01039017 तक्षक उवाच 01039017a यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् 01039017c अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम 01039018 सूत उवाच 01039018a तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः 01039018c प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् 01039019a दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा 01039019c क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः 01039019e लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् 01039020a निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि 01039020c जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् 01039021a अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् 01039021c मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः 01039022a स चिन्तयामास तदा मायायोगेन पार्थिवः 01039022c मया वञ्चयितव्योऽसौ क उपायो भवेदिति 01039023a ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् 01039023c फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः 01039024 तक्षक उवाच 01039024a गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया 01039024c फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् 01039025 सूत उवाच 01039025a ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः 01039025c उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च 01039026a तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् 01039026c कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् 01039027a गतेषु तेषु नागेषु तापसच्छद्मरूपिषु 01039027c अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः 01039028a भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः 01039028c तापसैरुपनीतानि फलानि सहिता मया 01039029a ततो राजा ससचिवः फलान्यादातुमैच्छत 01039029c यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः 01039029e ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक 01039030a स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् 01039030c अस्तमभ्येति सविता विषादद्य न मे भयम् 01039031a सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् 01039031c तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् 01039032a ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः 01039032c एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह 01039032e कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः 01039033a हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः 01039033c तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् 01040001 सूत उवाच 01040001a तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् 01040001c विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः 01040002a तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः 01040002c अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् 01040003a सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् 01040003c तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः 01040004a ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः 01040004c भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा 01040005a ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः 01040005c शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः 01040006a नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः 01040006c नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः 01040007a स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा 01040007c शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस्तथा 01040008a ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः 01040008c सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः 01040009a ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः 01040009c स चापि तां प्राप्य मुदा युतोऽभव;न्न चान्यनारीषु मनो दधे क्वचित् 01040010a सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् 01040010c तथा स राजन्यवरो विजह्रिवा;न्यथोर्वशीं प्राप्य पुरा पुरूरवाः 01040011a वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् 01040011c भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी 01041001 सूत उवाच 01041001a एतस्मिन्नेव काले तु जरत्कारुर्महातपाः 01041001c चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः 01041002a चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः 01041002c तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह 01041003a वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः 01041003c स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् 01041004a एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् 01041004c तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् 01041005a निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः 01041005c उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत 01041006a के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः 01041006c दुर्बलं खादितैर्मूलैराखुना बिलवासिना 01041007a वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् 01041007c तदप्ययं शनैराखुरादत्ते दशनैः शितैः 01041008a छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव 01041008c ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः 01041009a ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् 01041009c कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः 01041010a तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः 01041010c अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् 01041011a अथ वापि समग्रेण तरन्तु तपसा मम 01041011c भवन्तः सर्व एवास्मात्काममेवं विधीयताम् 01041012 पितर ऊचुः 01041012a ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति 01041012c न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् 01041013a अस्ति नस्तात तपसः फलं प्रवदतां वर 01041013c संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ 01041014a लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै 01041014c येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् 01041015a ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् 01041015c शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज 01041016a यायावरा नाम वयमृषयः संशितव्रताः 01041016c लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो 01041017a प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै 01041017c अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा 01041018a मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले 01041018c जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः 01041018e नियतात्मा महात्मा च सुव्रतः सुमहातपाः 01041019a तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् 01041019c न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन 01041020a तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् 01041020c स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया 01041021a पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः 01041021c साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो 01041021e कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन 01041022a यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् 01041022c एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः 01041023a यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः 01041023c एते नस्तन्तवस्तात कालेन परिभक्षिताः 01041024a यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् 01041024c तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः 01041025a यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः 01041025c स तं तपोरतं मन्दं शनैः क्षपयते तुदन् 01041025e जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् 01041026a न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम 01041026c छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः 01041026e नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा 01041027a अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः 01041027c छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः 01041028a तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत् 01041028c तत्सर्वं न समं तात संतत्येति सतां मतम् 01041029a स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् 01041029c यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः 01041030a यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा 01041030c तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया 01042001 सूत उवाच 01042001a एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः 01042001c उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा 01042002a अहमेव जरत्कारुः किल्बिषी भवतां सुतः 01042002c तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः 01042003 पितर ऊचुः 01042003a पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया 01042003c किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः 01042004 जरत्कारुरुवाच 01042004a ममायं पितरो नित्यं हृद्यर्थः परिवर्तते 01042004c ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै 01042005a एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः 01042005c मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः 01042006a करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः 01042006c सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन 01042007a भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता 01042007c प्रतिग्रहीता तामस्मि न भरेयं च यामहम् 01042008a एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि 01042008c अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः 01042009 सूत उवाच 01042009a एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः 01042009c न च स्म लभते भार्यां वृद्धोऽयमिति शौनक 01042010a यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा 01042010c तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः 01042011a यानि भूतानि सन्तीह स्थावराणि चराणि च 01042011c अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः 01042012a उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् 01042012c निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया 01042013a निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः 01042013c दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः 01042014a यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः 01042014c ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् 01042015a मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् 01042015c भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत 01042016a ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः 01042016c तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् 01042017a तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम् 01042017c प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः 01042018a तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने 01042018c नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत 01042019a असनामेति वै मत्वा भरणे चाविचारिते 01042019c मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे 01042020a ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन 01042020c वासुके भरणं चास्या न कुर्यामित्युवाच ह 01043001 सूत उवाच 01043001a वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा 01043001c सनामा तव कन्येयं स्वसा मे तपसान्विता 01043002a भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम 01043002c रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन 01043003a प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति 01043003c जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह 01043004a तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः 01043004c जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् 01043005a ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् 01043005c जगाम भार्यामादाय स्तूयमानो महर्षिभिः 01043006a शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् 01043006c तत्र भार्यासहायः स जरत्कारुरुवास ह 01043007a स तत्र समयं चक्रे भार्यया सह सत्तमः 01043007c विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन 01043008a त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे 01043008c एतद्गृहाण वचनं मया यत्समुदीरितम् 01043009a ततः परमसंविग्ना स्वसा नागपतेस्तु सा 01043009c अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति 01043010a तथैव सा च भर्तारं दुःखशीलमुपाचरत् 01043010c उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी 01043011a ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा 01043011c भर्तारं तं यथान्यायमुपतस्थे महामुनिम् 01043012a तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः 01043012c अतीव तपसा युक्तो वैश्वानरसमद्युतिः 01043012e शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः 01043013a ततः कतिपयाहस्य जरत्कारुर्महातपाः 01043013c उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् 01043014a तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् 01043014c अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा 01043014e वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी 01043015a किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा 01043015c दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् 01043016a कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः 01043016c धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः 01043017a उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति 01043017c धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम् 01043018a इति निश्चित्य मनसा जरत्कारुर्भुजंगमा 01043018c तमृषिं दीप्ततपसं शयानमनलोपमम् 01043018e उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी 01043019a उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति 01043019c संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः 01043020a प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः 01043020c संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो 01043021a एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः 01043021c भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् 01043022a अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे 01043022c समीपे ते न वत्स्यामि गमिष्यामि यथागतम् 01043023a न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः 01043023c अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते 01043024a न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् 01043024c किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा 01043025a एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् 01043025c अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने 01043026a नावमानात्कृतवती तवाहं प्रतिबोधनम् 01043026c धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया 01043027a उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः 01043027c ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् 01043028a न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे 01043028c समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः 01043029a सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे 01043029c इतो मयि गते भीरु गतः स भगवानिति 01043029e त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि 01043030a इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा 01043030c जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा 01043031a बाष्पगद्गदया वाचा मुखेन परिशुष्यता 01043031c कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः 01043031e धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता 01043032a न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् 01043032c धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् 01043033a प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम 01043033c तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः 01043034a मातृशापाभिभूतानां ज्ञातीनां मम सत्तम 01043034c अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते 01043035a त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् 01043035c संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज 01043036a ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये 01043036c इममव्यक्तरूपं मे गर्भमाधाय सत्तम 01043036e कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् 01043037a एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् 01043037c यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः 01043038a अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः 01043038c ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः 01043039a एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः 01043039c उग्राय तपसे भूयो जगाम कृतनिश्चयः 01044001 सूत उवाच 01044001a गतमात्रं तु भर्तारं जरत्कारुरवेदयत् 01044001c भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन 01044002a ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् 01044002c उवाच भगिनीं दीनां तदा दीनतरः स्वयम् 01044003a जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् 01044003c पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि 01044004a स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् 01044004c एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह 01044005a अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् 01044005c न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः 01044006a कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् 01044006c किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् 01044007a दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः 01044007c नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् 01044008a आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् 01044008c शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् 01044009a जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत 01044009c आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम् 01044010a पृष्टो मयापत्यहेतोः स महात्मा महातपाः 01044010c अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः 01044011a स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् 01044011c उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति 01044012a न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे 01044012c उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः 01044013a इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् 01044013c तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् 01044014a एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा 01044014c एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत 01044015a सान्त्वमानार्थदानैश्च पूजया चानुरूपया 01044015c सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः 01044016a ततः स ववृधे गर्भो महातेजा रविप्रभः 01044016c यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि 01044017a यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा 01044017c कुमारं देवगर्भाभं पितृमातृभयापहम् 01044018a ववृधे स च तत्रैव नागराजनिवेशने 01044018c वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् 01044019a चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः 01044019c नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत 01044020a अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् 01044020c वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् 01044021a स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् 01044021c गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत 01044022a भगवानिव देवेशः शूलपाणिर्हिरण्यदः 01044022c विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् 01045001 शौनक उवाच 01045001a यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः 01045001c पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद 01045002 सूत उवाच 01045002a शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा 01045002c आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः 01045003 जनमेजय उवाच 01045003a जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम 01045003c आसीद्यथा च निधनं गतः काले महायशाः 01045004a श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः 01045004c कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् 01045005 सूत उवाच 01045005a मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना 01045005c सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् 01045006a धर्मात्मा च महात्मा च प्रजापालः पिता तव 01045006c आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् 01045007a चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत 01045007c धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव 01045008a ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः 01045008c द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन 01045008e समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् 01045009a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु 01045009c स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः 01045010a विधवानाथकृपणान्विकलांश्च बभार सः 01045010c सुदर्शः सर्वभूतानामासीत्सोम इवापरः 01045011a तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः 01045011c धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः 01045012a गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय 01045012c लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः 01045013a परिक्षीणेषु कुरुषु उत्तरायामजायत 01045013c परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली 01045014a राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः 01045014c जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः 01045015a षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः 01045015c प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् 01045015e ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् 01045016a ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् 01045016c इदं वर्षसहस्राय राज्यं कुरुकुलागतम् 01045016e बाल एवाभिजातोऽसि सर्वभूतानुपालकः 01045017 जनमेजय उवाच 01045017a नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च 01045017c विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् 01045018a कथं निधनमापन्नः पिता मम तथाविधः 01045018c आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः 01045019 सूत उवाच 01045019a एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् 01045019c ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः 01045020a बभूव मृगयाशीलस्तव राजन्पिता सदा 01045020c यथा पाण्डुर्महाभागो धनुर्धरवरो युधि 01045020e अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः 01045021a स कदाचिद्वनचरो मृगं विव्याध पत्रिणा 01045021c विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने 01045022a पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् 01045022c न चाससाद गहने मृगं नष्टं पिता तव 01045023a परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः 01045023c क्षुधितः स महारण्ये ददर्श मुनिमन्तिके 01045024a स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् 01045024c न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन् 01045025a ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् 01045025c मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ 01045026a न बुबोध हि तं राजा मौनव्रतधरं मुनिम् 01045026c स तं मन्युसमाविष्टो धर्षयामास ते पिता 01045027a मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् 01045027c तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम 01045028a न चोवाच स मेधावी तमथो साध्वसाधु वा 01045028c तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् 01046001 मन्त्रिण ऊचुः 01046001a ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् 01046001c मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ 01046002a ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः 01046002c शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः 01046003a ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह 01046003c अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा 01046003e सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा 01046004a मृतं सर्पं समासक्तं पित्रा ते जनमेजय 01046004c वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् 01046005a तपस्विनमतीवाथ तं मुनिप्रवरं नृप 01046005c जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते 01046006a तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा 01046006c शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् 01046007a अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् 01046007c शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव 01046008a शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः 01046008c ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः 01046009a स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह 01046009c पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव 01046010a अनागसि गुरौ यो मे मृतं सर्पमवासृजत् 01046010c तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति 01046010e सप्तरात्रादितः पापं पश्य मे तपसो बलम् 01046011a इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् 01046011c दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् 01046012a स चापि मुनिशार्दूलः प्रेषयामास ते पितुः 01046012c शप्तोऽसि मम पुत्रेण यत्तो भव महीपते 01046012e तक्षकस्त्वां महाराज तेजसा सादयिष्यति 01046013a श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय 01046013c यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् 01046014a ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते 01046014c राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत 01046015a तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा 01046015c तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् 01046015e क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति 01046016 काश्यप उवाच 01046016a यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज 01046016c तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै 01046017a गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् 01046017c मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति 01046018 तक्षक उवाच 01046018a किमर्थं तं मया दष्टं संजीवयितुमिच्छसि 01046018c ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् 01046019 मन्त्रिण ऊचुः 01046019a धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः 01046019c तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा 01046020a यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् 01046020c गृहाण मत्त एव त्वं संनिवर्तस्व चानघ 01046021a स एवमुक्तो नागेन काश्यपो द्विपदां वरः 01046021c लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् 01046022a तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः 01046022c तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव 01046023a प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना 01046023c ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः 01046024a एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम 01046024c अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् 01046025a श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् 01046025c अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् 01046026 जनमेजय उवाच 01046026a एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने 01046026c संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा 01046027a केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् 01046027c श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् 01046028 मन्त्रिण ऊचुः 01046028a शृणु राजन्यथास्माकं येनैतत्कथितं पुरा 01046028c समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि 01046029a तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव 01046029c विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् 01046029e अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ 01046030a स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा 01046030c द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः 01046031a तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् 01046031c यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च 01046032a एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् 01046032c श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् 01046033 सूत उवाच 01046033a मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः 01046033c पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् 01046034a निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः 01046034c मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः 01046034e उवाच च महीपालो दुःखशोकसमन्वितः 01046035a श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति 01046035c निश्चितेयं मम मतिर्या वै तां मे निबोधत 01046036a अनन्तरमहं मन्ये तक्षकाय दुरात्मने 01046036c प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता 01046037a ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् 01046037c यदि गच्छेदसौ पापो ननु जीवेत्पिता मम 01046038a परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः 01046038c काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च 01046039a स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् 01046039c संजिजीवयिषुं प्राप्तं राजानमपराजितम् 01046040a महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः 01046040c द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति 01046041a उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् 01046041c भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः 01047001 सूत उवाच 01047001a एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः 01047001c आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः 01047001e ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा 01047002a पुरोहितमथाहूय ऋत्विजं वसुधाधिपः 01047002c अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः 01047003a यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् 01047003c प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे 01047004a अपि तत्कर्म विदितं भवतां येन पन्नगम् 01047004c तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् 01047005a यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना 01047005c तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् 01047006 ऋत्विज ऊचुः 01047006a अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् 01047006c सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप 01047007a आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप 01047007c इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः 01047008 सूत उवाच 01047008a एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् 01047008c हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम 01047009a ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा 01047009c आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे 01047010a ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम 01047010c देशं तं मापयामासुर्यज्ञायतनकारणात् 01047010e यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः 01047011a ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् 01047011c प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् 01047012a निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् 01047012c राजानं दीक्षयामासुः सर्पसत्राप्तये तदा 01047013a इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति 01047013c निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा 01047014a यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् 01047014c स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः 01047015a इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा 01047015c यस्मिन्देशे च काले च मापनेयं प्रवर्तिता 01047015e ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः 01047016a एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् 01047016c क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति 01047017a ततः कर्म प्रववृते सर्पसत्रे विधानतः 01047017c पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः 01047018a परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः 01047018c जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् 01047019a कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते 01047019c सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा 01047020a ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने 01047020c विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् 01047021a विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे 01047021c पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे 01047022a श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा 01047022c रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ 01047023a एवं शतसहस्राणि प्रयुतान्यर्बुदानि च 01047023c अवशानि विनष्टानि पन्नगानां द्विजोत्तम 01047024a इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे 01047024c मत्ता इव च मातङ्गा महाकाया महाबलाः 01047025a उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः 01047025c घोराश्च परिघप्रख्या दन्दशूका महाबलाः 01047025e प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः 01048001 शौनक उवाच 01048001a सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः 01048001c जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः 01048002a के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे 01048002c विषादजननेऽत्यर्थं पन्नगानां महाभये 01048003a सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति 01048003c सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज 01048004 सूत उवाच 01048004a हन्त ते कथयिष्यामि नामानीह मनीषिणाम् 01048004c ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा 01048005a तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः 01048005c च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः 01048006a उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः 01048006c ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः 01048007a सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् 01048007c उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः 01048008a असितो देवलश्चैव नारदः पर्वतस्तथा 01048008c आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा 01048009a वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् 01048009c कहोडो देवशर्मा च मौद्गल्यः शमसौभरः 01048010a एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 01048010c सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह 01048011a जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ 01048011c अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः 01048012a वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः 01048012c ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा 01048013a पततां चैव नागानां धिष्ठितानां तथाम्बरे 01048013c अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् 01048014a तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् 01048014c गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् 01048015a ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः 01048015c अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् 01048016a तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक 01048016c भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन 01048017a प्रसादितो मया पूर्वं तवार्थाय पितामहः 01048017c तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः 01048018a एवमाश्वासितस्तेन ततः स भुजगोत्तमः 01048018c उवास भवने तत्र शक्रस्य मुदितः सुखी 01048019a अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः 01048019c अल्पशेषपरीवारो वासुकिः पर्यतप्यत 01048020a कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् 01048020c स घूर्णमानहृदयो भगिनीमिदमब्रवीत् 01048021a दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च 01048021c सीदामीव च संमोहाद्घूर्णतीव च मे मनः 01048022a दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च 01048022c पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ 01048023a पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया 01048023c व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् 01048024a अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः 01048024c जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् 01048025a आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे 01048025c प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः 01048026a तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् 01048026c ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् 01049001 सूत उवाच 01049001a तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा 01049001c वासुकेर्नागराजस्य वचनादिदमब्रवीत् 01049002a अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः 01049002c कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम् 01049003 आस्तीक उवाच 01049003a किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे 01049003c तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा 01049004 सूत उवाच 01049004a तत आचष्ट सा तस्मै बान्धवानां हितैषिणी 01049004c भगिनी नागराजस्य जरत्कारुरविक्लवा 01049005a भुजगानामशेषाणां माता कद्रूरिति श्रुतिः 01049005c तया शप्ता रुषितया सुता यस्मान्निबोध तत् 01049006a उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम 01049006c विनतानिमित्तं पणिते दासभावाय पुत्रकाः 01049007a जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः 01049007c तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ 01049008a तां च शप्तवतीमेवं साक्षाल्लोकपितामहः 01049008c एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च 01049009a वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा 01049009c अमृते मथिते तात देवाञ्शरणमीयिवान् 01049010a सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् 01049010c भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् 01049011a ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् 01049011c राज्ञा वासुकिना सार्धं स शापो न भवेदिति 01049012a वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् 01049012c अभिशापः स मात्रास्य भगवन्न भवेदिति 01049013 ब्रह्मोवाच 01049013a जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति 01049013c तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति 01049014 जरत्कारुरुवाच 01049014a एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः 01049014c प्रादान्माममरप्रख्य तव पित्रे महात्मने 01049014e प्रागेवानागते काले तत्र त्वं मय्यजायथाः 01049015a अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि 01049015c भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् 01049016a अमोघं नः कृतं तत्स्याद्यदहं तव धीमते 01049016c पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे 01049017 सूत उवाच 01049017a एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा 01049017c अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव 01049018a अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम 01049018c तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते 01049019a भव स्वस्थमना नाग न हि ते विद्यते भयम् 01049019c प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति 01049019e न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा 01049020a तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् 01049020c वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल 01049020e यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम 01049021a स संभावय नागेन्द्र मयि सर्वं महामते 01049021c न ते मयि मनो जातु मिथ्या भवितुमर्हति 01049022 वासुकिरुवाच 01049022a आस्तीक परिघूर्णामि हृदयं मे विदीर्यते 01049022c दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः 01049023 आस्तीक उवाच 01049023a न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम 01049023c दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् 01049024a ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् 01049024c नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन 01049025 सूत उवाच 01049025a ततः स वासुकेर्घोरमपनीय मनोज्वरम् 01049025c आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् 01049026a जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः 01049026c मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः 01049027a स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् 01049027c वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः 01049028a स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः 01049028c अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः 01050001 आस्तीक उवाच 01050001a सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे 01050001c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050002a शक्रस्य यज्ञः शतसंख्य उक्त;स्तथापरस्तुल्यसंख्यः शतं वै 01050002c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050003a यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः 01050003c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050004a गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः 01050004c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050005a नृगस्य यज्ञस्त्वजमीढस्य चासी;द्यथा यज्ञो दाशरथेश्च राज्ञः 01050005c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050006a यज्ञः श्रुतो नो दिवि देवसूनो;र्युधिष्ठिरस्याजमीढस्य राज्ञः 01050006c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050007a कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र 01050007c तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः 01050008a इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा 01050008c नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथंचित् 01050009a ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे 01050009c एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः 01050010a विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा 01050010c प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः 01050011a नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् 01050011c धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा 01050012a शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् 01050012c मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे 01050013a खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः 01050013c आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् 01050014a वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः 01050014c प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति 01050015a यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः 01050015c श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् 01050016a दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च 01050016c और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा 01050017 सूत उवाच 01050017a एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः 01050017c तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ 01051001 जनमेजय उवाच 01051001a बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे 01051001c इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः 01051002 सदस्या ऊचुः 01051002a बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् 01051002c सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् 01051003 सूत उवाच 01051003a व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच 01051003c होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् 01051004 जनमेजय उवाच 01051004a यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् 01051004c तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः 01051005 ऋत्विज ऊचुः 01051005a यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः 01051005c इन्द्रस्य भवने राजंस्तक्षको भयपीडितः 01051006 सूत उवाच 01051006a यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् 01051006c स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव 01051007a पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् 01051007c वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति 01051008a एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले 01051008c होता च यत्तः स जुहाव मन्त्रै;रथो इन्द्रः स्वयमेवाजगाम 01051009a विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः 01051009c बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च 01051010a तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् 01051010c ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् 01051011a इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः 01051011c तमिन्द्रेणैव सहितं पातयध्वं विभावसौ 01051012 ऋत्विज ऊचुः 01051012a अयमायाति वै तूर्णं तक्षकस्ते वशं नृप 01051012c श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् 01051013a नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः 01051013c घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः 01051014a वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो 01051014c अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि 01051015 जनमेजय उवाच 01051015a बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् 01051015c वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् 01051016 सूत उवाच 01051016a पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि 01051016c इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् 01051017a वरं ददासि चेन्मह्यं वृणोमि जनमेजय 01051017c सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः 01051018a एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा 01051018c नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् 01051019a सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो 01051019c तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम 01051020 आस्तीक उवाच 01051020a सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् 01051020c सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः 01051021 सूत उवाच 01051021a आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा 01051021c पुनः पुनरुवाचेदमास्तीकं वदतां वरम् 01051022a अन्यं वरय भद्रं ते वरं द्विजवरोत्तम 01051022c अयाचत न चाप्यन्यं वरं स भृगुनन्दन 01051023a ततो वेदविदस्तत्र सदस्याः सर्व एव तम् 01051023c राजानमूचुः सहिता लभतां ब्राह्मणो वरम् 01052001 शौनक उवाच 01052001a ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने 01052001c तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज 01052002 सूत उवाच 01052002a सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च 01052002c न शक्यं परिसंख्यातुं बहुत्वाद्वेदवित्तम 01052003a यथास्मृति तु नामानि पन्नगानां निबोध मे 01052003c उच्यमानानि मुख्यानां हुतानां जातवेदसि 01052004a वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे 01052004c नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् 01052005a कोटिको मानसः पूर्णः सहः पैलो हलीसकः 01052005c पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः 01052006a हिरण्यवाहः शरणः कक्षकः कालदन्तकः 01052006c एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् 01052007a तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् 01052007c पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः 01052008a उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः 01052008c शिलीशलकरो मूकः सुकुमारः प्रवेपनः 01052009a मुद्गरः शशरोमा च सुमना वेगवाहनः 01052009c एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् 01052010a पारावतः पारियात्रः पाण्डरो हरिणः कृशः 01052010c विहंगः शरभो मोदः प्रमोदः संहताङ्गदः 01052011a ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् 01052011c कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम 01052012a ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः 01052012c बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ 01052013a धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् 01052013c कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् 01052014a शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ 01052014c पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः 01052015a आमाहठः कोमठकः श्वसनो मानवो वटः 01052015c भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः 01052016a ऋषभो वेगवान्नाम पिण्डारकमहाहनू 01052016c रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ 01052017a वराहको वारणकः सुमित्रश्चित्रवेदिकः 01052017c पराशरस्तरुणको मणिस्कन्धस्तथारुणिः 01052018a इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः 01052018c प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः 01052019a एतेषां पुत्रपौत्रास्तु प्रसवस्य च संततिः 01052019c न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः 01052020a सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे 01052020c कालानलविषा घोरा हुताः शतसहस्रशः 01052021a महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः 01052021c योजनायामविस्तारा द्वियोजनसमायताः 01052022a कामरूपाः कामगमा दीप्तानलविषोल्बणाः 01052022c दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः 01053001 सूत उवाच 01053001a इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः 01053001c तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह 01053002a इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत 01053002c ततश्चिन्तापरो राजा बभूव जनमेजयः 01053003a हूयमाने भृशं दीप्ते विधिवत्पावके तदा 01053003c न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः 01053004 शौनक उवाच 01053004a किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् 01053004c न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः 01053005 सूत उवाच 01053005a तमिन्द्रहस्ताद्विस्रस्तं विसंज्ञं पन्नगोत्तमम् 01053005c आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् 01053006a वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता 01053006c यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः 01053007a ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् 01053007c काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् 01053008a समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः 01053008c प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् 01053009a ततो हलहलाशब्दः प्रीतिजः समवर्तत 01053009c आस्तीकस्य वरे दत्ते तथैवोपरराम च 01053010a स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह 01053010c प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः 01053011a ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः 01053011c तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः 01053012a लोहिताक्षाय सूताय तथा स्थपतये विभुः 01053012c येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् 01053013a निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु 01053013c ततश्चकारावभृथं विधिदृष्टेन कर्मणा 01053014a आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् 01053014c राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् 01053015a पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् 01053015c भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ 01053016a तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः 01053016c कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् 01053017a स गत्वा परमप्रीतो मातरं मातुलं च तम् 01053017c अभिगम्योपसंगृह्य यथावृत्तं न्यवेदयत् 01053018a एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः 01053018c तेऽऽस्तीके वै प्रीतिमन्तो बभूवु;रूचुश्चैनं वरमिष्टं वृणीष्व 01053019a भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् 01053019c प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स 01053020 आस्तीक उवाच 01053020a सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि 01053020c धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किंचिद्भयं स्यात् 01053021 सूत उवाच 01053021a तैश्चाप्युक्तो भागिनेयः प्रसन्नै;रेतत्सत्यं काममेवं चरन्तः 01053021c प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय 01053022a जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः 01053022c आस्तीकः सत्यसंधो मां पन्नगेभ्योऽभिरक्षतु 01053023a असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् 01053023c दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् 01053024 सूत उवाच 01053024a मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः 01053024c जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् 01053025a इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव 01053025c यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् 01053026a श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् 01053026c आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः 01053027 शौनक उवाच 01053027a भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् 01053027c आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते 01053028a प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन 01053028c यां कथां व्याससंपन्नां तां च भूयः प्रचक्ष्व मे 01053029a तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् 01053029c कर्मान्तरेषु विधिवत्सदस्यानां महाकवे 01053030a या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् 01053030c त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः 01053031 सूत उवाच 01053031a कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः 01053031c व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् 01053032 शौनक उवाच 01053032a महाभारतमाख्यानं पाण्डवानां यशस्करम् 01053032c जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा 01053033a श्रावयामास विधिवत्तदा कर्मान्तरेषु सः 01053033c तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् 01053034a मनःसागरसंभूतां महर्षेः पुण्यकर्मणः 01053034c कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज 01053035 सूत उवाच 01053035a हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् 01053035c कृष्णद्वैपायनमतं महाभारतमादितः 01053036a तज्जुषस्वोत्तममते कथ्यमानं मया द्विज 01053036c शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते 01054001 सूत उवाच 01054001a श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् 01054001c अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा 01054002a जनयामास यं काली शक्तेः पुत्रात्पराशरात् 01054002c कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् 01054003a जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् 01054003c वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः 01054004a यं नातितपसा कश्चिन्न वेदाध्ययनेन च 01054004c न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना 01054005a विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः 01054005c परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः 01054006a यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् 01054006c शंतनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः 01054007a जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा 01054007c विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः 01054008a तत्र राजानमासीनं ददर्श जनमेजयम् 01054008c वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् 01054009a तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः 01054009c ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे 01054010a जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् 01054010c सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः 01054011a काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः 01054011c आसनं कल्पयामास यथा शक्रो बृहस्पतेः 01054012a तत्रोपविष्टं वरदं देवर्षिगणपूजितम् 01054012c पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा 01054013a पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः 01054013c पितामहाय कृष्णाय तदर्हाय न्यवेदयत् 01054014a प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् 01054014c गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा 01054015a तथा संपूजयित्वा तं यत्नेन प्रपितामहम् 01054015c उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् 01054016a भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च 01054016c सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् 01054017a ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः 01054017c इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः 01054018a कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् 01054018c तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज 01054019a कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् 01054019c तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् 01054020a पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् 01054020c कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि 01054021a तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा 01054021c शशास शिष्यमासीनं वैशंपायनमन्तिके 01054022a कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा 01054022c तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि 01054023a गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा 01054023c आचचक्षे ततः सर्वमितिहासं पुरातनम् 01054024a तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः 01054024c भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा 01055001 वैशंपायन उवाच 01055001a गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः 01055001c संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् 01055002a महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः 01055002c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01055003a श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् 01055003c गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् 01055004a शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् 01055004c राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च 01055005a यथा च युद्धमभवत्पृथिवीक्षयकारकम् 01055005c तत्तेऽहं संप्रवक्ष्यामि पृच्छते भरतर्षभ 01055006a मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् 01055006c नचिरादिव विद्वांसो वेदे धनुषि चाभवन् 01055007a तांस्तथा रूपवीर्यौजःसंपन्नान्पौरसंमतान् 01055007c नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः 01055008a ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः 01055008c तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् 01055009a ददावथ विषं पापो भीमाय धृतराष्ट्रजः 01055009c जरयामास तद्वीरः सहान्नेन वृकोदरः 01055010a प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् 01055010c तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् 01055011a यदा प्रबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् 01055011c उदतिष्ठन्महाराज भीमसेनो गतव्यथः 01055012a आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् 01055012c सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा 01055013a तेषां तु विप्रकारेषु तेषु तेषु महामतिः 01055013c मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् 01055014a स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः 01055014c पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः 01055015a यदा तु विविधोपायैः संवृतैर्विवृतैरपि 01055015c नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् 01055016a ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः 01055016c धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् 01055017a तत्र तान्वासयामास पाण्डवानमितौजसः 01055017c अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा 01055018a विदुरस्यैव वचनात्खनित्री विहिता ततः 01055018c मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् 01055019a ततो महावने घोरे हिडिम्बं नाम राक्षसम् 01055019c भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः 01055020a अथ संधाय ते वीरा एकचक्रां व्रजंस्तदा 01055020c ब्रह्मरूपधरा भूत्वा मात्रा सह परंतपाः 01055021a तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् 01055021c ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः 01055022a ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः 01055022c विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः 01055023a त उक्ता धृतराष्ट्रेण राज्ञा शांतनवेन च 01055023c भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति 01055023e अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः 01055024a तस्माज्जनपदोपेतं सुविभक्तमहापथम् 01055024c वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः 01055025a तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः 01055025c नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः 01055026a तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् 01055026c वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः 01055027a एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः 01055027c अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा 01055028a अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः 01055028c उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा 01055029a दक्षिणां सहदेवस्तु विजिग्ये परवीरहा 01055029c एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुंधराम् 01055030a पञ्चभिः सूर्यसंकाशैः सूर्येण च विराजता 01055030c षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः 01055031a ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः 01055031c वनं प्रस्थापयामास भ्रातरं वै धनंजयम् 01055032a स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् 01055032c ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन 01055033a लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् 01055033c अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् 01055034a सा शचीव महेन्द्रेण श्रीः कृष्णेनेव संगता 01055034c सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह 01055035a अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् 01055035c बीभत्सुर्वासुदेवेन सहितो नृपसत्तम 01055036a नातिभारो हि पार्थस्य केशवेनाभवत्सह 01055036c व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव 01055037a पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् 01055037c इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् 01055038a मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् 01055038c स चकार सभां दिव्यां सर्वरत्नसमाचिताम् 01055039a तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः 01055039c ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् 01055040a वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च 01055040c अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् 01055041a ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु 01055041c नालभन्त महाराज ततो युद्धमवर्तत 01055042a ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् 01055042c राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः 01055043a एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् 01055043c भेदो राज्यविनाशश्च जयश्च जयतां वर 01056001 जनमेजय उवाच 01056001a कथितं वै समासेन त्वया सर्वं द्विजोत्तम 01056001c महाभारतमाख्यानं कुरूणां चरितं महत् 01056002a कथां त्वनघ चित्रार्थामिमां कथयति त्वयि 01056002c विस्तरश्रवणे जातं कौतूहलमतीव मे 01056003a स भवान्विस्तरेणेमां पुनराख्यातुमर्हति 01056003c न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 01056004a न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः 01056004c अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः 01056005a किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः 01056005c प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम् 01056006a कथं नागायुतप्राणो बाहुशाली वृकोदरः 01056006c परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम 01056007a कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः 01056007c शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा 01056008a कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा 01056008c अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः 01056009a कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् 01056009c अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः 01056010a कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः 01056010c अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः 01056011a एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन 01056011c यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः 01056012 वैशंपायन उवाच 01056012a महर्षेः सर्वलोकेषु पूजितस्य महात्मनः 01056012c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः 01056013a इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् 01056013c सत्यवत्यात्मजेनेह व्याख्यातममितौजसा 01056014a य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः 01056014c ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् 01056015a इदं हि वेदैः समितं पवित्रमपि चोत्तमम् 01056015c श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् 01056016a अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते 01056016c इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी 01056017a अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् 01056017c कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते 01056018a भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् 01056018c इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः 01056019a जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा 01056019c महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् 01056020a इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् 01056020c महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा 01056021a अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् 01056021c मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना 01056022a संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे 01056022c पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः 01056023a शरीरेण कृतं पापं वाचा च मनसैव च 01056023c सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा 01056024a भारतानां महज्जन्म शृण्वतामनसूयताम् 01056024c नास्ति व्याधिभयं तेषां परलोकभयं कुतः 01056025a धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च 01056025c कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा 01056026a कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 01056026c अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 01056027a यथा समुद्रो भगवान्यथा च हिमवान्गिरिः 01056027c ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते 01056028a य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु 01056028c धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति 01056029a यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 01056029c अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि 01056030a अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् 01056030c तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते 01056031a भारतानां महज्जन्म महाभारतमुच्यते 01056031c निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते 01056032a त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः 01056032c महाभारतमाख्यानं कृतवानिदमुत्तमम् 01056033a धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 01056033c यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 01057001 वैशंपायन उवाच 01057001a राजोपरिचरो नाम धर्मनित्यो महीपतिः 01057001c बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः 01057002a स चेदिविषयं रम्यं वसुः पौरवनन्दनः 01057002c इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः 01057003a तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् 01057003c देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् 01057004a इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै 01057004c तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् 01057005 इन्द्र उवाच 01057005a न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते 01057005c तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् 01057006a लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः 01057006c धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् 01057007a दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः 01057007c ऊधः पृथिव्या यो देशस्तमावस नराधिप 01057008a पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् 01057008c स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः 01057009a अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः 01057009c वसुपूर्णा च वसुधा वस चेदिषु चेदिप 01057010a धर्मशीला जनपदाः सुसंतोषाश्च साधवः 01057010c न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा 01057011a न च पित्रा विभज्यन्ते नरा गुरुहिते रताः 01057011c युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च 01057012a सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद 01057012c न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् 01057013a देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् 01057013c आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते 01057014a त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः 01057014c चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव 01057015a ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् 01057015c धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम् 01057016a लक्षणं चैतदेवेह भविता ते नराधिप 01057016c इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् 01057017 वैशंपायन उवाच 01057017a यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः 01057017c इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् 01057018a तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा 01057018c प्रवेशं कारयामास गते संवत्सरे तदा 01057019a ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः 01057019c प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः 01057020a अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः 01057020c अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः 01057020e माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च 01057021a भगवान्पूज्यते चात्र हास्यरूपेण शंकरः 01057021c स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः 01057022a एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् 01057022c वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः 01057023a ये पूजयिष्यन्ति नरा राजानश्च महं मम 01057023c कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः 01057024a तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति 01057024c तथा स्फीतो जनपदो मुदितश्च भविष्यति 01057025a एवं महात्मना तेन महेन्द्रेण नराधिप 01057025c वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः 01057026a उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः 01057026c भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै 01057026e वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते 01057027a संपूजितो मघवता वसुश्चेदिपतिस्तदा 01057027c पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् 01057027e इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः 01057028a पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः 01057028c नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् 01057029a महारथो मगधराड्विश्रुतो यो बृहद्रथः 01057029c प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् 01057029e मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः 01057030a एते तस्य सुता राजन्राजर्षेर्भूरितेजसः 01057030c न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च 01057030e वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः 01057031a वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् 01057031c उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् 01057031e राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् 01057032a पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः 01057032c अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल 01057033a गिरिं कोलाहलं तं तु पदा वसुरताडयत् 01057033c निश्चक्राम नदी तेन प्रहारविवरेण सा 01057034a तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् 01057034c तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् 01057035a यः पुमानभवत्तत्र तं स राजर्षिसत्तमः 01057035c वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् 01057035e चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः 01057036a वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् 01057036c ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः 01057037a तदहः पितरश्चैनमूचुर्जहि मृगानिति 01057037c तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् 01057038a स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः 01057038c चचार मृगयां कामी गिरिकामेव संस्मरन् 01057038e अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् 01057039a तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने 01057039c स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः 01057040a प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत 01057040c ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः 01057041a संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः 01057041c अमोघत्वं च विज्ञाय रेतसो राजसत्तमः 01057042a शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः 01057042c अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् 01057042e सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् 01057043a मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय 01057043c गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै 01057044a गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् 01057044c जवं परममास्थाय प्रदुद्राव विहंगमः 01057045a तमपश्यदथायान्तं श्येनं श्येनस्तथापरः 01057045c अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया 01057046a तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः 01057046c युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि 01057047a तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः 01057047c मीनभावमनुप्राप्ता बभूव यमुनाचरी 01057048a श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् 01057048c जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी 01057049a कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः 01057049c मासे च दशमे प्राप्ते तदा भरतसत्तम 01057049e उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् 01057050a आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् 01057050c काये मत्स्या इमौ राजन्संभूतौ मानुषाविति 01057051a तयोः पुमांसं जग्राह राजोपरिचरस्तदा 01057051c स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः 01057052a साप्सरा मुक्तशापा च क्षणेन समपद्यत 01057052c पुरोक्ता या भगवता तिर्यग्योनिगता शुभे 01057052e मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि 01057053a ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना 01057053c संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च 01057053e सिद्धर्षिचारणपथं जगामाथ वराप्सराः 01057054a या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी 01057054c राज्ञा दत्ताथ दाशाय इयं तव भवत्विति 01057054e रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः 01057055a सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् 01057055c आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता 01057056a शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले 01057056c तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः 01057057a अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् 01057057c दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् 01057057e विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः 01057058a साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् 01057058c आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः 01057059a एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः 01057059c येन देशः स सर्वस्तु तमोभूत इवाभवत् 01057060a दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा 01057060c विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी 01057061a विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् 01057061c त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ 01057062a कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम 01057062c गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे 01057062e एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् 01057063a एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः 01057063c उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि 01057064a वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि 01057064c वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते 01057065a एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् 01057065c स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः 01057066a ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता 01057066c जगाम सह संसर्गमृषिणाद्भुतकर्मणा 01057067a तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि 01057067c तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि 01057068a ततो योजनगन्धेति तस्या नाम परिश्रुतम् 01057068c पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् 01057069a इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् 01057069c पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा 01057069e जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् 01057070a स मातरमुपस्थाय तपस्येव मनो दधे 01057070c स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् 01057071a एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् 01057071c द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् 01057072a पादापसारिणं धर्मं विद्वान्स तु युगे युगे 01057072c आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च 01057073a ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया 01057073c विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः 01057074a वेदानध्यापयामास महाभारतपञ्चमान् 01057074c सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् 01057075a प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च 01057075c संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः 01057076a तथा भीष्मः शांतनवो गङ्गायाममितद्युतिः 01057076c वसुवीर्यात्समभवन्महावीर्यो महायशाः 01057077a शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया 01057077c अणीमाण्डव्य इति वै विख्यातः सुमहायशाः 01057078a स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् 01057078c इषीकया मया बाल्यादेका विद्धा शकुन्तिका 01057079a तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे 01057079c तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः 01057080a गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः 01057080c तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि 01057081a तेन शापेन धर्मोऽपि शूद्रयोनावजायत 01057081c विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी 01057082a संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् 01057082c सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः 01057082e सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 01057083a अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः 01057083c वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः 01057084a अनादिनिधनो देवः स कर्ता जगतः प्रभुः 01057084c अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् 01057085a आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् 01057085c पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् 01057086a अनन्तमचलं देवं हंसं नारायणं प्रभुम् 01057086c धातारमजरं नित्यं तमाहुः परमव्ययम् 01057087a पुरुषः स विभुः कर्ता सर्वभूतपितामहः 01057087c धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु 01057088a अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ 01057088c सात्यकिः कृतवर्मा च नारायणमनुव्रतौ 01057088e सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ 01057089a भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत 01057089c महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत 01057090a गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः 01057090c अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः 01057090e अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः 01057091a तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः 01057091c वैताने कर्मणि तते पावकात्समजायत 01057091e वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् 01057092a तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा 01057092c विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् 01057093a प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः 01057093c तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् 01057094a गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा 01057094c दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ 01057095a कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः 01057095c क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः 01057096a पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् 01057096c द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः 01057097a धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः 01057097c इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः 01057098a जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ 01057098c नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ 01057099a तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 01057099c दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा 01057100a अभिमन्युः सुभद्रायामर्जुनादभ्यजायत 01057100c स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः 01057101a पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे 01057101c कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः 01057102a प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् 01057102c अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः 01057103a तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् 01057103c हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः 01057104a शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता 01057104c यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया 01057105a कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ 01057105c राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे 01057106a तेषामपरिमेयानि नामधेयानि सर्वशः 01057106c न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि 01057106e एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् 01058001 जनमेजय उवाच 01058001a य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः 01058001c सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः 01058002a यदर्थमिह संभूता देवकल्पा महारथाः 01058002c भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि 01058003 वैशंपायन उवाच 01058003a रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् 01058003c तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे 01058004a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा 01058004c जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे 01058005a तदा निःक्षत्रिये लोके भार्गवेण कृते सति 01058005c ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः 01058006a ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः 01058006c ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा 01058007a तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः 01058007c ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् 01058007e कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये 01058008a एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः 01058008c जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् 01058008e चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः 01058009a अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा 01058009c तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि 01058009e ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ 01058010a ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः 01058010c ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः 01058010e आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः 01058011a अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् 01058011c अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् 01058012a प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् 01058012c ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् 01058013a कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः 01058013c दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् 01058014a तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः 01058014c स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः 01058015a न बाल एव म्रियते तदा कश्चिन्नराधिप 01058015c न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः 01058016a एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ 01058016c इयं सागरपर्यन्ता समापूर्यत मेदिनी 01058017a ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः 01058017c साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा 01058018a न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप 01058018c न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत 01058019a कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह 01058019c न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् 01058020a फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः 01058020c न कूटमानैर्वणिजः पण्यं विक्रीणते तदा 01058021a कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः 01058021c धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः 01058022a स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप 01058022c एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् 01058023a काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ 01058023c फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च 01058024a एवं कृतयुगे सम्यग्वर्तमाने तदा नृप 01058024c आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् 01058025a ततः समुदिते लोके मानुषे भरतर्षभ 01058025c असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव 01058026a आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि 01058026c ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह 01058027a इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः 01058027c जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो 01058028a गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च 01058028c क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च 01058029a जातैरिह महीपाल जायमानैश्च तैर्मही 01058029c न शशाकात्मनात्मानमियं धारयितुं धरा 01058030a अथ जाता महीपालाः केचिद्बलसमन्विताः 01058030c दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः 01058031a वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् 01058031c इमां सागरपर्यन्तां परीयुररिमर्दनाः 01058032a ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् 01058032c अन्यानि चैव भूतानि पीडयामासुरोजसा 01058033a त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते 01058033c विचेरुः सर्वतो राजन्महीं शतसहस्रशः 01058034a आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः 01058034c अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च 01058035a एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः 01058035c पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे 01058036a न हीमां पवनो राजन्न नागा न नगा महीम् 01058036c तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् 01058037a ततो मही महीपाल भारार्ता भयपीडिता 01058037c जगाम शरणं देवं सर्वभूतपितामहम् 01058038a सा संवृतं महाभागैर्देवद्विजमहर्षिभिः 01058038c ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् 01058039a गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः 01058039c वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा 01058040a अथ विज्ञापयामास भूमिस्तं शरणार्थिनी 01058040c संनिधौ लोकपालानां सर्वेषामेव भारत 01058041a तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः 01058041c पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः 01058042a स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत 01058042c सुरासुराणां लोकानामशेषेण मनोगतम् 01058043a तामुवाच महाराज भूमिं भूमिपतिर्विभुः 01058043c प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः 01058044a यदर्थमसि संप्राप्ता मत्सकाशं वसुंधरे 01058044c तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः 01058045a इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च 01058045c आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् 01058046a अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् 01058046c अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् 01058047a तथैव च समानीय गन्धर्वाप्सरसां गणान् 01058047c उवाच भगवान्सर्वानिदं वचनमुत्तमम् 01058047e स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति 01058048a अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः 01058048c तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा 01058049a अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः 01058049c नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः 01058050a यः स चक्रगदापाणिः पीतवासासितप्रभः 01058050c पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः 01058051a तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् 01058051c अंशेनावतरस्वेति तथेत्याह च तं हरिः 01059001 वैशंपायन उवाच 01059001a अथ नारायणेनेन्द्रश्चकार सह संविदम् 01059001c अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः 01059002a आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः 01059002c निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह 01059003a तेऽमरारिविनाशाय सर्वलोकहिताय च 01059003c अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः 01059004a ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च 01059004c जज्ञिरे राजशार्दूल यथाकामं दिवौकसः 01059005a दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा 01059005c पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः 01059006a दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा 01059006c न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम 01059007 जनमेजय उवाच 01059007a देवदानवसंघानां गन्धर्वाप्सरसां तथा 01059007c मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् 01059008a श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः 01059008c प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि 01059009 वैशंपायन उवाच 01059009a हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे 01059009c सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् 01059010a ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः 01059010c मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 01059011a मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः 01059011c प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश 01059012a अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः 01059012c क्रोधा प्रावा अरिष्टा च विनता कपिला तथा 01059013a कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत 01059013c एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम् 01059014a अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः 01059014c ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत 01059015a धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च 01059015c भगो विवस्वान्पूषा च सविता दशमस्तथा 01059016a एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते 01059016c जघन्यजः स सर्वेषामादित्यानां गुणाधिकः 01059017a एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः 01059017c नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः 01059018a प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् 01059018c अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ 01059019a प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत 01059019c विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः 01059020a विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् 01059020c बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः 01059021a चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत 01059021c तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः 01059022a शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः 01059022c असिलोमा च केशी च दुर्जयश्चैव दानवः 01059023a अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् 01059023c तथा गगनमूर्धा च वेगवान्केतुमांश्च यः 01059024a स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा 01059024c अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः 01059025a इसृपा एकचक्रश्च विरूपाक्षो हराहरौ 01059025c निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा 01059026a शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा 01059026c इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः 01059026e अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ 01059027a इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः 01059027c दनुपुत्रा महाराज दश दानवपुङ्गवाः 01059028a एकाक्षो मृतपा वीरः प्रलम्बनरकावपि 01059028c वातापिः शत्रुतपनः शठश्चैव महासुरः 01059029a गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः 01059029c असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत 01059030a सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् 01059030c सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् 01059031a क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् 01059031c गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः 01059032a अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः 01059032c विक्षरो बलवीरौ च वृत्रश्चैव महासुरः 01059033a कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः 01059033c भुवि ख्याता महावीर्या दानवेषु परंतपाः 01059034a विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः 01059034c क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः 01059035a असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् 01059035c ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः 01059036a त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ 01059036c तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः 01059037a इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् 01059037c असुराणां सुराणां च पुराणे संश्रुतो मया 01059038a एतेषां यदपत्यं तु न शक्यं तदशेषतः 01059038c प्रसंख्यातुं महीपाल गुणभूतमनन्तकम् 01059039a तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ 01059039c आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः 01059040a शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः 01059040c कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः 01059041a भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा 01059041c गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः 01059042a पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः 01059042c भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी 01059043a तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः 01059043c कलिः पञ्चदशश्चैव नारदश्चैव षोडशः 01059043e इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः 01059044a अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत 01059044c अनवद्यामनुवशामनूनामरुणां प्रियाम् 01059044e अनूपां सुभगां भासीमिति प्रावा व्यजायत 01059045a सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः 01059045c ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः 01059046a विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा 01059046c इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः 01059047a इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् 01059047c प्रावासूत महाभागा देवी देवर्षितः पुरा 01059048a अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा 01059048c अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा 01059049a असिता च सुबाहुश्च सुव्रता सुभुजा तथा 01059049c सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू 01059049e तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः 01059050a अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा 01059050c अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् 01059051a इति ते सर्वभूतानां संभवः कथितो मया 01059051c यथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा 01059052a भुजगानां सुपर्णानां रुद्राणां मरुतां तथा 01059052c गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् 01059053a आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः 01059053c श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता 01059054a इमं तु वंशं नियमेन यः पठे;न्महात्मनां ब्राह्मणदेवसंनिधौ 01059054c अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् 01060001 वैशंपायन उवाच 01060001a ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः 01060001c एकादश सुताः स्थाणोः ख्याताः परममानसाः 01060002a मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः 01060002c अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः 01060003a दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः 01060003c स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः 01060004a मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 01060004c षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः 01060005a त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः 01060005c बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः 01060006a अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप 01060006c सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः 01060007a राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा 01060007c पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा 01060008a क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः 01060008c विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः 01060009a दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः 01060009c ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः 01060010a वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः 01060010c तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः 01060011a ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः 01060011c पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः 01060012a ददौ स दश धर्माय सप्तविंशतिमिन्दवे 01060012c दिव्येन विधिना राजन्कश्यपाय त्रयोदश 01060013a नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे 01060013c कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा 01060014a बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश 01060014c द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा 01060015a सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः 01060015c कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः 01060015e सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः 01060016a पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः 01060016c तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् 01060017a धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः 01060017c प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः 01060018a धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा 01060018c चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा 01060019a रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः 01060019c प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ 01060020a धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा 01060020c ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः 01060021a सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते 01060021c मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा 01060022a अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः 01060022c अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः 01060023a तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः 01060023c कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः 01060024a अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः 01060024c अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु 01060025a प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् 01060025c द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ 01060026a बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी 01060026c योगसिद्धा जगत्सर्वमसक्तं विचरत्युत 01060026e प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह 01060027a विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः 01060027c कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः 01060028a भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः 01060028c यो दिव्यानि विमानानि देवतानां चकार ह 01060029a मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः 01060029c पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् 01060030a स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः 01060030c निःसृतो भगवान्धर्मः सर्वलोकसुखावहः 01060031a त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः 01060031c शमः कामश्च हर्षश्च तेजसा लोकधारिणः 01060032a कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना 01060032c नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः 01060033a मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः 01060033c जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः 01060034a त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी 01060034c असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ 01060035a द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप 01060035c तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः 01060036a त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव 01060036c अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् 01060037a रुद्राणामपरः पक्षः साध्यानां मरुतां तथा 01060037c वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च 01060038a वैनतेयस्तु गरुडो बलवानरुणस्तथा 01060038c बृहस्पतिश्च भगवानादित्येष्वेव गण्यते 01060039a अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् 01060039c एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः 01060039e यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते 01060040a ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः 01060040c भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः 01060041a त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये 01060041c स्वयंभुवा नियुक्तः सन्भुवनं परिधावति 01060042a योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः 01060042c सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः 01060043a तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे 01060043c अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् 01060044a च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् 01060044c यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत 01060045a आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः 01060045c और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः 01060045e महातपा महातेजा बाल एव गुणैर्युतः 01060046a ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् 01060046c जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः 01060047a रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः 01060047c सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी 01060048a और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् 01060048c तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः 01060049a द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् 01060049c लोके धाता विधाता च यौ स्थितौ मनुना सह 01060050a तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा 01060050c तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः 01060051a वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत 01060051c तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् 01060052a प्रजानामन्नकामानामन्योन्यपरिभक्षणात् 01060052c अधर्मस्तत्र संजातः सर्वभूतविनाशनः 01060053a तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः 01060053c घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा 01060053e भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा 01060054a काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् 01060054c ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः 01060055a उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत 01060055c भासी भासानजनयद्गृध्रांश्चैव जनाधिप 01060056a धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः 01060056c चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी 01060057a शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी 01060057c कल्याणगुणसंपन्ना सर्वलक्षणपूजिता 01060058a नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाः 01060058c मृगीं च मृगमन्दां च हरिं भद्रमनामपि 01060059a मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च 01060059c सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम् 01060060a अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज 01060060c ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि 01060061a ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् 01060061c ऐरावतः सुतस्तस्या देवनागो महागजः 01060062a हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः 01060062c गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते 01060063a प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत 01060063c द्वीपिनश्च महाभाग सर्वानेव न संशयः 01060064a मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप 01060064c दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् 01060065a तथा दुहितरौ राजन्सुरभिर्वै व्यजायत 01060065c रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् 01060065e रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः 01060066a सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् 01060066c सप्त पिण्डफलान्वृक्षाननलापि व्यजायत 01060066e अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता 01060067a अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ 01060067c संपातिं जनयामास तथैव च जटायुषम् 01060067e द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ 01060068a इत्येष सर्वभूतानां महतां मनुजाधिप 01060068c प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर 01060069a यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः 01060069c सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति 01061001 जनमेजय उवाच 01061001a देवानां दानवानां च यक्षाणामथ रक्षसाम् 01061001c अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् 01061002a श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् 01061002c जन्म कर्म च भूतानामेतेषामनुपूर्वशः 01061003 वैशंपायन उवाच 01061003a मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः 01061003c प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः 01061004a विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः 01061004c जरासंध इति ख्यातः स आसीन्मनुजर्षभः 01061005a दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः 01061005c स जज्ञे मानुषे लोके शिशुपालो नरर्षभः 01061006a संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः 01061006c स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः 01061007a अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः 01061007c धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः 01061008a यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः 01061008c द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः 01061009a बाष्कलो नाम यस्तेषामासीदसुरसत्तमः 01061009c भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः 01061010a अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् 01061010c तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः 01061011a पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः 01061011c केकयेषु महात्मानः पार्थिवर्षभसत्तमाः 01061012a केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् 01061012c अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः 01061013a स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः 01061013c उग्रसेन इति ख्यात उग्रकर्मा नराधिपः 01061014a यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः 01061014c अशोको नाम राजासीन्महावीर्यपराक्रमः 01061015a तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः 01061015c दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः 01061016a वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः 01061016c दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः 01061017a अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः 01061017c स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः 01061018a अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः 01061018c रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः 01061019a सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः 01061019c बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः 01061020a तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः 01061020c सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः 01061021a इसृपा नाम यस्तेषामसुराणां बलाधिकः 01061021c पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः 01061022a एकचक्र इति ख्यात आसीद्यस्तु महासुरः 01061022c प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ 01061023a विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः 01061023c चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः 01061024a हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः 01061024c सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः 01061025a अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः 01061025c बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ 01061026a निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः 01061026c मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः 01061027a निकुम्भस्त्वजितः संख्ये महामतिरजायत 01061027c भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः 01061028a शरभो नाम यस्तेषां दैतेयानां महासुरः 01061028c पौरवो नाम राजर्षिः स बभूव नरेष्विह 01061029a द्वितीयः शलभस्तेषामसुराणां बभूव यः 01061029c प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः 01061030a चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः 01061030c ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः 01061031a मृतपा इति विख्यातो य आसीदसुरोत्तमः 01061031c पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम 01061032a गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः 01061032c द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः 01061033a मयूर इति विख्यातः श्रीमान्यस्तु महासुरः 01061033c स विश्व इति विख्यातो बभूव पृथिवीपतिः 01061034a सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः 01061034c कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः 01061035a चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः 01061035c शुनको नाम राजर्षिः स बभूव नराधिपः 01061036a विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः 01061036c जानकिर्नाम राजर्षिः स बभूव नराधिपः 01061037a दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः 01061037c काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः 01061038a ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् 01061038c क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः 01061039a अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः 01061039c विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः 01061040a द्वितीयो विक्षराद्यस्तु नराधिप महासुरः 01061040c पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः 01061041a बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः 01061041c पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः 01061042a वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः 01061042c मणिमान्नाम राजर्षिः स बभूव नराधिपः 01061043a क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः 01061043c दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ 01061044a क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः 01061044c दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः 01061045a कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः 01061045c जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः 01061046a मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः 01061046c अष्टानां प्रवरस्तेषां कालेयानां महासुरः 01061047a द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः 01061047c अपराजित इत्येव स बभूव नराधिपः 01061048a तृतीयस्तु महाराज महाबाहुर्महासुरः 01061048c निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः 01061049a तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः 01061049c श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः 01061050a पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः 01061050c महौजा इति विख्यातो बभूवेह परंतपः 01061051a षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः 01061051c अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः 01061052a समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् 01061052c विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् 01061053a बृहन्नामाष्टमस्तेषां कालेयानां परंतपः 01061053c बभूव राजन्धर्मात्मा सर्वभूतहिते रतः 01061054a गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः 01061054c ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः 01061055a नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा 01061055c सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः 01061056a क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः 01061056c वीरधामा च कौरव्य भूमिपालश्च नामतः 01061057a दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः 01061057c रुक्मी च नृपशार्दूलो राजा च जनमेजयः 01061058a आषाढो वायुवेगश्च भूरितेजास्तथैव च 01061058c एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः 01061059a कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च 01061059c श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च 01061060a क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः 01061060c मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः 01061061a गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ 01061061c जातः पुरा महाराज महाकीर्तिर्महाबलः 01061062a यस्त्वासीद्देवको नाम देवराजसमद्युतिः 01061062c स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः 01061063a बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत 01061063c अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् 01061064a धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः 01061064c बृहत्कीर्तिर्महातेजाः संजज्ञे मनुजेष्विह 01061065a धनुर्वेदे च वेदे च यं तं वेदविदो विदुः 01061065c वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् 01061066a महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत 01061066c एकत्वमुपपन्नानां जज्ञे शूरः परंतपः 01061067a अश्वत्थामा महावीर्यः शत्रुपक्षक्षयंकरः 01061067c वीरः कमलपत्राक्षः क्षितावासीन्नराधिप 01061068a जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनोः सुताः 01061068c वसिष्ठस्य च शापेन नियोगाद्वासवस्य च 01061069a तेषामवरजो भीष्मः कुरूणामभयंकरः 01061069c मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः 01061070a जामदग्न्येन रामेण यः स सर्वविदां वरः 01061070c अयुध्यत महातेजा भार्गवेण महात्मना 01061071a यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ 01061071c रुद्राणां तं गणाद्विद्धि संभूतमतिपौरुषम् 01061072a शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः 01061072c द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् 01061073a सात्यकिः सत्यसंधस्तु योऽसौ वृष्णिकुलोद्वहः 01061073c पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः 01061074a द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् 01061074c मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः 01061075a ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् 01061075c जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् 01061076a मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् 01061076c विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् 01061077a अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः 01061077c स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः 01061078a धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि 01061078c दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः 01061078e मातुर्दोषादृषेः कोपादन्ध एव व्यजायत 01061079a अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् 01061079c विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् 01061080a कलेरंशात्तु संजज्ञे भुवि दुर्योधनो नृपः 01061080c दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः 01061081a जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः 01061081c यः सर्वां घातयामास पृथिवीं पुरुषाधमः 01061081e येन वैरं समुद्दीप्तं भूतान्तकरणं महत् 01061082a पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह 01061082c शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् 01061083a दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः 01061083c दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ 01061084a धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् 01061084c भीमसेनं तु वातस्य देवराजस्य चार्जुनम् 01061085a अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि 01061085c नकुलः सहदेवश्च सर्वलोकमनोहरौ 01061086a यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् 01061086c अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् 01061087a अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् 01061087c शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् 01061088a द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ 01061088c विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ 01061089a आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः 01061089c दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् 01061090a यस्तु नारायणो नाम देवदेवः सनातनः 01061090c तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् 01061091a शेषस्यांशस्तु नागस्य बलदेवो महाबलः 01061091c सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् 01061092a एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् 01061092c जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः 01061093a गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः 01061093c तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च 01061094a तानि षोडश देवीनां सहस्राणि नराधिप 01061094c बभूवुर्मानुषे लोके नारायणपरिग्रहः 01061095a श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले 01061095c द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता 01061096a नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी 01061096c पद्मायताक्षी सुश्रोणी असितायतमूर्धजा 01061097a सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा 01061097c पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः 01061098a सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते 01061098c कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा 01061099a इति देवासुराणां ते गन्धर्वाप्सरसां तथा 01061099c अंशावतरणं राजन्राक्षसानां च कीर्तितम् 01061100a ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः 01061100c महात्मानो यदूनां च ये जाता विपुले कुले 01061101a धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् 01061101c इदमंशावतरणं श्रोतव्यमनसूयता 01061102a अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् 01061102c प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति 01062001 जनमेजय उवाच 01062001a त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् 01062001c अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा 01062002a इमं तु भूय इच्छामि कुरूणां वंशमादितः 01062002c कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ 01062003 वैशंपायन उवाच 01062003a पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् 01062003c पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम 01062004a चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः 01062004c समुद्रावरणांश्चापि देशान्स समितिंजयः 01062005a आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः 01062005c रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् 01062006a न वर्णसंकरकरो नाकृष्यकरकृज्जनः 01062006c न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति 01062007a धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे 01062007c तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे 01062008a नासीच्चोरभयं तात न क्षुधाभयमण्वपि 01062008c नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे 01062009a स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः 01062009c तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः 01062010a कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च 01062010c सर्वरत्नसमृद्धा च मही वसुमती तदा 01062011a स चाद्भुतमहावीर्यो वज्रसंहननो युवा 01062011c उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् 01062012a धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च 01062012c नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः 01062013a बले विष्णुसमश्चासीत्तेजसा भास्करोपमः 01062013c अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः 01062014a संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् 01062014c भूयो धर्मपरैर्भावैर्विदितं जनमावसत् 01063001 वैशंपायन उवाच 01063001a स कदाचिन्महाबाहुः प्रभूतबलवाहनः 01063001c वनं जगाम गहनं हयनागशतैर्वृतः 01063002a खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः 01063002c प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः 01063003a सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः 01063003c रथनेमिस्वनैश्चापि सनागवरबृंहितैः 01063004a हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः 01063004c आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे 01063005a प्रासादवरशृङ्गस्थाः परया नृपशोभया 01063005c ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् 01063006a शक्रोपमममित्रघ्नं परवारणवारणम् 01063006c पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे 01063007a अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः 01063007c यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः 01063008a इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् 01063008c तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि 01063009a तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः 01063009c निर्ययौ परया प्रीत्या वनं मृगजिघांसया 01063010a सुदूरमनुजग्मुस्तं पौरजानपदास्तदा 01063010c न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह 01063011a सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः 01063011c महीमापूरयामास घोषेण त्रिदिवं तथा 01063012a स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् 01063012c बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् 01063013a विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् 01063013c निर्जलं निर्मनुष्यं च बहुयोजनमायतम् 01063013e मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः 01063014a तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः 01063014c लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् 01063015a बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् 01063015c पातयामास दुःषन्तो निर्बिभेद च सायकैः 01063016a दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः 01063016c अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत 01063017a कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः 01063017c गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः 01063018a तोमरैरसिभिश्चापि गदामुसलकर्पणैः 01063018c चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् 01063019a राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः 01063019c लोड्यमानं महारण्यं तत्यजुश्च महामृगाः 01063020a तत्र विद्रुतसंघानि हतयूथपतीनि च 01063020c मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः 01063021a शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः 01063021c व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः 01063022a क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि 01063022c केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः 01063023a केचिदग्निमथोत्पाद्य समिध्य च वनेचराः 01063023c भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा 01063024a तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः 01063024c संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः 01063025a शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु 01063025c वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् 01063026a तद्वनं बलमेघेन शरधारेण संवृतम् 01063026c व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् 01064001 वैशंपायन उवाच 01064001a ततो मृगसहस्राणि हत्वा विपुलवाहनः 01064001c राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह 01064002a एक एवोत्तमबलः क्षुत्पिपासासमन्वितः 01064002c स वनस्यान्तमासाद्य महदीरिणमासदत् 01064003a तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् 01064003c मनःप्रह्लादजननं दृष्टिकान्तमतीव च 01064003e शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् 01064004a पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् 01064004c विपुलं मधुरारावैर्नादितं विहगैस्तथा 01064005a प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् 01064005c षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् 01064006a नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी 01064006c षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् 01064007a विहगैर्नादितं पुष्पैरलंकृतमतीव च 01064007c सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् 01064007e मनोरमं महेष्वासो विवेश वनमुत्तमम् 01064008a मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः 01064008c पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः 01064009a दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः 01064009c विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः 01064010a तेषां तत्र प्रवालेषु पुष्पभारावनामिषु 01064010c रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु 01064011a तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् 01064011c लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् 01064011e संपश्यन्स महातेजा बभूव मुदितस्तदा 01064012a परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः 01064012c अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः 01064013a सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः 01064013c परिक्रामन्वने वृक्षानुपैतीव रिरंसया 01064014a एवंगुणसमायुक्तं ददर्श स वनं नृपः 01064014c नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् 01064015a प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहंगमम् 01064015c आश्रमप्रवरं रम्यं ददर्श च मनोरमम् 01064016a नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् 01064016c यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् 01064017a अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् 01064017c महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च 01064018a मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् 01064018c नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् 01064018e तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः 01064019a तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत 01064019c देवलोकप्रतीकाशं सर्वतः सुमनोहरम् 01064020a नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः 01064020c सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् 01064021a सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् 01064021c सकिंनरगणावासां वानरर्क्षनिषेविताम् 01064022a पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम् 01064022c मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् 01064023a नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा 01064023c चकाराभिप्रवेशाय मतिं स नृपतिस्तदा 01064024a अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया 01064024c नरनारायणस्थानं गङ्गयेवोपशोभितम् 01064024e मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् 01064025a तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः 01064025c अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा 01064025e महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् 01064026a रथिनीमश्वसंबाधां पदातिगणसंकुलाम् 01064026c अवस्थाप्य वनद्वारि सेनामिदमुवाच सः 01064027a मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् 01064027c काश्यपं स्थीयतामत्र यावदागमनं मम 01064028a तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः 01064028c क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् 01064029a सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः 01064029c पुरोहितसहायश्च जगामाश्रममुत्तमम् 01064029e दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् 01064030a ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च 01064030c षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम् 01064031a ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः 01064031c शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु 01064032a यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि 01064032c अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः 01064033a अथर्ववेदप्रवराः पूगयाज्ञिक संमताः 01064033c संहितामीरयन्ति स्म पदक्रमयुतां तु ते 01064034a शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः 01064034c नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः 01064035a यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः 01064035c न्यायतत्त्वार्थविज्ञानसंपन्नैर्वेदपारगैः 01064036a नानावाक्यसमाहारसमवायविशारदैः 01064036c विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः 01064037a स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः 01064037c लोकायतिकमुख्यैश्च समन्तादनुनादितम् 01064038a तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् 01064038c जपहोमपरान्सिद्धान्ददर्श परवीरहा 01064039a आसनानि विचित्राणि पुष्पवन्ति महीपतिः 01064039c प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् 01064040a देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः 01064040c ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः 01064041a स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् 01064041c नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् 01064042a स काश्यपस्यायतनं महाव्रतै;र्वृतं समन्तादृषिभिस्तपोधनैः 01064042c विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् 01065001 वैशंपायन उवाच 01065001a ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् 01065001c नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् 01065002a सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् 01065002c उवाच क इहेत्युच्चैर्वनं संनादयन्निव 01065003a श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी 01065003c निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी 01065004a सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा 01065004c स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च 01065005a आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि 01065005c पप्रच्छानामयं राजन्कुशलं च नराधिपम् 01065006a यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा 01065006c उवाच स्मयमानेव किं कार्यं क्रियतामिति 01065007a तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् 01065007c दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः 01065008a आगतोऽहं महाभागमृषिं कण्वमुपासितुम् 01065008c क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने 01065009 शकुन्तलोवाच 01065009a गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् 01065009c मुहूर्तं संप्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् 01065010 वैशंपायन उवाच 01065010a अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः 01065010c तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् 01065011a विभ्राजमानां वपुषा तपसा च दमेन च 01065011c रूपयौवनसंपन्नामित्युवाच महीपतिः 01065012a कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् 01065012c एवंरूपगुणोपेता कुतस्त्वमसि शोभने 01065013a दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः 01065013c इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने 01065014a एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे 01065014c उवाच हसती वाक्यमिदं सुमधुराक्षरम् 01065015a कण्वष्याहं भगवतो दुःषन्त दुहिता मता 01065015c तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः 01065016 दुःषन्त उवाच 01065016a ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः 01065016c चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः 01065017a कथं त्वं तस्य दुहिता संभूता वरवर्णिनी 01065017c संशयो मे महानत्र तं मे छेत्तुमिहार्हसि 01065018 शकुन्तलोवाच 01065018a यथायमागमो मह्यं यथा चेदमभूत्पुरा 01065018c शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः 01065019a ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् 01065019c तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव 01065020a तप्यमानः किल पुरा विश्वामित्रो महत्तपः 01065020c सुभृशं तापयामास शक्रं सुरगणेश्वरम् 01065021a तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति 01065021c भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् 01065022a गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे 01065022c श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु 01065023a असावादित्यसंकाशो विश्वामित्रो महातपाः 01065023c तप्यमानस्तपो घोरं मम कम्पयते मनः 01065024a मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे 01065024c संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते 01065025a स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय 01065025c चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् 01065026a रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः 01065026c लोभयित्वा वरारोहे तपसः संनिवर्तय 01065027 मेनकोवाच 01065027a महातेजाः स भगवान्सदैव च महातपाः 01065027c कोपनश्च तथा ह्येनं जानाति भगवानपि 01065028a तेजसस्तपसश्चैव कोपस्य च महात्मनः 01065028c त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् 01065029a महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् 01065029c क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् 01065030a शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः 01065030c यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः 01065031a बभार यत्रास्य पुरा काले दुर्गे महात्मनः 01065031c दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः 01065032a अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् 01065032c मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः 01065033a मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् 01065033c त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर 01065034a अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसंपदा 01065034c प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः 01065035a एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे 01065035c यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो 01065036a तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा 01065036c संक्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा 01065037a तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् 01065037c कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् 01065038a हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् 01065038c कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् 01065039a यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे 01065039c एतेऽपि यस्योद्विजन्ते प्रभावा;त्कस्मात्तस्मान्मादृशी नोद्विजेत 01065040a त्वयैवमुक्ता च कथं समीप;मृषेर्न गच्छेयमहं सुरेन्द्र 01065040c रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् 01065041a कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव 01065041c भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् 01065042a वनाच्च वायुः सुरभिः प्रवाये;त्तस्मिन्काले तमृषिं लोभयन्त्याः 01065042c तथेत्युक्त्वा विहिते चैव तस्मिं;स्ततो ययौ साश्रमं कौशिकस्य 01066001 शकुन्तलोवाच 01066001a एवमुक्तस्तया शक्रः संदिदेश सदागतिम् 01066001c प्रातिष्ठत तदा काले मेनका वायुना सह 01066002a अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् 01066002c विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे 01066003a अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ 01066003c अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् 01066004a सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती 01066004c उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी 01066005a गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः 01066005c अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा 01066006a तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा 01066006c चकार भावं संसर्गे तया कामवशं गतः 01066007a न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता 01066007c तौ तत्र सुचिरं कालं वने व्यहरतामुभौ 01066007e रममाणौ यथाकामं यथैकदिवसं तथा 01066008a जनयामास स मुनिर्मेनकायां शकुन्तलाम् 01066008c प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् 01066009a जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु 01066009c कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् 01066010a तं वने विजने गर्भं सिंहव्याघ्रसमाकुले 01066010c दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् 01066011a नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः 01066011c पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् 01066012a उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् 01066012c निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् 01066012e आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् 01066013a शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते 01066013c क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये 01066014a निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता 01066014c शकुन्तलेति नामास्याः कृतं चापि ततो मया 01066015a एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् 01066015c शकुन्तला च पितरं मन्यते मामनिन्दिता 01066016a एतदाचष्ट पृष्टः सन्मम जन्म महर्षये 01066016c सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप 01066017a कण्वं हि पितरं मन्ये पितरं स्वमजानती 01066017c इति ते कथितं राजन्यथावृत्तं श्रुतं मया 01067001 दुःषन्त उवाच 01067001a सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे 01067001c भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते 01067002a सुवर्णमाला वासांसि कुण्डले परिहाटके 01067002c नानापत्तनजे शुभ्रे मणिरत्ने च शोभने 01067003a आहरामि तवाद्याहं निष्कादीन्यजिनानि च 01067003c सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने 01067004a गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 01067004c विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 01067005 शकुन्तलोवाच 01067005a फलाहारो गतो राजन्पिता मे इत आश्रमात् 01067005c तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति 01067006 दुःषन्त उवाच 01067006a इच्छामि त्वां वरारोहे भजमानामनिन्दिते 01067006c त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम 01067007a आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः 01067007c आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः 01067008a अष्टावेव समासेन विवाहा धर्मतः स्मृताः 01067008c ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः 01067009a गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः 01067009c तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् 01067010a प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय 01067010c षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते 01067011a राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः 01067011c पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह 01067012a पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन 01067012c अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता 01067013a गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः 01067013c पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः 01067014a सा त्वं मम सकामस्य सकामा वरवर्णिनि 01067014c गान्धर्वेण विवाहेन भार्या भवितुमर्हसि 01067015 शकुन्तलोवाच 01067015a यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम 01067015c प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो 01067016a सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः 01067016c मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् 01067017a युवराजो महाराज सत्यमेतद्ब्रवीहि मे 01067017c यद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया 01067018 वैशंपायन उवाच 01067018a एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् 01067018c अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते 01067018e यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते 01067019a एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् 01067019c जग्राह विधिवत्पाणावुवास च तया सह 01067020a विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः 01067020c प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् 01067020e तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते 01067021a इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय 01067021c मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः 01067022a भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति 01067022c एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् 01067023a मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् 01067023c शकुन्तला च पितरं ह्रिया नोपजगाम तम् 01067024a विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः 01067024c उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा 01067025a त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः 01067025c पुंसा सह समायोगो न स धर्मोपघातकः 01067026a क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते 01067026c सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः 01067027a धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः 01067027c अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले 01067028a महात्मा जनिता लोके पुत्रस्तव महाबलः 01067028c य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् 01067029a परं चाभिप्रयातस्य चक्रं तस्य महात्मनः 01067029c भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः 01067030a ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् 01067030c विनिधाय ततो भारं संनिधाय फलानि च 01067031a मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः 01067031c तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि 01067032 कण्व उवाच 01067032a प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि 01067032c गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् 01067033 वैशंपायन उवाच 01067033a ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा 01067033c शकुन्तला पौरवाणां दुःषन्तहितकाम्यया 01068001 वैशंपायन उवाच 01068001a प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला 01068001c गर्भं सुषाव वामोरुः कुमारममितौजसम् 01068002a त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् 01068002c रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय 01068003a जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः 01068003c तस्याथ कारयामास वर्धमानस्य धीमतः 01068004a दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा 01068004c चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः 01068004e कुमारो देवगर्भाभः स तत्राशु व्यवर्धत 01068005a षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति 01068005c व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा 01068006a बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः 01068006c आरोहन्दमयंश्चैव क्रीडंश्च परिधावति 01068007a ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः 01068007c अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् 01068008a स सर्वदमनो नाम कुमारः समपद्यत 01068008c विक्रमेणौजसा चैव बलेन च समन्वितः 01068009a तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् 01068009c समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् 01068010a तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह 01068010c शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् 01068010e भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् 01068011a नारीणां चिरवासो हि बान्धवेषु न रोचते 01068011c कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् 01068012a तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः 01068012c शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् 01068013a गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् 01068013c आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् 01068014a अभिसृत्य च राजानं विदिता सा प्रवेशिता 01068014c सह तेनैव पुत्रेण तरुणादित्यवर्चसा 01068015a पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला 01068015c अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् 01068016a त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः 01068016c यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम 01068017a यथा समागमे पूर्वं कृतः स समयस्त्वया 01068017c तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति 01068018a सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि 01068018c अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि 01068019a धर्मकामार्थसंबन्धं न स्मरामि त्वया सह 01068019c गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु 01068020a सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी 01068020c विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला 01068021a संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा 01068021c कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत 01068022a आकारं गूहमाना च मन्युनाभिसमीरिता 01068022c तपसा संभृतं तेजो धारयामास वै तदा 01068023a सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता 01068023c भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत् 01068024a जानन्नपि महाराज कस्मादेवं प्रभाषसे 01068024c न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा 01068025a अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च 01068025c कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः 01068026a योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते 01068026c किं तेन न कृतं पापं चोरेणात्मापहारिणा 01068027a एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् 01068027c यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि 01068028a मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति 01068028c विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः 01068029a आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च 01068029c अहश्च रात्रिश्च उभे च संध्ये; धर्मश्च जानाति नरस्य वृत्तम् 01068030a यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् 01068030c हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति 01068031a न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः 01068031c तं यमः पापकर्माणं निर्यातयति दुष्कृतम् 01068032a अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते 01068032c देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् 01068033a स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् 01068033c अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् 01068034a किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि 01068034c न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे 01068035a यदि मे याचमानाया वचनं न करिष्यसि 01068035c दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति 01068036a भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः 01068036c जायाया इति जायात्वं पुराणाः कवयो विदुः 01068037a यदागमवतः पुंसस्तदपत्यं प्रजायते 01068037c तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् 01068038a पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः 01068038c तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा 01068039a सा भार्या या गृहे दक्षा सा भार्या या प्रजावती 01068039c सा भार्या या पतिप्राणा सा भार्या या पतिव्रता 01068040a अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा 01068040c भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः 01068041a भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः 01068041c भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः 01068042a सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः 01068042c पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः 01068043a कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै 01068043c यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः 01068044a संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् 01068044c भार्यैवान्वेति भर्तारं सततं या पतिव्रता 01068045a प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते 01068045c पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति 01068046a एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते 01068046c यदाप्नोति पतिर्भार्यामिह लोके परत्र च 01068047a आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः 01068047c तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् 01068048a भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् 01068048c ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् 01068049a दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः 01068049c ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव 01068050a सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः 01068050c रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च 01068051a आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् 01068051c ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः 01068052a परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः 01068052c पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः 01068053a स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् 01068053c प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे 01068054a अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः 01068054c न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् 01068055a न वाससां न रामाणां नापां स्पर्शस्तथा सुखः 01068055c शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः 01068056a ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् 01068056c गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः 01068057a स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः 01068057c पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते 01068058a त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम 01068058c इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् 01068059a आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव 01068059c इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा 01068060a ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः 01068060c मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः 01068061a वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः 01068061c जातकर्मणि पुत्राणां तवापि विदितं तथा 01068062a अङ्गादङ्गात्संभवसि हृदयादभिजायसे 01068062c आत्मा वै पुत्रनामासि स जीव शरदः शतम् 01068063a पोषो हि त्वदधीनो मे संतानमपि चाक्षयम् 01068063c तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् 01068064a त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः 01068064c सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् 01068065a यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते 01068065c तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः 01068066a मृगापकृष्टेन हि ते मृगयां परिधावता 01068066c अहमासादिता राजन्कुमारी पितुराश्रमे 01068067a उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका 01068067c विश्वाची च घृताची च षडेवाप्सरसां वराः 01068068a तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः 01068068c दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् 01068069a सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः 01068069c अवकीर्य च मां याता परात्मजमिवासती 01068070a किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि 01068070c यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया 01068071a कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् 01068071c इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मना 01068072 दुःषन्त उवाच 01068072a न पुत्रमभिजानामि त्वयि जातं शकुन्तले 01068072c असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः 01068073a मेनका निरनुक्रोशा बन्धकी जननी तव 01068073c यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता 01068074a स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव 01068074c विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः 01068075a मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता 01068075c तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि 01068076a अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे 01068076c विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् 01068077a क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका 01068077c क्व च त्वमेवं कृपणा तापसीवेषधारिणी 01068078a अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् 01068078c कथमल्पेन कालेन शालस्कन्ध इवोद्गतः 01068079a सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे 01068079c यदृच्छया कामरागाज्जाता मेनकया ह्यसि 01068080a सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि 01068080c नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया 01069001 शकुन्तलोवाच 01069001a राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि 01069001c आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि 01069002a मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् 01069002c ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः 01069003a क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् 01069003c आवयोरन्तरं पश्य मेरुसर्षपयोरिव 01069004a महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च 01069004c भवनान्यनुसंयामि प्रभावं पश्य मे नृप 01069005a सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ 01069005c निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि 01069006a विरूपो यावदादर्शे नात्मनः पश्यते मुखम् 01069006c मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् 01069007a यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते 01069007c तदेतरं विजानाति आत्मानं नेतरं जनम् 01069008a अतीव रूपसंपन्नो न किंचिदवमन्यते 01069008c अतीव जल्पन्दुर्वाचो भवतीह विहेठकः 01069009a मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 01069009c अशुभं वाक्यमादत्ते पुरीषमिव सूकरः 01069010a प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः 01069010c गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः 01069011a अन्यान्परिवदन्साधुर्यथा हि परितप्यते 01069011c तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः 01069012a अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् 01069012c एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः 01069013a सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः 01069013c यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् 01069014a अतो हास्यतरं लोके किंचिदन्यन्न विद्यते 01069014c यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् 01069015a सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव 01069015c अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः 01069016a स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते 01069016c तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते 01069017a कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् 01069017c उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् 01069018a स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् 01069018c कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् 01069019a धर्मकीर्त्यावहा नॄणां मनसः प्रीतिवर्धनाः 01069019c त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् 01069020a स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि 01069020c आत्मानं सत्यधर्मौ च पालयानो महीपते 01069020e नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि 01069021a वरं कूपशताद्वापी वरं वापीशतात्क्रतुः 01069021c वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् 01069022a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 01069022c अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते 01069023a सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् 01069023c सत्यं च वदतो राजन्समं वा स्यान्न वा समम् 01069024a नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् 01069024c न हि तीव्रतरं किंचिदनृतादिह विद्यते 01069025a राजन्सत्यं परं ब्रह्म सत्यं च समयः परः 01069025c मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते 01069026a अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् 01069026c आत्मनो हन्त गच्छामि त्वादृशे नास्ति संगतम् 01069027a ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् 01069027c चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति 01069028 वैशंपायन उवाच 01069028a एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला 01069028c अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी 01069028e ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा 01069029a भस्त्रा माता पितुः पुत्रो येन जातः स एव सः 01069029c भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 01069030a रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 01069030c त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला 01069031a जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् 01069031c तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप 01069032a अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् 01069032c शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव 01069033a भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि 01069033c तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः 01069034a तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् 01069034c पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् 01069035a शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् 01069035c अहमप्येवमेवैनं जानामि स्वयमात्मजम् 01069036a यद्यहं वचनादेव गृह्णीयामिममात्मजम् 01069036c भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् 01069037a तं विशोध्य तदा राजा देवदूतेन भारत 01069037c हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् 01069038a मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे 01069038c सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः 01069038e स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः 01069039a तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः 01069039c अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः 01069040a कृतो लोकपरोक्षोऽयं संबन्धो वै त्वया सह 01069040c तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् 01069041a मन्यते चैव लोकस्ते स्त्रीभावान्मयि संगतम् 01069041c पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् 01069042a यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये 01069042c प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे 01069043a तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् 01069043c वासोभिरन्नपानैश्च पूजयामास भारत 01069044a दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा 01069044c भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् 01069045a तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः 01069045c भास्वरं दिव्यमजितं लोकसंनादनं महत् 01069046a स विजित्य महीपालांश्चकार वशवर्तिनः 01069046c चचार च सतां धर्मं प्राप चानुत्तमं यशः 01069047a स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् 01069047c ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः 01069048a याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् 01069048c श्रीमान्गोविततं नाम वाजिमेधमवाप सः 01069048e यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ 01069049a भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् 01069049c अपरे ये च पूर्वे च भारता इति विश्रुताः 01069050a भरतस्यान्ववाये हि देवकल्पा महौजसः 01069050c बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः 01069051a येषामपरिमेयानि नामधेयानि सर्वशः 01069051c तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत 01069051e महाभागान्देवकल्पान्सत्यार्जवपरायणान् 01070001 वैशंपायन उवाच 01070001a प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च 01070001c भरतस्य कुरोः पूरोरजमीढस्य चान्वये 01070002a यादवानामिमं वंशं पौरवाणां च सर्वशः 01070002c तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् 01070002e धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ 01070003a तेजोभिरुदिताः सर्वे महर्षिसमतेजसः 01070003c दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः 01070003e मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः 01070004a तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः 01070004c संभूताः पुरुषव्याघ्र स हि लोकपितामहः 01070005a वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः 01070005c आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् 01070006a सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः 01070006c मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम् 01070007a ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे 01070007c प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय 01070008a ददौ स दश धर्माय कश्यपाय त्रयोदश 01070008c कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे 01070009a त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा 01070009c मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् 01070009e इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च 01070010a विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः 01070010c मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत 01070011a मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः 01070011c मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् 01070011e ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः 01070012a तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् 01070012c ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् 01070013a वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च 01070013c करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् 01070014a पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् 01070014c नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् 01070015a पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ 01070015c अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् 01070016a पुरूरवास्ततो विद्वानिलायां समपद्यत 01070016c सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् 01070017a त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः 01070017c अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः 01070018a विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः 01070018c जहार च स विप्राणां रत्नान्युत्क्रोशतामपि 01070019a सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह 01070019c अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ 01070020a ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत 01070020c लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः 01070021a स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् 01070021c आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा 01070022a षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः 01070022c दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः 01070023a नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् 01070023c स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते 01070024a आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः 01070024c राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः 01070025a पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् 01070025c नहुषः पालयामास ब्रह्मक्षत्रमथो विशः 01070026a स हत्वा दस्युसंघातानृषीन्करमदापयत् 01070026c पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् 01070027a कारयामास चेन्द्रत्वमभिभूय दिवौकसः 01070027c तेजसा तपसा चैव विक्रमेणौजसा तथा 01070028a यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् 01070028c नहुषो जनयामास षट्पुत्रान्प्रियवाससि 01070029a ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः 01070029c स पालयामास महीमीजे च विविधैः सवैः 01070030a अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा 01070030c अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः 01070031a तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः 01070031c देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे 01070032a देवयान्यामजायेतां यदुस्तुर्वसुरेव च 01070032c द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे 01070033a स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् 01070033c जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् 01070034a जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् 01070034c यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत 01070035a यौवनेन चरन्कामान्युवा युवतिभिः सह 01070035c विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः 01070036a तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् 01070036c किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च 01070037a ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् 01070037c यौवनेन त्वदीयेन चरेयं विषयानहम् 01070038a यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः 01070038c कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः 01070039a मामकेन शरीरेण राज्यमेकः प्रशास्तु वः 01070039c अहं तन्वाभिनवया युवा कामानवाप्नुयाम् 01070040a न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् 01070040c तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः 01070041a राजंश्चराभिनवया तन्वा यौवनगोचरः 01070041c अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया 01070042a एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् 01070042c संचारयामास जरां तदा पुत्रे महात्मनि 01070043a पौरवेणाथ वयसा राजा यौवनमास्थितः 01070043c यायातेनापि वयसा राज्यं पूरुरकारयत् 01070044a ततो वर्षसहस्रान्ते ययातिरपराजितः 01070044c अतृप्त एव कामानां पूरुं पुत्रमुवाच ह 01070045a त्वया दायादवानस्मि त्वं मे वंशकरः सुतः 01070045c पौरवो वंश इति ते ख्यातिं लोके गमिष्यति 01070046a ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च 01070046c कालेन महता पश्चात्कालधर्ममुपेयिवान् 01071001 जनमेजय उवाच 01071001a ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः 01071001c कथं स शुक्रतनयां लेभे परमदुर्लभाम् 01071002a एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम 01071002c आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् 01071003 वैशंपायन उवाच 01071003a ययातिरासीद्राजर्षिर्देवराजसमद्युतिः 01071003c तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा 01071004a तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय 01071004c देवयान्याश्च संयोगं ययातेर्नाहुषस्य च 01071005a सुराणामसुराणां च समजायत वै मिथः 01071005c ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे 01071006a जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् 01071006c पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे 01071006e ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् 01071007a तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् 01071007c तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् 01071007e ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् 01071008a असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि 01071008c न तान्संजीवयामास बृहस्पतिरुदारधीः 01071009a न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् 01071009c संजीवनीं ततो देवा विषादमगमन्परम् 01071010a ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा 01071010c ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः 01071011a भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् 01071011c यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि 01071011e शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि 01071012a वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः 01071012c रक्षते दानवांस्तत्र न स रक्षत्यदानवान् 01071013a तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् 01071013c देवयानीं च दयितां सुतां तस्य महात्मनः 01071014a त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते 01071014c शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च 01071014e देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् 01071015a तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः 01071015c तदाभिपूजितो देवैः समीपं वृषपर्वणः 01071016a स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः 01071016c असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह 01071017a ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः 01071017c नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् 01071018a ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ 01071018c अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् 01071019 शुक्र उवाच 01071019a कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः 01071019c अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः 01071020 वैशंपायन उवाच 01071020a कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् 01071020c आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् 01071021a व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत 01071021c आराधयन्नुपाध्यायं देवयानीं च भारत 01071022a नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे 01071022c गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् 01071023a संशीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् 01071023c पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत 01071024a देवयान्यपि तं विप्रं नियमव्रतचारिणम् 01071024c अनुगायमाना ललना रहः पर्यचरत्तदा 01071025a पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् 01071025c तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् 01071026a गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः 01071026c जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च 01071026e हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् 01071027a ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् 01071027c ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् 01071027e उवाच वचनं काले देवयान्यथ भारत 01071028a अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो 01071028c अगोपाश्चागता गावः कचस्तात न दृश्यते 01071029a व्यक्तं हतो मृतो वापि कचस्तात भविष्यति 01071029c तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते 01071030 शुक्र उवाच 01071030a अयमेहीति शब्देन मृतं संजीवयाम्यहम् 01071031 वैशंपायन उवाच 01071031a ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत् 01071031c आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया 01071031e हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया 01071032a स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया 01071032c वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् 01071033a ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः 01071033c प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा 01071034a देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् 01071034c पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते 01071035 शुक्र उवाच 01071035a बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः 01071035c विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् 01071036a मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् 01071036c सुराश्च विश्वे च जगच्च सर्व;मुपस्थितां वैकृतिमानमन्ति 01071037 देवयान्युवाच 01071037a यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः 01071037c ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् 01071038a स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः 01071038c कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः 01071039 शुक्र उवाच 01071039a असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति 01071039c अब्राह्मणं कर्तुमिच्छन्ति रौद्रा;स्ते मां यथा प्रस्तुतं दानवैर्हि 01071039e अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् 01071040 वैशंपायन उवाच 01071040a संचोदितो देवयान्या महर्षिः पुनराह्वयत् 01071040c संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् 01071041a गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार 01071041c तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र 01071042 कच उवाच 01071042a भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् 01071042c न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि 01071043a असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य 01071043c ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् 01071044 शुक्र उवाच 01071044a किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य 01071044c नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि 01071045 देवयान्युवाच 01071045a द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः 01071045c कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता 01071046 शुक्र उवाच 01071046a संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी 01071046c विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य 01071047a न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् 01071047c ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि 01071048a पुत्रो भूत्वा भावय भावितो मा;मस्माद्देहादुपनिष्क्रम्य तात 01071048c समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः 01071049 वैशंपायन उवाच 01071049a गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः 01071049c कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः 01071050a दृष्ट्वा च तं पतितं ब्रह्मराशि;मुत्थापयामास मृतं कचोऽपि 01071050c विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच 01071051a ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् 01071051c ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् 01071052 वैशंपायन उवाच 01071052a सुरापानाद्वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम् 01071052c दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन 01071053a समन्युरुत्थाय महानुभाव;स्तदोशना विप्रहितं चिकीर्षुः 01071053c काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः 01071054a यो ब्राह्मणोऽद्य प्रभृतीह कश्चि;न्मोहात्सुरां पास्यति मन्दबुद्धिः 01071054c अपेतधर्मो ब्रह्महा चैव स स्या;दस्मिँल्लोके गर्हितः स्यात्परे च 01071055a मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके 01071055c सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे 01071056a इतीदमुक्त्वा स महानुभाव;स्तपोनिधीनां निधिरप्रमेयः 01071056c तान्दानवान्दैवविमूढबुद्धी;निदं समाहूय वचोऽभ्युवाच 01071057a आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे 01071057c संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः 01071058a गुरोरुष्य सकाशे तु दश वर्षशतानि सः 01071058c अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् 01072001 वैशंपायन उवाच 01072001a समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा 01072001c प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् 01072002a ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च 01072002c भ्राजसे विद्यया चैव तपसा च दमेन च 01072003a ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः 01072003c तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः 01072004a एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन 01072004c व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि 01072005a स समावृत्तविद्यो मां भक्तां भजितुमर्हसि 01072005c गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् 01072006 कच उवाच 01072006a पूज्यो मान्यश्च भगवान्यथा तव पिता मम 01072006c तथा त्वमनवद्याङ्गि पूजनीयतरा मम 01072007a आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः 01072007c त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम 01072008a यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव 01072008c देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि 01072009 देवयान्युवाच 01072009a गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः 01072009c तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम 01072010a असुरैर्हन्यमाने च कच त्वयि पुनः पुनः 01072010c तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे 01072011a सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् 01072011c न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् 01072012 कच उवाच 01072012a अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते 01072012c प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे 01072013a यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने 01072013c तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि 01072014a भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने 01072014c सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम 01072015a आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि 01072015c अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे 01072015e अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम 01072016 देवयान्युवाच 01072016a यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः 01072016c ततः कच न ते विद्या सिद्धिमेषा गमिष्यति 01072017 कच उवाच 01072017a गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः 01072017c गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् 01072018a आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया 01072018c शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः 01072019a तस्माद्भवत्या यः कामो न तथा स भविष्यति 01072019c ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति 01072020a फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा 01072020c अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति 01072021 वैशंपायन उवाच 01072021a एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा 01072021c त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः 01072022a तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः 01072022c बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः 01072023a यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् 01072023c न ते यशः प्रणशिता भागभाङ्नो भविष्यसि 01073001 वैशंपायन उवाच 01073001a कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः 01073001c कचादधीत्य तां विद्यां कृतार्था भरतर्षभ 01073002a सर्व एव समागम्य शतक्रतुमथाब्रुवन् 01073002c कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर 01073003a एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा 01073003c तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः 01073004a क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे 01073004c वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् 01073005a ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा 01073005c वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः 01073006a तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा 01073006c व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः 01073007a ततस्तयोर्मिथस्तत्र विरोधः समजायत 01073007c देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते 01073008 देवयान्युवाच 01073008a कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि 01073008c समुदाचारहीनाया न ते श्रेयो भविष्यति 01073009 शर्मिष्ठोवाच 01073009a आसीनं च शयानं च पिता ते पितरं मम 01073009c स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् 01073010a याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः 01073010c सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः 01073011a अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि 01073011c लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् 01073012 वैशंपायन उवाच 01073012a समुच्छ्रयं देवयानीं गतां सक्तां च वाससि 01073012c शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् 01073013a हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया 01073013c अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा 01073014a अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः 01073014c श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः 01073015a स नाहुषः प्रेक्षमाण उदपानं गतोदकम् 01073015c ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव 01073016a तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् 01073016c सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना 01073017a का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला 01073017c दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा 01073018a कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते 01073018c दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे 01073019 देवयान्युवाच 01073019a योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया 01073019c तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते 01073020a एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः 01073020c समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः 01073021a जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् 01073021c तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि 01073022 वैशंपायन उवाच 01073022a तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः 01073022c गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् 01073023a उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः 01073023c आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ 01073024 देवयान्युवाच 01073024a त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः 01073024c नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः 01073025 वैशंपायन उवाच 01073025a सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् 01073025c दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना 01073026a आचक्षे ते महाप्राज्ञ देवयानी वने हता 01073026c शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः 01073027a श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् 01073027c त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने 01073028a दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने 01073028c बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् 01073029a आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः 01073029c मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता 01073030 देवयान्युवाच 01073030a निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम 01073030c शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः 01073030e सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः 01073031a एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी 01073031c वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् 01073032a स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः 01073032c सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः 01073033a इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः 01073033c क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः 01073034a यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः 01073034c प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया 01073035 शुक्र उवाच 01073035a स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः 01073035c अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि 01073036a वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः 01073036c अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम 01074001 शुक्र उवाच 01074001a यः परेषां नरो नित्यमतिवादांस्तितिक्षति 01074001c देवयानि विजानीहि तेन सर्वमिदं जितम् 01074002a यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा 01074002c स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते 01074003a यः समुत्पतितं क्रोधमक्रोधेन निरस्यति 01074003c देवयानि विजानीहि तेन सर्वमिदं जितम् 01074004a यः समुत्पतितं क्रोधं क्षमयेह निरस्यति 01074004c यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते 01074005a यः संधारयते मन्युं योऽतिवादांस्तितिक्षति 01074005c यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् 01074006a यो यजेदपरिश्रान्तो मासि मासि शतं समाः 01074006c न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः 01074007a यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः 01074007c न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् 01074008 देवयान्युवाच 01074008a वेदाहं तात बालापि धर्माणां यदिहान्तरम् 01074008c अक्रोधे चातिवादे च वेद चापि बलाबलम् 01074009a शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता 01074009c तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते 01074010a पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च 01074010c न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु 01074011a ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च 01074011c तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते 01074012a वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः 01074012c न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु 01074012e यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते 01075001 वैशंपायन उवाच 01075001a ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह 01075001c वृषपर्वाणमासीनमित्युवाचाविचारयन् 01075002a नाधर्मश्चरितो राजन्सद्यः फलति गौरिव 01075002c पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति 01075002e फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे 01075003a यदघातयथा विप्रं कचमाङ्गिरसं तदा 01075003c अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् 01075004a वधादनर्हतस्तस्य वधाच्च दुहितुर्मम 01075004c वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् 01075004e स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह 01075005a अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् 01075005c यथेममात्मनो दोषं न नियच्छस्युपेक्षसे 01075006 वृषपर्वोवाच 01075006a नाधर्मं न मृषावादं त्वयि जानामि भार्गव 01075006c त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् 01075007a यद्यस्मानपहाय त्वमितो गच्छसि भार्गव 01075007c समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् 01075008 शुक्र उवाच 01075008a समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः 01075008c दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे 01075009a प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् 01075009c योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः 01075010 वृषपर्वोवाच 01075010a यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव 01075010c भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः 01075011 शुक्र उवाच 01075011a यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर 01075011c तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् 01075012 देवयान्युवाच 01075012a यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव 01075012c नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् 01075013 वृषपर्वोवाच 01075013a यं काममभिकामासि देवयानि शुचिस्मिते 01075013c तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् 01075014 देवयान्युवाच 01075014a दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये 01075014c अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता 01075015 वृषपर्वोवाच 01075015a उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रमानय 01075015c यं च कामयते कामं देवयानी करोतु तम् 01075016 वैशंपायन उवाच 01075016a ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् 01075016c उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह 01075017a त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः 01075017c सा यं कामयते कामं स कार्योऽद्य त्वयानघे 01075018 शर्मिष्ठोवाच 01075018a सा यं कामयते कामं करवाण्यहमद्य तम् 01075018c मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते 01075019 वैशंपायन उवाच 01075019a ततः कन्यासहस्रेण वृता शिबिकया तदा 01075019c पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् 01075020 शर्मिष्ठोवाच 01075020a अहं कन्यासहस्रेण दासी ते परिचारिका 01075020c अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता 01075021 देवयान्युवाच 01075021a स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः 01075021c स्तूयमानस्य दुहिता कथं दासी भविष्यसि 01075022 शर्मिष्ठोवाच 01075022a येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् 01075022c अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता 01075023 वैशंपायन उवाच 01075023a प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः 01075023c देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् 01075024a प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम 01075024c अमोघं तव विज्ञानमस्ति विद्याबलं च ते 01075025a एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः 01075025c प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः 01076001 वैशंपायन उवाच 01076001a अथ दीर्घस्य कालस्य देवयानी नृपोत्तम 01076001c वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी 01076002a तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा 01076002c तमेव देशं संप्राप्ता यथाकामं चचार सा 01076002e ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् 01076003a क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् 01076003c खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च 01076004a पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया 01076004c तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः 01076005a ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः 01076005c पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः 01076006a उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् 01076006c रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् 01076006e शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः 01076007 ययातिरुवाच 01076007a द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते 01076007c गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् 01076008 देवयान्युवाच 01076008a आख्यास्याम्यहमादत्स्व वचनं मे नराधिप 01076008c शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् 01076009a इयं च मे सखी दासी यत्राहं तत्र गामिनी 01076009c दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः 01076010 ययातिरुवाच 01076010a कथं नु ते सखी दासी कन्येयं वरवर्णिनी 01076010c असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे 01076011 देवयान्युवाच 01076011a सर्व एव नरव्याघ्र विधानमनुवर्तते 01076011c विधानविहितं मत्वा मा विचित्राः कथाः कृथाः 01076012a राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च 01076012c किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे 01076013 ययातिरुवाच 01076013a ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः 01076013c राजाहं राजपुत्रश्च ययातिरिति विश्रुतः 01076014 देवयान्युवाच 01076014a केनास्यर्थेन नृपते इमं देशमुपागतः 01076014c जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया 01076015 ययातिरुवाच 01076015a मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः 01076015c बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि 01076016 देवयान्युवाच 01076016a द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह 01076016c त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव 01076017 ययातिरुवाच 01076017a विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि 01076017c अविवाह्या हि राजानो देवयानि पितुस्तव 01076018 देवयान्युवाच 01076018a संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् 01076018c ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् 01076019 ययातिरुवाच 01076019a एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने 01076019c पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः 01076020 देवयान्युवाच 01076020a पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा 01076020c तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः 01076021a कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् 01076021c गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया 01076022 ययातिरुवाच 01076022a क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् 01076022c दुराधर्षतरो विप्रः पुरुषेण विजानता 01076023 देवयान्युवाच 01076023a कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् 01076023c दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ 01076024 ययातिरुवाच 01076024a एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते 01076024c हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः 01076025a दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम 01076025c अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् 01076026 देवयान्युवाच 01076026a दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया 01076026c अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः 01076027 वैशंपायन उवाच 01076027a त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः 01076027c श्रुत्वैव च स राजानं दर्शयामास भार्गवः 01076028a दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः 01076028c ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः 01076029 देवयान्युवाच 01076029a राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् 01076029c नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे 01076030 शुक्र उवाच 01076030a वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया 01076030c गृहाणेमां मया दत्तां महिषीं नहुषात्मज 01076031 ययातिरुवाच 01076031a अधर्मो न स्पृशेदेवं महान्मामिह भार्गव 01076031c वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् 01076032 शुक्र उवाच 01076032a अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् 01076032c अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते 01076033a वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् 01076033c अनया सह संप्रीतिमतुलां समवाप्स्यसि 01076034a इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी 01076034c संपूज्या सततं राजन्मा चैनां शयने ह्वयेः 01076035 वैशंपायन उवाच 01076035a एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् 01076035c जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना 01077001 वैशंपायन उवाच 01077001a ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् 01077001c प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् 01077002a देवयान्याश्चानुमते तां सुतां वृषपर्वणः 01077002c अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् 01077003a वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् 01077003c वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् 01077004a देवयान्या तु सहितः स नृपो नहुषात्मजः 01077004c विजहार बहूनब्दान्देववन्मुदितो भृशम् 01077005a ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना 01077005c लेभे गर्भं प्रथमतः कुमारं च व्यजायत 01077006a गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी 01077006c ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् 01077007a ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः 01077007c किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् 01077008a देवयानी प्रजातासौ वृथाहं प्राप्तयौवना 01077008c यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् 01077009a राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः 01077009c अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः 01077010a अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया 01077010c अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः 01077011a तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी 01077011c प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् 01077012a सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा 01077012c तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति 01077013a रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा 01077013c सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप 01077014 ययातिरुवाच 01077014a वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् 01077014c रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् 01077015a अब्रवीदुशना काव्यो देवयानीं यदावहम् 01077015c नेयमाह्वयितव्या ते शयने वार्षपर्वणी 01077016 शर्मिष्ठोवाच 01077016a न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले 01077016c प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि 01077017a पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र 01077017c एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति 01077018 ययातिरुवाच 01077018a राजा प्रमाणं भूतानां स नश्येत मृषा वदन् 01077018c अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे 01077019 शर्मिष्ठोवाच 01077019a समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः 01077019c समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः 01077020 ययातिरुवाच 01077020a दातव्यं याचमानेभ्य इति मे व्रतमाहितम् 01077020c त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते 01077021 शर्मिष्ठोवाच 01077021a अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय 01077021c त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् 01077022a त्रय एवाधना राजन्भार्या दासस्तथा सुतः 01077022c यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् 01077023a देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी 01077023c सा चाहं च त्वया राजन्भरणीये भजस्व माम् 01077024 वैशंपायन उवाच 01077024a एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् 01077024c पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् 01077025a समागम्य च शर्मिष्ठां यथाकाममवाप्य च 01077025c अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् 01077026a तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी 01077026c लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् 01077027a प्रजज्ञे च ततः काले राजन्राजीवलोचना 01077027c कुमारं देवगर्भाभं राजीवनिभलोचनम् 01078001 वैशंपायन उवाच 01078001a श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता 01078001c चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत 01078002a अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् 01078002c किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया 01078003 शर्मिष्ठोवाच 01078003a ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः 01078003c स मया वरदः कामं याचितो धर्मसंहितम् 01078004a नाहमन्यायतः काममाचरामि शुचिस्मिते 01078004c तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते 01078005 देवयान्युवाच 01078005a शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः 01078005c गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् 01078006 शर्मिष्ठोवाच 01078006a ओजसा तेजसा चैव दीप्यमानं रविं यथा 01078006c तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते 01078007 देवयान्युवाच 01078007a यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम 01078007c अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् 01078008 वैशंपायन उवाच 01078008a अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः 01078008c जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी 01078009a ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः 01078009c यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ 01078010a तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी 01078010c द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् 01078011a ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता 01078011c ययातिसहिता राजन्निर्जगाम महावनम् 01078012a ददर्श च तदा तत्र कुमारान्देवरूपिणः 01078012c क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् 01078013a कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः 01078013c वर्चसा रूपतश्चैव सदृशा मे मतास्तव 01078014a एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत 01078014c किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता 01078014e विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् 01078015a तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् 01078015c शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः 01078016a इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः 01078016c नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके 01078016e रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः 01078017a दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति 01078017c बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् 01078018a मदधीना सती कस्मादकार्षीर्विप्रियं मम 01078018c तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् 01078019 शर्मिष्ठोवाच 01078019a यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि 01078019c न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते 01078020a यदा त्वया वृतो राजा वृत एव तदा मया 01078020c सखीभर्ता हि धर्मेण भर्ता भवति शोभने 01078021a पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी 01078021c त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् 01078022 वैशंपायन उवाच 01078022a श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् 01078022c राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया 01078023a सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् 01078023c त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा 01078024a अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः 01078024c न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना 01078025a अविब्रुवन्ती किंचित्तु राजानं चारुलोचना 01078025c अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम् 01078026a सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता 01078026c अनन्तरं ययातिस्तु पूजयामास भार्गवम् 01078027 देवयान्युवाच 01078027a अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् 01078027c शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः 01078028a त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना 01078028c दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते 01078029a धर्मज्ञ इति विख्यात एष राजा भृगूद्वह 01078029c अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते 01078030 शुक्र उवाच 01078030a धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् 01078030c तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया 01078031 ययातिरुवाच 01078031a ऋतुं वै याचमानाया भगवन्नान्यचेतसा 01078031c दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया 01078032a ऋतुं वै याचमानाया न ददाति पुमान्वृतः 01078032c भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः 01078033a अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः 01078033c नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः 01078034a इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह 01078034c अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् 01078035 शुक्र उवाच 01078035a नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव 01078035c मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष 01078036 वैशंपायन उवाच 01078036a क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा 01078036c पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत 01078037 ययातिरुवाच 01078037a अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह 01078037c प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् 01078038 शुक्र उवाच 01078038a नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप 01078038c जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि 01078039 ययातिरुवाच 01078039a राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा 01078039c यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् 01078040 शुक्र उवाच 01078040a संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज 01078040c मामनुध्याय भावेन न च पापमवाप्स्यसि 01078041a वयो दास्यति ते पुत्रो यः स राजा भविष्यति 01078041c आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च 01079001 वैशंपायन उवाच 01079001a जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह 01079001c पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः 01079002a जरा वली च मां तात पलितानि च पर्यगुः 01079002c काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने 01079003a त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह 01079003c यौवनेन त्वदीयेन चरेयं विषयानहम् 01079004a पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् 01079004c दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह 01079005 यदुरुवाच 01079005a सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः 01079005c वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः 01079006a अशक्तः कार्यकरणे परिभूतः स यौवनैः 01079006c सहोपजीविभिश्चैव तां जरां नाभिकामये 01079007 ययातिरुवाच 01079007a यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 01079007c तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति 01079008a तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह 01079008c यौवनेन चरेयं वै विषयांस्तव पुत्रक 01079009a पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् 01079009c स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 01079010 तुर्वसुरुवाच 01079010a न कामये जरां तात कामभोगप्रणाशिनीम् 01079010c बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् 01079011 ययातिरुवाच 01079011a यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 01079011c तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति 01079012a संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च 01079012c पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि 01079013a गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च 01079013c पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि 01079014 वैशंपायन उवाच 01079014a एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः 01079014c शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् 01079015a द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् 01079015c जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च 01079016a पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 01079016c स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह 01079017 द्रुह्युरुवाच 01079017a न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् 01079017c वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये 01079018 ययातिरुवाच 01079018a यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 01079018c तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् 01079019a उडुपप्लवसंतारो यत्र नित्यं भविष्यति 01079019c अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः 01079020a अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 01079020c एकं वर्षसहस्रं तु चरेयं यौवनेन ते 01079021 अनुरुवाच 01079021a जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा 01079021c न जुहोति च कालेऽग्निं तां जरां नाभिकामये 01079022 ययातिरुवाच 01079022a यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि 01079022c जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे 01079023a प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव 01079023c अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि 01079024a पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि 01079024c जरा वली च मे तात पलितानि च पर्यगुः 01079024e काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने 01079025a पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह 01079025c कंचित्कालं चरेयं वै विषयान्वयसा तव 01079026a पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् 01079026c स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह 01079027 वैशंपायन उवाच 01079027a एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा 01079027c यथात्थ मां महाराज तत्करिष्यामि ते वचः 01079028a प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह 01079028c गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् 01079029a जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव 01079029c यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् 01079030 ययातिरुवाच 01079030a पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते 01079030c सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति 01080001 वैशंपायन उवाच 01080001a पौरवेणाथ वयसा ययातिर्नहुषात्मजः 01080001c प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् 01080002a यथाकामं यथोत्साहं यथाकालं यथासुखम् 01080002c धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि 01080003a देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि 01080003c दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् 01080004a अतिथीनन्नपानैश्च विशश्च परिपालनैः 01080004c आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च 01080005a धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् 01080005c ययातिः पालयामास साक्षादिन्द्र इवापरः 01080006a स राजा सिंहविक्रान्तो युवा विषयगोचरः 01080006c अविरोधेन धर्मस्य चचार सुखमुत्तमम् 01080007a स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः 01080007c कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः 01080008a परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् 01080008c पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह 01080009a यथाकामं यथोत्साहं यथाकालमरिंदम 01080009c सेविता विषयाः पुत्र यौवनेन मया तव 01080010a पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् 01080010c राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः 01080011a प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा 01080011c यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः 01080012a अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् 01080012c ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् 01080013a कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो 01080013c ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि 01080014a यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः 01080014c शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च 01080015a कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति 01080015c एतत्संबोधयामस्त्वां धर्मं त्वमनुपालय 01080016 ययातिरुवाच 01080016a ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः 01080016c ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन 01080017a मम ज्येष्ठेन यदुना नियोगो नानुपालितः 01080017c प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः 01080018a मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः 01080018c स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु 01080019a यदुनाहमवज्ञातस्तथा तुर्वसुनापि च 01080019c द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् 01080020a पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः 01080020c कनीयान्मम दायादो जरा येन धृता मम 01080020e मम कामः स च कृतः पूरुणा पुत्ररूपिणा 01080021a शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् 01080021c पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः 01080021e भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् 01080022 प्रकृतय ऊचुः 01080022a यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा 01080022c सर्वमर्हति कल्याणं कनीयानपि स प्रभो 01080023a अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव 01080023c वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् 01080024 वैशंपायन उवाच 01080024a पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा 01080024c अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् 01080025a दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः 01080025c पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह 01080026a यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः 01080026c द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः 01080027a पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव 01080027c इदं वर्षसहस्राय राज्यं कारयितुं वशी 01081001 वैशंपायन उवाच 01081001a एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् 01081001c राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः 01081002a उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः 01081002c फलमूलाशनो दान्तो यथा स्वर्गमितो गतः 01081003a स गतः सुरवासं तं निवसन्मुदितः सुखम् 01081003c कालस्य नातिमहतः पुनः शक्रेण पातितः 01081004a निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् 01081004c स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया 01081005a तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः 01081005c राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् 01081005e प्रतर्दनेन शिबिना समेत्य किल संसदि 01081006 जनमेजय उवाच 01081006a कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः 01081006c सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः 01081006e कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ 01081007a देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः 01081007c वर्धनः कुरुवंशस्य विभावसुसमद्युतिः 01081008a तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः 01081008c चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः 01081009 वैशंपायन उवाच 01081009a हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् 01081009c दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् 01081010a ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् 01081010c राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा 01081011a अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् 01081011c फलमूलाशनो राजा वने संन्यवसच्चिरम् 01081012a संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः 01081012c अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः 01081013a अतिथीन्पूजयामास वन्येन हविषा विभुः 01081013c शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः 01081014a पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः 01081014c अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः 01081015a ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः 01081015c पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः 01081016a एकपादस्थितश्चासीत्षण्मासाननिलाशनः 01081016c पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी 01082001 वैशंपायन उवाच 01082001a स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि 01082001c पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा 01082002a देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी 01082002c अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः 01082003a स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् 01082003c कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः 01082004 शक्र उवाच 01082004a यदा स पूरुस्तव रूपेण राज;ञ्जरां गृहीत्वा प्रचचार भूमौ 01082004c तदा राज्यं संप्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् 01082005 ययातिरुवाच 01082005a गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव 01082005c मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव 01082006a अक्रोधनः क्रोधनेभ्यो विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः 01082006c अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः 01082007a आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः 01082007c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 01082008a नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत 01082008c ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् 01082009a अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् 01082009c विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् 01082010a सद्भिः पुरस्तादभिपूजितः स्या;त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् 01082010c सदासतामतिवादांस्तितिक्षे;त्सतां वृत्तं चाददीतार्यवृत्तः 01082011a वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि 01082011c परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु 01082012a न हीदृशं संवननं त्रिषु लोकेषु विद्यते 01082012c यथा मैत्री च भूतेषु दानं च मधुरा च वाक् 01082013a तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् 01082013c पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन 01083001 इन्द्र उवाच 01083001a सर्वाणि कर्माणि समाप्य राज;न्गृहान्परित्यज्य वनं गतोऽसि 01083001c तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते 01083002 ययातिरुवाच 01083002a नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु 01083002c आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव 01083003 इन्द्र उवाच 01083003a यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः 01083003c तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् 01083004 ययातिरुवाच 01083004a सुरर्षिगन्धर्वनरावमाना;त्क्षयं गता मे यदि शक्र लोकाः 01083004c इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज 01083005 इन्द्र उवाच 01083005a सतां सकाशे पतितासि राजं;श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः 01083005c एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च 01083006 वैशंपायन उवाच 01083006a ततः प्रहायामरराजजुष्टा;न्पुण्याँल्लोकान्पतमानं ययातिम् 01083006c संप्रेक्ष्य राजर्षिवरोऽष्टकस्त;मुवाच सद्धर्मविधानगोप्ता 01083007a कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः 01083007c पतस्युदीर्णाम्बुधरान्धकारा;त्खात्खेचराणां प्रवरो यथार्कः 01083008a दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् 01083008c किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः 01083009a दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् 01083009c अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः 01083010a न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः 01083010c तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः 01083011a भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप 01083011c त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः 01083012a सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प 01083012c ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु 01083013a प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः 01083013c प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः 01084001 ययातिरुवाच 01084001a अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् 01084001c प्रभ्रंशितः सुरसिद्धर्षिलोका;त्परिच्युतः प्रपताम्यल्पपुण्यः 01084002a अहं हि पूर्वो वयसा भवद्भ्य;स्तेनाभिवादं भवतां न प्रयुञ्जे 01084002c यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् 01084003 अष्टक उवाच 01084003a अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथंचित् 01084003c यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् 01084004 ययातिरुवाच 01084004a प्रतिकूलं कर्मणां पापमाहु;स्तद्वर्ततेऽप्रवणे पापलोक्यम् 01084004c सन्तोऽसतां नानुवर्तन्ति चैत;द्यथा आत्मैषामनुकूलवादी 01084005a अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि 01084005c एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् 01084006a नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः 01084006c तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या 01084007a सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या 01084007c तस्माद्दिष्टं बलवन्मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् 01084008a दुःखे न तप्येन्न सुखेन हृष्ये;त्समेन वर्तेत सदैव धीरः 01084008c दिष्टं बलीय इति मन्यमानो; न संज्वरेन्नापि हृष्येत्कदाचित् 01084009a भये न मुह्याम्यष्टकाहं कदाचि;त्संतापो मे मानसो नास्ति कश्चित् 01084009c धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा 01084010a संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः 01084010c तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते 01084011a अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्संतापमष्टकाहं भजेयम् 01084011c किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्संतापं वर्जयाम्यप्रमत्तः 01084012 अष्टक उवाच 01084012a ये ये लोकाः पार्थिवेन्द्र प्रधाना;स्त्वया भुक्ता यं च कालं यथा च 01084012c तन्मे राजन्ब्रूहि सर्वं यथाव;त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् 01084013 ययातिरुवाच 01084013a राजाहमासमिह सार्वभौम;स्ततो लोकान्महतो अजयं वै 01084013c तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 01084014a ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् 01084014c अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 01084015a ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् 01084015c तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः 01084016a देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् 01084016c संपूज्यमानस्त्रिदशैः समस्तै;स्तुल्यप्रभावद्युतिरीश्वराणाम् 01084017a तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् 01084017c सहाप्सरोभिर्विहरन्पुण्यगन्धा;न्पश्यन्नगान्पुष्पितांश्चारुरूपान् 01084018a तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् 01084018c दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण 01084019a एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः 01084019c वाचोऽश्रौषं चान्तरिक्षे सुराणा;मनुक्रोशाच्छोचतां मानवेन्द्र 01084020a अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः 01084020c तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु 01084021a तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि 01084021c हविर्गन्धं देशिकं यज्ञभूमे;र्धूमापाङ्गं प्रतिगृह्य प्रतीतः 01085001 अष्टक उवाच 01085001a यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् 01085001c किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः 01085002 ययातिरुवाच 01085002a ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि 01085002c तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसंघाः 01085003 अष्टक उवाच 01085003a कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् 01085003c किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे 01085004 ययातिरुवाच 01085004a इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे 01085004c ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति 01085005a तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म 01085005c आख्यातं ते पार्थिव सर्वमेत;द्भूयश्चेदानीं वद किं ते वदामि 01085006 अष्टक उवाच 01085006a यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः 01085006c कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि 01085007 ययातिरुवाच 01085007a ऊर्ध्वं देहात्कर्मणो जृम्भमाणा;द्व्यक्तं पृथिव्यामनुसंचरन्ति 01085007c इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् 01085008a षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि 01085008c तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः 01085009 अष्टक उवाच 01085009a यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः 01085009c कथं भवन्ति कथमाभवन्ति; कथंभूता गर्भभूता भवन्ति 01085010 ययातिरुवाच 01085010a अस्रं रेतः पुष्पफलानुपृक्त;मन्वेति तद्वै पुरुषेण सृष्टम् 01085010c स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र 01085011a वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् 01085011c चतुष्पदं द्विपदं चापि सर्व;मेवंभूता गर्भभूता भवन्ति 01085012 अष्टक उवाच 01085012a अन्यद्वपुर्विदधातीह गर्भ; उताहोस्वित्स्वेन कामेन याति 01085012c आपद्यमानो नरयोनिमेता;माचक्ष्व मे संशयात्प्रब्रवीमि 01085013a शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन संज्ञाम् 01085013c एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे 01085014 ययातिरुवाच 01085014a वायुः समुत्कर्षति गर्भयोनि;मृतौ रेतः पुष्परसानुपृक्तम् 01085014c स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् 01085015a स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः 01085015c स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च 01085016a घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् 01085016c इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे 01085017 अष्टक उवाच 01085017a यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा 01085017c अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् 01085018 ययातिरुवाच 01085018a हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च 01085018c अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह 01085019a पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति 01085019c कीटाः पतंगाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव 01085020a चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति 01085020c आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह 01085021 अष्टक उवाच 01085021a किं स्वित्कृत्वा लभते तात लोका;न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा 01085021c तन्मे पृष्टः शंस सर्वं यथाव;च्छुभाँल्लोकान्येन गच्छेत्क्रमेण 01085022 ययातिरुवाच 01085022a तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा 01085022c नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः 01085023a अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् 01085023c तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति 01085024a चत्वारि कर्माण्यभयंकराणि; भयं प्रयच्छन्त्ययथाकृतानि 01085024c मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः 01085025a न मान्यमानो मुदमाददीत; न संतापं प्राप्नुयाच्चावमानात् 01085025c सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते 01085026a इति दद्यादिति यजेदित्यधीयीत मे व्रतम् 01085026c इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः 01085027a येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् 01085027c तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह 01086001 अष्टक उवाच 01086001a चरन्गृहस्थः कथमेति देवा;न्कथं भिक्षुः कथमाचार्यकर्मा 01086001c वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्संप्रति वेदयन्ति 01086002 ययातिरुवाच 01086002a आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी 01086002c मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी 01086003a धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च 01086003c अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी 01086004a स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी 01086004c तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः 01086005a अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः 01086005c अनोकसारी लघुरल्पचार;श्चरन्देशानेकचरः स भिक्षुः 01086006a रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च 01086006c तामेव रात्रिं प्रयतेत विद्वा;नरण्यसंस्थो भवितुं यतात्मा 01086007a दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् 01086007c अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् 01086008 अष्टक उवाच 01086008a कति स्विदेव मुनयो मौनानि कति चाप्युत 01086008c भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् 01086009 ययातिरुवाच 01086009a अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः 01086009c ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप 01086010 अष्टक उवाच 01086010a कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः 01086010c ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः 01086011 ययातिरुवाच 01086011a न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् 01086011c तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः 01086012a अनग्निरनिकेतश्च अगोत्रचरणो मुनिः 01086012c कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् 01086013a यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् 01086013c तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः 01086014a यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः 01086014c आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् 01086015a धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् 01086015c असितं सितकर्मस्थं कस्तं नार्चितुमर्हति 01086016a तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः 01086016c यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः 01086016e अथ लोकमिमं जित्वा लोकं विजयते परम् 01086017a आस्येन तु यदाहारं गोवन्मृगयते मुनिः 01086017c अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते 01087001 अष्टक उवाच 01087001a कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् 01087001c उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव 01087002 ययातिरुवाच 01087002a अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः 01087002c ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः 01087003a अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् 01087003c तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः 01087004a यद्वै नृशंसं तदपथ्यमाहु;र्यः सेवते धर्ममनर्थबुद्धिः 01087004c अस्वोऽप्यनीशश्च तथैव राजं;स्तदार्जवं स समाधिस्तदार्यम् 01087005 अष्टक उवाच 01087005a केनासि दूतः प्रहितोऽद्य राज;न्युवा स्रग्वी दर्शनीयः सुवर्चाः 01087005c कुत आगतः कतरस्यां दिशि त्व;मुताहोस्वित्पार्थिवं स्थानमस्ति 01087006 ययातिरुवाच 01087006a इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः 01087006c उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः 01087007a सतां सकाशे तु वृतः प्रपात;स्ते संगता गुणवन्तश्च सर्वे 01087007c शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र 01087008 अष्टक उवाच 01087008a पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र 01087008c यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01087009 ययातिरुवाच 01087009a यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च 01087009c तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह 01087010 अष्टक उवाच 01087010a तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति 01087010c यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रममित्रसाह 01087011 ययातिरुवाच 01087011a नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य 01087011c यथा प्रदेयं सततं द्विजेभ्य;स्तथाददं पूर्वमहं नरेन्द्र 01087012a नाब्राह्मणः कृपणो जातु जीवे;द्या चापि स्याद्ब्राह्मणी वीरपत्नी 01087012c सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु 01087013 प्रतर्दन उवाच 01087013a पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः 01087013c यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01087014 ययातिरुवाच 01087014a सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि 01087014c मधुच्युतो घृतपृक्ता विशोका;स्ते नान्तवन्तः प्रतिपालयन्ति 01087015 प्रतर्दन उवाच 01087015a तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु 01087015c यद्यन्तरिक्षे यदि वा दिवि श्रिता;स्तानाक्रम क्षिप्रमपेतमोहः 01087016 ययातिरुवाच 01087016a न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् 01087016c दैवादेशादापदं प्राप्य विद्वां;श्चरेन्नृशंसं न हि जातु राजा 01087017a धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः 01087017c न मद्विधो धर्मबुद्धिः प्रजान;न्कुर्यादेवं कृपणं मां यथात्थ 01087018a कुर्यामपूर्वं न कृतं यदन्यै;र्विवित्समानः किमु तत्र साधु 01087018c ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् 01088001 वसुमना उवाच 01088001a पृच्छामि त्वां वसुमना रौशदश्वि;र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र 01088001c यद्यन्तरिक्षे प्रथितो महात्म;न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01088002 ययातिरुवाच 01088002a यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च 01088002c लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति 01088003 वसुमना उवाच 01088003a तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु 01088003c क्रीणीष्वैनांस्तृणकेनापि राज;न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः 01088004 ययातिरुवाच 01088004a न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः 01088004c कुर्यां न चैवाकृतपूर्वमन्यै;र्विवित्समानः किमु तत्र साधु 01088005 वसुमना उवाच 01088005a तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते 01088005c अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु 01088006 शिबिरुवाच 01088006a पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात 01088006c यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये 01088007 ययातिरुवाच 01088007a न त्वं वाचा हृदयेनापि विद्व;न्परीप्समानान्नावमंस्था नरेन्द्र 01088007c तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः 01088008 शिबिरुवाच 01088008a तांस्त्वं लोकान्प्रतिपद्यस्व राज;न्मया दत्तान्यदि नेष्टः क्रयस्ते 01088008c न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् 01088009 ययातिरुवाच 01088009a यथा त्वमिन्द्रप्रतिमप्रभाव;स्ते चाप्यनन्ता नरदेव लोकाः 01088009c तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् 01088010 अष्टक उवाच 01088010a न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि 01088010c सर्वे प्रदाय भवते गन्तारो नरकं वयम् 01088011 ययातिरुवाच 01088011a यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः 01088011c अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा 01088012 अष्टक उवाच 01088012a कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः 01088012c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव 01088013 ययातिरुवाच 01088013a युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः 01088013c उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव 01088014 अष्टक उवाच 01088014a आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा 01088014c वयमप्यनुयास्यामो यदा कालो भविष्यति 01088015 ययातिरुवाच 01088015a सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् 01088015c एष नो विरजाः पन्था दृश्यते देवसद्मनः 01088016 वैशंपायन उवाच 01088016a तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः 01088016c आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी 01088017 अष्टक उवाच 01088017a अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा 01088017c कस्मादेवं शिबिरौशीनरोऽय;मेकोऽत्यगात्सर्ववेगेन वाहान् 01088018 ययातिरुवाच 01088018a अददाद्देवयानाय यावद्वित्तमविन्दत 01088018c उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः 01088019a दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा 01088019c राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या 01088019e एवंवृत्तो ह्रीनिषेधश्च यस्मा;त्तस्माच्छिबिरत्यगाद्वै रथेन 01088020 वैशंपायन उवाच 01088020a अथाष्टकः पुनरेवान्वपृच्छ;न्मातामहं कौतुकादिन्द्रकल्पम् 01088020c पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य 01088020e कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा 01088021 ययातिरुवाच 01088021a ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् 01088021c गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः 01088022a सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः 01088022c मेध्यानश्वानेकशफान्सुरूपां;स्तदा देवाः पुण्यभाजो भवन्ति 01088023a अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य 01088023c गोभिः सुवर्णेन धनैश्च मुख्यै;स्तत्रासन्गाः शतमर्बुदानि 01088024a सत्येन मे द्यौश्च वसुंधरा च; तथैवाग्निर्ज्वलते मानुषेषु 01088024c न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति 01088024e सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् 01088025a यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् 01088025c अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् 01088026 वैशंपायन उवाच 01088026a एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः 01088026c त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् 01089001 जनमेजय उवाच 01089001a भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् 01089001c यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः 01089002a न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः 01089002c प्रजाविरहितो वापि भूतपूर्वः कदाचन 01089003a तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् 01089003c चरितं श्रोतुमिच्छामि विस्तरेण तपोधन 01089004 वैशंपायन उवाच 01089004a हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि 01089004c पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः 01089005a प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः 01089005c पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् 01089006a मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः 01089006c पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः 01089007a सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः 01089007c मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः 01089008a रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः 01089008c यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः 01089008e सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः 01089009a ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् 01089009c स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः 01089010a तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः 01089010c धर्मेपुः संनतेपुश्च दशमो देवविक्रमः 01089010e अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः 01089011a मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् 01089011c मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः 01089011e तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः 01089012a तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् 01089012c आजहार यशो दीप्तं जिगाय च वसुंधराम् 01089013a इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् 01089013c सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः 01089014a रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः 01089014c इलिनो जनयामास दुःषन्तप्रभृतीन्नृप 01089015a दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च 01089015c तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय 01089016a दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः 01089016c तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः 01089017a भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् 01089017c नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत 01089018a ततो महद्भिः क्रतुभिरीजानो भरतस्तदा 01089018c लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत 01089019a ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः 01089019c भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् 01089020a ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् 01089020c ततः स वितथो नाम भुमन्योरभवत्सुतः 01089021a सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा 01089021c पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः 01089022a तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् 01089022c राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः 01089023a सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् 01089023c पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् 01089024a ममज्जेव मही तस्य भूरिभारावपीडिता 01089024c हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् 01089025a सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः 01089025c चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः 01089025e प्रवृद्धजनसस्या च सहदेवा व्यरोचत 01089026a ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः 01089026c अजमीढं सुमीढं च पुरुमीढं च भारत 01089027a अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः 01089027c षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत 01089028a ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ 01089028c केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ 01089029a तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः 01089029c अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः 01089030a जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् 01089030c ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव 01089031a आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् 01089031c संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः 01089032a व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा 01089032c क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् 01089032e अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च 01089033a चालयन्वसुधां चैव बलेन चतुरङ्गिणा 01089033c अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् 01089033e अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् 01089034a ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः 01089034c राजा संवरणस्तस्मात्पलायत महाभयात् 01089035a सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा 01089035c नदीविषयपर्यन्ते पर्वतस्य समीपतः 01089035e तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः 01089036a तेषां निवसतां तत्र सहस्रं परिवत्सरान् 01089036c अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः 01089037a तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च 01089037c अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा 01089037e निवेद्य सर्वमृषये सत्कारेण सुवर्चसे 01089038a तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा 01089038c पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे 01089038e ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत 01089039a अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् 01089039c विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् 01089040a भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् 01089040c पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः 01089041a ततः स पृथिवीं प्राप्य पुनरीजे महाबलः 01089041c आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः 01089042a ततः संवरणात्सौरी सुषुवे तपती कुरुम् 01089042c राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे 01089043a तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् 01089043c कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः 01089044a अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् 01089044c जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः 01089044e पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी 01089045a अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् 01089045c अभिराजो विराजश्च शल्मलश्च महाबलः 01089046a उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः 01089046c एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः 01089047a जनमेजयादयः सप्त तथैवान्ये महाबलाः 01089047c परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः 01089048a कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् 01089048c इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः 01089049a जनमेजयस्य तनया भुवि ख्याता महाबलाः 01089049c धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च 01089050a निषधश्च महातेजास्तथा जाम्बूनदो बली 01089050c कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः 01089050e सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः 01089051a धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः 01089051c हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः 01089051e हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः 01089052a प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ 01089052c देवापिः शंतनुश्चैव बाह्लीकश्च महारथः 01089053a देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया 01089053c शंतनुश्च महीं लेभे बाह्लीकश्च महारथः 01089054a भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः 01089054c देवर्षिकल्पा नृपते बहवो राजसत्तमाः 01089055a एवंविधाश्चाप्यपरे देवकल्पा महारथाः 01089055c जाता मनोरन्ववाये ऐलवंशविवर्धनाः 01090001 जनमेजय उवाच 01090001a श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् 01090001c उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः 01090002a किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति 01090002c प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे 01090003a एतामेव कथां दिव्यामा प्रजापतितो मनोः 01090003c तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् 01090004a सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् 01090004c विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् 01090005a गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् 01090005c न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् 01090006 वैशंपायन उवाच 01090006a शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् 01090006c प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् 01090007A दक्षस्यादितिः 01090007B अदितेर्विवस्वान् 01090007C विवस्वतो मनुः 01090007D मनोरिला 01090007E इलायाः पुरूरवाः 01090007F पुरूरवस आयुः 01090007G आयुषो नहुषः 01090007H नहुषस्य ययातिः 01090008A ययातेर्द्वे भार्ये बभूवतुः 01090008B उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम 01090008C अत्रानुवंशो भवति 01090009a यदुं च तुर्वसुं चैव देवयानी व्यजायत 01090009c द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी 01090010A तत्र यदोर्यादवाः 01090010B पूरोः पौरवाः 01090011A पूरोर्भार्या कौसल्या नाम 01090011B तस्यामस्य जज्ञे जनमेजयो नाम 01090011C यस्त्रीनश्वमेधानाजहार 01090011D विश्वजिता चेष्ट्वा वनं प्रविवेश 01090012A जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् 01090012B तस्यामस्य जज्ञे प्राचिन्वान् 01090012C यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् 01090012D ततस्तस्य प्राचिन्वत्वम् 01090013A प्राचिन्वान्खल्वश्मकीमुपयेमे 01090013B तस्यामस्य जज्ञे संयातिः 01090014A संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे 01090014B तस्यामस्य जज्ञे अहंपातिः 01090015A अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम 01090015B तस्यामस्य जज्ञे सार्वभौमः 01090016A सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम 01090016B तस्यामस्य जज्ञे जयत्सेनः 01090017A जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम 01090017B तस्यामस्य जज्ञे अराचीनः 01090018A अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम 01090018B तस्यामस्य जज्ञे महाभौमः 01090019A महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम 01090019B तस्यामस्य जज्ञे अयुतनायी 01090019C यः पुरुषमेधानामयुतमानयत् 01090019D तदस्यायुतनायित्वम् 01090020A अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम 01090020B तस्यामस्य जज्ञे अक्रोधनः 01090021A अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे 01090021B तस्यामस्य जज्ञे देवातिथिः 01090022A देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम 01090022B तस्यामस्य जज्ञे ऋचः 01090023A ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम 01090023B तस्यां पुत्रमजनयदृक्षम् 01090024A ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम 01090024B तस्यां पुत्रं मतिनारं नामोत्पादयामास 01090025A मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार 01090026A निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास 01090026B तस्यां पुत्रमजनयत्तंसुं नाम 01090027A अत्रानुवंशो भवति 01090028a तंसुं सरस्वती पुत्रं मतिनारादजीजनत् 01090028c इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् 01090029A इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् 01090030A दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे 01090030B तस्यामस्य जज्ञे भरतः 01090030C तत्र श्लोकौ भवतः 01090031a माता भस्त्रा पितुः पुत्रो येन जातः स एव सः 01090031c भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् 01090032a रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् 01090032c त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला 01090033A ततोऽस्य भरतत्वम् 01090034A भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम 01090034B तस्यामस्य जज्ञे भुमन्युः 01090035A भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम 01090035B तस्यामस्य जज्ञे सुहोत्रः 01090036A सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम 01090036B तस्यामस्य जज्ञे हस्ती 01090036C य इदं हास्तिनपुरं मापयामास 01090036D एतदस्य हास्तिनपुरत्वम् 01090037A हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम 01090037B तस्यामस्य जज्ञे विकुण्ठनः 01090038A विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम 01090038B तस्यामस्य जज्ञेऽजमीढः 01090039A अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति 01090039B पृथक्पृथग्वंशकरा नृपतयः 01090039C तत्र वंशकरः संवरणः 01090040A संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे 01090040B तस्यामस्य जज्ञे कुरुः 01090041A कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम 01090041B तस्यामस्य जज्ञे विडूरथः 01090042A विडूरथस्तु मागधीमुपयेमे संप्रियां नाम 01090042B तस्यामस्य जज्ञेऽरुग्वान्नाम 01090043A अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम 01090043B तस्यामस्य जज्ञे परिक्षित् 01090044A परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम 01090044B तस्यामस्य जज्ञे भीमसेनः 01090045A भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम 01090045B तस्यामस्य जज्ञे पर्यश्रवाः 01090045C यमाहुः प्रतीपं नाम 01090046A प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम 01090046B तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति 01090047A देवापिः खलु बाल एवारण्यं प्रविवेश 01090047B शंतनुस्तु महीपालोऽभवत् 01090047C अत्रानुवंशो भवति 01090048a यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते 01090048c पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः 01090049A तदस्य शंतनुत्वम् 01090050A शंतनुः खलु गङ्गां भागीरथीमुपयेमे 01090050B तस्यामस्य जज्ञे देवव्रतः 01090050C यमाहुर्भीष्म इति 01090051A भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् 01090051B यामाहुर्गन्धकालीति 01090052A तस्यां कानीनो गर्भः पराशराद्द्वैपायनः 01090052B तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः 01090052C चित्राङ्गदो विचित्रवीर्यश्च 01090053A तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः 01090053B विचित्रवीर्यस्तु राजा समभवत् 01090054A विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे 01090055A विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः 01090056A ततः सत्यवती चिन्तयामास 01090056B दौःषन्तो वंश उच्छिद्यते इति 01090057A सा द्वैपायनमृषिं चिन्तयामास 01090058A स तस्याः पुरतः स्थितः किं करवाणीति 01090059A सा तमुवाच 01090059B भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः 01090059C साध्वपत्यं तस्योत्पादयेति 01090060A स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति 01090061A तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य 01090062A तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति 01090063A पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने 01090064A अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् 01090064B तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान 01090065A स बाणविद्ध उवाच पाण्डुम् 01090065B चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति 01090066A स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये 01090067A वाक्यं चोवाच 01090067B स्वचापल्यादिदं प्राप्तवानहम् 01090067C शृणोमि च नानपत्यस्य लोका सन्तीति 01090068A सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच 01090069A सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति 01090070A स तां हृष्टरूपः पाण्डुरुवाच 01090070B इयं ते सपत्न्यनपत्या 01090070C साध्वस्यामपत्यमुत्पाद्यतामिति 01090071A स एवमस्त्वित्युक्तः कुन्त्या 01090072A ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ 01090073A माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे 01090074A स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः 01090075A तत्रैनं चितास्थं माद्री समन्वारुरोह 01090076A उवाच कुन्तीम् 01090076B यमयोरार्ययाप्रमत्तया भवितव्यमिति 01090077A ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः 01090078A तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन 01090079A ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः 01090080A तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः 01090081A तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः 01090082A पुत्रांश्चोत्पादयामासुः 01090082B प्रतिविन्ध्यं युधिष्ठिरः 01090082C सुतसोमं वृकोदरः 01090082D श्रुतकीर्तिमर्जुनः 01090082E शतानीकं नकुलः 01090082F श्रुतकर्माणं सहदेव इति 01090083A युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे 01090083B तस्यां पुत्रं जनयामास यौधेयं नाम 01090084A भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् 01090084B तस्यां पुत्रं सर्वगं नामोत्पादयामास 01090085A अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् 01090085B तस्यां पुत्रमभिमन्युं नाम जनयामास 01090086A नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् 01090086B तस्यां पुत्रं निरमित्रं नामाजनयत् 01090087A सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे 01090087B तस्यां पुत्रमजनयत्सुहोत्रं नाम 01090088A भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास 01090089A इत्येते एकादश पाण्डवानां पुत्राः 01090090A विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे 01090090B तस्यामस्य परासुर्गर्भोऽजायत 01090091A तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य 01090091B षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति 01090092A संजीवयित्वा चैनमुवाच 01090092B परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति 01090093A परिक्षित्तु खलु माद्रवतीं नामोपयेमे 01090093B तस्यामस्य जनमेजयः 01090094A जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च 01090095A शतानीकस्तु खलु वैदेहीमुपयेमे 01090095B तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः 01090096a इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः 01090096c पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते 01091001 वैशंपायन उवाच 01091001a इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः 01091001c महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः 01091002a सोऽश्वमेधसहस्रेण वाजपेयशतेन च 01091002c तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः 01091003a ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः 01091003c तत्र राजर्षयो आसन्स च राजा महाभिषः 01091004a अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् 01091004c तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् 01091005a ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा 01091005c महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् 01091006a अपध्यातो भगवता ब्रह्मणा स महाभिषः 01091006c उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि 01091007a स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् 01091007c प्रतीपं रोचयामास पितरं भूरिवर्चसम् 01091008a महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् 01091008c तमेव मनसाध्यायमुपावर्तत्सरिद्वरा 01091009a सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः 01091009c ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः 01091010a तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा 01091010c किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् 01091011a तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि 01091011c अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना 01091012a विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् 01091012c संध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा 01091013a तेन कोपाद्वयं शप्ता योनौ संभवतेति ह 01091013c न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना 01091014a त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि 01091014c न मानुषीणां जठरं प्रविशेमाशुभं वयम् 01091015a इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् 01091015c मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति 01091016 वसव ऊचुः 01091016a प्रतीपस्य सुतो राजा शंतनुर्नाम धार्मिकः 01091016c भविता मानुषे लोके स नः कर्ता भविष्यति 01091017 गङ्गोवाच 01091017a ममाप्येवं मतं देवा यथावदत मानघाः 01091017c प्रियं तस्य करिष्यामि युष्माकं चैतदीप्सितम् 01091018 वसव ऊचुः 01091018a जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि 01091018c यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे 01091019 गङ्गोवाच 01091019a एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् 01091019c नास्य मोघः संगमः स्यात्पुत्रहेतोर्मया सह 01091020 वसव ऊचुः 01091020a तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् 01091020c तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः 01091021a न संपत्स्यति मर्त्येषु पुनस्तस्य तु संततिः 01091021c तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् 01091022 वैशंपायन उवाच 01091022a एवं ते समयं कृत्वा गङ्गया वसवः सह 01091022c जग्मुः प्रहृष्टमनसो यथासंकल्पमञ्जसा 01092001 वैशंपायन उवाच 01092001a ततः प्रतीपो राजा स सर्वभूतहिते रतः 01092001c निषसाद समा बह्वीर्गङ्गातीरगतो जपन् 01092002a तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी 01092002c उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः 01092003a अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी 01092003c दक्षिणं शालसंकाशमूरुं भेजे शुभानना 01092004a प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् 01092004c करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् 01092005 स्त्र्युवाच 01092005a त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् 01092005c त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः 01092006 प्रतीप उवाच 01092006a नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि 01092006c न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् 01092007 स्त्र्युवाच 01092007a नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् 01092007c भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् 01092008 प्रतीप उवाच 01092008a मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् 01092008c अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः 01092009a प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने 01092009c अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् 01092010a सव्यतः कामिनीभागस्त्वया स च विवर्जितः 01092010c तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने 01092011a स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् 01092011c स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता 01092012 स्त्र्युवाच 01092012a एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते 01092012c त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् 01092013a पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् 01092013c गुणा न हि मया शक्या वक्तुं वर्षशतैरपि 01092013e कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् 01092014a स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो 01092014c तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् 01092015a एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् 01092015c पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः 01092016 वैशंपायन उवाच 01092016a तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत 01092016c पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् 01092017a एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः 01092017c तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन 01092018a तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः 01092018c शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः 01092019a संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा 01092019c पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम 01092020a प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात् 01092020c पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव 01092021a त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी 01092021c कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया 01092021e सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने 01092022a यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ 01092022c मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् 01092023a एवं संदिश्य तनयं प्रतीपः शंतनुं तदा 01092023c स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह 01092024a स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः 01092024c बभूव मृगयाशीलः सततं वनगोचरः 01092025a स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः 01092025c गङ्गामनुचचारैकः सिद्धचारणसेविताम् 01092026a स कदाचिन्महाराज ददर्श परमस्त्रियम् 01092026c जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् 01092027a सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् 01092027c सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् 01092028a तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा 01092028c पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः 01092029a सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् 01092029c स्नेहादागतसौहार्दा नातृप्यत विलासिनी 01092030a तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा 01092030c देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः 01092031a यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे 01092031c या वा त्वं सुरगर्भाभे भार्या मे भव शोभने 01092032a एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च 01092032c वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता 01092033a उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा 01092033c भविष्यामि महीपाल महिषी ते वशानुगा 01092034a यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् 01092034c न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् 01092035a एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव 01092035c वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् 01092036a तथेति राज्ञा सा तूक्ता तदा भरतसत्तम 01092036c प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् 01092037a आसाद्य शंतनुस्तां च बुभुजे कामतो वशी 01092037c न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान् 01092038a स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च 01092038c उपचारेण च रहस्तुतोष जगतीपतिः 01092039a दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी 01092039c मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी 01092040a भाग्योपनतकामस्य भार्येवोपस्थिताभवत् 01092040c शंतनो राजसिंहस्य देवराजसमद्युतेः 01092041a संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः 01092041c राजानं रमयामास यथा रेमे तथैव सः 01092042a स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः 01092042c संवत्सरानृतून्मासान्न बुबोध बहून्गतान् 01092043a रममाणस्तया सार्धं यथाकामं जनेश्वरः 01092043c अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः 01092044a जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत 01092044c प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् 01092045a तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा 01092045c न च तां किंचनोवाच त्यागाद्भीतो महीपतिः 01092046a अथ तामष्टमे पुत्रे जाते प्रहसितामिव 01092046c उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः 01092047a मा वधीः कासि कस्यासि किं हिंससि सुतानिति 01092047c पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते 01092048 स्त्र्युवाच 01092048a पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर 01092048c जीर्णस्तु मम वासोऽयं यथा स समयः कृतः 01092049a अहं गङ्गा जह्नुसुता महर्षिगणसेविता 01092049c देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह 01092050a अष्टेमे वसवो देवा महाभागा महौजसः 01092050c वसिष्ठशापदोषेण मानुषत्वमुपागताः 01092051a तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते 01092051c मद्विधा मानुषी धात्री न चैवास्तीह काचन 01092052a तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता 01092052c जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः 01092053a देवानां समयस्त्वेष वसूनां संश्रुतो मया 01092053c जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति 01092054a तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः 01092054c स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् 01092055a एष पर्यायवासो मे वसूनां संनिधौ कृतः 01092055c मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् 01093001 शंतनुरुवाच 01093001a आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् 01093001c यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः 01093002a अनेन च कुमारेण गङ्गादत्तेन किं कृतम् 01093002c यस्य चैव कृतेनायं मानुषेषु निवत्स्यति 01093003a ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् 01093003c मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि 01093004 वैशंपायन उवाच 01093004a सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् 01093004c भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् 01093005a यं लेभे वरुणः पुत्रं पुरा भरतसत्तम 01093005c वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत 01093006a तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् 01093006c मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् 01093007a स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम 01093007c वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके 01093008a दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता 01093008c गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ 01093009a अनुग्रहार्थं जगतः सर्वकामदुघां वराम् 01093009c तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः 01093010a सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते 01093010c चचार रम्ये धर्म्ये च गौरपेतभया तदा 01093011a अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ 01093011c पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् 01093012a ते सदारा वनं तच्च व्यचरन्त समन्ततः 01093012c रेमिरे रमणीयेषु पर्वतेषु वनेषु च 01093013a तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम 01093013c सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा 01093013e या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा 01093014a सा विस्मयसमाविष्टा शीलद्रविणसंपदा 01093014c दिवे वै दर्शयामास तां गां गोवृषभेक्षण 01093015a स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् 01093015c उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च 01093016a एवंगुणसमायुक्तां वसवे वसुनन्दिनी 01093016c दर्शयामास राजेन्द्र पुरा पौरवनन्दन 01093017a द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम 01093017c उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् 01093018a एषा गौरुत्तमा देवि वारुणेरसितेक्षणे 01093018c ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् 01093019a अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे 01093019c दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः 01093020a एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा 01093020c तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् 01093021a अस्ति मे मानुषे लोके नरदेवात्मजा सखी 01093021c नाम्ना जिनवती नाम रूपयौवनशालिनी 01093022a उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः 01093022c दुहिता प्रथिता लोके मानुषे रूपसंपदा 01093023a तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् 01093023c आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन 01093024a यावदस्याः पयः पीत्वा सा सखी मम मानद 01093024c मानुषेषु भवत्वेका जरारोगविवर्जिता 01093025a एतन्मम महाभाग कर्तुमर्हस्यनिन्दित 01093025c प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन 01093026a एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया 01093026c पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् 01093027a तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप 01093027c ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् 01093027e हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः 01093028a अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः 01093028c न चापश्यत गां तत्र सवत्सां काननोत्तमे 01093029a ततः स मृगयामास वने तस्मिंस्तपोधनः 01093029c नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः 01093030a ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः 01093030c ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा 01093031a यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् 01093031c तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः 01093032a एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः 01093032c वशं कोपस्य संप्राप्त आपवो भरतर्षभ 01093033a शप्त्वा च तान्महाभागस्तपस्येव मनो दधे 01093033c एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः 01093033e महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः 01093034a अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः 01093034c शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः 01093035a प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ 01093035c न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् 01093035e आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् 01093036a उवाच च स धर्मात्मा सप्त यूयं धरादयः 01093036c अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ 01093037a अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति 01093037c द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा 01093038a नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् 01093038c न प्रजास्यति चाप्येष मानुषेषु महामनाः 01093039a भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः 01093039c पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति 01093039e एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः 01093040a ततो मामुपजग्मुस्ते समस्ता वसवस्तदा 01093040c अयाचन्त च मां राजन्वरं स च मया कृतः 01093040e जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि 01093041a एवं तेषामहं सम्यक्शप्तानां राजसत्तम 01093041c मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् 01093042a अयं शापादृषेस्तस्य एक एव नृपोत्तम 01093042c द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत 01093043a एतदाख्याय सा देवी तत्रैवान्तरधीयत 01093043c आदाय च कुमारं तं जगामाथ यथेप्सितम् 01093044a स तु देवव्रतो नाम गाङ्गेय इति चाभवत् 01093044c द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः 01093045a शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः 01093045c तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् 01093046a महाभाग्यं च नृपतेर्भारतस्य यशस्विनः 01093046c यस्येतिहासो द्युतिमान्महाभारतमुच्यते 01094001 वैशंपायन उवाच 01094001a स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः 01094001c धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः 01094002a दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् 01094002c नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे 01094003a एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः 01094003c आसीद्भरतवंशस्य गोप्ता साधुजनस्य च 01094004a कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः 01094004c धर्म एव परः कामादर्थाच्चेति व्यवस्थितः 01094005a एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ 01094005c न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् 01094006a वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् 01094006c तं महीपा महीपालं राजराज्येऽभ्यषेचयन् 01094007a वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः 01094007c प्रति भारतगोप्तारं समपद्यन्त भूमिपाः 01094008a शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा 01094008c नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत 01094009a ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः 01094009c ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः 01094010a स हास्तिनपुरे रम्ये कुरूणां पुटभेदने 01094010c वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम् 01094011a स देवराजसदृशो धर्मज्ञः सत्यवागृजुः 01094011c दानधर्मतपोयोगाच्छ्रिया परमया युतः 01094012a अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः 01094012c तेजसा सूर्यसंकाशो वायुवेगसमो जवे 01094012e अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः 01094013a वधः पशुवराहाणां तथैव मृगपक्षिणाम् 01094013c शंतनौ पृथिवीपाले नावर्तत वृथा नृप 01094014a धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान् 01094014c समं शशास भूतानि कामरागविवर्जितः 01094015a देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः 01094015c न चाधर्मेण केषांचित्प्राणिनामभवद्वधः 01094016a असुखानामनाथानां तिर्यग्योनिषु वर्तताम् 01094016c स एव राजा भूतानां सर्वेषामभवत्पिता 01094017a तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति 01094017c श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः 01094018a स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः 01094018c रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः 01094019a तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः 01094019c गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः 01094020a सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च 01094020c महाबलो महासत्त्वो महावीर्यो महारथः 01094021a स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् 01094021c भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः 01094022a तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः 01094022c स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा 01094023a ततो निमित्तमन्विच्छन्ददर्श स महामनाः 01094023c कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम् 01094024a दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् 01094024c कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् 01094025a तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके 01094025c अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् 01094026a जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा 01094026c नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् 01094027a स तु तं पितरं दृष्ट्वा मोहयामास मायया 01094027c संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत 01094028a तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः 01094028c शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह 01094029a दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् 01094029c गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम् 01094030a अलंकृतामाभरणैररजोम्बरधारिणीम् 01094030c दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः 01094031 गङ्गोवाच 01094031a यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः 01094031c स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् 01094032a वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् 01094032c कृतास्त्रः परमेष्वासो देवराजसमो युधि 01094033a सुराणां संमतो नित्यमसुराणां च भारत 01094033c उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः 01094034a तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः 01094034c यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् 01094034e तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि 01094035a ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् 01094035c यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् 01094036a महेष्वासमिमं राजन्राजधर्मार्थकोविदम् 01094036c मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय 01094037 वैशंपायन उवाच 01094037a तयैवं समनुज्ञातः पुत्रमादाय शंतनुः 01094037c भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति 01094038a पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् 01094038c सर्वकामसमृद्धार्थं मेने आत्मानमात्मना 01094038e पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् 01094039a पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः 01094039c राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ 01094040a स तथा सह पुत्रेण रममाणो महीपतिः 01094040c वर्तयामास वर्षाणि चत्वार्यमितविक्रमः 01094041a स कदाचिद्वनं यातो यमुनामभितो नदीम् 01094041c महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् 01094042a तस्य प्रभवमन्विच्छन्विचचार समन्ततः 01094042c स ददर्श तदा कन्यां दाशानां देवरूपिणीम् 01094043a तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् 01094043c कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि 01094044a साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् 01094044c पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः 01094045a रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् 01094045c समीक्ष्य राजा दाशेयीं कामयामास शंतनुः 01094046a स गत्वा पितरं तस्या वरयामास तां तदा 01094046c पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् 01094047a स च तं प्रत्युवाचेदं दाशराजो महीपतिम् 01094047c जातमात्रैव मे देया वराय वरवर्णिनी 01094047e हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर 01094048a यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ 01094048c सत्यवागसि सत्येन समयं कुरु मे ततः 01094049a समयेन प्रदद्यां ते कन्यामहमिमां नृप 01094049c न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति 01094050 शंतनुरुवाच 01094050a श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा 01094050c दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन 01094051 दाश उवाच 01094051a अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः 01094051c त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव 01094052 वैशंपायन उवाच 01094052a नाकामयत तं दातुं वरं दाशाय शंतनुः 01094052c शरीरजेन तीव्रेण दह्यमानोऽपि भारत 01094053a स चिन्तयन्नेव तदा दाशकन्यां महीपतिः 01094053c प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः 01094054a ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम् 01094054c पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् 01094055a सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः 01094055c तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः 01094055e ध्यायन्निव च किं राजन्नाभिभाषसि किंचन 01094056a एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत 01094056c असंशयं ध्यानपरं यथा मात्थ तथास्म्युत 01094057a अपत्यं नस्त्वमेवैकः कुले महति भारत 01094057c अनित्यता च मर्त्यानामतः शोचामि पुत्रक 01094058a कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् 01094058c असंशयं त्वमेवैकः शतादपि वरः सुतः 01094059a न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे 01094059c संतानस्याविनाशाय कामये भद्रमस्तु ते 01094059e अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः 01094060a अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः 01094060c सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् 01094061a एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि 01094061c यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः 01094061e एषा त्रयी पुराणानामुत्तमानां च शाश्वती 01094062a त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत 01094062c नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ 01094063a सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् 01094063c इति ते कारणं तात दुःखस्योक्तमशेषतः 01094064a ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः 01094064c देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् 01094065a अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् 01094065c तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् 01094066a तस्मै स कुरुमुख्याय यथावत्परिपृच्छते 01094066c वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ 01094067a ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा 01094067c अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् 01094068a तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च 01094068c अब्रवीच्चैनमासीनं राजसंसदि भारत 01094069a त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ 01094069c पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः 01094070a को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् 01094070c अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः 01094071a अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः 01094071c यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी 01094072a तेन मे बहुशस्तात पिता ते परिकीर्तितः 01094072c अर्हः सत्यवतीं वोढुं सर्वराजसु भारत 01094073a असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया 01094073c सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः 01094074a कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ 01094074c बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् 01094075a यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा 01094075c न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप 01094076a एतावानत्र दोषो हि नान्यः कश्चन पार्थिव 01094076c एतज्जानीहि भद्रं ते दानादाने परंतप 01094077a एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत 01094077c शृण्वतां भूमिपालानां पितुरर्थाय भारत 01094078a इदं मे मतमादत्स्व सत्यं सत्यवतां वर 01094078c नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् 01094079a एवमेतत्करिष्यामि यथा त्वमनुभाषसे 01094079c योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति 01094080a इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत 01094080c चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ 01094081a त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः 01094081c कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः 01094082a इदं तु वचनं सौम्य कार्यं चैव निबोध मे 01094082c कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम 01094083a यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण 01094083c राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् 01094084a नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन 01094084c तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् 01094085a तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः 01094085c प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया 01094086 देवव्रत उवाच 01094086a दाशराज निबोधेदं वचनं मे नृपोत्तम 01094086c शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते 01094087a राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप 01094087c अपत्यहेतोरपि च करोम्येष विनिश्चयम् 01094088a अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति 01094088c अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि 01094089 वैशंपायन उवाच 01094089a तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः 01094089c ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत 01094090a ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा 01094090c अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् 01094091a ततः स पितुरर्थाय तामुवाच यशस्विनीम् 01094091c अधिरोह रथं मातर्गच्छावः स्वगृहानिति 01094092a एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् 01094092c आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत् 01094093a तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः 01094093c समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् 01094094a तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः 01094094c स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् 01095001 वैशंपायन उवाच 01095001a ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः 01095001c तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत् 01095002a ततः शांतनवो धीमान्सत्यवत्यामजायत 01095002c वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति 01095003a अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः 01095003c विचित्रवीर्यं राजानं जनयामास वीर्यवान् 01095004a अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ 01095004c स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान् 01095005a स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम् 01095005c स्थापयामास वै राज्ये सत्यवत्या मते स्थितः 01095006a स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् 01095006c मनुष्यं न हि मेने स कंचित्सदृशमात्मनः 01095007a तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा 01095007c गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा 01095007e तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह 01095008a तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः 01095008c नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः 01095009a तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले 01095009c मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् 01095010a चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् 01095010c अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः 01095011a तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि 01095011c भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत् 01095012a विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् 01095012c कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् 01095013a विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः 01095013c अन्वशासन्महाराज पितृपैतामहं पदम् 01095014a स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः 01095014c पूजयामास धर्मेण स चैनं प्रत्यपालयत् 01096001 वैशंपायन उवाच 01096001a हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ 01096001c पालयामास तद्राज्यं सत्यवत्या मते स्थितः 01096002a संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् 01096002c भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् 01096003a अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः 01096003c शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् 01096004a ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् 01096004c जगामानुमते मातुः पुरीं वाराणसीं प्रति 01096005a तत्र राज्ञः समुदितान्सर्वतः समुपागतान् 01096005c ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः 01096006a कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः 01096006c भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः 01096007a उवाच च महीपालान्राजञ्जलदनिःस्वनः 01096007c रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः 01096008a आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः 01096008c अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि 01096009a प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि 01096009c वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च 01096010a प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते 01096010c अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् 01096011a स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च 01096011c प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः 01096012a ता इमाः पृथिवीपाला जिहीर्षामि बलादितः 01096012c ते यतध्वं परं शक्त्या विजयायेतराय वा 01096012e स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः 01096013a एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् 01096013c सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् 01096013e आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः 01096014a ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः 01096014c संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् 01096015a तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् 01096015c आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् 01096016a ताराणामिव संपातो बभूव जनमेजय 01096016c भूषणानां च शुभ्राणां कवचानां च सर्वशः 01096017a सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः 01096017c सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा 01096018a सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् 01096018c रथानास्थाय ते वीराः सर्वप्रहरणान्विताः 01096018e प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः 01096019a ततः समभवद्युद्धं तेषां तस्य च भारत 01096019c एकस्य च बहूनां च तुमुलं लोमहर्षणम् 01096020a ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् 01096020c अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् 01096021a ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् 01096021c ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः 01096022a स तद्बाणमयं वर्षं शरैरावार्य सर्वतः 01096022c ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः 01096023a तस्याति पुरुषानन्याँल्लाघवं रथचारिणः 01096023c रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् 01096024a तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः 01096024c कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति 01096025a ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः 01096025c अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे 01096026a वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा 01096026c वाशितामनुसंप्राप्तो यूथपो बलिनां वरः 01096027a स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः 01096027c शाल्वराजो महाबाहुरमर्षेणाभिचोदितः 01096028a ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः 01096028c तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् 01096029a क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः 01096029c निवर्तयामास रथं शाल्वं प्रति महारथः 01096030a निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते 01096030c प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे 01096031a तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे 01096031c अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ 01096032a ततो भीष्मं शांतनवं शरैः शतसहस्रशः 01096032c शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः 01096033a पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः 01096033c विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् 01096034a लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः 01096034c अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः 01096035a क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः 01096035c क्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत 01096036a सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः 01096036c यावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट् 01096037a ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः 01096037c तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप 01096038a अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः 01096038c भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् 01096038e अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् 01096039a कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदा 01096039c जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् 01096039e ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ 01096040a राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः 01096040c स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय 01096041a एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः 01096041c प्रययौ हास्तिनपुरं यत्र राजा स कौरवः 01096042a सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप 01096042c वनानि सरितश्चैव शैलांश्च विविधद्रुमान् 01096043a अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमः 01096043c आनयामास काश्यस्य सुताः सागरगासुतः 01096044a स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः 01096044c यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् 01096045a ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे 01096045c भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः 01096046a सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् 01096046c भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे 01096046e सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् 01096047a विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता 01096047c ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा 01096048a मया सौभपतिः पूर्वं मनसाभिवृतः पतिः 01096048c तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः 01096049a मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे 01096049c एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर 01096050a एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि 01096050c चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः 01096051a स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः 01096051c अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् 01096052a अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे 01096052c भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा 01096053a तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः 01096053c विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत 01096054a ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे 01096054c रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे 01096055a आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते 01096055c विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते 01096056a स चाश्विरूपसदृशो देवसत्त्वपराक्रमः 01096056c सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् 01096057a ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः 01096057c विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत 01096058a सुहृदां यतमानानामाप्तैः सह चिकित्सकैः 01096058c जगामास्तमिवादित्यः कौरव्यो यमसादनम् 01096059a प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् 01096059c राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः 01096059e ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः 01097001 वैशंपायन उवाच 01097001a ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी 01097001c पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत 01097002a धर्मं च पितृवंशं च मातृवंशं च मानिनी 01097002c प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् 01097003a शंतनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः 01097003c त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम् 01097004a यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् 01097004c यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः 01097005a वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च 01097005c विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः 01097006a व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये 01097006c प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव 01097007a तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर 01097007c कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि 01097008a मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते 01097008c बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ 01097009a इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे 01097009c रूपयौवनसंपन्ने पुत्रकामे च भारत 01097010a तयोरुत्पादयापत्यं संतानाय कुलस्य नः 01097010c मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि 01097011a राज्ये चैवाभिषिच्यस्व भारताननुशाधि च 01097011c दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् 01097012a तथोच्यमानो मात्रा च सुहृद्भिश्च परंतपः 01097012c प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः 01097013a असंशयं परो धर्मस्त्वया मातरुदाहृतः 01097013c त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् 01097014a जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे 01097014c स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः 01097015a परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः 01097015c यद्वाप्यधिकमेताभ्यां न तु सत्यं कथंचन 01097016a त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः 01097016c ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् 01097017a प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् 01097017c त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् 01097018a विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् 01097018c न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन 01097019a एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा 01097019c माता सत्यवती भीष्ममुवाच तदनन्तरम् 01097020a जानामि ते स्थितिं सत्ये परां सत्यपराक्रम 01097020c इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा 01097021a जानामि चैव सत्यं तन्मदर्थं यदभाषथाः 01097021c आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् 01097022a यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् 01097022c सुहृदश्च प्रहृष्येरंस्तथा कुरु परंतप 01097023a लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् 01097023c धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् 01097024a राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः 01097024c सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते 01097025a शंतनोरपि संतानं यथा स्यादक्षयं भुवि 01097025c तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् 01097026a श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः 01097026c आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च 01098001 भीष्म उवाच 01098001a जामदग्न्येन रामेण पितुर्वधममृष्यता 01098001c क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः 01098001e शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै 01098002a पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता 01098002c निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् 01098003a एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना 01098003c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा 01098004a ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः 01098004c उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः 01098005a पाणिग्राहस्य तनय इति वेदेषु निश्चितम् 01098005c धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः 01098005e लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः 01098006a अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा 01098006c ममता नाम तस्यासीद्भार्या परमसंमता 01098007a उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् 01098007c बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत 01098008a उवाच ममता तं तु देवरं वदतां वरम् 01098008c अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति 01098009a अयं च मे महाभाग कुक्षावेव बृहस्पते 01098009c औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत 01098010a अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि 01098010c तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि 01098011a एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः 01098011c कामात्मानं तदात्मानं न शशाक नियच्छितुम् 01098012a संबभूव ततः कामी तया सार्धमकामया 01098012c उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत 01098013a भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः 01098013c अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः 01098014a शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः 01098014c उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः 01098015a यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति 01098015c एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि 01098016a स वै दीर्घतमा नाम शापादृषिरजायत 01098016c बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा 01098017a स पुत्राञ्जनयामास गौतमादीन्महायशाः 01098017c ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये 01098018a लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः 01098018c काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् 01098019a न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते 01098019c चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् 01098020a सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः 01098020c जगाम सुबहून्देशानन्धस्तेनोडुपेन ह 01098021a तं तु राजा बलिर्नाम सर्वधर्मविशारदः 01098021c अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् 01098022a जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः 01098022c ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ 01098023a संतानार्थं महाभाग भार्यासु मम मानद 01098023c पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि 01098024a एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः 01098024c तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा 01098025a अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह 01098025c स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा 01098026a तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी 01098026c जनयामास धर्मात्मा पुत्रानेकादशैव तु 01098027a काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः 01098027c उवाच तमृषिं राजा ममैत इति वीर्यवान् 01098028a नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् 01098028c शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः 01098029a अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव 01098029c अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे 01098030a ततः प्रसादयामास पुनस्तमृषिसत्तमम् 01098030c बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः 01098031a तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् 01098031c भविष्यति कुमारस्ते तेजस्वी सत्यवागिति 01098032a तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत 01098032c एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि 01098033a जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः 01098033c एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् 01099001 भीष्म उवाच 01099001a पुनर्भरतवंशस्य हेतुं संतानवृद्धये 01099001c वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु 01099002a ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् 01099002c विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः 01099003 वैशंपायन उवाच 01099003a ततः सत्यवती भीष्मं वाचा संसज्जमानया 01099003c विहसन्तीव सव्रीडमिदं वचनमब्रवीत् 01099004a सत्यमेतन्महाबाहो यथा वदसि भारत 01099004c विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च 01099004e न ते शक्यमनाख्यातुमापद्धीयं तथाविधा 01099005a त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः 01099005c तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् 01099006a धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम 01099006c सा कदाचिदहं तत्र गता प्रथमयौवने 01099007a अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः 01099007c आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् 01099008a स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा 01099008c सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु 01099009a तमहं शापभीता च पितुर्भीता च भारत 01099009c वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे 01099010a अभिभूय स मां बालां तेजसा वशमानयत् 01099010c तमसा लोकमावृत्य नौगतामेव भारत 01099011a मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः 01099011c तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः 01099012a ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् 01099012c द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि 01099013a पाराशर्यो महायोगी स बभूव महानृषिः 01099013c कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः 01099014a यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः 01099014c लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च 01099015a सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः 01099015c स नियुक्तो मया व्यक्तं त्वया च अमितद्युते 01099015e भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति 01099016a स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति 01099016c तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि 01099017a तव ह्यनुमते भीष्म नियतं स महातपाः 01099017c विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति 01099018a महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् 01099018c धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति 01099019a अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् 01099019c कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् 01099019e यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् 01099020a तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः 01099020c उक्तं भवत्या यच्छ्रेयः परमं रोचते मम 01099021a ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन 01099021c कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् 01099022a स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् 01099022c प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन 01099023a तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् 01099023c परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च 01099023e मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् 01099024a तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च 01099024c मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् 01099025a भवत्या यदभिप्रेतं तदहं कर्तुमागतः 01099025c शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव 01099026a तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये 01099026c स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् 01099027a तमासनगतं माता पृष्ट्वा कुशलमव्ययम् 01099027c सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् 01099028a मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे 01099028c तेषां पिता यथा स्वामी तथा माता न संशयः 01099029a विधातृविहितः स त्वं यथा मे प्रथमः सुतः 01099029c विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः 01099030a यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः 01099030c भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे 01099031a अयं शांतनवः सत्यं पालयन्सत्यविक्रमः 01099031c बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने 01099032a स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च 01099032c भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ 01099033a अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च 01099033c आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि 01099034a यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे 01099034c रूपयौवनसंपन्ने पुत्रकामे च धर्मतः 01099035a तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक 01099035c अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च 01099036 व्यास उवाच 01099036a वेत्थ धर्मं सत्यवति परं चापरमेव च 01099036c यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः 01099037a तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् 01099037c ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् 01099038a भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् 01099038c व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया 01099039a संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः 01099039c न हि मामव्रतोपेता उपेयात्काचिदङ्गना 01099040 सत्यवत्युवाच 01099040a यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु 01099040c अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः 01099041a कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो 01099041c तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति 01099042 व्यास उवाच 01099042a यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् 01099042c विरूपतां मे सहतामेतदस्याः परं व्रतम् 01099043a यदि मे सहते गन्धं रूपं वेषं तथा वपुः 01099043c अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् 01099044 वैशंपायन उवाच 01099044a समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः 01099044c ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् 01099044e धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् 01099045a कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे 01099045c भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात् 01099046a व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् 01099046c भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये 01099047a सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह 01099047c नष्टं च भारतं वंशं पुनरेव समुद्धर 01099048a पुत्रं जनय सुश्रोणि देवराजसमप्रभम् 01099048c स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः 01099049a सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् 01099049c भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा 01100001 वैशंपायन उवाच 01100001a ततः सत्यवती काले वधूं स्नातामृतौ तदा 01100001c संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् 01100002a कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति 01100002c अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति 01100003a श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे 01100003c साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् 01100004a ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः 01100004c दीप्यमानेषु दीपेषु शयनं प्रविवेश ह 01100005a तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने 01100005c बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् 01100006a संबभूव तया रात्रौ मातुः प्रियचिकीर्षया 01100006c भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् 01100007a ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् 01100007c अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति 01100008a निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् 01100008c प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः 01100009a नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः 01100009c महाभागो महावीर्यो महाबुद्धिर्भविष्यति 01100010a तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः 01100010c किं तु मातुः स वैगुण्यादन्ध एव भविष्यति 01100011a तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् 01100011c नान्धः कुरूणां नृपतिरनुरूपस्तपोधन 01100012a ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् 01100012c द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि 01100013a स तथेति प्रतिज्ञाय निश्चक्राम महातपाः 01100013c सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् 01100014a पुनरेव तु सा देवी परिभाष्य स्नुषां ततः 01100014c ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता 01100015a ततस्तेनैव विधिना महर्षिस्तामपद्यत 01100015c अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् 01100015e विषण्णा पाण्डुसंकाशा समपद्यत भारत 01100016a तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव 01100016c व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् 01100017a यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि 01100017c तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति 01100018a नाम चास्य तदेवेह भविष्यति शुभानने 01100018c इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः 01100019a ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत 01100019c शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् 01100020a तं माता पुनरेवान्यमेकं पुत्रमयाचत 01100020c तथेति च महर्षिस्तां मातरं प्रत्यभाषत 01100021a ततः कुमारं सा देवी प्राप्तकालमजीजनत् 01100021c पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया 01100021e तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः 01100022a ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् 01100022c सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् 01100022e नाकरोद्वचनं देव्या भयात्सुरसुतोपमा 01100023a ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् 01100023c प्रेषयामास कृष्णाय ततः काशिपतेः सुता 01100024a दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च 01100024c संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह 01100025a कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः 01100025c तया सहोषितो रात्रिं महर्षिः प्रीयमाणया 01100026a उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि 01100026c अयं च ते शुभे गर्भः श्रीमानुदरमागतः 01100026e धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः 01100027a स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः 01100027c धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् 01100028a धर्मो विदुररूपेण शापात्तस्य महात्मनः 01100028c माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः 01100029a स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च 01100029c तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत 01100030a एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि 01100030c जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः 01101001 जनमेजय उवाच 01101001a किं कृतं कर्म धर्मेण येन शापमुपेयिवान् 01101001c कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत 01101002 वैशंपायन उवाच 01101002a बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः 01101002c धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः 01101003a स आश्रमपदद्वारि वृक्षमूले महातपाः 01101003c ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः 01101004a तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः 01101004c तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः 01101004e अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ 01101005a ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम 01101005c निधाय च भयाल्लीनास्तत्रैवान्वागते बले 01101006a तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् 01101006c आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः 01101007a तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् 01101007c कतरेण पथा याता दस्यवो द्विजसत्तम 01101007e तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् 01101008a तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः 01101008c न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा 01101009a ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् 01101009c ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च 01101010a ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति 01101010c संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् 01101011a तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति 01101011c स वध्यघातैरज्ञातः शूले प्रोतो महातपाः 01101012a ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा 01101012c प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ 01101013a शूलस्थः स तु धर्मात्मा कालेन महता ततः 01101013c निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् 01101013e धारयामास च प्राणानृषींश्च समुपानयत् 01101014a शूलाग्रे तप्यमानेन तपस्तेन महात्मना 01101014c संतापं परमं जग्मुर्मुनयोऽथ परंतप 01101015a ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः 01101015c दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् 01101015e श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि 01101016a ततः स मुनिशार्दूलस्तानुवाच तपोधनान् 01101016c दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति 01101017a राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः 01101017c प्रसादयामास तदा शूलस्थमृषिसत्तमम् 01101018a यन्मयापकृतं मोहादज्ञानादृषिसत्तम 01101018c प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि 01101019a एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः 01101019c कृतप्रसादो राजा तं ततः समवतारयत् 01101020a अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह 01101020c अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे 01101021a स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः 01101021c स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः 01101021e अणीमाण्डव्य इति च ततो लोकेषु कथ्यते 01101022a स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् 01101022c आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः 01101023a किं नु तद्दुष्कृतं कर्म मया कृतमजानता 01101023c यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया 01101023e शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् 01101024 धर्म उवाच 01101024a पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता 01101024c कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन 01101025 अणीमाण्डव्य उवाच 01101025a अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः 01101025c शूद्रयोनावतो धर्म मानुषः संभविष्यसि 01101026a मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् 01101026c आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् 01101026e परेण कुर्वतामेवं दोष एव भविष्यति 01101027 वैशंपायन उवाच 01101027a एतेन त्वपराधेन शापात्तस्य महात्मनः 01101027c धर्मो विदुररूपेण शूद्रयोनावजायत 01101028a धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः 01101028c दीर्घदर्शी शमपरः कुरूणां च हिते रतः 01102001 वैशंपायन उवाच 01102001a तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् 01102001c कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत 01102002a ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च 01102002c यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः 01102003a वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः 01102003c गन्धवन्ति च माल्यानि रसवन्ति फलानि च 01102004a वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः 01102004c शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् 01102005a नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः 01102005c प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत 01102006a दानक्रियाधर्मशीला यज्ञव्रतपरायणाः 01102006c अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा 01102007a मानक्रोधविहीनाश्च जना लोभविवर्जिताः 01102007c अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत 01102008a तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत 01102008c द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः 01102008e प्रासादशतसंबाधं महेन्द्रपुरसंनिभम् 01102009a नदीषु वनखण्डेषु वापीपल्वलसानुषु 01102009c काननेषु च रम्येषु विजह्रुर्मुदिता जनाः 01102010a उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा 01102010c विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः 01102010e नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः 01102011a तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः 01102011c कूपारामसभावाप्यो ब्राह्मणावसथास्तथा 01102011e भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते 01102012a बभूव रमणीयश्च चैत्ययूपशताङ्कितः 01102012c स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः 01102012e भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत 01102013a क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् 01102013c पौरजानपदाः सर्वे बभूवुः सततोत्सवाः 01102014a गृहेषु कुरुमुख्यानां पौराणां च नराधिप 01102014c दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः 01102015a धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः 01102015c जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः 01102016a संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः 01102016c श्रमव्यायामकुशलाः समपद्यन्त यौवनम् 01102017a धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि 01102017c तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः 01102018a इतिहासपुराणेषु नानाशिक्षासु चाभिभो 01102018c वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः 01102019a पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् 01102019c अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः 01102020a त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः 01102020c धर्मनित्यस्ततो राजन्धर्मे च परमं गतः 01102021a प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम् 01102021c ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत 01102022a वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् 01102022c सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् 01102023a धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत 01102023c करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः 01103001 भीष्म उवाच 01103001a गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् 01103001c अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् 01103002a रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः 01103002c नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् 01103003a मया च सत्यवत्या च कृष्णेन च महात्मना 01103003c समवस्थापितं भूयो युष्मासु कुलतन्तुषु 01103004a वर्धते तदिदं पुत्र कुलं सागरवद्यथा 01103004c तथा मया विधातव्यं त्वया चैव विशेषतः 01103005a श्रूयते यादवी कन्या अनुरूपा कुलस्य नः 01103005c सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च 01103006a कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः 01103006c उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः 01103007a मन्ये वरयितव्यास्ता इत्यहं धीमतां वर 01103007c संतानार्थं कुलस्यास्य यद्वा विदुर मन्यसे 01103008 विदुर उवाच 01103008a भवान्पिता भवान्माता भवान्नः परमो गुरुः 01103008c तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् 01103009 वैशंपायन उवाच 01103009a अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् 01103009c आराध्य वरदं देवं भगनेत्रहरं हरम् 01103009e गान्धारी किल पुत्राणां शतं लेभे वरं शुभा 01103010a इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः 01103010c ततो गान्धारराजस्य प्रेषयामास भारत 01103011a अचक्षुरिति तत्रासीत्सुबलस्य विचारणा 01103011c कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः 01103011e ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् 01103012a गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् 01103012c आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत 01103013a ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा 01103013c बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा 01103013e नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया 01103014a ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् 01103014c स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् 01103015a दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् 01103015c पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः 01103016a गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः 01103016c तुष्टिं कुरूणां सर्वेषां जनयामास भारत 01103017a वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा 01103017c वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् 01104001 वैशंपायन उवाच 01104001a शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् 01104001c तस्य कन्या पृथा नाम रूपेणासदृशी भुवि 01104002a पैतृष्वसेयाय स तामनपत्याय वीर्यवान् 01104002c अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् 01104003a अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे 01104003c प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने 01104004a सा नियुक्ता पितुर्गेहे देवतातिथिपूजने 01104004c उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् 01104005a निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 01104005c तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् 01104006a तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया 01104006c अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः 01104007a यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 01104007c तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति 01104008a तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा 01104008c कन्या सती देवमर्कमाजुहाव यशस्विनी 01104009a सा ददर्श तमायान्तं भास्करं लोकभावनम् 01104009c विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् 01104010a प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः 01104010c अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् 01104010e आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः 01104011a सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 01104011c अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः 01104012a प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः 01104012c दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः 01104013a गूहमानापचारं तं बन्धुपक्षभयात्तदा 01104013c उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् 01104014a तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः 01104014c पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः 01104015a नामधेयं च चक्राते तस्य बालस्य तावुभौ 01104015c वसुना सह जातोऽयं वसुषेणो भवत्विति 01104016a स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् 01104016c आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् 01104017a यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः 01104017c नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः 01104018a तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः 01104018c कुण्डले प्रार्थयामास कवचं च महाद्युतिः 01104019a उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् 01104019c कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः 01104020a शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् 01104020c देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् 01104020e यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति 01104021a पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् 01104021c ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् 01105001 वैशंपायन उवाच 01105001a रूपसत्त्वगुणोपेता धर्मारामा महाव्रता 01105001c दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे 01105002a सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् 01105002c भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत 01105003a स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः 01105003c युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव 01105004a यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् 01105004c विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता 01105005a सर्वराजसु विख्याता रूपेणासदृशी भुवि 01105005c पाण्डोरर्थे परिक्रीता धनेन महता तदा 01105005e विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः 01105006a सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् 01105006c पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि 01105007a कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः 01105007c जिगीषमाणो वसुधां ययौ शत्रूननेकशः 01105008a पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः 01105008c पाण्डुना नरसिंहेन कौरवाणां यशोभृता 01105009a ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् 01105009c प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् 01105010a आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् 01105010c गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः 01105011a ततः कोशं समादाय वाहनानि बलानि च 01105011c पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः 01105012a तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ 01105012c स्वबाहुबलवीर्येण कुरूणामकरोद्यशः 01105013a तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् 01105013c पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः 01105014a ते ससेनाः ससेनेन विध्वंसितबला नृपाः 01105014c पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः 01105015a तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः 01105015c तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् 01105016a तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः 01105016c उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च 01105017a मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा 01105017c गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् 01105018a खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् 01105018c तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः 01105019a तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः 01105019c हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् 01105020a शंतनो राजसिंहस्य भरतस्य च धीमतः 01105020c प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः 01105021a ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च 01105021c ते नागपुरसिंहेन पाण्डुना करदाः कृताः 01105022a इत्यभाषन्त राजानो राजामात्याश्च संगताः 01105022c प्रतीतमनसो हृष्टाः पौरजानपदैः सह 01105023a प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः 01105023c ते नदूरमिवाध्वानं गत्वा नागपुरालयाः 01105023e आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः 01105024a नानायानसमानीतै रत्नैरुच्चावचैस्तथा 01105024c हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः 01105024e नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः 01105025a सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः 01105025c यथार्हं मानयामास पौरजानपदानपि 01105026a प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् 01105026c पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् 01105027a स तूर्यशतसंघानां भेरीणां च महास्वनैः 01105027c हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् 01106001 वैशंपायन उवाच 01106001a धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् 01106001c भीष्माय सत्यवत्यै च मात्रे चोपजहार सः 01106002a विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् 01106002c सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् 01106003a ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् 01106003c शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत 01106004a ननन्द माता कौसल्या तमप्रतिमतेजसम् 01106004c जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् 01106005a तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः 01106005c अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः 01106006a संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ 01106006c जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः 01106007a हित्वा प्रासादनिलयं शुभानि शयनानि च 01106007c अरण्यनित्यः सततं बभूव मृगयापरः 01106008a स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः 01106008c उवास गिरिपृष्ठेषु महाशालवनेषु च 01106009a रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् 01106009c करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः 01106010a भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् 01106010c विचित्रकवचं वीरं परमास्त्रविदं नृपम् 01106010e देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः 01106011a तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः 01106011c उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः 01106012a अथ पारशवीं कन्यां देवकस्य महीपतेः 01106012c रूपयौवनसंपन्नां स शुश्रावापगासुतः 01106013a ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः 01106013c विवाहं कारयामास विदुरस्य महामतेः 01106014a तस्यां चोत्पादयामास विदुरः कुरुनन्दनः 01106014c पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः 01107001 वैशंपायन उवाच 01107001a ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय 01107001c धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः 01107002a पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः 01107002c देवेभ्यः समपद्यन्त संतानाय कुलस्य वै 01107003 जनमेजय उवाच 01107003a कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम 01107003c कियता चैव कालेन तेषामायुश्च किं परम् 01107004a कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् 01107004c कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् 01107004e आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत 01107005a कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना 01107005c समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः 01107006a एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन 01107006c कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु 01107007 वैशंपायन उवाच 01107007a क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् 01107007c तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ 01107008a सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः 01107008c ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् 01107009a संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् 01107009c अप्रजा धारयामास ततस्तां दुःखमाविशत् 01107010a श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् 01107010c उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् 01107011a अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः 01107011c सोदरं पातयामास गान्धारी दुःखमूर्च्छिता 01107012a ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता 01107012c द्विवर्षसंभृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे 01107013a अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् 01107013c तां स मांसमयीं पेशीं ददर्श जपतां वरः 01107014a ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् 01107014c सा चात्मनो मतं सत्यं शशंस परमर्षये 01107015a ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् 01107015c दुःखेन परमेणेदमुदरं पातितं मया 01107016a शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा 01107016c इयं च मे मांसपेशी जाता पुत्रशताय वै 01107017 व्यास उवाच 01107017a एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् 01107017c वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा 01107018a घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् 01107018c शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत 01107019 वैशंपायन उवाच 01107019a सा सिच्यमाना अष्ठीला अभवच्छतधा तदा 01107019c अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु 01107020a एकाधिकशतं पूर्णं यथायोगं विशां पते 01107020c मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् 01107021a ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा 01107021c स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः 01107022a शशास चैव भगवान्कालेनैतावता पुनः 01107022c विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् 01107023a इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च 01107023c जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् 01107024a जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः 01107024c जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः 01107025a जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् 01107025c समानीय बहून्विप्रान्भीष्मं विदुरमेव च 01107026a युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः 01107026c प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः 01107027a अयं त्वनन्तरस्तस्मादपि राजा भविष्यति 01107027c एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् 01107028a वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत 01107028c क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः 01107029a लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः 01107029c तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः 01107030a व्यक्तं कुलान्तकरणो भवितैष सुतस्तव 01107030c तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् 01107031a शतमेकोनमप्यस्तु पुत्राणां ते महीपते 01107031c एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च 01107032a त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् 01107032c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 01107033a स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः 01107033c न चकार तथा राजा पुत्रस्नेहसमन्वितः 01107034a ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव 01107034c मासमात्रेण संजज्ञे कन्या चैका शताधिका 01107035a गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता 01107035c धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल 01107036a तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः 01107036c जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप 01107037a एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः 01107037c महारथानां वीराणां कन्या चैकाथ दुःशला 01108001 जनमेजय उवाच 01108001a ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो 01108001c धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय 01108002 वैशंपायन उवाच 01108002a दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा 01108002c दुःसहो दुःशलश्चैव जलसंधः समः सहः 01108003a विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः 01108003c दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च 01108004a विविंशतिर्विकर्णश्च जलसंधः सुलोचनः 01108004c चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः 01108005a दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः 01108005c ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ 01108006a सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ 01108006c चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः 01108007a अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः 01108007c भीमवेगो भीमबलो बलाकी बलवर्धनः 01108008a उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः 01108008c दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः 01108009a दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् 01108009c उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः 01108010a अपराजितः पण्डितको विशालाक्षो दुरावरः 01108010c दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ 01108011a आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ 01108011c कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः 01108012a उग्रो भीमरथो वीरो वीरबाहुरलोलुपः 01108012c अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः 01108013a अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः 01108013c दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः 01108014a कुण्डाशी विरजाश्चैव दुःशला च शताधिका 01108014c एतदेकशतं राजन्कन्या चैका प्रकीर्तिता 01108015a नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप 01108015c सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः 01108016a सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः 01108016c सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः 01108017a सर्वेषामनुरूपाश्च कृता दारा महीपते 01108017c धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा 01108018a दुःशलां समये राजा सिन्धुराजाय भारत 01108018c जयद्रथाय प्रददौ सौबलानुमते तदा 01109001 जनमेजय उवाच 01109001a कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः 01109001c अमानुषो मानुषाणां भवता ब्रह्मवित्तम 01109002a नामधेयानि चाप्येषां कथ्यमानानि भागशः 01109002c त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय 01109003a ते हि सर्वे महात्मानो देवराजपराक्रमाः 01109003c त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः 01109004a तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् 01109004c तेषामाजननं सर्वं वैशंपायन कीर्तय 01109005 वैशंपायन उवाच 01109005a राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते 01109005c वने मैथुनकालस्थं ददर्श मृगयूथपम् 01109006a ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः 01109006c निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः 01109007a स च राजन्महातेजा ऋषिपुत्रस्तपोधनः 01109007c भार्यया सह तेजस्वी मृगरूपेण संगतः 01109008a संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् 01109008c क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः 01109009 मृग उवाच 01109009a काममन्युपरीतापि बुद्ध्यङ्गरहितापि च 01109009c वर्जयन्ति नृशंसानि पापेष्वभिरता नराः 01109010a न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः 01109010c विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते 01109011a शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत 01109011c कामलोभाभिभूतस्य कथं ते चलिता मतिः 01109012 पाण्डुरुवाच 01109012a शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता 01109012c राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि 01109013a अच्छद्मनामायया च मृगाणां वध इष्यते 01109013c स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे 01109014a अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः 01109014c आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने 01109015a प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे 01109015c अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता 01109016 मृग उवाच 01109016a न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् 01109016c रन्ध्र एषां विशेषेण वधकालः प्रशस्यते 01109017 पाण्डुरुवाच 01109017a प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा 01109017c उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे 01109018 मृग उवाच 01109018a नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् 01109018c मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः 01109019a सर्वभूतहिते काले सर्वभूतेप्सिते तथा 01109019c को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने 01109019e पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् 01109020a पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् 01109020c वंशे जातस्य कौरव्य नानुरूपमिदं तव 01109021a नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् 01109021c अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत 01109022a स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् 01109022c नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम् 01109023a त्वया नृशंसकर्तारः पापाचाराश्च मानवाः 01109023c निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः 01109024a किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् 01109024c मुनिं मूलफलाहारं मृगवेषधरं नृप 01109024e वसमानमरण्येषु नित्यं शमपरायणम् 01109025a त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् 01109025c द्वयोर्नृशंसकर्तारमवशं काममोहितम् 01109025e जीवितान्तकरो भाव एवमेवागमिष्यति 01109026a अहं हि किंदमो नाम तपसाप्रतिमो मुनिः 01109026c व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् 01109027a मृगो भूत्वा मृगैः सार्धं चरामि गहने वने 01109027c न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः 01109027e मृगरूपधरं हत्वा मामेवं काममोहितम् 01109028a अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि 01109028c प्रियया सह संवासं प्राप्य कामविमोहितः 01109028e त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि 01109029a अन्तकाले च संवासं यया गन्तासि कान्तया 01109029c प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् 01109029e भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति 01109030a वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया 01109030c तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति 01109031 वैशंपायन उवाच 01109031a एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत 01109031c मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत 01110001 वैशंपायन उवाच 01110001a तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् 01110001c सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः 01110002 पाण्डुरुवाच 01110002a सतामपि कुले जाताः कर्मणा बत दुर्गतिम् 01110002c प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः 01110003a शश्वद्धर्मात्मना जातो बाल एव पिता मम 01110003c जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् 01110004a तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः 01110004c कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् 01110005a तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा 01110005c त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः 01110006a मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् 01110006c सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् 01110006e अतीव तपसात्मानं योजयिष्याम्यसंशयम् 01110007a तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ 01110007c चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् 01110008a पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः 01110008c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 01110009a न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः 01110009c निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः 01110010a न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् 01110010c प्रसन्नवदनो नित्यं सर्वभूतहिते रतः 01110011a जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् 01110011c स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति 01110012a एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च 01110012c असंभवे वा भैक्षस्य चरन्ननशनान्यपि 01110013a अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् 01110013c नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् 01110014a वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः 01110014c नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः 01110015a न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् 01110015c मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् 01110016a याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः 01110016c ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः 01110017a तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः 01110017c संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः 01110018a निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः 01110018c न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः 01110019a एतया सततं वृत्त्या चरन्नेवंप्रकारया 01110019c देहं संधारयिष्यामि निर्भयं मार्गमास्थितः 01110020a नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते 01110020c स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः 01110021a सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा 01110021c उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि 01110022 वैशंपायन उवाच 01110022a एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः 01110022c अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत 01110023a कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः 01110023c आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः 01110024a ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः 01110024c पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः 01110024e प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् 01110025a निशम्य वचनं भर्तुर्वनवासे धृतात्मनः 01110025c तत्समं वचनं कुन्ती माद्री च समभाषताम् 01110026a अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ 01110026c आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् 01110026e त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः 01110027a प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे 01110027c त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः 01110028a यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते 01110028c अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः 01110029 पाण्डुरुवाच 01110029a यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् 01110029c स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् 01110030a त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः 01110030c वल्कली फलमूलाशी चरिष्यामि महावने 01110031a अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् 01110031c कृशः परिमिताहारश्चीरचर्मजटाधरः 01110032a शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः 01110032c तपसा दुश्चरेणेदं शरीरमुपशोषयन् 01110033a एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् 01110033c पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् 01110034a वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् 01110034c नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् 01110035a एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् 01110035c काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् 01110036 वैशंपायन उवाच 01110036a इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः 01110036c ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च 01110036e वासांसि च महार्हाणि स्त्रीणामाभरणानि च 01110037a प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत 01110037c गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् 01110038a अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् 01110038c प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः 01110039a ततस्तस्यानुयात्राणि ते चैव परिचारकाः 01110039c श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः 01110039e भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः 01110040a उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् 01110040c ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः 01110041a श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने 01110041c धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत 01110042a राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः 01110042c जगाम सह भार्याभ्यां ततो नागसभं गिरिम् 01110043a स चैत्ररथमासाद्य वारिषेणमतीत्य च 01110043c हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् 01110044a रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः 01110044c उवास स तदा राजा समेषु विषमेषु च 01110045a इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च 01110045c शतशृङ्गे महाराज तापसः समपद्यत 01111001 वैशंपायन उवाच 01111001a तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् 01111001c सिद्धचारणसंघानां बभूव प्रियदर्शनः 01111002a शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः 01111002c स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत 01111003a केषांचिदभवद्भ्राता केषांचिदभवत्सखा 01111003c ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् 01111004a स तु कालेन महता प्राप्य निष्कल्मषं तपः 01111004c ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ 01111005a स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः 01111005c प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः 01111005e उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः 01111006a दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् 01111006c आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा 01111007a उद्यानानि कुबेरस्य समानि विषमाणि च 01111007c महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् 01111008a सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः 01111008c सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः 01111009a अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः 01111009c वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः 01111010a गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे 01111010c न सीदेतामदुःखार्हे मा गमो भरतर्षभ 01111011 पाण्डुरुवाच 01111011a अप्रजस्य महाभागा न द्वारं परिचक्षते 01111011c स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः 01111012a ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि 01111012c पितृदेवर्षिमनुजदेयैः शतसहस्रशः 01111013a एतानि तु यथाकालं यो न बुध्यति मानवः 01111013c न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् 01111014a यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् 01111014c पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् 01111015a ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः 01111015c पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः 01111016a देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः 01111016c इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः 01111017a यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना 01111017c तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा 01111018 तापसा ऊचुः 01111018a अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् 01111018c अपत्यमनघं राजन्वयं दिव्येन चक्षुषा 01111019a दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय 01111019c अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः 01111020a तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि 01111020c अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि 01111021 वैशंपायन उवाच 01111021a तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् 01111021c आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् 01111022a सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् 01111022c अपत्योत्पादने योगमापदि प्रसमर्थयन् 01111023a अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता 01111023c इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः 01111024a इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः 01111024c सर्वमेवानपत्यस्य न पावनमिहोच्यते 01111025a सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते 01111025c अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् 01111026a मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः 01111026c नृशंसकारिणो भीरु यथैवोपहतं तथा 01111027a इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने 01111027c षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे 01111028a स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः 01111028c पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते 01111029a दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः 01111029c सहोढो जातरेताश्च हीनयोनिधृतश्च यः 01111030a पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् 01111030c उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि 01111031a अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः 01111031c आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् 01111032a तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् 01111032c सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि 01111033a शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति 01111033c या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि 01111034a पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे 01111034c वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् 01111035a कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् 01111035c तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् 01111036a तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् 01111036c मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति 01112001 वैशंपायन उवाच 01112001a एवमुक्ता महाराज कुन्ती पाण्डुमभाषत 01112001c कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् 01112002a न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन 01112002c धर्मपत्नीमभिरतां त्वयि राजीवलोचन 01112003a त्वमेव तु महाबाहो मय्यपत्यानि भारत 01112003c वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि 01112004a स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया 01112004c अपत्याय च मां गच्छ त्वमेव कुरुनन्दन 01112005a न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् 01112005c त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः 01112006a इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् 01112006c परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् 01112007a व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः 01112007c पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः 01112008a तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि 01112008c उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः 01112009a अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 01112009c व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः 01112010a व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत 01112010c सर्वभूतान्यति यथा तपनः शिशिरात्यये 01112011a स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः 01112011c प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् 01112012a अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् 01112012c बभूव स हि राजेन्द्रो दशनागबलान्वितः 01112013a अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः 01112013c व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् 01112013e अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् 01112014a यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् 01112014c अनन्तरत्नान्यादाय आजहार महाक्रतून् 01112014e सुषाव च बहून्सोमान्सोमसंस्थास्ततान च 01112015a आसीत्काक्षीवती चास्य भार्या परमसंमता 01112015c भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि 01112016a कामयामासतुस्तौ तु परस्परमिति श्रुतिः 01112016c स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत 01112017a तेनाचिरेण कालेन जगामास्तमिवांशुमान् 01112017c तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता 01112018a अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् 01112018c भद्रा परमदुःखार्ता तन्निबोध नराधिप 01112019a नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता 01112019c पतिं विना जीवति या न सा जीवति दुःखिता 01112020a पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव 01112020c त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् 01112021a त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे 01112021c प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् 01112022a पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च 01112022c त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् 01112023a छायेवानपगा राजन्सततं वशवर्तिनी 01112023c भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता 01112024a अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः 01112024c आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण 01112025a अभाग्यया मया नूनं वियुक्ताः सहचारिणः 01112025c संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव 01112026a तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् 01112026c दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् 01112027a अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी 01112027c भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा 01112028a दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् 01112028c दीनामनाथां कृपणां विलपन्तीं नरेश्वर 01112029a एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः 01112029c तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत् 01112030a उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव 01112030c जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि 01112031a आत्मीये च वरारोहे शयनीये चतुर्दशीम् 01112031c अष्टमीं वा ऋतुस्नाता संविशेथा मया सह 01112032a एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता 01112032c यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा 01112033a सा तेन सुषुवे देवी शवेन मनुजाधिप 01112033c त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम 01112034a तथा त्वमपि मय्येव मनसा भरतर्षभ 01112034c शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् 01113001 वैशंपायन उवाच 01113001a एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् 01113001c धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् 01113002a एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह 01113002c यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः 01113003a अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे 01113003c पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः 01113004a अनावृताः किल पुरा स्त्रिय आसन्वरानने 01113004c कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने 01113005a तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् 01113005c नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् 01113006a तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः 01113006c अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः 01113006e पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः 01113007a उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते 01113007c स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः 01113008a अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते 01113008c स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु 01113009a बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् 01113009c श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः 01113010a मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् 01113010c कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे 01113011a श्वेतकेतोः किल पुरा समक्षं मातरं पितुः 01113011c जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् 01113012a ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा 01113012c मातरं तां तथा दृष्ट्वा नीयमानां बलादिव 01113013a क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह 01113013c मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः 01113014a अनावृता हि सर्वेषां वर्णानामङ्गना भुवि 01113014c यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः 01113015a ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे 01113015c चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि 01113016a मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु 01113016c तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् 01113017a व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् 01113017c भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् 01113018a भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् 01113018c पतिव्रतामेतदेव भविता पातकं भुवि 01113019a पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च 01113019c न करिष्यति तस्याश्च भविष्यत्येतदेव हि 01113020a इति तेन पुरा भीरु मर्यादा स्थापिता बलात् 01113020c उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना 01113021a सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि 01113021c मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् 01113022a तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी 01113022c भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया 01113023a अस्माकमपि ते जन्म विदितं कमलेक्षणे 01113023c कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये 01113024a अत एतानि सर्वाणि कारणानि समीक्ष्य वै 01113024c ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते 01113025a ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते 01113025c नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः 01113026a शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति 01113026c धर्ममेतं जनाः सन्तः पुराणं परिचक्षते 01113027a भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा 01113027c यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः 01113028a विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् 01113028c यथाहमनवद्याङ्गि पुत्रदर्शनलालसः 01113029a तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे 01113029c प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः 01113030a मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् 01113030c पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि 01113030e त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् 01113031a एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम् 01113031c प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता 01113032a पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने 01113032c उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् 01113033a निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः 01113033c तमहं संशितात्मानं सर्वयत्नैरतोषयम् 01113034a स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् 01113034c मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् 01113035a यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 01113035c अकामो वा सकामो वा स ते वशमुपैष्यति 01113036a इत्युक्ताहं तदा तेन पितृवेश्मनि भारत 01113036c ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः 01113037a अनुज्ञाता त्वया देवमाह्वयेयमहं नृप 01113037c तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो 01113038a आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर 01113038c त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् 01113039 पाण्डुरुवाच 01113039a अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि 01113039c धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् 01113040a अधर्मेण न नो धर्मः संयुज्येत कथंचन 01113040c लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते 01113041a धार्मिकश्च कुरूणां स भविष्यति न संशयः 01113041c दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः 01113042a तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते 01113042c उपचाराभिचाराभ्यां धर्ममाराधयस्व वै 01113043 वैशंपायन उवाच 01113043a सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना 01113043c अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत 01114001 वैशंपायन उवाच 01114001a संवत्सराहिते गर्भे गान्धार्या जनमेजय 01114001c आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् 01114002a सा बलिं त्वरिता देवी धर्मायोपजहार ह 01114002c जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा 01114003a संगम्य सा तु धर्मेण योगमूर्तिधरेण वै 01114003c लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् 01114004a ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे 01114004c दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते 01114005a समृद्धयशसं कुन्ती सुषाव समये सुतम् 01114005c जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी 01114006a एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः 01114006c युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः 01114007a भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः 01114007c यशसा तेजसा चैव वृत्तेन च समन्वितः 01114008a धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् 01114008c प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु 01114009a ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा 01114009c तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः 01114010a तमप्यतिबलं जातं वागभ्यवददच्युतम् 01114010c सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत 01114011a इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे 01114011c यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् 01114012a कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल 01114012c नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् 01114013a ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ 01114013c पतता तेन शतधा शिला गात्रैर्विचूर्णिता 01114013e तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् 01114014a यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम 01114014c दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप 01114015a जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् 01114015c कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति 01114016a दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः 01114016c तत्र दैवं तु विधिना कालयुक्तेन लभ्यते 01114017a इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् 01114017c अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः 01114018a तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् 01114018c यं दास्यति स मे पुत्रं स वरीयान्भविष्यति 01114018e कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः 01114019a ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः 01114019c दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् 01114020a आत्मना च महाबाहुरेकपादस्थितोऽभवत् 01114020c उग्रं स तप आतस्थे परमेण समाधिना 01114021a आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् 01114021c सूर्येण सह धर्मात्मा पर्यवर्तत भारत 01114022a तं तु कालेन महता वासवः प्रत्यभाषत 01114022c पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् 01114023a देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् 01114023c सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् 01114024a इत्युक्तः कौरवो राजा वासवेन महात्मना 01114024c उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् 01114025a नीतिमन्तं महात्मानमादित्यसमतेजसम् 01114025c दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् 01114026a पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् 01114026c लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते 01114027a एवमुक्ता ततः शक्रमाजुहाव यशस्विनी 01114027c अथाजगाम देवेन्द्रो जनयामास चार्जुनम् 01114028a जातमात्रे कुमारे तु वागुवाचाशरीरिणी 01114028c महागम्भीरनिर्घोषा नभो नादयती तदा 01114029a कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः 01114029c एष शक्र इवाजेयो यशस्ते प्रथयिष्यति 01114030a अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता 01114030c तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः 01114031a एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः 01114031c चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति 01114032a एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः 01114032c मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् 01114033a ग्रामणीश्च महीपालानेष जित्वा महाबलः 01114033c भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति 01114034a जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः 01114034c एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः 01114035a तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति 01114035c विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः 01114036a एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके 01114036c उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् 01114037a वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् 01114037c बभूव परमो हर्षः शतशृङ्गनिवासिनाम् 01114038a तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् 01114038c आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः 01114039a उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः 01114039c समवेत्य च देवानां गणाः पार्थमपूजयन् 01114040a काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा 01114040c प्रजानां पतयः सर्वे सप्त चैव महर्षयः 01114041a भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः 01114041c यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम 01114042a मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः 01114042c दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा 01114043a दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः 01114043c उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः 01114043e गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः 01114044a भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा 01114044c गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः 01114045a युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा 01114045c त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः 01114046a कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः 01114046c सद्वा बृहद्वा बृहकः करालश्च महायशाः 01114047a ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः 01114047c विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा 01114048a गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू 01114048c इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् 01114049a तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः 01114049c ननृतुर्वै महाभागा जगुश्चायतलोचनाः 01114050a अनूना चानवद्या च प्रियमुख्या गुणावरा 01114050c अद्रिका च तथा साची मिश्रकेशी अलम्बुसा 01114051a मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा 01114051c अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा 01114052a असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा 01114052c पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी 01114053a काम्या शारद्वती चैव ननृतुस्तत्र संघशः 01114053c मेनका सहजन्या च पर्णिका पुञ्जिकस्थला 01114054a क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि 01114054c उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश 01114054e उर्वश्येकादशीत्येता जगुरायतलोचनाः 01114055a धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा 01114055c इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा 01114056a पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः 01114056c महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः 01114057a मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः 01114057c अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः 01114058a दहनोऽथेश्वरश्चैव कपाली च विशां पते 01114058c स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे 01114059a अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः 01114059c विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः 01114060a कर्कोटकोऽथ शेषश्च वासुकिश्च भुजंगमः 01114060c कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः 01114061a आययुस्तेजसा युक्ता महाक्रोधा महाबलाः 01114061c एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः 01114062a तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः 01114062c अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः 01114063a तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः 01114063c अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति 01114064a पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः 01114064c प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् 01114065a नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत 01114065c अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् 01114066a स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् 01114066c अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे 01115001 वैशंपायन उवाच 01115001a कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च 01115001c मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् 01115002a न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप 01115002c नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा 01115003a गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा 01115003c श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन 01115004a इदं तु मे महद्दुःखं तुल्यतायामपुत्रता 01115004c दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः 01115005a यदि त्वपत्यसंतानं कुन्तिराजसुता मयि 01115005c कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् 01115006a स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति 01115006c यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय 01115007 पाण्डुरुवाच 01115007a ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते 01115007c न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया 01115008a तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् 01115008c मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते 01115009 वैशंपायन उवाच 01115009a ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् 01115009c कुलस्य मम संतानं लोकस्य च कुरु प्रियम् 01115010a मम चापिण्डनाशाय पूर्वेषामपि चात्मनः 01115010c मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् 01115011a यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् 01115011c प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना 01115012a तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् 01115012c गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि 01115013a तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः 01115013c चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् 01115014a सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते 01115014c अपत्यसंविभागेन परां कीर्तिमवाप्नुहि 01115015a एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् 01115015c तस्मात्ते भवितापत्यमनुरूपमसंशयम् 01115016a ततो माद्री विचार्यैव जगाम मनसाश्विनौ 01115016c तावागम्य सुतौ तस्यां जनयामासतुर्यमौ 01115017a नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि 01115017c तथैव तावपि यमौ वागुवाचाशरीरिणी 01115018a रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति 01115018c भासतस्तेजसात्यर्थं रूपद्रविणसंपदा 01115019a नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः 01115019c भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते 01115020a ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् 01115020c अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् 01115021a पूर्वजं नकुलेत्येवं सहदेवेति चापरम् 01115021c माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः 01115021e अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः 01115022a कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् 01115022c तमुवाच पृथा राजन्रहस्युक्ता सती सदा 01115023a उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता 01115023c बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी 01115024a नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् 01115024c तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम 01115025a एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः 01115025c संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः 01115026a शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः 01115026c सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः 01115026e सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः 01115027a विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ 01115027c विस्मयं जनयामासुर्महर्षीणां समेयुषाम् 01115028a ते च पञ्च शतं चैव कुरुवंशविवर्धनाः 01115028c सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः 01116001 वैशंपायन उवाच 01116001a दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने 01116001c तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् 01116002a सुपुष्पितवने काले कदाचिन्मधुमाधवे 01116002c भूतसंमोहने राजा सभार्यो व्यचरद्वनम् 01116003a पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः 01116003c अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः 01116004a जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् 01116004c पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः 01116005a प्रहृष्टमनसं तत्र विहरन्तं यथामरम् 01116005c तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् 01116006a समीक्षमाणः स तु तां वयःस्थां तनुवाससम् 01116006c तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः 01116007a रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् 01116007c न शशाक नियन्तुं तं कामं कामबलात्कृतः 01116008a तत एनां बलाद्राजा निजग्राह रहोगताम् 01116008c वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् 01116009a स तु कामपरीतात्मा तं शापं नान्वबुध्यत 01116009c माद्रीं मैथुनधर्मेण गच्छमानो बलादिव 01116010a जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः 01116010c शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् 01116011a तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता 01116011c संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा 01116012a स तया सह संगम्य भार्यया कुरुनन्दन 01116012c पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा 01116013a ततो माद्री समालिङ्ग्य राजानं गतचेतसम् 01116013c मुमोच दुःखजं शब्दं पुनः पुनरतीव ह 01116014a सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ 01116014c आजग्मुः सहितास्तत्र यत्र राजा तथागतः 01116015a ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः 01116015c एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः 01116016a तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् 01116016c हताहमिति विक्रुश्य सहसोपजगाम ह 01116017a दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले 01116017c कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता 01116018a रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् 01116018c कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः 01116019a ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः 01116019c सा कथं लोभितवती विजने त्वं नराधिपम् 01116020a कथं दीनस्य सततं त्वामासाद्य रहोगताम् 01116020c तं विचिन्तयतः शापं प्रहर्षः समजायत 01116021a धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा 01116021c दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः 01116022 माद्र्युवाच 01116022a विलोभ्यमानेन मया वार्यमाणेन चासकृत् 01116022c आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा 01116023 कुन्त्युवाच 01116023a अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम 01116023c अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय 01116024a अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् 01116024c उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् 01116025 माद्र्युवाच 01116025a अहमेवानुयास्यामि भर्तारमपलायिनम् 01116025c न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् 01116026a मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः 01116026c तमुच्छिन्द्यामस्य कामं कथं नु यमसादने 01116027a न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते 01116027c वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् 01116028a तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् 01116028c मां हि कामयमानोऽयं राजा प्रेतवशं गतः 01116029a राज्ञः शरीरेण सह ममापीदं कलेवरम् 01116029c दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु 01116030a दारकेष्वप्रमत्ता च भवेथाश्च हिता मम 01116030c अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन 01116031 वैशंपायन उवाच 01116031a इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् 01116031c मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी 01117001 वैशंपायन उवाच 01117001a पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः 01117001c ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः 01117002a हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः 01117002c अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः 01117003a स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह 01117003c प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः 01117004a ते परस्परमामन्त्र्य सर्वभूतहिते रताः 01117004c पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् 01117005a उदारमनसः सिद्धा गमने चक्रिरे मनः 01117005c भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि 01117006a तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे 01117006c पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः 01117007a सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला 01117007c प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत 01117008a सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् 01117008c वर्धमानपुरद्वारमाससाद यशस्विनी 01117009a तं चारणसहस्राणां मुनीनामागमं तदा 01117009c श्रुत्वा नागपुरे नॄणां विस्मयः समजायत 01117010a मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः 01117010c सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः 01117011a स्त्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः 01117011c ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः 01117012a तथा विट्शूद्रसंघानां महान्व्यतिकरोऽभवत् 01117012c न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः 01117013a तथा भीष्मः शांतनवः सोमदत्तोऽथ बाह्लिकः 01117013c प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् 01117014a सा च सत्यवती देवी कौसल्या च यशस्विनी 01117014c राजदारैः परिवृता गान्धारी च विनिर्ययौ 01117015a धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः 01117015c भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः 01117016a तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च 01117016c उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः 01117017a तथैव शिरसा भूमावभिवाद्य प्रणम्य च 01117017c उपोपविविशुः सर्वे पौरजानपदा अपि 01117018a तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा 01117018c भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् 01117019a तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी 01117019c महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् 01117020a यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः 01117020c कामभोगान्परित्यज्य शतशृङ्गमितो गतः 01117021a ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना 01117021c साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः 01117022a तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः 01117022c मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् 01117023a पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः 01117023c यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति 01117024a यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ 01117024c अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः 01117025a चरता धर्मनित्येन वनवासं यशस्विना 01117025c एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः 01117026a पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च 01117026c पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत 01117027a वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च 01117027c पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि 01117028a तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् 01117028c प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः 01117029a सा गता सह तेनैव पतिलोकमनुव्रता 01117029c तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् 01117030a इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः 01117030c क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः 01117031a प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः 01117031c लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः 01117032a एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् 01117032c क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह 01117033a गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः 01117033c ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः 01118001 धृतराष्ट्र उवाच 01118001a पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय 01118001c राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः 01118002a पशून्वासांसि रत्नानि धनानि विविधानि च 01118002c पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् 01118003a यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु 01118003c यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् 01118004a न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः 01118004c यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः 01118005 वैशंपायन उवाच 01118005a विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत 01118005c पाण्डुं संस्कारयामास देशे परमसंवृते 01118006a ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः 01118006c निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः 01118007a अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः 01118007c शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः 01118008a तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः 01118008c अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे 01118009a नृसिंहं नरयुक्तेन परमालंकृतेन तम् 01118009c अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् 01118010a पाण्डुरेणातपत्रेण चामरव्यजनेन च 01118010c सर्ववादित्रनादैश्च समलंचक्रिरे ततः 01118011a रत्नानि चाप्युपादाय बहूनि शतशो नराः 01118011c प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् 01118012a अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च 01118012c आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च 01118013a याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः 01118013c अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः 01118014a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः 01118014c रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम् 01118015a अयमस्मानपाहाय दुःखे चाधाय शाश्वते 01118015c कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः 01118016a क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च 01118016c रमणीये वनोद्देशे गङ्गातीरे समे शुभे 01118017a न्यासयामासुरथ तां शिबिकां सत्यवादिनः 01118017c सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः 01118018a ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् 01118018c शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् 01118018e पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः 01118019a चन्दनेन च मुख्येन शुक्लेन समलेपयन् 01118019c कालागुरुविमिश्रेण तथा तुङ्गरसेन च 01118020a अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् 01118020c आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः 01118020e शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः 01118021a याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः 01118021c घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम् 01118022a तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना 01118022c अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् 01118023a ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता 01118023c हाहा पुत्रेति कौसल्या पपात सहसा भुवि 01118024a तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः 01118024c रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः 01118025a क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः 01118025c मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि 01118026a तथा भीष्मः शांतनवो विदुरश्च महामतिः 01118026c सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः 01118027a ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः 01118027c उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः 01118028a कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् 01118028c सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् 01118029a यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः 01118029c तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः 01118030a तदनानन्दमस्वस्थमाकुमारमहृष्टवत् 01118030c बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः 01119001 वैशंपायन उवाच 01119001a ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः 01119001c ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा 01119002a कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः 01119002c रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि 01119003a कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् 01119003c आदाय विविशुः पौराः पुरं वारणसाह्वयम् 01119004a सततं स्मान्वतप्यन्त तमेव भरतर्षभम् 01119004c पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् 01119005a श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् 01119005c संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् 01119006a अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः 01119006c श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना 01119007a बहुमायासमाकीर्णो नानादोषसमाकुलः 01119007c लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति 01119008a गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने 01119008c मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः 01119009a तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् 01119009c अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः 01119009e सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् 01119010a तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् 01119010c वनमादाय भद्रं ते गच्छावो यदि मन्यसे 01119011a तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता 01119011c वनं ययौ सत्यवती स्नुषाभ्यां सह भारत 01119012a ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम 01119012c देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा 01119013a अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा 01119013c अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि 01119014a धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि 01119014c बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् 01119015a जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे 01119015c धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति 01119016a हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने 01119016c शिरःसु च निगृह्यैनान्योधयामास पाण्डवः 01119017a शतमेकोत्तरं तेषां कुमाराणां महौजसाम् 01119017c एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः 01119018a पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली 01119018c चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् 01119019a दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः 01119019c आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति 01119020a फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा 01119020c तदा पादप्रहारेण भीमः कम्पयते द्रुमम् 01119021a प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः 01119021c सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः 01119022a न ते नियुद्धे न जवे न योग्यासु कदाचन 01119022c कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् 01119023a एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः 01119023c अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा 01119024a ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् 01119024c भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् 01119025a तस्य धर्मादपेतस्य पापानि परिपश्यतः 01119025c मोहादैश्वर्यलोभाच्च पापा मतिरजायत 01119026a अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः 01119026c मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् 01119027a अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् 01119027c प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् 01119028a एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा 01119028c नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः 01119029a ततो जलविहारार्थं कारयामास भारत 01119029c चेलकम्बलवेश्मानि विचित्राणि महान्ति च 01119030a प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च 01119030c क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः 01119030e सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः 01119031a दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः 01119031c विहारावसथेष्वेव वीरा वासमरोचयन् 01119032a खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा 01119032c वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः 01119032e प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् 01119033a शीतं वासं समासाद्य श्रान्तो मदविमोहितः 01119033c निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् 01119034a ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः 01119034c गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् 01119035a ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् 01119035c उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः 01119036a सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः 01119036c कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु 01119037a दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः 01119037c त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः 01119038a प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् 01119038c सारथिं चास्य दयितमपहस्तेन जघ्निवान् 01119039a भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् 01119039c कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् 01119040a वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया 01119040c तच्चापि भुक्त्वाजरयदविकारो वृकोदरः 01119041a विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् 01119041c भीमसंहननो भीमस्तदप्यजरयत्ततः 01119042a एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः 01119042c अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् 01119043a पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः 01119043c उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः 01120001 जनमेजय उवाच 01120001a कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि 01120001c शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् 01120002 वैशंपायन उवाच 01120002a महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः 01120002c पुत्रः किल महाराज जातः सह शरैर्विभो 01120003a न तस्य वेदाध्ययने तथा बुद्धिरजायत 01120003c यथास्य बुद्धिरभवद्धनुर्वेदे परंतप 01120004a अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः 01120004c तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह 01120005a धनुर्वेदपरत्वाच्च तपसा विपुलेन च 01120005c भृशं संतापयामास देवराजं स गौतमः 01120006a ततो जालपदीं नाम देवकन्यां सुरेश्वरः 01120006c प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव 01120007a साभिगम्याश्रमपदं रमणीयं शरद्वतः 01120007c धनुर्बाणधरं बाला लोभयामास गौतमम् 01120008a तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने 01120008c लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् 01120009a धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि 01120009c वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत 01120010a स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् 01120010c अवतस्थे महाप्राज्ञो धैर्येण परमेण ह 01120011a यस्त्वस्य सहसा राजन्विकारः समपद्यत 01120011c तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत 01120012a स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः 01120012c जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह 01120013a शरस्तम्बे च पतितं द्विधा तदभवन्नृप 01120013c तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः 01120014a मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया 01120014c कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत 01120015a धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च 01120015c व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् 01120015e स राज्ञे दर्शयामास मिथुनं सशरं तदा 01120016a स तदादाय मिथुनं राजाथ कृपयान्वितः 01120016c आजगाम गृहानेव मम पुत्राविति ब्रुवन् 01120017a ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् 01120017c गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् 01120018a कृपया यन्मया बालाविमौ संवर्धिताविति 01120018c तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः 01120019a निहितौ गौतमस्तत्र तपसा तावविन्दत 01120019c आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा 01120020a चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च 01120020c निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा 01120020e सोऽचिरेणैव कालेन परमाचार्यतां गतः 01120021a ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः 01120021c धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः 01120021e वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः 01121001 वैशंपायन उवाच 01121001a विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया 01121001c इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् 01121002a नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः 01121002c नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् 01121003a महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा 01121003c ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः 01121004a तस्या वायुः समुद्धूतो वसनं व्यपकर्षत 01121004c ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे 01121005a तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः 01121005c अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः 01121006a अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् 01121006c प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः 01121007a अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम 01121007c भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् 01121008a भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः 01121008c तस्यापि द्रुपदो नाम तदा समभवत्सुतः 01121009a स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः 01121009c चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 01121010a ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् 01121010c पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः 01121011a भरद्वाजोऽपि भगवानारुरोह दिवं तदा 01121011c ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः 01121011e शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत 01121012a अग्निहोत्रे च धर्मे च दमे च सततं रता 01121012c अलभद्गौतमी पुत्रमश्वत्थामानमेव च 01121013a स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः 01121013c तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् 01121014a अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् 01121014c अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति 01121015a सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् 01121015c तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् 01121016a स शुश्राव महात्मानं जामदग्न्यं परंतपम् 01121016c ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः 01121017a वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् 01121017c आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् 01121018 राम उवाच 01121018a हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते 01121018c ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन 01121019a तथैवेयं धरा देवी सागरान्ता सपत्तना 01121019c कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी 01121020a शरीरमात्रमेवाद्य मयेदमवशेषितम् 01121020c अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च 01121020e वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् 01121021 द्रोण उवाच 01121021a अस्त्राणि मे समग्राणि ससंहाराणि भार्गव 01121021c सप्रयोगरहस्यानि दातुमर्हस्यशेषतः 01121022 वैशंपायन उवाच 01121022a तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः 01121022c सरहस्यव्रतं चैव धनुर्वेदमशेषतः 01121023a प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः 01121023c प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति 01122001 वैशंपायन उवाच 01122001a ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् 01122001c अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति 01122002 द्रुपद उवाच 01122002a अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी 01122002c यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज 01122003a न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् 01122003c सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः 01122004a सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् 01122004c सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् 01122005a न सख्यमजरं लोके जातु दृश्येत कर्हिचित् 01122005c कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति 01122006a मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु 01122006c आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् 01122007a न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा 01122007c शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते 01122008a ययोरेव समं वित्तं ययोरेव समं कुलम् 01122008c तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः 01122009a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01122009c नाराज्ञा संगतं राज्ञः सखिपूर्वं किमिष्यते 01122010 वैशंपायन उवाच 01122010a द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् 01122010c मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः 01122011a स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् 01122011c जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 01122012a कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् 01122012c क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा 01122013a पपात कूपे सा वीटा तेषां वै क्रीडतां तदा 01122013c न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये 01122014a अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा 01122014c प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् 01122015a अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् 01122015c भरतस्यान्वये जाता ये वीटां नाधिगच्छत 01122016a एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः 01122016c अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते 01122017a वेत्स्यामीषीकया वीटां तामिषीकामथान्यया 01122017c तामन्यया समायोगो वीटाया ग्रहणे मम 01122018a तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः 01122018c अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् 01122019a अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते 01122019c कोऽसि कं त्वाभिजानीमो वयं किं करवामहे 01122020 द्रोण उवाच 01122020a आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् 01122020c स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते 01122021 वैशंपायन उवाच 01122021a तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् 01122021c ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् 01122022a भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत 01122022c युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च 01122023a अथैनमानीय तदा स्वयमेव सुसत्कृतम् 01122023c परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः 01122023e हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् 01122024a महर्षेरग्निवेश्यस्य सकाशमहमच्युत 01122024c अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया 01122025a ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः 01122025c अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया 01122026a पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः 01122026c मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः 01122027a स मे तत्र सखा चासीदुपकारी प्रियश्च मे 01122027c तेनाहं सह संगम्य रतवान्सुचिरं बत 01122027e बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च 01122028a स समासाद्य मां तत्र प्रियकारी प्रियंवदः 01122028c अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् 01122029a अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः 01122029c अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा 01122030a त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे 01122030c मम भोगाश्च वित्तं च त्वदधीनं सुखानि च 01122031a एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया 01122031c अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् 01122032a प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् 01122032c संस्मरन्संगमं चैव वचनं चैव तस्य तत् 01122033a ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो 01122033c अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति 01122034a उपस्थितं तु द्रुपदः सखिवच्चाभिसंगतम् 01122034c स मां निराकारमिव प्रहसन्निदमब्रवीत् 01122035a अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी 01122035c यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज 01122036a न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् 01122036c सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः 01122037a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01122037c नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते 01122038a द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः 01122038c अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः 01122039a प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह 01122039c पौत्रानादाय तान्सर्वान्वसूनि विविधानि च 01122040a शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् 01122040c स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् 01122041a प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् 01122041c रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा 01122042a कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते 01122042c कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः 01122043a तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते 01122043c अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः 01122044a ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः 01122044c प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा 01122045a ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च 01122045c ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् 01122046a राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ 01122046c अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् 01122046e वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः 01122047a सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा 01122047c स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः 01122047e दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत 01123001 वैशंपायन उवाच 01123001a अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने 01123001c अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् 01123002a द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः 01123002c अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन 01123003a ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने 01123003c तेन तत्र प्रदीपः स दीप्यमानो निवापितः 01123004a भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत 01123004c हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् 01123004e तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः 01123005a तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत 01123005c उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् 01123006a प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः 01123006c त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते 01123007a ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च 01123007c अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् 01123008a गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु 01123008c द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम् 01123009a तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः 01123009c राजानो राजपुत्राश्च समाजग्मुः सहस्रशः 01123010a ततो निषादराजस्य हिरण्यधनुषः सुतः 01123010c एकलव्यो महाराज द्रोणमभ्याजगाम ह 01123011a न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् 01123011c शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया 01123012a स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः 01123012c अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम् 01123013a तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा 01123013c इष्वस्त्रे योगमातस्थे परं नियममास्थितः 01123014a परया श्रद्धया युक्तो योगेन परमेण च 01123014c विमोक्षादानसंधाने लघुत्वं परमाप सः 01123015a अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः 01123015c रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः 01123016a तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया 01123016c राजन्ननुजगामैकः श्वानमादाय पाण्डवान् 01123017a तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् 01123017c श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् 01123018a स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने 01123018c नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके 01123019a तदा तस्याथ भषतः शुनः सप्त शरान्मुखे 01123019c लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा 01123020a स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह 01123020c तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः 01123021a लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा 01123021c प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः 01123022a तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् 01123022c ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् 01123023a न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् 01123023c अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत 01123024 एकलव्य उवाच 01123024a निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् 01123024c द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् 01123025 वैशंपायन उवाच 01123025a ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः 01123025c यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् 01123026a कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् 01123026c रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् 01123027a नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः 01123027c भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति 01123028a अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् 01123028c अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः 01123029a मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् 01123029c सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् 01123030a ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् 01123030c एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् 01123031a एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् 01123031c अभिगम्योपसंगृह्य जगाम शिरसा महीम् 01123032a पूजयित्वा ततो द्रोणं विधिवत्स निषादजः 01123032c निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः 01123033a ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः 01123033c यदि शिष्योऽसि मे तूर्णं वेतनं संप्रदीयताम् 01123034a एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् 01123034c किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः 01123035a न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम 01123035c तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम 01123036a एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् 01123036c प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा 01123037a तथैव हृष्टवदनस्तथैवादीनमानसः 01123037c छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः 01123038a ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत 01123038c न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप 01123039a ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः 01123039c द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् 01123040a द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः 01123040c दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् 01123041a अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् 01123041c तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ 01123041e युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः 01123042a प्रथितः सागरान्तायां रथयूथपयूथपः 01123042c बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः 01123043a अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः 01123043c तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् 01123043e एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः 01123044a प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् 01123044c धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप 01123045a तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् 01123045c द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ 01123046a कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् 01123046c अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् 01123047 द्रोण उवाच 01123047a शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः 01123047c भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः 01123048a मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् 01123048c एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः 01123049 वैशंपायन उवाच 01123049a ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः 01123049c संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च 01123050a ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् 01123050c तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः 01123051a ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् 01123051c स मुहूर्तादुवाचेदं वचनं भरतर्षभ 01123052a पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज 01123052c पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः 01123053a स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत 01123053c अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि 01123054a तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् 01123054c भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः 01123055a तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव 01123055c नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् 01123056a ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः 01123056c तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत 01123057a अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् 01123057c तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः 01123058a ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत 01123058c त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् 01123059a मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः 01123059c वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् 01123060a एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः 01123060c तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः 01123061a मुहूर्तादिव तं द्रोणस्तथैव समभाषत 01123061c पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत 01123062a पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत 01123062c न तु वृक्षं भवन्तं वा पश्यामीति च भारत 01123063a ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः 01123063c प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् 01123064a भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः 01123064c शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् 01123065a अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः 01123065c मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् 01123066a ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह 01123066c शिर उत्कृत्य तरसा पातयामास पाण्डवः 01123067a तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् 01123067c मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् 01123068a कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः 01123068c जगाम गङ्गामभितो मज्जितुं भरतर्षभ 01123069a अवगाढमथो द्रोणं सलिले सलिलेचरः 01123069c ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः 01123070a स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् 01123070c ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव 01123071a तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः 01123071c आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् 01123071e इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे 01123072a तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् 01123072c विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा 01123073a स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः 01123073c ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः 01123074a अथाब्रवीन्महात्मानं भारद्वाजो महारथम् 01123074c गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् 01123074e अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् 01123075a न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथंचन 01123075c जगद्विनिर्दहेदेतदल्पतेजसि पातितम् 01123076a असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते 01123076c तद्धारयेथाः प्रयतः शृणु चेदं वचो मम 01123077a बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन 01123077c तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे 01123078a तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः 01123078c जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः 01123078e भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः 01124001 वैशंपायन उवाच 01124001a कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत 01124001c दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् 01124002a कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 01124002c गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च 01124003a राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तम 01124003c ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव 01124004a ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना 01124004c भारद्वाज महत्कर्म कृतं ते द्विजसत्तम 01124005a यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा 01124005c तथा तथा विधानाय स्वयमाज्ञापयस्व माम् 01124006a स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् 01124006c अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् 01124007a क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा 01124007c न हीदृशं प्रियं मन्ये भविता धर्मवत्सल 01124008a ततो राजानमामन्त्र्य विदुरानुगतो बहिः 01124008c भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् 01124008e समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् 01124009a तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते 01124009c अवघुष्टं पुरे चापि तदर्थं वदतां वर 01124010a रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि 01124010c प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः 01124010e राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ 01124011a मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः 01124011c विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः 01124012a तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा 01124012c भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् 01124013a मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् 01124013c शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् 01124014a गान्धारी च महाभागा कुन्ती च जयतां वर 01124014c स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः 01124014e हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा 01124015a ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् 01124015c दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् 01124016a प्रवादितैश्च वादित्रैर्जनकौतूहलेन च 01124016c महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा 01124017a ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् 01124017c शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः 01124018a रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह 01124018c नभो जलधरैर्हीनं साङ्गारक इवांशुमान् 01124019a स यथासमयं चक्रे बलिं बलवतां वरः 01124019c ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् 01124020a अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् 01124020c विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः 01124021a ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः 01124021c बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः 01124022a अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः 01124022c चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् 01124023a केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे 01124023c मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः 01124024a ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः 01124024c विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् 01124025a तत्कुमारबलं तत्र गृहीतशरकार्मुकम् 01124025c गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् 01124026a सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः 01124026c विस्मयोत्फुल्लनयनाः साधु साध्विति भारत 01124027a कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् 01124027c गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः 01124028a गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः 01124028c त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु 01124029a लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् 01124029c ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् 01124030a अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ 01124030c अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ 01124031a बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ 01124031c बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ 01124032a तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ 01124032c चेरतुर्निर्मलगदौ समदाविव गोवृषौ 01124033a विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः 01124033c न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् 01125001 वैशंपायन उवाच 01125001a कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे 01125001c पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः 01125002a हा वीर कुरुराजेति हा भीमेति च नर्दताम् 01125002c पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः 01125003a ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् 01125003c भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् 01125004a वारयैतौ महावीर्यौ कृतयोग्यावुभावपि 01125004c मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः 01125005a ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ 01125005c युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ 01125006a ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् 01125006c निवार्य वादित्रगणं महामेघनिभस्वनम् 01125007a यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः 01125007c ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति 01125008a आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा 01125008c बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः 01125009a काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः 01125009c सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः 01125010a ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् 01125010c प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः 01125011a एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः 01125011c एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता 01125012a एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः 01125012c एष शीलवतां चापि शीलज्ञाननिधिः परः 01125013a इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः 01125013c कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् 01125014a तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् 01125014c धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः 01125015a क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः 01125015c सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् 01125016 विदुर उवाच 01125016a एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः 01125016c अवतीर्णः सकवचस्तत्रैष सुमहास्वनः 01125017 धृतराष्ट्र उवाच 01125017a धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते 01125017c पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः 01125018 वैशंपायन उवाच 01125018a तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते 01125018c दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् 01125019a आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः 01125019c वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् 01125020a भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् 01125020c अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् 01125021a क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः 01125021c क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् 01125022a सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः 01125022c सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः 01125023a भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् 01125023c पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् 01125024a गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते 01125024c निचखान महावीर्यः सायकानेकविंशतिम् 01125025a इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् 01125025c गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् 01125026a ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत 01125026c मन्दीभूते समाजे च वादित्रस्य च निस्वने 01125027a द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः 01125027c वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः 01125028a दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते 01125028c किं स्विदापूर्यते व्योम जलभारघनैर्घनैः 01125029a रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप 01125029c द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा 01125030a पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ 01125030c पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः 01125031a अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् 01125031c दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् 01125032a स तैस्तदा भ्रातृभिरुद्यतायुधै;र्वृतो गदापाणिरवस्थितैः स्थितः 01125032c बभौ यथा दानवसंक्षये पुरा; पुरंदरो देवगणैः समावृतः 01126001 वैशंपायन उवाच 01126001a दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः 01126001c विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः 01126002a सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः 01126002c सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः 01126003a कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः 01126003c तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः 01126004a सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः 01126004c दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः 01126005a प्रांशुः कनकतालाभः सिंहसंहननो युवा 01126005c असंख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः 01126006a स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् 01126006c प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् 01126007a स सामाजजनः सर्वो निश्चलः स्थिरलोचनः 01126007c कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् 01126008a सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः 01126008c भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् 01126009a पार्थ यत्ते कृतं कर्म विशेषवदहं ततः 01126009c करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः 01126010a असमाप्ते ततस्तस्य वचने वदतां वर 01126010c यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः 01126011a प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् 01126011c ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह 01126012a ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा 01126012c यत्कृतं तत्र पार्थेन तच्चकार महाबलः 01126013a अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत 01126013c कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् 01126014a स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद 01126014c अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् 01126015 कर्ण उवाच 01126015a कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे 01126015c द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत 01126016 दुर्योधन उवाच 01126016a भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव 01126016c दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम 01126017 वैशंपायन उवाच 01126017a ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत 01126017c कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् 01126018a अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् 01126018c ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे 01126019 कर्ण उवाच 01126019a रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन 01126019c वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते 01126020a किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत 01126020c गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः 01126021 वैशंपायन उवाच 01126021a ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः 01126021c भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् 01126022a ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः 01126022c परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः 01126023a ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः 01126023c आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः 01126024a ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् 01126024c भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् 01126025a मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः 01126025c सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत 01126026a धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः 01126026c भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् 01126027a द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत 01126027c कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह 01126028a तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् 01126028c कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः 01126029a ततः प्रत्यागतप्राणा तावुभावपि दंशितौ 01126029c पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किंचन 01126030a तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् 01126030c द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् 01126031a अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः 01126031c कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति 01126032a त्वमप्येवं महाबाहो मातरं पितरं कुलम् 01126032c कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः 01126032e ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा 01126033a एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् 01126033c बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा 01126034 दुर्योधन उवाच 01126034a आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये 01126034c तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति 01126035a यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति 01126035c तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते 01126036 वैशंपायन उवाच 01126036a ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः 01126036c काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः 01126036e अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः 01126037a सच्छत्रवालव्यजनो जयशब्दान्तरेण च 01126037c उवाच कौरवं राजा राजानं तं वृषस्तदा 01126038a अस्य राज्यप्रदानस्य सदृशं किं ददानि ते 01126038c प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप 01126038e अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः 01126039a एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत 01126039c हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः 01127001 वैशंपायन उवाच 01127001a ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः 01127001c विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव 01127002a तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः 01127002c कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत 01127003a ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः 01127003c पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः 01127004a परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः 01127004c अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः 01127005a तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः 01127005c भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव 01127006a न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् 01127006c कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया 01127007a अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम 01127007c श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे 01127008a एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः 01127008c गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत 01127009a ततो दुर्योधनः कोपादुत्पपात महाबलः 01127009c भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः 01127010a सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् 01127010c वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् 01127011a क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना 01127011c शूराणां च नदीनां च प्रभवा दुर्विदाः किल 01127012a सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् 01127012c दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् 01127013a आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि 01127013c श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः 01127014a क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः 01127014c आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः 01127014e भवतां च यथा जन्म तदप्यागमितं नृपैः 01127015a सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् 01127015c कथमादित्यसंकाशं मृगी व्याघ्रं जनिष्यति 01127016a पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः 01127016c अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना 01127017a यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् 01127017c रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् 01127018a ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् 01127018c साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत् 01127019a ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप 01127019c दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ 01127020a पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते 01127020c भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् 01127021a अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत 01127021c कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा 01127022a कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् 01127022c पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत 01127023a दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव 01127023c भयमर्जुनसांजातं क्षिप्रमन्तरधीयत 01127024a स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् 01127024c युधिष्ठिरस्याप्यभवत्तदा मति;र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ 01128001 वैशंपायन उवाच 01128001a ततः शिष्यान्समानीय आचार्यार्थमचोदयत् 01128001c द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते 01128002a पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि 01128002c पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा 01128003a तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः 01128003c आचार्यधनदानार्थं द्रोणेन सहिता ययुः 01128004a ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः 01128004c ममृदुस्तस्य नगरं द्रुपदस्य महौजसः 01128005a ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि 01128005c उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः 01128006a भग्नदर्पं हृतधनं तथा च वशमागतम् 01128006c स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् 01128007a प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया 01128007c प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते 01128008a एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् 01128008c मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् 01128009a आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह 01128009c तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ 01128010a प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ 01128010c वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि 01128011a अराजा किल नो राज्ञां सखा भवितुमर्हति 01128011c अतः प्रयतितं राज्ये यज्ञसेन मया तव 01128012a राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे 01128012c सखायं मां विजानीहि पाञ्चाल यदि मन्यसे 01128013 द्रुपद उवाच 01128013a अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु 01128013c प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् 01128014 वैशंपायन उवाच 01128014a एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत 01128014c सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् 01128015a माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् 01128015c सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् 01128015e दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी 01128016a द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह 01128016c क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् 01128017a हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च 01128017c पुत्रजन्म परीप्सन्वै स राजा तदधारयत् 01128017e अहिच्छत्रं च विषयं द्रोणः समभिपद्यत 01128018a एवं राजन्नहिच्छत्रा पुरी जनपदायुता 01128018c युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता 01129001 वैशंपायन उवाच 01129001a प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् 01129001c दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः 01129002a ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः 01129002c अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् 01129003a पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः 01129003c उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः 01129004a गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा 01129004c कथयन्ति स्म संभूय चत्वरेषु सभासु च 01129005a प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः 01129005c राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् 01129006a तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः 01129006c प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति 01129007a ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् 01129007c अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् 01129008a स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित् 01129008c सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् 01129009a तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् 01129009c युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः 01129010a स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे 01129010c ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रमुपागमत् 01129011a ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः 01129011c पौरानुरागसंतप्तः पश्चादिदमभाषत 01129012a श्रुता मे जल्पतां तात पौराणामशिवा गिरः 01129012c त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् 01129013a मतमेतच्च भीष्मस्य न स राज्यं बुभूषति 01129013c अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः 01129014a पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा 01129014c त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् 01129015a स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः 01129015c तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः 01129016a ते वयं राजवंशेन हीनाः सह सुतैरपि 01129016c अवज्ञाता भविष्यामो लोकस्य जगतीपते 01129017a सततं निरयं प्राप्ताः परपिण्डोपजीविनः 01129017c न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् 01129018a अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप 01129018c ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने 01130001 वैशंपायन उवाच 01130001a धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् 01130001c मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् 01130002a धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः 01130002c सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः 01130003a नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम् 01130003c निवेदयति नित्यं हि मम राज्यं धृतव्रतः 01130004a तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः 01130004c गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः 01130005a स कथं शक्यमस्माभिरपक्रष्टुं बलादितः 01130005c पितृपैतामहाद्राज्यात्ससहायो विशेषतः 01130006a भृता हि पाण्डुनामात्या बलं च सततं भृतम् 01130006c भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः 01130007a ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः 01130007c कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् 01130008 दुर्योधन उवाच 01130008a एवमेतन्मया तात भावितं दोषमात्मनि 01130008c दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः 01130009a ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः 01130009c अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते 01130010a स भवान्पाण्डवानाशु विवासयितुमर्हति 01130010c मृदुनैवाभ्युपायेन नगरं वारणावतम् 01130011a यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति 01130011c तदा कुन्ती सहापत्या पुनरेष्यति भारत 01130012 धृतराष्ट्र उवाच 01130012a दुर्योधन ममाप्येतद्धृदि संपरिवर्तते 01130012c अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् 01130013a न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः 01130013c विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् 01130014a समा हि कौरवेयाणां वयमेते च पुत्रक 01130014c नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः 01130015a ते वयं कौरवेयाणामेतेषां च महात्मनाम् 01130015c कथं न वध्यतां तात गच्छेम जगतस्तथा 01130016 दुर्योधन उवाच 01130016a मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः 01130016c यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः 01130017a कृपः शारद्वतश्चैव यत एते त्रयस्ततः 01130017c द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् 01130018a क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे 01130018c न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् 01130019a स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय 01130019c वारणावतमद्यैव नात्र दोषो भविष्यति 01130020a विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् 01130020c शोकपावकमुद्भूतं कर्मणैतेन नाशय 01131001 वैशंपायन उवाच 01131001a ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः 01131001c अर्थमानप्रदानाभ्यां संजहार सहानुजः 01131002a धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः 01131002c कथयां चक्रिरे रम्यं नगरं वारणावतम् 01131003a अयं समाजः सुमहान्रमणीयतमो भुवि 01131003c उपस्थितः पशुपतेर्नगरे वारणावते 01131004a सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे 01131004c इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः 01131005a कथ्यमाने तथा रम्ये नगरे वारणावते 01131005c गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप 01131006a यदा त्वमन्यत नृपो जातकौतूहला इति 01131006c उवाचैनानथ तदा पाण्डवानम्बिकासुतः 01131007a ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः 01131007c रमणीयतरं लोके नगरं वारणावतम् 01131008a ते तात यदि मन्यध्वमुत्सवं वारणावते 01131008c सगणाः सानुयात्राश्च विहरध्वं यथामराः 01131009a ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः 01131009c प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः 01131010a कंचित्कालं विहृत्यैवमनुभूय परां मुदम् 01131010c इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ 01131011a धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः 01131011c आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् 01131012a ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् 01131012c द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् 01131013a कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् 01131013c युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा 01131014a रमणीये जनाकीर्णे नगरे वारणावते 01131014c सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् 01131015a प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत 01131015c आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति 01131016a एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः 01131016c प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् 01131017a स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः 01131017c मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः 01131018a ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः 01131018c कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् 01132001 वैशंपायन उवाच 01132001a एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु 01132001c दुर्योधनः परं हर्षमाजगाम दुरात्मवान् 01132002a स पुरोचनमेकान्तमानीय भरतर्षभ 01132002c गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् 01132003a ममेयं वसुसंपूर्णा पुरोचन वसुंधरा 01132003c यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि 01132004a न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया 01132004c सहायो येन संधाय मन्त्रयेयं यथा त्वया 01132005a संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर 01132005c निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु 01132006a पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् 01132006c उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् 01132007a स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना 01132007c वारणावतमद्यैव यथा यासि तथा कुरु 01132008a तत्र गत्वा चतुःशालं गृहं परमसंवृतम् 01132008c आयुधागारमाश्रित्य कारयेथा महाधनम् 01132009a शणसर्जरसादीनि यानि द्रव्याणि कानिचित् 01132009c आग्नेयान्युत सन्तीह तानि सर्वाणि दापय 01132010a सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया 01132010c मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः 01132011a शणान्वंशं घृतं दारु यन्त्राणि विविधानि च 01132011c तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः 01132012a यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः 01132012c आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः 01132013a वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् 01132013c वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् 01132014a तत्रासनानि मुख्यानि यानानि शयनानि च 01132014c विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता 01132015a यथा रमेरन्विश्रब्धा नगरे वारणावते 01132015c तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः 01132016a ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् 01132016c अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः 01132017a दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः 01132017c ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् 01132018a तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः 01132018c प्रायाद्रासभयुक्तेन नगरं वारणावतम् 01132019a स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः 01132019c यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः 01133001 वैशंपायन उवाच 01133001a पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः 01133001c आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् 01133002a राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः 01133002c अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च 01133003a एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः 01133003c समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः 01133004a सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् 01133004c सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् 01133005a विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुंगवाः 01133005c पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः 01133006a तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा 01133006c शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ 01133007a विषमं पश्यते राजा सर्वथा तमसावृतः 01133007c धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति 01133008a न हि पापमपापात्मा रोचयिष्यति पाण्डवः 01133008c भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः 01133008e कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः 01133009a तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते 01133009c अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते 01133009e विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् 01133010a पितेव हि नृपोऽस्माकमभूच्छांतनवः पुरा 01133010c विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः 01133011a स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति 01133011c राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते 01133012a वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् 01133012c गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः 01133013a तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः 01133013c उवाच परमप्रीतो धर्मराजो युधिष्ठिरः 01133014a पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः 01133014c अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् 01133015a भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् 01133015c आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् 01133016a यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते 01133016c तदा करिष्यथ मम प्रियाणि च हितानि च 01133017a ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् 01133017c आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि 01133018a पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् 01133018c बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् 01133018e प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् 01133019a विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा 01133019c अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् 01133019e यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः 01133020a कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः 01133020c न दहेदिति चात्मानं यो रक्षति स जीवति 01133021a नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः 01133021c नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः 01133022a अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् 01133022c श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् 01133023a चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः 01133023c आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते 01133024a अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् 01133024c पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् 01133025a निवृत्ते विदुरे चैव भीष्मे पौरजने तथा 01133025c अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् 01133026a क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव 01133026c त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् 01133027a यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् 01133027c श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च 01133028 युधिष्ठिर उवाच 01133028a विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् 01133028c पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् 01133029a जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् 01133029c विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया 01133030 वैशंपायन उवाच 01133030a अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते 01133030c वारणावतमासाद्य ददृशुर्नागरं जनम् 01134001 वैशंपायन उवाच 01134001a ततः सर्वाः प्रकृतयो नगराद्वारणावतात् 01134001c सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः 01134002a श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः 01134002c अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा 01134003a ते समासाद्य कौन्तेयान्वारणावतका जनाः 01134003c कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे 01134004a तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः 01134004c विबभौ देवसंकाशो वज्रपाणिरिवामरैः 01134005a सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः 01134005c अलंकृतं जनाकीर्णं विविशुर्वारणावतम् 01134006a ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् 01134006c ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु 01134007a नगराधिकृतानां च गृहाणि रथिनां तथा 01134007c उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि 01134008a अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः 01134008c जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः 01134009a तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च 01134009c आसनानि च मुख्यानि प्रददौ स पुरोचनः 01134010a तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः 01134010c उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः 01134011a दशरात्रोषितानां तु तत्र तेषां पुरोचनः 01134011c निवेदयामास गृहं शिवाख्यमशिवं तदा 01134012a तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः 01134012c पुरोचनस्य वचनात्कैलासमिव गुह्यकाः 01134013a तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः 01134013c उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः 01134013e जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् 01134014a कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप 01134014c शणसर्जरसं व्यक्तमानीतं गृहकर्मणि 01134014e मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् 01134015a शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि 01134015c विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः 01134016a इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा 01134016c आपदं तेन मां पार्थ स संबोधितवान्पुरा 01134017a ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् 01134017c आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः 01134018 भीम उवाच 01134018a यदिदं गृहमाग्नेयं विहितं मन्यते भवान् 01134018c तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् 01134019 युधिष्ठिर उवाच 01134019a इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये 01134019c नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः 01134020a यदि विन्देत चाकारमस्माकं हि पुरोचनः 01134020c शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः 01134021a नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः 01134021c तथा हि वर्तते मन्दः सुयोधनमते स्थितः 01134022a अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः 01134022c कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः 01134022e धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः 01134023a वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि 01134023c स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः 01134024a अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः 01134024c हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् 01134025a तदस्माभिरिमं पापं तं च पापं सुयोधनम् 01134025c वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् 01134026a ते वयं मृगयाशीलाश्चराम वसुधामिमाम् 01134026c तथा नो विदिता मार्गा भविष्यन्ति पलायताम् 01134027a भौमं च बिलमद्यैव करवाम सुसंवृतम् 01134027c गूढोच्छ्वसान्न नस्तत्र हुताशः संप्रधक्ष्यति 01134028a वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः 01134028c पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः 01135001 वैशंपायन उवाच 01135001a विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् 01135001c विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् 01135002a प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् 01135002c पाण्डवानां प्रियं कार्यमिति किं करवाणि वः 01135003a प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् 01135003c प्रतिपादय विश्वासादिति किं करवाणि वः 01135004a कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः 01135004c भवनस्य तव द्वारि प्रदास्यति हुताशनम् 01135005a मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः 01135005c इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् 01135006a किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव 01135006c त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् 01135007a उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 01135007c अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै 01135008a शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् 01135008c न विद्यते कवेः किंचिदभिज्ञानप्रयोजनम् 01135009a यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि 01135009c भवतः स्म यथा तस्य पालयास्मान्यथा कविः 01135010a इदं शरणमाग्नेयं मदर्थमिति मे मतिः 01135010c पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् 01135011a स पापः कोशवांश्चैव ससहायश्च दुर्मतिः 01135011c अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते 01135012a स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् 01135012c अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः 01135013a समृद्धमायुधागारमिदं तस्य दुरात्मनः 01135013c वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् 01135014a इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् 01135014c प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् 01135015a सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा 01135015c पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय 01135016a स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः 01135016c परिखामुत्किरन्नाम चकार सुमहद्बिलम् 01135017a चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् 01135017c कपाटयुक्तमज्ञातं समं भूम्या च भारत 01135018a पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् 01135018c स तत्र च गृहद्वारि वसत्यशुभधीः सदा 01135019a तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप 01135019c दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् 01135020a विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् 01135020c अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः 01135021a न चैनानन्वबुध्यन्त नरा नगरवासिनः 01135021c अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् 01136001 वैशंपायन उवाच 01136001a तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् 01136001c विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः 01136002a पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः 01136002c भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् 01136003a अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः 01136003c वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने 01136004a आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् 01136004c षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः 01136005a अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् 01136005c चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः 01136006a ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत 01136006c जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् 01136007a निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया 01136007c अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता 01136008a सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला 01136008c सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने 01136008e सुष्वाप विगतज्ञाना मृतकल्पा नराधिप 01136009a अथ प्रवाते तुमुले निशि सुप्ते जने विभो 01136009c तदुपादीपयद्भीमः शेते यत्र पुरोचनः 01136010a ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः 01136010c प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः 01136011 पौरा ऊचुः 01136011a दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना 01136011c गृहमात्मविनाशाय कारितं दाहितं च यत् 01136012a अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी 01136012c यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा 01136013a दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः 01136013c अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् 01136014 वैशंपायन उवाच 01136014a एवं ते विलपन्ति स्म वारणावतका जनाः 01136014c परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः 01136015a पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः 01136015c बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः 01136016a तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः 01136016c न शेकुः सहसा गन्तुं सह मात्रा परंतपाः 01136017a भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः 01136017c जगाम भ्रातॄनादाय सर्वान्मातरमेव च 01136018a स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् 01136018c पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ 01136019a तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् 01136019c स जगामाशु तेजस्वी वातरंहा वृकोदरः 01137001 वैशंपायन उवाच 01137001a अथ रात्र्यां व्यतीतायामशेषो नागरो जनः 01137001c तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् 01137002a निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः 01137002c जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् 01137003a नूनं दुर्योधनेनेदं विहितं पापकर्मणा 01137003c पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः 01137004a विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः 01137004c दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् 01137005a नूनं शांतनवो भीष्मो न धर्ममनुवर्तते 01137005c द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः 01137006a ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः 01137006c संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि 01137007a ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् 01137007c निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् 01137008a खनकेन तु तेनैव वेश्म शोधयता बिलम् 01137008c पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् 01137009a ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः 01137009c पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् 01137010a श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् 01137010c विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः 01137011a अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः 01137011c तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः 01137012a गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् 01137012c सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् 01137013a कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च 01137013c ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि 01137014a एवंगते मया शक्यं यद्यत्कारयितुं हितम् 01137014c पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः 01137015a एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः 01137015c उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः 01137016a चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः 01137016c विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः 01137017a पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् 01137017c जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः 01137018a विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः 01137018c यतमाना वनं राजन्गहनं प्रतिपेदिरे 01137019a ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः 01137019c पुनरूचुर्महावीर्यं भीमसेनमिदं वचः 01137020a इतः कष्टतरं किं नु यद्वयं गहने वने 01137020c दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः 01137021a तं च पापं न जानीमो यदि दग्धः पुरोचनः 01137021c कथं नु विप्रमुच्येम भयादस्मादलक्षिताः 01137022a पुनरस्मानुपादाय तथैव व्रज भारत 01137022c त्वं हि नो बलवानेको यथा सततगस्तथा 01137023a इत्युक्तो धर्मराजेन भीमसेनो महाबलः 01137023c आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः 01138001 वैशंपायन उवाच 01138001a तेन विक्रमता तूर्णमूरुवेगसमीरितम् 01138001c प्रववावनिलो राजञ्शुचिशुक्रागमे यथा 01138002a स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् 01138002c आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् 01138003a तथा वृक्षान्भञ्जमानो जगामामितविक्रमः 01138003c तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत 01138004a असकृच्चापि संतीर्य दूरपारं भुजप्लवैः 01138004c पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा 01138005a कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् 01138005c अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च 01138006a आगमंस्ते वनोद्देशमल्पमूलफलोदकम् 01138006c क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः 01138007a घोरा समभवत्संध्या दारुणा मृगपक्षिणः 01138007c अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः 01138008a ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः 01138008c नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया 01138009a ततो भीमो वनं घोरं प्रविश्य विजनं महत् 01138009c न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् 01138010a तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः 01138010c पानीयं मृगयामीह विश्रमध्वमिति प्रभो 01138011a एते रुवन्ति मधुरं सारसा जलचारिणः 01138011c ध्रुवमत्र जलस्थायो महानिति मतिर्मम 01138012a अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत 01138012c जगाम तत्र यत्र स्म रुवन्ति जलचारिणः 01138013a स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ 01138013c उत्तरीयेण पानीयमाजहार तदा नृप 01138014a गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति 01138014c स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले 01138014e भृशं दुःखपरीतात्मा विललाप वृकोदरः 01138015a शयनेषु परार्ध्येषु ये पुरा वारणावते 01138015c नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले 01138016a स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः 01138016c कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् 01138017a स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः 01138017c प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् 01138018a सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् 01138018c शयानां पश्यताद्येह पृथिव्यामतथोचिताम् 01138019a धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् 01138019c सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता 01138020a किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् 01138020c योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले 01138021a त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः 01138021c सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् 01138022a अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि 01138022c शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् 01138023a अश्विनाविव देवानां याविमौ रूपसंपदा 01138023c तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले 01138024a ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः 01138024c स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः 01138025a एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः 01138025c चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः 01138026a येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः 01138026c ते जीवन्ति सुखं लोके भवन्ति च निरामयाः 01138027a बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः 01138027c जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव 01138028a वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना 01138028c विवासिता न दग्धाश्च कथंचित्तस्य शासनात् 01138029a तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः 01138029c कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् 01138030a नातिदूरे च नगरं वनादस्माद्धि लक्षये 01138030c जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् 01138031a पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः 01138031c इति भीमो व्यवस्यैव जजागार स्वयं तदा 01139001 वैशंपायन उवाच 01139001a तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः 01139001c अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः 01139002a क्रूरो मानुषमांसादो महावीर्यो महाबलः 01139002c विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः 01139002e पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया 01139003a ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् 01139003c जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च 01139004a दुष्टो मानुषमांसादो महाकायो महाबलः 01139004c आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् 01139005a उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः 01139005c स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् 01139006a अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः 01139006c देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च 01139007a आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि 01139007c उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु 01139008a गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः 01139008c मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे 01139009a हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् 01139009c अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते 01139010a एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः 01139010c भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम 01139011a भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी 01139011c जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ 01139012a ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह 01139012c शयानान्भीमसेनं च जाग्रतं त्वपराजितम् 01139013a दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् 01139013c राक्षसी कामयामास रूपेणाप्रतिमं भुवि 01139014a अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः 01139014c कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम 01139015a नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् 01139015c पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् 01139016a मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च 01139016c हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः 01139017a सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् 01139017c उपतस्थे महाबाहुं भीमसेनं शनैः शनैः 01139018a विलज्जमानेव लता दिव्याभरणभूषिता 01139018c स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् 01139019a कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ 01139019c क इमे शेरते चेह पुरुषा देवरूपिणः 01139020a केयं च बृहती श्यामा सुकुमारी तवानघ 01139020c शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा 01139021a नेदं जानाति गहनं वनं राक्षससेवितम् 01139021c वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः 01139022a तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा 01139022c बिभक्षयिषता मांसं युष्माकममरोपम 01139023a साहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम् 01139023c नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते 01139024a एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर 01139024c कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् 01139025a त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् 01139025c वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ 01139026a अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च 01139026c अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह 01139027 भीम उवाच 01139027a मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् 01139027c परित्यजेत को न्वद्य प्रभवन्निव राक्षसि 01139028a को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् 01139028c मातरं च नरो गच्छेत्कामार्त इव मद्विधः 01139029 राक्षस्युवाच 01139029a यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय 01139029c मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् 01139030 भीम उवाच 01139030a सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि 01139030c न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः 01139031a न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् 01139031c न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने 01139032a गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु 01139032c तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् 01140001 वैशंपायन उवाच 01140001a तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः 01140001c अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् 01140002a लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः 01140002c मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः 01140003a तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् 01140003c हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः 01140004a आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः 01140004c त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु 01140005a अहं कामगमा वीर रक्षोबलसमन्विता 01140005c आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा 01140006a प्रबोधयैनान्संसुप्तान्मातरं च परंतप 01140006c सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा 01140007 भीम उवाच 01140007a मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते 01140007c अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे 01140008a नायं प्रतिबलो भीरु राक्षसापसदो मम 01140008c सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः 01140009a पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ 01140009c ऊरू परिघसंकाशौ संहतं चाप्युरो मम 01140010a विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने 01140010c मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् 01140011 हिडिम्बोवाच 01140011a नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् 01140011c दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः 01140012 वैशंपायन उवाच 01140012a तथा संजल्पतस्तस्य भीमसेनस्य भारत 01140012c वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः 01140013a अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः 01140013c स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् 01140014a सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् 01140014c सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् 01140015a तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् 01140015c पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः 01140016a संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम 01140016c उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् 01140017a को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः 01140017c न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता 01140018a धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि 01140018c पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि 01140019a यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम 01140019c एष तानद्य वै सर्वान्हनिष्यामि त्वया सह 01140020a एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः 01140020c वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् 01140021a तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः 01140021c भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् 01141001 वैशंपायन उवाच 01141001a भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव 01141001c भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत् 01141002a किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः 01141002c मामासादय दुर्बुद्धे तरसा त्वं नराशन 01141003a मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि 01141003c विशेषतोऽनपकृते परेणापकृते सति 01141004a न हीयं स्ववशा बाला कामयत्यद्य मामिह 01141004c चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा 01141004e भगिनी तव दुर्बुद्धे राक्षसानां यशोहर 01141005a त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च 01141005c कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् 01141006a अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस 01141006c मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि 01141007a समागच्छ मया सार्धमेकेनैको नराशन 01141007c अहमेव नयिष्यामि त्वामद्य यमसादनम् 01141008a अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् 01141008c कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः 01141009a अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते 01141009c कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे 01141010a क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् 01141010c पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् 01141011a अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि 01141011c द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् 01141012a निराबाधास्त्वयि हते मया राक्षसपांसन 01141012c वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः 01141013 हिडिम्ब उवाच 01141013a गर्जितेन वृथा किं ते कत्थितेन च मानुष 01141013c कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः 01141014a बलिनं मन्यसे यच्च आत्मानमपराक्रमम् 01141014c ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् 01141015a न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् 01141015c एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् 01141016a पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि 01141016c हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् 01141017 वैशंपायन उवाच 01141017a एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः 01141017c अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् 01141018a तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः 01141018c वेगेन प्रहृतं बाहुं निजग्राह हसन्निव 01141019a निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह 01141019c तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा 01141020a ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः 01141020c भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् 01141021a पुनर्भीमो बलादेनं विचकर्ष महाबलः 01141021c मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति 01141022a अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा 01141022c राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् 01141023a बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः 01141023c मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ 01141024a तयोः शब्देन महता विबुद्धास्ते नरर्षभाः 01141024c सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् 01142001 वैशंपायन उवाच 01142001a प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् 01142001c विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह 01142002a ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा 01142002c उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः 01142003a कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि 01142003c केन कार्येण सुश्रोणि कुतश्चागमनं तव 01142004a यदि वास्य वनस्यासि देवता यदि वाप्सराः 01142004c आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि 01142005 हिडिम्बोवाच 01142005a यदेतत्पश्यसि वनं नीलमेघनिभं महत् 01142005c निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च 01142006a तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि 01142006c भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता 01142007a क्रूरबुद्धेरहं तस्य वचनादागता इह 01142007c अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् 01142008a ततोऽहं सर्वभूतानां भावे विचरता शुभे 01142008c चोदिता तव पुत्रस्य मन्मथेन वशानुगा 01142009a ततो वृतो मया भर्ता तव पुत्रो महाबलः 01142009c अपनेतुं च यतितो न चैव शकितो मया 01142010a चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः 01142010c स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् 01142011a स तेन मम कान्तेन तव पुत्रेण धीमता 01142011c बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना 01142012a विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् 01142012c पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ 01142013 वैशंपायन उवाच 01142013a तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः 01142013c अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् 01142014a तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् 01142014c काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ 01142015a तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् 01142015c दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः 01142016a वसुधारेणुसंवीतौ वसुधाधरसंनिभौ 01142016c विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ 01142017a राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु 01142017c उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव 01142018a भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् 01142018c समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः 01142019a साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् 01142019c नकुलः सहदेवश्च मातरं गोपयिष्यतः 01142020 भीम उवाच 01142020a उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया 01142020c न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः 01142021 अर्जुन उवाच 01142021a किमनेन चिरं भीम जीवता पापरक्षसा 01142021c गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम 01142022a पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते 01142022c रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च 01142023a त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् 01142023c पुरा विकुरुते मायां भुजयोः सारमर्पय 01142024 वैशंपायन उवाच 01142024a अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः 01142024c उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् 01142025 भीम उवाच 01142025a वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः 01142025c वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि 01142026 अर्जुन उवाच 01142026a अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि 01142026c करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् 01142027a अथ वाप्यहमेवैनं हनिष्यामि वृकोदर 01142027c कृतकर्मा परिश्रान्तः साधु तावदुपारम 01142028 वैशंपायन उवाच 01142028a तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः 01142028c निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् 01142029a स मार्यमाणो भीमेन ननाद विपुलं स्वनम् 01142029c पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः 01142030a भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः 01142030c मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् 01142031a हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः 01142031c अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् 01142032a अभिपूज्य महात्मानं भीमं भीमपराक्रमम् 01142032c पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् 01142033a नदूरे नगरं मन्ये वनादस्मादहं प्रभो 01142033c शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः 01142034a ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः 01142034c प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी 01143001 भीम उवाच 01143001a स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् 01143001c हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् 01143002 युधिष्ठिर उवाच 01143002a क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः 01143002c शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव 01143003a वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् 01143003c रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति 01143004 वैशंपायन उवाच 01143004a हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः 01143004c युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् 01143005a आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् 01143005c तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे 01143006a सोढं तत्परमं दुःखं मया कालप्रतीक्षया 01143006c सोऽयमभ्यागतः कालो भविता मे सुखाय वै 01143007a मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा 01143007c वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे 01143008a वरेणापि तथानेन त्वया चापि यशस्विनि 01143008c तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति 01143009a त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा 01143009c भर्त्रानेन महाभागे संयोजय सुतेन ते 01143010a तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् 01143010c पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे 01143011a अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा 01143011c वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् 01143012a पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः 01143012c यूयं प्रसादं कुरुत भीमसेनो भजेत माम् 01143013a आपदस्तरणे प्राणान्धारयेद्येन येन हि 01143013c सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता 01143014a आपत्सु यो धारयति धर्मं धर्मविदुत्तमः 01143014c व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते 01143015a पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते 01143015c येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते 01143016 युधिष्ठिर उवाच 01143016a एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः 01143016c स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे 01143017a स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् 01143017c भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः 01143018a अहःसु विहरानेन यथाकामं मनोजवा 01143018c अयं त्वानयितव्यस्ते भीमसेनः सदा निशि 01143019 वैशंपायन उवाच 01143019a तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा 01143019c भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः 01143020a शैलशृङ्गेषु रम्येषु देवतायतनेषु च 01143020c मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा 01143021a कृत्वा च परमं रूपं सर्वाभरणभूषिता 01143021c संजल्पन्ती सुमधुरं रमयामास पाण्डवम् 01143022a तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु 01143022c सरःसु रमणीयेषु पद्मोत्पलयुतेषु च 01143023a नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च 01143023c सुतीर्थवनतोयासु तथा गिरिनदीषु च 01143024a सगरस्य प्रदेशेषु मणिहेमचितेषु च 01143024c पत्तनेषु च रम्येषु महाशालवनेषु च 01143025a देवारण्येषु पुण्येषु तथा पर्वतसानुषु 01143025c गुह्यकानां निवासेषु तापसायतनेषु च 01143026a सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च 01143026c बिभ्रती परमं रूपं रमयामास पाण्डवम् 01143027a रमयन्ती तथा भीमं तत्र तत्र मनोजवा 01143027c प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् 01143028a विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् 01143028c भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् 01143029a महेष्वासं महावीर्यं महासत्त्वं महाभुजम् 01143029c महाजवं महाकायं महामायमरिंदमम् 01143030a अमानुषं मानुषजं भीमवेगं महाबलम् 01143030c यः पिशाचानतीवान्यान्बभूवाति स मानुषान् 01143031a बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते 01143031c सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली 01143032a सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च 01143032c कामरूपधराश्चैव भवन्ति बहुरूपिणः 01143033a प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा 01143033c मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः 01143034a घटभासोत्कच इति मातरं सोऽभ्यभाषत 01143034c अभवत्तेन नामास्य घटोत्कच इति स्म ह 01143035a अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः 01143035c तेषां च दयितो नित्यमात्मभूतो बभूव सः 01143036a संवाससमयो जीर्ण इत्यभाषत तं ततः 01143036c हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत 01143037a कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः 01143037c आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् 01143038a स हि सृष्टो मघवता शक्तिहेतोर्महात्मना 01143038c कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः 01144001 वैशंपायन उवाच 01144001a ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् 01144001c अपक्रम्य ययू राजंस्त्वरमाणा महारथाः 01144002a मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च 01144002c रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च 01144003a जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः 01144003c सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः 01144004a क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः 01144004c क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः 01144005a ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः 01144005c नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् 01144006a तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा 01144006c तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः 01144007 व्यास उवाच 01144007a मयेदं मनसा पूर्वं विदितं भरतर्षभाः 01144007c यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः 01144008a तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम् 01144008c न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः 01144009a समास्ते चैव मे सर्वे यूयं चैव न संशयः 01144009c दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः 01144010a तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् 01144010c स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत 01144011a इदं नगरमभ्याशे रमणीयं निरामयम् 01144011c वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः 01144012 वैशंपायन उवाच 01144012a एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् 01144012c एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः 01144013a जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः 01144013c पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् 01144014a धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी 01144014c भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः 01144015a पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः 01144015c स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा 01144016a यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् 01144016c राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः 01144017a अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च 01144017c पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः 01144018a एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने 01144018c अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा 01144019a इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः 01144019c देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् 01144020a स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप 01144020c जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः 01145001 जनमेजय उवाच 01145001a एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः 01145001c अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः 01145002 वैशंपायन उवाच 01145002a एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः 01145002c ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने 01145003a रमणीयानि पश्यन्तो वनानि विविधानि च 01145003c पार्थिवानपि चोद्देशान्सरितश्च सरांसि च 01145004a चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते 01145004c बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः 01145005a निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि 01145005c तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् 01145006a अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः 01145006c अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः 01145007a तथा तु तेषां वसतां तत्र राजन्महात्मनाम् 01145007c अतिचक्राम सुमहान्कालोऽथ भरतर्षभ 01145008a ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः 01145008c संगत्या भीमसेनस्तु तत्रास्ते पृथया सह 01145009a अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने 01145009c भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत 01145010a रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा 01145010c कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे 01145011a मथ्यमानेव दुःखेन हृदयेन पृथा ततः 01145011c उवाच भीमं कल्याणी कृपान्वितमिदं वचः 01145012a वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने 01145012c अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः 01145013a सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् 01145013c प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् 01145014a एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति 01145014c यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः 01145015a तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् 01145015c तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् 01145016 भीम उवाच 01145016a ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् 01145016c विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् 01145017 वैशंपायन उवाच 01145017a तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् 01145017c आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते 01145018a अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः 01145018c विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी 01145019a ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च 01145019c दुहित्रा चैव सहितं ददर्श विकृताननम् 01145020 ब्राह्मण उवाच 01145020a धिगिदं जीवितं लोकेऽनलसारमनर्थकम् 01145020c दुःखमूलं पराधीनं भृशमप्रियभागि च 01145021a जीविते परमं दुःखं जीविते परमो ज्वरः 01145021c जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः 01145022a एकात्मापि हि धर्मार्थौ कामं च न निषेवते 01145022c एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् 01145023a आहुः केचित्परं मोक्षं स च नास्ति कथंचन 01145023c अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते 01145024a अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् 01145024c जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् 01145025a न हि योगं प्रपश्यामि येन मुच्येयमापदः 01145025c पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् 01145026a यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि 01145026c यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् 01145027a इह जाता विवृद्धास्मि पिता चेह ममेति च 01145027c उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् 01145028a स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव 01145028c बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः 01145029a सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम 01145029c बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम 01145030a अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन 01145030c परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् 01145031a सहधर्मचरीं दान्तां नित्यं मातृसमां मम 01145031c सखायं विहितां देवैर्नित्यं परमिकां गतिम् 01145032a मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् 01145032c वरयित्वा यथान्यायं मन्त्रवत्परिणीय च 01145033a कुलीनां शीलसंपन्नामपत्यजननीं मम 01145033c त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् 01145033e परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् 01145034a कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् 01145034c बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् 01145035a भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना 01145035c यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह 01145035e स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे 01145036a मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः 01145036c कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ 01145037a यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् 01145037c अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे 01145038a आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः 01145038c त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् 01145039a एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः 01145039c आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना 01145040a स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् 01145040c अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः 01145040e सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् 01146001 ब्राह्मण्युवाच 01146001a न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् 01146001c न हि संतापकालोऽयं वैद्यस्य तव विद्यते 01146002a अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः 01146002c अवश्यभाविन्यर्थे वै संतापो नेह विद्यते 01146003a भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते 01146003c व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै 01146004a एतद्धि परमं नार्याः कार्यं लोके सनातनम् 01146004c प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् 01146005a तच्च तत्र कृतं कर्म तवापीह सुखावहम् 01146005c भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् 01146006a एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव 01146006c अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते 01146007a यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि 01146007c कन्या चैव कुमारश्च कृताहमनृणा त्वया 01146008a समर्थः पोषणे चासि सुतयो रक्षणे तथा 01146008c न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे 01146009a मम हि त्वद्विहीनायाः सर्वकामा न आपदः 01146009c कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् 01146010a कथं हि विधवानाथा बालपुत्रा विना त्वया 01146010c मिथुनं जीवयिष्यामि स्थिता साधुगते पथि 01146011a अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् 01146011c अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् 01146012a उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः 01146012c प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् 01146013a साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः 01146013c स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम 01146014a कथं तव कुलस्यैकामिमां बालामसंस्कृताम् 01146014c पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे 01146015a कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् 01146015c अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् 01146016a इमामपि च ते बालामनाथां परिभूय माम् 01146016c अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा 01146017a तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् 01146017c प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् 01146018a संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः 01146018c अनर्हवशमापन्नामिमां चापि सुतां तव 01146019a अवज्ञाता च लोकस्य तथात्मानमजानती 01146019c अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः 01146020a तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ 01146020c विनश्येतां न संदेहो मत्स्याविव जलक्षये 01146021a त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् 01146021c त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि 01146022a व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः 01146022c न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् 01146023a परित्यक्तः सुतश्चायं दुहितेयं तथा मया 01146023c बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे 01146024a यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा 01146024c विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः 01146025a तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् 01146025c इष्टं चैव हितं चैव तव चैव कुलस्य च 01146026a इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः 01146026c आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् 01146027a एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन 01146027c न समं सर्वमेवेति बुधानामेष निश्चयः 01146028a स कुरुष्व मया कार्यं तारयात्मानमात्मना 01146028c अनुजानीहि मामार्य सुतौ मे परिरक्ष च 01146029a अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये 01146029c धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि 01146030a निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः 01146030c अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि 01146031a भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया 01146031c त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् 01146032a जातपुत्रा च वृद्धा च प्रियकामा च ते सदा 01146032c समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः 01146033a उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् 01146033c ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव 01146034a न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् 01146034c स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने 01146035a एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् 01146035c आत्मानं तारय मया कुलं चेमौ च दारकौ 01146036 वैशंपायन उवाच 01146036a एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत 01146036c मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः 01147001 वैशंपायन उवाच 01147001a तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् 01147001c भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत 01147002a किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् 01147002c ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम् 01147003a धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः 01147003c त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया 01147004a इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति 01147004c तस्मिन्नुपस्थिते काले तरतं प्लववन्मया 01147005a इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् 01147005c सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः 01147006a आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः 01147006c तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः 01147007a भ्राता च मम बालोऽयं गते लोकममुं त्वयि 01147007c अचिरेणैव कालेन विनश्येत न संशयः 01147008a तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे 01147008c पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् 01147009a पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् 01147009c दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता 01147010a त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः 01147010c संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् 01147011a आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल 01147011c स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय 01147012a अनाथा कृपणा बाला यत्रक्वचनगामिनी 01147012c भविष्यामि त्वया तात विहीना कृपणा बत 01147013a अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् 01147013c फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् 01147014a अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम 01147014c पीडिताहं भविष्यामि तदवेक्षस्व मामपि 01147015a तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम 01147015c आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज 01147016a अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् 01147016c त्वया दत्तेन तोयेन भविष्यति हितं च मे 01147017a किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि 01147017c याचमानाः परादन्नं परिधावेमहि श्ववत् 01147018a त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे 01147018c अमृते वसती लोके भविष्यामि सुखान्विता 01147019a एवं बहुविधं तस्या निशम्य परिदेवितम् 01147019c पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः 01147020a ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः 01147020c उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् 01147021a मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् 01147021c प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति 01147022a ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् 01147022c अनेन तं हनिष्यामि राक्षसं पुरुषादकम् 01147023a तथापि तेषां दुःखेन परीतानां निशम्य तत् 01147023c बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् 01147024a अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् 01147024c गतासूनमृतेनेव जीवयन्तीदमब्रवीत् 01148001 कुन्त्युवाच 01148001a कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः 01148001c विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् 01148002 ब्राह्मण उवाच 01148002a उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने 01148002c न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् 01148003a समीपे नगरस्यास्य बको वसति राक्षसः 01148003c ईशो जनपदस्यास्य पुरस्य च महाबलः 01148004a पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः 01148004c रक्षत्यसुरराण्नित्यमिमं जनपदं बली 01148005a नगरं चैव देशं च रक्षोबलसमन्वितः 01148005c तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् 01148006a वेतनं तस्य विहितं शालिवाहस्य भोजनम् 01148006c महिषौ पुरुषश्चैको यस्तदादाय गच्छति 01148007a एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् 01148007c स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः 01148008a तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् 01148008c सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत 01148009a वेत्रकीयगृहे राजा नायं नयमिहास्थितः 01148009c अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् 01148010a एतदर्हा वयं नूनं वसामो दुर्बलस्य ये 01148010c विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः 01148011a ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः 01148011c गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा 01148012a राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् 01148012c त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत् 01148013a विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् 01148013c त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् 01148014a सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः 01148014c भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया 01148015a न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् 01148015c सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन 01148015e गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः 01148016a सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् 01148016c सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् 01148016e ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति 01149001 कुन्त्युवाच 01149001a न विषादस्त्वया कार्यो भयादस्मात्कथंचन 01149001c उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः 01149002a एकस्तव सुतो बालः कन्या चैका तपस्विनी 01149002c न ते तयोस्तथा पत्न्या गमनं तत्र रोचये 01149003a मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति 01149003c त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः 01149004 ब्राह्मण उवाच 01149004a नाहमेतत्करिष्यामि जीवितार्थी कथंचन 01149004c ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् 01149005a न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते 01149005c यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् 01149006a आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये 01149006c ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम 01149007a ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते 01149007c अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम 01149008a न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे 01149008c परैः कृते वधे पापं न किंचिन्मयि विद्यते 01149009a अभिसंधिकृते तस्मिन्ब्राह्मणस्य वधे मया 01149009c निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च 01149010a आगतस्य गृहे त्यागस्तथैव शरणार्थिनः 01149010c याचमानस्य च वधो नृशंसं परमं मतम् 01149011a कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन 01149011c इति पूर्वे महात्मान आपद्धर्मविदो विदुः 01149012a श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् 01149012c ब्राह्मणस्य वधं नाहमनुमंस्ये कथंचन 01149013 कुन्त्युवाच 01149013a ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा 01149013c न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् 01149014a न चासौ राक्षसः शक्तो मम पुत्रविनाशने 01149014c वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम 01149015a राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् 01149015c मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः 01149016a समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः 01149016c बलवन्तो महाकाया निहताश्चाप्यनेकशः 01149017a न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथंचन 01149017c विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् 01149018a गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम 01149018c न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् 01149019 वैशंपायन उवाच 01149019a एवमुक्तस्तु पृथया स विप्रो भार्यया सह 01149019c हृष्टः संपूजयामास तद्वाक्यममृतोपमम् 01149020a ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् 01149020c तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ 01150001 वैशंपायन उवाच 01150001a करिष्य इति भीमेन प्रतिज्ञाते तु भारत 01150001c आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः 01150002a आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः 01150002c रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् 01150003a किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः 01150003c भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति 01150004 कुन्त्युवाच 01150004a ममैव वचनादेष करिष्यति परंतपः 01150004c ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च 01150005 युधिष्ठिर उवाच 01150005a किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् 01150005c परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः 01150006a कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि 01150006c लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया 01150007a यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे 01150007c राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः 01150008a यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः 01150008c न शेते वसतीः सर्वा दुःखाच्छकुनिना सह 01150009a यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् 01150009c अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः 01150010a यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम् 01150010c इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् 01150011a तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया 01150011c कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः 01150012 कुन्त्युवाच 01150012a युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम् 01150012c न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया 01150013a इह विप्रस्य भवने वयं पुत्र सुखोषिताः 01150013c तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता 01150013e एतावानेव पुरुषः कृतं यस्मिन्न नश्यति 01150014a दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् 01150014c हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे 01150015a बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् 01150015c येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् 01150016a वृकोदरबलो नान्यो न भूतो न भविष्यति 01150016c योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् 01150017a जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ 01150017c शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता 01150018a तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव 01150018c प्रतीकारं च विप्रस्य ततः कृतवती मतिम् 01150019a नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् 01150019c बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया 01150020a अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः 01150020c प्रतीकारश्च वासस्य धर्मश्च चरितो महान् 01150021a यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् 01150021c क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् 01150022a क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् 01150022c विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च 01150023a वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि 01150023c स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् 01150024a शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् 01150024c प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते 01150025a एवं स भगवान्व्यासः पुरा कौरवनन्दन 01150025c प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् 01150026 युधिष्ठिर उवाच 01150026a उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् 01150026c आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् 01150026e ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् 01150027a यथा त्विदं न विन्देयुर्नरा नगरवासिनः 01150027c तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः 01151001 वैशंपायन उवाच 01151001a ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः 01151001c भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः 01151002a आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली 01151002c आजुहाव ततो नाम्ना तदन्नमुपयोजयन् 01151003a ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः 01151003c आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः 01151004a महाकायो महावेगो दारयन्निव मेदिनीम् 01151004c त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् 01151005a भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः 01151005c विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् 01151006a कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् 01151006c पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् 01151007a भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत 01151007c राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः 01151008a ततः स भैरवं कृत्वा समुद्यम्य करावुभौ 01151008c अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः 01151009a तथापि परिभूयैनं नेक्षमाणो वृकोदरः 01151009c राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा 01151010a अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः 01151010c जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः 01151011a तथा बलवता भीमः पाणिभ्यां भृशमाहतः 01151011c नैवावलोकयामास राक्षसं भुङ्क्त एव सः 01151012a ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः 01151012c ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली 01151013a ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः 01151013c वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः 01151014a क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् 01151014c सव्येन पाणिना भीमः प्रहसन्निव भारत 01151015a ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली 01151015c प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः 01151016a तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 01151016c घोररूपं महाराज बकपाण्डवयोर्महत् 01151017a नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् 01151017c भुजाभ्यां परिजग्राह भीमसेनं महाबलम् 01151018a भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः 01151018c विस्फुरन्तं महावेगं विचकर्ष बलाद्बली 01151019a स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् 01151019c समयुज्यत तीव्रेण श्रमेण पुरुषादकः 01151020a तयोर्वेगेन महता पृथिवी समकम्पत 01151020c पादपांश्च महाकायांश्चूर्णयामासतुस्तदा 01151021a हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ 01151021c निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः 01151022a ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव 01151022c बाहुना परिजग्राह दक्षिणेन शिरोधराम् 01151023a सव्येन च कटीदेशे गृह्य वाससि पाण्डवः 01151023c तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् 01151024a ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते 01151024c भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः 01152001 वैशंपायन उवाच 01152001a तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः 01152001c निष्पपात गृहाद्राजन्सहैव परिचारिभिः 01152002a तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः 01152002c सान्त्वयामास बलवान्समये च न्यवेशयत् 01152003a न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् 01152003c हिंसतां हि वधः शीघ्रमेवमेव भवेदिति 01152004a तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत 01152004c एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् 01152005a ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत 01152005c नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः 01152006a ततो भीमस्तमादाय गतासुं पुरुषादकम् 01152006c द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः 01152007a ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् 01152007c आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः 01152008a ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु 01152008c ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् 01152009a तमद्रिकूटसदृशं विनिकीर्णं भयावहम् 01152009c एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे 01152010a ततः सहस्रशो राजन्नरा नगरवासिनः 01152010c तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः 01152011a ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् 01152011c दैवतान्यर्चयां चक्रुः सर्व एव विशां पते 01152012a ततः प्रगणयामासुः कस्य वारोऽद्य भोजने 01152012c ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् 01152013a एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् 01152013c उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा 01152014a आज्ञापितं मामशने रुदन्तं सह बन्धुभिः 01152014c ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः 01152015a परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च 01152015c अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव 01152016a प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने 01152016c मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् 01152017a स तदन्नमुपादाय गतो बकवनं प्रति 01152017c तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् 01152018a ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः 01152018c वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा 01152019a ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति 01152019c तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् 01153001 जनमेजय उवाच 01153001a ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् 01153001c अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः 01153002 वैशंपायन उवाच 01153002a तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् 01153002c अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने 01153003a ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः 01153003c प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह 01153004a स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा 01153004c ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती 01153005a ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः 01153005c उपासां चक्रिरे विप्रं कथयानं कथास्तदा 01153006a कथयामास देशान्स तीर्थानि विविधानि च 01153006c राज्ञां च विविधाश्चर्याः पुराणि विविधानि च 01153007a स तत्राकथयद्विप्रः कथान्ते जनमेजय 01153007c पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् 01153008a धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः 01153008c अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे 01153009a तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः 01153009c विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः 01153010a कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् 01153010c वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः 01153011a कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत 01153011c कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च 01153012a एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः 01153012c कथयामास तत्सर्वं द्रौपदीसंभवं तदा 01154001 ब्राह्मण उवाच 01154001a गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः 01154001c भरद्वाजो महाप्राज्ञः सततं संशितव्रतः 01154002a सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् 01154002c ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः 01154003a तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा 01154003c अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः 01154004a तस्यां संसक्तमनसः कौमारब्रह्मचारिणः 01154004c हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे 01154005a ततः समभवद्द्रोणः कुमारस्तस्य धीमतः 01154005c अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः 01154006a भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः 01154006c तस्यापि द्रुपदो नाम तदा समभवत्सुतः 01154007a स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः 01154007c चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः 01154008a ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् 01154008c द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः 01154009a वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् 01154009c आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ 01154010 राम उवाच 01154010a शरीरमात्रमेवाद्य मयेदमवशेषितम् 01154010c अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु 01154011 द्रोण उवाच 01154011a अस्त्राणि चैव सर्वाणि तेषां संहारमेव च 01154011c प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् 01154012 ब्राह्मण उवाच 01154012a तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः 01154012c प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा 01154013a संप्रहृष्टमनाश्चापि रामात्परमसंमतम् 01154013c ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् 01154014a ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् 01154014c अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति 01154015 द्रुपद उवाच 01154015a नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा 01154015c नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते 01154016 ब्राह्मण उवाच 01154016a स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् 01154016c जगाम कुरुमुख्यानां नगरं नागसाह्वयम् 01154017a तस्मै पौत्रान्समादाय वसूनि विविधानि च 01154017c प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते 01154018a द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् 01154018c समानीय तदा विद्वान्द्रुपदस्यासुखाय वै 01154019a आचार्यवेतनं किंचिद्धृदि संपरिवर्तते 01154019c कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः 01154020a यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः 01154020c ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः 01154021a पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः 01154021c तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् 01154022a ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि 01154022c द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा 01154023 द्रोण उवाच 01154023a प्रार्थयामि त्वया सख्यं पुनरेव नराधिप 01154023c अराजा किल नो राज्ञः सखा भवितुमर्हति 01154024a अतः प्रयतितं राज्ये यज्ञसेन मया तव 01154024c राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे 01154025 ब्राह्मण उवाच 01154025a असत्कारः स सुमहान्मुहूर्तमपि तस्य तु 01154025c न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् 01155001 ब्राह्मण उवाच 01155001a अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् 01155001c अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् 01155002a पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः 01155002c नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् 01155003a जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् 01155003c निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया 01155004a प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च 01155004c क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत 01155004e प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत 01155005a अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् 01155005c ब्राह्मणावसथं पुण्यमाससाद महीपतिः 01155006a तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः 01155006c तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ 01155007a याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः 01155007c संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ 01155008a तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ 01155008c स तावामन्त्रयामास सर्वकामैरतन्द्रितः 01155009a बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे 01155009c प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् 01155010a पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः 01155010c अर्हयित्वा यथान्यायमुपयाजमुवाच सः 01155011a येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे 01155011c उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् 01155012a यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् 01155012c सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः 01155013a इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह 01155013c आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः 01155014a ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः 01155014c उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा 01155015a ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे 01155015c अपरिज्ञातशौचायां भूमौ निपतितं फलम् 01155016a तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् 01155016c विमर्शं संकरादाने नायं कुर्यात्कथंचन 01155017a दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः 01155017c विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् 01155018a संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः 01155018c भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा 01155018e कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः 01155019a तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा 01155019c तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति 01155020a जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् 01155020c उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् 01155020e अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह 01155021a अयुतानि ददान्यष्टौ गवां याजय मां विभो 01155021c द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि 01155022a स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः 01155022c तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे 01155023a क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः 01155023c कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः 01155024a द्रोणस्य शरजालानि प्राणिदेहहराणि च 01155024c षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् 01155025a स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् 01155025c प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः 01155026a क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः 01155026c तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि 01155027a ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः 01155027c समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः 01155027e ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते 01155028a सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् 01155028c द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् 01155029a द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् 01155029c तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् 01155030a तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् 01155030c गुर्वर्थ इति चाकाममुपयाजमचोदयत् 01155030e याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः 01155031a ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः 01155031c आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै 01155032a स च पुत्रो महावीर्यो महातेजा महाबलः 01155032c इष्यते यद्विधो राजन्भविता ते तथाविधः 01155033a भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः 01155033c आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये 01155034a याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा 01155034c प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् 01155035 देव्युवाच 01155035a अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च 01155035c सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये 01155036 याज उवाच 01155036a याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् 01155036c कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा 01155037 ब्राह्मण उवाच 01155037a एवमुक्ते तु याजेन हुते हविषि संस्कृते 01155037c उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः 01155038a ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् 01155038c बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः 01155039a सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा 01155039c ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति 01155040a भयापहो राजपुत्रः पाञ्चालानां यशस्करः 01155040c राज्ञः शोकापहो जात एष द्रोणवधाय वै 01155040e इत्युवाच महद्भूतमदृश्यं खेचरं तदा 01155041a कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता 01155041c सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा 01155042a श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा 01155042c मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी 01155043a नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति 01155043c या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि 01155044a तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी 01155044c सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति 01155045a सुरकार्यमियं काले करिष्यति सुमध्यमा 01155045c अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् 01155046a तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् 01155046c न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा 01155047a तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी 01155047c न वै मदन्यां जननीं जानीयातामिमाविति 01155048a तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया 01155048c तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः 01155049a धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि 01155049c धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति 01155050a कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः 01155050c तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे 01155051a धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् 01155051c उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् 01155052a अमोक्षणीयं दैवं हि भावि मत्वा महामतिः 01155052c तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् 01156001 वैशंपायन उवाच 01156001a एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् 01156001c सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः 01156002a ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः 01156002c युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी 01156003a चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने 01156003c रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर 01156004a यानीह रमणीयानि वनान्युपवनानि च 01156004c सर्वाणि तानि दृष्टानि पुनः पुनररिंदम 01156005a पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा 01156005c भैक्षं च न तथा वीर लभ्यते कुरुनन्दन 01156006a ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे 01156006c अपूर्वदर्शनं तात रमणीयं भविष्यति 01156007a सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन 01156007c यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः 01156008a एकत्र चिरवासो हि क्षमो न च मतो मम 01156008c ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे 01156009 युधिष्ठिर उवाच 01156009a भवत्या यन्मतं कार्यं तदस्माकं परं हितम् 01156009c अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः 01156010 वैशंपायन उवाच 01156010a ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा 01156010c उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा 01156011a तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह 01156011c प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः 01157001 वैशंपायन उवाच 01157001a वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु 01157001c आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः 01157002a तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः 01157002c प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा 01157003a समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् 01157003c प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः 01157004a अपि धर्मेण वर्तध्वं शास्त्रेण च परंतपाः 01157004c अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते 01157005a अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः 01157005c विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् 01157006a आसीत्तपोवने काचिदृषेः कन्या महात्मनः 01157006c विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता 01157007a कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत 01157007c नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती 01157008a तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः 01157008c तोषयामास तपसा सा किलोग्रेण शंकरम् 01157009a तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् 01157009c वरं वरय भद्रं ते वरदोऽस्मीति भामिनि 01157010a अथेश्वरमुवाचेदमात्मनः सा वचो हितम् 01157010c पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः 01157011a तामथ प्रत्युवाचेदमीशानो वदतां वरः 01157011c पञ्च ते पतयो भद्रे भविष्यन्तीति शंकरः 01157012a प्रतिब्रुवन्तीमेकं मे पतिं देहीति शंकरम् 01157012c पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् 01157013a पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः 01157013c देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति 01157014a द्रुपदस्य कुले जाता कन्या सा देवरूपिणी 01157014c निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता 01157015a पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः 01157015c सुखिनस्तामनुप्राप्य भविष्यथ न संशयः 01157016a एवमुक्त्वा महाभागः पाण्डवानां पितामहः 01157016c पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः 01158001 वैशंपायन उवाच 01158001a ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः 01158001c समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः 01158002a ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् 01158002c आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः 01158003a उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः 01158003c प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः 01158004a तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः 01158004c ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः 01158005a शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् 01158005c तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली 01158006a स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान् 01158006c विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् 01158007a संध्या संरज्यते घोरा पूर्वरात्रागमेषु या 01158007c अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते 01158008a विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् 01158008c शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् 01158009a लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् 01158009c उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् 01158010a ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः 01158010c गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि 01158011a आरात्तिष्ठत मा मह्यं समीपमुपसर्पत 01158011c कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् 01158012a अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् 01158012c अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा 01158013a अङ्गारपर्णमिति च ख्यातं वनमिदं मम 01158013c अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् 01158014a न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः 01158014c इदं समुपसर्पन्ति तत्किं समुपसर्पथ 01158015 अर्जुन उवाच 01158015a समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते 01158015c रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः 01158016a वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः 01158016c अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः 01158017a पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता 01158017c गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते 01158018a इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः 01158018c देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् 01158019a तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः 01158019c गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् 01158020a असंबाधा देवनदी स्वर्गसंपादनी शुभा 01158020c कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः 01158021a अनिवार्यमसंबाधं तव वाचा कथं वयम् 01158021c न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् 01158022 वैशंपायन उवाच 01158022a अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् 01158022c मुमोच सायकान्दीप्तानहीनाशीविषानिव 01158023a उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् 01158023c व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः 01158024 अर्जुन उवाच 01158024a बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते 01158024c अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते 01158025a मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये 01158025c तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया 01158026a पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः 01158026c भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः 01158027a भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम 01158027c स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः 01158028 वैशंपायन उवाच 01158028a इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह 01158028c प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् 01158029a विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् 01158029c अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् 01158030a शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः 01158030c भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् 01158031a युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी 01158031c नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती 01158032 गन्धर्व्युवाच 01158032a त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे 01158032c गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो 01158033 युधिष्ठिर उवाच 01158033a युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् 01158033c को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन 01158034 अर्जुन उवाच 01158034a अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः 01158034c प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः 01158035 गन्धर्व उवाच 01158035a जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् 01158035c न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि 01158036a साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् 01158036c गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् 01158037a अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः 01158037c सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् 01158038a संभृता चैव विद्येयं तपसेह पुरा मया 01158038c निवेदयिष्ये तामद्य प्राणदाया महात्मने 01158039a संस्तम्भितं हि तरसा जितं शरणमागतम् 01158039c योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति 01158040a चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः 01158040c ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ 01158041a सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति 01158041c आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे 01158042a यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन 01158042c तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति 01158043a समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् 01158043c अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते 01158044a विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः 01158044c अविशिष्टाश्च देवानामनुभावप्रवर्तिताः 01158045a गन्धर्वजानामश्वानामहं पुरुषसत्तम 01158045c भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् 01158046a देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः 01158046c क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः 01158047a पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे 01158047c दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि 01158048a ततो भागीकृतो देवैर्वज्रभाग उपास्यते 01158048c लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता 01158049a वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् 01158049c वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः 01158050a वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः 01158050c रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः 01158051a कामवर्णाः कामजवाः कामतः समुपस्थिताः 01158051c इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः 01158052 अर्जुन उवाच 01158052a यदि प्रीतेन वा दत्तं संशये जीवितस्य वा 01158052c विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये 01158053 गन्धर्व उवाच 01158053a संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते 01158053c जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते 01158054a त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् 01158054c तथैव सख्यं बीभत्सो चिराय भरतर्षभ 01158055 अर्जुन उवाच 01158055a त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ 01158055c सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् 01159001 अर्जुन उवाच 01159001a कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः 01159001c यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम 01159002 गन्धर्व उवाच 01159002a अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः 01159002c यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन 01159003a यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः 01159003c विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते 01159004a नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् 01159004c गुणान्कथयतां वीर पूर्वेषां तव धीमताम् 01159005a स्वयं चापि मया दृष्टश्चरता सागराम्बराम् 01159005c इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते 01159006a वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन 01159006c विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् 01159007a धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा 01159007c पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् 01159007e पितॄनेतानहं पार्थ देवमानुषसत्तमान् 01159008a दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः 01159008c भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः 01159009a उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् 01159009c जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् 01159010a स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति 01159010c धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः 01159011a नक्तं च बलमस्माकं भूय एवाभिवर्धते 01159011c यतस्ततो मां कौन्तेय सदारं मन्युराविशत् 01159012a सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन 01159012c येन तेनेह विधिना कीर्त्यमानं निबोध मे 01159013a ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि 01159013c यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया 01159014a यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप 01159014c नक्तं च युधि युध्येत न स जीवेत्कथंचन 01159015a यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे 01159015c जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः 01159016a तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् 01159016c तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः 01159017a वेदे षडङ्गे निरताः शुचयः सत्यवादिनः 01159017c धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः 01159018a जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् 01159018c यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः 01159019a लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् 01159019c पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् 01159020a पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः 01159020c प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् 01159021a न हि केवलशौर्येण तापत्याभिजनेन च 01159021c जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् 01159022a तस्मादेवं विजानीहि कुरूणां वंशवर्धन 01159022c ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् 01160001 अर्जुन उवाच 01160001a तापत्य इति यद्वाक्यमुक्तवानसि मामिह 01160001c तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् 01160002a तपती नाम का चैषा तापत्या यत्कृते वयम् 01160002c कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् 01160003 वैशंपायन उवाच 01160003a एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् 01160003c विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् 01160004 गन्धर्व उवाच 01160004a हन्त ते कथयिष्यामि कथामेतां मनोरमाम् 01160004c यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर 01160005a उक्तवानस्मि येन त्वां तापत्य इति यद्वचः 01160005c तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम 01160006a य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा 01160006c एतस्य तपती नाम बभूवासदृशी सुता 01160007a विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो 01160007c विश्रुता त्रिषु लोकेषु तपती तपसा युता 01160008a न देवी नासुरी चैव न यक्षी न च राक्षसी 01160008c नाप्सरा न च गन्धर्वी तथारूपेण काचन 01160009a सुविभक्तानवद्याङ्गी स्वसितायतलोचना 01160009c स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी 01160010a न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत 01160010c भर्तारं सविता मेने रूपशीलकुलश्रुतैः 01160011a संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् 01160011c नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् 01160012a अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली 01160012c सूर्यमाराधयामास नृपः संवरणः सदा 01160013a अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः 01160013c नियमैरुपवासैश्च तपोभिर्विविधैरपि 01160014a शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः 01160014c अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् 01160015a ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि 01160015c तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् 01160016a दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् 01160016c नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै 01160017a यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा 01160017c तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् 01160018a यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः 01160018c तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः 01160019a स सोममति कान्तत्वादादित्यमति तेजसा 01160019c बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि 01160020a एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव 01160020c तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् 01160021a स कदाचिदथो राजा श्रीमानुरुयशा भुवि 01160021c चचार मृगयां पार्थ पर्वतोपवने किल 01160022a चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः 01160022c ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः 01160023a स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः 01160023c ददर्शासदृशीं लोके कन्यामायतलोचनाम् 01160024a स एक एकामासाद्य कन्यां तामरिमर्दनः 01160024c तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः 01160025a स हि तां तर्कयामास रूपतो नृपतिः श्रियम् 01160025c पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम् 01160026a गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना 01160026c स सवृक्षक्षुपलतो हिरण्मय इवाभवत् 01160027a अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः 01160027c अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् 01160028a जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः 01160028c रूपं न सदृशं तस्यास्तर्कयामास किंचन 01160029a तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा 01160029c न चचाल ततो देशाद्बुबुधे न च किंचन 01160030a अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् 01160030c लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् 01160031a एवं स तर्कयामास रूपद्रविणसंपदा 01160031c कन्यामसदृशीं लोके नृपः संवरणस्तदा 01160032a तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः 01160032c जगाम मनसा चिन्तां काममार्गणपीडितः 01160033a दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना 01160033c अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् 01160034a कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि 01160034c कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते 01160035a त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता 01160035c विभूषणमिवैतेषां भूषणानामभीप्सितम् 01160036a न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् 01160036c न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् 01160037a या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः 01160037c न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि 01160038a एवं तां स महीपालो बभाषे न तु सा तदा 01160038c कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन 01160039a ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा 01160039c सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत 01160040a तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा 01160040c वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा 01160041a अपश्यमानः स तु तां बहु तत्र विलप्य च 01160041c निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत 01161001 गन्धर्व उवाच 01161001a अथ तस्यामदृश्यायां नृपतिः काममोहितः 01161001c पातनः शत्रुसंघानां पपात धरणीतले 01161002a तस्मिन्निपतिते भूमावथ सा चारुहासिनी 01161002c पुनः पीनायतश्रोणी दर्शयामास तं नृपम् 01161003a अथाबभाषे कल्याणी वाचा मधुरया नृपम् 01161003c तं कुरूणां कुलकरं कामाभिहतचेतसम् 01161004a उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम 01161004c मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ 01161005a एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा 01161005c ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् 01161006a अथ तामसितापाङ्गीमाबभाषे नराधिपः 01161006c मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा 01161007a साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि 01161007c भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् 01161008a त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः 01161008c कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति 01161009a ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना 01161009c सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने 01161010a त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि 01161010c चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने 01161011a न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना 01161011c तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने 01161012a भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि 01161012c त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि 01161013a गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि 01161013c विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते 01161014 तपत्युवाच 01161014a नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् 01161014c मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम 01161015a यथा हि ते मया प्राणाः संगृहीता नरेश्वर 01161015c दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः 01161016a न चाहमीशा देहस्य तस्मान्नृपतिसत्तम 01161016c समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः 01161017a का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् 01161017c कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् 01161018a तस्मादेवंगते काले याचस्व पितरं मम 01161018c आदित्यं प्रणिपातेन तपसा नियमेन च 01161019a स चेत्कामयते दातुं तव मामरिमर्दन 01161019c भविष्याम्यथ ते राजन्सततं वशवर्तिनी 01161020a अहं हि तपती नाम सावित्र्यवरजा सुता 01161020c अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ 01162001 गन्धर्व उवाच 01162001a एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता 01162001c स तु राजा पुनर्भूमौ तत्रैव निपपात ह 01162002a अमात्यः सानुयात्रस्तु तं ददर्श महावने 01162002c क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् 01162003a तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ 01162003c बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना 01162004a त्वरया चोपसंगम्य स्नेहादागतसंभ्रमः 01162004c तं समुत्थापयामास नृपतिं काममोहितम् 01162005a भूतलाद्भूमिपालेशं पितेव पतितं सुतम् 01162005c प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च 01162006a अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः 01162006c उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् 01162006e मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ 01162007a क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् 01162007c पतितं पातनं संख्ये शात्रवाणां महीतले 01162008a वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् 01162008c अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना 01162009a ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः 01162009c सर्वं विसर्जयामास तमेकं सचिवं विना 01162010a ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् 01162010c स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् 01162011a ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः 01162011c आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ 01162012a जगाम मनसा चैव वसिष्ठमृषिसत्तमम् 01162012c पुरोहितममित्रघ्नस्तदा संवरणो नृपः 01162013a नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे 01162013c अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि 01162014a स विदित्वैव नृपतिं तपत्या हृतमानसम् 01162014c दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः 01162015a तथा तु नियतात्मानं स तं नृपतिसत्तमम् 01162015c आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया 01162016a स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः 01162016c ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः 01162017a सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः 01162017c वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् 01162018a तमुवाच महातेजा विवस्वान्मुनिसत्तमम् 01162018c महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि 01163001 वसिष्ठ उवाच 01163001a यैषा ते तपती नाम सावित्र्यवरजा सुता 01163001c तां त्वां संवरणस्यार्थे वरयामि विभावसो 01163002a स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः 01163002c युक्तः संवरणो भर्ता दुहितुस्ते विहंगम 01163003 गन्धर्व उवाच 01163003a इत्युक्तः सविता तेन ददानीत्येव निश्चितः 01163003c प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः 01163004a वरः संवरणो राज्ञां त्वमृषीणां वरो मुने 01163004c तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् 01163005a ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम् 01163005c ददौ संवरणस्यार्थे वसिष्ठाय महात्मने 01163005e प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा 01163006a वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह 01163006c यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत् 01163007a स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना 01163007c दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् 01163007e वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ 01163008a कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते 01163008c आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः 01163009a तपसाराध्य वरदं देवं गोपतिमीश्वरम् 01163009c लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा 01163010a ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते 01163010c जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः 01163011a वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे 01163011c सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया 01163012a ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च 01163012c आदिदेश महीपालस्तमेव सचिवं तदा 01163013a नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे 01163013c सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः 01163014a ततो द्वादश वर्षाणि काननेषु जलेषु च 01163014c रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया 01163015a तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः 01163015c न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः 01163016a तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः 01163016c अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् 01163017a ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः 01163017c अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् 01163018a तं च पार्थिवशार्दूलमानयामास तत्पुरम् 01163018c तपत्या सहितं राजन्नुषितं द्वादशीः समाः 01163019a ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा 01163019c तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः 01163020a ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा 01163020c तेन पार्थिवमुख्येन भावितं भावितात्मना 01163021a ततो द्वादश वर्षाणि पुनरीजे नराधिपः 01163021c पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः 01163022a एवमासीन्महाभागा तपती नाम पौर्विकी 01163022c तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः 01163023a तस्यां संजनयामास कुरुं संवरणो नृपः 01163023c तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन 01164001 वैशंपायन उवाच 01164001a स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ 01164001c अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ 01164002a उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः 01164002c जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् 01164003a वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् 01164003c एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे 01164004a य एष गन्धर्वपते पूर्वेषां नः पुरोहितः 01164004c आसीदेतन्ममाचक्ष्व क एष भगवानृषिः 01164005 गन्धर्व उवाच 01164005a तपसा निर्जितौ शश्वदजेयावमरैरपि 01164005c कामक्रोधावुभौ यस्य चरणौ संववाहतुः 01164006a यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः 01164006c विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् 01164007a पुत्रव्यसनसंतप्तः शक्तिमानपि यः प्रभुः 01164007c विश्वामित्रविनाशाय न मेने कर्म दारुणम् 01164008a मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् 01164008c कृतान्तं नातिचक्राम वेलामिव महोदधिः 01164009a यं प्राप्य विजितात्मानं महात्मानं नराधिपाः 01164009c इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् 01164010a पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् 01164010c ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन 01164011a स हि तान्याजयामास सर्वान्नृपतिसत्तमान् 01164011c ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् 01164012a तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः 01164012c ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् 01164013a क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता 01164013c पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये 01164014a महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् 01164014c तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः 01165001 अर्जुन उवाच 01165001a किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः 01165001c वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् 01165002 गन्धर्व उवाच 01165002a इदं वासिष्ठमाख्यानं पुराणं परिचक्षते 01165002c पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे 01165003a कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ 01165003c गाधीति विश्रुतो लोके सत्यधर्मपरायणः 01165004a तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः 01165004c विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः 01165005a स चचार सहामात्यो मृगयां गहने वने 01165005c मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु 01165006a व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः 01165006c आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति 01165007a तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः 01165007c विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया 01165008a पाद्यार्घ्याचमनीयेन स्वागतेन च भारत 01165008c तथैव प्रतिजग्राह वन्येन हविषा तथा 01165009a तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः 01165009c उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः 01165010a ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च 01165010c षड्रसं चामृतरसं रसायनमनुत्तमम् 01165011a भोजनीयानि पेयानि भक्ष्याणि विविधानि च 01165011c लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन 01165012a तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः 01165012c सामात्यः सबलश्चैव तुतोष स भृशं नृपः 01165013a षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् 01165013c मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् 01165014a सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् 01165014c पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् 01165015a अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् 01165015c अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा 01165016a अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः 01165016c नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने 01165017 वसिष्ठ उवाच 01165017a देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी 01165017c अदेया नन्दिनीयं मे राज्येनापि तवानघ 01165018 विश्वामित्र उवाच 01165018a क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः 01165018c ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु 01165019a अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् 01165019c स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् 01165020 वसिष्ठ उवाच 01165020a बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः 01165020c यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय 01165021 गन्धर्व उवाच 01165021a एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव 01165021c हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् 01165022a कशादण्डप्रतिहता काल्यमाना ततस्ततः 01165022c हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी 01165023a आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी 01165023c भृशं च ताड्यमानापि न जगामाश्रमात्ततः 01165024 वसिष्ठ उवाच 01165024a शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः 01165024c बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् 01165025 गन्धर्व उवाच 01165025a सा तु तेषां बलान्नन्दी बलानां भरतर्षभ 01165025c विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् 01165026 गौरुवाच 01165026a पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् 01165026c विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे 01165027 गन्धर्व उवाच 01165027a एवं तस्यां तदा पर्थ धर्षितायां महामुनिः 01165027c न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः 01165028 वसिष्ठ उवाच 01165028a क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् 01165028c क्षमा मां भजते तस्माद्गम्यतां यदि रोचते 01165029 गौरुवाच 01165029a किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे 01165029c अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् 01165030 वसिष्ठ उवाच 01165030a न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते 01165030c दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् 01165031 गन्धर्व उवाच 01165031a स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी 01165031c ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना 01165032a क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना 01165032c विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः 01165033a कशाग्रदण्डाभिहता काल्यमाना ततस्ततः 01165033c क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे 01165034a आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ 01165034c अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् 01165035a असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् 01165035c मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता 01165036a पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा 01165036c तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह 01165037a तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा 01165037c नानावरणसंछन्नैर्नानायुधधरैस्तथा 01165037e अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः 01165038a एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः 01165038c अस्त्रवर्षेण महता काल्यमानं बलं ततः 01165038e प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः 01165039a न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा 01165039c विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ 01165040a विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् 01165040c क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत 01165041a दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा 01165041c विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् 01165042a धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् 01165042c बलाबलं विनिश्चित्य तप एव परं बलम् 01165043a स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् 01165043c भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे 01165044a स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा 01165044c तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च 01165044e अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः 01166001 गन्धर्व उवाच 01166001a कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह 01166001c इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि 01166002a स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् 01166002c मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः 01166003a स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् 01166003c तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि 01166004a अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् 01166004c शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् 01166004e ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः 01166005a अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् 01166005c तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा 01166006a ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः 01166006c नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह 01166007a अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः 01166007c जघान कशया मोहात्तदा राक्षसवन्मुनिम् 01166008a कशाप्रहाराभिहतस्ततः स मुनिसत्तमः 01166008c तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः 01166009a हंसि राक्षसवद्यस्माद्राजापसद तापसम् 01166009c तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि 01166010a मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् 01166010c गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना 01166011a ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः 01166011c वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत 01166012a तयोर्विवदतोरेवं समीपमुपचक्रमे 01166012c ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् 01166013a ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः 01166013c ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा 01166014a अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत 01166014c तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् 01166015a स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः 01166015c जगाम शरणं शक्तिं प्रसादयितुमर्हयन् 01166016a तस्य भावं विदित्वा स नृपतेः कुरुनन्दन 01166016c विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति 01166017a स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया 01166017c राक्षसः किंकरो नाम विवेश नृपतिं तदा 01166018a रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा 01166018c विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम 01166019a ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना 01166019c बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह 01166020a ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः 01166020c ययाचे क्षुधितश्चैनं समांसं भोजनं तदा 01166021a तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा 01166021c आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् 01166022a निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् 01166022c इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः 01166023a अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् 01166023c सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः 01166024a ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् 01166024c उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् 01166025a गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते 01166025c अन्नार्थी त्वं तमन्नेन समांसेनोपपादय 01166026a एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् 01166026c निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः 01166027a राजा तु रक्षसाविष्टः सूदमाह गतव्यथः 01166027c अप्येनं नरमांसेन भोजयेति पुनः पुनः 01166028a तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् 01166028c गत्वा जहार त्वरितो नरमांसमपेतभीः 01166029a स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै 01166029c तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने 01166030a स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः 01166030c अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः 01166031a यस्मादभोज्यमन्नं मे ददाति स नराधिपः 01166031c तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा 01166032a सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा 01166032c उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् 01166033a द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् 01166033c रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा 01166034a ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः 01166034c उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत 01166035a यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि 01166035c तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् 01166036a एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः 01166036c शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् 01166037a शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः 01166037c वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह 01166038a स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः 01166038c भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव 01166039a वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् 01166039c धारयामास तं शोकं महाद्रिरिव मेदिनीम् 01166040a चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः 01166040c न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः 01166041a स मेरुकूटादात्मानं मुमोच भगवानृषिः 01166041c शिरस्तस्य शिलायां च तूलराशाविवापतत् 01166042a न ममार च पातेन स यदा तेन पाण्डव 01166042c तदाग्निमिद्ध्वा भगवान्संविवेश महावने 01166043a तं तदा सुसमिद्धोऽपि न ददाह हुताशनः 01166043c दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः 01166044a स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः 01166044c बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि 01166045a स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः 01166045c जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति 01167001 गन्धर्व उवाच 01167001a ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः 01167001c निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः 01167002a सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा 01167002c वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् 01167003a अथ चिन्तां समापेदे पुनः पौरवनन्दन 01167003c अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः 01167004a ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः 01167004c तस्या जले महानद्या निममज्ज सुदुःखितः 01167005a अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन 01167005c समस्थं तमृषिं कृत्वा विपाशं समवासृजत् 01167006a उत्ततार ततः पाशैर्विमुक्तः स महानृषिः 01167006c विपाशेति च नामास्या नद्याश्चक्रे महानृषिः 01167007a शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत 01167007c सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च 01167008a ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा 01167008c चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् 01167009a सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा 01167009c शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता 01167010a ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना 01167010c मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ 01167011a वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् 01167011c अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् 01167011e पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम् 01167012a अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् 01167012c अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत 01167012e शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी 01167013 वसिष्ठ उवाच 01167013a पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः 01167013c पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः 01167014 अदृश्यन्त्युवाच 01167014a अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते 01167014c समा द्वादश तस्येह वेदानभ्यसतो मुने 01167015 गन्धर्व उवाच 01167015a एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः 01167015c अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत 01167016a ततः प्रतिनिवृत्तः स तया वध्वा सहानघ 01167016c कल्माषपादमासीनं ददर्श विजने वने 01167017a स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत 01167017c आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् 01167018a अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः 01167018c भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् 01167019a असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः 01167019c प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः 01167020a तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन 01167020c त्वदृतेऽद्य महाभाग सर्ववेदविदां वर 01167021a त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् 01167021c रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति 01168001 वसिष्ठ उवाच 01168001a मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन 01168001c नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् 01168002a राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि 01168002c स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः 01168003 गन्धर्व उवाच 01168003a तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः 01168003c वारयामास तेजस्वी हुंकरेणैव भारत 01168004a मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा 01168004c मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् 01168005a स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा 01168005c ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः 01168006a रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् 01168006c तेजसा रञ्जयामास संध्याभ्रमिव भास्करः 01168007a प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः 01168007c उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् 01168008a सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम 01168008c अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते 01168009 वसिष्ठ उवाच 01168009a वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् 01168009c ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन 01168010 राजोवाच 01168010a नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् 01168010c त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् 01168011a इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम 01168011c तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर 01168012a अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि 01168012c शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये 01168013 गन्धर्व उवाच 01168013a ददानीत्येव तं तत्र राजानं प्रत्युवाच ह 01168013c वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः 01168014a ततः प्रतिययौ काले वसिष्ठसहितोऽनघ 01168014c ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः 01168015a तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा 01168015c विपाप्मानं महात्मानं दिवौकस इवेश्वरम् 01168016a अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् 01168016c विवेश सहितस्तेन वसिष्ठेन महात्मना 01168017a ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः 01168017c पुष्येण सहितं काले दिवाकरमिवोदितम् 01168018a स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः 01168018c अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः 01168019a संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् 01168019c मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् 01168020a तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन 01168020c अशोभत तदा तेन शक्रेणेवामरावती 01168021a ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् 01168021c तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे 01168022a ऋतावथ महर्षिः स संबभूव तया सह 01168022c देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः 01168023a अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः 01168023c राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् 01168024a दीर्घकालधृतं गर्भं सुषाव न तु तं यदा 01168024c साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् 01168025a द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ 01168025c अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् 01169001 गन्धर्व उवाच 01169001a आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत 01169001c शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् 01169002a जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः 01169002c पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् 01169003a परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा 01169003c गर्भस्थेन ततो लोके पराशर इति स्मृतः 01169004a अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा 01169004c जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत 01169005a स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत 01169005c मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप 01169006a तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः 01169006c अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह 01169007a मा तात तात तातेति न ते तातो महामुनिः 01169007c रक्षसा भक्षितस्तात तव तातो वनान्तरे 01169008a मन्यसे यं तु तातेति नैष तातस्तवानघ 01169008c आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः 01169009a स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः 01169009c सर्वलोकविनाशाय मतिं चक्रे महामनाः 01169010a तं तथा निश्चितात्मानं महात्मानं महातपाः 01169010c वसिष्ठो वारयामास हेतुना येन तच्छृणु 01169011 वसिष्ठ उवाच 01169011a कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ 01169011c याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः 01169012a स तानग्रभुजस्तात धान्येन च धनेन च 01169012c सोमान्ते तर्पयामास विपुलेन विशां पतिः 01169013a तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन 01169013c बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् 01169014a ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह 01169014c याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् 01169015a भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् 01169015c ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् 01169016a भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् 01169016c क्षत्रियाणां तदा तात कारणान्तरदर्शनात् 01169017a ततो महीतलं तात क्षत्रियेण यदृच्छया 01169017c खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि 01169017e तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः 01169018a अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् 01169018c निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः 01169018e आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम् 01169019a तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा 01169019c भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे 01169020a तासामन्यतमा गर्भं भयाद्दाधार तैजसम् 01169020c ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये 01169020e ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा 01169021a अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह 01169021c मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः 01169021e ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः 01169022a ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः 01169022c ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् 01169023a ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः 01169023c ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः 01169024a भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् 01169024c उपारम्य च गच्छेम सहिताः पापकर्मणः 01169025a सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि 01169025c पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि 01170001 ब्राह्मण्युवाच 01170001a नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता 01170001c अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः 01170002a तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना 01170002c स्मरता निहतान्बन्धूनादत्तानि न संशयः 01170003a गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः 01170003c तदायमूरुणा गर्भो मया वर्षशतं धृतः 01170004a षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि 01170004c विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया 01170005a सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति 01170005c तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः 01170006a तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् 01170006c अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति 01170007 गन्धर्व उवाच 01170007a एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् 01170007c ऊचुः प्रसीदेति तदा प्रसादं च चकार सः 01170008a अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः 01170008c स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत 01170009a चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः 01170009c भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् 01170010a स चक्रे तात लोकानां विनाशाय महामनाः 01170010c सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः 01170011a इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः 01170011c सर्वलोकविनाशाय तपसा महतैधितः 01170012a तापयामास लोकान्स सदेवासुरमानुषान् 01170012c तपसोग्रेण महता नन्दयिष्यन्पितामहान् 01170013a ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् 01170013c पितृलोकादुपागम्य सर्व ऊचुरिदं वचः 01170014a और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक 01170014c प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः 01170015a नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः 01170015c वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् 01170016a आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् 01170016c तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् 01170017a निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि 01170017c वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः 01170017e किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ 01170018a यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः 01170018c तदास्माभिरयं दृष्ट उपायस्तात संमतः 01170019a आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् 01170019c ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः 01170020a न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि 01170020c नियच्छेदं मनः पापात्सर्वलोकपराभवात् 01170021a न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक 01170021c दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि 01171001 और्व उवाच 01171001a उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा 01171001c सर्वलोकविनाशाय न सा मे वितथा भवेत् 01171002a वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे 01171002c अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् 01171003a यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति 01171003c नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् 01171004a अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता 01171004c स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः 01171005a अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा 01171005c आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे 01171006a सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः 01171006c आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् 01171007a आपूर्णकोशाः किल मे मातरः पितरस्तथा 01171007c भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् 01171008a तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत 01171008c यदा तदा दधारेयमूरुणैकेन मां शुभा 01171009a प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते 01171009c तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते 01171010a यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् 01171010c तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु 01171011a जानन्नपि च यः पापं शक्तिमान्न नियच्छति 01171011c ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते 01171012a राजभिश्चेश्वरैश्चैव यदि वै पितरो मम 01171012c शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् 01171013a अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् 01171013c भवतां तु वचो नाहमलं समतिवर्तितुम् 01171014a मम चापि भवेदेतदीश्वरस्य सतो महत् 01171014c उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् 01171015a यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति 01171015c दहेदेष च मामेव निगृहीतः स्वतेजसा 01171016a भवतां च विजानामि सर्वलोकहितेप्सुताम् 01171016c तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः 01171017 पितर ऊचुः 01171017a य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति 01171017c अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः 01171018a आपोमयाः सर्वरसाः सर्वमापोमयं जगत् 01171018c तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम 01171019a अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ 01171019c मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः 01171020a एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति 01171020c न चैव सामरा लोका गमिष्यन्ति पराभवम् 01171021 वसिष्ठ उवाच 01171021a ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये 01171021c उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ 01171022a महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः 01171022c तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ 01171023a तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि 01171023c पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर 01172001 गन्धर्व उवाच 01172001a एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना 01172001c न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् 01172002a ईजे च स महातेजाः सर्ववेदविदां वरः 01172002c ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः 01172003a ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः 01172003c ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् 01172004a न हि तं वारयामास वसिष्ठो रक्षसां वधात् 01172004c द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् 01172005a त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः 01172005c आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः 01172006a तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः 01172006c तद्विदीपितमाकाशं सूर्येणेव घनात्यये 01172007a तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे 01172007c तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् 01172008a ततः परमदुष्प्रापमन्यैरृषिरुदारधीः 01172008c समापिपयिषुः सत्रं तमत्रिः समुपागमत् 01172009a तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् 01172009c उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया 01172010a पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ 01172010c उवाचेदं वचः पार्थ पराशरमरिंदमम् 01172011a कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक 01172011c अजानतामदोषाणां सर्वेषां रक्षसां वधात् 01172012a प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम 01172012c अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर 01172012e राजा कल्माषपादश्च दिवमारोढुमिच्छति 01172013a ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः 01172013c ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः 01172013e सर्वमेतद्वसिष्ठस्य विदितं वै महामुने 01172014a रक्षसां च समुच्छेद एष तात तपस्विनाम् 01172014c निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन 01172014e स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते 01172015a एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता 01172015c तदा समापयामास सत्रं शाक्तिः पराशरः 01172016a सर्वराक्षससत्राय संभृतं पावकं मुनिः 01172016c उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने 01172017a स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च 01172017c भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि 01173001 अर्जुन उवाच 01173001a राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे 01173001c कारणं किं पुरस्कृत्य भार्या वै संनियोजिता 01173002a जानता च परं धर्मं लोक्यं तेन महात्मना 01173002c अगम्यागमनं कस्माद्वसिष्ठेन महात्मना 01173002e कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः 01173003 गन्धर्व उवाच 01173003a धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि 01173003c वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् 01173004a कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः 01173004c शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना 01173005a स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः 01173005c निर्जगाम पुराद्राजा सहदारः परंतपः 01173006a अरण्यं निर्जनं गत्वा सदारः परिचक्रमे 01173006c नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् 01173007a नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् 01173007c अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् 01173008a स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः 01173008c ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे 01173008e ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ 01173009a तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ 01173009c तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् 01173010a दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत 01173010c शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत 01173011a आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः 01173011c अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः 01173012a शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि 01173012c ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता 01173013a अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् 01173013c प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् 01173014a एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् 01173014c भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् 01173015a तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि 01173015c सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् 01173016a ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता 01173016c कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा 01173017a यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् 01173017c प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः 01173018a तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः 01173018c पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् 01173019a यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः 01173019c तेन संगम्य ते भार्या तनयं जनयिष्यति 01173019e स ते वंशकरः पुत्रो भविष्यति नृपाधम 01173020a एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा 01173020c तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् 01173021a वसिष्ठश्च महाभागः सर्वमेतदपश्यत 01173021c ज्ञानयोगेन महता तपसा च परंतप 01173022a मुक्तशापश्च राजर्षिः कालेन महता ततः 01173022c ऋतुकालेऽभिपतितो मदयन्त्या निवारितः 01173023a न हि सस्मार नृपतिस्तं शापं शापमोहितः 01173023c देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः 01173023e तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा 01173024a एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् 01173024c स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः 01174001 अर्जुन उवाच 01174001a अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् 01174001c पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव 01174002 गन्धर्व उवाच 01174002a यवीयान्देवलस्यैष वने भ्राता तपस्यति 01174002c धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ 01174003 वैशंपायन उवाच 01174003a ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि 01174003c गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् 01174004a त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम 01174004c कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् 01174005a तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह 01174005c रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे 01174006a तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते 01174006c तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत 01174007a तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः 01174007c पाद्येन फलमूलेन पौरोहित्येन चैव ह 01174008a ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः 01174008c तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् 01174009a मातृषष्ठास्तु ते तेन गुरुणा संगतास्तदा 01174009c नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः 01174010a स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः 01174010c तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः 01174011a वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः 01174011c बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् 01174012a कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः 01174012c मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् 01175001 वैशंपायन उवाच 01175001a ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः 01175001c प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् 01175002a ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः 01175002c ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् 01175003a तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः 01175003c क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह 01175004 युधिष्ठिर उवाच 01175004a आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः 01175004c भवन्तो हि विजानन्तु सहितान्मातृचारिणः 01175005 ब्राह्मणा ऊचुः 01175005a गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् 01175005c स्वयंवरो महांस्तत्र भविता सुमहाधनः 01175006a एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः 01175006c तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः 01175007a यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः 01175007c वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा 01175008a दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी 01175008c धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः 01175009a यो जातः कवची खड्गी सशरः सशरासनः 01175009c सुसमिद्धे महाबाहुः पावके पावकप्रभः 01175010a स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा 01175010c नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति 01175011a तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् 01175011c गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् 01175012a राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः 01175012c स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः 01175013a तरुणा दर्शनीयाश्च नानादेशसमागताः 01175013c महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः 01175014a ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः 01175014c प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः 01175015a प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् 01175015c अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् 01175016a नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः 01175016c नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः 01175017a एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च 01175017c सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ 01175018a दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् 01175018c समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् 01175019a अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः 01175019c नियुध्यमानो विजयेत्संगत्या द्रविणं बहु 01175020 युधिष्ठिर उवाच 01175020a परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् 01175020c भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् 01176001 वैशंपायन उवाच 01176001a एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय 01176001c राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् 01176002a ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् 01176002c ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा 01176003a तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः 01176003c कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् 01176004a पश्यन्तो रमणीयानि वनानि च सरांसि च 01176004c तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः 01176005a स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः 01176005c आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः 01176006a ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः 01176006c कुम्भकारस्य शालायां निवेशं चक्रिरे तदा 01176007a तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः 01176007c तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् 01176008a यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने 01176008c कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः 01176009a सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय 01176009c दृढं धनुरनायम्यं कारयामास भारत 01176010a यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् 01176010c तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् 01176011 द्रुपद उवाच 01176011a इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः 01176011c अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति 01176012 वैशंपायन उवाच 01176012a इति स द्रुपदो राजा सर्वतः समघोषयत् 01176012c तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत 01176013a ऋषयश्च महात्मानः स्वयंवरदिदृक्षया 01176013c दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप 01176014a ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् 01176014c तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना 01176015a ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः 01176015c शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः 01176016a प्रागुत्तरेण नगराद्भूमिभागे समे शुभे 01176016c समाजवाटः शुशुभे भवनैः सर्वतो वृतः 01176017a प्राकारपरिखोपेतो द्वारतोरणमण्डितः 01176017c वितानेन विचित्रेण सर्वतः समवस्तृतः 01176018a तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः 01176018c चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः 01176019a कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः 01176019c सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः 01176020a सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः 01176020c सुखारोहणसोपानैर्महासनपरिच्छदैः 01176021a अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः 01176021c हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः 01176022a असंबाधशतद्वारैः शयनासनशोभितैः 01176022c बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव 01176023a तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः 01176023c स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः 01176024a तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् 01176024c राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् 01176025a महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः 01176025c प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः 01176026a मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः 01176026c कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् 01176027a ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् 01176027c ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् 01176028a ततः समाजो ववृधे स राजन्दिवसान्बहून् 01176028c रत्नप्रदानबहुलः शोभितो नटनर्तकैः 01176029a वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे 01176029c आप्लुताङ्गी सुवसना सर्वाभरणभूषिता 01176030a वीरकांस्यमुपादाय काञ्चनं समलंकृतम् 01176030c अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ 01176031a पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः 01176031c परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा 01176032a स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च 01176032c वारयामास सर्वाणि वादित्राणि समन्ततः 01176033a निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते 01176033c रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा 01176033e वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् 01176034a इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव 01176034c यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः 01176035a एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः 01176035c तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि 01176036a तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच 01176036c नाम्ना च गोत्रेण च कर्मणा च; संकीर्तयंस्तान्नृपतीन्समेतान् 01177001 धृष्टद्युम्न उवाच 01177001a दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः 01177001c विविंशतिर्विकर्णश्च सहो दुःशासनः समः 01177002a युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा 01177002c उग्रायुधो बलाकी च कनकायुर्विरोचनः 01177003a सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः 01177003c नन्दको बाहुशाली च कुण्डजो विकटस्तथा 01177004a एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः 01177004c कर्णेन सहिता वीरास्त्वदर्थं समुपागताः 01177004e शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः 01177005a शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः 01177005c एते गान्धारराजस्य सुताः सर्वे समागताः 01177006a अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ 01177006c समवेतौ महात्मानौ त्वदर्थे समलंकृतौ 01177007a बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् 01177007c सहदेवो जयत्सेनो मेघसंधिश्च मागधः 01177008a विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 01177008c वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः 01177009a अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा 01177009c सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा 01177010a सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा 01177010c अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः 01177011a समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् 01177011c जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च 01177012a पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् 01177012c कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा 01177013a मद्रराजस्तथा शल्यः सहपुत्रो महारथः 01177013c रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च 01177014a कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः 01177014c समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः 01177015a सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः 01177015c बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा 01177016a संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् 01177016c साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा 01177017a अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः 01177017c कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च 01177018a विडूरथश्च कङ्कश्च समीकः सारमेजयः 01177018c वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा 01177018e उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः 01177019a भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः 01177019c बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः 01177020a उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ 01177020c वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा 01177021a एते चान्ये च बहवो नानाजनपदेश्वराः 01177021c त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि 01177022a एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् 01177022c विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् 01178001 वैशंपायन उवाच 01178001a तेऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः 01178001c अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहंकृतेन 01178002a रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन 01178002c समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः 01178003a परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः 01178003c कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः 01178004a ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् 01178004c चकाशिरे पर्वतराजकन्या;मुमां यथा देवगणाः समेताः 01178005a कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः 01178005c रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र 01178006a अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च 01178006c साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च 01178007a दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च 01178007c विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः 01178008a हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः 01178008c प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः 01178009a दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा;न्पञ्चाभिपद्मानिव वारणेन्द्रान् 01178009c भस्मावृताङ्गानिव हव्यवाहा;न्पार्थान्प्रदध्यौ स यदुप्रवीरः 01178010a शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ 01178010c शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श 01178011a अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः 01178011c व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः 01178012a तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ 01178012c तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः 01178013a देवर्षिगन्धर्वसमाकुलं त;त्सुपर्णनागासुरसिद्धजुष्टम् 01178013c दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् 01178014a महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्संकुलमन्तरिक्षम् 01178014c विमानसंबाधमभूत्समन्ता;त्सवेणुवीणापणवानुनादम् 01178015a ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः 01178015c तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् 01178016a ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः 01178016c विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः 01178017a हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च 01178017c कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् 01178018a तस्मिंस्तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु 01178018c कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः 01179001 वैशंपायन उवाच 01179001a यदा निवृत्ता राजानो धनुषः सज्यकर्मणि 01179001c अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः 01179002a उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च 01179002c दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् 01179003a केचिदासन्विमनसः केचिदासन्मुदा युताः 01179003c आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः 01179004a यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः 01179004c नानतं बलवद्भिर्हि धनुर्वेदपरायणैः 01179005a तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा 01179005c बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः 01179006a अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु 01179006c कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते 01179007a यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् 01179007c प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् 01179008a नावहास्या भविष्यामो न च लाघवमास्थिताः 01179008c न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् 01179009a केचिदाहुर्युवा श्रीमान्नागराजकरोपमः 01179009c पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव 01179010a संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते 01179010c शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् 01179011a न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् 01179011c ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु 01179012a अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः 01179012c दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा 01179013a ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् 01179013c सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् 01179014a एवं तेषां विलपतां विप्राणां विविधा गिरः 01179014c अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः 01179015a स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् 01179015c प्रणम्य शिरसा हृष्टो जगृहे च परंतपः 01179016a सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसंख्यान् 01179016c विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् 01179017a ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः 01179017c पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः 01179018a चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः 01179018c न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः 01179019a शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् 01179019c सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः 01179020a तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः 01179020c सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः 01179021a तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः 01179021c आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् 01179022a विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य 01179022c आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती 01179023a स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः 01179023c रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः 01180001 वैशंपायन उवाच 01180001a तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने 01180001c कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् 01180002a अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् 01180002c दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् 01180003a निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते 01180003c न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः 01180004a हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् 01180004c अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् 01180004e गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति 01180005a अस्मिन्राजसमावाये देवानामिव संनये 01180005c किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् 01180006a न च विप्रेष्वधीकारो विद्यते वरणं प्रति 01180006c स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः 01180007a अथ वा यदि कन्येयं नेह कंचिद्बुभूषति 01180007c अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः 01180008a ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् 01180008c विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन 01180009a ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च 01180009c पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् 01180010a अवमानभयादेतत्स्वधर्मस्य च रक्षणात् 01180010c स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः 01180011a इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः 01180011c द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् 01180012a तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् 01180012c द्रुपदो वीक्ष्य संत्रासाद्ब्राह्मणाञ्शरणं गतः 01180013a वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् 01180013c पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ 01180014a ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः 01180014c जिघांसमानाः कुरुराजपुत्रा;वमर्षयन्तोऽर्जुनभीमसेनौ 01180015a ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः 01180015c उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः 01180016a तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् 01180016c तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः 01180017a तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे;र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा 01180017c दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे 01180018a य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् 01180018c एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि संकर्षण वासुदेवः 01180019a य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः 01180019c वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा 01180020a योऽसौ पुरस्तात्कमलायताक्ष;स्तनुर्महासिंहगतिर्विनीतः 01180020c गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः 01180021a यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः 01180021c मुक्ता हि तस्माज्जतुवेश्मदाहा;न्मया श्रुताः पाण्डुसुताः पृथा च 01180022a तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः 01180022c प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः 01181001 वैशंपायन उवाच 01181001a अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः 01181001c ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् 01181002a तानेवं वदतो विप्रानर्जुनः प्रहसन्निव 01181002c उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः 01181003a अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः 01181003c वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव 01181004a इति तद्धनुरादाय शुल्कावाप्तं महारथः 01181004c भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः 01181005a ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् 01181005c संपेततुरभीतौ तौ गजौ प्रतिगजानिव 01181006a ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः 01181006c आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः 01181007a ततो वैकर्तनः कर्णो जगामार्जुनमोजसा 01181007c युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा 01181008a भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली 01181008c दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः 01181008e मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे 01181009a ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः 01181009c कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः 01181010a तेषां शराणां वेगेन शितानां तिग्मतेजसाम् 01181010c विमुह्यमानो राधेयो यत्नात्तमनुधावति 01181011a तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ 01181011c अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ 01181012a कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे 01181012c इति शूरार्थवचनैराभाषेतां परस्परम् 01181013a ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि 01181013c ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् 01181014a अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा 01181014c प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् 01181015 कर्ण उवाच 01181015a तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे 01181015c अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च 01181016a किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम 01181016c अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः 01181017a आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः 01181017c विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे 01181018a न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः 01181018c पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः 01181019 वैशंपायन उवाच 01181019a तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत 01181019c नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् 01181019e ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः 01181020a ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् 01181020c स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव 01181021a एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत 01181021c ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः 01181022a युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ 01181022c बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च 01181023a अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ 01181023c मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् 01181023e मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् 01181024a ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे 01181024c न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः 01181025a तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः 01181025c यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली 01181026a पातिते भीमसेनेन शल्ये कर्णे च शङ्किते 01181026c शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् 01181027a ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः 01181027c विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च 01181028a को हि राधासुतं कर्णं शक्तो योधयितुं रणे 01181028c अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः 01181029a कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात् 01181029c को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे 01181030a तथैव मद्रराजानं शल्यं बलवतां वरम् 01181030c बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् 01181031a क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् 01181031c अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् 01181032a तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः 01181032c निवारयामास महीपतींस्ता;न्धर्मेण लब्धेत्यनुनीय सर्वान् 01181033a त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः 01181033c यथावासं ययुः सर्वे विस्मिता राजसत्तमाः 01181034a वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता 01181034c इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः 01181035a ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः 01181035c कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ 01181036a विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ 01181036c कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः 01181037a तेषां माता बहुविधं विनाशं पर्यचिन्तयत् 01181037c अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति 01181038a धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः 01181038c मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः 01181039a विपरीतं मतं जातं व्यासस्यापि महात्मनः 01181039c इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा 01181040a महत्यथापराह्णे तु घनैः सूर्य इवावृतः 01181040c ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः 01182001 वैशंपायन उवाच 01182001a गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ 01182001c तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ 01182002a कुटीगता सा त्वनवेक्ष्य पुत्रा;नुवाच भुङ्क्तेति समेत्य सर्वे 01182002c पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच 01182003a साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् 01182003c पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् 01182004a इयं हि कन्या द्रुपदस्य राज्ञ;स्तवानुजाभ्यां मयि संनिसृष्टा 01182004c यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् 01182005a कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि 01182005c पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः 01182006a मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः 01182006c कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यमिदं बभाषे 01182007a त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री 01182007c प्रज्वाल्यतां हूयतां चापि वह्नि;र्गृहाण पाणिं विधिवत्त्वमस्याः 01182008 अर्जुन उवाच 01182008a मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः 01182008c भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा 01182009a अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः 01182009c वृकोदरोऽहं च यमौ च राज;न्नियं च कन्या भवतः स्म सर्वे 01182010a एवंगते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य 01182010c पाञ्चालराजस्य च यत्प्रियं स्या;त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते 01182011 वैशंपायन उवाच 01182011a ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् 01182011c संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् 01182012a तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् 01182012c संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः 01182013a काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् 01182013c बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् 01182014a तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः 01182014c द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ 01182015a अब्रवीत्स हि तान्भ्रातॄन्मिथोभेदभयान्नृपः 01182015c सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा 01183001 वैशंपायन उवाच 01183001a भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् 01183001c तमेवार्थं ध्यायमाना मनोभि;रासां चक्रुरथ तत्रामितौजाः 01183002a वृष्णिप्रवीरस्तु कुरुप्रवीरा;नाशङ्कमानः सहरौहिणेयः 01183002c जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः 01183003a तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः 01183003c अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् 01183004a ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् 01183004c कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः 01183005a तथैव तस्याप्यनु रौहिणेय;स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् 01183005c पितृष्वसुश्चापि यदुप्रवीरा;वगृह्णतां भारतमुख्य पादौ 01183006a अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य 01183006c कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे 01183007a तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् 01183007c तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु 01183008a दिष्ट्या तस्मात्पावकात्संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः 01183008c दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् 01183009a भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः 01183009c मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् 01183009e सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् 01184001 वैशंपायन उवाच 01184001a धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ 01184001c अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् 01184002a सोऽज्ञायमानः पुरुषानवधाय समन्ततः 01184002c स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने 01184003a सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ 01184003c भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः 01184004a ततस्तु कुन्ती द्रुपदात्मजां ता;मुवाच काले वचनं वदान्या 01184004c अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् 01184005a ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः 01184005c ततश्च शेषं प्रविभज्य शीघ्र;मर्धं चतुर्णां मम चात्मनश्च 01184006a अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः 01184006c श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव 01184007a सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना 01184007c यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् 01184008a कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी 01184008c यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् 01184009a अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् 01184009c कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः 01184010a अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु 01184010c न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस्तान् 01184011a ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः 01184011c अस्त्राणि दिव्यानि रथांश्च नागा;न्खड्गान्गदाश्चापि परश्वधांश्च 01184012a तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् 01184012c शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः 01184013a धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ 01184013c सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम 01184014a पाञ्चालराजस्तु विषण्णरूप;स्तान्पाण्डवानप्रतिविन्दमानः 01184014c धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा 01184015a कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना 01184015c कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने 01184016a कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् 01184016c कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र 01184017a कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण 01184017c ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य 01184018a विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः 01184018c कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् 01185001 वैशंपायन उवाच 01185001a ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः 01185001c धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा 01185002a योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः 01185002c यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् 01185003a असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः 01185003c चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः 01185004a कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा 01185004c अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु 01185005a ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् 01185005c प्रकालयन्नेव स पार्थिवौघा;न्क्रुद्धोऽन्तकः प्राणभृतो यथैव 01185006a तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ 01185006c विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् 01185007a तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः 01185007c तथाविधैरेव नरप्रवीरै;रुपोपविष्टैस्त्रिभिरग्निकल्पैः 01185008a तस्यास्ततस्तावभिवाद्य पादा;वुक्त्वा च कृष्णामभिवादयेति 01185008c स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः 01185009a तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा 01185009c तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त 01185010a सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् 01185010c आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् 01185011a ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः 01185011c न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः 01185012a निःसंशयं क्षत्रियपुंगवास्ते; यथा हि युद्धं कथयन्ति राजन् 01185012c आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् 01185013a यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य 01185013c यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः 01185014a ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे 01185014c विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् 01185015a गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् 01185015c वाक्यं यथावन्नृपतेः समग्र;मुवाच तान्स क्रमवित्क्रमेण 01185016a विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः 01185016c लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः 01185017a तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् 01185017c प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य 01185018a पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव 01185018c तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य 01185019a अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः 01185019c यदर्जुनो वै पृथुदीर्घबाहु;र्धर्मेण विन्देत सुतां ममेति 01185020a तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा 01185020c समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै 01185021a मान्यः पुरोधा द्रुपदस्य राज्ञ;स्तस्मै प्रयोज्याभ्यधिकैव पूजा 01185021c भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा 01185022a सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच 01185022c पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् 01185023a प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता 01185023c न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे 01185024a कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा 01185024c सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये 01185025a नैवंगते सौमकिरद्य राजा; संतापमर्हत्यसुखाय कर्तुम् 01185025c कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य 01185026a अप्राप्यरूपां हि नरेन्द्रकन्या;मिमामहं ब्राह्मण साधु मन्ये 01185026c न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि 01185026e न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् 01185027a तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य 01185027c न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन 01185028a एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः 01185028c तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् 01186001 दूत उवाच 01186001a जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च 01186001c तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् 01186002a इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः 01186002c एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् 01186003 वैशंपायन उवाच 01186003a ततः प्रयाताः कुरुपुंगवास्ते; पुरोहितं तं प्रथमं प्रयाप्य 01186003c आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते 01186004a श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः 01186004c जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसंजहार 01186005a फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि 01186005c गाश्चैव राजन्नथ चैव रज्जू;र्द्रव्याणि चान्यानि कृषीनिमित्तम् 01186006a अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र 01186006c क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा 01186007a रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः 01186007c धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च 01186008a प्रासा भुशुण्ड्यश्च परश्वधाश्च; सांग्रामिकं चैव तथैव सर्वम् 01186008c शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र 01186009a कुन्ती तु कृष्णां परिगृह्य साध्वी;मन्तःपुरं द्रुपदस्याविवेष 01186009c स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः 01186010a तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् 01186010c गूढोत्तरांसान्भुजगेन्द्रभोग;प्रलम्बबाहून्पुरुषप्रवीरान् 01186011a राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव 01186011c प्रेष्याश्च सर्वे निखिलेन राज;न्हर्षं समापेतुरतीव तत्र 01186012a ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः 01186012c यथानुपूर्व्या विविशुर्नराग्र्या;स्तदा महार्हेषु न विस्मयन्तः 01186013a उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु 01186013c दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् 01186014a ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः 01186014c उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्याविविशुर्नृवीराः 01186015a तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः 01186015c समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् 01187001 वैशंपायन उवाच 01187001a तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् 01187001c परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः 01187002a पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् 01187002c कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत 01187003a वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान् 01187003c मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् 01187004a कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः 01187004c ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् 01187005a अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् 01187005c अपि नो भागधेयानि शुभानि स्युः परंतप 01187006a कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते 01187006c इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु 01187007a श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम 01187007c ध्रुवं विवाहकरणमास्थास्यामि विधानतः 01187008 युधिष्ठिर उवाच 01187008a मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते 01187008c ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् 01187009a वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः 01187009c ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ 01187009e याभ्यां तव सुता राजन्निर्जिता राजसंसदि 01187010a यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता 01187010c व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ 01187010e पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता 01187011a इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते 01187011c भवान्हि गुरुरस्माकं परमं च परायणम् 01187012 वैशंपायन उवाच 01187012a ततः स द्रुपदो राजा हर्षव्याकुललोचनः 01187012c प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् 01187013a यत्नेन तु स तं हर्षं संनिगृह्य परंतपः 01187013c अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् 01187014a पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा 01187014c स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः 01187015a तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् 01187015c विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् 01187016a आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् 01187016c प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः 01187017a ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि 01187017c यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् 01187018a तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः 01187018c प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् 01187019a गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः 01187019c पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् 01187020a ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः 01187020c ममापि दारसंबन्धः कार्यस्तावद्विशां पते 01187021 द्रुपद उवाच 01187021a भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम 01187021c यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश 01187022 युधिष्ठिर उवाच 01187022a सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति 01187022c एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते 01187023a अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः 01187023c पार्थेन विजिता चैषा रत्नभूता च ते सुता 01187024a एष नः समयो राजन्रत्नस्य सहभोजनम् 01187024c न च तं हातुमिच्छामः समयं राजसत्तम 01187025a सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति 01187025c आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् 01187026 द्रुपद उवाच 01187026a एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन 01187026c नैकस्या बहवः पुंसो विधीयन्ते कदाचन 01187027a लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः 01187027c कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी 01187028 युधिष्ठिर उवाच 01187028a सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् 01187028c पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे 01187029a न मे वागनृतं प्राह नाधर्मे धीयते मतिः 01187029c एवं चैव वदत्यम्बा मम चैव मनोगतम् 01187030a एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् 01187030c मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव 01187031 द्रुपद उवाच 01187031a त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः 01187031c कथयन्त्वितिकर्तव्यं श्वः काले करवामहे 01187032 वैशंपायन उवाच 01187032a ते समेत्य ततः सर्वे कथयन्ति स्म भारत 01187032c अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया 01188001 वैशंपायन उवाच 01188001a ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः 01188001c प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् 01188002a प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः 01188002c आसने काञ्चने शुभ्रे निषसाद महामनाः 01188003a अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा 01188003c आसनेषु महार्हेषु निषेदुर्द्विपदां वराः 01188004a ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः 01188004c पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः 01188005a कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः 01188005c एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् 01188006 व्यास उवाच 01188006a अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके 01188006c यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् 01188007 द्रुपद उवाच 01188007a अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः 01188007c न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम 01188008a न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः 01188008c न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः 01188009a अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति 01188009c धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् 01188010 धृष्टद्युम्न उवाच 01188010a यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ 01188010c ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन 01188011a न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन 01188011c अधर्मो धर्म इति वा व्यवसायो न शक्यते 01188012a कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् 01188012c पञ्चानां महिषी कृष्णा भवत्विति कथंचन 01188013 युधिष्ठिर उवाच 01188013a न मे वागनृतं प्राह नाधर्मे धीयते मतिः 01188013c वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन 01188014a श्रूयते हि पुराणेऽपि जटिला नाम गौतमी 01188014c ऋषीनध्यासितवती सप्त धर्मभृतां वर 01188015a गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम 01188015c गुरूणां चैव सर्वेषां जनित्री परमो गुरुः 01188016a सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति 01188016c तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम 01188017 कुन्त्युवाच 01188017a एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः 01188017c अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् 01188018 व्यास उवाच 01188018a अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः 01188018c न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् 01188019a यथायं विहितो धर्मो यतश्चायं सनातनः 01188019c यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः 01188020 वैशंपायन उवाच 01188020a तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः 01188020c करे गृहीत्वा राजानं राजवेश्म समाविशत् 01188021a पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः 01188021c विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ 01188022a ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने 01188022c आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता 01189001 व्यास उवाच 01189001a पुरा वै नैमिषारण्ये देवाः सत्रमुपासते 01189001c तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा 01189002a ततो यमो दीक्षितस्तत्र राज;न्नामारयत्किंचिदपि प्रजाभ्यः 01189002c ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः 01189003a ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च 01189003c प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये 01189004a ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या 01189004c तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् 01189005 ब्रह्मोवाच 01189005a किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः 01189005c मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् 01189006 देवा ऊचुः 01189006a मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन 01189006c अविशेषादुद्विजन्तो विशेषार्थमिहागताः 01189007 ब्रह्मोवाच 01189007a वैवस्वतो व्यापृतः सत्रहेतो;स्तेन त्विमे न म्रियन्ते मनुष्याः 01189007c तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः 01189008a वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता 01189008c सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु 01189009 व्यास उवाच 01189009a ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते 01189009c समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् 01189010a दृष्ट्वा च तद्विस्मितास्ते बभूवु;स्तेषामिन्द्रस्तत्र शूरो जगाम 01189010c सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता 01189011a सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् 01189011c तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् 01189012a तदद्भुतं प्रेक्ष्य वज्री तदानी;मपृच्छत्तां योषितमन्तिकाद्वै 01189012c का त्वं कथं रोदिषि कस्य हेतो;र्वाक्यं तथ्यं कामयेह ब्रवीहि 01189013 स्त्र्युवाच 01189013a त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या 01189013c आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् 01189014 व्यास उवाच 01189014a तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् 01189014c सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि 01189015a तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् 01189015c ईशोऽहमस्मीति समन्युरब्रवी;द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् 01189016a क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत 01189016c संस्तम्भितोऽभूदथ देवराज;स्तेनेक्षितः स्थाणुरिवावतस्थे 01189017a यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच 01189017c आनीयतामेष यतोऽहमारा;न्मैनं दर्पः पुनरप्याविशेत 01189018a ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् 01189018c तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथंचित् 01189019a विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् 01189019c विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः 01189020a स तद्विवृत्य शिखरं महागिरे;स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श 01189020c स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे 01189021a ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच 01189021c दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् 01189022a उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् 01189022c स्रस्तैरङ्गैरनिलेनेव नुन्न;मश्वत्थपत्रं गिरिराजमूर्ध्नि 01189023a स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः 01189023c उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य 01189024a तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति 01189024c एतेऽप्येवं भवितारः पुरस्ता;त्तस्मादेतां दरिमाविश्य शेध्वम् 01189025a शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् 01189025c तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा 01189026a आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् 01189026c सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च 01189027 पूर्वेन्द्रा ऊचुः 01189027a गमिष्यामो मानुषं देवलोका;द्दुराधरो विहितो यत्र मोक्षः 01189027c देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च 01189028 व्यास उवाच 01189028a एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह 01189028c वीर्येणाहं पुरुषं कार्यहेतो;र्दद्यामेषां पञ्चमं मत्प्रसूतम् 01189029a तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् 01189029c तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु 01189030a तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् 01189030c स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे संबभूवुर्धरण्याम् 01189031a स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् 01189031c तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च 01189031e तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव 01189032a ये ते पूर्वं शक्ररूपा निरुद्धा;स्तस्यां दर्यां पर्वतस्योत्तरस्य 01189032c इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची 01189033a एवमेते पाण्डवाः संबभूवु;र्ये ते राजन्पूर्वमिन्द्रा बभूवुः 01189033c लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा 01189034a कथं हि स्त्री कर्मणोऽन्ते महीतला;त्समुत्तिष्ठेदन्यतो दैवयोगात् 01189034c यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति 01189035a इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च 01189035c दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् 01189036 वैशंपायन उवाच 01189036a ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः 01189036c चक्षुर्दिव्यं प्रददौ तान्स सर्वा;न्राजापश्यत्पूर्वदेहैर्यथावत् 01189037a ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् 01189037c बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श 01189038a दिव्यैर्वस्त्रैररजोभिः सुवर्णै;र्माल्यैश्चाग्र्यैः शोभमानानतीव 01189038c साक्षात्त्र्यक्षान्वसवो वाथ दिव्या;नादित्यान्वा सर्वगुणोपपन्नान् 01189038e तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा;न्प्रीतो राजा द्रुपदो विस्मितश्च 01189039a दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च 01189039c योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः 01189040a स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य 01189040c नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् 01189041 व्यास उवाच 01189041a आसीत्तपोवने काचिदृषेः कन्या महात्मनः 01189041c नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती 01189042a तोषयामास तपसा सा किलोग्रेण शंकरम् 01189042c तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् 01189043a सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् 01189043c पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः 01189044a ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा 01189044c पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः 01189045a सा प्रसादयती देवमिदं भूयोऽभ्यभाषत 01189045c एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा 01189045e तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः 01189046a पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः 01189046c तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते 01189046e देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति 01189047a द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी 01189047c पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता 01189048a स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे 01189048c सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता 01189049a सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा 01189049c सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व 01190001 द्रुपद उवाच 01190001a अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् 01190001c न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् 01190002a दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किंचित् 01190002c कृतं निमित्तं हि वरैकहेतो;स्तदेवेदमुपपन्नं बहूनाम् 01190003a यथैव कृष्णोक्तवती पुरस्ता;न्नैकान्पतीन्मे भगवान्ददातु 01190003c स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र 01190004a यदि वायं विहितः शंकरेण; धर्मोऽधर्मो वा नात्र ममापराधः 01190004c गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा 01190005 वैशंपायन उवाच 01190005a ततोऽब्रवीद्भगवान्धर्मराज;मद्य पुण्याहमुत पाण्डवेय 01190005c अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् 01190006a ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् 01190006c समानयामास सुतां च कृष्णा;माप्लाव्य रत्नैर्बहुभिर्विभूष्य 01190007a ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च 01190007c द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः 01190008a तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् 01190008c महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् 01190009a ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः 01190009c महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः 01190010a पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो 01190010c क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः 01190011a ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् 01190011c युधिष्ठिरं चाप्युपनीय मन्त्रवि;न्नियोजयामास सहैव कृष्णया 01190012a प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः 01190012c ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ 01190013a क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् 01190013c अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः 01190014a इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् 01190014c महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि 01190015a कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् 01190015c शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् 01190016a शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् 01190016c तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् 01190017a पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् 01190017c तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि 01190018a कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् 01190018c विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह 01191001 वैशंपायन उवाच 01191001a पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु 01191001c न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन 01191002a कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः 01191002c नाम संकीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः 01191003a कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला 01191003c कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः 01191004a रूपलक्षणसंपन्नां शीलाचारसमन्विताम् 01191004c द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् 01191005a यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ 01191005c रोहिणी च यथा सोमे दमयन्ती यथा नले 01191006a यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती 01191006c यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु 01191007a जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता 01191007c सुभगा भोगसंपन्ना यज्ञपत्नी स्वनुव्रता 01191008a अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा 01191008c पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः 01191009a कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च 01191009c अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् 01191010a पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः 01191010c कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ 01191011a पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते 01191011c तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् 01191012a यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् 01191012c तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् 01191013a ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः 01191013c मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च 01191014a वासांसि च महार्हाणि नानादेश्यानि माधवः 01191014c कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च 01191015a शयनासनयानानि विविधानि महान्ति च 01191015c वैडूर्यवज्रचित्राणि शतशो भाजनानि च 01191016a रूपयौवनदाक्षिण्यैरुपेताश्च स्वलंकृताः 01191016c प्रेष्याः संप्रददौ कृष्णो नानादेश्याः सहस्रशः 01191017a गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलंकृतान् 01191017c रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलंकृतान् 01191018a कोटिशश्च सुवर्णं स तेषामकृतकं तथा 01191018c वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः 01191019a तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः 01191019c मुदा परमया युक्तो गोविन्दप्रियकाम्यया 01192001 वैशंपायन उवाच 01192001a ततो राज्ञां चरैराप्तैश्चारः समुपनीयत 01192001c पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा 01192002a येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना 01192002c सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः 01192003a यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली 01192003c त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे 01192004a न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः 01192004c स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः 01192005a ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा 01192005c कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत 01192006a सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता 01192006c पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः 01192007a धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् 01192007c कर्मणा सुनृशंसेन पुरोचनकृतेन वै 01192008a वृत्ते स्वयंवरे चैव राजानः सर्व एव ते 01192008c यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् 01192009a अथ दुर्योधनो राजा विमना भ्रातृभिः सह 01192009c अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च 01192010a विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् 01192010c तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् 01192011a यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः 01192011c न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् 01192012a दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् 01192012c धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः 01192013a एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् 01192013c विविशुर्हास्तिनपुरं दीना विगतचेतसः 01192014a त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः 01192014c मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च 01192015a धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् 01192015c द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् 01192016a विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् 01192016c व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् 01192017a ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते 01192017c उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः 01192018a वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् 01192018c अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत 01192019a मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया 01192019c दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः 01192020a अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु 01192020c आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा 01192021a अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् 01192021c सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च 01192021e तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् 01192022 धृतराष्ट्र उवाच 01192022a यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम 01192022c सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता 01192022e यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः 01192023a को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् 01192023c न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः 01192024 वैशंपायन उवाच 01192024a तं तथा भाषमाणं तु विदुरः प्रत्यभाषत 01192024c नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः 01192025a ततो दुर्योधनश्चैव राधेयश्च विशां पते 01192025c धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा 01192026a संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः 01192026c विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् 01192027a सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः 01192027c अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर 01192028a अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ 01192028c तेषां बलविघातो हि कर्तव्यस्तात नित्यशः 01192029a ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे 01192029c यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् 01193001 धृतराष्ट्र उवाच 01193001a अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् 01193001c विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति 01193002a अतस्तेषां गुणानेव कीर्तयामि विशेषतः 01193002c नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः 01193003a यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन 01193003c राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे 01193004 दुर्योधन उवाच 01193004a अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः 01193004c कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ 01193005a अथ वा द्रुपदो राजा महद्भिर्वित्तसंचयैः 01193005c पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः 01193006a परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् 01193006c अथ तत्रैव वा तेषां निवासं रोचयन्तु ते 01193007a इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् 01193007c ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः 01193008a अथ वा कुशलाः केचिदुपायनिपुणा नराः 01193008c इतरेतरतः पार्थान्भेदयन्त्वनुरागतः 01193009a व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् 01193009c अथ वा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् 01193010a भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः 01193010c मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः 01193011a तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः 01193011c यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः 01193012a अजेयो ह्यर्जुनः संख्ये पृष्ठगोपे वृकोदरे 01193012c तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् 01193013a ते जानमाना दौर्बल्यं भीमसेनमृते महत् 01193013c अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः 01193014a इहागतेषु पार्थेषु निदेशवशवर्तिषु 01193014c प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे 01193015a अथ वा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् 01193015c एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् 01193016a प्रेष्यतां वापि राधेयस्तेषामागमनाय वै 01193016c ते लोप्त्रहारैः संधाय वध्यन्तामाप्तकारिभिः 01193017a एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः 01193017c तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते 01193018a यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे 01193018c तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् 01193019a एषा मम मतिस्तात निग्रहाय प्रवर्तते 01193019c साधु वा यदि वासाधु किं वा राधेय मन्यसे 01194001 कर्ण उवाच 01194001a दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः 01194001c न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन 01194002a पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया 01194002c निग्रहीतुं यदा वीर शकिता न तदा त्वया 01194003a इहैव वर्तमानास्ते समीपे तव पार्थिव 01194003c अजातपक्षाः शिशवः शकिता नैव बाधितुम् 01194004a जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते 01194004c नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत 01194005a न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते 01194005c शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् 01194006a परस्परेण भेदश्च नाधातुं तेषु शक्यते 01194006c एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् 01194007a न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः 01194007c परिद्यूनान्वृतवती किमुताद्य मृजावतः 01194008a ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता 01194008c तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् 01194009a आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः 01194009c न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् 01194010a तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् 01194010c तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन 01194011a इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ 01194011c यावन्न कृतमूलास्ते पाण्डवेया विशां पते 01194011e तावत्प्रहरणीयास्ते रोचतां तव विक्रमः 01194012a अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः 01194012c तावत्प्रहरणं तेषां क्रियतां मा विचारय 01194013a वाहनानि प्रभूतानि मित्राणि बहुलानि च 01194013c यावन्न तेषां गान्धारे तावदेवाशु विक्रम 01194014a यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः 01194014c सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम 01194015a यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् 01194015c राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम 01194016a वसूनि विविधान्भोगान्राज्यमेव च केवलम् 01194016c नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते 01194017a विक्रमेण मही प्राप्ता भरतेन महात्मना 01194017c विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः 01194018a विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते 01194018c स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ 01194019a ते बलेन वयं राजन्महता चतुरङ्गिणा 01194019c प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् 01194020a न हि साम्ना न दानेन न भेदेन च पाण्डवाः 01194020c शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि 01194021a तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् 01194021c नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप 01194022 वैशंपायन उवाच 01194022a श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् 01194022c अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् 01194023a उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने 01194023c त्वयि विक्रमसंपन्नमिदं वचनमीदृशम् 01194024a भूय एव तु भीष्मश्च द्रोणो विदुर एव च 01194024c युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया 01194025a तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः 01194025c धृतराष्ट्रो महाराज मन्त्रयामास वै तदा 01195001 भीष्म उवाच 01195001a न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन 01195001c यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् 01195002a गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः 01195002c यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव 01195003a यथा च मम राज्ञश्च तथा दुर्योधनस्य ते 01195003c तथा कुरूणां सर्वेषामन्येषामपि भारत 01195004a एवं गते विग्रहं तैर्न रोचये; संधाय वीरैर्दीयतामद्य भूमिः 01195004c तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् 01195005a दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि 01195005c मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः 01195006a यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः 01195006c कुत एव तवापीदं भारतस्य च कस्यचित् 01195007a अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ 01195007c तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः 01195008a मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् 01195008c एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च 01195009a अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति 01195009c तवाप्यकीर्तिः सकला भविष्यति न संशयः 01195010a कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् 01195010c नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् 01195011a यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव 01195011c तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति 01195012a तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् 01195012c अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु 01195013a दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा 01195013c दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः 01195014a तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् 01195014c लोके प्राणभृतां कंचिच्छ्रुत्वा कुन्तीं तथागताम् 01195015a न चापि दोषेण तथा लोको वैति पुरोचनम् 01195015c यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति 01195016a तदिदं जीवितं तेषां तव कल्मषनाशनम् 01195016c संमन्तव्यं महाराज पाण्डवानां च दर्शनम् 01195017a न चापि तेषां वीराणां जीवतां कुरुनन्दन 01195017c पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् 01195018a ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः 01195018c अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः 01195019a यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे 01195019c क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् 01196001 द्रोण उवाच 01196001a मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप 01196001c धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः 01196002a ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः 01196002c संविभज्यास्तु कौन्तेया धर्म एष सनातनः 01196003a प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः 01196003c बहुलं रत्नमादाय तेषामर्थाय भारत 01196004a मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु 01196004c वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा 01196005a संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा 01196005c असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत 01196006a उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् 01196006c पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् 01196007a हिरण्मयानि शुभ्राणि बहून्याभरणानि च 01196007c वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु 01196008a तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ 01196008c पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च 01196009a एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह 01196009c उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति 01196010a अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् 01196010c दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह 01196011a ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया 01196011c प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके 01196012a एवं तव महाराज तेषु पुत्रेषु चैव ह 01196012c वृत्तमौपयिकं मन्ये भीष्मेण सह भारत 01196013 कर्ण उवाच 01196013a योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ 01196013c न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः 01196014a दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना 01196014c ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् 01196015a न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा 01196015c विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् 01196016a कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः 01196016c ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति 01196017a श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः 01196017c आसीद्राजगृहे राजा मागधानां महीक्षिताम् 01196018a स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः 01196018c अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा 01196019a तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा 01196019c स लब्धबलमात्मानं मन्यमानोऽवमन्यते 01196020a स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च 01196020c आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा 01196021a तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत 01196021c तथा हि सर्वमादाय राज्यमस्य जिहीर्षति 01196022a हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च 01196022c यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् 01196023a किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता 01196023c यदि ते विहितं राज्यं भविष्यति विशां पते 01196024a मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् 01196024c अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे 01196025a एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् 01196025c दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् 01196026 द्रोण उवाच 01196026a विद्म ते भावदोषेण यदर्थमिदमुच्यते 01196026c दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः 01196027a हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् 01196027c अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् 01196028a अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् 01196028c कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः 01197001 विदुर उवाच 01197001a राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः 01197001c न त्वशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति 01197002a हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः 01197002c भीष्मः शांतनवो राजन्प्रतिगृह्णासि तन्न च 01197003a तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् 01197003c तच्च राधासुतः कर्णो मन्यते न हितं तव 01197004a चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् 01197004c आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः 01197005a इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च 01197005c समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च 01197006a धर्मे चानवमौ राजन्सत्यतायां च भारत 01197006c रामाद्दाशरथेश्चैव गयाच्चैव न संशयः 01197007a न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन 01197007c न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि 01197008a ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि 01197008c न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ 01197009a प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप 01197009c त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः 01197009e इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन 01197010a न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् 01197010c एतद्धि परमं श्रेयो मेनाते तव भारत 01197011a दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव 01197011c तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः 01197012a तेषु चेदहितं किंचिन्मन्त्रयेयुरबुद्धितः 01197012c मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः 01197013a अथ ते हृदये राजन्विशेषस्तेषु वर्तते 01197013c अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् 01197014a एतदर्थमिमौ राजन्महात्मानौ महाद्युती 01197014c नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः 01197015a यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ 01197015c तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते 01197016a कथं हि पाण्डवः श्रीमान्सव्यसाची परंतपः 01197016c शक्यो विजेतुं संग्रामे राजन्मघवता अपि 01197017a भीमसेनो महाबाहुर्नागायुतबलो महान् 01197017c कथं हि युधि शक्येत विजेतुममरैरपि 01197018a तथैव कृतिनौ युद्धे यमौ यमसुताविव 01197018c कथं विषहितुं शक्यौ रणे जीवितुमिच्छता 01197019a यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः 01197019c नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे 01197020a येषां पक्षधरो रामो येषां मन्त्री जनार्दनः 01197020c किं नु तैरजितं संख्ये येषां पक्षे च सात्यकिः 01197021a द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः 01197021c धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः 01197022a सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत 01197022c दायाद्यतां च धर्मेण सम्यक्तेषु समाचर 01197023a इदं निर्दिग्धमयशः पुरोचनकृतं महत् 01197023c तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः 01197024a द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा 01197024c तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम् 01197025a बलवन्तश्च दाशार्हा बहवश्च विशां पते 01197025c यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः 01197026a यच्च साम्नैव शक्येत कार्यं साधयितुं नृप 01197026c को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् 01197027a श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः 01197027c बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् 01197028a दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 01197028c अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः 01197029a उक्तमेतन्मया राजन्पुरा गुणवतस्तव 01197029c दुर्योधनापराधेन प्रजेयं विनशिष्यति 01198001 धृतराष्ट्र उवाच 01198001a भीष्मः शांतनवो विद्वान्द्रोणश्च भगवानृषिः 01198001c हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् 01198002a यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः 01198002c तथैव धर्मतः सर्वे मम पुत्रा न संशयः 01198003a यथैव मम पुत्राणामिदं राज्यं विधीयते 01198003c तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः 01198004a क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् 01198004c तया च देवरूपिण्या कृष्णया सह भारत 01198005a दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा 01198005c दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः 01198006a दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः 01198006c दिष्ट्या मम परं दुःखमपनीतं महाद्युते 01198007 वैशंपायन उवाच 01198007a ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् 01198007c सकाशं यज्ञसेनस्य पाण्डवानां च भारत 01198008a तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः 01198008c द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् 01198009a स चापि प्रतिजग्राह धर्मेण विदुरं ततः 01198009c चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् 01198010a ददर्श पाण्डवांस्तत्र वासुदेवं च भारत 01198010c स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः 01198011a तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् 01198011c वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः 01198012a पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् 01198012c प्रददौ चापि रत्नानि विविधानि वसूनि च 01198013a पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते 01198013c द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः 01198014a प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः 01198014c द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च 01198015a राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम 01198015c धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः 01198016a अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः 01198016c प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप 01198017a तथा भीष्मः शांतनवः कौरवैः सह सर्वशः 01198017c कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति 01198018a भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव 01198018c समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति 01198019a धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमीयिवान् 01198019c कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः 01198020a न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता 01198020c यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह 01198021a एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् 01198021c द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् 01198022a विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः 01198022c उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा 01198023a कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः 01198023c द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः 01198024a स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् 01198024c गमनं सहदाराणामेतदागमनं मम 01198025a विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु 01198025c ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् 01198025e आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया 01199001 द्रुपद उवाच 01199001a एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् 01199001c ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो 01199002a गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् 01199002c न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा 01199003a यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः 01199003c भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ 01199004a रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः 01199004c एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ 01199005 युधिष्ठिर उवाच 01199005a परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः 01199005c यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् 01199006 वैशंपायन उवाच 01199006a ततोऽब्रवीद्वासुदेवो गमनं मम रोचते 01199006c यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् 01199007 द्रुपद उवाच 01199007a यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः 01199007c प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम 01199008a यथैव हि महाभागाः कौन्तेया मम सांप्रतम् 01199008c तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः 01199009a न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः 01199009c यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः 01199010 वैशंपायन उवाच 01199010a ततस्ते समनुज्ञाता द्रुपदेन महात्मना 01199010c पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः 01199011a आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् 01199011c सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् 01199012a श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः 01199012c प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् 01199013a विकर्णं च महेष्वासं चित्रसेनं च भारत 01199013c द्रोणं च परमेष्वासं गौतमं कृपमेव च 01199014a तैस्ते परिवृता वीराः शोभमाना महारथाः 01199014c नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा 01199015a कौतूहलेन नगरं दीर्यमाणमिवाभवत् 01199015c यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः 01199016a तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः 01199016c उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः 01199017a अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् 01199017c यो नः स्वानिव दायादान्धर्मेण परिरक्षति 01199018a अद्य पाण्डुर्महाराजो वनादिव वनप्रियः 01199018c आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः 01199019a किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् 01199019c यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः 01199020a यदि दत्तं यदि हुतं विद्यते यदि नस्तपः 01199020c तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् 01199021a ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः 01199021c अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् 01199022a कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते 01199022c समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् 01199023a विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः 01199023c आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च 01199024 धृतराष्ट्र उवाच 01199024a भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम 01199024c पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश 01199025a न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् 01199025c संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा 01199025e अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश 01199026 वैशंपायन उवाच 01199026a प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च 01199026c प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः 01199026e अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन् 01199027a ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः 01199027c मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः 01199028a ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः 01199028c नगरं मापयामासुर्द्वैपायनपुरोगमाः 01199029a सागरप्रतिरूपाभिः परिखाभिरलंकृतम् 01199029c प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता 01199030a पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च 01199030c शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा 01199031a द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः 01199031c गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः 01199032a विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः 01199032c शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः 01199032e तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् 01199033a तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् 01199033c आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् 01199034a सुविभक्तमहारथ्यं देवताबाधवर्जितम् 01199034c विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः 01199035a तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत 01199035c मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् 01199036a तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् 01199036c शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् 01199037a तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः 01199037c निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा 01199038a वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः 01199038c सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा 01199039a उद्यानानि च रम्याणि नगरस्य समन्ततः 01199039c आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा 01199040a पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा 01199040c शालतालकदम्बैश्च बकुलैश्च सकेतकैः 01199041a मनोहरैः पुष्पितैश्च फलभारावनामितैः 01199041c प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः 01199042a जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः 01199042c करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः 01199043a नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् 01199043c मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः 01199044a गृहैरादर्शविमलैर्विविधैश्च लतागृहैः 01199044c मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः 01199044e वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा 01199045a सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः 01199045c हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः 01199046a रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः 01199046c तडागानि च रम्याणि बृहन्ति च महान्ति च 01199047a तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् 01199047c पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत 01199048a तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते 01199048c पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः 01199049a पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् 01199049c शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा 01199050a तान्निवेश्य ततो वीरो रामेण सह केशवः 01199050c ययौ द्वारवतीं राजन्पाण्डवानुमते तदा 01200001 जनमेजय उवाच 01200001a एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन 01200001c अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः 01200002a सर्व एव महात्मानः पूर्वे मम पितामहाः 01200002c द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत 01200003a कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः 01200003c वर्तमाना महाभागा नाभिद्यन्त परस्परम् 01200004a श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन 01200004c तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया 01200005 वैशंपायन उवाच 01200005a धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः 01200005c रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः 01200006a प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः 01200006c पालयामास धर्मेण पृथिवीं भ्रातृभिः सह 01200007a जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः 01200007c मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः 01200008a कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः 01200008c आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च 01200009a अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु 01200009c नारदस्त्वथ देवर्षिराजगाम यदृच्छया 01200009e आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः 01200010a देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि 01200010c प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् 01200011a प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् 01200011c आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति 01200012a निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः 01200012c प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् 01200013a श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता 01200013c जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह 01200014a तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी 01200014c कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा 01200015a तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः 01200015c आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः 01200015e गम्यतामिति होवाच भगवांस्तामनिन्दिताम् 01200016a गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् 01200016c विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः 01200017a पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी 01200017c यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् 01200018a सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ 01200018c आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ 01200019a एकराज्यावेकगृहावेकशय्यासनाशनौ 01200019c तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः 01200020a रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् 01200020c यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर 01200021 युधिष्ठिर उवाच 01200021a सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने 01200021c उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् 01200022a अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा 01200022c यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् 01200023a एतत्सर्वं यथावृत्तं विस्तरेण तपोधन 01200023c श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः 01201001 नारद उवाच 01201001a शृणु मे विस्तरेणेममितिहासं पुरातनम् 01201001c भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर 01201002a महासुरस्यान्ववाये हिरण्यकशिपोः पुरा 01201002c निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् 01201003a तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ 01201003c सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः 01201004a अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ 01201004c एकशीलसमाचारौ द्विधैवैकं यथा कृतौ 01201005a तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ 01201005c त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् 01201006a कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः 01201006c तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः 01201007a क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ 01201007c मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः 01201008a आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ 01201008c ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ 01201009a तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः 01201009c धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् 01201010a ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः 01201010c तपोविघातार्थमथो देवा विघ्नानि चक्रिरे 01201011a रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः 01201011c न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ 01201012a अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः 01201012c भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा 01201013a परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा 01201013c स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः 01201014a अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः 01201014c न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ 01201015a यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः 01201015c ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत 01201016a ततः पितामहः साक्षादभिगम्य महासुरौ 01201016c वरेण छन्दयामास सर्वलोकपितामहः 01201017a ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ 01201017c दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा 01201018a ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा 01201018c आवयोस्तपसानेन यदि प्रीतः पितामहः 01201019a मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ 01201019c उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः 01201020 पितामह उवाच 01201020a ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति 01201020c अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् 01201021a करिष्यावेदमिति यन्महदभ्युत्थितं तपः 01201021c युवयोर्हेतुनानेन नामरत्वं विधीयते 01201022a त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः 01201022c हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् 01201023 सुन्दोपसुन्दावूचतुः 01201023a त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् 01201023c सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह 01201024 पितामह उवाच 01201024a यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् 01201024c मृत्योर्विधानमेतच्च यथावद्वां भविष्यति 01201025 नारद उवाच 01201025a ततः पितामहो दत्त्वा वरमेतत्तदा तयोः 01201025c निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह 01201026a लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ 01201026c अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ 01201027a तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ 01201027c सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् 01201028a ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः 01201028c महार्हाभरणोपेतौ विरजोम्बरधारिणौ 01201029a अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् 01201029c दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः 01201030a भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति 01201030c पीयतां दीयतां चेति वाच आसन्गृहे गृहे 01201031a तत्र तत्र महापानैरुत्कृष्टतलनादितैः 01201031c हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् 01201032a तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् 01201032c समाः संक्रीडतां तेषामहरेकमिवाभवत् 01202001 नारद उवाच 01202001a उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ 01202001c मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा 01202002a सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः 01202002c कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा 01202003a गदापट्टिशधारिण्या शूलमुद्गरहस्तया 01202003c प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया 01202004a मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः 01202004c चारणैः स्तूयमानौ तु जग्मतुः परया मुदा 01202005a तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ 01202005c देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ 01202006a तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः 01202006c हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः 01202007a ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा 01202007c खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ 01202008a अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ 01202008c समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः 01202009a ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ 01202009c सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः 01202010a राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः 01202010c तेजो बलं च देवानां वर्धयन्ति श्रियं तथा 01202011a तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् 01202011c संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः 01202012a एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः 01202012c क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् 01202013a यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः 01202013c तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा 01202014a आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् 01202014c गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः 01202015a तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः 01202015c नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः 01202016a नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव 01202016c नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः 01202017a पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः 01202017c तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः 01202018a मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः 01202018c शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा 01202019a राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ 01202019c उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ 01202020a प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ 01202020c संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् 01202021a सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ 01202021c तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः 01202022a निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा 01202022c उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा 01202023a हाहाभूता भयार्ता च निवृत्तविपणापणा 01202023c निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता 01202024a निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा 01202024c अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना 01202025a निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् 01202025c जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा 01202026a चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः 01202026c जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः 01202027a एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा 01202027c निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः 01203001 नारद उवाच 01203001a ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः 01203001c जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् 01203002a तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः 01203002c पितामहस्य भवनं जगतः कृपया तदा 01203003a ततो ददृशुरासीनं सह देवैः पितामहम् 01203003c सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् 01203004a तत्र देवो महादेवस्तत्राग्निर्वायुना सह 01203004c चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः 01203005a वैखानसा वालखिल्या वानप्रस्था मरीचिपाः 01203005c अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः 01203005e ऋषयः सर्व एवैते पितामहमुपासते 01203006a ततोऽभिगम्य सहिताः सर्व एव महर्षयः 01203006c सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे 01203007a यथाकृतं यथा चैव कृतं येन क्रमेण च 01203007c न्यवेदयंस्ततः सर्वमखिलेन पितामहे 01203008a ततो देवगणाः सर्वे ते चैव परमर्षयः 01203008c तमेवार्थं पुरस्कृत्य पितामहमचोदयन् 01203009a ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा 01203009c मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम् 01203010a तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् 01203010c दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः 01203010e सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः 01203011a पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च 01203011c निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः 01203012a त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् 01203012c समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः 01203013a कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् 01203013c तां रत्नसंघातमयीमसृजद्देवरूपिणीम् 01203014a सा प्रयत्नेन महता निर्मिता विश्वकर्मणा 01203014c त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् 01203015a न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा 01203015c न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् 01203016a सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती 01203016c जहार सर्वभूतानां चक्षूंषि च मनांसि च 01203017a तिलं तिलं समानीय रत्नानां यद्विनिर्मिता 01203017c तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः 01203018 पितामह उवाच 01203018a गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे 01203018c प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् 01203019a त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै 01203019c विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु 01203020 नारद उवाच 01203020a सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् 01203020c चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् 01203021a प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः 01203021c देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् 01203022a कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् 01203022c इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ 01203023a द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा 01203023c अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् 01203024a पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् 01203024c गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् 01203025a महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः 01203025c रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् 01203026a एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा 01203026c तथा सहस्रनेत्रश्च बभूव बलसूदनः 01203027a तथा देवनिकायानामृषीणां चैव सर्वशः 01203027c मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा 01203028a तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् 01203028c सर्वेषामेव भूयिष्ठमृते देवं पितामहम् 01203029a गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः 01203029c कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा 01203030a तिलोत्तमायां तु तदा गतायां लोकभावनः 01203030c सर्वान्विसर्जयामास देवानृषिगणांश्च तान् 01204001 नारद उवाच 01204001a जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ 01204001c कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः 01204002a देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् 01204002c आदाय सर्वरत्नानि परां तुष्टिमुपागतौ 01204003a यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन 01204003c निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव 01204004a स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः 01204004c पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः 01204005a अन्तःपुरे वनोद्याने पर्वतोपवनेषु च 01204005c यथेप्सितेषु देशेषु विजह्रातेऽमराविव 01204006a ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले 01204006c पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः 01204007a दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ 01204007c वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः 01204008a ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः 01204008c गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे 01204009a ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती 01204009c वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा 01204010a नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती 01204010c शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ 01204011a तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ 01204011c दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः 01204012a तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता 01204012c उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् 01204013a दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना 01204013c उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् 01204014a वरप्रदानमत्तौ तावौरसेन बलेन च 01204014c धनरत्नमदाभ्यां च सुरापानमदेन च 01204015a सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ 01204015c मदकामसमाविष्टौ परस्परमथोचतुः 01204016a मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत 01204016c मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत 01204017a नैषा तव ममैषेति तत्र तौ मन्युराविशत् 01204017c तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् 01204018a तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ 01204018c अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः 01204019a तौ गदाभिहतौ भीमौ पेततुर्धरणीतले 01204019c रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ 01204020a ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा 01204020c पातालमगमत्सर्वो विषादभयकम्पितः 01204021a ततः पितामहस्तत्र सह देवैर्महर्षिभिः 01204021c आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् 01204022a वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह 01204022c वरयामास तत्रैनां प्रीतः प्राह पितामहः 01204023a आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि 01204023c तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन 01204024a एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः 01204024c इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः 01204025a एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ 01204025c तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः 01204026a तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् 01204026c यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते 01204026e तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ 01204027 वैशंपायन उवाच 01204027a एवमुक्ता महात्मानो नारदेन महर्षिणा 01204027c समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः 01204027e समक्षं तस्य देवर्षेर्नारदस्यामितौजसः 01204028a द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् 01204028c स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् 01204029a कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः 01204029c नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः 01204030a एवं तैः समयः पूर्वं कृतो नारदचोदितैः 01204030c न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत 01205001 वैशंपायन उवाच 01205001a एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः 01205001c वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः 01205002a तेषां मनुजसिंहानां पञ्चानाममितौजसाम् 01205002c बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी 01205003a ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः 01205003c बभूव परमप्रीता नागैरिव सरस्वती 01205004a वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु 01205004c व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः 01205005a अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते 01205005c कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम 01205006a ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः 01205006c आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् 01205007a ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः 01205007c प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः 01205008a ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते 01205008c शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति 01205009a ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते 01205009c रोरूयमाणे च मयि क्रियतामस्त्रधारणम् 01205010a रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः 01205010c तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः 01205011a श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् 01205011c आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् 01205011e कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः 01205012a स प्रवेशाय चाशक्तो गमनाय च पाण्डवः 01205012c तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः 01205012e आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः 01205013a ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः 01205013c अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः 01205014a उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः 01205014c यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् 01205015a अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे 01205015c प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् 01205016a अनापृच्छ्य च राजानं गते मयि न संशयः 01205016c अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् 01205017a अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम 01205017c अधर्मो वा महानस्तु वने वा मरणं मम 01205017e शरीरस्यापि नाशेन धर्म एव विशिष्यते 01205018a एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः 01205018c अनुप्रविश्य राजानमापृच्छ्य च विशां पते 01205019a धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत 01205019c ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः 01205020a न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह 01205020c यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव 01205021a सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी 01205021c शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् 01205022a ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः 01205022c आजगाम पुरं वीरः सव्यसाची परंतपः 01205023a सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः 01205023c धर्मराजमुवाचेदं व्रतमादिश्यतां मम 01205024a समयः समतिक्रान्तो भवत्संदर्शनान्मया 01205024c वनवासं गमिष्यामि समयो ह्येष नः कृतः 01205025a इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् 01205025c कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया 01205025e युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् 01205026a प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ 01205026c अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् 01205026e सर्वं तदनुजानामि व्यलीकं न च मे हृदि 01205027a गुरोरनुप्रवेशो हि नोपघातो यवीयसः 01205027c यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः 01205028a निवर्तस्व महाबाहो कुरुष्व वचनं मम 01205028c न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता 01205029 अर्जुन उवाच 01205029a न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् 01205029c न सत्याद्विचलिष्यामि सत्येनायुधमालभे 01205030 वैशंपायन उवाच 01205030a सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः 01205030c वने द्वादश वर्षाणि वासायोपजगाम ह 01206001 वैशंपायन उवाच 01206001a तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् 01206001c अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः 01206002a वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः 01206002c चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये 01206003a कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः 01206003c दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः 01206004a एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः 01206004c वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः 01206005a रमणीयानि चित्राणि वनानि च सरांसि च 01206005c सरितः सागरांश्चैव देशानपि च भारत 01206006a पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ 01206006c स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः 01206007a तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय 01206007c कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी 01206008a निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत 01206008c अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः 01206009a तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च 01206009c कृतपुष्पोपहारेषु तीरान्तरगतेषु च 01206010a कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः 01206010c शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः 01206011a तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः 01206011c अभिषेकाय कौन्तेयो गङ्गामवततार ह 01206012a तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् 01206012c उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया 01206013a अपकृष्टो महाबाहुर्नागराजस्य कन्यया 01206013c अन्तर्जले महाराज उलूप्या कामयानया 01206014a ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् 01206014c कौरव्यस्याथ नागस्य भवने परमार्चिते 01206015a तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनंजयः 01206015c अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः 01206016a अग्निकार्यं स कृत्वा तु नागराजसुतां तदा 01206016c प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् 01206017a किमिदं साहसं भीरु कृतवत्यसि भामिनि 01206017c कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा 01206018 उलूप्युवाच 01206018a ऐरावतकुले जातः कौरव्यो नाम पन्नगः 01206018c तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी 01206019a साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् 01206019c दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता 01206020a तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन 01206020c अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः 01206021 अर्जुन उवाच 01206021a ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् 01206021c धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः 01206022a तव चापि प्रियं कर्तुमिच्छामि जलचारिणि 01206022c अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित् 01206023a कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् 01206023c न च पीड्येत मे धर्मस्तथा कुर्यां भुजंगमे 01206024 उलूप्युवाच 01206024a जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् 01206024c यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः 01206025a परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति 01206025c यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् 01206025e वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः 01206026a तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् 01206026c कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति 01206027a परित्राणं च कर्तव्यमार्तानां पृथुलोचन 01206027c कृत्वा मम परित्राणं तव धर्मो न लुप्यते 01206028a यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः 01206028c स च ते धर्म एव स्याद्दत्त्वा प्राणान्ममार्जुन 01206029a भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो 01206029c न करिष्यसि चेदेवं मृतां मामुपधारय 01206030a प्राणदानान्महाबाहो चर धर्ममनुत्तमम् 01206030c शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम 01206031a दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः 01206031c साहं शरणमभ्येमि रोरवीमि च दुःखिता 01206032a याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् 01206032c स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि 01206033 वैशंपायन उवाच 01206033a एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया 01206033c कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् 01206034a स नागभवने रात्रिं तामुषित्वा प्रतापवान् 01206034c उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् 01207001 वैशंपायन उवाच 01207001a कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत 01207001c प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः 01207002a अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् 01207002c भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः 01207003a प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च 01207003c निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः 01207004a हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः 01207004c दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च 01207005a अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत 01207005c प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः 01207006a आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः 01207006c नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति 01207007a नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् 01207007c महानदीं गयां चैव गङ्गामपि च भारत 01207008a एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् 01207008c आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु 01207009a अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् 01207009c जगाम तानि सर्वाणि तीर्थान्यायतनानि च 01207009e दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः 01207010a कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः 01207010c अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत 01207011a स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः 01207011c सहायैरल्पकैः शूरः प्रययौ येन सागरम् 01207012a स कलिङ्गानतिक्रम्य देशानायतनानि च 01207012c धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः 01207013a महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् 01207013c समुद्रतीरेण शनैर्मणलूरं जगाम ह 01207014a तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च 01207014c अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् 01207014e मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् 01207015a तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना 01207015c तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया 01207016a दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् 01207016c अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् 01207016e तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः 01207017a राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह 01207017c अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् 01207018a उग्रेण तपसा तेन प्रणिपातेन शंकरः 01207018c ईश्वरस्तोषितस्तेन महादेव उमापतिः 01207019a स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले 01207019c एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा 01207020a तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे 01207020c कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् 01207021a पुत्रो ममेयमिति मे भावना पुरुषोत्तम 01207021c पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ 01207022a एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह 01207022c एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव 01207023a स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च 01207023c उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः 01208001 वैशंपायन उवाच 01208001a ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः 01208001c अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः 01208002a वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः 01208002c आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः 01208003a अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् 01208003c कारंधमं प्रसन्नं च हयमेधफलं च यत् 01208003e भारद्वाजस्य तीर्थं च पापप्रशमनं महत् 01208004a विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः 01208004c दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः 01208005a तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः 01208005c तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः 01208006 तापसा ऊचुः 01208006a ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् 01208006c अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन 01208007 वैशंपायन उवाच 01208007a तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः 01208007c जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः 01208008a ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् 01208008c विगाह्य तरसा शूरः स्नानं चक्रे परंतपः 01208009a अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् 01208009c निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् 01208010a स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् 01208010c उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः 01208011a उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना 01208011c बभूव नारी कल्याणी सर्वाभरणभूषिता 01208011e दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा 01208012a तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः 01208012c तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् 01208013a का वै त्वमसि कल्याणि कुतो वासि जलेचरी 01208013c किमर्थं च महत्पापमिदं कृतवती पुरा 01208014 नार्युवाच 01208014a अप्सरास्मि महाबाहो देवारण्यविचारिणी 01208014c इष्टा धनपतेर्नित्यं वर्गा नाम महाबल 01208015a मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः 01208015c ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् 01208016a ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् 01208016c रूपवन्तमधीयानमेकमेकान्तचारिणम् 01208017a तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् 01208017c आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् 01208018a तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् 01208018c अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया 01208019a अहं च सौरभेयी च समीची बुद्बुदा लता 01208019c यौगपद्येन तं विप्रमभ्यगच्छाम भारत 01208020a गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् 01208020c स च नास्मासु कृतवान्मनो वीर कथंचन 01208020e नाकम्पत महातेजाः स्थितस्तपसि निर्मले 01208021a सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ 01208021c ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः 01209001 वर्गोवाच 01209001a ततो वयं प्रव्यथिताः सर्वा भरतसत्तम 01209001c आयाम शरणं विप्रं तं तपोधनमच्युतम् 01209002a रूपेण वयसा चैव कन्दर्पेण च दर्पिताः 01209002c अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज 01209003a एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन 01209003c यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः 01209004a अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः 01209004c तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि 01209005a सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते 01209005c सत्यो भवतु कल्याण एष वादो मनीषिणाम् 01209006a शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् 01209006c शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि 01209007 वैशंपायन उवाच 01209007a एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् 01209007c प्रसादं कृतवान्वीर रविसोमसमप्रभः 01209008 ब्राह्मण उवाच 01209008a शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् 01209008c परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् 01209009a यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले 01209009c उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः 01209010a तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ 01209010c अनृतं नोक्तपूर्वं मे हसतापि कदाचन 01209011a तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह 01209011c नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः 01209011e पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् 01209012 वर्गोवाच 01209012a ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् 01209012c अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः 01209013a क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् 01209013c समागच्छेम यो नस्तद्रूपमापादयेत्पुनः 01209014a ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत 01209014c दृष्टवत्यो महाभागं देवर्षिमुत नारदम् 01209015a सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् 01209015c अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः 01209016a स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् 01209016c श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् 01209017a दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै 01209017c पुण्यानि रमणीयानि तानि गच्छत माचिरम् 01209018a तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः 01209018c मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः 01209019a तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः 01209019c तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ 01209020a एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः 01209020c कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय 01209021 वैशंपायन उवाच 01209021a ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते 01209021c तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् 01209022a उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् 01209022c तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा 01209023a तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः 01209023c चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ 01209024a तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् 01209024c तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् 01210001 वैशंपायन उवाच 01210001a सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च 01210001c सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः 01210002a समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च 01210002c तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् 01210003a प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् 01210003c तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः 01210004a ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः 01210004c ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ 01210005a तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने 01210005c आस्तां प्रियसखायौ तौ नरनारायणावृषी 01210006a ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत 01210006c किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत 01210007a ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा 01210007c श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः 01210008a तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ 01210008c महीधरं रैवतकं वासायैवाभिजग्मतुः 01210009a पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् 01210009c पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम् 01210010a प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः 01210010c सहैव वासुदेवेन दृष्टवान्नटनर्तकान् 01210011a अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः 01210011c सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः 01210012a तीर्थानां दर्शनं चैव पर्वतानां च भारत 01210012c आपगानां वनानां च कथयामास सात्वते 01210013a स कथाः कथयन्नेव निद्रया जनमेजय 01210013c कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते 01210014a मधुरेण स गीतेन वीणाशब्देन चानघ 01210014c प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा 01210015a स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः 01210015c रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् 01210016a अलंकृता द्वारका तु बभूव जनमेजय 01210016c कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि 01210017a दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः 01210017c नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः 01210018a अवलोकेषु नारीणां सहस्राणि शतानि च 01210018c भोजवृष्ण्यन्धकानां च समवायो महानभूत् 01210019a स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः 01210019c अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः 01210020a कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः 01210020c समानवयसः सर्वानाश्लिष्य स पुनः पुनः 01210021a कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते 01210021c उवास सह कृष्णेन बहुलास्तत्र शर्वरीः 01211001 वैशंपायन उवाच 01211001a ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ 01211001c वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप 01211002a तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः 01211002c भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा 01211003a प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः 01211003c स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः 01211004a वादित्राणि च तत्र स्म वादकाः समवादयन् 01211004c ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः 01211005a अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः 01211005c यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः 01211006a पौराश्च पादचारेण यानैरुच्चावचैस्तथा 01211006c सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः 01211007a ततो हलधरः क्षीबो रेवतीसहितः प्रभुः 01211007c अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत 01211008a तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् 01211008c उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् 01211009a रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ 01211009c दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव 01211010a अक्रूरः सारणश्चैव गदो भानुर्विडूरथः 01211010c निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च 01211011a सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ 01211011c हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः 01211012a एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् 01211012c तमुत्सवं रैवतके शोभयां चक्रिरे तदा 01211013a तदा कोलाहले तस्मिन्वर्तमाने महाशुभे 01211013c वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः 01211014a तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम् 01211014c अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा 01211015a दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत 01211015c तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् 01211016a अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत 01211016c वनेचरस्य किमिदं कामेनालोड्यते मनः 01211017a ममैषा भगिनी पार्थ सारणस्य सहोदरा 01211017c यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् 01211018 अर्जुन उवाच 01211018a दुहिता वसुदेवस्य वासुदेवस्य च स्वसा 01211018c रूपेण चैव संपन्ना कमिवैषा न मोहयेत् 01211019a कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् 01211019c यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव 01211020a प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन 01211020c आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् 01211021 वासुदेव उवाच 01211021a स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ 01211021c स च संशयितः पार्थ स्वभावस्यानिमित्ततः 01211022a प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते 01211022c विवाहहेतोः शूराणामिति धर्मविदो विदुः 01211023a स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम 01211023c हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् 01211024 वैशंपायन उवाच 01211024a ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् 01211024c शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा 01211025a धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै 01211025c श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः 01212001 वैशंपायन उवाच 01212001a ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः 01212001c गतां रैवतके कन्यां विदित्वा जनमेजय 01212002a वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् 01212002c कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः 01212003a रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि 01212003c सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना 01212004a सर्वशस्त्रोपपन्नेन जीमूतरवनादिना 01212004c ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना 01212005a संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 01212005c मृगयाव्यपदेशेन यौगपद्येन भारत 01212006a सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् 01212006c दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च 01212007a प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति 01212007c तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् 01212008a ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् 01212008c रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति 01212009a ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः 01212009c विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् 01212010a ते समासाद्य सहिताः सुधर्मामभितः सभाम् 01212010c सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् 01212011a तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः 01212011c समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् 01212012a क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा 01212012c अन्नपानमपास्याथ समापेतुः सभां ततः 01212013a ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च 01212013c मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च 01212014a भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः 01212014c सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः 01212015a तेषां समुपविष्टानां देवानामिव संनये 01212015c आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः 01212016a तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः 01212016c अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः 01212017a योजयध्वं रथानाशु प्रासानाहरतेति च 01212017c धनूंषि च महार्हाणि कवचानि बृहन्ति च 01212018a सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च 01212018c स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् 01212019a रथेष्वानीयमानेषु कवचेषु ध्वजेषु च 01212019c अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत् 01212020a वनमाली ततः क्षीबः कैलासशिखरोपमः 01212020c नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् 01212021a किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने 01212021c अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः 01212022a एष तावदभिप्रायमाख्यातु स्वं महामतिः 01212022c यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः 01212023a ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् 01212023c तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् 01212024a समं वचो निशम्येति बलदेवस्य धीमतः 01212024c पुनरेव सभामध्ये सर्वे तु समुपाविशन् 01212025a ततोऽब्रवीत्कामपालो वासुदेवं परंतपम् 01212025c किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन 01212026a सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत 01212026c न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः 01212027a को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति 01212027c मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् 01212028a ईप्समानश्च संबन्धं कृतपूर्वं च मानयन् 01212028c को हि नाम भवेनार्थी साहसेन समाचरेत् 01212029a सोऽवमन्य च नामास्माननादृत्य च केशवम् 01212029c प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः 01212030a कथं हि शिरसो मध्ये पदं तेन कृतं मम 01212030c मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः 01212031a अद्य निष्कौरवामेकः करिष्यामि वसुंधराम् 01212031c न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः 01212032a तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् 01212032c अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा 01213001 वैशंपायन उवाच 01213001a उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः 01213001c ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् 01213002a नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् 01213002c संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् 01213003a अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा 01213003c स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः 01213004a प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते 01213004c विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि 01213005a एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः 01213005c अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः 01213006a उचितश्चैव संबन्धः सुभद्रा च यशस्विनी 01213006c एष चापीदृशः पार्थः प्रसह्य हृतवानिति 01213007a भरतस्यान्वये जातं शंतनोश्च महात्मनः 01213007c कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् 01213008a न च पश्यामि यः पार्थं विक्रमेण पराजयेत् 01213008c अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष 01213009a स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः 01213009c योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् 01213010a तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् 01213010c निवर्तयध्वं संहृष्टा ममैषा परमा मतिः 01213011a यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् 01213011c प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः 01213012a तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप 01213012c निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः 01213013a उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः 01213013c पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः 01213013e पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् 01213014a अभिगम्य स राजानं विनयेन समाहितः 01213014c अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् 01213015a तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् 01213015c तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा 01213015e सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते 01213016a तथा बहुविधं कृष्णां विलपन्तीं धनंजयः 01213016c सान्त्वयामास भूयश्च क्षमयामास चासकृत् 01213017a सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् 01213017c पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः 01213018a साधिकं तेन रूपेण शोभमाना यशस्विनी 01213018c भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना 01213018e ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी 01213019a ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना 01213019c ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् 01213020a प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् 01213020c सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः 01213020e तथैव मुदिता भद्रा तामुवाचैवमस्त्विति 01213021a ततस्ते हृष्टमनसः पाण्डवेया महारथाः 01213021c कुन्ती च परमप्रीता बभूव जनमेजय 01213022a श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् 01213022c अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा 01213023a आजगाम विशुद्धात्मा सह रामेण केशवः 01213023c वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः 01213024a भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः 01213024c सैन्येन महता शौरिरभिगुप्तः परंतपः 01213025a तत्र दानपतिर्धीमानाजगाम महायशाः 01213025c अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः 01213026a अनाधृष्टिर्महातेजा उद्धवश्च महायशाः 01213026c साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः 01213027a सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः 01213027c प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च 01213028a चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च 01213028c सारणश्च महाबाहुर्गदश्च विदुषां वरः 01213029a एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा 01213029c आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु 01213030a ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् 01213030c प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा 01213031a ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् 01213031c विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् 01213032a सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् 01213032c चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् 01213033a दह्यतागुरुणा चैव देशे देशे सुगन्धिना 01213033c सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् 01213034a प्रतिपेदे महाबाहुः सह रामेण केशवः 01213034c वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः 01213035a संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः 01213035c विवेश भवनं राज्ञः पुरंदरगृहोपमम् 01213036a युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि 01213036c मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना 01213037a तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् 01213037c भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् 01213038a तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः 01213038c प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् 01213039a गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् 01213039c कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः 01213040a ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् 01213040c हरणं वै सुभद्राया ज्ञातिदेयं महायशाः 01213041a रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् 01213041c चतुर्युजामुपेतानां सूतैः कुशलसंमतैः 01213041e सहस्रं प्रददौ कृष्णो गवामयुतमेव च 01213042a श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् 01213042c वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् 01213042e ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् 01213043a तथैवाश्वतरीणां च दान्तानां वातरंहसाम् 01213043c शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च 01213044a स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् 01213044c स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् 01213045a सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् 01213045c परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः 01213046a कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः 01213046c मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः 01213047a गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् 01213047c गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् 01213048a कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् 01213048c हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः 01213049a रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली 01213049c प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् 01213050a स महाधनरत्नौघो वस्त्रकम्बलफेनवान् 01213050c महागजमहाग्राहः पताकाशैवलाकुलः 01213051a पाण्डुसागरमाविद्धः प्रविवेश महानदः 01213051c पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् 01213052a प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः 01213052c पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् 01213053a ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः 01213053c विजह्रुरमरावासे नराः सुकृतिनो यथा 01213054a तत्र तत्र महापानैरुत्कृष्टतलनादितैः 01213054c यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः 01213055a एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् 01213055c पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् 01213056a रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः 01213056c रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः 01213057a वासुदेवस्तु पार्थेन तत्रैव सह भारत 01213057c उवास नगरे रम्ये शक्रप्रस्थे महामनाः 01213057e व्यचरद्यमुनाकूले पार्थेन सह भारत 01213058a ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा 01213058c जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् 01213059a दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् 01213059c सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् 01213060a अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् 01213060c अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् 01213061a स सात्वत्यामतिरथः संबभूव धनंजयात् 01213061c मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः 01213062a यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः 01213062c अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः 01213063a दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् 01213063c पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः 01213064a जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः 01213064c स चापि ववृधे बालः शुक्लपक्षे यथा शशी 01213065a चतुष्पादं दशविधं धनुर्वेदमरिंदमः 01213065c अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् 01213066a विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः 01213066c क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् 01213067a आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः 01213067c तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः 01213068a सर्वसंहननोपेतं सर्वलक्षणलक्षितम् 01213068c दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् 01213069a सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् 01213069c मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् 01213070a कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ 01213070c ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा 01213071a पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा 01213071c लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव 01213072a युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् 01213072c अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् 01213073a सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् 01213073c पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा 01213074a शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् 01213074c परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् 01213075a सुते सोमसहस्रे तु सोमार्कसमतेजसम् 01213075c सुतसोमं महेष्वासं सुषुवे भीमसेनतः 01213076a श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना 01213076c जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् 01213077a शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः 01213077c चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् 01213078a ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते 01213078c सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः 01213079a एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः 01213079c अन्वजायन्त राजेन्द्र परस्परहिते रताः 01213080a जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च 01213080c चकार विधिवद्धौम्यस्तेषां भरतसत्तम 01213081a कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः 01213081c जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् 01213082a देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः 01213082c अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् 01214001 वैशंपायन उवाच 01214001a इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् 01214001c शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च 01214002a आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् 01214002c पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः 01214003a स समं धर्मकामार्थान्सिषेवे भरतर्षभः 01214003c त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् 01214004a तेषां समविभक्तानां क्षितौ देहवतामिव 01214004c बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः 01214005a अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः 01214005c रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् 01214006a अधिष्ठानवती लक्ष्मीः परायणवती मतिः 01214006c बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता 01214007a भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ 01214007c प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः 01214008a तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे 01214008c बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः 01214009a धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले 01214009c प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च 01214010a न तु केवलदैवेन प्रजा भावेन रेमिरे 01214010c यद्बभूव मनःकान्तं कर्मणा स चकार तत् 01214011a न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् 01214011c भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः 01214012a स हि सर्वस्य लोकस्य हितमात्मन एव च 01214012c चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः 01214013a तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः 01214013c अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा 01214014a ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् 01214014c उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति 01214015a सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन 01214015c सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन 01214016 वासुदेव उवाच 01214016a कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले 01214016c सुहृज्जनवृताः पार्थ विहरेम यथासुखम् 01214017 वैशंपायन उवाच 01214017a आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत 01214017c जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः 01214018a विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम् 01214018c गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् 01214019a भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः 01214019c माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः 01214020a आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः 01214020c यथोपजोषं सर्वश्च जनश्चिक्रीड भारत 01214021a वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः 01214021c यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः 01214022a द्रौपदी च सुभद्रा च वासांस्याभरणानि च 01214022c प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे 01214023a काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः 01214023c जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् 01214024a रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् 01214024c मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् 01214025a वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः 01214025c शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् 01214026a तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ 01214026c समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम् 01214027a तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ 01214027c महार्हासनयो राजंस्ततस्तौ संनिषीदतुः 01214028a तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च 01214028c बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ 01214029a तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव 01214029c अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ 01214030a बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः 01214030c हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः 01214031a तरुणादित्यसंकाशः कृष्णवासा जटाधरः 01214031c पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव 01214032a उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् 01214032c अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः 01215001 वैशंपायन उवाच 01215001a सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् 01215001c लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः 01215002a ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा 01215002c भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् 01215003a एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ 01215003c केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे 01215004a एवमुक्तः स भगवानब्रवीत्तावुभौ ततः 01215004c भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति 01215005a नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् 01215005c यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम् 01215006a इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति 01215006c तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना 01215007a वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा 01215007c सगणस्तत्कृते दावं परिरक्षति वज्रभृत् 01215008a तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः 01215008c तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा 01215009a स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति 01215009c ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् 01215010a स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः 01215010c दहेयं खाण्डवं दावमेतदन्नं वृतं मया 01215011a युवां ह्युदकधारास्ता भूतानि च समन्ततः 01215011c उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः 01215012a एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् 01215012c दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः 01215013a उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च 01215013c यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् 01215014a धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् 01215014c कुर्वतः समरे यत्नं वेगं यद्विषहेत मे 01215015a शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः 01215015c न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् 01215016a अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः 01215016c रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् 01215017a तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् 01215017c येन नागान्पिशाचांश्च निहन्यान्माधवो रणे 01215018a उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि 01215018c निवारयेयं येनेन्द्रं वर्षमाणं महावने 01215019a पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक 01215019c करणानि समर्थानि भगवन्दातुमर्हसि 01216001 वैशंपायन उवाच 01216001a एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः 01216001c चिन्तयामास वरुणं लोकपालं दिदृक्षया 01216001e आदित्यमुदके देवं निवसन्तं जलेश्वरम् 01216002a स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् 01216002c तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् 01216002e चतुर्थं लोकपालानां रक्षितारं महेश्वरम् 01216003a सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते 01216003c तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् 01216004a कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति 01216004c चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् 01216004e ददानीत्येव वरुणः पावकं प्रत्यभाषत 01216005a ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् 01216005c सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च 01216005e सर्वायुधमहामात्रं परसेनाप्रधर्षणम् 01216006a एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् 01216006c चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् 01216007a देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 01216007c प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी 01216008a रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् 01216008c उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः 01216008e पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे 01216009a सर्वोपकरणैर्युक्तमजय्यं देवदानवैः 01216009c भानुमन्तं महाघोषं सर्वभूतमनोहरम् 01216010a ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः 01216010c प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव 01216011a यं स्म सोमः समारुह्य दानवानजयत्प्रभुः 01216011c नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया 01216012a आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा 01216012c तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा 01216013a तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः 01216013c विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत 01216014a ध्वजे भूतानि तत्रासन्विविधानि महान्ति च 01216014c नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति 01216015a स तं नानापताकाभिः शोभितं रथमुत्तमम् 01216015c प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च 01216016a संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 01216016c आरुरोह रथं पार्थो विमानं सुकृती यथा 01216017a तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा 01216017c गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः 01216018a हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् 01216018c जग्राह बलमास्थाय ज्यया च युयुजे धनुः 01216019a मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह 01216019c येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः 01216020a लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी 01216020c बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि 01216021a वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः 01216021c आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा 01216022a अब्रवीत्पावकश्चैनमेतेन मधुसूदन 01216022c अमानुषानपि रणे विजेष्यसि न संशयः 01216023a अनेन त्वं मनुष्याणां देवानामपि चाहवे 01216023c रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा 01216023e भविष्यसि न संदेहः प्रवरारिनिबर्हणे 01216024a क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु 01216024c हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः 01216025a वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् 01216025c दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः 01216026a ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ 01216026c कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि 01216027a कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः 01216027c किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना 01216028 अर्जुन उवाच 01216028a चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् 01216028c त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः 01216029a गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी 01216029c अहमप्युत्सहे लोकान्विजेतुं युधि पावक 01216030a सर्वतः परिवार्यैनं दावेन महता प्रभो 01216030c कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि 01216031 वैशंपायन उवाच 01216031a एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च 01216031c तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे 01216032a सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा 01216032c ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् 01216033a परिगृह्य समाविष्टस्तद्वनं भरतर्षभ 01216033c मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् 01216034a दह्यतस्तस्य विबभौ रूपं दावस्य भारत 01216034c मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः 01217001 वैशंपायन उवाच 01217001a तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ 01217001c दिक्षु सर्वासु भूतानां चक्राते कदनं महत् 01217002a यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः 01217002c पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् 01217003a छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् 01217003c आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ 01217004a खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः 01217004c उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश 01217005a दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे 01217005c स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः 01217006a समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे 01217006c त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः 01217007a विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः 01217007c तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे 01217008a दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले 01217008c तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः 01217009a जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत 01217009c गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः 01217010a शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः 01217010c अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये 01217011a तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः 01217011c दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि 01217012a ते शराचितसर्वाङ्गा विनदन्तो महारवान् 01217012c ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः 01217013a शरैरभ्याहतानां च दह्यतां च वनौकसाम् 01217013c विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः 01217014a वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः 01217014c जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् 01217015a ततो जग्मुर्महात्मानः सर्व एव दिवौकसः 01217015c शरणं देवराजानं सहस्राक्षं पुरंदरम् 01217016 देवा ऊचुः 01217016a किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना 01217016c कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर 01217017 वैशंपायन उवाच 01217017a तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च 01217017c खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः 01217018a महता मेघजालेन नानारूपेण वज्रभृत् 01217018c आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः 01217019a ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः 01217019c अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति 01217020a असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः 01217020c ख एव समशुष्यन्त न काश्चित्पावकं गताः 01217021a ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा 01217021c पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु 01217022a अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् 01217022c बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् 01218001 वैशंपायन उवाच 01218001a तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् 01218001c शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् 01218002a शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः 01218002c छादयामास तद्वर्षमपकृष्य ततो वनात् 01218003a न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः 01218003c संछाद्यमाने खगमैरस्यता सव्यसाचिना 01218004a तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः 01218004c दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा 01218005a अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली 01218005c स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् 01218006a न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः 01218006c मोक्षयामास तं माता निगीर्य भुजगात्मजा 01218007a तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते 01218007c ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी 01218008a तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः 01218008c शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः 01218009a तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् 01218009c मोहयामास तत्कालमश्वसेनस्त्वमुच्यत 01218010a तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः 01218010c द्विधा त्रिधा च चिच्छेद खगतानेव भारत 01218011a शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् 01218011c पावको वासुदेवश्च अप्रतिष्ठो भवेदिति 01218012a ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः 01218012c योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् 01218013a देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् 01218013c स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः 01218014a ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् 01218014c वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् 01218015a तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् 01218015c वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः 01218016a तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् 01218016c जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः 01218017a क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः 01218017c सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् 01218018a निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः 01218018c प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् 01218019a कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः 01218019c समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः 01218020a गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा 01218020c प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ 01218021a तथैवोरगसंघाताः पाण्डवस्य समीपतः 01218021c उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः 01218022a तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् 01218022c विवशाश्चापतन्दीप्तं देहाभावाय पावकम् 01218023a ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः 01218023c उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः 01218024a अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः 01218024c कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः 01218025a तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् 01218025c प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः 01218026a कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा 01218026c दैत्यदानवसंघानां चकार कदनं महत् 01218027a अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा 01218027c वेलामिव समासाद्य व्यातिष्ठन्त महौजसः 01218028a ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः 01218028c पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् 01218029a अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् 01218029c हतावेताविति प्राह सुरानसुरसूदनः 01218030a ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् 01218030c जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा 01218031a कालदण्डं यमो राजा शिबिकां च धनेश्वरः 01218031c पाशं च वरुणस्तत्र विचक्रं च तथा शिवः 01218032a ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि 01218032c जगृहे च धनुर्धाता मुसलं च जयस्तथा 01218033a पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः 01218033c अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् 01218034a प्रगृह्य परिघं घोरं विचचारार्यमा अपि 01218034c मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत 01218035a पूषा भगश्च संक्रुद्धः सविता च विशां पते 01218035c आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः 01218036a रुद्राश्च वसवश्चैव मरुतश्च महाबलाः 01218036c विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा 01218037a एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ 01218037c कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः 01218038a तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे 01218038c युगान्तसमरूपाणि भूतोत्सादाय भारत 01218039a तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ 01218039c अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ 01218040a आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः 01218040c न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा 01218041a असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः 01218041c भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः 01218042a दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च 01218042c आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः 01218043a शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे 01218043c बभूव परमप्रीतो भूयश्चैतावयोधयत् 01218044a ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः 01218044c भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः 01218044e तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः 01218045a विफलं क्रियमाणं तत्संप्रेक्ष्य च शतक्रतुः 01218045c भूयः संवर्धयामास तद्वर्षं देवराडथ 01218046a सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः 01218046c विलयं गमयामास हर्षयन्पितरं तदा 01218047a समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् 01218047c सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् 01218048a ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः 01218048c बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा 01218049a गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ 01218049c सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः 01218050a तेनावाक्पतता दावे शैलेन महता भृशम् 01218050c भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः 01219001 वैशंपायन उवाच 01219001a तथा शैलनिपातेन भीषिताः खाण्डवालयाः 01219001c दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः 01219001e द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा 01219002a मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा 01219002c समुद्विग्ना विससृपुस्तथान्या भूतजातयः 01219003a तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ 01219003c उत्पातनादशब्देन संत्रासित इवाभवन् 01219004a स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः 01219004c तेन ता जातयः क्षुद्राः सदानवनिशाचराः 01219004e निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् 01219005a अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः 01219005c वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः 01219006a पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः 01219006c निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत 01219007a क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः 01219007c हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः 01219008a तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत 01219008c बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा 01219009a समेतानां च देवानां दानवानां च सर्वशः 01219009c विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे 01219010a तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः 01219010c नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः 01219011a शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान् 01219011c बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ 01219012a निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी 01219012c शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना 01219013a न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः 01219013c दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ 01219014a न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ 01219014c वासुदेवार्जुनौ शक्र निबोधेदं वचो मम 01219015a नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि 01219015c भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ 01219016a नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि 01219016c अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ 01219017a पूजनीयतमावेतावपि सर्वैः सुरासुरैः 01219017c सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः 01219018a तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव 01219018c दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् 01219019a इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः 01219019c कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा 01219020a तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः 01219020c त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् 01219021a देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु 01219021c वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः 01219022a देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ 01219022c निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा 01219023a स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् 01219023c व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान् 01219024a न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः 01219024c संछिद्यमानमिषुभिरस्यता सव्यसाचिना 01219025a नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् 01219025c निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् 01219026a शतेनैकं च विव्याध शतं चैकेन पत्रिणा 01219026c व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव 01219027a न चालभन्त ते शर्म रोधःसु विषमेषु च 01219027c पितृदेवनिवासेषु संतापश्चाप्यजायत 01219028a भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम् 01219028c रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः 01219028e तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः 01219029a न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् 01219029c निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः 01219030a एकायनगता येऽपि निष्पतन्त्यत्र केचन 01219030c राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः 01219031a ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः 01219031c पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः 01219032a स मांसरुधिरौघैश्च मेदौघैश्च समीरितः 01219032c उपर्याकाशगो वह्निर्विधूमः समदृश्यत 01219033a दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः 01219033c दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् 01219034a तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः 01219034c बभूव मुदितस्तृप्तः परां निर्वृतिमागतः 01219035a अथासुरं मयं नाम तक्षकस्य निवेशनात् 01219035c विप्रद्रवन्तं सहसा ददर्श मधुसूदनः 01219036a तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः 01219036c देहवान्वै जटी भूत्वा नदंश्च जलदो यथा 01219036e जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः 01219037a स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् 01219037c अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत 01219038a तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः 01219038c प्रत्युवाच मयं पार्थो जीवयन्निव भारत 01219039a तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् 01219039c न हन्तुमैच्छद्दाशार्हः पावको न ददाह च 01219040a तस्मिन्वने दह्यमाने षडग्निर्न ददाह च 01219040c अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति 01220001 जनमेजय उवाच 01220001a किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते 01220001c तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे 01220002a अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च 01220002c कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् 01220003a तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् 01220003c कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः 01220004 वैशंपायन उवाच 01220004a यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते 01220004c तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत 01220005a धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः 01220005c आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः 01220006a स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् 01220006c स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः 01220007a स गत्वा तपसः पारं देहमुत्सृज्य भारत 01220007c जगाम पितृलोकाय न लेभे तत्र तत्फलम् 01220008a स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि 01220008c पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः 01220009a किमर्थमावृता लोका ममैते तपसार्जिताः 01220009c किं मया न कृतं तत्र यस्येदं कर्मणः फलम् 01220010a तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् 01220010c फलमेतस्य तपसः कथयध्वं दिवौकसः 01220011 देवा ऊचुः 01220011a ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु 01220011c क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः 01220012a तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः 01220012c तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा 01220013a त इमे प्रसवस्यार्थे तव लोकाः समावृताः 01220013c प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् 01220014a पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने 01220014c तस्मादपत्यसंताने यतस्व द्विजसत्तम 01220015 वैशंपायन उवाच 01220015a तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् 01220015c क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् 01220016a स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् 01220016c शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् 01220017a तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः 01220017c तानपास्य स तत्रैव जगाम लपितां प्रति 01220017e बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने 01220018a तस्मिन्गते महाभागे लपितां प्रति भारत 01220018c अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् 01220019a तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने 01220019c नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप 01220019e बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा 01220020a ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः 01220020c मन्दपालश्चरंस्तस्मिन्वने लपितया सह 01220021a तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् 01220021c सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् 01220021e पुत्रान्परिददद्भीतो लोकपालं महौजसम् 01220022 मन्दपाल उवाच 01220022a त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् 01220022c त्वमन्तः सर्वभूतानां गूढश्चरसि पावक 01220023a त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः 01220023c त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् 01220024a त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः 01220024c त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन 01220025a तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् 01220025c गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् 01220026a त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः 01220026c दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 01220027a जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते 01220027c तवैव कर्म विहितं भूतं सर्वं चराचरम् 01220028a त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् 01220028c त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् 01220029a अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः 01220029c त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः 01220030 वैशंपायन उवाच 01220030a एवं स्तुतस्ततस्तेन मन्दपालेन पावकः 01220030c तुतोष तस्य नृपते मुनेरमिततेजसः 01220030e उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते 01220031a तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् 01220031c प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय 01220032a तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः 01220032c खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया 01221001 वैशंपायन उवाच 01221001a ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः 01221001c व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् 01221002a निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी 01221002c जरिता दुःखसंतप्ता विललाप नरेश्वर 01221003a अयमग्निर्दहन्कक्षमित आयाति भीषणः 01221003c जगत्संदीपयन्भीमो मम दुःखविवर्धनः 01221004a इमे च मां कर्षयन्ति शिशवो मन्दचेतसः 01221004c अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् 01221004e त्रासयंश्चायमायाति लेलिहानो महीरुहान् 01221005a अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम 01221005c आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः 01221006a न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे 01221006c कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् 01221007a किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् 01221007c चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन 01221007e छादयित्वा च वो गात्रैः करिष्ये मरणं सह 01221008a जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् 01221008c सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः 01221009a स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः 01221009c इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा 01221010a कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा 01221010c किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला 01221011a नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् 01221011c एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् 01221012a स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् 01221012c अस्मासु हि विनष्टेषु भवितारः सुतास्तव 01221012e त्वयि मातर्विनष्टायां न नः स्यात्कुलसंततिः 01221013a अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः 01221013c तद्वै कर्तुं परः कालो मातरेष भवेत्तव 01221014a मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः 01221014c न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः 01221015 जरितोवाच 01221015a इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः 01221015c तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् 01221016a ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः 01221016c एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः 01221017a तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसंचयम् 01221017c रोचतामेष वोपायो विमोक्षाय हुताशनात् 01221018 शार्ङ्गका ऊचुः 01221018a अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् 01221018c पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् 01221019a कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् 01221019c कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः 01221020a बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् 01221020c अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् 01221021a गर्हितं मरणं नः स्यादाखुना खादता बिले 01221021c शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् 01222001 जरितोवाच 01222001a अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् 01222001c क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः 01222002 शार्ङ्गका ऊचुः 01222002a न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन 01222002c अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः 01222003a संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् 01222003c मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् 01222004a निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते 01222004c चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् 01222005 जरितोवाच 01222005a अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् 01222005c संचरन्तं समादाय जहाराखुं बिलाद्बली 01222006a तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् 01222006c आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् 01222007a यो नो द्वेष्टारमादाय श्येनराज प्रधावसि 01222007c भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः 01222008a यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा 01222008c तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति 01222009a प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् 01222009c श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः 01222010 शार्ङ्गका ऊचुः 01222010a न विद्म वै वयं मातर्हृतमाखुमितः पुरा 01222010c अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् 01222011 जरितोवाच 01222011a अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् 01222011c अत एव भयं नास्ति क्रियतां वचनं मम 01222012 शार्ङ्गका ऊचुः 01222012a न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् 01222012c समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् 01222013a न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् 01222013c पीड्यमाना भरस्यस्मान्का सती के वयं तव 01222014a तरुणी दर्शनीयासि समर्था भर्तुरेषणे 01222014c अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् 01222015a वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् 01222015c अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः 01222016 वैशंपायन उवाच 01222016a एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे 01222016c जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् 01222017a ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः 01222017c यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः 01222018a ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा 01222018c जरितारिस्ततो वाचं श्रावयामास पावकम् 01223001 जरितारिरुवाच 01223001a पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः 01223001c स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् 01223002a यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते 01223002c स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन 01223003 सारिसृक्व उवाच 01223003a धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः 01223003c शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः 01223004 स्तम्बमित्र उवाच 01223004a ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः 01223004c ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति 01223005 द्रोण उवाच 01223005a हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् 01223005c सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति 01223006 वैशंपायन उवाच 01223006a एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् 01223006c तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव 01223007 जरितारिरुवाच 01223007a आत्मासि वायोः पवनः शरीरमुत वीरुधाम् 01223007c योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः 01223008a ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः 01223008c अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा 01223009 सारिसृक्व उवाच 01223009a माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो 01223009c न नस्त्राता विद्यतेऽग्ने त्वदन्य;स्तस्माद्धि नः परिरक्षैकवीर 01223010a यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः 01223010c तेन नः परिरक्षाद्य ईडितः शरणैषिणः 01223011a त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव 01223011c ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह 01223012 स्तम्बमित्र उवाच 01223012a सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् 01223012c त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च 01223013a त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः 01223013c मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च 01223014a सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः 01223014c सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा 01223015a त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते 01223015c नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् 01223016 द्रोण उवाच 01223016a सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च 01223016c विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र 01223017a त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः 01223017c जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः 01223018a इदं वै सद्म तिग्मांशो वरुणस्य परायणम् 01223018c शिवस्त्राता भवास्माकं मास्मानद्य विनाशय 01223019a पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन 01223019c परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव 01223020 वैशंपायन उवाच 01223020a एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा 01223020c द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया 01223021a ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया 01223021c ईप्सितं ते करिष्यामि न च ते विद्यते भयम् 01223022a मन्दपालेन यूयं हि मम पूर्वं निवेदिताः 01223022c वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह 01223023a यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् 01223023c उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते 01223023e भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो 01223024 द्रोण उवाच 01223024a इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः 01223024c एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् 01223025 वैशंपायन उवाच 01223025a तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् 01223025c ददाह खाण्डवं चैव समिद्धो जनमेजय 01224001 वैशंपायन उवाच 01224001a मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा 01224001c उक्तवानप्यशीतांशुं नैव स स्म न तप्यते 01224002a स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् 01224002c कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः 01224003a वर्धमाने हुतवहे वाते शीघ्रं प्रवायति 01224003c असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः 01224004a कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी 01224004c भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती 01224005a कथं नु सरणेऽशक्तान्पतने च ममात्मजान् 01224005c संतप्यमाना अभितो वाशमानाभिधावती 01224006a जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे 01224006c स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी 01224007a लालप्यमानं तमृषिं मन्दपालं तथा वने 01224007c लपिता प्रत्युवाचेदं सासूयमिव भारत 01224008a न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि 01224008c तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् 01224009a तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ 01224009c प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना 01224010a लोकपालोऽनृतां वाचं न तु वक्ता कथंचन 01224010c समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् 01224011a तामेव तु ममामित्रीं चिन्तयन्परितप्यसे 01224011c ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् 01224012a न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने 01224012c पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन 01224013a गच्छ त्वं जरितामेव यदर्थं परितप्यसे 01224013c चरिष्याम्यहमप्येका यथा कापुरुषे तथा 01224014 मन्दपाल उवाच 01224014a नाहमेवं चरे लोके यथा त्वमभिमन्यसे 01224014c अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम 01224015a भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः 01224015c अवमन्येत तं लोको यथेच्छसि तथा कुरु 01224016a एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् 01224016c द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम 01224017 वैशंपायन उवाच 01224017a तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः 01224017c जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी 01224018a सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः 01224018c रोरूयमाणा कृपणा सुतान्दृष्टवती वने 01224019a अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः 01224019c एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत 01224020a ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत 01224020c अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः 01224021a लालप्यमानमेकैकं जरितां च पुनः पुनः 01224021c नोचुस्ते वचनं किंचित्तमृषिं साध्वसाधु वा 01224022 मन्दपाल उवाच 01224022a ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः 01224022c मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते 01224023a एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे 01224023c कृतवानस्मि हव्याशे नैव शान्तिमितो लभे 01224024 जरितोवाच 01224024a किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा 01224024c किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि 01224025a यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा 01224025c तामेव लपितां गच्छ तरुणीं चारुहासिनीम् 01224026 मन्दपाल उवाच 01224026a न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात् 01224026c सापत्नकमृते लोके भवितव्यं हि तत्तथा 01224027a सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता 01224027c अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् 01224028a विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् 01224028c सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् 01224029a अपध्यानेन सा तेन धूमारुणसमप्रभा 01224029c लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते 01224030a अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह 01224030c इष्टमेवंगते हित्वा सा तथैव च वर्तसे 01224031a नैव भार्येति विश्वासः कार्यः पुंसा कथंचन 01224031c न हि कार्यमनुध्याति भार्या पुत्रवती सती 01224032 वैशंपायन उवाच 01224032a ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे 01224032c स च तानात्मजान्राजन्नाश्वासयितुमारभत् 01225001 मन्दपाल उवाच 01225001a युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया 01225001c अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् 01225002a अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः 01225002c युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः 01225003a न संतापो हि वः कार्यः पुत्रका मरणं प्रति 01225003c ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः 01225004 वैशंपायन उवाच 01225004a एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत 01225004c मन्दपालस्ततो देशादन्यं देशं जगाम ह 01225005a भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् 01225005c ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् 01225006a वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः 01225006c अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् 01225007a ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः 01225007c मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् 01225008a कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् 01225008c वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् 01225009a पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः 01225009c ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह 01225010a यदा प्रसन्नो भगवान्महादेवो भविष्यति 01225010c तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः 01225011a अहमेव च तं कालं वेत्स्यामि कुरुनन्दन 01225011c तपसा महता चापि दास्यामि तव तान्यहम् 01225012a आग्नेयानि च सर्वाणि वायव्यानि तथैव च 01225012c मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय 01225013a वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् 01225013c ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा 01225014a दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः 01225014c हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः 01225015a पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् 01225015c अहानि पञ्च चैकं च विरराम सुतर्पितः 01225016a जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च 01225016c युक्तः परमया प्रीत्या तावुवाच विशां पते 01225017a युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् 01225017c अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् 01225018a एवं तौ समनुज्ञातौ पावकेन महात्मना 01225018c अर्जुनो वासुदेवश्च दानवश्च मयस्तथा 01225019a परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ 01225019c रमणीये नदीकूले सहिताः समुपाविशन्