% Ramayana: Uttarakanda % Last updated: Wed Oct 21 2020 % Encoding: Unicode Devanagari % 7001001a प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते 7001001c आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम् 7001002a कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च 7001002c कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः 7001003a स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा 7001003c आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् 7001004a पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः 7001004c तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् 7001005a वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः 7001005c जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः 7001006a संप्राप्यैते महात्मानो राघवस्य निवेशनम् 7001006c विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः 7001007a प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ 7001007c समीपं राघवस्याशु प्रविवेश महात्मनः 7001008a स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् 7001008c अगस्त्यं कथयामास संप्राप्तमृषिभिः सह 7001009a श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् 7001009c तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् 7001010a दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः 7001010c रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह 7001011a तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च 7001011c यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः 7001012a रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः 7001012c महर्षयो वेदविदो रामं वचनमब्रुवन् 7001013a कुशलं नो महाबाहो सर्वत्र रघुनन्दन 7001013c त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् 7001014a न हि भारः स ते राम रावणो राक्षसेश्वरः 7001014c सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः 7001015a दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान् 7001015c दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया 7001016a दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः 7001016c अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः 7001017a यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते 7001017c दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः 7001018a दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः 7001018c देवतानामवध्येन विजयं प्राप्तवानसि 7001019a संख्ये तस्य न किंचित्तु रावणस्य पराभवः 7001019c द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः 7001020a दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः 7001020c मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया 7001021a विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम् 7001021c अवध्यः सर्वभूतानां महामायाधरो युधि 7001022a दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् 7001022c दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन 7001023a श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम् 7001023c विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् 7001024a भवन्तः कुम्भकर्णं च रावणं च निशाचरम् 7001024c अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् 7001025a महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं 7001025c अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् 7001026a कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः 7001026c केन वा कारणेनैष रावणादतिरिच्यते 7001027a शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः 7001027c यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् 7001027e कथं शक्रो जितस्तेन कथं लब्धवरश्च सः 7002001a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7002001c कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह 7002002a शृणु राजन्यथावृत्तं यस्य तेजोबलं महत् 7002002c जघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः 7002003a अहं ते रावणस्येदं कुलं जन्म च राघव 7002003c वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते 7002004a पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः 7002004c पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः 7002005a नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा 7002005c प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः 7002006a स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः 7002006c तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः 7002007a तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः 7002007c गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः 7002008a देवपन्नगकन्याश्च राजर्षितनयाश्च याः 7002008c क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे 7002009a सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च 7002009c नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः 7002010a अथ रुष्टो महातेजा व्याजहार महामुनिः 7002010c या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति 7002011a तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः 7002011c ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः 7002012a तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् 7002012c गत्वाश्रमपदं तस्य विचचार सुनिर्भया 7002013a तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः 7002013c स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः 7002014a सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् 7002014c अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा 7002015a दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः 7002015c इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता 7002016a तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत् 7002016c किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः 7002017a सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् 7002017c न जाने कारणं तात येन मे रूपमीदृशम् 7002018a किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः 7002018c पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् 7002019a न च पश्याम्यहं तत्र कांचिदप्यागतां सखीम् 7002019c रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता 7002020a तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः 7002020c ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् 7002021a स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः 7002021c गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् 7002022a भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् 7002022c भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् 7002023a तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते 7002023c शुश्रूषातत्परा नित्यं भविष्यति न संशयः 7002024a तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा 7002024c जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः 7002025a दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा 7002025c सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः 7002025e प्रीतः स तु महातेजा वाक्यमेतदुवाच ह 7002026a परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम् 7002026c तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः 7002026e उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् 7002027a यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम 7002027c तस्मात्स विश्रवा नाम भविष्यति न संशयः 7002028a एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना 7002028c अचिरेणैव कालेन सूता विश्रवसं सुतम् 7002029a स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः 7002029c पितेव तपसा युक्तो विश्रवा मुनिपुंगवः 7003001a अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः 7003001c अचिरेणैव कालेन पितेव तपसि स्थितः 7003002a सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः 7003002c सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः 7003003a ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः 7003003c ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् 7003004a प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा 7003004c मुदा परमया युक्तो विश्रवा मुनिपुंगवः 7003005a स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् 7003005c जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् 7003006a तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः 7003006c नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा 7003007a यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव 7003007c तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः 7003008a स तु वैश्रवणस्तत्र तपोवनगतस्तदा 7003008c अवर्धत महातेजा हुताहुतिरिवानलः 7003009a तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः 7003009c चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः 7003010a स तु वर्षसहस्राणि तपस्तप्त्वा महावने 7003010c पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत 7003011a जलाशी मारुताहारो निराहारस्तथैव च 7003011c एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत् 7003012a अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह 7003012c गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् 7003013a परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत 7003013c वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः 7003014a अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् 7003014c भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् 7003015a ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा 7003015c ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् 7003016a अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः 7003016c यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम् 7003017a तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि 7003017c यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि 7003018a एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् 7003018c प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज 7003019a स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् 7003019c कृतकृत्या वयं तात दत्त्वा तव महावरम् 7003020a गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् 7003020c धनेशः पितरं प्राह विनयात्प्रणतो वचः 7003021a भगवँल्लब्धवानस्मि वरं कमलयोनितः 7003021c निवासं न तु मे देवो विदधे स प्रजापतिः 7003022a तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो 7003022c न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् 7003023a एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः 7003023c वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित् 7003024a लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा 7003024c राक्षसानां निवासार्थं यथेन्द्रस्यामरावती 7003025a रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा 7003025c राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः 7003025e शून्या रक्षोगणैः सर्वै रसातलतलं गतैः 7003026a स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् 7003026c निर्दोषस्तत्र ते वासो न च बाधास्ति कस्यचित् 7003027a एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः 7003027c निवेशयामास तदा लङ्कां पर्वतमूर्धनि 7003028a नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा 7003028c अचिरेणैककालेन संपूर्णा तस्य शासनात् 7003029a अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः 7003029c समुद्रपरिधानायां लङ्कायां विश्रवात्मजः 7003030a काले काले विनीतात्मा पुष्पकेण धनेश्वरः 7003030c अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः 7003031a स देवगन्धर्वगणैरभिष्टुत;स्तथैव सिद्धैः सह चारणैरपि 7003031c गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं प्रययौ श्रिया वृतः 7004001a श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः 7004001c पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः 7004002a ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् 7004002c अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत 7004003a भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् 7004003c इतीदं भवतः श्रुत्वा विस्मयो जनितो मम 7004004a पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् 7004004c इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया 7004005a रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि 7004005c रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः 7004006a क एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलः 7004006c अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा 7004007a एतद्विस्तरतः सर्वं कथयस्व ममानघ 7004007c कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः 7004008a राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः 7004008c ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् 7004009a प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः 7004009c तासां गोपायने सत्त्वानसृजत्पद्मसंभवः 7004010a ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः 7004010c किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः 7004011a प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव 7004011c आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः 7004012a रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः 7004012c भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् 7004013a रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः 7004013c यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः 7004014a तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ 7004014c मधुकैटभसंकाशौ बभूवतुररिंदमौ 7004015a प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति 7004015c हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् 7004016a स कालभगिनीं कन्यां भयां नाम भयावहाम् 7004016c उदावहदमेयात्मा स्वयमेव महामतिः 7004017a स तस्यां जनयामास हेती राक्षसपुंगवः 7004017c पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् 7004018a विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः 7004018c व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् 7004019a स यदा यौवनं भद्रमनुप्राप्तो निशाचरः 7004019c ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता 7004020a संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः 7004020c वरयामास पुत्रार्थं हेती राक्षसपुंगवः 7004021a अवश्यमेव दातव्या परस्मै सेति संध्यया 7004021c चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव 7004022a संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः 7004022c रमते स तया सार्धं पौलोम्या मघवानिव 7004023a केनचित्त्वथ कालेन राम सालकटंकटा 7004023c विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् 7004024a ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् 7004024c प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् 7004025a तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी 7004025c रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् 7004026a तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः 7004026c पाणिमास्ये समाधाय रुरोद घनराडिव 7004027a अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः 7004027c अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् 7004028a कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः 7004028c तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् 7004029a अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः 7004029c पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया 7004030a उमयापि वरो दत्तो राक्षसीनां नृपात्मज 7004030c सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च 7004030e सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् 7004031a ततः सुकेशो वरदानगर्वितः; श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः 7004031c चचार सर्वत्र महामतिः खगः; खगं पुरं प्राप्य पुरंदरो यथा 7005001a सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् 7005001c ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः 7005002a तस्य देववती नाम द्वितीया श्रीरिवात्मजा 7005002c तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा 7005003a वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् 7005003c आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः 7005004a स तया सह संयुक्तो रराज रजनीचरः 7005004c अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः 7005005a देववत्यां सुकेशस्तु जनयामास राघव 7005005c त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः 7005005e माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् 7005006a त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः 7005006c त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः 7005007a त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः 7005007c विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव 7005008a वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत् 7005008c तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः 7005009a प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम 7005009c विचेरुस्ते तपो घोरं सर्वभूतभयावहम् 7005010a सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः 7005010c संतापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान् 7005011a ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः 7005011c सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत 7005012a ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् 7005012c ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः 7005013a तपसाराधितो देव यदि नो दिशसे वरम् 7005013c अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः 7005013e प्रभविष्णवो भवामेति परस्परमनुव्रताः 7005014a एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः 7005014c प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः 7005015a वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा 7005015c सुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः 7005016a तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः 7005016c त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः 7005017a अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् 7005017c ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम 7005018a गृहकर्ता भवानेव देवानां हृदयेप्सितम् 7005018c अस्माकमपि तावत्त्वं गृहं कुरु महामते 7005019a हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा 7005019c महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् 7005020a विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः 7005020c निवासं कथयामास शक्रस्येवामरावतीम् 7005021a दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः 7005021c शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे 7005021e शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि 7005022a त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा 7005022c मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता 7005023a तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः 7005023c अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः 7005024a लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः 7005024c भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः 7005025a विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः 7005025c सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् 7005026a दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् 7005026c लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः 7005027a नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता 7005027c तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति 7005028a ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी 7005028c कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः 7005029a त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः 7005029c मात्रा दत्ता महाभागा नक्षत्रे भगदैवते 7005030a कृतदारास्तु ते राम सुकेशतनयाः प्रभो 7005030c भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः 7005031a तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी 7005031c स तस्यां जनयामास यदपत्यं निबोध तत् 7005032a वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः 7005032c सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च 7005032e अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी 7005033a सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना 7005033c नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी 7005034a सुमाली जनयामास यदपत्यं निशाचरः 7005034c केतुमत्यां महाराज तन्निबोधानुपूर्वशः 7005035a प्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकः 7005035c धूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः 7005036a संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः 7005036c राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता 7005036e कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः 7005037a मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी 7005037c भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा 7005038a सुमालेरनुजस्तस्यां जनयामास यत्प्रभो 7005038c अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव 7005039a अनलश्चानिलश्चैव हरः संपातिरेव च 7005039c एते विभीषणामात्या मालेयास्ते निशाचराः 7005040a ततस्तु ते राक्षसपुंगवास्त्रयो; निशाचरैः पुत्रशतैश्च संवृताः 7005040c सुरान्सहेन्द्रानृषिनागदानवा;न्बबाधिरे ते बलवीर्यदर्पिताः 7005041a जगद्भ्रमन्तोऽनिलवद्दुरासदा; रणे च मृत्युप्रतिमाः समाहिताः 7005041c वरप्रदानादभिगर्विता भृशं; क्रतुक्रियाणां प्रशमंकराः सदा 7006001a तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः 7006001c भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् 7006002a ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् 7006002c ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः 7006003a सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः 7006003c प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन 7006004a शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः 7006004c स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् 7006005a अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् 7006005c अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम् 7006006a इति ते राक्षसा देव वरदानेन दर्पिताः 7006006c बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः 7006007a तन्नो देवभयार्तानामभयं दातुमर्हसि 7006007c अशिवं वपुरास्थाय जहि दैवतकण्टकान् 7006008a इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः 7006008c सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः 7006009a नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः 7006009c किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति 7006010a एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः 7006010c गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः 7006011a ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम् 7006011c विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः 7006012a शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च 7006012c ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः 7006013a सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः 7006013c आक्रम्य वरदानेन स्थानान्यपहृतानि नः 7006014a लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता 7006014c तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः 7006015a स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन 7006015c चक्रकृत्तास्यकमलान्निवेदय यमाय वै 7006016a भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः 7006016c नुद त्वं नो भयं देव नीहारमिव भास्करः 7006017a इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः 7006017c अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह 7006018a सुकेशं राक्षसं जाने ईशानवरदर्पितम् 7006018c तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् 7006019a तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् 7006019c सूदयिष्यामि संग्रामे सुरा भवत विज्वराः 7006020a इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना 7006020c यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम् 7006021a विबुधानां समुद्योगं माल्यवान्स निशाचरः 7006021c श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् 7006022a अमरा ऋषयश्चैव संहत्य किल शंकरम् 7006022c अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् 7006023a सुकेशतनया देव वरदानबलोद्धताः 7006023c बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे 7006024a राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते 7006024c स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् 7006025a तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन 7006025c राक्षसान्हुंकृतेनैव दह प्रदहतां वर 7006026a इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः 7006026c शिरः करं च धुन्वान इदं वचनमब्रवीत् 7006027a अवध्या मम ते देवाः सुकेशतनया रणे 7006027c मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति 7006028a यः स चक्रगदापाणिः पीतवासा जनार्दनः 7006028c हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ 7006029a हरान्नावाप्य ते कामं कामारिमभिवाद्य च 7006029c नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् 7006030a ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः 7006030c सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः 7006031a देवानां भयभीतानां हरिणा राक्षसर्षभौ 7006031c प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् 7006032a हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् 7006032c दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति 7006033a ततः सुमाली माली च श्रुत्वा माल्यवतो वचः 7006033c ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् 7006034a स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् 7006034c आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः 7006035a देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च 7006035c जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् 7006036a नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा 7006036c अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति 7006037a विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर 7006037c देवानामेव दोषेण विष्णोः प्रचलितं मनः 7006038a तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः 7006038c देवानेव जिघांसामो येभ्यो दोषः समुत्थितः 7006039a इति माली सुमाली च माल्यवानग्रजः प्रभुः 7006039c उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते 7006039e युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव 7006040a स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः 7006040c खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः 7006041a मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः 7006041c सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि 7006042a त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः 7006042c प्रयाता देवलोकाय योद्धुं दैवतशत्रवः 7006043a लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ 7006043c भूतानि भयदर्शीनि विमनस्कानि सर्वशः 7006044a भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः 7006044c उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम् 7006045a अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च 7006045c वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः 7006046a अट्टहासान्विमुञ्चन्तो घननादसमस्वनान् 7006046c भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः 7006047a गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः 7006047c राक्षसानामुपरि वै भ्रमते कालचक्रवत् 7006048a तानचिन्त्य महोत्पातान्राक्षसा बलगर्विताः 7006048c यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः 7006049a माल्यवांश्च सुमाली च माली च रजनीचराः 7006049c आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः 7006050a माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम् 7006050c निशाचरा आश्रयन्ते धातारमिव देहिनः 7006051a तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् 7006051c जयेप्सया देवलोकं ययौ माली वशे स्थितम् 7006052a राक्षसानां समुद्योगं तं तु नारायणः प्रभुः 7006052c देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः 7006053a स देवसिद्धर्षिमहोरगैश्च; गन्धर्वमुख्याप्सरसोपगीतः 7006053c समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी 7006054a सुपर्णपक्षानिलनुन्नपक्षं; भ्रमत्पताकं प्रविकीर्णशस्त्रम् 7006054c चचाल तद्राक्षसराजसैन्यं; चलोपलो नील इवाचलेन्द्रः 7006055a ततः शितैः शोणितमांसरूषितै;र्युगान्तवैश्वानरतुल्यविग्रहैः 7006055c निशाचराः संपरिवार्य माधवं; वरायुधैर्निर्बिभिदुः सहस्रशः 7007001a नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः 7007001c अवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः 7007002a श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः 7007002c वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः 7007003a शलभा इव केदारं मशका इव पर्वतम् 7007003c यथामृतघटं जीवा मकरा इव चार्णवम् 7007004a तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः 7007004c हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये 7007005a स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः 7007005c अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः 7007006a राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः 7007006c निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् 7007007a निशाचरैस्तुद्यमानो मीनैरिव महातिमिः 7007007c शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे 7007008a शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः 7007008c चिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः 7007009a विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम् 7007009c पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः 7007010a सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् 7007010c ररास भीमनिह्रादो युगान्ते जलदो यथा 7007011a शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् 7007011c मृगराज इवारण्ये समदानिव कुञ्जरान् 7007012a न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् 7007012c स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः 7007013a शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः 7007013c विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् 7007014a भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः 7007014c निपेतू राक्षसा भीमाः शैला वज्रहता इव 7007015a व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः 7007015c असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः 7007016a शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा 7007016c राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः 7007017a सूर्यादिव करा घोरा ऊर्मयः सागरादिव 7007017c पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात् 7007018a तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताः 7007018c निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः 7007019a शरभेण यथा सिंहाः सिंहेन द्विरदा यथा 7007019c द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा 7007020a द्वीपिना च यथा श्वानः शुना मार्जारका यथा 7007020c मार्जारेण यथा सर्पाः सर्पेण च यथाखवः 7007021a तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना 7007021c द्रवन्ति द्राविताश्चैव शायिताश्च महीतले 7007022a राक्षसानां सहस्राणि निहत्य मधुसूदनः 7007022c वारिजं नादयामास तोयदं सुरराडिव 7007023a नारायणशरग्रस्तं शङ्खनादसुविह्वलम् 7007023c ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् 7007024a प्रभग्ने राक्षसबले नारायणशराहते 7007024c सुमाली शरवर्षेण आववार रणे हरिम् 7007025a उत्क्षिप्य हेमाभरणं करं करमिव द्विपः 7007025c ररास राक्षसो हर्षात्सतडित्तोयदो यथा 7007026a सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् 7007026c चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः 7007027a तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः 7007027c इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः 7007028a माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः 7007028c मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः 7007028e विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव 7007029a अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः 7007029c चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः 7007030a अथ मौर्वी स्वनं कृत्वा भगवान्भूतभावनः 7007030c मालिनं प्रति बाणौघान्ससर्जासिगदाधरः 7007031a ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः 7007031c पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् 7007032a मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात् 7007032c रथं च सध्वजं चापं वाजिनश्च न्यपातयत् 7007033a विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः 7007033c आपुप्लुवे गदापाणिर्गिर्यग्रादिव केषरी 7007034a स तया गरुडं संख्ये ईशानमिव चान्तकः 7007034c ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् 7007035a गदयाभिहतस्तेन मालिना गरुडो भृशम् 7007035c रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः 7007036a पराङ्मुखे कृते देवे मालिना गरुडेन वै 7007036c उदतिष्ठन्महानादो रक्षसामभिनर्दताम् 7007037a रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः 7007037c पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया 7007038a तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः 7007038c कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् 7007039a तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् 7007039c पपात रुधिरोद्गारि पुरा राहुशिरो यथा 7007040a ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः 7007040c सिंहनादरवो मुक्तः साधु देवेति वादिभिः 7007041a मालिनं निहतं दृष्ट्वा सुमाली मल्यवानपि 7007041c सबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ 7007042a गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः 7007042c राक्षसान्द्रावयामास पक्षवातेन कोपितः 7007043a नारायणोऽपीषुवराशनीभि;र्विदारयामास धनुःप्रमुक्तैः 7007043c नक्तंचरान्मुक्तविधूतकेशा;न्यथाशनीभिः सतडिन्महेन्द्रः 7007044a भिन्नातपत्रं पतमानशस्त्रं; शरैरपध्वस्तविशीर्णदेहम् 7007044c विनिःसृतान्त्रं भयलोलनेत्रं; बलं तदुन्मत्तनिभं बभूव 7007045a सिंहार्दितानामिव कुञ्जराणां; निशाचराणां सह कुञ्जराणाम् 7007045c रवाश्च वेगाश्च समं बभूवुः; पुराणसिंहेन विमर्दितानाम् 7007046a संछाद्यमाना हरिबाणजालैः; स्वबाणजालानि समुत्सृजन्तः 7007046c धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः 7007047a चक्रप्रहारैर्विनिकृत्तशीर्षाः; संचूर्णिताङ्गाश्च गदाप्रहारैः 7007047c असिप्रहारैर्बहुधा विभक्ताः; पतन्ति शैला इव राक्षसेन्द्राः 7007048a चक्रकृत्तास्यकमला गदासंचूर्णितोरसः 7007048c लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः 7007049a केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताः 7007049c निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि 7007050a तदाम्बरं विगलितहारकुण्डलै;र्निशाचरैर्नीलबलाहकोपमैः 7007050c निपात्यमानैर्ददृशे निरन्तरं; निपात्यमानैरिव नीलपर्वतैः 7008001a हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः 7008001c माल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः 7008002a संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः 7008002c पद्मनाभमिदं प्राह वचनं परुषं तदा 7008003a नारायण न जानीषे क्षत्रधर्मं सनातनम् 7008003c अयुद्धमनसो भग्नान्योऽस्मान्हंसि यथेतरः 7008004a पराङ्मुखवधं पापं यः करोति सुरेश्वर 7008004c स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् 7008005a युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर 7008005c अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव 7008006a उवाच राक्षसेन्द्रं तं देवराजानुजो बली 7008006c युष्मत्तो भयभीतानां देवानां वै मयाभयम् 7008006e राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते 7008007a प्राणैरपि प्रियं कार्यं देवानां हि सदा मया 7008007c सोऽहं वो निहनिष्यामि रसातलगतानपि 7008008a देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् 7008008c शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च 7008009a माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना 7008009c हरेरुरसि बभ्राज मेघस्थेव शतह्रदा 7008010a ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः 7008010c माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः 7008011a स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता 7008011c काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् 7008012a सा तस्योरसि विस्तीर्णे हारभासावभासिते 7008012c अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः 7008013a तया भिन्नतनुत्राणाः प्राविशद्विपुलं तमः 7008013c माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः 7008014a ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् 7008014c प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् 7008015a तथैव रणरक्तस्तु मुष्टिना वासवानुजम् 7008015c ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः 7008016a ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः 7008016c आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् 7008017a वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसं 7008017c व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा 7008018a द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् 7008018c सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ 7008019a पक्षवातबलोद्धूतो माल्यवानपि राक्षसः 7008019c स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः 7008020a एवं ते राक्षसा राम हरिणा कमलेक्षण 7008020c बहुशः संयुगे भग्ना हतप्रवरनायकाः 7008021a अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः 7008021c त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः 7008022a सुमालिनं समासाद्य राक्षसं रघुनन्दन 7008022c स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे 7008023a ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः 7008023c सुमाली माल्यवान्माली ये च तेषां पुरःसराः 7008023e सर्व एते महाभाग रावणाद्बलवत्तराः 7008024a न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय 7008024c ऋते नारायणं देवं शङ्खचक्रगदाधरम् 7008025a भवान्नारायणो देवश्चतुर्बाहुः सनातनः 7008025c राक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः 7009001a कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः 7009001c रसातलान्मर्त्यलोकं सर्वं वै विचचार ह 7009002a नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः 7009002c कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् 7009002e अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् 7009003a तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् 7009003c अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः 7009004a पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते 7009004c त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः 7009005a त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके 7009005c प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे 7009006a कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् 7009006c न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके 7009007a मातुः कुलं पितृकुलं यत्र चैव प्रदीयते 7009007c कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति 7009008a सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् 7009008c गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् 7009009a ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः 7009009c तेजसा भास्करसमा यादृशोऽयं धनेश्वरः 7009010a एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः 7009010c अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः 7009011a सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् 7009011c उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता 7009012a स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् 7009012c अब्रवीत्परमोदारो दीप्यमान इवौजसा 7009013a भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता 7009013c किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने 7009014a एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् 7009014c आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् 7009015a किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम् 7009015c कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि 7009016a स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह 7009016c विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् 7009017a दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता 7009017c शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि 7009018a दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् 7009018c प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः 7009019a सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः 7009019c भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः 7009020a अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः 7009020c मम वंशानुरूपश्च धर्मात्मा च भविष्यति 7009021a एवमुक्ता तु सा कन्या राम कालेन केनचित् 7009021c जनयामास बीभत्सं रक्षोरूपं सुदारुणम् 7009022a दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् 7009022c ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् 7009023a जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः 7009023c क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे 7009024a ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः 7009024c प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि 7009025a अथ नामाकरोत्तस्य पितामहसमः पिता 7009025c दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति 7009026a तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः 7009026c प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते 7009027a ततः शूर्पणखा नाम संजज्ञे विकृतानना 7009027c विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः 7009028a ते तु तत्र महारण्ये ववृधुः सुमहौजसः 7009028c तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् 7009029a कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान् 7009029c त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह 7009030a विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः 7009030c स्वाध्यायनियताहार उवास नियतेन्द्रियः 7009031a अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् 7009031c आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं 7009032a तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा 7009032c आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह 7009033a पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् 7009033c भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् 7009034a दशग्रीव तथा यत्नं कुरुष्वामितविक्रम 7009034c यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः 7009035a मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् 7009035c अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा 7009036a सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा 7009036c भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् 7009037a ततः क्रोधेन तेनैव दशग्रीवः सहानुजः 7009037c प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च 7009037e आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् 7010001a अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने 7010001c कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः 7010002a अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं 7010002c तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् 7010003a कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः 7010003c तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः 7010004a वर्षे मेघोदकक्लिन्नो वीरासनमसेवत 7010004c नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः 7010005a एवं वर्षसहस्राणि दश तस्यातिचक्रमुः 7010005c धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च 7010006a विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः 7010006c पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् 7010007a समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः 7010007c पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः 7010008a पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत 7010008c तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः 7010009a एवं विभीषणस्यापि गतानि नियतात्मनः 7010009c दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने 7010010a दशवर्षसहस्रं तु निराहारो दशाननः 7010010c पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः 7010011a एवं वर्षसहस्राणि नव तस्यातिचक्रमुः 7010011c शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् 7010012a अथ वर्षसहस्रे तु दशमे दशमं शिरः 7010012c छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः 7010013a पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः 7010013c वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत 7010014a शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः 7010014c किं ते कामं करोम्यद्य न वृथा ते परिश्रमः 7010015a ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना 7010015c प्रणम्य शिरसा देवं हर्षगद्गदया गिरा 7010016a भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् 7010016c नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे 7010017a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7010017c अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् 7010018a न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित 7010018c तृणभूता हि मे सर्वे प्राणिनो मानुषादयः 7010019a एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा 7010019c उवाच वचनं राम सह देवैः पितामहः 7010020a भविष्यत्येवमेवैतत्तव राक्षसपुंगव 7010020c शृणु चापि वचो भूयः प्रीतस्येह शुभं मम 7010021a हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ 7010021c पुनस्तानि भविष्यन्ति तथैव तव राक्षस 7010022a एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः 7010022c अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै 7010023a एवमुक्त्वा तु तं राम दशग्रीवं प्रजापतिः 7010023c विभीषणमथोवाच वाक्यं लोकपितामहः 7010024a विभीषण त्वया वत्स धर्मसंहितबुद्धिना 7010024c परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत 7010025a विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः 7010025c वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः 7010026a भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् 7010026c प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत 7010027a या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह 7010027c सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये 7010028a एष मे परमोदार वरः परमको मतः 7010028c न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् 7010029a अथ प्रजापतिः प्रीतो विभीषणमुवाच ह 7010029c धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति 7010030a यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण 7010030c नाधर्मे जायते बुद्धिरमरत्वं ददामि ते 7010031a कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम 7010031c प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् 7010032a न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया 7010032c जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः 7010033a नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश 7010033c अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा 7010034a वरव्याजेन मोहोऽस्मै दीयताममितप्रभ 7010034c लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः 7010035a एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः 7010035c चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती 7010036a प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती 7010036c इयमस्म्यागता देव किं कार्यं करवाण्यहम् 7010037a प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् 7010037c वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता 7010038a तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् 7010038c कुम्भकर्ण महाबाहो वरं वरय यो मतः 7010039a कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् 7010039c स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् 7010040a एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः 7010040c देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् 7010041a कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः 7010041c कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् 7010042a एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः 7010042c श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् 7011001a सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान् 7011001c उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् 7011002a मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः 7011002c उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः 7011003a सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः 7011003c अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् 7011004a दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽयं मनोरथः 7011004c यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम् 7011005a यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् 7011005c तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् 7011006a असकृत्तेन भग्ना हि परित्यज्य स्वमालयम् 7011006c विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् 7011007a अस्मदीया च लङ्केयं नगरी राक्षसोषिता 7011007c निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता 7011008a यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ 7011008c तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् 7011009a त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः 7011009c सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल 7011010a अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् 7011010c वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् 7011011a उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः 7011011c प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् 7011012a दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् 7011012c सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम 7011013a अदितिश्च दितिश्चैव भगिन्यौ सहिते किल 7011013c भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः 7011014a अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान् 7011014c दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान् 7011015a दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा 7011015c सपर्वता मही वीर तेऽभवन्प्रभविष्णवः 7011016a निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना 7011016c देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् 7011017a नैतदेको भवानेव करिष्यति विपर्ययम् 7011017c सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम 7011018a एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना 7011018c चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् 7011019a स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् 7011019c वनं गतो दशग्रीवः सह तैः क्षणदाचरैः 7011020a त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः 7011020c प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् 7011021a प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् 7011021c वचनान्मम वित्तेशं सामपूर्वमिदं वचः 7011022a इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् 7011022c त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ 7011023a तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम 7011023c कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः 7011024a इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः 7011024c दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् 7011025a प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः 7011025c प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः 7011026a ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम 7011026c तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् 7011027a सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात् 7011027c किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये 7011028a एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् 7011028c अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् 7011029a एष तात दशग्रीवो दूतं प्रेषितवान्मम 7011029c दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता 7011029e मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत 7011030a ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः 7011030c उवाच धनदं वाक्यं शृणु पुत्र वचो मम 7011031a दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ 7011031c मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः 7011032a स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः 7011032c श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम 7011033a वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः 7011033c न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः 7011034a तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् 7011034c निवेशय निवासार्थं त्यज लङ्कां सहानुगः 7011035a तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी 7011035c काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका 7011036a न हि क्षमं त्वया तेन वैरं धनद रक्षसा 7011036c जानीषे हि यथानेन लब्धः परमको वरः 7011037a एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात् 7011037c सदारपौरः सामात्यः सवाहनधनो गतः 7011038a प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् 7011038c शून्या सा नगरी लङ्का त्रिंशद्योजनमायता 7011038e प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय 7011039a एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा 7011039c विवेश नगरीं लङ्कां सभ्राता सबलानुगः 7011040a स चाभिषिक्तः क्षणदाचरैस्तदा; निवेशयामास पुरीं दशाननः 7011040c निकामपूर्णा च बभूव सा पुरी; निशाचरैर्नीलबलाहकोपमैः 7011041a धनेश्वरस्त्वथ पितृवाक्यगौरवा;न्न्यवेशयच्छशिविमले गिरौ पुरीम् 7011041c स्वलंकृतैर्भवनवरैर्विभूषितां; पुरंदरस्येव तदामरावतीम् 7012001a राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा 7012001c ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् 7012002a ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम् 7012002c स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः 7012003a अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः 7012003c तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् 7012004a कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः 7012004c अपृच्छत्को भवानेको निर्मनुष्य मृगे वने 7012005a मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम् 7012005c श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम 7012006a हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया 7012006c दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः 7012007a तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् 7012007c सा च दैवतकार्येण गता वर्षं चतुर्दशम् 7012008a तस्याः कृते च हेमायाः सर्वं हेमपुरं मया 7012008c वज्रवैदूर्यचित्रं च मायया निर्मितं तदा 7012009a तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः 7012009c तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः 7012010a इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता 7012010c भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् 7012011a कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम् 7012011c कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति 7012012a द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः 7012012c मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् 7012013a एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः 7012013c त्वामिदानीं कथं तात जानीयां को भवानिति 7012014a एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत् 7012014c अहं पौलस्त्यतनयो दशग्रीवश्च नामतः 7012015a ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः 7012015c दातुं दुहितरं तस्य रोचयामास तत्र वै 7012016a प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः 7012016c इयं ममात्मजा राजन्हेमयाप्सरसा धृता 7012016e कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् 7012017a बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत 7012017c प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम् 7012018a न हि तस्य मयो राम शापाभिज्ञस्तपोधनात् 7012018c विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् 7012019a अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम् 7012019c परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया 7012020a एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः 7012020c गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् 7012021a वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः 7012021c तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् 7012022a गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः 7012022c सरमां नाम धर्मज्ञो लेभे भार्यां विभीषणः 7012023a तीरे तु सरसः सा वै संजज्ञे मानसस्य च 7012023c मानसं च सरस्तात ववृधे जलदागमे 7012024a मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः 7012024c सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् 7012025a एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः 7012025c स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने 7012026a ततो मन्दोदरी पुत्रं मेघनादमसूयत 7012026c स एष इन्द्रजिन्नाम युष्माभिरभिधीयते 7012027a जातमात्रेण हि पुरा तेन राक्षससूनुना 7012027c रुदता सुमहान्मुक्तो नादो जलधरोपमः 7012028a जडीकृतायां लङ्कायां तेन नादेन तस्य वै 7012028c पिता तस्याकरोन्नाम मेघनाद इति स्वयम् 7012029a सोऽवर्धत तदा राम रावणान्तःपुरे शुभे 7012029c रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः 7013001a अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् 7013001c निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी 7013002a ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः 7013002c निद्रा मां बाधते राजन्कारयस्व ममालयम् 7013003a विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् 7013003c अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् 7013004a विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् 7013004c दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे 7013005a स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् 7013005c वैदूर्यकृतशोभं च किङ्किणीजालकं तथा 7013006a दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् 7013006c सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव 7013007a तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः 7013007c बहून्यब्दसहस्राणि शयानो नावबुध्यते 7013008a निद्राभिभूते तु तदा कुम्भकर्णे दशाननः 7013008c देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः 7013009a उद्यानानि विचित्राणि नन्दनादीनि यानि च 7013009c तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः 7013010a नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् 7013010c नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः 7013011a तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः 7013011c कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः 7013012a सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा 7013012c लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् 7013013a स गत्वा नगरीं लङ्कामाससाद विभीषणम् 7013013c मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति 7013014a पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान् 7013014c सभायां दर्शयामास तमासीनं दशाननम् 7013015a स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा 7013015c जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम् 7013016a तस्योपनीते पर्यङ्के वरास्तरणसंवृते 7013016c उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् 7013017a राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् 7013017c उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च 7013018a साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः 7013018c साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते 7013019a दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः 7013019c देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे 7013020a निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप 7013020c अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः 7013021a अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् 7013021c रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः 7013022a तत्र देवो मया दृष्टः सह देव्योमया प्रभुः 7013022c सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् 7013023a का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना 7013023c रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती 7013024a ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् 7013024c रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् 7013025a ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् 7013025c पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् 7013026a समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः 7013026c प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः 7013027a प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत 7013027c मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप 7013028a तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् 7013028c व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा 7013029a तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर 7013029c तपसा निर्जितत्वाद्धि सखा भव ममानघ 7013030a देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम् 7013030c एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम् 7013031a एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् 7013031c आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः 7013032a तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण 7013032c चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव 7013033a एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः 7013033c हस्तान्दन्तांश संपीड्य वाक्यमेतदुवाच ह 7013034a विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे 7013034c नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः 7013035a हितं न स ममैतद्धि ब्रवीति धनरक्षकः 7013035c महेश्वरसखित्वं तु मूढ श्रावयसे किल 7013036a न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते 7013036c तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः 7013037a त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः 7013037c एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै 7013037e चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् 7013038a एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् 7013038c ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् 7013039a ततः कृतस्वस्त्ययनो रथमारुह्य रावणः 7013039c त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः 7014001a ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः 7014001c महोदरप्रहस्ताभ्यां मारीचशुकसारणैः 7014002a धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना 7014002c वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव 7014003a पुराणि स नदीः शैलान्वनान्युपवनानि च 7014003c अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत् 7014004a तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु 7014004c राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः 7014005a गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम् 7014005c अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते 7014006a ततो बलस्य संक्षोभः सागरस्येव वर्धतः 7014006c अभून्नैरृतराजस्य गिरिं संचालयन्निव 7014007a ततो युद्धं समभवद्यक्षराक्षससंकुलम् 7014007c व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः 7014008a तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः 7014008c हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत 7014009a ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः 7014009c ते सहस्रं सहस्राणामेकैकं समयोधयन् 7014010a ततो गदाभिः परिघैरसिभिः शक्तितोमरैः 7014010c वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत 7014011a तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः 7014011c वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत 7014012a स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् 7014012c प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् 7014013a स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम् 7014013c वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम् 7014014a तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः 7014014c अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः 7014015a केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ 7014015c ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः 7014016a भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे 7014016c निषेदुस्ते तदा यक्षाः कूला जलहता इव 7014017a हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले 7014017c प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि 7014018a एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः 7014018c अगमत्सुमहान्यक्षो नाम्ना संयोधकण्टकः 7014019a तेन यक्षेण मारीचो विष्णुनेव समाहतः 7014019c पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् 7014020a प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः 7014020c तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे 7014021a ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम् 7014021c मर्यादां द्वारपालानां तोरणं तत्समाविशत् 7014022a ततो राम दशग्रीवं प्रविशन्तं निशाचरम् 7014022c सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् 7014023a ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः 7014023c राक्षसो यक्षसृष्टेन तोरणेन समाहतः 7014023e न क्षितिं प्रययौ राम वरात्सलिलयोनिनः 7014024a स तु तेनैव तं यक्षं तोरणेन समाहनत् 7014024c नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः 7014025a ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम् 7014025c ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः 7015001a ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः 7015001c स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति 7015002a तत्र माणिचारो नाम यक्षः परमदुर्जयः 7015002c वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् 7015003a ते गदामुसलप्रासशक्तितोमरमुद्गरैः 7015003c अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः 7015004a ततः प्रहस्तेन तदा सहस्रं निहतं रणे 7015004c महोदरेण गदया सहस्रमपरं हतम् 7015005a क्रुद्धेन च तदा राम मारीचेन दुरात्मना 7015005c निमेषान्तरमात्रेण द्वे सहस्रे निपातिते 7015006a धूम्राक्षेण समागम्य माणिभद्रो महारणे 7015006c मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः 7015007a ततो गदां समाविध्य माणिभद्रेण राक्षसः 7015007c धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह 7015008a धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् 7015008c अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः 7015009a तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम् 7015009c शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः 7015010a ततो राक्षसराजेन ताडितो गदया रणे 7015010c तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः 7015010e तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः 7015011a तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि 7015011c संनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत 7015012a ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः 7015012c शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः 7015013a स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् 7015013c उवाच वचनं धीमान्युक्तं पैतामहे कुले 7015014a मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते 7015014c पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः 7015015a यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः 7015015c परिणामे स वि मूढो जानीते कर्मणः फलम् 7015016a दैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित् 7015016c येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे 7015017a यो हि मातॄः पितॄन्भ्रातॄनाचर्यांश्चावमन्यते 7015017c स पश्यति फलं तस्य प्रेतराजवशं गतः 7015018a अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् 7015018c स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् 7015019a कस्यचिन्न हि दुर्बुधेश्छन्दतो जायते मतिः 7015019c यादृशं कुरुते कर्म तादृशं फलमश्नुते 7015020a बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च 7015020c प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः 7015021a एवं निरयगामी त्वं यस्य ते मतिरीदृशी 7015021c न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः 7015022a एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः 7015022c मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः 7015023a ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना 7015023c गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत 7015024a ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे 7015024c न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः 7015025a आग्नेयमस्त्रं स ततो मुमोच धनदो रणे 7015025c वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् 7015026a ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः 7015026c जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् 7015027a एवं स तेनाभिहतो विह्वलः शोणितोक्षितः 7015027c कृत्तमूल इवाशोको निपपात धनाधिपः 7015028a ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः 7015028c नन्दनं वनमानीय धनदो श्वासितस्तदा 7015029a ततो निर्जित्य तं राम धनदं राक्षसाधिपः 7015029c पुष्पकं तस्य जग्राह विमानं जयलक्षणम् 7015030a काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम् 7015030c मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् 7015031a तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम् 7015031c जित्वा वैश्रवणं देवं कैलासादवरोहत 7016001a स जित्वा भ्रातरं राम धनदं राक्षसाधिपः 7016001c महासेनप्रसूतिं तु ययौ शरवणं ततः 7016002a अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा 7016002c गभस्तिजालसंवीतं द्वितीयमिव भास्करम् 7016003a पर्वतं स समासाद्य किंचिद्रम्यवनान्तरम् 7016003c अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि 7016004a विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम् 7016004c राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः 7016005a किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम् 7016005c पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् 7016006a ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः 7016006c नैतन्निष्कारणं राजन्पुष्पकोऽयं न गच्छति 7016007a ततः पार्श्वमुपागम्य भवस्यानुचरो बली 7016007c नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः 7016008a निवर्तस्व दशग्रीव शैले क्रीडति शंकरः 7016009a सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् 7016009c प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः 7016010a स रोषात्ताम्रनयनः पुष्पकादवरुह्य च 7016010c कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत् 7016011a नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम् 7016011c दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् 7016012a स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः 7016012c प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः 7016013a संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः 7016013c अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम् 7016014a यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते 7016014c मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि 7016015a तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः 7016015c उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः 7016016a किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर 7016016c न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः 7016017a अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः 7016017c पर्वतं तं समासाद्य वाक्यमेतदुवाच ह 7016018a पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः 7016018c तदेतच्छैलमुन्मूलं करोमि तव गोपते 7016019a केन प्रभावेन भवस्तत्र क्रीडति राजवत् 7016019c विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् 7016020a एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते 7016020c तोलयामास तं शैलं समृगव्यालपादपम् 7016021a ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम् 7016021c पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया 7016022a ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः 7016022c विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः 7016023a रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा 7016023c मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् 7016024a मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् 7016024c देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु 7016025a ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा 7016025c मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् 7016026a प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर 7016026c रवतो वेदना मुक्तः स्वरः परमदारुणः 7016027a यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम् 7016027c तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि 7016028a देवता मानुषा यक्षा ये चान्ये जगतीतले 7016028c एवं त्वामभिधास्यन्ति रावणं लोकरावणम् 7016029a गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि 7016029c मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् 7016030a साक्षान्महेश्वरेणैवं कृतनामा स रावणः 7016030c अभिवाद्य महादेवं विमानं तत्समारुहत् 7016031a ततो महीतले राम परिचक्राम रावणः 7016031c क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः 7017001a अथ राजन्महाबाहुर्विचरन्स महीतलम् 7017001c हिमवद्वनमासाद्य परिचक्राम रावणः 7017002a तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम् 7017002c आर्षेण विधिना युक्तां तपन्तीं देवतामिव 7017003a स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् 7017003c काममोहपरीतात्मा पप्रच्छ प्रहसन्निव 7017004a किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते 7017004c न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया 7017005a कस्यासि दुहिता भद्रे को वा भर्ता तवानघे 7017005c पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने 7017006a एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा 7017006c अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना 7017007a कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकः 7017007c बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः 7017008a तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः 7017008c संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता 7017009a ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः 7017009c ते चापि गत्वा पितरं वरणं रोचयन्ति मे 7017010a न च मां स पिता तेभ्यो दत्तवान्राक्षसेश्वर 7017010c कारणं तद्वदिष्यामि निशामय महाभुज 7017011a पितुस्तु मम जामाता विष्णुः किल सुरोत्तमः 7017011c अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता 7017012a दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः 7017012c शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् 7017012e तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः 7017013a ततो मे जननी दीना तच्छरीरं पितुर्मम 7017013c परिष्वज्य महाभागा प्रविष्टा दहनं सह 7017014a ततो मनोरथं सत्यं पितुर्नारायणं प्रति 7017014c करोमीति ममेच्छा च हृदये साधु विष्ठिता 7017015a अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः 7017015c इति प्रतिज्ञामारुह्य चरामि विपुलं तपः 7017016a एतत्ते सर्वमाख्यातं मया राक्षसपुंगव 7017016c आश्रितां विद्धि मां धर्मं नारायणपतीच्छया 7017017a विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन 7017017c जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते 7017018a सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम् 7017018c अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः 7017019a अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी 7017019c वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः 7017020a त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम् 7017020c त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् 7017021a कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे 7017021c वीर्येण तपसा चैव भोगेन च बलेन च 7017021e न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने 7017022a मा मैवमिति सा कन्या तमुवाच निशाचरम् 7017022c मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् 7017023a ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत् 7017023c उवाचाग्निं समाधाय मरणाय कृतत्वरा 7017024a धर्षितायास्त्वयानार्य नेदानीं मम जीवितम् 7017024c रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् 7017025a यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत् 7017025c तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः 7017026a न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः 7017026c शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् 7017027a यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा 7017027c तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता 7017028a एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम् 7017028c पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः 7017029a पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया 7017029c समुपाश्रित्य शैलाभं तव वीर्यममानुषम् 7017030a एवमेषा महाभागा मर्त्येषूत्पद्यते पुनः 7017030c क्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा 7017031a एषा वेदवती नाम पूर्वमासीत्कृते युगे 7017031c त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः 7017031e सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते 7018001a प्रविष्टायां हुताशं तु वेदवत्यां स रावणः 7018001c पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् 7018002a ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः 7018002c उशीरबीजमासाद्य ददर्श स तु राक्षसः 7018003a संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः 7018003c याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः 7018004a दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् 7018004c तां तां योनिं समापन्नास्तस्य धर्षणभीरवः 7018005a इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः 7018005c कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् 7018006a तं च राजानमासाद्य रावणो राक्षसाधिपः 7018006c प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद 7018007a ततो मरुत्तो नृपतिः को भवानित्युवाच तम् 7018007c अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् 7018008a अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव 7018008c धनदस्यानुजं यो मां नावगच्छसि रावणम् 7018009a त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् 7018009c भ्रातरं येन निर्जित्य विमानमिदमाहृतम् 7018010a ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् 7018010c धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः 7018011a नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् 7018011c कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् 7018012a किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् 7018012c श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् 7018013a ततः शरासनं गृह्य सायकांश्च स पार्थिवः 7018013c रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् 7018014a सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः 7018014c श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः 7018015a माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् 7018015c दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः 7018016a संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः 7018016c स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः 7018016e विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् 7018017a ततस्तं निर्जितं मत्वा घोषयामास वै शुकः 7018017c रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् 7018018a तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् 7018018c वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् 7018019a रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः 7018019c ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् 7018020a हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् 7018020c प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम 7018021a मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति 7018021c वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् 7018022a नीलाः किल पुरा बर्हा मयूराणां नराधिप 7018022c सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् 7018023a धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् 7018023c पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु 7018024a यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया 7018024c ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः 7018025a मृत्युतस्ते भयं नास्ति वरान्मम विहंगम 7018025c यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि 7018026a ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः 7018026c त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः 7018027a वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् 7018027c श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर 7018028a वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः 7018028c भविष्यति तवोदग्रः शुक्लफेनसमप्रभः 7018029a मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि 7018029c प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् 7018030a हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः 7018030c पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः 7018031a अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् 7018031c हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् 7018032a सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् 7018032c एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति 7018033a एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः 7018033c निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः 7019001a अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः 7019001c नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः 7019002a स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान् 7019002c अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति 7019003a निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः 7019003c अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते 7019004a ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः 7019004c निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः 7019005a दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः 7019005c एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः 7019006a अथायोध्यां समासाद्य रावणो राक्षसाधिपः 7019006c सुगुप्तामनरण्येन शक्रेणेवामरावतीम् 7019007a प्राह राजानमासाद्य युद्धं मे संप्रदीयताम् 7019007c निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम् 7019008a अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत् 7019008c दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया 7019009a अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत् 7019009c निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् 7019010a नागानां बहुसाहस्रं वाजिनामयुतं तथा 7019010c महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् 7019011a तद्रावणबलं प्राप्य बलं तस्य महीपतेः 7019011c प्राणश्यत तदा राजन्हव्यं हुतमिवानले 7019012a सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम् 7019012c महार्णवं समासाद्य यथा पञ्चापगा जलम् 7019013a ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् 7019013c आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः 7019014a ततो बाणशतान्यष्टौ पातयामास मूर्धनि 7019014c तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः 7019015a तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् 7019015c वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि 7019016a ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा 7019016c तलेन भिहतो मूर्ध्नि स रथान्निपपात ह 7019017a स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः 7019017c वज्रदग्ध इवारण्ये सालो निपतितो महान् 7019018a तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् 7019018c किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता 7019019a त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप 7019019c शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम 7019020a तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् 7019020c किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः 7019021a न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना 7019021c कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान् 7019022a किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये 7019022c इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस 7019023a यदि दत्तं यदि हुतं यदि मे सुकृतं तपः 7019023c यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे 7019024a उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् 7019024c राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति 7019025a ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः 7019025c तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता 7019026a ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् 7019026c स्वर्गते च नृपे राम राक्षसः स न्यवर्तत 7020001a ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः 7020001c आससाद घने तस्मिन्नारदं मुनिसत्तमम् 7020002a नारदस्तु महातेजा देवर्षिरमितप्रभः 7020002c अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् 7020003a राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत 7020003c प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव 7020004a विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः 7020004c त्वया समरमर्दैश्च भृशं हि परितोषितः 7020005a किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि 7020005c श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव 7020006a किमयं वध्यते लोकस्त्वयावध्येन दैवतैः 7020006c हत एव ह्ययं लोको यदा मृत्युवशं गतः 7020007a पश्य तावन्महाबाहो राक्षसेश्वरमानुषम् 7020007c लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः 7020008a क्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः 7020008c रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः 7020009a माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः 7020009c मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते 7020010a तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् 7020010c जित एव त्वया सौम्य मर्त्यलोको न संशयः 7020011a एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा 7020011c अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च 7020012a महर्षे देवगन्धर्वविहार समरप्रिय 7020012c अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् 7020013a ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे 7020013c समुद्रममृतार्थं वै मथिष्यामि रसालयम् 7020014a अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः 7020014c क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते 7020015a अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति 7020015c मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन 7020016a स तु शारदमेघाभं मुक्त्वा हासं दशाननः 7020016c उवाच कृतमित्येव वचनं चेदमब्रवीत् 7020017a तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः 7020017c गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः 7020018a मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना 7020018c अवजेष्यामि चतुरो लोकपालानिति प्रभो 7020019a तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति 7020019c प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना 7020020a एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च 7020020c प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः 7020021a नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः 7020021c चिन्तयामास विप्रेन्द्रो विधूम इव पावकः 7020022a येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः 7020022c क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् 7020023a यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः 7020023c तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति 7020024a यो विधाता च धाता च सुकृते दुष्कृते यथा 7020024c त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति 7020025a अपरं किं नु कृत्वैवं विधानं संविधास्यति 7020025c कौतूहलसमुत्पन्नो यास्यामि यमसादनम् 7021001a एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः 7021001c आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति 7021002a अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् 7021002c विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् 7021003a स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् 7021003c अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः 7021004a कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति 7021004c किमागमनकृत्यं ते देवगन्धर्वसेवित 7021005a अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः 7021005c श्रूयतामभिधास्यामि विधानं च विधीयताम् 7021006a एष नाम्ना दशग्रीवः पितृराज निशाचरः 7021006c उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् 7021007a एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो 7021007c दण्डप्रहरणस्याद्य तव किं नु करिष्यति 7021008a एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् 7021008c ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः 7021009a तं देशं प्रभया तस्य पुष्पकस्य महाबलः 7021009c कृत्वा वितिमिरं सर्वं समीपं समवर्तत 7021010a स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः 7021010c प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् 7021011a ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः 7021011c रावणो मोचयामास विक्रमेण बलाद्बली 7021012a प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा 7021012c प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् 7021013a ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः 7021013c पुष्पकं समवर्षन्त शूराः शतसहस्रशः 7021014a तस्यासनानि प्रासादान्वेदिकास्तरणानि च 7021014c पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव 7021015a देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे 7021015c भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा 7021016a ततस्ते रावणामात्या यथाकामं यथाबलम् 7021016c अयुध्यन्त महावीर्याः स च राजा दशाननः 7021017a ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः 7021017c अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् 7021018a अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि 7021018c यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः 7021019a अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः 7021019c तमेव समधावन्त शूलवर्षैर्दशाननम् 7021020a ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः 7021020c विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ 7021021a स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् 7021021c मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली 7021022a तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च 7021022c जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः 7021023a परिवार्य च तं सर्वे शैलं मेघोत्करा इव 7021023c भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् 7021024a विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः 7021024c स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत 7021025a ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः 7021025c लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः 7021026a ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके 7021026c तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत 7021027a ज्वालामाली स तु शरः क्रव्यादानुगतो रणे 7021027c मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति 7021028a ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु 7021028c रणे तस्मिन्निपतिता दावदग्धा नगा इव 7021029a ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः 7021029c ननाद सुमहानादं कम्पयन्निव मेदिनीम् 7022001a स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः 7022001c शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् 7022002a स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः 7022002c अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् 7022003a तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् 7022003c स्थितः स च महातेजा आरुरोह महारथम् 7022004a पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः 7022004c येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् 7022005a कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः 7022005c यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा 7022006a ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः 7022006c कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् 7022007a दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् 7022007c सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् 7022008a लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः 7022008c नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः 7022009a स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् 7022009c नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् 7022010a स तु रावणमासाद्य विसृजञ्शक्तितोमरान् 7022010c यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत 7022011a रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह 7022011c तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः 7022012a ततो महाशक्तिशतैः पात्यमानैर्महोरसि 7022012c प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः 7022013a नानाप्रहरणैरेवं यमेनामित्रकर्शिना 7022013c सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा 7022014a ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा 7022014c विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः 7022015a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 7022015c प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् 7022016a संवर्त इव लोकानामभवद्युध्यतोस्तयोः 7022016c राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च 7022017a राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे 7022017c निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह 7022018a मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् 7022018c यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् 7022019a ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः 7022019c ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः 7022020a ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः 7022020c क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् 7022021a मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् 7022021c मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् 7022022a नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली 7022022c नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ 7022023a एते चान्ये च बहवो बलवन्तो दुरासदाः 7022023c विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे 7022024a मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् 7022024c न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति 7022025a बलं मम न खल्वेतन्मर्यादैषा निसर्गतः 7022025c संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः 7022026a एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् 7022026c अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् 7022027a ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः 7022027c कालदण्डममोघं तं तोलयामास पाणिना 7022028a यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः 7022028c पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः 7022029a दर्शनादेव यः प्राणान्प्राणिनामुपरुध्यति 7022029c किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः 7022030a स ज्वालापरिवारस्तु पिबन्निव निशाचरम् 7022030c करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः 7022031a ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् 7022031c सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् 7022032a तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् 7022032c यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् 7022033a वैवस्वत महाबाहो न खल्वतुलविक्रम 7022033c प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे 7022034a वरः खलु मया दत्तस्तस्य त्रिदशपुंगव 7022034c तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः 7022035a अमोघो ह्येष सर्वासां प्रजानां विनिपातने 7022035c कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः 7022036a तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि 7022036c न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति 7022037a यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः 7022037c म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् 7022038a राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् 7022038c सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च 7022039a एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा 7022039c एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः 7022040a किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि 7022040c यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः 7022041a एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः 7022041c इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत 7022042a दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः 7022042c पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् 7022043a ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः 7022043c जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः 7023001a स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम् 7023001c रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह 7023002a जयेन वर्धयित्वा च मारीचप्रमुखास्ततः 7023002c पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह 7023003a ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम् 7023003c दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम् 7023004a स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् 7023004c स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम् 7023005a निवातकवचास्तत्र दैत्या लब्धवरा वसन् 7023005c राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत् 7023006a ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः 7023006c नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः 7023007a तेषां तु युध्यमानानां साग्रः संवत्सरो गतः 7023007c न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा 7023008a ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः 7023008c आजगाम द्रुतं देवो विमानवरमास्थितः 7023009a निवातकवचानां तु निवार्य रणकर्म तत् 7023009c वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् 7023010a न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः 7023010c न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः 7023011a राक्षसस्य सखित्वं वै भवद्भिः सह रोचते 7023011c अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः 7023012a ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः 7023012c निवातकवचैः सार्धं प्रीतिमानभवत्तदा 7023013a अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः 7023013c स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः 7023014a स तूपधार्य मायानां शतमेकोनमात्मवान् 7023014c सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम् 7023015a ततोऽश्मनगरं नाम कालकेयाभिरक्षितम् 7023015c तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् 7023016a ततः पाण्डुरमेघाभं कैलासमिव संस्थितम् 7023016c वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः 7023017a क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम् 7023017c यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः 7023018a यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः 7023018c यं समासाद्य जीवन्ति फेनपाः परमर्षयः 7023018e अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् 7023019a यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः 7023019c प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् 7023019e प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः 7023020a ततो धाराशताकीर्णं शारदाभ्रनिभं तदा 7023020c नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् 7023021a ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः 7023021c अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम् 7023022a युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् 7023022c वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः 7023023a एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः 7023023c पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च 7023024a ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः 7023024c युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः 7023025a ततो युद्धं समभवद्दारुणं लोमहर्षणम् 7023025c सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः 7023026a अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः 7023026c वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् 7023027a समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा 7023027c अर्दिताः शरजालेन निवृत्ता रणकर्मणः 7023028a महीतलगतास्ते तु रावणं दृश्य पुष्पके 7023028c आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः 7023029a महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् 7023029c आकाशयुद्धं तुमुलं देवदानवयोरिव 7023030a ततस्ते रावणं युद्धे शरैः पावकसंनिभैः 7023030c विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान् 7023031a ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् 7023031c त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् 7023032a तेन तेषां हया ये च कामगाः पवनोपमाः 7023032c महोदरेण गदया हतास्ते प्रययुः क्षितिम् 7023033a तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान् 7023033c मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् 7023034a ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः 7023034c महोदरेण निहताः पतिताः पृथिवीतले 7023035a ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः 7023035c आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः 7023036a धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम् 7023036c रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् 7023037a ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः 7023037c शरवर्षं महावेगं तेषां मर्मस्वपातयत् 7023038a मुसलानि विचित्राणि ततो भल्लशतानि च 7023038c पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा 7023038e पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः 7023039a अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः 7023040a ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान् 7023040c नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः 7023041a ततस्ते विमुखाः सर्वे पतिता धरणीतले 7023041c रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः 7023042a तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् 7023042c रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः 7023043a गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः 7023043c गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि 7023044a तत्किं तव वृथा वीर परिश्राम्य गते नृपे 7023044c ये तु संनिहिता वीराः कुमारास्ते पराजिताः 7023045a राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः 7023045c हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् 7023046a आगतस्तु पथा येन तेनैव विनिवृत्य सः 7023046c लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ 7024001a निवर्तमानः संहृष्टो रावणः स दुरात्मवान् 7024001c जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः 7024002a दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति 7024002c हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् 7024003a तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् 7024003c दैत्यानां दानवानां च कन्या जग्राह रावणः 7024004a दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः 7024004c शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः 7024005a तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् 7024005c प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम् 7024006a तासां निश्वसमानानां निश्वसैः संप्रदीपितम् 7024006c अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम् 7024007a काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम् 7024007c स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि 7024007e दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः 7024008a कथं नु खलु मे पुत्रः करिष्यति मया विना 7024008c कथं माता कथं भ्राता निमग्नाः शोकसागरे 7024009a हा कथं नु करिष्यामि भर्तारं दैवतं विना 7024009c मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् 7024010a किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा 7024010c ततोऽस्मि धर्षितानेन पतिता शोकसागरे 7024011a न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः 7024011c अहो धिन्मानुषाँल्लोकान्नास्ति खल्वधमः परः 7024012a यद्दुर्बला बलवता बान्धवा रावणेन मे 7024012c उदितेनैव सूर्येण तारका इव नाशिताः 7024013a अहो सुबलवद्रक्षो वधोपायेषु रज्यते 7024013c अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते 7024014a सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः 7024014c इदं त्वसदृशं कर्म परदाराभिमर्शनम् 7024015a यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिः 7024015c तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति रावणः 7024016a शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ 7024016c पतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि 7024017a एवं विलपमानासु रावणो राक्षसाधिपः 7024017c प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 7024018a ततो राक्षसराजस्य स्वसा परमदुःखिता 7024018c पादयोः पतिता तस्य वक्तुमेवोपचक्रमे 7024019a ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन् 7024019c अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् 7024020a सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत् 7024020c हतास्मि विधवा राजंस्त्वया बलवता कृता 7024021a एते वीर्यात्त्वया राजन्दैत्या विनिहता रणे 7024021c कालकेया इति ख्याता महाबलपराक्रमाः 7024022a तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि 7024022c स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै 7024023a या त्वयास्मि हता राजन्स्वयमेवेह बन्धुना 7024023c दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया 7024024a ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि 7024024c तं निहत्य रणे राजन्स्वयमेव न लज्जसे 7024025a एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया 7024025c अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः 7024026a अलं वत्से विषादेन न भेतव्यं च सर्वशः 7024026c मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः 7024027a युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् 7024027c नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे 7024027e तेनासौ निहतः संख्ये मया भर्ता तव स्वसः 7024028a अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् 7024028c भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः 7024029a चतुर्दशानां भ्राता ते सहस्राणां भविष्यति 7024029c प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् 7024030a तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः 7024030c भविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम् 7024031a शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम् 7024031c दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः 7024032a स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा 7024032c राक्षसानामयं वासो भविष्यति न संशयः 7024033a एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह 7024033c चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् 7024034a स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः 7024034c खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः 7024035a स तत्र कारयामास राज्यं निहतकण्टकम् 7024035c सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने 7025001a स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् 7025001c भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् 7025002a ततो निकुम्भिला नाम लङ्कायाः काननं महत् 7025002c महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः 7025003a तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् 7025003c ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया 7025004a ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् 7025004c ददर्श स्वसुतं तत्र मेघनादमरिंदमम् 7025005a रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः 7025005c अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे 7025006a उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये 7025006c रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः 7025007a अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च 7025007c यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः 7025008a अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः 7025008c राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा 7025009a माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे 7025009c वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह 7025010a कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् 7025010c मायां च तामसीं नाम यया संपद्यते तमः 7025011a एतया किल संग्रामे मायया राक्षसेश्वर 7025011c प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः 7025012a अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् 7025012c अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे 7025013a एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन 7025013c अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् 7025014a ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् 7025014c पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः 7025015a एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते 7025015c आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति 7025016a ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः 7025016c स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः 7025017a लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम् 7025017c नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा 7025018a विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः 7025018c तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् 7025019a ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः 7025019c धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे 7025020a ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः 7025020c त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता 7025021a रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् 7025021c को वायं यस्त्वयाख्यातो मधुरित्येव नामतः 7025022a विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् 7025022c श्रूयतामस्य पापस्य कर्मणः फलमागतम् 7025023a मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः 7025023c माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः 7025024a पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत् 7025024c तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् 7025025a मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा 7025025c भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा 7025026a सा हृता मधुना राजन्राक्षसेन बलीयसा 7025026c यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते 7025027a निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् 7025027c धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव 7025028a श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः 7025028c यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः 7025028e अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते 7025029a ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः 7025029c कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च 7025030a भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः 7025030c वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः 7025031a अद्य तं समरे हत्वा मधुं रावणनिर्भयम् 7025031c इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः 7025032a ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् 7025032c निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः 7025033a अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् 7025033c नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् 7025034a इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च 7025034c रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः 7025035a विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत् 7025035c ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति 7025036a रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः 7025036c राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् 7025037a दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह 7025037c रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः 7025038a स तु गत्वा मधुपुरं प्रविश्य च दशाननः 7025038c न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् 7025039a सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता 7025039c तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा 7025040a तां समुत्थापयामास न भेतव्यमिति ब्रुवन् 7025040c रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते 7025041a साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबल 7025041c भर्तारं न ममेहाद्य हन्तुमर्हसि मानद 7025042a सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् 7025042c त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम् 7025043a रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् 7025043c क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् 7025044a सह तेन गमिष्यामि सुरलोकं जयाय वै 7025044c तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् 7025045a इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् 7025045c अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् 7025046a एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः 7025046c सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च 7025047a तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस 7025047c स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् 7025048a तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः 7025048c ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः 7025049a पूजयामास धर्मेण रावणं राक्षसाधिपम् 7025049c प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् 7025049e तत्र चैकां निशामुष्य गमनायोपचक्रमे 7025050a ततः कैलासमासाद्य शैलं वैश्रवणालयम् 7025050c राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् 7026001a स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् 7026001c अस्तं प्राप्ते दिनकरे निवासं समरोचयत् 7026002a उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि 7026002c स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान् 7026003a कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा 7026003c पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि 7026004a घण्टानामिव संनादः शुश्रुवे मधुरस्वनः 7026004c अप्सरोगणसंघनां गायतां धनदालये 7026005a पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः 7026005c शैलं तं वासयन्तीव मधुमाधवगन्धिनः 7026006a मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् 7026006c प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः 7026007a गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः 7026007c प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च 7026008a रावणः सुमहावीर्यः कामबाणवशं गतः 7026008c विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत 7026009a एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषिता 7026009c सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना 7026010a कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैः 7026010c नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता 7026011a यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे 7026011c ऊरू करिकराकारौ करौ पल्लवकोमलौ 7026011e सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता 7026012a तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः 7026012c करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत 7026013a क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् 7026013c कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते 7026014a तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः 7026014c सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति 7026015a स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ 7026015c कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ 7026016a सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु 7026016c अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् 7026017a मद्विशिष्टः पुमान्कोऽन्यः शक्रो विष्णुरथाश्विनौ 7026017c मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम् 7026018a विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् 7026018c त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम न विद्यते 7026019a तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः 7026019c यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम् 7026020a एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः 7026020c प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः 7026021a अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि 7026021c धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते 7026022a अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम् 7026022c सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः 7026023a बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् 7026023c धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव 7026024a पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते 7026024c ख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ 7026025a धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् 7026025c क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः 7026026a तस्यास्मि कृतसंकेता लोकपालसुतस्य वै 7026026c तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् 7026027a यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति 7026027c तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम 7026028a स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः 7026028c तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् 7026029a सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव 7026029c माननीयो मया हि त्वं लालनीया तथास्मि ते 7026030a एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः 7026030c निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली 7026030e काममोहाभिसंरब्धो मैथुनायोपचक्रमे 7026031a सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा 7026031c गजेन्द्राक्रीडमथिता नदीवाकुलतां गता 7026032a सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः 7026032c नलकूबरमासाद्य पादयोर्निपपात ह 7026033a तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः 7026033c अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे 7026034a सा तु निश्वसमाना च वेपमानाथ साञ्जलिः 7026034c तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे 7026035a एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् 7026035c तेन सैन्यसहायेन निशेह परिणाम्यते 7026036a आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम 7026036c गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा 7026037a मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम् 7026037c काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम 7026038a याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो 7026038c तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता 7026039a एवं त्वमपराधं मे क्षन्तुमर्हसि मानद 7026039c न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च 7026040a एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्वरणात्मजः 7026040c धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह 7026041a तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः 7026041c मुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना 7026042a गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि 7026042c उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् 7026043a अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता 7026043c तस्मात्स युवतीमन्यां नाकामामुपयास्यति 7026044a यदा त्वकामां कामार्तो धर्षयिष्यति योषितम् 7026044c मूर्धा तु सप्तधा तस्य शकलीभविता तदा 7026045a तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे 7026045c देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता 7026046a प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः 7026046c ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः 7026047a श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् 7026047c नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत् 7027001a कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः 7027001c आससाद महातेजा इन्द्रलोकं निशाचरः 7027002a तस्य राक्षससैन्यस्य समन्तादुपयास्यतः 7027002c देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः 7027003a श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः 7027003c अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् 7027004a आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् 7027004c सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः 7027005a एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि 7027005c संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः 7027006a स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति 7027006c विष्णोः समीपमागत्य वाक्यमेतदुवाच ह 7027007a विष्णो कथं करिष्यामो महावीर्यपराक्रम 7027007c असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते 7027008a वरप्रदानाद्बलवान्न खल्वन्येन हेतुना 7027008c तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः 7027009a तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ 7027009c त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु 7027010a न ह्यन्यो देव देवानामापत्सु सुमहाबल 7027010c गतिः परायणं वास्ति त्वामृते पुरुषोत्तम 7027011a त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः 7027011c त्वयाहं स्थापितश्चैव देवराज्ये सनातने 7027012a तदाख्याहि यथातत्त्वं देवदेव मम स्वयम् 7027012c असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम् 7027013a एवमुक्तः स शक्रेण देवो नारायणः प्रभुः 7027013c अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे 7027014a न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः 7027014c हन्तुं युधि समासाद्य वरदानेन दुर्जयः 7027015a सर्वथा तु महत्कर्म करिष्यति बलोत्कटः 7027015c रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः 7027016a ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह 7027016c नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् 7027017a अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते 7027017c दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे 7027018a प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो 7027018c राक्षसस्याहमेवास्य भविता मृत्युकारणम् 7027019a अहमेनं वधिष्यामि रावणं ससुतं युधि 7027019c देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् 7027020a एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये 7027020c तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः 7027021a अथ युद्धं समभवद्देवराक्षसयोस्तदा 7027021c घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् 7027022a एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः 7027022c युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया 7027023a मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ 7027023c अकम्पनो निकुम्भश्च शुकः सारण एव च 7027024a संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः 7027024c जम्बुमाली महामाली विरूपाक्षश्च राक्षसः 7027025a एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः 7027025c रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह 7027026a स हि देवगणान्सर्वान्नानाप्रहरणैः शितैः 7027026c विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः 7027027a एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः 7027027c सावित्र इति विख्यातः प्रविवेश महारणम् 7027028a ततो युद्धं समभवत्सुराणां राक्षसैः सह 7027028c क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् 7027029a ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान् 7027029c नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः 7027030a सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसा 7027030c समरे विविधैः शस्त्रैरनयन्यमसादनम् 7027031a एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः 7027031c नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत 7027032a देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः 7027032c विध्वंसयति संक्रुद्धो वायुर्जलधरानिव 7027033a ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः 7027033c पीड्यमानाः सुराः सर्वे न व्यतिष्ठन्समाहिताः 7027034a ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना 7027034c वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत 7027035a संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम् 7027035c विक्रमेण महातेजा वारयामास संयुगे 7027036a सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम् 7027036c सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः 7027037a ततस्तस्य महाबाणैर्वसुना सुमहात्मना 7027037c महान्स पन्नगरथः क्षणेन विनिपातितः 7027038a हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः 7027038c गदां तस्य वधार्थाय वसुर्जग्राह पाणिना 7027039a तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् 7027039c तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् 7027040a तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ 7027040c सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः 7027041a तस्य नैवास्थि कायो वा न मांसं ददृशे तदा 7027041c गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः 7027042a तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः 7027042c दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् 7028001a सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् 7028001c विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः 7028002a ततः स बलवान्क्रुद्धो रावणस्य सुतो युधि 7028002c निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत 7028003a स रथेनाग्निवर्णेन कामगेन महारथः 7028003c अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् 7028004a ततः प्रविशतस्तस्य विविधायुधधारिणः 7028004c विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् 7028005a न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः 7028005c सर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत 7028006a न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति 7028006c एष गच्छति मे पुत्रो युद्धार्थमपराजितः 7028007a ततः शक्रसुतो देवो जयन्त इति विश्रुतः 7028007c रथेनाद्भुतकल्पेन संग्राममभिवर्तत 7028008a ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् 7028008c रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः 7028009a तेषां युद्धं महदभूत्सदृशं देवरक्षसाम् 7028009c कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च 7028010a ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः 7028010c सारथौ पातयामास शरान्काञ्चनभूषणान् 7028011a शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् 7028011c तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे 7028012a ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः 7028012c रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् 7028013a ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च 7028013c शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान् 7028013e सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः 7028014a ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् 7028014c तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः 7028015a ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् 7028015c बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति 7028016a नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा 7028016c तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् 7028017a एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान् 7028017c दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः 7028018a गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम् 7028018c मातामहोऽर्यकस्तस्य पौलोमी येन सा शची 7028019a प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम् 7028019c व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः 7028020a रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः 7028020c अभ्यधावत देवांस्तान्मुमोच च महास्वनम् 7028021a दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम् 7028021c मातलिं प्राह देवेन्द्रो रथः समुपनीयताम् 7028022a स तु दिव्यो महाभीमः सज्ज एव महारथः 7028022c उपस्थितो मातलिना वाह्यमानो मनोजवः 7028023a ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः 7028023c अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा 7028024a नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः 7028024c ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् 7028025a रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः 7028025c वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः 7028026a निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ 7028026c भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे 7028027a एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् 7028027c आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा 7028028a पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः 7028028c येषां निश्वासवातेन प्रदीप्तमिव संयुगम् 7028029a दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः 7028029c समराभिमुखो दिव्यो महेन्द्रमभिवर्तत 7028030a पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः 7028030c सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् 7028031a ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह 7028031c शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे 7028032a कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः 7028032c नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत 7028033a दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः 7028033c येन केनैव संरब्धस्ताडयामास वै सुरान् 7028034a ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः 7028034c प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् 7028035a ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः 7028035c रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः 7028036a केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले 7028036c वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे 7028037a रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा 7028037c शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा 7028038a तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः 7028038c देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः 7028039a चित्रकर्म इवाभाति स तेषां रणसंप्लवः 7028039c निहतानां प्रमत्तानां राक्षसानां महीतले 7028040a शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला 7028040c प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी 7028041a एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् 7028041c निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् 7028042a स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् 7028042c त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत 7028043a ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम् 7028043c यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश 7028044a तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि 7028044c निपातयामास शरान्पावकादित्यवर्चसः 7028045a तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः 7028045c शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् 7028046a प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः 7028046c नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम् 7029001a ततस्तमसि संजाते राक्षसा दैवतैः सह 7029001c अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् 7029002a ततस्तु देवसैन्येन राक्षसानां महद्बलम् 7029002c दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् 7029003a तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः 7029003c अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् 7029004a इन्द्रश्च रावणश्चैव रावणिश्च महाबलः 7029004c तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः 7029005a स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे 7029005c क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् 7029006a क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह 7029006c परसैन्यस्य मध्येन यावदन्तं नयस्व माम् 7029007a अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् 7029007c नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् 7029008a अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम् 7029008c त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि 7029009a विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् 7029009c द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् 7029010a अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् 7029010c नय मामद्य तत्र त्वमुदयो यत्र पर्वतः 7029011a तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् 7029011c आदिदेशाथ शत्रूणां मध्येनैव च सारथिः 7029012a तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा 7029012c रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् 7029013a सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते 7029013c जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् 7029014a एष ह्यतिबलः सैन्ये रथेन पवनौजसा 7029014c गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि 7029015a न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः 7029015c तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे 7029016a यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया 7029016c एवमेतस्य पापस्य निग्रहो मम रोचते 7029017a ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् 7029017c अयुध्यत महातेजा राक्षसान्नाशयन्रणे 7029018a उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः 7029018c दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः 7029019a ततः स योजनशतं प्रविष्टो राक्षसाधिपः 7029019c देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् 7029020a ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम् 7029020c न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् 7029021a एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः 7029021c हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् 7029022a ततो रथं समारुह्य रावणिः क्रोधमूर्छितः 7029022c तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् 7029023a स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा 7029023c अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् 7029024a ततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम् 7029024c महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः 7029025a स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः 7029025c महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् 7029026a ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम् 7029026c ऐरावतं समारुह्य मृगयामास रावणिम् 7029027a स तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत 7029027c किरमाणः शरौघेन महेन्द्रममितौजसं 7029028a स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः 7029028c तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् 7029029a तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे 7029029c महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः 7029029e न हि दृश्यति विद्यावान्मायया येन नीयते 7029030a एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा 7029030c अभ्यद्रवन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः 7029031a रावणस्तु समासाद्य वस्वादित्यमरुद्गणान् 7029031c न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः 7029032a तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम् 7029032c रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् 7029033a आगच्छ तात गच्छावो निवृत्तं रणकर्म तत् 7029033c जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः 7029034a अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः 7029034c स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः 7029035a यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा 7029035c वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् 7029036a स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः 7029036c तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः 7029037a अथ रणविगतज्वरः प्रभु;र्विजयमवाप्य निशाचराधिपः 7029037c भवनमभि ततो जगाम हृष्टः; स्वसुतमवाप्य च वाक्यमब्रवीत् 7029038a अतिबलसदृशैः पराक्रमैस्तै;र्मम कुलमानविवर्धनं कृतम् 7029038c यदमरसमविक्रम त्वया; त्रिदशपतिस्त्रिदशाश्च निर्जिताः 7029039a त्वरितमुपनयस्व वासवं; नगरमितो व्रज सैन्यसंवृतः 7029039c अहमपि तव गच्छतो द्रुतं; सह सचिवैरनुयामि पृष्ठतः 7029040a अथ स बलवृतः सवाहन;स्त्रिदशपतिं परिगृह्य रावणिः 7029040c स्वभवनमुपगम्य राक्षसो; मुदितमना विससर्ज राक्षसान् 7030001a जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै 7030001c प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा 7030002a तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् 7030002c अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः 7030003a वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे 7030003c अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा 7030004a जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा 7030004c कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै 7030005a अयं च पुत्रोऽतिबलस्तव रावण रावणिः 7030005c इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति 7030006a बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः 7030006c यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे 7030007a तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः 7030007c किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः 7030008a अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः 7030008c अमरत्वमहं देव वृणोमीहास्य मोक्षणे 7030009a अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः 7030009c नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि 7030010a अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम् 7030010c श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे 7030011a ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् 7030011c संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः 7030012a तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः 7030012c युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् 7030013a सर्वो हि तपसा चैव वृणोत्यमरतां पुमान् 7030013c विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् 7030014a एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः 7030014c मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः 7030015a एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः 7030015c राम चिन्तापरीतात्मा ध्यानतत्परतां गतः 7030016a तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः 7030016c शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् 7030017a अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो 7030017c एकवर्णाः समाभाषा एकरूपाश्च सर्वशः 7030018a तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा 7030018c ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् 7030019a सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे 7030019c यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् 7030020a ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता 7030020c अहल्येत्येव च मया तस्या नाम प्रवर्तितम् 7030021a निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ 7030021c भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् 7030022a त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो 7030022c स्थानाधिकतया पत्नी ममैषेति पुरंदर 7030023a सा मया न्यासभूता तु गौतमस्य महात्मनः 7030023c न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा 7030024a ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः 7030024c ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा 7030025a स तया सह धर्मात्मा रमते स्म महामुनिः 7030025c आसन्निराशा देवास्तु गौतमे दत्तया तया 7030026a त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः 7030026c दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव 7030027a सा त्वया धर्षिता शक्र कामार्तेन समन्युना 7030027c दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा 7030028a ततः क्रुद्धेन तेनासि शप्तः परमतेजसा 7030028c गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् 7030029a यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् 7030029c तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि 7030030a अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः 7030030c मानुषेष्वपि सर्वेषु भविष्यति न संशयः 7030031a तत्राधर्मः सुबलवान्समुत्थास्यति यो महान् 7030031c तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति 7030032a न च ते स्थावरं स्थानं भविष्यति पुरंदर 7030032c एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः 7030033a यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति 7030033c एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् 7030034a तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः 7030034c दुर्विनीते विनिध्वंस ममाश्रमसमीपतः 7030035a रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता 7030035c तस्माद्रूपवती लोके न त्वमेका भविष्यसि 7030036a रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् 7030036c यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः 7030037a तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः 7030037c शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् 7030038a तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् 7030038c येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव 7030039a शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः 7030039c पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः 7030040a पुत्रश्च तव देवेन्द्र न विनष्टो महारणे 7030040c नीतः संनिहितश्चैव अर्यकेण महोदधौ 7030041a एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् 7030041c पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः 7030042a एतदिन्द्रजितो राम बलं यत्कीर्तितं मया 7030042c निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः 7031001a ततो रामो महातेजा विस्मयात्पुनरेव हि 7031001c उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् 7031002a भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तम 7031002c धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः 7031003a उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितः 7031003c बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः 7031004a राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः 7031004c उवाच रामं प्रहसन्पितामह इवेश्वरम् 7031005a स एवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ 7031005c चचार रावणो राम पृथिव्यां पृथिवीपते 7031006a ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् 7031006c संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः 7031007a तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः 7031007c अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा 7031008a तमेव दिवसं सोऽथ हैहयाधिपतिर्बली 7031008c अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः 7031009a रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत 7031009c क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ 7031010a रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु 7031010c ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् 7031011a इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः 7031011c अब्रुवन्राक्षसपतिमसाम्निध्यं महीपतेः 7031012a श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् 7031012c अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् 7031013a स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् 7031013c अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् 7031014a सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् 7031014c प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः 7031015a देवदानवगन्धर्वैः साप्सरोगणकिंनरैः 7031015c साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् 7031016a नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम् 7031016c स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम् 7031017a उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम् 7031017c पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ 7031018a चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् 7031018c महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः 7031018e उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् 7031019a चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः 7031019c सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम् 7031020a फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् 7031020c विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् 7031021a पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् 7031021c जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् 7031022a पुष्पकादवरुह्याशु नर्मदां सरितां वराम् 7031022c इष्टामिव वरां नारीमवगाह्य दशाननः 7031023a स तस्याः पुलिने रम्ये नानाकुसुमशोभिते 7031023c उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः 7031023e नर्मदा दर्शजं हर्षमाप्तवान्राक्षसेश्वरः 7031024a ततः सलीलं प्रहसान्रावणो राक्षसाधिपः 7031024c उवाच सचिवांस्तत्र मारीचशुकसारणान् 7031025a एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम् 7031025c तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः 7031025e मामासीनं विदित्वेह चन्द्रायाति दिवाकरः 7031026a नर्मदा जलशीतश्च सुगन्धिः श्रमनाशनः 7031026c मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः 7031027a इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी 7031027c लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता 7031028a तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि 7031028c चन्दनस्य रसेनेव रुधिरेण समुक्षिताः 7031029a ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम् 7031029c महापद्ममुखा मत्ता गङ्गामिव महागजाः 7031030a अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ 7031031a अहमप्यत्र पुलिने शरदिन्दुसमप्रभे 7031031c पुष्पोपहरं शनकैः करिष्यामि उमापतेः 7031032a रावणेनैवमुक्तास्तु मारीचशुकसारणाः 7031032c समहोदरधूम्राक्षा नर्मदामवगाहिरे 7031033a राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदी 7031033c वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः 7031034a ततस्ते राक्षसाः स्नात्वा नर्मदाया वराम्भसि 7031034c उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु 7031035a नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे 7031035c राक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः 7031036a पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः 7031036c अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः 7031037a तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् 7031037c नर्मदा सलिलात्तस्मादुत्ततार स रावणः 7031038a रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः 7031038c यत्र यत्र स याति स्म रावणो राक्षसाधिपः 7031038e जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते 7031039a वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः 7031039c अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः 7031040a ततः सतामार्तिहरं हरं परं; वरप्रदं चन्द्रमयूखभूषणम् 7031040c समर्चयित्वा स निशाचरो जगौ; प्रसार्य हस्तान्प्रणनर्त चायतान् 7032001a नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः 7032001c पुष्पोपहारं कुरुते तस्माद्देशाददूरतः 7032002a अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः 7032002c क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः 7032003a तासां मध्यगतो राज रराज स ततोऽर्जुनः 7032003c करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः 7032004a जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् 7032004c रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः 7032005a कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् 7032005c कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति 7032006a समीननक्रमकरः सपुष्पकुशसंस्तरः 7032006c स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ 7032007a स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः 7032007c पुष्पोपहारं तत्सर्वं रावणस्य जहार ह 7032008a रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा 7032008c नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् 7032009a पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् 7032009c वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु 7032010a ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् 7032010c निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् 7032011a सव्येतरकराङ्गुल्या सशब्दं च दशाननः 7032011c वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ 7032012a तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ 7032012c व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ 7032013a अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ 7032013c पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् 7032014a बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् 7032014c मदरक्तान्तनयनं मदनाकारवर्चसं 7032015a नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् 7032015c गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् 7032016a बालानां वरनारीणां सहस्रेणाभिसंवृतम् 7032016c समदानां करेणूनां सहस्रेणेव कुञ्जरम् 7032017a तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ 7032017c संनिवृत्तावुपागम्य रावणं तमथोचतुः 7032018a बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर 7032018c नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः 7032019a तेन बाहुसहस्रेण संनिरुद्धजला नदी 7032019c सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः 7032020a इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ 7032020c रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः 7032021a अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे 7032021c सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः 7032022a महोदरमहापार्श्वधूम्राक्षशुकसारणैः 7032022c संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः 7032023a नातिदीर्घेण कालेन स ततो राक्षसो बली 7032023c तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः 7032024a स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् 7032024c नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् 7032025a स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः 7032025c इत्येवमर्जुनामात्यानाह गम्भीरया गिरा 7032026a अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै 7032026c युद्धार्थं समनुप्राप्तो रावणो नाम नामतः 7032027a रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते 7032027c उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् 7032028a युद्धस्य कालो विज्ञातः साधु भोः साधु रावण 7032028c यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम् 7032028e वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् 7032029a क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया 7032029c युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् 7032030a यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता 7032030c निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि 7032031a ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु 7032031c सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः 7032032a ततो हलहलाशब्दो नर्मदा तिर आबभौ 7032032c अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् 7032033a इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः 7032033c सरावणानर्दयन्तः समन्तात्समभिद्रुताः 7032034a हैहयाधिपयोधानां वेग आसीत्सुदारुणः 7032034c सनक्रमीनमकरसमुद्रस्येव निस्वनः 7032035a रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः 7032035c कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः 7032036a अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः 7032036c क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः 7032037a उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः 7032037c उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः 7032038a क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः 7032038c प्रजज्वाल महाघोरो युगान्त इव पावकः 7032039a स तूर्णतरमादाय वरहेमाङ्गदो गदाम् 7032039c अभिद्रवति रक्षांसि तमांसीव दिवाकरः 7032040a बाहुविक्षेपकरणां समुद्यम्य महागदाम् 7032040c गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः 7032041a तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः 7032041c स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः 7032042a ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः 7032042c प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः 7032043a तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः 7032043c प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव 7032044a आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः 7032044c निपुणं वञ्चयामास सगदो गजविक्रमः 7032045a ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः 7032045c भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् 7032046a तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा 7032046c निपपात स्थितः शैलो वज्रिवज्रहतो यथा 7032047a प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः 7032047c समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् 7032048a अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते 7032048c रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् 7032049a सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् 7032049c नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् 7032050a सागराविव संक्षुब्धौ चलमूलाविवाचलौ 7032050c तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ 7032051a बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ 7032051c मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ 7032052a रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ 7032052c परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् 7032053a वज्रप्रहारानचला यथा घोरान्विषेहिरे 7032053c गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ 7032054a यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः 7032054c तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः 7032055a अर्जुनस्य गदा सा तु पात्यमानाहितोरसि 7032055c काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा 7032056a तथैव रावणेनापि पात्यमाना मुहुर्मुहुः 7032056c अर्जुनोरसि निर्भाति गदोल्केव महागिरौ 7032057a नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः 7032057c सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः 7032058a शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ 7032058c परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ 7032059a ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा 7032059c स्तनयोरन्तरे मुक्ता रावणस्य महाहवे 7032060a वरदानकृतत्राणे सा गदा रावणोरसि 7032060c दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ 7032061a स त्वर्जुनप्रमुक्तेन गदापातेन रावणः 7032061c अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् 7032062a स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः 7032062c सहसा प्रतिजग्राह गरुत्मानिव पन्नगम् 7032063a स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् 7032063c बबन्ध बलवान्राजा बलिं नारायणो यथा 7032064a बध्यमाने दशग्रीवे सिद्धचारणदेवताः 7032064c साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि 7032065a व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् 7032065c ररास हैहयो राजा हर्षादम्बुदवन्मुहुः 7032066a प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् 7032066c सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् 7032067a नक्तंचराणां वेगस्तु तेषामापततां बभौ 7032067c उद्धृत आतपापाये समुद्राणामिवाद्भुतः 7032068a मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् 7032068c मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने 7032069a अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः 7032069c आयुधान्यमरारीणां जग्राह रिपुसूदनः 7032070a ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः 7032070c भित्त्वा विद्रावयामास वायुरम्बुधरानिव 7032071a राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा 7032071c रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः 7032072a स कीर्यमाणः कुसुमाक्षतोत्करै;र्द्विजैः सपौरैः पुरुहूतसंनिभः 7032072c तदार्जुनः संप्रविवेश तां पुरीं; बलिं निगृह्यैव सहस्रलोचनः 7033001a रावणग्रहणं तत्तु वायुग्रहणसंनिभम् 7033001c ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः 7033002a ततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः 7033002c माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः 7033003a स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः 7033003c पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः 7033004a सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् 7033004c प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् 7033005a पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् 7033005c ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् 7033006a पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः 7033006c शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम् 7033007a पुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च 7033007c पुरस्तात्प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः 7033008a ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् 7033008c अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् 7033009a स तस्य मधुपर्कं च पाद्यमर्घ्यं च दापयन् 7033009c पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा 7033010a अद्येयममरावत्या तुल्या माहिष्मती कृता 7033010c अद्याहं तु द्विजेन्द्रेन्द्र यस्मात्पश्यामि दुर्दृशम् 7033011a अद्य मे कुशलं देव अद्य मे कुलमुद्धृतम् 7033011c यत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणाविमौ 7033012a इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् 7033012c ब्रह्मन्किं कुर्म किं कार्यमाज्ञापयतु नो भवान् 7033013a तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् 7033013c पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् 7033014a राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन 7033014c अतुलं ते बलं येन दशग्रीवस्त्वया जितः 7033015a भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ 7033015c सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः 7033016a तत्पुत्रक यशः स्फीतं नाम विश्रावितं त्वया 7033016c मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम् 7033017a पुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽर्जुनः 7033017c मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् 7033018a स तं प्रमुक्त्वा त्रिदशारिमर्जुनः; प्रपूज्य दिव्याभरणस्रगम्बरैः 7033018c अहिंसाकं सख्यमुपेत्य साग्निकं; प्रणम्य स ब्रह्मसुतं गृहं ययौ 7033019a पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् 7033019c परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः 7033020a पितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः 7033020c मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः 7033021a एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात् 7033021c पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् 7033022a एवं बलिभ्यो बलिनः सन्ति राघवनन्दन 7033022c नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः 7033023a ततः स राजा पिशिताशनानां; सहस्रबाहोरुपलभ्य मैत्रीम् 7033023c पुनर्नराणां कदनं चकार; चचार सर्वां पृथिवीं च दर्पात् 7034001a अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः 7034001c चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः 7034002a राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम् 7034002c रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः 7034003a ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् 7034003c गत्वाह्वयति युद्धाय वालिनं हेममालिनम् 7034004a ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः 7034004c उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् 7034005a राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् 7034005c नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः 7034006a चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण 7034006c इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् 7034007a एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः 7034007c युद्धार्थिनामिमे राजन्वानराधिपतेजसा 7034008a यद्वामृतरसः पीतस्त्वया रावणराक्षस 7034008c तथा वालिनमासाद्य तदन्तं तव जीवितम् 7034009a अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् 7034009c वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम् 7034010a स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः 7034010c पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् 7034011a तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् 7034011c रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् 7034012a पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः 7034012c ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् 7034013a यदृच्छयोन्मीलयता वालिनापि स रावणः 7034013c पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम् 7034014a शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा 7034014c न चिन्तयति तं वाली रावणं पापनिश्चयम् 7034015a जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम् 7034015c कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् 7034016a द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम् 7034016c लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् 7034017a इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः 7034017c जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव 7034018a तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ 7034018c प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ 7034019a हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम् 7034019c पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः 7034020a ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः 7034020c खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् 7034021a स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः 7034021c जहार रावणं वाली पवनस्तोयदं यथा 7034022a अथ ते राक्षसामात्या ह्रियमाणे दशानने 7034022c मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन् 7034023a अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः 7034023c अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् 7034024a तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः 7034024c तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च 7034025a वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः 7034026a अपक्षिगणसंपातो वानरेन्द्रो महाजवः 7034026c क्रमशः सागरान्सर्वान्संध्याकालमवन्दत 7034027a सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः 7034027c पश्चिमं सागरं वाली आजगाम सरावणः 7034028a तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः 7034028c उत्तरं सागरं प्रायाद्वहमानो दशाननम् 7034029a उत्तरे सागरे संध्यामुपासित्वा दशाननम् 7034029c वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम् 7034030a तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः 7034030c किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् 7034031a चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः 7034031c रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् 7034032a रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः 7034032c कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति 7034033a विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः 7034033c राक्षसेशो हरीशं तमिदं वचनमब्रवीत् 7034034a वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः 7034034c युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया 7034035a अहो बलमहो वीर्यमहो गम्भीरता च ते 7034035c येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् 7034036a एवमश्रान्तवद्वीर शीघ्रमेव च वानर 7034036c मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति 7034037a त्रयाणामेव भूतानां गतिरेषा प्लवंगम 7034037c मनोऽनिलसुपर्णानां तव वा नात्र संशयः 7034038a सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव 7034038c त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः 7034039a दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् 7034039c सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर 7034040a ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ 7034040c भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् 7034041a अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ 7034041c किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव 7034042a स तत्र मासमुषितः सुग्रीव इव रावणः 7034042c अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः 7034043a एवमेतत्पुरावृत्तं वालिना रावणः प्रभो 7034043c धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ 7034044a बलमप्रतिमं राम वालिनोऽभवदुत्तमम् 7034044c सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा 7035001a अपृच्छत ततो रामो दक्षिणाशालयं मुनिम् 7035001c प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् 7035002a अतुलं बलमेताभ्यां वालिनो रावणस्य च 7035002c न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम 7035003a शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् 7035003c विक्रमश्च प्रभावश्च हनूमति कृतालयाः 7035004a दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् 7035004c समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः 7035005a धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा 7035005c दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा 7035006a सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः 7035006c एते हनुमता तत्र एकेन विनिपातिताः 7035007a भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम् 7035007c लङ्का भस्मीकृता तेन पावकेनेव मेदिनी 7035008a न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च 7035008c कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः 7035009a एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः 7035009c प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः 7035010a हनूमान्यदि मे न स्याद्वानराधिपतेः सखा 7035010c प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् 7035011a किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया 7035011c तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा 7035012a न हि वेदितवान्मन्ये हनूमानात्मनो बलम् 7035012c यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् 7035013a एतन्मे भगवन्सर्वं हनूमति महामुने 7035013c विस्तरेण यथातत्त्वं कथयामरपूजित 7035014a राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः 7035014c हनूमतः समक्षं तमिदं वचनमब्रवीत् 7035015a सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः 7035015c न बले विद्यते तुल्यो न गतौ न मतौ परः 7035016a अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा 7035016c न वेदिता बलं येन बली सन्नरिमर्दनः 7035017a बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल 7035017c तन्न वर्णयितुं शक्यमतिबालतयास्य ते 7035018a यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव 7035018c समाधाय मतिं राम निशामय वदाम्यहम् 7035019a सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः 7035019c यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता 7035020a तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता 7035020c जनयामास तस्यां वै वायुरात्मजमुत्तमम् 7035021a शालिशूकसमाभासं प्रासूतेमं तदाञ्जना 7035021c फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा 7035022a एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः 7035022c रुरोद शिशुरत्यर्थं शिशुः शरभराडिव 7035023a ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् 7035023c ददृशे फललोभाच्च उत्पपात रविं प्रति 7035024a बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् 7035024c ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः 7035025a एतस्मिन्प्लवमाने तु शिशुभावे हनूमति 7035025c देवदानवसिद्धानां विस्मयः सुमहानभूत् 7035026a नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा 7035026c यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् 7035027a यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ 7035027c यौवनं बलमासाद्य कथं वेगो भविष्यति 7035028a तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः 7035028c सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः 7035029a बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् 7035029c पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः 7035030a शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः 7035030c कार्यं चात्र समायत्तमित्येवं न ददाह सः 7035031a यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः 7035031c तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् 7035032a अनेन च परामृष्टो राम सूर्यरथोपरि 7035032c अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः 7035033a स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः 7035033c अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् 7035034a बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव 7035034c किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् 7035035a अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः 7035035c अथान्यो राहुरासाद्य जग्राह सहसा रविम् 7035036a स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः 7035036c उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् 7035037a ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् 7035037c शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् 7035038a इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् 7035038c प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता 7035039a अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् 7035039c अनेन च स वै दृष्ट आधावञ्शैलकूटवत् 7035040a ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च 7035040c उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् 7035041a उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम् 7035041c दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः 7035042a इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः 7035042c इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत 7035043a राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः 7035043c श्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम् 7035044a ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि 7035044c फलं तं हस्तिराजानमभिदुद्राव मारुतिः 7035045a तदास्य धावतो रूपमैरावतजिघृक्षया 7035045c मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् 7035046a एवमाधावमानं तु नातिक्रुद्धः शचीपतिः 7035046c हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् 7035047a ततो गिरौ पपातैष इन्द्रवज्राभिताडितः 7035047c पतमानस्य चैतस्य वामो हनुरभज्यत 7035048a तस्मिंस्तु पतिते बाले वज्रताडनविह्वले 7035048c चुक्रोधेन्द्राय पवनः प्रजानामशिवाय च 7035049a विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः 7035049c रुरोध सर्वभूतानि यथा वर्षाणि वासवः 7035050a वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः 7035050c संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे 7035051a निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् 7035051c वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ 7035052a ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः 7035052c प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः 7035053a ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः 7035053c त्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः 7035054a त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः 7035054c सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम 7035055a रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः 7035055c तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो 7035056a वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् 7035057a एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः 7035057c कारणादिति तानुक्त्वा प्रजाः पुनरभाषत 7035058a यस्मिन्वः कारणे वायुश्चुक्रोध च रुरोध च 7035058c प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् 7035059a पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः 7035059c राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः 7035060a अशरीरः शरीरेषु वायुश्चरति पालयन् 7035060c शरीरं हि विना वायुं समतां याति रेणुभिः 7035061a वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् 7035061c वायुना संपरित्यक्तं न सुखं विन्दते जगत् 7035062a अद्यैव च परित्यक्तं वायुना जगदायुषा 7035062c अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः 7035063a तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः 7035063c मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् 7035064a ततः प्रजाभिः सहितः प्रजापतिः; सदेवगन्धर्वभुजंगगुह्यकः 7035064c जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं प्रगृह्य सः 7035065a ततोऽर्कवैश्वानरकाञ्चनप्रभं; सुतं तदोत्सङ्गगतं सदागतेः 7035065c चतुर्मुखो वीक्ष्य कृपामथाकरो;त्सदेवसिद्धर्षिभुजंगराक्षसः 7036001a ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः 7036001c शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः 7036002a चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः 7036002c पादयोर्न्यपतद्वायुस्तिस्रोऽवस्थाय वेधसे 7036003a तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना 7036003c वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् 7036004a स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना 7036004c जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् 7036005a प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा 7036005c चचार सर्वभूतेषु संनिरुद्धं यथापुरा 7036006a मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन् 7036006c शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः 7036007a ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः 7036007c उवाच देवता ब्रह्मा मारुतप्रियकाम्यया 7036008a भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः 7036008c जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम् 7036009a अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति 7036009c ददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान् 7036010a ततः सहस्रनयनः प्रीतिरक्तः शुभाननः 7036010c कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् 7036011a मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः 7036011c नाम्नैष कपिशार्दूलो भविता हनुमानिति 7036012a अहमेवास्य दास्यामि परमं वरमुत्तमम् 7036012c अतः प्रभृति वज्रस्य ममावध्यो भविष्यति 7036013a मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः 7036013c तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् 7036014a यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति 7036014c तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति 7036015a वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति 7036015c वर्षायुतशतेनापि मत्पाशादुदकादपि 7036016a यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः 7036016c दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे 7036017a गदेयं मामिका नैनं संयुगेषु वधिष्यति 7036017c इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः 7036018a मत्तो मदायुधानां च न वध्योऽयं भविष्यति 7036018c इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः 7036019a सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति 7036019c दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः 7036020a विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम् 7036020c शिल्पिनां प्रवरः प्राह वरमस्य महामतिः 7036021a विनिर्मितानि देवानामायुधानीह यानि तु 7036021c तेषां संग्रामकाले तु अवध्योऽयं भविष्यति 7036022a ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम् 7036022c चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः 7036023a अमित्राणां भयकरो मित्राणामभयंकरः 7036023c अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः 7036024a रावणोत्सादनार्थानि रामप्रीतिकराणि च 7036024c रोमहर्षकराण्येष कर्ता कर्माणि संयुगे 7036025a एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह 7036025c यथागतं ययुः सर्वे पितामहपुरोगमाः 7036026a सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् 7036026c अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः 7036027a प्राप्य राम वरानेष वरदानबलान्वितः 7036027c बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः 7036028a बलेनापूर्यमाणो हि एष वानरपुंगवः 7036028c आश्रमेषु महर्षीणामपराध्यति निर्भयः 7036029a स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान् 7036029c भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम् 7036030a सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम् 7036030c जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः 7036031a यदा केषरिणा त्वेष वायुना साञ्जनेन च 7036031c प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः 7036032a ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः 7036032c शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः 7036033a बाधसे यत्समाश्रित्य बलमस्मान्प्लवंगम 7036033c तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः 7036034a ततस्तु हृततेजौजा महर्षिवचनौजसा 7036034c एषो श्रमाणि नात्येति मृदुभावगतश्चरन् 7036035a अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता 7036035c सर्ववानरराजासीत्तेजसा इव भास्करः 7036036a स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः 7036036c ततस्त्वर्क्षरजा नाम कालधर्मेण संगतः 7036037a तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः 7036037c पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे 7036038a सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् 7036038c अहार्यं सख्यमभवदनिलस्य यथाग्निना 7036039a एष शापवशादेव न वेदबलमात्मनः 7036039c वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् 7036040a न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना 7036040c वेदयानो न च ह्येष बलमात्मनि मारुतिः 7036041a पराक्रमोत्साहमतिप्रतापैः; सौशील्यमाधुर्यनयानयैश्च 7036041c गाम्भीर्यचातुर्यसुवीर्यधैर्यै;र्हनूमतः कोऽप्यधिकोऽस्ति लोके 7036042a असौ पुरा व्याकरणं ग्रहीष्य;न्सूर्योन्मुखः पृष्ठगमः कपीन्द्रः 7036042c उद्यद्गिरेरस्तगिरिं जगाम; ग्रन्थं महद्धारयदप्रमेयः 7036043a प्रवीविविक्षोरिव सागरस्य; लोकान्दिधक्षोरिव पावकस्य 7036043c लोकक्षयेष्वेव यथान्तकस्य; हनूमतः स्थास्यति कः पुरस्तात् 7036044a एषोऽपि चान्ये च महाकपीन्द्राः; सुग्रीवमैन्दद्विविदाः सनीलाः 7036044c सतारतारेयनलाः सरम्भा;स्त्वत्कारणाद्राम सुरैर्हि सृष्टाः 7036045a तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि 7036045c हनूमतो बालभावे कर्मैतत्कथितं मया 7036046a दृष्टः संभाषितश्चासि राम गच्छमहे वयम् 7036046c एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् 7037001a विमृश्य च ततो रामो वयस्यमकुतोभयम् 7037001c प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् 7037002a दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् 7037002c उद्योगश्च कृतो राजन्भरतेन त्वया सह 7037003a तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज 7037003c रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् 7037004a एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात् 7037004c पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् 7037005a विसृज्य तं वयस्यं स स्वागतान्पृथिवीपतीन् 7037005c प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् 7037006a भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता 7037006c धर्मश्च नियतो नित्यं सत्यं च भवतां सदा 7037007a युष्माकं च प्रभावेन तेजसा च महात्मनाम् 7037007c हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः 7037008a हेतुमात्रमहं तत्र भवतां तेजसा हतः 7037008c रावणः सगणो युद्धे सपुत्रः सहबान्धवः 7037009a भवन्तश्च समानीता भरतेन महात्मना 7037009c श्रुत्वा जनकराजस्य कानने तनयां हृताम् 7037010a उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् 7037010c कालो ह्यतीतः सुमहान्गमने रोचतां मतिः 7037011a प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः 7037011c दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् 7037012a दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः 7037012c एष नः परमः काम एषा नः कीर्तिरुत्तमा 7037013a यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् 7037013c उपपन्नं च काकुत्स्थ यत्त्वमस्मान्प्रशंससि 7037014a प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम् 7037014c आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् 7037015a भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा 7038001a ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम् 7038001c कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् 7038002a अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः 7038002c हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः 7038003a ऊचुश्चैव महीपाला बलदर्पसमन्विताः 7038003c न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् 7038004a भरतेन वयं पश्चात्समानीता निरर्थकम् 7038004c हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः 7038005a रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च 7038005c सुखं पारे समुद्रस्य युध्येम विगतज्वराः 7038006a एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः 7038006c कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः 7038007a यथापुराणि ते गत्वा रत्नानि विविधानि च 7038007c रामाय प्रियकामार्थमुपहारान्नृपा ददुः 7038008a अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान् 7038008c चन्दनानि च दिव्यानि दिव्यान्याभरणानि च 7038009a भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः 7038009c आदाय तानि रत्नानि अयोध्यामगमन्पुनः 7038010a आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः 7038010c ददुः सर्वाणि रत्नानि राघवाय महात्मने 7038011a प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः 7038011c सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने 7038012a विभीषणाय च ददौ ये चान्ये ऋक्षवानराः 7038012c हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः 7038013a ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ 7038013c शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः 7038014a पपुश्चैव सुगन्धीनि मधूनि विविधानि च 7038014c मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च 7038015a एवं तेषां निवसतां मासः साग्रो गतस्तदा 7038015c मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन् 7038016a रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः 7038016c राजभिश्च महावीर्यै राक्षसैश्च महाबलैः 7038017a एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् 7038017c वानराणां प्रहृष्टानां राक्षसानां च सर्वशः 7039001a तथा स्म तेषां वसतामृक्षवानररक्षसाम् 7039001c राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् 7039002a गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः 7039002c पालयस्व सहामात्यै राज्यं निहतकण्टकम् 7039003a अङ्गदं च महाबाहो प्रीत्या परमयान्वितः 7039003c पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् 7039004a सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् 7039004c कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् 7039005a वीरं शतबलिं चैव मैन्दं द्विविदमेव च 7039005c गजं गवाक्षं गवयं शरभं च महाबलम् 7039006a ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् 7039006c पश्य प्रीतिसमायुक्तो गन्धमादनमेव च 7039007a ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः 7039007c पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः 7039008a एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः 7039008c विभीषणमथोवाच रामो मधुरया गिरा 7039009a लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव 7039009c पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च 7039010a मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन 7039010c बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् 7039011a अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया 7039011c स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः 7039012a रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः 7039012c साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः 7039013a तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च 7039013c माधुर्यं परमं राम स्वयम्भोरिव नित्यदा 7039014a तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् 7039014c हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् 7039015a स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः 7039015c भक्तिश्च नियता वीर भावो नान्यत्र गच्छति 7039016a यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले 7039016c तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः 7039017a एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात् 7039017c उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह 7039018a एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः 7039018c लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा 7039019a चरिष्यति कथा यावल्लोकानेषा हि मामिका 7039019c तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः 7039020a ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः 7039020c वैदूर्यतरलं स्नेहादाबबन्धे हनूमति 7039021a तेनोरसि निबद्धेन हारेण स महाकपिः 7039021c रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः 7039022a श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः 7039022c प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः 7039023a सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः 7039023c विभीषणश्च धर्मात्मा निरन्तरमुरोगतः 7039024a सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः 7039024c संमूढा इव दुःखेन त्यजन्ते राघवं तदा 7040001a विसृज्य च महाबाहुरृक्षवानरराक्षसान् 7040001c भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् 7040002a अथापराह्णसमये भ्रातृभिः सह राघवः 7040002c शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् 7040003a सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् 7040003c कैलासशिखरात्प्राप्तं विद्धि मां पुष्करं प्रभो 7040004a तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति 7040004c उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत 7040005a निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना 7040005c निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् 7040006a ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि 7040006c रावणे सगणे सौम्य सपुत्रामात्यबान्धवे 7040007a स त्वं रामेण लङ्कायां निर्जितः परमात्मना 7040007c वह सौम्य तमेव त्वमहमाज्ञापयामि ते 7040008a एष मे परमः कामो यत्त्वं राघवनन्दनम् 7040008c वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः 7040009a तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः 7040009c त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् 7040010a बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् 7040010c लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः 7040011a गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे 7040011c एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः 7040011e अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः 7040012a एवमन्तर्हिते तस्मिन्पुष्पके विविधात्मनि 7040012c भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् 7040013a अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति 7040013c अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः 7040014a अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम् 7040014c जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव 7040015a पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः 7040015c हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः 7040016a काले च वासवो वर्षं पातयत्यमृतोपमम् 7040016c वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः 7040017a ईदृशो नश्चिरं राजा भवत्विति नरेश्वर 7040017c कथयन्ति पुरे पौरा जना जनपदेषु च 7040018a एता वाचः सुमधुरा भरतेन समीरिताः 7040018c श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् 7041001a स विसृज्य ततो रामः पुष्पकं हेमभूषितम् 7041001c प्रविवेश महाबाहुरशोकवनिकां तदा 7041002a चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि 7041002c देवदारुवनैश्चापि समन्तादुपशोभिताम् 7041003a प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि 7041003c जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् 7041004a सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः 7041004c चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः 7041005a कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः 7041005c शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः 7041006a शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः 7041006c नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः 7041007a दीर्घिका विविधाकाराः पूर्णाः परमवारिणा 7041007c महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः 7041008a फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः 7041008c प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः 7041009a तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः 7041009c शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः 7041010a नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा 7041010c तथारूपं हि रामस्य काननं तन्निवेशितम् 7041011a बह्वासनगृहोपेतां लतागृहसमावृताम् 7041011c अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः 7041012a आसने तु शुभाकारे पुष्पस्तबकभूषिते 7041012c कुथास्तरणसंवीते रामः संनिषसाद ह 7041013a सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम् 7041013c पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् 7041014a मांसानि च विचित्राणि फलानि विविधानि च 7041014c रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् 7041015a उपनृत्यन्ति राजानं नृत्यगीतविशारदाः 7041015c बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः 7041016a एवं रामो मुदा युक्तः सीतां सुरुचिराननाम् 7041016c रमयामास वैदेहीमहन्यहनि देववत् 7041017a तथा तु रममाणस्य तस्यैवं शिशिरः शुभः 7041017c अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः 7041018a पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् 7041018c शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् 7041019a सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु 7041019c श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता 7041020a ततो राममुपागच्छद्विचित्रबहुभूषणा 7041020c त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची 7041021a दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् 7041021c प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् 7041022a अपत्यलाभो वैदेहि ममायं समुपस्थितः 7041022c किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव 7041023a प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् 7041023c तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव 7041024a गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् 7041024c फलमूलाशिनां वीर पादमूलेषु वर्तितुम् 7041025a एष मे परमः कामो यन्मूलफलभोजिषु 7041025c अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु 7041026a तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा 7041026c विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् 7041027a एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् 7041027c मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः 7042001a तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः 7042001c कथानां बहुरूपाणां हास्यकाराः समन्ततः 7042002a विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः 7042002c सुराजिः कालियो भद्रो दन्तवक्रः समागधः 7042003a एते कथा बहुविधा परिहाससमन्विताः 7042003c कथयन्ति स्म संहृष्टा राघवस्य महात्मनः 7042004a ततः कथायां कस्यांचिद्राघवः समभाषत 7042004c काः कथा नगरे भद्र वर्तन्ते विषयेषु च 7042005a मामाश्रितानि कान्याहुः पौरजानपदा जनाः 7042005c किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 7042006a किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे 7042006c वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि 7042007a एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् 7042007c स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् 7042008a अयं तु विजयः सौम्य दशग्रीववधाश्रितः 7042008c भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ 7042009a एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् 7042009c कथयस्व यथातथ्यं सर्वं निरवशेषतः 7042010a शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः 7042010c श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च 7042011a कथयस्व च विस्रब्धो निर्भयो विगतज्वरः 7042011c कथयन्ते यथा पौरा जना जनपदेषु च 7042012a राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः 7042012c प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः 7042013a शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् 7042013c चत्वरापणरथ्यासु वनेषूपवनेषु च 7042014a दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् 7042014c अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः 7042015a रावणश्च दुराधर्षो हतः सबलवाहनः 7042015c वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः 7042016a हत्वा च रावणं युद्धे सीतामाहृत्य राघवः 7042016c अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् 7042017a कीदृशं हृदये तस्य सीतासंभोगजं सुखम् 7042017c अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम् 7042018a लङ्कामपि पुनर्नीतामशोकवनिकां गताम् 7042018c रक्षसां वशमापन्नां कथं रामो न कुत्सते 7042019a अस्माकमपि दारेषु सहनीयं भविष्यति 7042019c यथा हि कुरुते राजा प्रजा तमनुवर्तते 7042020a एवं बहुविधा वाचो वदन्ति पुरवासिनः 7042020c नगरेषु च सर्वेषु राजञ्जनपदेषु च 7042021a तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत् 7042021c उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम् 7042022a सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च 7042022c प्रत्यूचू राघवं दीनमेवमेतन्न संशयः 7042023a श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् 7042023c विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः 7043001a विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः 7043001c समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् 7043002a शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् 7043002c भरतं च महाबाहुं शत्रुघ्नं चापराजितम् 7043003a रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7043003c लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः 7043004a उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः 7043004c द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् 7043005a बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् 7043005c प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् 7043006a प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् 7043006c उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति 7043007a भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् 7043007c उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत् 7043008a दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः 7043008c शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह 7043009a एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति 7043009c गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः 7043010a श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् 7043010c शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः 7043011a कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः 7043011c अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत् 7043012a प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः 7043012c एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः 7043013a आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः 7043013c प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः 7043014a ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा 7043014c संध्यागतमिवादित्यं प्रभया परिवर्जितम् 7043015a बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः 7043015c हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते 7043016a ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः 7043016c तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत् 7043017a तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः 7043017c आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह 7043018a भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् 7043018c भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः 7043019a भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः 7043019c संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः 7044001a तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् 7044001c उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता 7044002a सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा 7044002c पौराणां मम सीतायां यादृशी वर्तते कथा 7044003a पौरापवादः सुमहांस्तथा जनपदस्य च 7044003c वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति 7044004a अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् 7044004c सीतां पापसमाचारामानयेयं कथं पुरे 7044005a जानासि हि यथा सौम्य दण्डके विजने वने 7044005c रावणेन हृता सीता स च विध्वंसितो मया 7044006a प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः 7044006c अपापां मैथिलीमाह वायुश्चाकाशगोचरः 7044007a चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा 7044007c ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् 7044008a एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ 7044008c लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता 7044009a अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् 7044009c ततो गृहीत्वा वैदेहीमयोध्यामहमागतः 7044010a अयं तु मे महान्वादः शोकश्च हृदि वर्तते 7044010c पौरापवादः सुमहांस्तथा जनपदस्य च 7044011a अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् 7044011c पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते 7044012a अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते 7044012c कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् 7044013a अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः 7044013c अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् 7044014a तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे 7044014c न हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम् 7044015a श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् 7044015c आरुह्य सीतामारोप्य विषयान्ते समुत्सृज 7044016a गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः 7044016c आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः 7044017a तत्रैनां विजने कक्षे विसृज्य रघुनन्दन 7044017c शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम 7044018a न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचन 7044018c अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते 7044019a शापिताश्च मया यूयं भुजाभ्यां जीवितेन च 7044019c ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन 7044020a मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः 7044020c इतोऽद्य नीयतां सीता कुरुष्व वचनं मम 7044021a पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान् 7044021c पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् 7044022a एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः 7044022c प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः 7045001a ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः 7045001c सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता 7045002a सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे 7045002c स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम् 7045003a सीता हि राजभवनादाश्रमं पुण्यकर्मणाम् 7045003c मया नेया महर्षीणां शीघ्रमानीयतां रथः 7045004a सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः 7045004c रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया 7045005a आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् 7045005c रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो 7045006a एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः 7045006c प्रविश्य सीतामासाद्य व्याजहार नरर्षभः 7045007a गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे 7045007c शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः 7045008a एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना 7045008c प्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत् 7045009a वासांसि च महार्हाणि रत्नानि विविधानि च 7045009c गृहीत्वा तानि वैदेही गमनायोपचक्रमे 7045010a इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् 7045010c सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् 7045010e प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन् 7045011a अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् 7045011c अशुभानि बहून्यद्य पश्यामि रघुनन्दन 7045012a नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते 7045012c हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये 7045013a औत्सुक्यं परमं चापि अधृतिश्च परा मम 7045013c शून्यामिव च पश्यामि पृथिवीं पृथुलोचन 7045014a अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह 7045014c श्वश्रूणां चैव मे वीर सर्वासामविशेषतः 7045015a पुरे जनपदे चैव कुशलं प्राणिनामपि 7045015c इत्यञ्जलिकृता सीता देवता अभ्ययाचत 7045016a लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् 7045016c शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता 7045017a ततो वासमुपागम्य गोमतीतीर आश्रमे 7045017c प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् 7045018a योजयस्व रथं शीघ्रमद्य भागीरथीजलम् 7045018c शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा 7045019a सोऽश्वान्विचारयित्वाशु रथे युक्त्वा मनोजवान् 7045019c आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् 7045020a सा तु सूतस्य वचनादारुरोह रथोत्तमम् 7045020c सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता 7045021a अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् 7045021c निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् 7045022a सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् 7045022c उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया 7045023a जाह्नवीतीरमासाद्य चिराभिलषितं मम 7045023c हर्षकाले किमर्थं मां विषादयसि लक्ष्मण 7045024a नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ 7045024c कच्चिद्विनाकृतस्तेन द्विरात्रे शोकमागतः 7045025a ममापि दयितो रामो जीवितेनापि लक्ष्मण 7045025c न चाहमेवं शोचामि मैवं त्वं बालिशो भव 7045026a तारयस्व च मां गङ्गां दर्शयस्व च तापसान् 7045026c ततो धनानि वासांसि दास्याम्याभरणानि च 7045027a ततः कृत्वा महर्षीणां यथार्हमभिवादनम् 7045027c तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः 7045028a तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे 7045028c तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत् 7046001a अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः 7046001c आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् 7046002a सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः 7046002c उवाच शोकसंतप्तः प्रयाहीति च नाविकम् 7046003a ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः 7046003c उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः 7046004a हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता 7046004c अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः 7046005a श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् 7046005c न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते 7046006a प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते 7046006c इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः 7046007a रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः 7046007c मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् 7046008a किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण 7046008c पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः 7046009a शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः 7046009c तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते 7046010a वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः 7046010c अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह 7046011a श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् 7046011c पुरे जनपदे चैव त्वत्कृते जनकात्मजे 7046012a न तानि वचनीयानि मया देवि तवाग्रतः 7046012c यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः 7046013a सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ 7046013c पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा 7046014a आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि 7046014c राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् 7046015a तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् 7046015c पुण्यं च रमणीयं च मा विषादं कृथाः शुभे 7046016a राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः 7046016c सखा परमको विप्रो वाल्मीकिः सुमहायशाः 7046017a पादच्छायामुपागम्य सुखमस्य महात्मनः 7046017c उपवासपरैकाग्रा वस त्वं जनकात्मजे 7046018a पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि 7046018c श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति 7047001a लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा 7047001c परं विषादमागम्य वैदेही निपपात ह 7047002a सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणा 7047002c लक्ष्मणं दीनया वाचा उवाच जनकात्मजा 7047003a मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण 7047003c धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते 7047004a किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः 7047004c याहं शुद्धसमाचारा त्यक्ता नृपतिना सती 7047005a पुराहमाश्रमे वासं रामपादानुवर्तिनी 7047005c अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी 7047006a सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता 7047006c आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा 7047007a किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे 7047007c कस्मिन्वा कारणे त्यक्ता राघवेण महात्मना 7047008a न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले 7047008c त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते 7047009a यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् 7047009c निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम 7047010a श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण च 7047010c शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् 7047011a यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा 7047011c परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा 7047012a यत्त्वं पौरजनं राजन्धर्मेण समवाप्नुयाः 7047012c अहं तु नानुशोचामि स्वशरीरं नरर्षभ 7047012e यथापवादं पौराणां तथैव रघुनन्दन 7047013a एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः 7047013c शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह 7047014a प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम् 7047014c आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत् 7047015a स गत्वा चोत्तरं कूलं शोकभारसमन्वितः 7047015c संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम् 7047016a मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत् 7047016c वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ 7047017a दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः 7047017c निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत् 7047018a सा दुःखभारावनता तपस्विनी; यशोधरा नाथमपश्यती सती 7047018c रुरोद सा बर्हिणनादिते वने; महास्वनं दुःखपरायणा सती 7048001a सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः 7048001c प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः 7048002a अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये 7048002c सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् 7048003a अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः 7048003c पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा 7048004a भगवन्साधु पश्येमां देवतामिव खाच्च्युताम् 7048004c न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् 7048005a तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् 7048005c तपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली 7048006a तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामुनिः 7048006c अर्घ्यमादाय रुचिरं जाह्नवीतीरमाश्रितः 7048006e ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत् 7048007a तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुंगवः 7048007c उवाच मधुरां वाणीं ह्लादयन्निव तेजसा 7048008a स्नुषा दशरथस्य त्वं रामस्य महिषी सती 7048008c जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते 7048009a आयान्त्येवासि विज्ञाता मया धर्मसमाधिना 7048009c कारणं चैव सर्वं मे हृदयेनोपलक्षितम् 7048010a अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा 7048010c विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे 7048011a आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः 7048011c तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः 7048012a इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा 7048012c यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः 7048013a श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् 7048013c शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः 7048014a तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् 7048014c अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः 7048015a तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा 7048015c उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् 7048016a स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो 7048016c अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे 7048017a तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् 7048017c सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः 7048018a स्नुषा दशरथस्यैषा जनकस्य सुता सती 7048018c अपापा पतिना त्यक्ता परिपाल्या मया सदा 7048019a इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह 7048019c गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः 7048020a मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः 7048020c स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः 7049001a दृष्ट्वा तु मैथिलीं सीतामाश्रमं संप्रवेशिताम् 7049001c संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः 7049002a अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् 7049002c सीतासंतापजं दुःखं पश्य रामस्य धीमतः 7049003a अतो दुःखतरं किं नु राघवस्य भविष्यति 7049003c पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् 7049004a व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् 7049004c वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् 7049005a यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः 7049005c निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते 7049006a पुरा मम पितुर्वाक्यैर्दण्डके विजने वने 7049006c उषितो नव वर्षाणि पञ्च चैव सुदारुणे 7049007a ततो दुःखतरं भूयः सीताया विप्रवासनम् 7049007c पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे 7049008a को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे 7049008c मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः 7049009a एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः 7049009c सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह 7049010a न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति 7049010c दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः 7049011a भविष्यति दृढं रामो दुःखप्रायोऽल्पसौख्यवान् 7049011c त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा 7049011e संत्यजिष्यति धर्मात्मा कालेन महता महान् 7049012a न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा 7049012c राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह 7049013a महाराजसमीपे च मम चैव नरर्षभ 7049013c ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ 7049014a ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः 7049014c सूत न क्वचिदेवं ते वक्तव्यं जनसंनिधौ 7049015a तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः 7049015c नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम् 7049016a सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः 7049016c यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन 7049017a यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा 7049017c तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् 7049018a तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् 7049018c तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् 7050001a तथा संचोदितः सूतो लक्ष्मणेन महात्मना 7050001c तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे 7050002a पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः 7050002c वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह 7050003a तमाश्रमं महातेजाः पिता ते सुमहायशाः 7050003c पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम् 7050004a स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा 7050004c उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् 7050004e तौ मुनी तापसश्रेष्ठौ विनीतस्त्वभ्यवादयत् 7050005a स ताभ्यां पूजितो राजा स्वागतेनासनेन च 7050005c पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह 7050006a तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः 7050006c बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि 7050007a ततः कथायां कस्यांचित्प्राञ्जलिः प्रग्रहो नृपः 7050007c उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् 7050008a भगवन्किंप्रमाणेन मम वंशो भविष्यति 7050008c किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः 7050009a रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् 7050009c काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम 7050010a तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु 7050010c दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे 7050011a अयोध्यायाः पती रामो दीर्घकालं भविष्यति 7050011c सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः 7050012a कस्मिंश्चित्करणे त्वां च मैथिलीं च यशस्विनीम् 7050012c संत्यजिष्यति धर्मात्मा कालेन महता किल 7050013a दशवर्षसहस्रणि दशवर्षशतानि च 7050013c रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति 7050014a समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः 7050014c राजवंशांश्च काकुत्स्थो बहून्संस्थापयिष्यति 7050015a स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम् 7050015c आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः 7050016a तूष्णींभूते मुनौ तस्मिन्राजा दशरथस्तदा 7050016c अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् 7050017a एतद्वचो मया तत्र मुनिना व्याहृतं पुरा 7050017c श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति 7050018a एवं गते न संतापं गन्तुमर्हसि राघव 7050018c सीतार्थे राघवार्थे वा दृढो भव नरोत्तम 7050019a तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम् 7050019c प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् 7050020a तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि 7050020c अस्तमर्को गतो वासं गोमत्यां तावथोषतुः 7051001a तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः 7051001c प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा 7051002a ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः 7051002c अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् 7051003a सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः 7051003c रामपादौ समासाद्य वक्ष्यामि किमहं गतः 7051004a तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम् 7051004c रामस्य परमोदारं पुरस्तात्समदृश्यत 7051005a राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः 7051005c अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः 7051006a स दृष्ट्वा राघवं दीनमासीनं परमासने 7051006c नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः 7051007a जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः 7051007c उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः 7051008a आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् 7051008c गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे 7051008e पुनरस्म्यागतो वीर पादमूलमुपासितुम् 7051009a मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी 7051009c त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः 7051010a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 7051010c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 7051011a शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि 7051011c लोकान्सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम् 7051012a नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः 7051012c यदर्थं मैथिली त्यक्ता अपवादभयान्नृप 7051013a स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः 7051013c त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह 7051014a एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना 7051014c उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् 7051015a एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण 7051015c परितोषश्च मे वीर मम कार्यानुशासने 7051016a निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः 7051016c भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण 7052001a ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् 7052001c एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः 7052002a भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः 7052002c दर्शनं ते महाराज चोदयन्ति कृतत्वराः 7052002e प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः 7052003a तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् 7052003c प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः 7052004a राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः 7052004c प्रवेशयामास ततस्तापसान्संमतान्बहून् 7052005a शतं समधिकं तत्र दीप्यमानं स्वतेजसा 7052005c प्रविष्टं राजभवनं तापसानां महात्मनाम् 7052006a ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम् 7052006c गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु 7052007a प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः 7052007c तीर्थोदकानि सर्वाणि फलानि विविधानि च 7052008a उवाच च महाबाहुः सर्वानेव महामुनीन् 7052008c इमान्यासनमुख्यानि यथार्हमुपविश्यताम् 7052009a रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः 7052009c बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते 7052010a उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः 7052010c प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् 7052011a किमागमनकार्यं वः किं करोमि तपोधनाः 7052011c आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् 7052012a इदं राज्यं च सकलं जीवितं च हृदि स्थितम् 7052012c सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः 7052013a तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत् 7052013c ऋषीणामुग्रतपसां यमुनातीरवासिनाम् 7052014a ऊचुश्च ते महात्मानो हर्षेण महतान्विताः 7052014c उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः 7052015a बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः 7052015c कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् 7052016a त्वया पुनर्ब्राह्मणगौरवादियं; कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् 7052016c कुरुष्व कर्ता ह्यसि नात्र संशयो; महाभयात्त्रातुमृषींस्त्वमर्हसि 7053001a ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् 7053001c किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः 7053002a तथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत् 7053002c भयं नः शृणु यन्मूलं देशस्य च नरेश्वर 7053003a पूर्वं कृतयुगे राम दैतेयः सुमहाबलः 7053003c लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः 7053004a ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः 7053004c सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् 7053005a स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः 7053005c बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः 7053006a शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् 7053006c ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह 7053007a त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः 7053007c प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् 7053008a यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर 7053008c तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् 7053009a यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः 7053009c तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् 7053010a एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः 7053010c प्रणिपत्य महादेवं वाक्यमेतदुवाच ह 7053011a भगवन्मम वंशस्य शूलमेतदनुत्तमम् 7053011c भवेत्तु सततं देव सुराणामीश्वरो ह्यसि 7053012a तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः 7053012c प्रत्युवाच महादेवो नैतदेवं भविष्यति 7053013a मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा 7053013c भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति 7053014a यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते 7053014c अवध्यः सर्वभूतानां शूलहस्तो भविष्यति 7053015a एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् 7053015c भवनं चासुरश्रेष्ठः कारयामास सुप्रभम् 7053016a तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या 7053016c विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा 7053017a तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः 7053017c बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् 7053018a तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः 7053018c मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् 7053019a स विहाय इमं लोकं प्रविष्टो वरुणालयम् 7053019c शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् 7053020a स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा 7053020c संतापयति लोकांस्त्रीन्विशेषेण तु तापसान् 7053021a एवंप्रभावो लवणः शूलं चैव तथाविधम् 7053021c श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः 7053022a बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा 7053022c अभयं याचिता वीर त्रातारं न च विद्महे 7053023a ते वयं रावणं श्रुत्वा हतं सबलवाहनम् 7053023c त्रातारं विद्महे राम नान्यं भुवि नराधिपम् 7053023e तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः 7054001a तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः 7054001c किमाहारः किमाचारो लवणः क्व च वर्तते 7054002a राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते 7054002c ततो निवेदयामासुर्लवणो ववृधे यथा 7054003a आहारः सर्वसत्त्वानि विशेषेण च तापसाः 7054003c आचारो रौद्रता नित्यं वासो मधुवने सदा 7054004a हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान् 7054004c मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् 7054005a ततोऽपराणि सत्त्वानि खादते स महाबलः 7054005c संहारे समनुप्राप्ते व्यादितास्य इवान्तकः 7054006a तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् 7054006c घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम् 7054007a तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम् 7054007c स भ्रातॄन्सहितान्सर्वानुवाच रघुनन्दनः 7054008a को हन्ता लवणं वीराः कस्यांशः स विधीयताम् 7054008c भरतस्य महाबाहोः शत्रुघ्नस्याथ वा पुनः 7054009a राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् 7054009c अहमेनं वधिष्यामि ममांशः स विधीयताम् 7054010a भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम् 7054010c लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् 7054011a शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् 7054011c कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः 7054012a आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी 7054012c संतापं हृदये कृत्वा आर्यस्यागमनं प्रति 7054013a दुःखानि च बहूनीह अनुभूतानि पार्थिव 7054013c शयानो दुःखशय्यासु नन्दिग्रामे महात्मना 7054014a फलमूलाशनो भूत्वा जटाचीरधरस्तथा 7054014c अनुभूयेदृशं दुःखमेष राघवनन्दनः 7054014e प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् 7054015a तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् 7054015c एवं भवतु काकुत्स्थ क्रियतां मम शासनम् 7054016a राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे 7054016c निवेशय महाबाहो भरतं यद्यवेक्षसे 7054017a शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने 7054017c नगरं मधुना जुष्टं तथा जनपदाञ्शुभान् 7054018a यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये 7054018c न विधत्ते नृपं तत्र नरकं स निगच्छति 7054019a स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् 7054019c राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे 7054020a उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम 7054020c बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः 7054021a अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् 7054021c वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् 7055001a एवमुक्तस्तु रामेण परां व्रीडामुपागतः 7055001c शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह 7055002a अवश्यं करणीयं च शासनं पुरुषर्षभ 7055002c तव चैव महाभाग शासनं दुरतिक्रमम् 7055002e अयं कामकरो राजंस्तवास्मि पुरुषर्षभ 7055003a एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना 7055003c उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा 7055004a संभारानभिषेकस्य आनयध्वं समाहिताः 7055004c अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम् 7055005a पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा 7055005c मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया 7055006a राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथाः 7055006c अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं 7055006e प्रविष्टा राजभवनं पुरंदरगृहोपमम् 7055007a ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः 7055007c संप्रहर्षकरः श्रीमान्राघवस्य पुरस्य च 7055008a ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः 7055008c उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् 7055009a अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः 7055009c अनेन लवणं सौम्य हन्तासि रघुनन्दन 7055010a सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे 7055010c स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः 7055011a अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः 7055011c सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः 7055011e मधुकैटभयोर्वीर विघाते वर्तमानयोः 7055012a स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि 7055012c अनेन शरमुख्येन ततो लोकांश्चकार सः 7055013a नायं मया शरः पूर्वं रावणस्य वधार्थिना 7055013c मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति 7055014a यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना 7055014c दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् 7055015a तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः 7055015c दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः 7055016a यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत् 7055016c तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम् 7055017a स त्वं पुरुषशार्दूल तमायुधविवर्जितम् 7055017c अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः 7055018a अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ 7055018c आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् 7055019a अन्यथा क्रियमाणे तु अवध्यः स भविष्यति 7055019c यदि त्वेवं कृते वीर विनाशमुपयास्यति 7055020a एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम् 7055020c श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् 7056001a एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः 7056001c पुनरेवापरं वाक्यमुवाच रघुनन्दनः 7056002a इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ 7056002c रथानां च सहस्रे द्वे गजानां शतमेव च 7056003a अन्तरापणवीथ्यश्च नानापण्योपशोभिताः 7056003c अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः 7056004a हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ 7056004c गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः 7056005a बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम् 7056005c संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम 7056006a न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः 7056006c सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव 7056007a अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् 7056007c एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम् 7056008a यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् 7056008c लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः 7056009a न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ 7056009c दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि 7056010a स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते 7056010c हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः 7056011a महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः 7056011c यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् 7056012a ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः 7056012c अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम 7056013a एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् 7056013c सेनामुख्यान्समानीय ततो वाक्यमुवाच ह 7056014a एते वो गणिता वासा यत्र यत्र निवत्स्यथ 7056014c स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् 7056015a तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम् 7056015c कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 7056016a रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च 7056016c रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः 7056017a लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः 7056017c पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् 7056017e प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः 7057001a प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि 7057001c एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा 7057002a द्विरात्रमन्तरे शूर उष्य राघवनन्दनः 7057002c वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् 7057003a सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् 7057003c कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह 7057004a भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः 7057004c श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् 7057005a शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः 7057005c प्रत्युवाच महात्मानं स्वागतं ते महायशः 7057006a स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह 7057006c आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे 7057007a प्रतिगृह्य ततः पूजां फलमूलं च भोजनम् 7057007c भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः 7057008a स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह 7057008c पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः 7057009a तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् 7057009c शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा 7057010a युष्माकं पूर्वको राजा सुदासस्य महात्मनः 7057010c पुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः 7057011a स बाल एव सौदासो मृगयामुपचक्रमे 7057011c चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् 7057012a शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः 7057012c भक्षयाणावसंतुष्टौ पर्याप्तिं च न जग्मतुः 7057013a स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् 7057013c क्रोधेन महताविष्टो जघानैकं महेषुणा 7057014a विनिपात्य तमेकं तु सौदासः पुरुषर्षभः 7057014c विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत 7057015a निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः 7057015c संतापमकरोद्घोरं सौदासं चेदमब्रवीत् 7057016a यस्मादनपराद्धं त्वं सहायं मम जघ्निवान् 7057016c तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् 7057017a एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत 7057017c कालपर्याययोगेन राजा मित्रसहोऽभवत् 7057018a राजापि यजते यज्ञं तस्याश्रमसमीपतः 7057018c अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् 7057019a तत्र यज्ञो महानासीद्बहुवर्षगणायुतान् 7057019c समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् 7057020a अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् 7057020c वसिष्ठरूपी राजानमिति होवाच राक्षसः 7057021a अद्य यज्ञावसानान्ते सामिषं भोजनं मम 7057021c दीयतामिति शीघ्रं वै नात्र कार्या विचारणा 7057022a तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा 7057022c भक्षसंस्कारकुशलमुवाच पृथिवीपतिः 7057023a हविष्यं सामिषं स्वादु यथा भवति भोजनम् 7057023c तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः 7057024a शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः 7057024c स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् 7057025a स मानुषमथो मांसं पार्थिवाय न्यवेदयत् 7057025c इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् 7057026a स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् 7057026c मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् 7057027a ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम् 7057027c क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे 7057028a यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि 7057028c तस्माद्भोजनमेतत्ते भविष्यति न संशयः 7057029a स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः 7057029c पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा 7057030a तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् 7057030c पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् 7057031a मया रोषपरीतेन यदिदं व्याहृतं वचः 7057031c नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् 7057032a कालो द्वादश वर्षाणि शापस्यास्य भविष्यति 7057032c मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि 7057033a एवं स राजा तं शापमुपभुज्यारिमर्दनः 7057033c प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् 7057034a तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् 7057034c आश्रमस्य समीपेऽस्मिन्यस्मिन्पृच्छसि राघव 7057035a तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् 7057035c विवेश पर्णशालायां महर्षिमभिवाद्य च 7058001a यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत् 7058001c तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् 7058002a ततोऽर्धरात्रसमये बालका मुनिदारकाः 7058002c वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् 7058002e तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् 7058003a तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत् 7058003c भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् 7058004a कुशमुष्टिमुपादाय लवं चैव तु स द्विजः 7058004c वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् 7058005a यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः 7058005c निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः 7058006a यश्चापरो भवेत्ताभ्यां लवेन सुसमाहितः 7058006c निर्मार्जनीयो वृद्धाभिर्लवश्चेति स नामतः 7058007a एवं कुशलवौ नाम्ना तावुभौ यमजातकौ 7058007c मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः 7058008a ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः 7058008c अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः 7058009a तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च 7058009c संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ 7058010a अर्धारात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् 7058010c पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् 7058011a तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः 7058011c व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा 7058012a प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् 7058012c मुनिं प्राञ्जलिरामन्त्र्य प्रायात्पश्चान्मुखः पुनः 7058013a स गत्वा यमुनातीरं सप्तरात्रोषितः पथि 7058013c ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् 7058014a स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः 7058014c कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः 7059001a अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् 7059001c पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् 7059002a शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः 7059002c अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः 7059003a तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः 7059003c प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् 7059004a असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ 7059004c इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे 7059005a अयोध्यायां पुरा राजा युवनाश्वसुतो बली 7059005c मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् 7059006a स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः 7059006c सुरलोकमथो जेतुमुद्योगमकरोन्नृपः 7059007a इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् 7059007c मान्धातरि कृतोद्योगे देवलोकजिगीषया 7059008a अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः 7059008c वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत 7059009a तस्य पापमभिप्रायं विदित्वा पाकशासनः 7059009c सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् 7059010a राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ 7059010c अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि 7059011a यदि वीर समग्रा ते मेदिनी निखिला वशे 7059011c देवराज्यं कुरुष्वेह सभृत्यबलवाहनः 7059012a इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत् 7059012c क्व मे शक्र प्रतिहतं शासनं पृथिवीतले 7059013a तमुवाच सहस्राक्षो लवणो नाम राक्षसः 7059013c मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ 7059014a तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् 7059014c व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह 7059015a आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः 7059015c पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः 7059016a स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः 7059016c आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः 7059017a स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः 7059017c दूतं संप्रेषयामास सकाशं लवणस्य सः 7059018a स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् 7059018c वदन्तमेवं तं दूतं भक्षयामास राक्षसः 7059019a चिरायमाणे दूते तु राजा क्रोधसमन्वितः 7059019c अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः 7059020a ततः प्रहस्य लवणः शूलं जग्राह पाणिना 7059020c वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् 7059021a तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् 7059021c भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम् 7059022a एवं स राजा सुमहान्हतः सबलवाहनः 7059022c शूलस्य च बलं वीर अप्रमेयमनुत्तमम् 7059023a श्वः प्रभाते तु लवणं वधिष्यसि न संशयः 7059023c अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव 7060001a कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् 7060001c व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः 7060002a ततः प्रभाते विमले तस्मिन्काले स राक्षसः 7060002c निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः 7060003a एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम् 7060003c तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत 7060004a ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः 7060004c आगच्छद्बहुसाहस्रं प्राणिनामुद्वहन्भरम् 7060005a ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् 7060005c तमुवाच ततो रक्षः किमनेन करिष्यसि 7060006a ईदृशानां सहस्राणि सायुधानां नराधम 7060006c भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् 7060007a आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम 7060007c स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते 7060008a तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः 7060008c शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवर्तयत् 7060009a तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः 7060009c तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् 7060010a उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् 7060010c योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह 7060011a पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः 7060011c शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः 7060012a तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् 7060012c शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि 7060013a तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव 7060013c प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते 7060014a मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः 7060014c हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम 7060015a तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् 7060015c अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः 7060016a न हताश्च हि मे सर्वे परिभूतास्तृणं यथा 7060016c भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः 7060017a तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते 7060017c ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् 7060018a तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि 7060018c दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना 7060019a यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ 7060019c स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा 7061001a तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः 7061001c क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 7061002a पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च 7061002c लवणो रघुशार्दूलमाह्वयामास चासकृत् 7061003a तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम् 7061003c शत्रुघ्नो देव शत्रुघ्न इदं वचनमब्रवीत् 7061004a शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया 7061004c तदद्य बाणाभिहतो व्रज तं यमसादनम् 7061005a ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे 7061005c पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् 7061006a त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर 7061006c पुरं जनपदं चापि क्षेममेतद्भविष्यति 7061007a अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः 7061007c प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः 7061008a एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः 7061008c शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् 7061009a तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु 7061009c पादपान्सुबहून्गृह्य शत्रुघ्ने व्यसृजद्बली 7061010a शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् 7061010c त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः 7061011a ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि 7061011c शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः 7061012a ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया 7061012c शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै 7061013a तस्मिन्निपतिते वीरे हाहाकारो महानभूत् 7061013c ऋषीणां देव संघानां गन्धर्वाप्सरसामपि 7061014a तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् 7061014c रक्षो लब्धान्तरमपि न विवेश स्वमालयम् 7061015a नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् 7061015c ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् 7061016a मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः 7061016c शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः 7061017a ततो दिव्यममोघं तं जग्राह शरमुत्तमम् 7061017c ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश 7061018a वज्राननं वज्रवेगं मेरुमन्दर गौरवम् 7061018c नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् 7061019a असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् 7061019c दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम् 7061020a तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते 7061020c दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् 7061021a सदेवासुरगन्धर्वं समुनिं साप्सरोगणम् 7061021c जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् 7061022a ऊचुश्च देवदेवेशं वरदं प्रपितामहम् 7061022c कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंकयः 7061023a नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह 7061023c देवानां भयसंमोहो लोकानां संक्षयः प्रभो 7061024a तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः 7061024c भयकारणमाचष्टे देवानामभयंकरः 7061025a वधाय लवणस्याजौ शरः शत्रुघ्नधारितः 7061025c तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः 7061026a एषो हि पूर्वं देवस्य लोककर्तुः सनातनः 7061026c शरस्तेजोमयो वत्सा येन वै भयमागतम् 7061027a एष वै कैटभस्यार्थे मधुनश्च महाशरः 7061027c सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः 7061028a एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम् 7061028c एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः 7061029a इतो गच्छता पश्यध्वं वध्यमानं महात्मना 7061029c रामानुजेन वीरेण लवणं राक्षसोत्तमम् 7061030a तस्य ते देवदेवस्य निशम्य मधुरां गिरम् 7061030c आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ 7061031a तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् 7061031c ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् 7061032a आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः 7061032c सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः 7061033a आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना 7061033c लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः 7061034a आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः 7061034c स मुमोच महाबाणं लवणस्य महोरसि 7061034e उरस्तस्य विदार्याशु प्रविवेश रसातलम् 7061035a गत्वा रसातलं दिव्यं शरो विबुधपूजितः 7061035c पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् 7061036a शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः 7061036c पपात सहसा भूमौ वज्राहत इवाचलः 7061037a तच्च दिव्यं महच्छूलं हते लवणराक्षसे 7061037c पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात् 7061038a एकेषुपातेन भयं निहत्य; लोकत्रयस्यास्य रघुप्रवीरः 7061038c विनिर्बभावुद्यतचापबाण;स्तमः प्रणुद्येव सहस्ररश्मिः 7062001a हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः 7062001c ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् 7062002a दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः 7062002c हतः पुरुषशार्दूल वरं वरय राघव 7062003a वरदाः स्म महाबाहो सर्व एव समागताः 7062003c विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः 7062004a देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः 7062004c प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् 7062005a इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम् 7062005c निवेशं प्राप्नुयां शीघ्रमेष मेऽस्तु वरो मतः 7062006a तं देवाः प्रीतमनसो बाढमित्येव राघवम् 7062006c भविष्यति पुरी रम्या शूरसेना न संशयः 7062007a ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा 7062007c शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् 7062008a सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् 7062008c निवेशनं च शत्रुघ्नः शासनेन समारभत् 7062009a सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा 7062009c निविष्टा शूरसेनानां विषयश्चाकुतोभयः 7062010a क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः 7062010c अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता 7062011a अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता 7062011c शोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः 7062012a यच्च तेन महच्छून्यं लवणेन कृतं पुरा 7062012c शोभयामास तद्वीरो नानापण्यसमृद्धिभिः 7062013a तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः 7062013c निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् 7062014a तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् 7062014c रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे 7063001a ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् 7063001c अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः 7063002a मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं 7063002c जगाम रथमुख्येन हययुक्तेन भास्वता 7063003a स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः 7063003c अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः 7063004a स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः 7063004c प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः 7063005a सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा 7063005c उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् 7063006a यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् 7063006c हतः स लवणः पापः पुरी सा च निवेशिता 7063007a द्वादशं च गतं वर्षं त्वां विना रघुनन्दन 7063007c नोत्सहेयमहं वस्तुं त्वया विरहितो नृप 7063008a स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम 7063008c मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम् 7063009a एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् 7063009c मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम् 7063010a नावसीदन्ति राजानो विप्रवासेषु राघव 7063010c प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव 7063011a काले काले च मां वीर अयोध्यामवलोकितुम् 7063011c आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव 7063012a ममापि त्वं सुदयितः प्राणैरपि न संशयः 7063012c अवश्यं करणीयं च राज्यस्य परिपालनम् 7063013a तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह 7063013c ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः 7063014a रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् 7063014c शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् 7063015a स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया 7063015c उष्य तत्र महेष्वासो गमनायोपचक्रमे 7063016a आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् 7063016c भरतं लक्ष्मणं चैव महारथमुपारुहत् 7063017a दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना 7063017c भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा 7064001a प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः 7064001c प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् 7064002a ततः कतिपयाहःसु वृद्धो जानपदो द्विजः 7064002c शवं बालमुपादाय राजद्वारमुपागमत् 7064003a रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः 7064003c असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह 7064004a किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम् 7064004c यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् 7064005a अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम् 7064005c अकाले कालमापन्नं दुःखाय मम पुत्रक 7064006a अल्पैरहोभिर्निधनं गमिष्यामि न संशयः 7064006c अहं च जननी चैव तव शोकेन पुत्रक 7064007a न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् 7064007c केन मे दुष्कृतेनाद्य बाल एव ममात्मजः 7064007e अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् 7064008a नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् 7064008c मृत्युरप्राप्तकालानां रामस्य विषये यथा 7064009a रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः 7064009c त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् 7064010a भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहि 7064010c उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल 7064011a संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् 7064011c रामं नाथमिहासाद्य बालान्तकरणं नृपम् 7064012a राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः 7064012c असद्वृत्ते तु नृपतावकाले म्रियते जनः 7064013a यदा पुरेष्वयुक्तानि जना जनपदेषु च 7064013c कुर्वते न च रक्षास्ति तदाकालकृतं भयम् 7064014a सुव्यक्तं राजदोषोऽयं भविष्यति न संशयः 7064014c पुरे जनपदे वापि तदा बालवधो ह्ययम् 7064015a एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः 7064015c राजानं दुःखसंतप्तः सुतं तमुपगूहति 7065001a तथा तु करुणं तस्य द्विजस्य परिदेवितम् 7065001c शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् 7065002a स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत् 7065002c वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् 7065003a ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः 7065003c राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् 7065004a मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः 7065004c कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा 7065005a एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः 7065005c मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः 7065006a ताषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् 7065006c राघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति 7065007a तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः 7065007c प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् 7065008a शृणु राजन्यथाकाले प्राप्तोऽयं बालसंक्षयः 7065008c श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन 7065009a पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः 7065009c अब्राह्मणस्तदा राजन्न तपस्वी कथंचन 7065010a तस्मिन्युगे प्रज्वलिते ब्रह्मभूते अनावृते 7065010c अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः 7065011a ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् 7065011c क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः 7065012a वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि 7065012c मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे 7065013a ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत् 7065013c युगयोरुभयोरासीत्समवीर्यसमन्वितम् 7065014a अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः 7065014c स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः 7065015a अधर्मः पादमेकं तु पातयत्पृथिवीतले 7065015c अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः 7065016a ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् 7065016c शुभान्येवाचरँल्लोकाः सत्यधर्मपरायणाः 7065017a त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये 7065017c तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः 7065018a स धर्मः परमस्तेषां वैश्यशूद्रमथागमत् 7065018c पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः 7065019a ततः पादमधर्मस्य द्वितीयमवतारयत् 7065019c ततो द्वापरसंख्या सा युगस्य समजायत 7065020a तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये 7065020c अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ 7065021a तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत् 7065021c न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ 7065022a हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः 7065022c भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे 7065023a अधर्मः परमो राम द्वापरे शूद्रधारितः 7065023c स वै विषयपर्यन्ते तव राजन्महातपाः 7065023e शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् 7065024a यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि 7065024c करोति राजशार्दूल पुरे वा दुर्मतिर्नरः 7065024e क्षिप्रं हि नरकं याति स च राजा न संशयः 7065025a स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् 7065025c दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर 7065026a एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् 7065026c भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् 7066001a नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा 7066001c प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् 7066002a गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण 7066002c बालस्य च शरीरं तत्तैलद्रोण्यां निधापय 7066003a गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः 7066003c यथा न क्षीयते बालस्तथा सौम्य विधीयताम् 7066004a यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः 7066004c विपत्तिः परिभेदो वा भवेन्न च तथा कुरु 7066005a तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् 7066005c मनसा पुष्पकं दध्यावागच्छेति महायशाः 7066006a इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः 7066006c आजगाम मुहूर्तेन समीपं राघवस्य वै 7066007a सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप 7066007c वश्यस्तव महाबाहो किंकरः समुपस्थितः 7066008a भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः 7066008c अभिवाद्य महर्षीस्तान्विमानं सोऽध्यरोहत 7066009a धनुर्गृहीत्वा तूणीं च खड्गं च रुचिरप्रभम् 7066009c निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ 7066010a प्रायात्प्रतीचीं स मरून्विचिन्वंश्च समन्ततः 7066010c उत्तरामगमच्छ्रीमान्दिशं हिमवदावृतम् 7066011a अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् 7066011c पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः 7066012a दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः 7066012c शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः 7066013a तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः 7066013c ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् 7066014a अथैनं समुपागम्य तप्यन्तं तप उत्तमम् 7066014c उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत 7066015a कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम 7066015c कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् 7066016a मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयः 7066016c यमश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस 7066017a ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः 7066017c वैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे 7067001a तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः 7067001c अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह 7067002a शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः 7067002c देवत्वं प्रार्थये राम सशरीरो महायशः 7067003a न मिथ्याहं वदे राजन्देवलोकजिगीषया 7067003c शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः 7067004a भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् 7067004c निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः 7067005a तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत 7067006a ततोऽगस्त्याश्रमपदं रामः कमललोचनः 7067006c स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी 7067007a सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा 7067007c आतिथ्यं परमं प्राप्य निषसाद नराधिपः 7067008a तमुवाच महातेजाः कुम्भयोनिर्महातपाः 7067008c स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव 7067009a त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः 7067009c अतिथिः पूजनीयश्च मम राजन्हृदि स्थितः 7067010a सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् 7067010c ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः 7067011a उष्यतां चेह रजनीं सकाशे मम राघव 7067011c प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि 7067012a इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा 7067012c दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा 7067012e प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव 7067013a दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते 7067013c तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ 7067014a तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः 7067014c दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् 7067015a प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् 7067015c आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे 7067016a अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम् 7067016c कथं भगवता प्राप्तं कुतो वा केन वाहृतम् 7067017a कुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः 7067017c आश्चर्याणां बहूनां हि निधिः परमको भवान् 7067018a एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् 7067018c शृणु राम यथावृत्तं पुरा त्रेतायुगे गते 7068001a पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम् 7068001c समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् 7068002a तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् 7068002c अहमाक्रमितुं सौम्य तदरण्यमुपागमम् 7068003a तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह 7068003c फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः 7068004a तस्यारण्यस्य मध्ये तु सरो योजनमायतम् 7068004c पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् 7068005a तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् 7068005c अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् 7068006a तस्मिन्सरःसमीपे तु महदद्भुतमाश्रमम् 7068006c पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् 7068007a तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ 7068007c प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे 7068008a अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् 7068008c तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप 7068009a तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव 7068009c विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो 7068010a अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम् 7068010c विमानं परमोदारं हंसयुक्तं मनोजवम् 7068011a अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन 7068011c उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् 7068011e गान्ति गेयानि रम्याणि वादयन्ति तथापराः 7068012a पश्यतो मे तदा राम विमानादवरुह्य च 7068012c तं शवं भक्षयामास स स्वर्गी रघुनन्दन 7068013a ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च 7068013c अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे 7068014a उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ 7068014c आरोढुमुपचक्राम विमानवरमुत्तमम् 7068015a तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै 7068015c अथाहमब्रुवं वाक्यं तमेव पुरुषर्षभ 7068016a को भवान्देवसंकाश आहारश्च विगर्हितः 7068016c त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि 7068017a आश्चर्यमीदृशो भावो भास्वरो देवसंमतः 7068017c आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः 7069001a भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् 7069001c प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन 7069002a शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोः 7069002c दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज 7069003a पुरा वैदर्भको राजा पिता मम महायशाः 7069003c सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् 7069004a तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत 7069004c अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् 7069005a ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् 7069005c तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः 7069006a एवं वर्षसहस्राणि समतीतानि सुव्रत 7069006c राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः 7069007a सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम 7069007c कालधर्मं हृदि न्यस्य ततो वनमुपागमम् 7069008a सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् 7069008c तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे 7069009a भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् 7069009c इदं सरः समासाद्य तपस्तप्तं मया चिरम् 7069010a सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने 7069010c तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् 7069011a ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम 7069011c बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः 7069012a गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह 7069012c भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः 7069013a कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत् 7069013c आहारः कश्च मे देव तन्मे ब्रूहि पितामह 7069014a पितामहस्तु मामाह तवाहारः सुदेवज 7069014c स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः 7069015a स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् 7069015c अनुप्तं रोहते श्वेत न कदाचिन्महामते 7069016a दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते 7069016c तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया 7069017a स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् 7069017c भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति 7069018a यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः 7069018c आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे 7069019a स हि तारयितुं सौम्य शक्तः सुरगणानपि 7069019c किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् 7069020a सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् 7069020c आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम 7069021a बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया 7069021c क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा 7069022a तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय 7069022c अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् 7069023a इदमाभरणं सौम्य तारणार्थं द्विजोत्तम 7069023c प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि 7069024a तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् 7069024c तारणायोपजग्राह तदाभरणमुत्तमम् 7069025a मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे 7069025c मानुषः पूर्वको देहो राजर्षेः स ननाश ह 7069026a प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा 7069026c तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः 7069027a तेनेदं शक्रतुल्येन दिव्यमाभरणं मम 7069027c तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् 7070001a तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः 7070001c गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे 7070002a भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः 7070002c श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् 7070003a निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम् 7070003c तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः 7070004a रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम् 7070004c वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे 7070005a पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः 7070005c तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः 7070006a तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम् 7070006c पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह 7070007a तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव 7070007c ततः परमसंहृष्टो मनुः पुनरुवाच ह 7070008a प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः 7070008c दण्डेन च प्रजा रक्ष मा च दण्डमकारणे 7070009a अपराधिषु यो दण्डः पात्यते मानवेषु वै 7070009c स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् 7070010a तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक 7070010c धर्मो हि परमो लोके कुर्वतस्ते भविष्यति 7070011a इति तं बहु संदिश्य मनुः पुत्रं समाधिना 7070011c जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् 7070012a प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः 7070012c जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् 7070013a कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् 7070013c जनयामास धर्मात्मा शतं देवसुतोपमान् 7070014a तेषामवरजस्तात सर्वेषां रघुनन्दन 7070014c मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान् 7070015a नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः 7070015c अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति 7070016a स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव 7070016c विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम 7070017a स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि 7070017c पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् 7070018a पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो 7070018c पुरोहितं चोशनसं वरयामास सुव्रतम् 7070019a एवं स राजा तद्राज्यं कारयत्सपुरोहितः 7070019c प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि 7071001a एतदाख्याय रामाय महर्षिः कुम्भसंभवः 7071001c अस्यामेवापरं वाक्यं कथायामुपचक्रमे 7071002a ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् 7071002c अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम् 7071003a अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् 7071003c रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे 7071004a तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि 7071004c विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् 7071005a स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः 7071005c अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत् 7071006a कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे 7071006c पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे 7071007a तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः 7071007c भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् 7071008a भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः 7071008c अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् 7071009a गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः 7071009c व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः 7071010a यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा 7071010c वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् 7071011a अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् 7071011c क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् 7071012a एवं ब्रुवाणामरजां दण्डः कामशरार्दितः 7071012c प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् 7071013a प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि 7071013c त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने 7071014a त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् 7071014c भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् 7071015a एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली 7071015c विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे 7071016a तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् 7071016c नगरं प्रययौ चाशु मधुमन्तमनुत्तमम् 7071017a अरजापि रुदन्ती सा आश्रमस्याविदूरतः 7071017c प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् 7072001a स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः 7072001c स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत 7072002a सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् 7072002c ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् 7072003a तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः 7072003c निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह 7072004a पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः 7072004c विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव 7072005a क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः 7072005c यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति 7072006a यस्मात्स कृतवान्पापमीदृशं घोरदर्शनम् 7072006c तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः 7072007a सप्तरात्रेण राजासौ सभृत्यबलवाहनः 7072007c पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः 7072008a समन्ताद्योजनशतं विषयं चास्य दुर्मतेः 7072008c धक्ष्यते पांसुवर्षेण महता पाकशासनः 7072009a सर्वसत्त्वानि यानीह स्थावराणि चराणि च 7072009c महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः 7072010a दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः 7072010c पांसुभुत इवालक्ष्यः सप्तरात्राद्भविष्यति 7072011a इत्युक्त्वा क्रोधसंतपस्तमाश्रमनिवासिनम् 7072011c जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् 7072012a श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः 7072012c निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः 7072013a स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् 7072013c इहैव वस दुर्मेधे आश्रमे सुसमाहिता 7072014a इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् 7072014c अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् 7072015a त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम् 7072015c अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा 7072016a इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत् 7072016c सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना 7072017a तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु 7072017c शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते 7072018a ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते 7072018c तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् 7072019a एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव 7072019c संध्यामुपासितुं वीर समयो ह्यतिवर्तते 7072020a एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः 7072020c कृतोदको नरव्याघ्र आदित्यं पर्युपासते 7072021a स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः 7072021c रविरस्तं गतो राम गच्छोदकमुपस्पृश 7073001a ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम् 7073001c उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम् 7073002a तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम् 7073002c आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः 7073003a अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः 7073003c शाकानि च पवित्राणि भोजनार्थमकल्पयत् 7073004a स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् 7073004c प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत् 7073005a प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः 7073005c ऋषिं समभिचक्राम गमनाय रघूत्तमः 7073006a अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम् 7073006c आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि 7073007a धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः 7073007c द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः 7073008a तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् 7073008c उवाच परमप्रीतो धर्मनेत्रस्तपोधनः 7073009a अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् 7073009c पावनः सर्वलोकानां त्वमेव रघुनन्दन 7073010a मुहूर्तमपि राम त्वां ये नु पश्यन्ति केचन 7073010c पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः 7073011a ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि 7073011c हतास्ते यमदण्डेन सद्यो निरयगामिनः 7073012a गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् 7073012c प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् 7073013a एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः 7073013c अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम् 7073014a अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् 7073014c अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् 7073015a तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः 7073015c अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः 7073016a स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते 7073016c शशी मेघसमीपस्थो यथा जलधरागमे 7073017a ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः 7073017c अयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत 7073018a ततो विसृज्य रुचिरं पुष्पकं कामगामिनम् 7073018c कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः 7073019a लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ 7073019c ममागमनमाख्याय शब्दापय च मा चिरम् 7074001a तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः 7074001c द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् 7074002a दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ 7074002c परिष्वज्य ततो रामो वाक्यमेतदुवाच ह 7074003a कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम् 7074003c धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ 7074004a युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् 7074004c सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः 7074005a इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः 7074005c सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् 7074006a सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् 7074006c प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम् 7074007a अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह 7074007c हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ 7074008a श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः 7074008c भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह 7074009a त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा 7074009c प्रतिष्ठिता महाबाहो यशश्चामितविक्रम 7074010a महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः 7074010c निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् 7074011a प्रजाश्च पितृवद्राजन्पश्यन्ति त्वां महाबल 7074011c पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव 7074012a स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप 7074012c पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते 7074013a पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः 7074013c सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः 7074014a स त्वं पुरुषशार्दूल गुणैरतुलविक्रम 7074014c पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते 7074015a भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा 7074015c प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः 7074016a उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम् 7074016c प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि 7074017a इदं वचनमक्लीबं त्वया धर्मसमाहितम् 7074017c व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् 7074018a एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमात् 7074018c निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै 7074019a प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः 7074019c तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् 7075001a तथोक्तवति रामे तु भरते च महात्मनि 7075001c लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् 7075002a अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् 7075002c पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः 7075003a श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि 7075003c ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः 7075004a पुरा किल महाबाहो देवासुरसमागमे 7075004c वृत्रो नाम महानासीद्दैतेयो लोकसंमतः 7075005a विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः 7075005c अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः 7075006a धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः 7075006c शशास पृथिवीं सर्वां धर्मेण सुसमाहितः 7075007a तस्मिन्प्रशासति तदा सर्वकामदुघा मही 7075007c रसवन्ति प्रसूतानि मूलानि च फलानि च 7075008a अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः 7075008c स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् 7075009a तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् 7075009c तपो हि परमं श्रेयस्तपो हि परमं सुखम् 7075010a स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम् 7075010c तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः 7075011a तपस्तप्यति वृत्रे तु वासवः परमार्तवत् 7075011c विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह 7075012a तपस्यता महाबाहो लोका वृत्रेण निर्जिताः 7075012c बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् 7075013a यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर 7075013c यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः 7075014a त्वं चैनं परमोदारमुपेक्षसि महाबल 7075014c क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर 7075015a यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः 7075015c तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् 7075016a स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः 7075016c त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् 7075017a इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः 7075017c वृत्रघतेन महता एषां साह्यं कुरुष्व ह 7075018a त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् 7075018c असह्यमिदमन्येषामगतीनां गतिर्भवान् 7076001a लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः 7076001c वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् 7076002a राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः 7076002c भूय एव कथां दिव्यां कथयामास लक्ष्मणः 7076003a सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् 7076003c विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् 7076004a पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः 7076004c तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् 7076005a अवश्यं करणीयं च भवतां सुखमुत्तमम् 7076005c तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ 7076006a त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः 7076006c तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः 7076007a एकोंऽशो वासवं यातु द्वितीयो वज्रमेव तु 7076007c तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति 7076008a तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् 7076008c एवमेतन्न संदेहो यथा वदसि दैत्यहन् 7076009a भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः 7076009c भजस्व परमोदारवासवं स्वेन तेजसा 7076010a ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः 7076010c तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः 7076011a तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् 7076011c पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् 7076012a दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् 7076012c कथमेनं वधिष्यामः कथं न स्यात्पराजयः 7076013a तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः 7076013c वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि 7076014a कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा 7076014c प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् 7076015a असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः 7076015c चिन्तयानो जगामाशु लोकस्यान्तं महायशाः 7076016a तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति 7076016c अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् 7076017a हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः 7076017c विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् 7076018a त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः 7076018c रथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 7076019a हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् 7076019c बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश 7076020a तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् 7076020c मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् 7076021a पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः 7076021c पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः 7076022a एवं संदिश्य देवानां तां वाणीममृतोपमा 7076022c जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् 7077001a तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः 7077001c कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् 7077002a ततो हते महावीर्ये वृत्रे देवभयंकरे 7077002c ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा 7077003a सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः 7077003c कालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः 7077004a अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् 7077004c भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना 7077005a निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा 7077005c संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् 7077006a क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः 7077006c यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् 7077007a ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः 7077007c तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः 7077008a ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया 7077008c तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे 7077009a ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः 7077009c ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर 7077010a ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः 7077010c अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ 7077011a ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः 7077011c चतुर्धा विभजात्मानमात्मनैव दुरासदे 7077012a देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् 7077012c संनिधौ स्थानमन्यत्र वरयामास दुर्वसा 7077013a एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै 7077013c द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः 7077014a योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु 7077014c त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी 7077015a हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् 7077015c तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः 7077016a प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे 7077016c तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् 7077017a ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे 7077017c विज्वरः पूतपाप्मा च वासवः समपद्यत 7077018a प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते 7077018c यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् 7077019a ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन 7077019c यजस्व सुमहाभाग हयमेधेन पार्थिव 7078001a तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः 7078001c प्रत्युवाच महातेजाः प्रहसन्राघवो वचः 7078002a एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण 7078002c वृत्रघातमशेषेण वाजिमेधफलं च यत् 7078003a श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः 7078003c पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः 7078004a स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः 7078004c राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् 7078005a सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः 7078005c नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः 7078006a पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन 7078006c अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः 7078007a स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः 7078007c बुद्ध्या च परमोदारो बाह्लीकानां महायशाः 7078008a स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने 7078008c चैत्रे मनोरमे मासि सभृत्यबलवाहनः 7078009a प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः 7078009c हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः 7078010a नानामृगाणामयुतं वध्यमानं महात्मना 7078010c यत्र जातो महासेनस्तं देशमुपचक्रमे 7078011a तस्मिंस्तु देवदेवेशः शैलराजसुतां हरः 7078011c रमयामास दुर्धर्षैः सर्वैरनुचरैः सह 7078012a कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः 7078012c देव्याः प्रियचिकीर्षुः स तस्मिन्पर्वतनिर्झरे 7078013a ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः 7078013c यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह 7078014a एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः 7078014c निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे 7078015a स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम् 7078015c आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन 7078016a तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम् 7078016c उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् 7078017a ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् 7078017c जगाम शरणं राजा सभृत्यबलवाहनः 7078018a ततः प्रहस्य वरदः सह देव्या महायशाः 7078018c प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् 7078019a उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल 7078019c पुरुषत्वमृते सौम्य वरं वरय सुव्रत 7078020a ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना 7078020c न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् 7078021a ततः शोकेन महता शैलराजसुतां नृपः 7078021c प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना 7078022a ईशे वराणां वरदे लोकानामसि भामिनि 7078022c अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते 7078023a हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ 7078023c प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता 7078024a अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम् 7078024c तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि 7078025a तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम् 7078025c संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् 7078026a यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि 7078026c मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः 7078027a ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना 7078027c प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति 7078028a राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि 7078028c स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् 7078029a एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः 7078029c त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् 7079001a तां कथामिलसंबद्धां रामेण समुदीरिताम् 7079001c लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ 7079002a तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः 7079002c विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः 7079003a कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् 7079003c पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ 7079004a तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् 7079004c कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् 7079005a तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी 7079005c ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः 7079006a तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी 7079006c द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा 7079007a वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः 7079007c पर्वताभोगविवरे तस्मिन्रेमे इला तदा 7079008a अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः 7079008c सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् 7079009a ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा 7079009c ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् 7079010a तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् 7079010c यशक्सरं कामगमं तारुण्ये पर्यवस्थितम् 7079011a सा तं जलाशयं सर्वं क्षोभयामास विस्मिता 7079011c सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन 7079012a बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः 7079012c नोपलेभे तदात्मानं चचाल च तदाम्भसि 7079013a इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम् 7079013c चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका 7079014a न देवीषु न नागीषु नासुरीष्वप्सरःसु च 7079014c दृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता 7079015a सदृशीयं मम भवेद्यदि नान्यपरिग्रहा 7079015c इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् 7079016a स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः 7079016c शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे 7079017a स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी 7079017c किमर्थमागता चेह सत्यमाख्यात माचिरम् 7079018a शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् 7079018c श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा 7079019a अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा 7079019c अपतिः काननान्तेषु सहास्माभिरटत्यसौ 7079020a तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु 7079020c विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः 7079021a सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् 7079021c सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः 7079022a अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि 7079022c वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् 7079023a मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा 7079023c स्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ 7079024a ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः 7079024c उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा 7080001a श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा 7080001c आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् 7080002a अथ रामः कथामेतां भूय एव महायशाः 7080002c कथयामास धर्मात्मा प्रजापतिसुतस्य वै 7080003a सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः 7080003c उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव 7080004a सोमस्याहं सुदयितः सुतः सुरुचिरानने 7080004c भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा 7080005a तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता 7080005c इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् 7080006a अहं कामकरी सौम्य तवास्मि वशवर्तिनी 7080006c प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु 7080007a तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः 7080007c स वै कामी सह तया रेमे चन्द्रमसः सुतः 7080008a बुधस्य माधवो मासस्तामिलां रुचिराननाम् 7080008c गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः 7080009a अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः 7080009c प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत 7080010a सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये 7080010c ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत 7080011a भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः 7080011c न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः 7080012a तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् 7080012c प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा 7080013a अश्मवर्षेण महता भृत्यास्ते विनिपातिताः 7080013c त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः 7080014a समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः 7080014c फलमूलाशनो वीर वस चेह यथासुखम् 7080015a स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः 7080015c प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् 7080016a त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः 7080016c वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि 7080017a सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः 7080017c शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते 7080018a न हि शक्ष्याम्यहं गत्वा भृत्यदारान्सुखान्वितान् 7080018c प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः 7080019a तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् 7080019c सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् 7080020a न संतापस्त्वया कार्यः कार्दमेय महाबल 7080020c संवत्सरोषितस्येह कारयिष्यामि ते हितम् 7080021a तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः 7080021c वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना 7080022a मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा 7080022c मासं पुरुषभावेन धर्मबुद्धिं चकार सः 7080023a ततः स नवमे मासि इला सोमसुतात्मजम् 7080023c जनयामास सुश्रोणी पुरूरवसमात्मजम् 7080024a जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् 7080024c बुधस्य समवर्णाभमिलापुत्रं महाबलम् 7080025a बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम् 7080025c कथाभी रमयामास धर्मयुक्ताभिरात्मवान् 7081001a तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् 7081001c उवाच लक्ष्मणो भूयो भरतश्च महायशाः 7081002a सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता 7081002c अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि 7081003a तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः 7081003c रामः पुनरुवाचेमां प्रजापतिसुते कथाम् 7081004a पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् 7081004c संवर्तं परमोदारमाजुहाव महायशाः 7081005a च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् 7081005c प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् 7081006a एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः 7081006c उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः 7081007a अयं राजा महाबाहुः कर्दमस्य इलः सुतः 7081007c जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम् 7081008a तेषां संवदतामेव तमाश्रममुपागमत् 7081008c कर्दमः सुमहातेजा द्विजैः सह महात्मभिः 7081009a पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च 7081009c ओंकारश्च महातेजास्तमाश्रममुपागमन् 7081010a ते सर्वे हृष्टमनसः परस्परसमागमे 7081010c हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन् 7081011a कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् 7081011c द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि 7081012a नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम् 7081012c नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः 7081013a तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् 7081013c कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः 7081013e रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति 7081014a संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः 7081014c मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् 7081015a ततो यज्ञो महानासीद्बुधाश्रमसमीपतः 7081015c रुद्रश्च परमं तोषमाजगाम महायशाः 7081016a अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा 7081016c उमापतिर्द्विजान्सर्वानुवाचेदमिलां प्रति 7081017a प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः 7081017c अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् 7081018a तथा वदति देवेशे द्विजास्ते सुसमाहिताः 7081018c प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला 7081019a ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः 7081019c इलायै सुमहातेजा दत्त्वा चान्तरधीयत 7081020a निवृत्ते हयमेधे तु गते चादर्शनं हरे 7081020c यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः 7081021a राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् 7081021c निवेशयामास पुरं प्रतिष्ठानं यशस्करम् 7081022a शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः 7081022c प्रतिष्ठान इलो राजा प्रजापतिसुतो बली 7081023a स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् 7081023c ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् 7081024a ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ 7081024c स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् 7082001a एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः 7082001c लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः 7082002a वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् 7082002c द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् 7082003a एतान्सर्वान्समाहूय मन्त्रयित्वा च लक्ष्मण 7082003c हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना 7082004a तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः 7082004c द्विजान्सर्वान्समाहूय दर्शयामास राघवम् 7082005a ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् 7082005c राघवं सुदुराधर्षमाशीर्भिः समपूजयन् 7082006a प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान् 7082006c उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः 7082007a स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् 7082007c अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा 7082008a विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत् 7082008c प्रेषयस्व महाबाहो सुग्रीवाय महात्मने 7082009a शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैः 7082009c सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् 7082010a विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः 7082010c अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः 7082011a राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः 7082011c सानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम् 7082012a देशान्तरगता ये च द्विजा धर्मपरायणाः 7082012c निमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण 7082013a ऋषयश्च महाबाहो आहूयन्तां तपोधनाः 7082013c देशान्तरगता ये च सदाराश्च महर्षयः 7082014a यज्ञवाटश्च सुमहान्गोमत्या नैमिषे वने 7082014c आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् 7082015a शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् 7082015c अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल 7082016a सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः 7082016c अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः 7082017a अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान् 7082017c नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान् 7082018a कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान् 7082018c मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च 7082019a काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि 7082019c अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः 7083001a तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः 7083001c हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह 7083002a ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः 7083002c ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम् 7083003a यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् 7083003c प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् 7083004a नैमिषे वसतस्तस्य सर्व एव नराधिपाः 7083004c आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत् 7083005a उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम् 7083005c सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः 7083006a अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् 7083006c भरतः संददावाशु शत्रुघ्नसहितस्तदा 7083007a वानराश्च महात्मानः सुग्रीवसहितास्तदा 7083007c विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् 7083008a विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः 7083008c ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः 7083009a एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत 7083009c लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता 7083010a नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः 7083010c छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः 7083010e तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत 7083011a न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः 7083011c तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते 7083012a ये च तत्र महात्मानो मुनयश्चिरजीविनः 7083012c नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम् 7083013a रजतानां सुवर्णानां रत्नानामथ वाससाम् 7083013c अनिशं दीयमानानां नान्तः समुपदृश्यते 7083014a न शक्रस्य न सोमस्य यमस्य वरुणस्य वा 7083014c ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः 7083015a सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः 7083015c वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम् 7083016a ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः 7083016c संवत्सरमथो साग्रं वर्तते न च हीयते 7084001a वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते 7084001c सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः 7084002a स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम् 7084002c एकान्ते ऋषिवाटानां चकार उटजाञ्शुभान् 7084003a स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ 7084003c कृत्स्नं रामायणं काव्यं गायतां परया मुदा 7084004a ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च 7084004c रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च 7084005a रामस्य भवनद्वारि यत्र कर्म च वर्तते 7084005c ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः 7084006a इमानि च फलान्यत्र स्वादूनि विविधानि च 7084006c जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् 7084007a न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै 7084007c मूलानि च सुमृष्टानि नगरात्परिहास्यथ 7084008a यदि शब्दापयेद्रामः श्रवणाय महीपतिः 7084008c ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् 7084009a दिवसे विंशतिः सर्गा गेया वै परया मुदा 7084009c प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा 7084010a लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया 7084010c किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् 7084011a यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ 7084011c वाल्मीकेरथ शिष्यौ हि ब्रूतामेवं नराधिपम् 7084012a इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् 7084012c मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ 7084013a आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् 7084013c पिता हि सर्वभूतानां राजा भवति धर्मतः 7084014a तद्युवां हृष्टमनसौ श्वः प्रभाते समाधिना 7084014c गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् 7084015a इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा 7084015c वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः 7084016a तामद्भुतां तौ हृदये कुमारौ; निवेश्य वाणीमृषिभाषितां शुभाम् 7084016c समुत्सुकौ तौ सुखमूषतुर्निशां; यथाश्विनौ भार्गवनीतिसंस्कृतौ 7085001a तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ 7085001c यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् 7085002a तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः 7085002c अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् 7085003a प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् 7085003c बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् 7085004a अथ कर्मान्तरे राजा समानीय महामुनीन् 7085004c पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा 7085005a पौराणिकाञ्शब्दवितो ये च वृद्धा द्विजातयः 7085005c एतान्सर्वान्समानीय गातारौ समवेशयत् 7085006a हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः 7085006c पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ 7085007a परस्परमथोचुस्ते सर्व एव समं ततः 7085007c उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ 7085008a जटिलौ यदि न स्यातां न वल्कलधरौ यदि 7085008c विशेषं नाधिगच्छामो गायतो राघवस्य च 7085009a तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् 7085009c गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ 7085010a ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् 7085010c न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा 7085011a प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात् 7085011c ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् 7085012a ततोऽपराह्णसमये राघवः समभाषत 7085012c श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः 7085013a अष्टादश सहस्राणि सुवर्णस्य महात्मनोः 7085013c ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः 7085014a दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ 7085014c ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ 7085015a वन्येन फलमूलेन निरतु स्वो वनौकसौ 7085015c सुवर्णेन हिरण्येन किं करिष्यावहे वने 7085016a तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः 7085016c श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः 7085017a तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः 7085017c पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ 7085018a किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः 7085018c कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः 7085019a पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ 7085019c वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम् 7085019e येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् 7085020a आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च 7085020c प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम् 7085021a यदि बुद्धिः कृता राजञ्श्रवणाय महारथ 7085021c कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः 7085022a बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् 7085022c प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः 7085023a रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः 7085023c श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत् 7086001a रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् 7086001c शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः 7086002a तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ 7086002c तस्याः परिषदो मध्ये रामो वचनमब्रवीत् 7086003a मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम् 7086004a यदि शुद्धसमाचारा यदि वा वीतकल्मषा 7086004c करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् 7086005a छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् 7086005c प्रत्ययं दातुकामायास्ततः शंसत मे लघु 7086006a श्वः प्रभाते तु शपथं मैथिली जनकात्मजा 7086006c करोतु परिषन्मध्ये शोधनार्थं ममेह च 7086007a श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् 7086007c दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः 7086008a ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् 7086008c ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च 7086009a तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् 7086009c विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् 7086010a एवं भवतु भद्रं वो यथा तुष्यति राघवः 7086010c तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः 7086011a तथोक्ता मुनिना सर्वे रामदूता महौजसः 7086011c प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे 7086012a ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः 7086012c ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत 7086013a भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः 7086013c पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते 7086014a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 7086014c सर्वेषामृषिमुख्यानां साधुवादो महानभूत् 7086015a राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् 7086015c उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः 7086016a एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः 7086016c विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः 7087001a तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः 7087001c ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः 7087002a वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः 7087002c विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः 7087003a अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः 7087003c मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः 7087004a भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् 7087004c भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः 7087005a एते चान्ये च मुनयो बहवः संशितव्रताः 7087005c राजानश्च नरव्याघ्राः सर्व एव समागताः 7087006a राक्षसाश्च महावीर्या वानराश्च महाबलाः 7087006c समाजग्मुर्महात्मानः सर्व एव कुतूहलात् 7087007a क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः 7087007c सीताशपथवीक्षार्थं सर्व एव समागताः 7087008a तथा समागतं सर्वमश्वभूतमिवाचलम् 7087008c श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् 7087009a तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी 7087009c कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् 7087010a तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् 7087010c वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् 7087011a ततो हलहलाशब्दः सर्वेषामेवमाबभौ 7087011c दुःखजेन विशालेन शोकेनाकुलितात्मनाम् 7087012a साधु सीतेति केचित्तु साधु रामेति चापरे 7087012c उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् 7087013a ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः 7087013c सीतासहायो वाल्मीकिरिति होवाच राघवम् 7087014a इयं दाशरथे सीता सुव्रता धर्मचारिणी 7087014c अपापा ते परित्यक्ता ममाश्रमसमीपतः 7087015a लोकापवादभीतस्य तव राम महाव्रत 7087015c प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि 7087016a इमौ च जानकीपुत्रावुभौ च यमजातकौ 7087016c सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते 7087017a प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन 7087017c न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ 7087018a बहुवर्षसहस्राणि तपश्चर्या मया कृता 7087018c तस्याः फलमुपाश्नीयामपापा मैथिली यथा 7087019a अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव 7087019c विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे 7087020a इयं शुद्धसमाचारा अपापा पतिदेवता 7087020c लोकापवादभीतस्य दास्यति प्रत्ययं तव 7088001a वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत 7088001c प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् 7088002a एवमेतन्महाभाग यथा वदसि धर्मवित् 7088002c प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः 7088003a प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ 7088003c सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता 7088003e परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति 7088004a जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ 7088004c शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे 7088005a अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः 7088005c पितामहं पुरस्कृत्य सर्व एव समागताः 7088006a आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः 7088006c अश्विनावृषिगन्धर्वा अप्सराणां गणास्तथा 7088006e साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः 7088007a ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः 7088007c तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः 7088008a तदद्भुतमिवाचिन्त्यं निरीक्षन्ते समाहिताः 7088008c मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा 7088009a सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी 7088009c अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी 7088010a यथाहं राघवादन्यं मनसापि न चिन्तये 7088010c तथा मे माधवी देवी विवरं दातुमर्हति 7088011a तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् 7088011c भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् 7088012a ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैः 7088012c दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् 7088013a तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् 7088013c स्वागतेनाभिनन्द्यैनामासने चोपवेषयत् 7088014a तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् 7088014c पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् 7088015a साधुकारश्च सुमहान्देवानां सहसोत्थितः 7088015c साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् 7088016a एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः 7088016c व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् 7088017a यज्ञवाटगताश्चापि मुनयः सर्व एव ते 7088017c राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे 7088018a अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः 7088018c दानवाश्च महाकायाः पाताले पन्नगाधिपाः 7088019a केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः 7088019c केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः 7088020a सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः 7088020c तं मुहूर्तमिवात्यर्थं सर्वं संमोहितं जगत् 7089001a तदावसाने यज्ञस्य रामः परमदुर्मनाः 7089001c अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् 7089001e शोकेन परमायत्तो न शान्तिं मनसागमत् 7089002a विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् 7089002c जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् 7089003a ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः 7089003c हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः 7089004a न सीतायाः परां भार्यां वव्रे स रघुनन्दनः 7089004c यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् 7089005a दशवर्षसहस्राणि वाजिमेधमुपाकरोत् 7089005c वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् 7089006a अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः 7089006c ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः 7089007a एवं स कालः सुमहान्राज्यस्थस्य महात्मनः 7089007c धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु 7089008a ऋक्षवानररक्षांसि स्थिता रामस्य शासने 7089008c अनुरज्यन्ति राजानो अहन्यहनि राघवम् 7089009a काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः 7089009c हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा 7089010a नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा 7089010c नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति 7089011a अथ दीर्घस्य कालस्य राममाता यशस्विनी 7089011c पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् 7089012a अन्वियाय सुमित्रापि कैकेयी च यशस्विनी 7089012c धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता 7089013a सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च 7089013c समागता महाभागाः सहधर्मं च लेभिरे 7089014a तासां रामो महादानं काले काले प्रयच्छति 7089014c मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु 7089015a पित्र्याणि बहुरत्नानि यज्ञान्परमदुस्तरान् 7089015c चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन् 7090001a कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः 7090001c स्वगुरुं प्रेषयामास राघवाय महात्मने 7090002a गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् 7090002c दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् 7090003a कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् 7090003c रामाय प्रददौ राजा बहून्याभरणानि च 7090004a श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् 7090004c मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् 7090005a प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः 7090005c गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च 7090006a पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च 7090006c उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे 7090007a किमाह मातुलो वाक्यं यदर्थं भगवानिह 7090007c प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः 7090008a रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम् 7090008c वक्तुमद्भुतसंकाशं राघवायोपचक्रमे 7090009a मातुलस्ते महाबाहो वाक्यमाह नरर्षभ 7090009c युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते 7090010a अयं गन्धर्वविषयः फलमूलोपशोभितः 7090010c सिन्धोरुभयतः पार्श्वे देशः परमशोभनः 7090011a तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः 7090011c शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः 7090012a तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम् 7090012c निवेशय महाबाहो द्वे पुरे सुसमाहितः 7090013a अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः 7090013c रोचतां ते महाबाहो नाहं त्वामनृतं वदे 7090014a तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च 7090014c उवाच बाढमित्येवं भरतं चान्ववैक्षत 7090015a सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम् 7090015c इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः 7090016a भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च 7090016c मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ 7090017a भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ 7090017c निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः 7090018a निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च 7090018c आगमिष्यति मे भूयः सकाशमतिधार्मिकः 7090019a ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् 7090019c आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् 7090020a नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम् 7090020c भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ 7090021a सा सेना शक्रयुक्तेव नरगान्निर्ययावथ 7090021c राघवानुगता दूरं दुराधर्षा सुरासुरैः 7090022a मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च 7090022c अनुजग्मुश्च भरतं रुधिरस्य पिपासया 7090023a भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः 7090023c गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः 7090024a सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम् 7090024c बहूनि वै सहस्राणि सेनाया ययुरग्रतः 7090025a अध्यर्धमासमुषिता पथि सेना निरामया 7090025c हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् 7091001a श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः 7091001c युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् 7091002a स निर्ययौ जनौघेन महता केकयाधिपः 7091002c त्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः 7091003a भरतश्च युधाजिच्च समेतौ लघुविक्रमौ 7091003c गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ 7091004a श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः 7091004c योद्धुकामा महावीर्या विनदन्तः समन्ततः 7091005a ततः समभवद्युद्धं तुमुलं लोमहर्षणम् 7091005c सप्तरात्रं महाभीमं न चान्यतरयोर्जयः 7091006a ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् 7091006c संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत् 7091007a ते बद्धाः कालपाशेन संवर्तेन विदारिताः 7091007c क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना 7091008a तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः 7091008c निमेषान्तरमात्रेण तादृशानां महात्मनाम् 7091009a हतेषु तेषु वीरेषु भरतः कैकयीसुतः 7091009c निवेशयामास तदा समृद्धे द्वे पुरोत्तमे 7091009e तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ 7091010a गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः 7091010c वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा 7091011a धनरत्नौघसंपूर्णो काननैरुपशोभिते 7091011c अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे 7091012a उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः 7091012c उद्यानयानौघवृते सुविभक्तान्तरापणे 7091013a उभे पुरवरे रम्ये विस्तरैरुपशोभिते 7091013c गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः 7091014a शोभिते शोभनीयैश्च देवायतनविस्तरैः 7091014c निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः 7091014e पुनरायान्महाबाहुरयोध्यां कैकयीसुतः 7091015a सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् 7091015c राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः 7091016a शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् 7091016c निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः 7092001a तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह 7092001c वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः 7092002a इमौ कुमारौ सौमित्रे तव धर्मविशारदौ 7092002c अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ 7092003a इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् 7092003c रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ 7092004a न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम् 7092004c स देशो दृश्यतां सौम्य नापराध्यामहे यथा 7092005a तथोक्तवति रामे तु भरतः प्रत्युवाच ह 7092005c अयं कारापथो देशः सुरमण्यो निरामयः 7092006a निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः 7092006c चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम् 7092007a तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः 7092007c तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् 7092008a अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता 7092008c रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा 7092009a चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता 7092009c चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा 7092010a ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा 7092010c ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे 7092011a अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ 7092011c अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् 7092012a अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह 7092012c चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह 7092013a लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः 7092013c पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् 7092014a भरतोऽपि तथैवोष्य संवत्सरमथाधिकम् 7092014c अयोध्यां पुनरागम्य रामपादावुपागमत् 7092015a उभौ सौमित्रिभरतौ रामपादावनुव्रतौ 7092015c कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ 7092016a एवं वर्षसहस्राणि दश तेषां ययुस्तदा 7092016c धर्मे प्रयतमानानां पौरकार्येषु नित्यदा 7092017a विहृत्य कालं परिपूर्णमानसाः; श्रिया वृता धर्मपथे परे स्थिताः 7092017c त्रयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे त्रयः 7093001a कस्यचित्त्वथ कालस्य रामे धर्मपथे स्थिते 7093001c कालस्तापसरूपेण राजद्वारमुपागमत् 7093002a सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् 7093002c मां निवेदय रामाय संप्राप्तं कार्यगौरवात् 7093003a दूतो ह्यतिबलस्याहं महर्षेरमितौजसः 7093003c रामं दिदृक्षुरायातः कार्येण हि महाबल 7093004a तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः 7093004c न्यवेदयत रामाय तापसस्य विवक्षितम् 7093005a जयस्व राजन्धर्मेण उभौ लोकौ महाद्युते 7093005c दूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः 7093006a तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह 7093006c प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक् 7093007a सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् 7093007c ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः 7093008a सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा 7093008c ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् 7093009a तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् 7093009c ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे 7093010a पृष्टश्च कुशलं तेन रामेण वदतां वरः 7093010c आसने काञ्चने दिव्ये निषसाद महायशाः 7093011a तमुवाच ततो रामः स्वागतं ते महामुने 7093011c प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः 7093012a चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत् 7093012c द्वन्द्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः 7093013a यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव 7093013c भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे 7093014a तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् 7093014c द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय 7093015a स मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम् 7093015c ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः 7093016a ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे 7093016c तमुवाच मुनिं वाक्यं कथयस्वेति राघवः 7093017a यत्ते मनीषितं वाक्यं येन वासि समाहितः 7093017c कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते 7094001a शृणु राम महाबाहो यदर्थमहमाहतः 7094001c पितामहेन देवेन प्रेषितोऽस्मि महाबल 7094002a तवाहं पूर्वके भावे पुत्रः परपुरंजय 7094002c मायासंभावितो वीर कालः सर्वसमाहरः 7094003a पितामहश्च भगवानाह लोकपतिः प्रभुः 7094003c समयस्ते महाबाहो स्वर्लोकान्परिरक्षितुम् 7094004a संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि 7094004c महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः 7094005a भोगवन्तं ततो नागमनन्तमुदके शयम् 7094005c मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ 7094006a मधुं च कैटभं चैव ययोरस्थिचयैर्वृता 7094006c इयं पर्वतसंबाधा मेदिनी चाभवन्मही 7094007a पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि 7094007c प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् 7094008a सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् 7094008c रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् 7094009a ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात् 7094009c रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 7094010a अदित्यां वीर्यवान्पुत्रो भ्रातॄणां हर्षवर्धनः 7094010c समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे 7094011a स त्वं वित्रास्यमानासु प्रजासु जगतां वर 7094011c रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः 7094012a दशवर्षसहस्राणि दशवर्षशतानि च 7094012c कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा 7094013a स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह 7094013c कालो नरवरश्रेष्ठ समीपमुपवर्तितुम् 7094014a यदि भूयो महाराज प्रजा इच्छस्युपासितुम् 7094014c वस वा वीर भद्रं ते एवमाह पितामहः 7094015a अथ वा विजिगीषा ते सुरलोकाय राघव 7094015c सनाथा विष्णुना देवा भवन्तु विगतज्वराः 7094016a श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् 7094016c राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् 7094017a श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम् 7094017c प्रीतिर्हि महती जाता तवागमनसंभवा 7094018a भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः 7094018c हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा 7094019a मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् 7094019c स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः 7095001a तथा तयोः कथयतोर्दुर्वासा भगवानृषिः 7095001c रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् 7095002a सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः 7095002c रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते 7095003a मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा 7095003c अभिवाद्य महात्मानं वाक्यमेतदुवाच ह 7095004a किं कार्यं ब्रूहि भगवन्को वार्थः किं करोम्यहम् 7095004c व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम् 7095005a तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः 7095005c उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा 7095006a अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय 7095006c विषयं त्वां पुरं चैव शपिष्ये राघवं तथा 7095007a भरतं चैव सौमित्रे युष्माकं या च संततिः 7095007c न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि 7095008a तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः 7095008c चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् 7095009a एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् 7095009c इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् 7095010a लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च 7095010c निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह 7095011a सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा 7095011c किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत 7095012a तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः 7095012c प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल 7095013a अद्य वर्षसहस्रस्य समाप्तिर्मम राघव 7095013c सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ 7095014a तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः 7095014c भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् 7095015a स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् 7095015c साधु रामेति संभाष्य स्वमाश्रममुपागमत् 7095016a तस्मिन्गते महातेजा राघवः प्रीतमानसः 7095016c संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान् 7095017a दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम् 7095017c अवान्मुखो दीनमना व्याहर्तुं न शशाक ह 7095018a ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः 7095018c नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः 7096001a अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् 7096001c राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् 7096002a न संतापं महाबाहो मदर्थं कर्तुमर्हसि 7096002c पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी 7096003a जहि मां सौम्य विस्रब्धः प्रतिज्ञां परिपालय 7096003c हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः 7096004a यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि 7096004c जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव 7096005a लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः 7096005c मन्त्रिणः समुपानीय तथैव च पुरोधसं 7096006a अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः 7096006c दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च 7096007a तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत 7096007c वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह 7096008a दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम् 7096008c लक्ष्मणेन वियोगश्च तव राम महायशः 7096009a त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः 7096009c विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् 7096010a ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् 7096010c सदेवर्षिगणं सर्वं विनश्येत न संशयः 7096011a स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् 7096011c लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह 7096012a तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् 7096012c श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् 7096013a विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः 7096013c त्यागो वधो वा विहितः साधूनामुभयं समम् 7096014a रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः 7096014c लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह 7096015a स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः 7096015c निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह 7096016a अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः 7096016c देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा 7096017a अदृश्यं सर्वमनुजैः सशरीरं महाबलम् 7096017c प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह 7096018a ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः 7096018c हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह 7097001a विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः 7097001c पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् 7097002a अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् 7097002c अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम् 7097003a प्रवेशयत संभारान्मा भूत्कालात्ययो यथा 7097003c अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् 7097004a तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् 7097004c मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् 7097005a भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम् 7097005c राज्यं विगर्हयामास राघवं चेदमब्रवीत् 7097006a सत्येन हि शपे राजन्स्वर्गलोके न चैव हि 7097006c न कामये यथा राज्यं त्वां विना रघुनन्दन 7097007a इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप 7097007c कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् 7097008a शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः 7097008c इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम् 7097009a तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् 7097009c पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत् 7097010a वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः 7097010c ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः 7097011a वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् 7097011c किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत् 7097012a ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् 7097012c गच्छन्तमनुगच्छामो यतो राम गमिष्यसि 7097013a एषा नः परमा प्रीतिरेष धर्मः परो मतः 7097013c हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा 7097014a पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः 7097014c सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् 7097015a तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा 7097015c वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर 7097016a स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च 7097016c पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत् 7097017a एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः 7097017c कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् 7097018a अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ 7097018c रथानां तु सहस्राणि त्रीणि नागायुतानि च 7097019a दश चाश्वसहस्राणि एकैकस्य धनं ददौ 7097019c बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ 7097020a अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा 7097020c दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने 7098001a ते दूता रामवाक्येन चोदिता लघुविक्रमाः 7098001c प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि 7098002a ततस्त्रिभिरहोरात्रैः संप्राप्य मधुरामथ 7098002c शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत् 7098003a लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च 7098003c पुत्रयोरभिषेकं च पौरानुगमनं तथा 7098004a कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि 7098004c कुशावतीति नाम्ना सा कृता रामेण धीमता 7098005a श्राविता च पुरी रम्या श्रावतीति लवस्य च 7098005c अयोध्यां विजनां चैव भरतं राघवानुगम् 7098006a एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने 7098006c विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् 7098007a श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम् 7098007c प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम् 7098008a तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः 7098008c आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह 7098009a ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः 7098009c सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् 7098010a द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः 7098010c धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ 7098011a ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् 7098011c जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः 7098012a स ददर्श महात्मानं ज्वलन्तमिव पावकम् 7098012c क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः 7098013a सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः 7098013c उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् 7098014a कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः 7098014c तवानुगमने राजन्विद्धि मां कृतनिश्चयम् 7098015a न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् 7098015c त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः 7098016a तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः 7098016c बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् 7098017a तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः 7098017c ऋक्षराक्षससंघाश्च समापेतुरनेकशः 7098018a देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा 7098018c रामक्षयं विदित्वा ते सर्व एव समागताः 7098019a ते राममभिवाद्याहुः सर्व एव समागताः 7098019c तवानुगमने राजन्संप्राप्ताः स्म महायशः 7098020a यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ 7098020c यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः 7098021a एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम् 7098021c विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा 7098022a यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण 7098022c राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि 7098023a प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि 7098024a तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् 7098024c जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय 7098025a मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर 7098025c तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय 7098026a तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् 7098026c मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् 7099001a प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः 7099001c रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् 7099002a अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम् 7099002c वाजपेयातपत्रं च शोभयानं महापथम् 7099003a ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः 7099003c चकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम् 7099004a ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन्परम् 7099004c कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ 7099005a अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निःसुखः पथि 7099005c निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान् 7099006a रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता 7099006c दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः 7099007a शरा नानाविधाश्चापि धनुरायतविग्रहम् 7099007c अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः 7099008a वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी 7099008c ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः 7099009a ऋषयश्च महात्मानः सर्व एव महीसुराः 7099009c अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम् 7099010a तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियः 7099010c सवृद्धबालदासीकाः सवर्षवरकिंकराः 7099011a सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ 7099012a रामव्रतमुपागम्य राघवं समनुव्रताः 7099012c ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः 7099012e सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् 7099013a मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः 7099013c सानुगा राघवं सर्वे अन्वगच्छन्प्रहृष्टवत् 7099014a ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः 7099014c अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः 7099015a स्नातं प्रमुदितं सर्वं हृष्टपुष्टमनुत्तमम् 7099015c दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम् 7099016a न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः 7099016c हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् 7099017a द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः 7099017c संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः 7099018a ऋक्षवानररक्षांसि जनाश्च पुरवासिनः 7099018c अगछन्परया भक्त्या पृष्ठतः सुसमाहिताः 7100001a अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् 7100001c सरयूं पुण्यसलिलां ददर्श रघुनन्दनः 7100002a अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः 7100002c सर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः 7100003a आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः 7100003c विमानशतकोटीभिर्दिव्याभिरभिसंवृतः 7100004a पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत् 7100005a तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले 7100005c सरयूसलिलं रामः पद्भ्यां समुपचक्रमे 7100006a ततः पितामहो वाणीमन्तरिक्षादभाषत 7100006c आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव 7100007a भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् 7100007c वैष्णवीं तां महातेजस्तदाकाशं सनातनम् 7100008a त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते 7100008c ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् 7100009a त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् 7100009c यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् 7100010a पितामहवचः श्रुत्वा विनिश्चित्य महामतिः 7100010c विवेश वैष्णवं तेजः सशरीरः सहानुजः 7100011a ततो विष्णुगतं देवं पूजयन्ति स्म देवताः 7100011c साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः 7100012a ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः 7100012c सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः 7100013a सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम् 7100013c साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम् 7100014a अथ विष्णुर्महातेजाः पितामहमुवाच ह 7100014c एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत 7100015a इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः 7100015c भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते 7100016a तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः 7100016c लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः 7100017a यच्च तिर्यग्गतं किंचिद्राममेवानुचिन्तयत् 7100017c प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति 7100017e सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे 7100018a वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः 7100019a येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः 7100019c ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे 7100020a तथोक्तवति देवेशे गोप्रतारमुपागताः 7100020c भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः 7100021a अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् 7100021c मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत 7100022a तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम् 7100022c दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् 7100023a गत्वा तु सरयूतोयं स्थावराणि चराणि च 7100023c प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् 7100024a देवानां यस्य या योनिर्वानरा ऋष्कराक्षसाः 7100024c तामेव विविशुः सर्वे देहान्निक्षिप्य चाम्भसि 7100025a तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम् 7100025c जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः 7100026a एतावदेव आख्यानं सोत्तरं ब्रह्मपूजितम् 7100026c रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम्