% Ramayana: Sundarakanda % Last updated: Sat Sep 25 2021 % Encoding: Unicode Devanagari % 5001001a ततो रावणनीतायाः सीतायाः शत्रुकर्शनः 5001001c इयेष पदमन्वेष्टुं चारणाचरिते पथि 5001002a अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः 5001002c धीरः सलिलकल्पेषु विचचार यथासुखम् 5001003a द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् 5001003c मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी 5001004a नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः 5001004c स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् 5001005a कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः 5001005c यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः 5001006a स तस्य गिरिवर्यस्य तले नागवरायुते 5001006c तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ 5001007a स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे 5001007c भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् 5001008a अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये 5001008c ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् 5001009a प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः 5001009c ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु 5001010a निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् 5001010c बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् 5001011a स चचालाचलाश्चारु मुहूर्तं कपिपीडितः 5001011c तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् 5001012a तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना 5001012c सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा 5001013a तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः 5001013c सलिलं संप्रसुस्राव मदं मत्त इव द्विपः 5001014a पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः 5001014c रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः 5001014e मुमोच च शिलाः शैलो विशालाः समनःशिलाः 5001015a गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः 5001015c गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः 5001016a स महासत्त्वसंनादः शैलपीडानिमित्तजः 5001016c पृथिवीं पूरयामास दिशश्चोपवनानि च 5001017a शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः 5001017c वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः 5001018a तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः 5001018c जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा 5001019a यानि चौषधजालानि तस्मिञ्जातानि पर्वते 5001019c विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् 5001020a भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः 5001020c त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह 5001021a पानभूमिगतं हित्वा हैममासनभाजनम् 5001021c पात्राणि च महार्हाणि करकांश्च हिरण्मयान् 5001022a लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च 5001022c आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् 5001023a कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः 5001023c रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे 5001024a हारनूपुरकेयूर पारिहार्य धराः स्त्रियः 5001024c विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह 5001025a दर्शयन्तो महाविद्यां विद्याधरमहर्षयः 5001025c सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् 5001026a शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् 5001026c चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे 5001027a एष पर्वतसंकाशो हनूमान्मारुतात्मजः 5001027c तितीर्षति महावेगं समुद्रं मकरालयम् 5001028a रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् 5001028c समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति 5001029a दुधुवे च स रोमाणि चकम्पे चाचलोपमः 5001029c ननाद च महानादं सुमहानिव तोयदः 5001030a आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम् 5001030c उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् 5001031a तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः 5001031c ददृशे गरुडेनेव ह्रियमाणो महोरगः 5001032a बाहू संस्तम्भयामास महापरिघसंनिभौ 5001032c ससाद च कपिः कट्यां चरणौ संचुकोप च 5001033a संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् 5001033c तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् 5001034a मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः 5001034c रुरोध हृदये प्राणानाकाशमवलोकयन् 5001035a पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः 5001035c निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः 5001035e वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् 5001036a यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः 5001036c गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् 5001037a न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् 5001037c अनेनैव हि वेगेन गमिष्यामि सुरालयम् 5001038a यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः 5001038c बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् 5001039a सर्वथा कृतकार्योऽहमेष्यामि सह सीतया 5001039c आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् 5001040a एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः 5001040c उत्पपाताथ वेगेन वेगवानविचारयन् 5001041a समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः 5001041c संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः 5001042a स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः 5001042c उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे 5001043a ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः 5001043c प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः 5001044a तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः 5001044c अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् 5001045a सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः 5001045c हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः 5001046a सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि 5001046c भयादिव महेन्द्रस्य पर्वता वरुणालये 5001047a स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः 5001047c शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः 5001048a विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः 5001048c अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा 5001049a लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् 5001049c द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् 5001050a पुष्पौघेणानुबद्धेन नानावर्णेन वानरः 5001050c बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः 5001051a तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत 5001051c ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् 5001052a तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ 5001052c पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ 5001053a पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् 5001053c पिपासुरिव चाकाशं ददृशे स महाकपिः 5001054a तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः 5001054c नयने विप्रकाशेते पर्वतस्थाविवानलौ 5001055a पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले 5001055c चक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौ 5001056a मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ 5001056c संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् 5001057a लाङ्गलं च समाविद्धं प्लवमानस्य शोभते 5001057c अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः 5001058a लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः 5001058c व्यरोचत महाप्राज्ञः परिवेषीव भास्करः 5001059a स्फिग्देशेनाभिताम्रेण रराज स महाकपिः 5001059c महता दारितेनेव गिरिर्गैरिकधातुना 5001060a तस्य वानरसिंहस्य प्लवमानस्य सागरम् 5001060c कक्षान्तरगतो वायुर्जीमूत इव गर्जति 5001061a खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता 5001061c दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः 5001062a पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः 5001062c प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया 5001063a उपरिष्टाच्छरीरेण छायया चावगाढया 5001063c सागरे मारुताविष्टा नौरिवासीत्तदा कपिः 5001064a यं यं देशं समुद्रस्य जगाम स महाकपिः 5001064c स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते 5001065a सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् 5001065c अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः 5001066a कपिवातश्च बलवान्मेघवातश्च निःसृतः 5001066c सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् 5001067a विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि 5001067c अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव 5001068a प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः 5001068c व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे 5001069a दशयोजनविस्तीर्णा त्रिंशद्योजनमायता 5001069c छाया वानरसिंहस्य जले चारुतराभवत् 5001070a श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी 5001070c तस्य सा शुशुभे छाया वितता लवणाम्भसि 5001071a प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा 5001071c ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः 5001072a तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् 5001072c सिषेवे च तदा वायू रामकार्यार्थसिद्धये 5001073a ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा 5001073c जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं 5001074a नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः 5001074c प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् 5001075a तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति 5001075c इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः 5001076a साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः 5001076c करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् 5001077a अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः 5001077c इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति 5001078a तथा मया विधातव्यं विश्रमेत यथा कपिः 5001078c शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति 5001079a इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि 5001079c हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् 5001080a त्वमिहासुरसंघानां पातालतलवासिनाम् 5001080c देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः 5001081a त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् 5001081c पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि 5001082a तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् 5001082c तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम 5001083a स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् 5001083c हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः 5001084a तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः 5001084c मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव 5001085a कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् 5001085c कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् 5001086a सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि 5001086c अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः 5001087a चामीकरमहानाभ देवगन्धर्वसेवित 5001087c हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति 5001088a काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् 5001088c श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि 5001089a हिरण्यनाभो मैनाको निशम्य लवणाम्भसः 5001089c उत्पपात जलात्तूर्णं महाद्रुमलतायुतः 5001090a स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा 5001090c यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः 5001091a शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः 5001091c आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम् 5001092a तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः 5001092c आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् 5001093a जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः 5001093c आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः 5001094a तमुत्थितमसंगेन हनूमानग्रतः स्थितम् 5001094c मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः 5001095a स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः 5001095c उरसा पातयामास जीमूतमिव मारुतः 5001096a स तदा पातितस्तेन कपिना पर्वतोत्तमः 5001096c बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च 5001097a तमाकाशगतं वीरमाकाशे समवस्थितम् 5001097c प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् 5001097e मानुषं धरयन्रूपमात्मनः शिखरे स्थितः 5001098a दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम 5001098c निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् 5001099a राघावस्य कुले जातैरुदधिः परिवर्धितः 5001099c स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः 5001100a कृते च प्रतिकर्तव्यमेष धर्मः सनातनः 5001100c सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति 5001101a त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः 5001101c योजनानां शतं चापि कपिरेष समाप्लुतः 5001101e तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति 5001102a तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् 5001102c तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु 5001102e तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि 5001103a अस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वै 5001103c प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः 5001104a वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज 5001104c तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर 5001105a अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता 5001105c धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् 5001106a त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः 5001106c पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर 5001107a पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः 5001107c तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् 5001108a पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् 5001108c तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः 5001109a ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः 5001109c भूतानि च भयं जग्मुस्तेषां पतनशङ्कया 5001110a ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः 5001110c पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः 5001111a स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् 5001111c ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना 5001112a अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम 5001112c गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः 5001113a ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः 5001113c त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः 5001114a अस्मिन्नेवंगते कार्ये सागरस्य ममैव च 5001114c प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे 5001115a श्रमं मोक्षय पूजां च गृहाण कपिसत्तम 5001115c प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् 5001116a एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् 5001116c प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् 5001117a त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते 5001117c प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा 5001118a इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः 5001118c जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव 5001119a स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः 5001119c पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः 5001120a अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ 5001120c पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे 5001121a भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् 5001121c वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे 5001122a तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5001122c प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः 5001123a देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा 5001123c काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः 5001124a उवाच वचनं धीमान्परितोषात्सगद्गदम् 5001124c सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः 5001125a हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् 5001125c अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् 5001126a साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः 5001126c क्रमतो योजनशतं निर्भयस्य भये सति 5001127a रामस्यैष हि दौत्येन याति दाशरथेर्हरिः 5001127c सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया 5001128a ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः 5001128c देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् 5001129a स वै दत्तवरः शैलो बभूवावस्थितस्तदा 5001129c हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् 5001130a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 5001130c अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम् 5001131a अयं वातात्मजः श्रीमान्प्लवते सागरोपरि 5001131c हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर 5001132a राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् 5001132c दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् 5001133a बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् 5001133c त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति 5001134a एवमुक्ता तु सा देवी दैवतैरभिसत्कृता 5001134c समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः 5001135a विकृतं च विरूपं च सर्वस्य च भयावहम् 5001135c प्लवमानं हनूमन्तमावृत्येदमुवाच ह 5001136a मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ 5001136c अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् 5001137a एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः 5001137c प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् 5001138a रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् 5001138c लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 5001139a अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः 5001139c तस्य सीता हृता भार्या रावणेन यशस्विनी 5001140a तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् 5001140c कर्तुमर्हसि रामस्य साह्यं विषयवासिनि 5001141a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5001141c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते 5001142a एवमुक्ता हनुमता सुरसा कामरूपिणी 5001142c अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम 5001143a एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः 5001143c अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे 5001144a इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः 5001144c दशयोजनविस्तारो बभूव हनुमांस्तदा 5001145a तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् 5001145c चकार सुरसाप्यास्यं विंशद्योजनमायतम् 5001146a हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः 5001146c चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् 5001147a बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः 5001147c चकार सुरसा वक्त्रं षष्टियोजनमायतम् 5001148a तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः 5001148c चकार सुरसा वक्त्रमशीतिं योजनायतम् 5001149a हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः 5001149c चकार सुरसा वक्त्रं शतयोजनमायतम् 5001150a तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् 5001150c दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् 5001151a स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः 5001151c तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः 5001152a सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः 5001152c अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् 5001153a प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते 5001153c गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव 5001154a तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव 5001154c अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् 5001155a अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5001155c समानय च वैदेहीं राघवेण महात्मना 5001156a तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् 5001156c साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् 5001157a स सागरमनाधृष्यमभ्येत्य वरुणालयम् 5001157c जगामाकाशमाविश्य वेगेन गरुणोपमः 5001158a सेविते वारिधारिभिः पतगैश्च निषेविते 5001158c चरिते कैशिकाचार्यैरैरावतनिषेविते 5001159a सिंहकुञ्जरशार्दूलपतगोरगवाहनैः 5001159c विमानैः संपतद्भिश्च विमलैः समलंकृते 5001160a वज्राशनिसमाघातैः पावकैरुपशोभिते 5001160c कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते 5001161a बहता हव्यमत्यन्तं सेविते चित्रभानुना 5001161c ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते 5001162a महर्षिगणगन्धर्वनागयक्षसमाकुले 5001162c विविक्ते विमले विश्वे विश्वावसुनिषेविते 5001163a देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे 5001163c विताने जीवलोकस्य विततो ब्रह्मनिर्मिते 5001164a बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः 5001164c कपिना कृष्यमाणानि महाभ्राणि चकाशिरे 5001165a प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः 5001165c प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा 5001166a प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी 5001166c मनसा चिन्तयामास प्रवृद्धा कामरूपिणी 5001167a अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता 5001167c इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् 5001168a इति संचिन्त्य मनसा छायामस्य समक्षिपत् 5001168c छायायां संगृहीतायां चिन्तयामास वानरः 5001169a समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः 5001169c प्रतिलोमेन वातेन महानौरिव सागरे 5001170a तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः 5001170c ददर्श स महासत्त्वमुत्थितं लवणाम्भसि 5001171a कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् 5001171c छायाग्राहि महावीर्यं तदिदं नात्र संशयः 5001172a स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः 5001172c व्यवर्धत महाकायः प्रावृषीव बलाहकः 5001173a तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः 5001173c वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् 5001174a स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् 5001174c कायमात्रं च मेधावी मर्माणि च महाकपिः 5001175a स तस्या विवृते वक्त्रे वज्रसंहननः कपिः 5001175c संक्षिप्य मुहुरात्मानं निष्पपात महाबलः 5001176a आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः 5001176c ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा 5001177a ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः 5001177c उत्पपाताथ वेगेन मनःसंपातविक्रमः 5001178a तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् 5001178c भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् 5001179a भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् 5001179c साधयार्थमभिप्रेतमरिष्टं प्लवतां वर 5001180a यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव 5001180c धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति 5001181a स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः 5001181c जगामाकाशमाविश्य पन्नगाशनवत्कपिः 5001182a प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् 5001182c योजनानां शतस्यान्ते वनराजिं ददर्श सः 5001183a ददर्श च पतन्नेव विविधद्रुमभूषितम् 5001183c द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च 5001184a सागरं सागरानूपान्सागरानूपजान्द्रुमान् 5001184c सागरस्य च पत्नीनां मुखान्यपि विलोकयन् 5001185a स महामेघसंकाशं समीक्ष्यात्मानमात्मना 5001185c निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् 5001186a कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः 5001186c मयि कौतूहलं कुर्युरिति मेने महाकपिः 5001187a ततः शरीरं संक्षिप्य तन्महीधरसंनिभम् 5001187c पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् 5001188a स चारुनानाविधरूपधारी; परं समासाद्य समुद्रतीरम् 5001188c परैरशक्यप्रतिपन्नरूपः; समीक्षितात्मा समवेक्षितार्थः 5001189a ततः स लम्बस्य गिरेः समृद्धे; विचित्रकूटे निपपात कूटे 5001189c सकेतकोद्दालकनालिकेरे; महाद्रिकूटप्रतिमो महात्मा 5001190a स सागरं दानवपन्नगायुतं; बलेन विक्रम्य महोर्मिमालिनम् 5001190c निपत्य तीरे च महोदधेस्तदा; ददर्श लङ्काममरावतीमिव 5002001a स सागरमनाधृष्यमतिक्रम्य महाबलः 5002001c त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह 5002002a ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् 5002002c अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा 5002003a योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः 5002003c अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति 5002004a शतान्यहं योजनानां क्रमेयं सुबहून्यपि 5002004c किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् 5002005a स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः 5002005c जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् 5002006a शाद्वलानि च नीलानि गन्धवन्ति वनानि च 5002006c गण्डवन्ति च मध्येन जगाम नगवन्ति च 5002007a शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताः 5002007c अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः 5002008a स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च 5002008c स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः 5002009a सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् 5002009c प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि 5002010a प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा 5002010c असनान्कोविदारांश्च करवीरांश्च पुष्पितान् 5002011a पुष्पभारनिबद्धांश्च तथा मुकुलितानपि 5002011c पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् 5002012a हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः 5002012c आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् 5002013a संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः 5002013c उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः 5002014a समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् 5002014c परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् 5002015a सीतापहरणार्थेन रावणेन सुरक्षिताम् 5002015c समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः 5002016a काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् 5002016c अट्टालकशताकीर्णां पताकाध्वजमालिनीम् 5002017a तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः 5002017c ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव 5002018a गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः 5002018c ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा 5002019a पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा 5002019c प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् 5002020a संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव 5002020c अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा 5002021a दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः 5002021c रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि 5002022a वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् 5002022c शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् 5002023a द्वारमुत्तरमासाद्य चिन्तयामास वानरः 5002023c कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् 5002023e ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः 5002024a तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः 5002024c रावणं च रिपुं घोरं चिन्तयामास वानरः 5002025a आगत्यापीह हरयो भविष्यन्ति निरर्थकाः 5002025c न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि 5002026a इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् 5002026c प्राप्यापि स महाबाहुः किं करिष्यति राघवः 5002027a अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते 5002027c न दानस्य न भेदस्य नैव युद्धस्य दृश्यते 5002028a चतुर्णामेव हि गतिर्वानराणां महात्मनाम् 5002028c वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः 5002029a यावज्जानामि वैदेहीं यदि जीवति वा न वा 5002029c तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् 5002030a ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः 5002030c गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः 5002031a अनेन रूपेण मया न शक्या रक्षसां पुरी 5002031c प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः 5002032a उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः 5002032c वञ्चनीया मया सर्वे जानकीं परिमार्गिता 5002033a लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया 5002033c प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् 5002034a तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः 5002034c हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः 5002035a केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् 5002035c अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना 5002036a न विनश्येत्कथं कार्यं रामस्य विदितात्मनः 5002036c एकामेकश्च पश्येयं रहिते जनकात्मजाम् 5002037a भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः 5002037c विक्लवं दूतमासाद्य तमः सूर्योदये यथा 5002038a अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते 5002038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5002039a न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् 5002039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5002040a मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः 5002040c भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः 5002041a न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः 5002041c अपि राक्षसरूपेण किमुतान्येन केनचित् 5002042a वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम 5002042c न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् 5002043a इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः 5002043c विनाशमुपयास्यामि भर्तुरर्थश्च हीयते 5002044a तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः 5002044c लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये 5002045a रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् 5002045c विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् 5002046a इति संचिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः 5002046c आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः 5002046e पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः 5002047a प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् 5002047c प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् 5002048a प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः 5002048c शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् 5002049a सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् 5002049c तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः 5002050a वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः 5002050c तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् 5002051a काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् 5002051c लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् 5002052a अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः 5002052c आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः 5002053a स पाण्डुरोद्विद्धविमानमालिनीं; महार्हजाम्बूनदजालतोरणाम् 5002053c यशस्विनां रावणबाहुपालितां; क्षपाचरैर्भीमबलैः समावृताम् 5002054a चन्द्रोऽपि साचिव्यमिवास्य कुर्वं;स्तारागणैर्मध्यगतो विराजन् 5002054c ज्योत्स्नावितानेन वितत्य लोक;मुत्तिष्ठते नैकसहस्ररश्मिः 5002055a शङ्खप्रभं क्षीरमृणालवर्ण;मुद्गच्छमानं व्यवभासमानम् 5002055c ददर्श चन्द्रं स कपिप्रवीरः; पोप्लूयमानं सरसीव हंसं 5003001a स लम्बशिखरे लम्बे लम्बतोयदसंनिभे 5003001c सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः 5003002a निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः 5003002c रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् 5003003a शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् 5003003c सागरोपमनिर्घोषां सागरानिलसेविताम् 5003004a सुपुष्टबलसंगुप्तां यथैव विटपावतीम् 5003004c चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् 5003005a भुजगाचरितां गुप्तां शुभां भोगवतीमिव 5003005c तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् 5003006a चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् 5003006c शातकुम्भेन महता प्राकारेणाभिसंवृताम् 5003007a किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् 5003007c आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् 5003008a विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः 5003008c जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः 5003009a मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः 5003009c तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः 5003010a वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः 5003010c चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः 5003011a क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः 5003011c तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् 5003012a वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः 5003012c खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः 5003013a तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् 5003013c अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् 5003014a नेयमन्येन नगरी शक्या धर्षयितुं बलात् 5003014c रक्षिता रावणबलैरुद्यतायुधधारिभिः 5003015a कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः 5003015c प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि 5003016a विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः 5003016c ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् 5003017a समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् 5003017c लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः 5003018a तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् 5003018c यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् 5003019a तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः 5003019c नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः 5003020a प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः 5003020c स महापथमास्थाय मुक्तापुष्पविराजितम् 5003021a हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः 5003021c वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः 5003021e गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः 5003022a प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः 5003022c सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः 5003022e वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः 5003023a तां चित्रमाल्याभरणां कपिराजहितंकरः 5003023c राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च 5003024a शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् 5003024c स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव 5003025a शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् 5003025c सोपाननिनदांश्चैव भवनेषु महात्मनम् 5003025e आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः 5003026a स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः 5003026c रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि 5003027a राजमार्गं समावृत्य स्थितं रक्षोबलं महत् 5003027c ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून् 5003028a दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः 5003028c दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा 5003029a कूटमुद्गरपाणींश्च दण्डायुधधरानपि 5003029c एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् 5003030a करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा 5003030c धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् 5003030e परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् 5003031a नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् 5003031c विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः 5003032a शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः 5003032c क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः 5003033a स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् 5003033c तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् 5003034a शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः 5003034c प्राकारावृतमत्यन्तं ददर्श स महाकपिः 5003035a त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् 5003035c वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा 5003036a रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः 5003036c वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः 5003037a भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः 5003037c राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः 5004001a ततः स मध्यं गतमंशुमन्तं; ज्योत्स्नावितानं महदुद्वमन्तम् 5004001c ददर्श धीमान्दिवि भानुमन्तं; गोष्ठे वृषं मत्तमिव भ्रमन्तम् 5004002a लोकस्य पापानि विनाशयन्तं; महोदधिं चापि समेधयन्तम् 5004002c भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुमथाभियान्तम् 5004003a या भाति लक्ष्मीर्भुवि मन्दरस्था; तथा प्रदोषेषु च सागरस्था 5004003c तथैव तोयेषु च पुष्करस्था; रराज सा चारुनिशाकरस्था 5004004a हंसो यथा राजतपञ्जुरस्थः; सिंहो यथा मन्दरकन्दरस्थः 5004004c वीरो यथा गर्वितकुञ्जरस्थ;श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः 5004005a स्थितः ककुद्मानिव तीक्ष्णशृङ्गो; महाचलः श्वेत इवोच्चशृङ्गः 5004005c हस्तीव जाम्बूनदबद्धशृङ्गो; विभाति चन्द्रः परिपूर्णशृङ्गः 5004006a प्रकाशचन्द्रोदयनष्टदोषः; प्रवृद्धरक्षः पिशिताशदोषः 5004006c रामाभिरामेरितचित्तदोषः; स्वर्गप्रकाशो भगवान्प्रदोषः 5004007a तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः; स्वपन्ति नार्यः पतिभिः सुवृत्ताः 5004007c नक्तंचराश्चापि तथा प्रवृत्ता; विहर्तुमत्यद्भुतरौद्रवृत्ताः 5004008a मत्तप्रमत्तानि समाकुलानि; रथाश्वभद्रासनसंकुलानि 5004008c वीरश्रिया चापि समाकुलानि; ददर्श धीमान्स कपिः कुलानि 5004009a परस्परं चाधिकमाक्षिपन्ति; भुजांश्च पीनानधिविक्षिपन्ति 5004009c मत्तप्रलापानधिविक्षिपन्ति; मत्तानि चान्योन्यमधिक्षिपन्ति 5004010a रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति 5004010c ददर्श कान्ताश्च समालपन्ति; तथापरास्तत्र पुनः स्वपन्ति 5004011a महागजैश्चापि तथा नदद्भिः; सूपूजितैश्चापि तथा सुसद्भिः 5004011c रराज वीरैश्च विनिःश्वसद्भि;र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः 5004012a बुद्धिप्रधानान्रुचिराभिधाना;न्संश्रद्दधानाञ्जगतः प्रधानान् 5004012c नानाविधानान्रुचिराभिधाना;न्ददर्श तस्यां पुरि यातुधानान् 5004013a ननन्द दृष्ट्वा स च तान्सुरूपा;न्नानागुणानात्मगुणानुरूपान् 5004013c विद्योतमानान्स च तान्सुरूपा;न्ददर्श कांश्चिच्च पुनर्विरूपान् 5004014a ततो वरार्हाः सुविशुद्धभावा;स्तेषां स्त्रियस्तत्र महानुभावाः 5004014c प्रियेषु पानेषु च सक्तभावा; ददर्श तारा इव सुप्रभावाः 5004015a श्रिया ज्वलन्तीस्त्रपयोपगूढा; निशीथकाले रमणोपगूढाः 5004015c ददर्श काश्चित्प्रमदोपगूढा; यथा विहंगाः कुसुमोपगूडाः 5004016a अन्याः पुनर्हर्म्यतलोपविष्टा;स्तत्र प्रियाङ्केषु सुखोपविष्टाः 5004016c भर्तुः प्रिया धर्मपरा निविष्टा; ददर्श धीमान्मनदाभिविष्टाः 5004017a अप्रावृताः काञ्चनराजिवर्णाः; काश्चित्परार्ध्यास्तपनीयवर्णाः 5004017c पुनश्च काश्चिच्छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः 5004018a ततः प्रियान्प्राप्य मनोऽभिरामा;न्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः 5004018c गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स ददर्श रामाः 5004019a चन्द्रप्रकाशाश्च हि वक्त्रमाला; वक्राक्षिपक्ष्माश्च सुनेत्रमालाः 5004019c विभूषणानां च ददर्श मालाः; शतह्रदानामिव चारुमालाः 5004020a न त्वेव सीतां परमाभिजातां; पथि स्थिते राजकुले प्रजाताम् 5004020c लतां प्रफुल्लामिव साधुजातां; ददर्श तन्वीं मनसाभिजाताम् 5004021a सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मदनाभिविष्टाम् 5004021c भर्तुर्मनः श्रीमदनुप्रविष्टां; स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् 5004022a उष्णार्दितां सानुसृतास्रकण्ठीं; पुरा वरार्होत्तमनिष्ककण्ठीम् 5004022c सुजातपक्ष्मामभिरक्तकण्ठीं; वने प्रवृत्तामिव नीलकण्ठीम् 5004023a अव्यक्तलेखामिव चन्द्रलेखां; पांसुप्रदिग्धामिव हेमलेखाम् 5004023c क्षतप्ररूढामिव बाणलेखां; वायुप्रभिन्नामिव मेघलेखाम् 5004024a सीतामपश्यन्मनुजेश्वरस्य; रामस्य पत्नीं वदतां वरस्य 5004024c बभूव दुःखाभिहतश्चिरस्य; प्लवंगमो मन्द इवाचिरस्य 5005001a स निकामं विनामेषु विचरन्कामरूपधृक् 5005001c विचचार कपिर्लङ्कां लाघवेन समन्वितः 5005002a आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् 5005002c प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् 5005003a रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् 5005003c समीक्षमाणो भवनं चकाशे कपिकुञ्जरः 5005004a रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः 5005004c विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् 5005005a गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः 5005005c उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः 5005006a सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः 5005006c घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः 5005007a बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् 5005007c महारथसमावासं महारथमहासनम् 5005008a दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः 5005008c विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः 5005009a विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् 5005009c मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः 5005010a मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम् 5005010c वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम् 5005011a तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः 5005011c भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम् 5005012a नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा 5005012c समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् 5005013a महात्मानो महद्वेश्म महारत्नपरिच्छदम् 5005013c महाजनसमाकीर्णं ददर्श स महाकपिः 5005014a विराजमानं वपुषा गजाश्वरथसंकुलम् 5005014c लङ्काभरणमित्येव सोऽमन्यत महाकपिः 5005015a गृहाद्गृहं राक्षसानामुद्यानानि च वानरः 5005015c वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः 5005016a अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् 5005016c ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् 5005017a अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् 5005017c विभीषणस्य च तथा पुप्लुवे स महाकपिः 5005018a महोदरस्य च तथा विरूपाक्षस्य चैव हि 5005018c विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च 5005018e वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः 5005019a शुकस्य च महावेगः सारणस्य च धीमतः 5005019c तथा चेन्द्रजितो वेश्म जगाम हरियूथपः 5005020a जम्बुमालेः सुमालेश्च जगाम हरियूथपः 5005020c रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च 5005021a धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः 5005021c विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च 5005022a शुकनाभस्य वक्रस्य शठस्य विकटस्य च 5005022c ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः 5005023a युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः 5005023c विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च 5005024a करालस्य पिशाचस्य शोणिताक्षस्य चैव हि 5005024c क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः 5005025a तेषु तेषु महार्हेषु भवनेषु महायशाः 5005025c तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः 5005026a सर्वेषां समतिक्रम्य भवनानि समन्ततः 5005026c आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् 5005027a रावणस्योपशायिन्यो ददर्श हरिसत्तमः 5005027c विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः 5005027e शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः 5005028a ददर्श विविधान्गुल्मांस्तस्य रक्षःपतेर्गृहे 5005029a रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् 5005029c कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् 5005030a निष्ठितान्गजशिखायामैरावतसमान्युधि 5005030c निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः 5005031a क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् 5005031c मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः 5005032a सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः 5005032c हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः 5005033a ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5005033c शिबिका विविधाकाराः स कपिर्मारुतात्मजः 5005034a लतागृहाणि चित्राणि चित्रशालागृहाणि च 5005034c क्रीडागृहाणि चान्यानि दारुपर्वतकानपि 5005035a कामस्य गृहकं रम्यं दिवागृहकमेव च 5005035c ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने 5005036a स मन्दरतलप्रख्यं मयूरस्थानसंकुलम् 5005036c ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् 5005037a अनन्तरत्ननिचयं निधिजालं समन्ततः 5005037c धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव 5005038a अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च 5005038c विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः 5005039a जाम्बूनदमयान्येव शयनान्यासनानि च 5005039c भाजनानि च शुभ्राणि ददर्श हरियूथपः 5005040a मध्वासवकृतक्लेदं मणिभाजनसंकुलम् 5005040c मनोरममसंबाधं कुबेरभवनं यथा 5005041a नूपुराणां च घोषेण काञ्चीनां निनदेन च 5005041c मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् 5005042a प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् 5005042c सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् 5006001a स वेश्मजालं बलवान्ददर्श; व्यासक्तवैदूर्यसुवर्णजालम् 5006001c यथा महत्प्रावृषि मेघजालं; विद्युत्पिनद्धं सविहंगजालम् 5006002a निवेशनानां विविधाश्च शालाः; प्रधानशङ्खायुधचापशालाः 5006002c मनोहराश्चापि पुनर्विशाला; ददर्श वेश्माद्रिषु चन्द्रशालाः 5006003a गृहाणि नानावसुराजितानि; देवासुरैश्चापि सुपूजितानि 5006003c सर्वैश्च दोषैः परिवर्जितानि; कपिर्ददर्श स्वबलार्जितानि 5006004a तानि प्रयत्नाभिसमाहितानि; मयेन साक्षादिव निर्मितानि 5006004c महीतले सर्वगुणोत्तराणि; ददर्श लङ्काधिपतेर्गृहाणि 5006005a ततो ददर्शोच्छ्रितमेघरूपं; मनोहरं काञ्चनचारुरूपम् 5006005c रक्षोऽधिपस्यात्मबलानुरूपं; गृहोत्तमं ह्यप्रतिरूपरूपम् 5006006a महीतले स्वर्गमिव प्रकीर्णं; श्रिया ज्वलन्तं बहुरत्नकीर्णम् 5006006c नानातरूणां कुसुमावकीर्णं; गिरेरिवाग्रं रजसावकीर्णम् 5006007a नारीप्रवेकैरिव दीप्यमानं; तडिद्भिरम्भोदवदर्च्यमानम् 5006007c हंसप्रवेकैरिव वाह्यमानं; श्रिया युतं खे सुकृतां विमानम् 5006008a यथा नगाग्रं बहुधातुचित्रं; यथा नभश्च ग्रहचन्द्रचित्रम् 5006008c ददर्श युक्तीकृतमेघचित्रं; विमानरत्नं बहुरत्नचित्रम् 5006009a मही कृता पर्वतराजिपूर्णा; शैलाः कृता वृक्षवितानपूर्णाः 5006009c वृक्षाः कृताः पुष्पवितानपूर्णाः; पुष्पं कृतं केसरपत्रपूर्णम् 5006010a कृतानि वेश्मानि च पाण्डुराणि; तथा सुपुष्पा अपि पुष्करिण्यः 5006010c पुनश्च पद्मानि सकेसराणि; धन्यानि चित्राणि तथा वनानि 5006011a पुष्पाह्वयं नाम विराजमानं; रत्नप्रभाभिश्च विवर्धमानम् 5006011c वेश्मोत्तमानामपि चोच्चमानं; महाकपिस्तत्र महाविमानम् 5006012a कृताश्च वैदूर्यमया विहंगा; रूप्यप्रवालैश्च तथा विहंगाः 5006012c चित्राश्च नानावसुभिर्भुजंगा; जात्यानुरूपास्तुरगाः शुभाङ्गाः 5006013a प्रवालजाम्बूनदपुष्पपक्षाः; सलीलमावर्जितजिह्मपक्षाः 5006013c कामस्य साक्षादिव भान्ति पक्षाः; कृता विहंगाः सुमुखाः सुपक्षाः 5006014a नियुज्यमानाश्च गजाः सुहस्ताः; सकेसराश्चोत्पलपत्रहस्ताः 5006014c बभूव देवी च कृता सुहस्ता; लक्ष्मीस्तथा पद्मिनि पद्महस्ता 5006015a इतीव तद्गृहमभिगम्य शोभनं; सविस्मयो नगमिव चारुशोभनम् 5006015c पुनश्च तत्परमसुगन्धि सुन्दरं; हिमात्यये नगमिव चारुकन्दरम् 5006016a ततः स तां कपिरभिपत्य पूजितां; चरन्पुरीं दशमुखबाहुपालिताम् 5006016c अदृश्य तां जनकसुतां सुपूजितां; सुदुःखितां पतिगुणवेगनिर्जिताम् 5006017a ततस्तदा बहुविधभावितात्मनः; कृतात्मनो जनकसुतां सुवर्त्मनः 5006017c अपश्यतोऽभवदतिदुःखितं मनः; सुचक्षुषः प्रविचरतो महात्मनः 5007001a तस्यालयवरिष्ठस्य मध्ये विपुलमायतम् 5007001c ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः 5007002a अर्धयोजनविस्तीर्णमायतं योजनं हि तत् 5007002c भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् 5007003a मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम् 5007003c सर्वतः परिचक्राम हनूमानरिसूदनः 5007004a चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च 5007004c परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः 5007005a राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम् 5007005c आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् 5007006a तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम् 5007006c वायुवेगसमाधूतं पन्नगैरिव सागरम् 5007007a या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने 5007007c सा रावणगृहे सर्वा नित्यमेवानपायिनी 5007008a या च राज्ञः कुबेरस्य यमस्य वरुणस्य च 5007008c तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह 5007009a तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम् 5007009c बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः 5007010a ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा 5007010c विमानं पुष्पकं नाम सर्वरत्नविभूषितम् 5007011a परेण तपसा लेभे यत्कुबेरः पितामहात् 5007011c कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः 5007012a ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः 5007012c सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया 5007013a मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम् 5007013c कूटागारैः शुभाकारैः सर्वतः समलंकृतम् 5007014a ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा 5007014c हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् 5007015a जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि 5007015c इन्द्रनीलमहानीलमणिप्रवरवेदिकम् 5007015e विमानं पुष्पकं दिव्यमारुरोह महाकपिः 5007016a तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम् 5007016c दिव्यं संमूर्छितं जिघ्रन्रूपवन्तमिवानिलम् 5007017a स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् 5007017c इत एहीत्युवाचेव तत्र यत्र स रावणः 5007018a ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम् 5007018c रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् 5007019a मणिसोपानविकृतां हेमजालविराजिताम् 5007019c स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् 5007020a मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि 5007020c विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् 5007021a समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः 5007021c स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव 5007022a महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया 5007022c पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् 5007023a नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् 5007023c परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम् 5007024a धूम्रामगरुधूपेन विमलां हंसपाण्डुराम् 5007024c चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् 5007025a मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम् 5007025c तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव 5007026a इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः 5007026c तर्पयामास मातेव तदा रावणपालिता 5007027a स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् 5007027c सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः 5007028a प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान् 5007028c धूर्तानिव महाधूर्तैर्देवनेन पराजितान् 5007029a दीपानां च प्रकाशेन तेजसा रावणस्य च 5007029c अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत 5007030a ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम् 5007030c सहस्रं वरनारीणां नानावेषविभूषितम् 5007031a परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम् 5007031c क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा 5007032a तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम् 5007032c निःशब्दहंसभ्रमरं यथा पद्मवनं महत् 5007033a तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः 5007033c अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम् 5007034a प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये 5007034c पुनःसंवृतपत्राणि रात्राविव बभुस्तदा 5007035a इमानि मुखपद्मानि नियतं मत्तषट्पदाः 5007035c अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः 5007036a इति वामन्यत श्रीमानुपपत्त्या महाकपिः 5007036c मेने हि गुणतस्तानि समानि सलिलोद्भवैः 5007037a सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता 5007037c शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता 5007038a स च ताभिः परिवृतः शुशुभे राक्षसाधिपः 5007038c यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः 5007039a याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः 5007039c इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा 5007040a ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम् 5007040c प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् 5007041a व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः 5007041c पानव्यायामकालेषु निद्रापहृतचेतसः 5007042a व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः 5007042c पार्श्वे गलितहाराश्च काश्चित्परमयोषितः 5007043a मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः 5007043c व्याविद्धरशना दामाः किशोर्य इव वाहिताः 5007044a सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः 5007044c गजेन्द्रमृदिताः फुल्ला लता इव महावने 5007045a चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुत्कटाः 5007045c हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् 5007046a अपरासां च वैदूर्याः कादम्बा इव पक्षिणः 5007046c हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् 5007047a हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः 5007047c आपगा इव ता रेजुर्जघनैः पुलिनैरिव 5007048a किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः 5007048c भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः 5007049a मृदुष्वङ्गेषु कासांचित्कुचाग्रेषु च संस्थिताः 5007049c बभूवुर्भूषणानीव शुभा भूषणराजयः 5007050a अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः 5007050c उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः 5007051a ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः 5007051c नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे 5007052a ववल्गुश्चात्र कासांचित्कुण्डलानि शुभार्चिषाम् 5007052c मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् 5007053a शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः 5007053c तासां वदननिःश्वासः सिषेवे रावणं तदा 5007054a रावणाननशङ्काश्च काश्चिद्रावणयोषितः 5007054c मुखानि स्म सपत्नीनामुपाजिघ्रन्पुनः पुनः 5007055a अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः 5007055c अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा 5007056a बाहूनुपनिधायान्याः पारिहार्य विभूषिताः 5007056c अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे 5007057a अन्या वक्षसि चान्यस्यास्तस्याः काचित्पुनर्भुजम् 5007057c अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ 5007058a ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः 5007058c परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः 5007059a अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः 5007059c एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः 5007060a अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा 5007060c मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा 5007061a लतानां माधवे मासि फुल्लानां वायुसेवनात् 5007061c अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् 5007062a व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम् 5007062c आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् 5007063a उचितेष्वपि सुव्यक्तं न तासां योषितां तदा 5007063c विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् 5007064a रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः 5007064c ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव 5007065a राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः 5007065c रक्षसां चाभवन्कन्यास्तस्य कामवशं गताः 5007066a न तत्र काचित्प्रमदा प्रसह्य; वीर्योपपन्नेन गुणेन लब्धा 5007066c न चान्यकामापि न चान्यपूर्वा; विना वरार्हां जनकात्मजां तु 5007067a न चाकुलीना न च हीनरूपा; नादक्षिणा नानुपचार युक्ता 5007067c भार्याभवत्तस्य न हीनसत्त्वा; न चापि कान्तस्य न कामनीया 5007068a बभूव बुद्धिस्तु हरीश्वरस्य; यदीदृशी राघवधर्मपत्नी 5007068c इमा यथा राक्षसराजभार्याः; सुजातमस्येति हि साधुबुद्धेः 5007069a पुनश्च सोऽचिन्तयदार्तरूपो; ध्रुवं विशिष्टा गुणतो हि सीता 5007069c अथायमस्यां कृतवान्महात्मा; लङ्केश्वरः कष्टमनार्यकर्म 5008001a तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् 5008001c अवेक्षमाणो हनुमान्ददर्श शयनासनम् 5008002a तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् 5008002c ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् 5008003a बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः 5008003c गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् 5008004a परमास्तरणास्तीर्णमाविकाजिनसंवृतम् 5008004c दामभिर्वरमाल्यानां समन्तादुपशोभितम् 5008005a तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम् 5008005c लोहिताक्षं महाबाहुं महारजतवाससं 5008006a लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना 5008006c संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् 5008007a वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् 5008007c सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् 5008008a क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् 5008008c प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् 5008009a पीत्वाप्युपरतं चापि ददर्श स महाकपिः 5008009c भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् 5008010a निःश्वसन्तं यथा नागं रावणं वानरोत्तमः 5008010c आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् 5008011a अथारोहणमासाद्य वेदिकान्तरमाश्रितः 5008011c सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः 5008012a शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् 5008012c गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् 5008013a काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः 5008013c विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ 5008014a ऐरावतविषाणाग्रैरापीडितकृतव्रणौ 5008014c वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ 5008015a पीनौ समसुजातांसौ संगतौ बलसंयुतौ 5008015c सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ 5008016a संहतौ परिघाकारौ वृत्तौ करिकरोपमौ 5008016c विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ 5008017a शशक्षतजकल्पेन सुशीतेन सुगन्धिना 5008017c चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ 5008018a उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ 5008018c यक्षपन्नगगन्धर्वदेवदानवराविणौ 5008019a ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ 5008019c मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव 5008020a ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः 5008020c शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः 5008021a चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः 5008021c मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः 5008022a तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् 5008022c शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् 5008023a मुक्तामणिविचित्रेण काञ्चनेन विराजता 5008023c मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् 5008024a रक्तचन्दनदिग्धेन तथा हारेण शोभिता 5008024c पीनायतविशालेन वक्षसाभिविराजितम् 5008025a पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् 5008025c महार्हेण सुसंवीतं पीतेनोत्तमवाससा 5008026a माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् 5008026c गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् 5008027a चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् 5008027c प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव 5008028a पादमूलगताश्चापि ददर्श सुमहात्मनः 5008028c पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे 5008029a शशिप्रकाशवदना वरकुण्डलभूषिताः 5008029c अम्लानमाल्याभरणा ददर्श हरियूथपः 5008030a नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः 5008030c वराभरणधारिण्यो निषन्ना ददृशे कपिः 5008031a वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् 5008031c ददर्श तापनीयानि कुण्डलान्यङ्गदानि च 5008032a तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः 5008032c विरराज विमानं तन्नभस्तारागणैरिव 5008033a मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः 5008033c तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः 5008034a काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते 5008034c महानदीप्रकीर्णेव नलिनी पोतमाश्रिता 5008035a अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा 5008035c प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला 5008036a पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी 5008036c चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी 5008037a काचिदंशं परिष्वज्य सुप्ता कमललोचना 5008037c निद्रावशमनुप्राप्ता सहकान्तेव भामिनी 5008038a अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः 5008038c मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना 5008039a भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी 5008039c पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा 5008040a डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा 5008040c प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी 5008041a काचिदाडम्बरं नारी भुजसंभोगपीडितम् 5008041c कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता 5008042a कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी 5008042c वसन्ते पुष्पशबला मालेव परिमार्जिता 5008043a पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ 5008043c उपगूह्याबला सुप्ता निद्राबलपराजिता 5008044a अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना 5008044c अन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला 5008045a आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः 5008045c निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव 5008046a तासामेकान्तविन्यस्ते शयानां शयने शुभे 5008046c ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् 5008047a मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् 5008047c विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् 5008048a गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् 5008048c कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् 5008049a स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः 5008049c तर्कयामास सीतेति रूपयौवनसंपदा 5008049e हर्षेण महता युक्तो ननन्द हरियूथपः 5008050a आस्फोटयामास चुचुम्ब पुच्छं; ननन्द चिक्रीड जगौ जगाम 5008050c स्तम्भानरोहन्निपपात भूमौ; निदर्शयन्स्वां प्रकृतिं कपीनाम् 5009001a अवधूय च तां बुद्धिं बभूवावस्थितस्तदा 5009001c जगाम चापरां चिन्तां सीतां प्रति महाकपिः 5009002a न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी 5009002c न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् 5009003a नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् 5009003c न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि 5009003e अन्येयमिति निश्चित्य पानभूमौ चचार सः 5009004a क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः 5009004c नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा 5009005a मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः 5009005c तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः 5009006a अङ्गनानां सहस्रेण भूषितेन विभूषणैः 5009006c रूपसंलापशीलेन युक्तगीतार्थभाषिणा 5009007a देशकालाभियुक्तेन युक्तवाक्याभिधायिना 5009007c रताभिरतसंसुप्तं ददर्श हरियूथपः 5009008a तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः 5009008c गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः 5009009a स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् 5009009c करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः 5009010a सर्वकामैरुपेतां च पानभूमिं महात्मनः 5009010c ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे 5009011a मृगाणां महिषाणां च वराहाणां च भागशः 5009011c तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः 5009012a रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् 5009012c ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा 5009013a वराहवार्ध्राणसकान्दधिसौवर्चलायुतान् 5009013c शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत 5009014a कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् 5009014c महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् 5009014e लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च 5009015a तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः 5009015c हार नूपुरकेयूरैरपविद्धैर्महाधनैः 5009016a पानभाजनविक्षिप्तैः फलैश्च विविधैरपि 5009016c कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् 5009017a तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः 5009017c पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते 5009018a बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः 5009018c मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् 5009019a दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि 5009019c शर्करासवमाध्वीकाः पुष्पासवफलासवाः 5009019e वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् 5009020a संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः 5009020c हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि 5009020e जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता 5009021a राजतेषु च कुम्भेषु जाम्बूनदमयेषु च 5009021c पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह 5009022a सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च 5009022c राजतानि च पूर्णानि भाजनानि महाकपिः 5009023a क्वचिदर्धावशेषाणि क्वचित्पीतानि सर्वशः 5009023c क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह 5009024a क्वचिद्भक्ष्यांश्च विविधान्क्वचित्पानानि भागशः 5009024c क्वचिदन्नावशेषाणि पश्यन्वै विचचार ह 5009025a क्वचित्प्रभिन्नैः करकैः क्वचिदालोडितैर्घटैः 5009025c क्वचित्संपृक्तमाल्यानि जलानि च फलानि च 5009026a शयनान्यत्र नारीणां शून्यानि बहुधा पुनः 5009026c परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः 5009027a काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च 5009027c उपगम्याबला सुप्ता निद्राबलपराजिता 5009028a तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् 5009028c नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् 5009029a चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च 5009029c विविधस्य च माल्यस्य पुष्पस्य विविधस्य च 5009030a बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् 5009030c स्नानानां चन्दनानां च धूपानां चैव मूर्छितः 5009030e प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा 5009031a श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः 5009031c काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये 5009032a तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् 5009032c पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि 5009033a एवं सर्वमशेषेण रावणान्तःपुरं कपिः 5009033c ददर्श सुमहातेजा न ददर्श च जानकीम् 5009034a निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः 5009034c जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः 5009035a परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् 5009035c इदं खलु ममात्यर्थं धर्मलोपं करिष्यति 5009036a न हि मे परदाराणां दृष्टिर्विषयवर्तिनी 5009036c अयं चात्र मया दृष्टः परदारपरिग्रहः 5009037a तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः 5009037c निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी 5009038a कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः 5009038c न तु मे मनसः किंचिद्वैकृत्यमुपपद्यते 5009039a मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते 5009039c शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् 5009040a नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् 5009040c स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे 5009041a यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते 5009041c न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् 5009042a तदिदं मार्गितं तावच्छुद्धेन मनसा मया 5009042c रावणान्तःपुरं सरं दृश्यते न च जानकी 5009043a देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् 5009043c अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् 5009044a तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः 5009044c अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे 5010001a स तस्य मध्ये भवनस्य वानरो; लतागृहांश्चित्रगृहान्निशागृहान् 5010001c जगाम सीतां प्रति दर्शनोत्सुको; न चैव तां पश्यति चारुदर्शनाम् 5010002a स चिन्तयामास ततो महाकपिः; प्रियामपश्यन्रघुनन्दनस्य ताम् 5010002c ध्रुवं नु सीता म्रियते यथा न मे; विचिन्वतो दर्शनमेति मैथिली 5010003a सा राक्षसानां प्रवरेण बाला; स्वशीलसंरक्षण तत्परा सती 5010003c अनेन नूनं प्रतिदुष्टकर्मणा; हता भवेदार्यपथे परे स्थिता 5010004a विरूपरूपा विकृता विवर्चसो; महानना दीर्घविरूपदर्शनाः 5010004c समीक्ष्य सा राक्षसराजयोषितो; भयाद्विनष्टा जनकेश्वरात्मजा 5010005a सीतामदृष्ट्वा ह्यनवाप्य पौरुषं; विहृत्य कालं सह वानरैश्चिरम् 5010005c न मेऽस्ति सुग्रीवसमीपगा गतिः; सुतीक्ष्णदण्डो बलवांश्च वानरः 5010006a दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः 5010006c न सीता दृश्यते साध्वी वृथा जातो मम श्रमः 5010007a किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः 5010007c गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः 5010008a अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् 5010008c ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने 5010009a किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः 5010009c गतं पारं समुद्रस्य वानराश्च समागताः 5010010a अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् 5010010c भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः 5010011a अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः 5010011c करोति सफलं जन्तोः कर्म यच्च करोति सः 5010012a तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् 5010012c अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् 5010013a आपानशालाविचितास्तथा पुष्पगृहाणि च 5010013c चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च 5010014a निष्कुटान्तररथ्याश्च विमानानि च सर्वशः 5010014c इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे 5010015a भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि 5010015c उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित् 5010016a अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् 5010016c प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि 5010016e सर्वमप्यवकाशं स विचचार महाकपिः 5010017a चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते 5010017c रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः 5010018a प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः 5010018c श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् 5010019a राक्षस्यो विविधाकारा विरूपा विकृतास्तथा 5010019c दृष्टा हनूमता तत्र न तु सा जनकात्मजा 5010020a रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः 5010020c दृष्टा हनूमता तत्र न तु राघवनन्दिनी 5010021a नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः 5010021c दृष्टा हनूमता तत्र न तु सीता सुमध्यमा 5010022a प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः 5010022c दृष्टा हनूमता तत्र न सा जनकनन्दिनी 5010023a सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः 5010023c विषसाद महाबाहुर्हनूमान्मारुतात्मजः 5010024a उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च 5010024c व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् 5010025a अवतीर्य विमानाच्च हनूमान्मारुतात्मजः 5010025c चिन्तामुपजगामाथ शोकोपहतचेतनः 5011001a विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः 5011001c हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे 5011002a संपरिक्रम्य हनुमान्रावणस्य निवेशनान् 5011002c अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः 5011003a भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् 5011003c न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् 5011004a पल्वलानि तटाकानि सरांसि सरितस्तथा 5011004c नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः 5011004e लोडिता वसुधा सर्वा न च पश्यामि जानकीम् 5011005a इह संपातिना सीता रावणस्य निवेशने 5011005c आख्याता गृध्रराजेन न च पश्यामि तामहम् 5011006a किं नु सीताथ वैदेही मैथिली जनकात्मजा 5011006c उपतिष्ठेत विवशा रावणं दुष्टचारिणम् 5011007a क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः 5011007c बिभ्यतो रामबाणानामन्तरा पतिता भवेत् 5011008a अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते 5011008c मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् 5011009a रावणस्योरुवेगेन भुजाभ्यां पीडितेन च 5011009c तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया 5011010a उपर्युपरि वा नूनं सागरं क्रमतस्तदा 5011010c विवेष्टमाना पतिता समुद्रे जनकात्मजा 5011011a आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः 5011011c अबन्धुर्भक्षिता सीता रावणेन तपस्विनी 5011012a अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा 5011012c अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति 5011013a संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् 5011013c रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता 5011014a हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली 5011014c विलप्य बहु वैदेही न्यस्तदेहा भविष्यति 5011015a अथ वा निहिता मन्ये रावणस्य निवेशने 5011015c नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका 5011016a जनकस्य कुले जाता रामपत्नी सुमध्यमा 5011016c कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् 5011017a विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा 5011017c रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् 5011018a निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने 5011018c कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे 5011019a अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम् 5011019c भवेदिति मतिं भूयो हनुमान्प्रविचारयन् 5011020a यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः 5011020c गमिष्यामि ततः को मे पुरुषार्थो भविष्यति 5011021a ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति 5011021c प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् 5011022a किं वा वक्ष्यति सुग्रीवो हरयो व समागताः 5011022c किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ 5011023a गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् 5011023c न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् 5011024a परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् 5011024c सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति 5011025a तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं 5011025c भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः 5011026a विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति 5011026c भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति 5011027a पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः 5011027c कौसल्या च सुमित्रा च कैकेयी च न संशयः 5011028a कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः 5011028c रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् 5011029a दुर्मना व्यथिता दीना निरानन्दा तपस्विनी 5011029c पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् 5011030a वालिजेन तु दुःखेन पीडिता शोककर्शिता 5011030c पञ्चत्वगमने राज्ञस्तारापि न भविष्यति 5011031a मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च 5011031c कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् 5011032a भर्तृजेन तु शोकेन अभिभूता वनौकसः 5011032c शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च 5011033a सान्त्वेनानुप्रदानेन मानेन च यशस्विना 5011033c लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः 5011034a न वनेषु न शैलेषु न निरोधेषु वा पुनः 5011034c क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः 5011035a सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः 5011035c शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च 5011036a विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा 5011036c उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः 5011037a घोरमारोदनं मन्ये गते मयि भविष्यति 5011037c इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् 5011038a सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः 5011038c न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना 5011039a मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ 5011039c आशया तौ धरिष्येते वनराश्च मनस्विनः 5011040a हस्तादानो मुखादानो नियतो वृक्षमूलिकः 5011040c वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् 5011041a सागरानूपजे देशे बहुमूलफलोदके 5011041c चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् 5011042a उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः 5011042c शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च 5011043a इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः 5011043c सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् 5011044a सुजातमूला सुभगा कीर्तिमालायशस्विनी 5011044c प्रभग्ना चिररात्रीयं मम सीतामपश्यतः 5011045a तापसो वा भविष्यामि नियतो वृक्षमूलिकः 5011045c नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् 5011046a यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् 5011046c अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति 5011047a विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् 5011047c तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति संगमः 5011048a एवं बहुविधं दुःखं मनसा धारयन्मुहुः 5011048c नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः 5011049a रावणं वा वधिष्यामि दशग्रीवं महाबलम् 5011049c काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति 5011050a अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम् 5011050c रामायोपहरिष्यामि पशुं पशुपतेरिव 5011051a इति चिन्ता समापन्नः सीतामनधिगम्य ताम् 5011051c ध्यानशोका परीतात्मा चिन्तयामास वानरः 5011052a यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् 5011052c तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः 5011053a संपाति वचनाच्चापि रामं यद्यानयाम्यहम् 5011053c अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् 5011054a इहैव नियताहारो वत्स्यामि नियतेन्द्रियः 5011054c न मत्कृते विनश्येयुः सर्वे ते नरवानराः 5011055a अशोकवनिका चापि महतीयं महाद्रुमा 5011055c इमामभिगमिष्यामि न हीयं विचिता मया 5011056a वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च 5011056c नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः 5011057a जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् 5011057c संप्रदास्यामि रामाया यथासिद्धिं तपस्विने 5011058a स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः 5011058c उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः 5011059a नमोऽस्तु रामाय सलक्ष्मणाय; देव्यै च तस्यै जनकात्मजायै 5011059c नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो; नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः 5011060a स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः 5011060c दिशः सर्वाः समालोक्य अशोकवनिकां प्रति 5011061a स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् 5011061c उत्तरं चिन्तयामास वानरो मारुतात्मजः 5011062a ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला 5011062c अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता 5011063a रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् 5011063c भगवानपि सर्वात्मा नातिक्षोभं प्रवायति 5011064a संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च 5011064c सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह 5011065a ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे 5011065c सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् 5011066a वरुणः पाशहस्तश्च सोमादित्यै तथैव च 5011066c अश्विनौ च महात्मानौ मरुतः सर्व एव च 5011067a सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः 5011067c दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः 5011068a तदुन्नसं पाण्डुरदन्तमव्रणं; शुचिस्मितं पद्मपलाशलोचनम् 5011068c द्रक्ष्ये तदार्यावदनं कदा न्वहं; प्रसन्नताराधिपतुल्यदर्शनम् 5011069a क्षुद्रेण पापेन नृशंसकर्मणा; सुदारुणालांकृतवेषधारिणा 5011069c बलाभिभूता अबला तपस्विनी; कथं नु मे दृष्टपथेऽद्य सा भवेत् 5012001a स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् 5012001c अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः 5012002a स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः 5012002c पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् 5012003a सालानशोकान्भव्यांश्च चम्पकांश्च सुपुष्पितान् 5012003c उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि 5012004a अथाम्रवणसंछन्नां लताशतसमावृताम् 5012004c ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् 5012005a स प्रविष्य विचित्रां तां विहगैरभिनादिताम् 5012005c राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् 5012006a विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम् 5012006c उदितादित्यसंकाशां ददर्श हनुमान्कपिः 5012007a वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः 5012007c कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् 5012008a प्रहृष्टमनुजे कले मृगपक्षिसमाकुले 5012008c मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् 5012009a मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् 5012009c सुखप्रसुप्तान्विहगान्बोधयामास वानरः 5012010a उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः 5012010c अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः 5012011a पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः 5012011c अशोकवनिकामध्ये यथा पुष्पमयो गिरिः 5012012a दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् 5012012c दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे 5012013a वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः 5012013c रराज वसुधा तत्र प्रमदेव विभूषिता 5012014a तरस्विना ते तरवस्तरसाभिप्रकम्पिताः 5012014c कुसुमानि विचित्राणि ससृजुः कपिना तदा 5012015a निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः 5012015c निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः 5012016a हनूमता वेगवता कम्पितास्ते नगोत्तमाः 5012016c पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः 5012017a विहंगसंघैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः 5012017c बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः 5012018a विधूतकेशी युवतिर्यथा मृदितवर्णिका 5012018c निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता 5012019a तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता 5012019c बभूवाशोकवनिका प्रभग्नवरपादपा 5012020a महालतानां दामानि व्यधमत्तरसा कपिः 5012020c यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः 5012021a स तत्र मणिभूमीश्च राजतीश्च मनोरमाः 5012021c तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः 5012022a वापीश्च विविधाकाराः पूर्णाः परमवारिणा 5012022c महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः 5012023a मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः 5012023c काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः 5012024a फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः 5012024c नत्यूहरुतसंघुष्टा हंससारसनादिताः 5012025a दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः 5012025c अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः 5012026a लताशतैरवतताः सन्तानकसमावृताः 5012026c नानागुल्मावृतवनाः करवीरकृतान्तराः 5012027a ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् 5012027c विचित्रकूटं कूटैश्च सर्वतः परिवारितम् 5012028a शिलागृहैरवततं नानावृक्षैः समावृतम् 5012028c ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् 5012029a ददर्श च नगात्तस्मान्नदीं निपतितां कपिः 5012029c अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् 5012030a जले निपतिताग्रैश्च पादपैरुपशोभिताम् 5012030c वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः 5012031a पुनरावृत्ततोयां च ददर्श स महाकपिः 5012031c प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् 5012032a तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः 5012032c ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः 5012033a कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा 5012033c मणिप्रवरसोपानां मुक्तासिकतशोभिताम् 5012034a विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम् 5012034c प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा 5012034e काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् 5012035a ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः 5012035c सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः 5012036a लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् 5012036c काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः 5012037a सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च 5012037c सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् 5012038a तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः 5012038c अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः 5012039a तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् 5012039c किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् 5012040a सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् 5012040c तामारुह्य महावेगः शिंशपां पर्णसंवृताम् 5012041a इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् 5012041c इतश्चेतश्च दुःखार्तां संपतन्तीं यदृच्छया 5012042a अशोकवनिका चेयं दृढं रम्या दुरात्मनः 5012042c चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता 5012043a इयं च नलिनी रम्या द्विजसंघनिषेविता 5012043c इमां सा राममहिषी नूनमेष्यति जानकी 5012044a सा राम राममहिषी राघवस्य प्रिया सदा 5012044c वनसंचारकुशला नूनमेष्यति जानकी 5012045a अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा 5012045c वनमेष्यति सा चेह रामचिन्तानुकर्शिता 5012046a रामशोकाभिसंतप्ता सा देवी वामलोचना 5012046c वनवासरता नित्यमेष्यते वनचारिणी 5012047a वनेचराणां सततं नूनं स्पृहयते पुरा 5012047c रामस्य दयिता भार्या जनकस्य सुता सती 5012048a संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी 5012048c नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी 5012049a तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा 5012049c शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता 5012050a यदि जिवति सा देवी ताराधिपनिभानना 5012050c आगमिष्यति सावश्यमिमां शिवजलां नदीम् 5012051a एवं तु मत्वा हनुमान्महात्मा; प्रतीक्षमाणो मनुजेन्द्रपत्नीम् 5012051c अवेक्षमाणश्च ददर्श सर्वं; सुपुष्पिते पर्णघने निलीनः 5013001a स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् 5013001c अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत 5013002a सन्तान कलताभिश्च पादपैरुपशोभिताम् 5013002c दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् 5013003a तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् 5013003c हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम् 5013004a काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् 5013004c बह्वासनकुथोपेतां बहुभूमिगृहायुताम् 5013005a सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः 5013005c पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् 5013006a प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत 5013006c निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् 5013006e विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः 5013007a आमूलपुष्पनिचितैरशोकैः शोकनाशनैः 5013007c पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् 5013008a कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः 5013008c स देशः प्रभया तेषां प्रदीप्त इव सर्वतः 5013009a पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा 5013009c विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः 5013010a शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः 5013010c नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः 5013011a नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा 5013011c अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् 5013012a द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् 5013012c पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा 5013013a सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः 5013013c नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः 5013014a अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् 5013014c शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् 5013015a अशोकवनिकायां तु तस्यां वानरपुंगवः 5013015c स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् 5013016a मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् 5013016c प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् 5013017a मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया 5013017c विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् 5013018a ततो मलिनसंवीतां राक्षसीभिः समावृताम् 5013018c उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः 5013018e ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् 5013019a मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् 5013019c पिनद्धां धूमजालेन शिखामिव विभावसोः 5013020a पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा 5013020c सपङ्कामनलंकारां विपद्मामिव पद्मिनीम् 5013021a व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् 5013021c ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् 5013022a अश्रुपूर्णमुखीं दीनां कृशामननशेन च 5013022c शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् 5013023a प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् 5013023c स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव 5013024a नीलनागाभया वेण्या जघनं गतयैकया 5013024c सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम् 5013025a तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् 5013025c तर्कयामास सीतेति कारणैरुपपादिभिः 5013026a ह्रियमाणा तदा तेन रक्षसा कामरूपिणा 5013026c यथारूपा हि दृष्टा वै तथारूपेयमङ्गना 5013027a पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् 5013027c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 5013028a तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् 5013028c सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा 5013029a इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव 5013029c भूमौ सुतनुमासीनां नियतामिव तापसीम् 5013030a निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव 5013030c शोकजालेन महता विततेन न राजतीम् 5013031a संसक्तां धूमजालेन शिखामिव विभावसोः 5013031c तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव 5013032a विहतामिव च श्रद्धामाशां प्रतिहतामिव 5013032c सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव 5013033a अभूतेनापवादेन कीर्तिं निपतितामिव 5013033c रामोपरोधव्यथितां रक्षोहरणकर्शिताम् 5013034a अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः 5013034c बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा 5013034e वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः 5013035a मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् 5013035c प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् 5013036a तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु 5013036c आम्नायानामयोगेन विद्यां प्रशिथिलामिव 5013037a दुःखेन बुबुधे सीतां हनुमाननलंकृताम् 5013037c संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् 5013038a तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् 5013038c तर्कयामास सीतेति कारणैरुपपादयन् 5013039a वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् 5013039c तान्याभरणजालानि गात्रशोभीन्यलक्षयत् 5013040a सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ 5013040c मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च 5013041a श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च 5013041c तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् 5013042a तत्र यान्यवहीनानि तान्यहं नोपलक्षये 5013042c यान्यस्या नावहीनानि तानीमानि न संशयः 5013043a पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् 5013043c उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः 5013044a भूषणानि च मुख्यानि दृष्टानि धरणीतले 5013044c अनयैवापविद्धानि स्वनवन्ति महान्ति च 5013045a इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् 5013045c तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् 5013046a इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया 5013046c प्रनष्टापि सती यस्य मनसो न प्रणश्यति 5013047a इयं सा यत्कृते रामश्चतुर्भिः परितप्यते 5013047c कारुण्येनानृशंस्येन शोकेन मदनेन च 5013048a स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः 5013048c पत्नी नष्टेति शोकेन प्रियेति मदनेन च 5013049a अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् 5013049c रामस्य च यथारूपं तस्येयमसितेक्षणा 5013050a अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् 5013050c तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति 5013051a दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् 5013051c सीतां विना महाबाहुर्मुहूर्तमपि जीवति 5013052a एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः 5013052c जगाम मनसा रामं प्रशशंस च तं प्रभुम् 5014001a प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः 5014001c गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् 5014002a स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः 5014002c सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह 5014003a मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया 5014003c यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः 5014004a रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः 5014004c नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे 5014005a तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् 5014005c राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा 5014006a तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् 5014006c जगाम मनसा रामं वचनं चेदमब्रवीत् 5014007a अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः 5014007c रावणप्रतिमो वीर्ये कबन्धश्च निपातितः 5014008a विराधश्च हतः संख्ये राक्षसो भीमविक्रमः 5014008c वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः 5014009a चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् 5014009c निहतानि जनस्थाने शरैरग्निशिखोपमैः 5014010a खरश्च निहतः संख्ये त्रिशिराश्च निपातितः 5014010c दूषणश्च महातेजा रामेण विदितात्मना 5014011a ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् 5014011c अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम् 5014012a सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः 5014012c अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता 5014013a यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् 5014013c अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः 5014014a राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा 5014014c त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् 5014015a इयं सा धर्मशीलस्य मैथिलस्य महात्मनः 5014015c सुता जनकराजस्य सीता भर्तृदृढव्रता 5014016a उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते 5014016c पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः 5014017a विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः 5014017c स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी 5014018a धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः 5014018c इयं सा दयिता भार्या राक्षसी वशमागता 5014019a सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता 5014019c अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् 5014020a संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता 5014020c या परां भजते प्रीतिं वनेऽपि भवने यथा 5014021a सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी 5014021c सहते यातनामेतामनर्थानामभागिनी 5014022a इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः 5014022c रावणेन प्रमथितां प्रपामिव पिपासितः 5014023a अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति 5014023c राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् 5014024a कामभोगैः परित्यक्ता हीना बन्धुजनेन च 5014024c धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी 5014025a नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् 5014025c एकस्थहृदया नूनं राममेवानुपश्यति 5014026a भर्ता नाम परं नार्या भूषणं भूषणादपि 5014026c एषा हि रहिता तेन शोभनार्हा न शोभते 5014027a दुष्करं कुरुते रामो हीनो यदनया प्रभुः 5014027c धारयत्यात्मनो देहं न दुःखेनावसीदति 5014028a इमामसितकेशान्तां शतपत्रनिभेक्षणाम् 5014028c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः 5014029a क्षितिक्षमा पुष्करसंनिभाक्षी; या रक्षिता राघवलक्ष्मणाभ्याम् 5014029c सा राक्षसीभिर्विकृतेक्षणाभिः; संरक्ष्यते संप्रति वृक्षमूले 5014030a हिमहतनलिनीव नष्टशोभा; व्यसनपरम्परया निपीड्यमाना 5014030c सहचररहितेव चक्रवाकी; जनकसुता कृपणां दशां प्रपन्ना 5014031a अस्या हि पुष्पावनताग्रशाखाः; शोकं दृढं वै जनयत्यशोकाः 5014031c हिमव्यपायेन च मन्दरश्मि;रभ्युत्थितो नैकसहस्ररश्मिः 5014032a इत्येवमर्थं कपिरन्ववेक्ष्य; सीतेयमित्येव निविष्टबुद्धिः 5014032c संश्रित्य तस्मिन्निषसाद वृक्षे; बली हरीणामृषभस्तरस्वी 5015001a ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् 5015001c प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् 5015002a साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः 5015002c चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् 5015003a स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् 5015003c शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि 5015004a दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः 5015004c स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः 5015005a एकाक्षीमेककर्णां च कर्णप्रावरणां तथा 5015005c अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् 5015006a अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् 5015006c ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् 5015007a लम्बकर्णललाटां च लम्बोदरपयोधराम् 5015007c लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् 5015008a ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा 5015008c करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् 5015009a विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः 5015009c कालायसमहाशूलकूटमुद्गरधारिणीः 5015010a वराहमृगशार्दूलमहिषाजशिवा मुखाः 5015010c गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः 5015011a एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः 5015011c गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः 5015012a अनासा अतिनासाश्च तिर्यन्नासा विनासिकाः 5015012c गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः 5015013a हस्तिपादा महापादा गोपादाः पादचूलिकाः 5015013c अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः 5015014a अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा 5015014c अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः 5015015a हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः 5015015c शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः 5015016a कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः 5015016c पिबन्तीः सततं पानं सदा मांससुराप्रियाः 5015017a मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः 5015017c ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः 5015018a स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् 5015018c तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् 5015019a लक्षयामास लक्ष्मीवान्हनूमाञ्जनकात्मजाम् 5015019c निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् 5015020a क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव 5015020c चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् 5015021a भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् 5015021c राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् 5015022a वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव 5015022c चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम् 5015023a क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् 5015023c सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे 5015024a अशोकवनिकामध्ये शोकसागरमाप्लुताम् 5015024c ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् 5015024c ददर्श हनुमान्देवीं लतामकुसुमामिव 5015025a सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता 5015025c मृणाली पङ्कदिग्धेव विभाति च न भाति च 5015026a मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् 5015026c संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः 5015027a तां देवीं दीनवदनामदीनां भर्तृतेजसा 5015027c रक्षितां स्वेन शीलेन सीतामसितलोचनाम् 5015028a तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम् 5015028c मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः 5015029a दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणः 5015029c संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् 5015030a तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् 5015031c प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् 5015031a हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् 5015031c मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् 5015032a नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् 5015032c सीतादर्शनसंहृष्टो हनूमान्संवृतोऽभवत् 5016001a तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् 5016001c विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाभवत् 5016002a षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् 5016002c शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् 5016003a अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः 5016003c प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः 5016004a विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् 5016004c स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् 5016005a भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः 5016005c न स तं राक्षसः कामं शशाकात्मनि गूहितुम् 5016006a स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् 5016006c तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः 5016007a वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् 5016007c सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् 5016008a ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः 5016008c वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः 5016009a नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् 5016009c अशोकवनिकामेव प्राविशत्संततद्रुमाम् 5016010a अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् 5016010c महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः 5016011a दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः 5016011c बालव्यजनहस्ताश्च तालवृन्तानि चापराः 5016012a काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः 5016012c मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः 5016013a काचिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी 5016013c दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना 5016014a राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् 5016014c सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ 5016015a निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः 5016015c अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव 5016016a ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् 5016016c शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः 5016017a तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् 5016017c द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः 5016018a दीपिकाभिरनेकाभिः समन्तादवभासितम् 5016018c गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः 5016019a कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् 5016019c समक्षमिव कन्दर्पमपविद्ध शरासनम् 5016020a मथितामृतफेनाभमरजो वस्त्रमुत्तमम् 5016020c सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे 5016021a तं पत्रविटपे लीनः पत्रपुष्पघनावृतः 5016021c समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे 5016022a अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः 5016022c रूपयौवनसंपन्ना रावणस्य वरस्त्रियः 5016023a ताभिः परिवृतो राजा सुरूपाभिर्महायशाः 5016023c तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् 5016024a क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः 5016024c तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः 5016025a वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः 5016025c तं ददर्श महातेजास्तेजोवन्तं महाकपिः 5016026a रावणोऽयं महाबाहुरिति संचिन्त्य वानरः 5016026c अवप्लुतो महातेजा हनूमान्मारुतात्मजः 5016027a स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा 5016027c पत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् 5016028a स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् 5016028c दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः 5017001a तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता 5017001c रूपयौवनसंपन्नं भूषणोत्तमभूषितम् 5017002a ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् 5017002c प्रावेपत वरारोहा प्रवाते कदली यथा 5017003a ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ 5017003c उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी 5017004a दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः 5017004c ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे 5017005a असंवृतायामासीनां धरण्यां संशितव्रताम् 5017005c छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः 5017005e मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् 5017006a समीपं राजसिंहस्य रामस्य विदितात्मनः 5017006c संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः 5017007a शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् 5017007c दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् 5017008a वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव 5017008c धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना 5017009a वृत्तशीले कुले जातामाचारवति धार्मिके 5017009c पुनः संस्कारमापन्नां जातमिव च दुष्कुले 5017010a सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् 5017010c प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव 5017011a आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव 5017011c दीप्तामिव दिशं काले पूजामपहृतामिव 5017012a पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव 5017012c प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम् 5017013a वेदीमिव परामृष्टां शान्तामग्निशिखामिव 5017013c पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् 5017014a उत्कृष्टपर्णकमलां वित्रासितविहंगमाम् 5017014c हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव 5017015a पतिशोकातुरां शुष्कां नदीं विस्रावितामिव 5017015c परया मृजया हीनां कृष्णपक्षे निशामिव 5017016a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 5017016c तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् 5017017a गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् 5017017c निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव 5017018a एकया दीर्घया वेण्या शोभमानामयत्नतः 5017018c नीलया नीरदापाये वनराज्या महीमिव 5017019a उपवासेन शोकेन ध्यानेन च भयेन च 5017019c परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् 5017020a आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव 5017020c भावेन रघुमुख्यस्य दशग्रीवपराभवम् 5017021a समीक्षमाणां रुदतीमनिन्दितां; सुपक्ष्मताम्रायतशुक्ललोचनाम् 5017021c अनुव्रतां राममतीव मैथिलीं; प्रलोभयामास वधाय रावणः 5018001a स तां परिवृतां दीनां निरानन्दां तपस्विनीम् 5018001c साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः 5018002a मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् 5018002c अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि 5018003a कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये 5018003c सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे 5018004a नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः 5018004c व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् 5018005a स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः 5018005c गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा 5018006a एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि 5018006c कामं कामः शरीरे मे यथाकामं प्रवर्तताम् 5018007a देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये 5018007c प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा 5018008a एकवेणी धराशय्या ध्यानं मलिनमम्बरम् 5018008c अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते 5018009a विचित्राणि च माल्यानि चन्दनान्यगरूणि च 5018009c विविधानि च वासांसि दिव्यान्याभरणानि च 5018010a महार्हाणि च पानानि यानानि शयनानि च 5018010c गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि 5018011a स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् 5018011c मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे 5018012a इदं ते चारुसंजातं यौवनं व्यतिवर्तते 5018012c यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव 5018013a त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् 5018013c न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने 5018014a त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् 5018014c कः पुमानतिवर्तेत साक्षादपि पितामहः 5018015a यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने 5018015c तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते 5018016a भव मैथिलि भार्या मे मोहमेनं विसर्जय 5018016c बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव 5018017a लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे 5018017c तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते 5018018a विजित्य पृथिवीं सर्वां नानानगरमालिनीम् 5018018c जनकाय प्रदास्यामि तव हेतोर्विलासिनि 5018019a नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् 5018019c पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे 5018020a असकृत्संयुगे भग्ना मया विमृदितध्वजाः 5018020c अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः 5018021a इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् 5018021c सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च 5018021e साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा 5018022a प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने 5018022c भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च 5018022e यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च 5018023a ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च 5018023c मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव 5018024a ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे 5018024c किं करिष्यसि रामेण सुभगे चीरवाससा 5018025a निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः 5018025c व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा 5018026a न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते 5018026c पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् 5018027a न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः 5018027c हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव 5018028a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 5018028c मनो हरसि मे भीरु सुपर्णः पन्नगं यथा 5018029a क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् 5018029c तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् 5018030a अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः 5018030c यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि 5018031a मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः 5018031c तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा 5018032a यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च 5018032c तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् 5018033a न रामस्तपसा देवि न बलेन न विक्रमैः 5018033c न धनेन मया तुल्यस्तेजसा यशसापि वा 5018034a पिब विहर रमस्व भुङ्क्ष्व भोगा;न्धननिचयं प्रदिशामि मेदिनीं च 5018034c मयि लल ललने यथासुखं त्वं; त्वयि च समेत्य ललन्तु बान्धवास्ते 5018035a कुसुमिततरुजालसंततानि; भ्रमरयुतानि समुद्रतीरजानि 5018035c कनकविमलहारभूषिताङ्गी; विहर मया सह भीरु काननानि 5019001a तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः 5019001c आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः 5019002a दुःखार्ता रुदती सीता वेपमाना तपस्विनी 5019002c चिन्तयन्ती वरारोहा पतिमेव पतिव्रता 5019003a तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता 5019003c निवर्तय मनो मत्तः स्वजने क्रियतां मनः 5019004a न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् 5019004c अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् 5019004e कुलं संप्राप्तया पुण्यं कुले महति जातया 5019005a एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी 5019005c राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् 5019006a नाहमौपयिकी भार्या परभार्या सती तव 5019006c साधु धर्ममवेक्षस्व साधु साधुव्रतं चर 5019007a यथा तव तथान्येषां रक्ष्या दारा निशाचर 5019007c आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् 5019008a अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् 5019008c नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् 5019009a इह सन्तो न वा सन्ति सतो वा नानुवर्तसे 5019009c वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः 5019010a अकृतात्मानमासाद्य राजानमनये रतम् 5019010c समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च 5019011a तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला 5019011c अपराधात्तवैकस्य नचिराद्विनशिष्यति 5019012a स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः 5019012c अभिनन्दन्ति भूतानि विनाशे पापकर्मणः 5019013a एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः 5019013c दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः 5019014a शक्या लोभयितुं नाहमैश्वर्येण धनेन वा 5019014c अनन्या राघवेणाहं भास्करेण प्रभा यथा 5019015a उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् 5019015c कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् 5019016a अहमौपयिकी भार्या तस्यैव वसुधापतेः 5019016c व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः 5019017a साधु रावण रामेण मां समानय दुःखिताम् 5019017c वने वाशितया सार्धं करेण्वेव गजाधिपम् 5019018a मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता 5019018c वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः 5019019a वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् 5019019c त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः 5019020a रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् 5019020c शतक्रतुविसृष्टस्य निर्घोषमशनेरिव 5019021a इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः 5019021c इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः 5019022a रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः 5019022c असंपातं करिष्यन्ति पतन्तः कङ्कवाससः 5019023a राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् 5019023c उद्धरिष्यति वेगेन वैनतेय इवोरगान् 5019024a अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः 5019024c असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः 5019025a जनस्थाने हतस्थाने निहते रक्षसां बले 5019025c अशक्तेन त्वया रक्षः कृतमेतदसाधु वै 5019026a आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः 5019026c गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम 5019027a न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया 5019027c शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव 5019028a तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् 5019028c वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः 5019029a क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह 5019029c तोयमल्पमिवादित्यः प्राणानादास्यते शरैः 5019030a गिरिं कुबेरस्य गतोऽथ वालयं; सभां गतो वा वरुणस्य राज्ञः 5019030c असंशयं दाशरथेर्न मोक्ष्यसे; महाद्रुमः कालहतोऽशनेरिव 5020001a सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः 5020001c प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् 5020002a यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा 5020002c यथा यथा प्रियं वक्ता परिभूतस्तथा तथा 5020003a संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः 5020003c द्रवतो मार्गमासाद्य हयानिव सुसारथिः 5020004a वामः कामो मनुष्याणां यस्मिन्किल निबध्यते 5020004c जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते 5020005a एतस्मात्कारणान्न तां घतयामि वरानने 5020005c वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् 5020006a परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् 5020006c तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः 5020007a एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः 5020007c क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् 5020008a द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः 5020008c ततः शयनमारोह मम त्वं वरवर्णिनि 5020009a द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् 5020009c मम त्वां प्रातराशार्थमारभन्ते महानसे 5020010a तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् 5020010c देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः 5020011a ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः 5020011c सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा 5020012a ताभिराश्वासिता सीता रावणं राक्षसाधिपम् 5020012c उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् 5020013a नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः 5020013c निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् 5020014a मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः 5020014c त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः 5020015a राक्षसाधम रामस्य भार्याममिततेजसः 5020015c उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे 5020016a यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने 5020016c तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः 5020017a स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे 5020017c चक्षुषो विषयं तस्य न तावदुपगच्छसि 5020018a इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले 5020018c क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः 5020019a तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च 5020019c कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते 5020020a असंदेशात्तु रामस्य तपसश्चानुपालनात् 5020020c न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा 5020021a नापहर्तुमहं शक्या तस्य रामस्य धीमतः 5020021c विधिस्तव वधार्थाय विहितो नात्र संशयः 5020022a शूरेण धनदभ्राता बलैः समुदितेन च 5020022c अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् 5020023a सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः 5020023c विवृत्य नयने क्रूरे जानकीमन्ववैक्षत 5020024a नीलजीमूतसंकाशो महाभुजशिरोधरः 5020024c सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः 5020025a चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः 5020025c रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः 5020026a श्रोणीसूत्रेण महता मेककेन सुसंवृतः 5020026c अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः 5020027a तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः 5020027c रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः 5020028a अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः 5020028c उवाच रावणः सीतां भुजंग इव निःश्वसन् 5020029a अनयेनाभिसंपन्नमर्थहीनमनुव्रते 5020029c नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा 5020030a इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5020030c संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः 5020031a एकाक्षीमेककर्णां च कर्णप्रावरणां तथा 5020031c गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् 5020032a हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् 5020032c एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् 5020033a अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् 5020033c अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् 5020033e अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् 5020034a यथा मद्वशगा सीता क्षिप्रं भवति जानकी 5020034c तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च 5020035a प्रतिलोमानुलोमैश्च सामदानादिभेदनैः 5020035c आवर्तयत वैदेहीं दण्डस्योद्यमनेन च 5020036a इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः 5020036c काममन्युपरीतात्मा जानकीं पर्यतर्जयत् 5020037a उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी 5020037c परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् 5020038a मया क्रीड महाराजसीतया किं तवानया 5020038c अकामां कामयानस्य शरीरमुपतप्यते 5020038e इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना 5020039a एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली 5020039c ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् 5020040a देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः 5020040c परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् 5020041a स मैथिलीं धर्मपरामवस्थितां; प्रवेपमानां परिभर्त्स्य रावणः 5020041c विहाय सीतां मदनेन मोहितः; स्वमेव वेश्म प्रविवेश भास्वरम् 5021001a इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः 5021001c संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह 5021002a निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते 5021002c राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः 5021003a ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः 5021003c परं परुषया वाचा वैदेहीमिदमब्रुवन् 5021004a पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः 5021004c दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे 5021005a ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् 5021005c आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् 5021006a प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः 5021006c मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः 5021007a पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः 5021007c नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः 5021008a तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः 5021008c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि 5021008e मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे 5021009a ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् 5021009c विवृत्य नयने कोपान्मार्जारसदृशेक्षणा 5021010a येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः 5021010c तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि 5021011a वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः 5021011c बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे 5021012a प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः 5021012c सर्वासां च महाभागां त्वामुपैष्यति रावणः 5021013a समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् 5021013c अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः 5021014a असकृद्देवता युद्धे नागगन्धर्वदानवाः 5021014c निर्जिताः समरे येन स ते पार्श्वमुपागतः 5021015a तस्य सर्वसमृद्धस्या रावणस्य महात्मनः 5021015c किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे 5021016a यस्य सूर्यो न तपति भीतो यस्य च मारुतः 5021016c न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि 5021017a पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् 5021017c शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति 5021018a तस्य नैरृतराजस्य राजराजस्य भामिनि 5021018c किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि 5021019a साधु ते तत्त्वतो देवि कथितं साधु भामिनि 5021019c गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि 5022001a ततः सीतामुपागम्य राक्षस्यो विकृताननाः 5022001c परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् 5022002a किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे 5022002c महार्हशयनोपेते न वासमनुमन्यसे 5022003a मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे 5022003c प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि 5022004a मानुषी मानुषं तं तु राममिच्छसि शोभने 5022004c राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते 5022005a राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा 5022005c नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् 5022006a यदिदं लोकविद्विष्टमुदाहरथ संगताः 5022006c नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति 5022007a न मानुषी राक्षसस्य भार्या भवितुमर्हति 5022007c कामं खादत मां सर्वा न करिष्यामि वो वचः 5022007e दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः 5022008a सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः 5022008c भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः 5022009a अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे 5022009c सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः 5022010a तामभिक्रम्य संरब्धा वेपमानां समन्ततः 5022010c भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् 5022011a ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् 5022011c नेयमर्हति भर्तारं रावणं राक्षसाधिपम् 5022012a सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना 5022012c सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् 5022013a ततस्तां शिंशपां सीता राक्षसीभिः समावृता 5022013c अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता 5022014a तां कृशां दीनवदनां मलिनाम्बरधारिणीम् 5022014c भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः 5022015a ततस्तां विनता नाम राक्षसी भीमदर्शना 5022015c अब्रवीत्कुपिताकारा कराला निर्णतोदरी 5022016a सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः 5022016c सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते 5022017a परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः 5022017c ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि 5022018a रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5022018c विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् 5022019a दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् 5022019c मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय 5022020a दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता 5022020c अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव 5022020e अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने 5022021a किं ते रामेण वैदेहि कृपणेन गतायुषा 5022022a एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि 5022022c अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् 5022023a अन्या तु विकटा नाम लम्बमानपयोधरा 5022023c अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती 5022024a बहून्यप्रतिरूपाणि वचनानि सुदुर्मते 5022024c अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि 5022024e न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् 5022025a आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् 5022025c रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि 5022026a रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता 5022026c न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः 5022027a कुरुष्व हितवादिन्या वचनं मम मैथिलि 5022027c अलमश्रुप्रपातेन त्यज शोकमनर्थकम् 5022028a भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् 5022028c सीते राक्षसराजेन सह क्रीड यथासुखम् 5022029a जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् 5022029c यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि 5022030a उद्यानानि च रम्याणि पर्वतोपवनानि च 5022030c सह राक्षसराजेन चर त्वं मदिरेक्षणे 5022031a स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि 5022031c रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् 5022032a उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि 5022032c यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि 5022033a ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना 5022033c भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् 5022034a इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् 5022034c रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् 5022035a यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् 5022035c अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः 5022036a ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् 5022036c कण्ठमस्या नृशंसायाः पीडयामः किमास्यते 5022037a निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह 5022037c नात्र कश्चन संदेहः खादतेति स वक्ष्यति 5022038a ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् 5022038c विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् 5022039a विभजाम ततः सर्वा विवादो मे न रोचते 5022039c पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु 5022040a ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् 5022040c अजामुखा यदुक्तं हि तदेव मम रोचते 5022041a सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी 5022041c मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् 5022042a एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा 5022042c राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति 5023001a तथा तासां वदन्तीनां परुषं दारुणं बहु 5023001c राक्षसीनामसौम्यानां रुरोद जनकात्मजा 5023002a एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी 5023002c उवाच परमत्रस्ता बाष्पगद्गदया गिरा 5023003a न मानुषी राक्षसस्य भार्या भवितुमर्हति 5023003c कामं खादत मां सर्वा न करिष्यामि वो वचः 5023004a सा राक्षसी मध्यगता सीता सुरसुतोपमा 5023004c न शर्म लेभे दुःखार्ता रावणेन च तर्जिता 5023005a वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः 5023005c वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता 5023006a सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् 5023006c चिन्तयामास शोकेन भर्तारं भग्नमानसा 5023007a सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः 5023007c चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति 5023008a सा वेपमाना पतिता प्रवाते कदली यथा 5023008c राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् 5023009a तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा 5023009c ददृशे कम्पिनी वेणी व्यालीव परिसर्पती 5023010a सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना 5023010c आर्ता व्यसृजदश्रूणि मैथिली विललाप ह 5023011a हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च 5023011c हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि 5023012a लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः 5023012c अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा 5023013a यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता 5023013c जीवामि हीना रामेण मुहूर्तमपि दुःखिता 5023014a एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् 5023014c समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता 5023015a भर्तारं तमपश्यन्ती राक्षसीवशमागता 5023015c सीदामि खलु शोकेन कूलं तोयहतं यथा 5023016a तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् 5023016c धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् 5023017a सर्वथा तेन हीनाया रामेण विदितात्मना 5023017c तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् 5023018a कीदृशं तु मया पापं पुरा देहान्तरे कृतम् 5023018c येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् 5023019a जीवितं त्यक्तुमिच्छामि शोकेन महता वृता 5023019c राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया 5023020a धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् 5023020c न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् 5024001a प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा 5024001c अधोमुखमुखी बाला विलप्तुमुपचक्रमे 5024002a उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती 5024002c उपावृत्ता किशोरीव विवेष्टन्ती महीतले 5024003a राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा 5024003c रावणेन प्रमथ्याहमानीता क्रोशती बलात् 5024004a राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् 5024004c चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे 5024005a न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः 5024005c वसन्त्या राक्षसी मध्ये विना रामं महारथम् 5024006a धिङ्मामनार्यामसतीं याहं तेन विना कृता 5024006c मुहूर्तमपि रक्षामि जीवितं पापजीविता 5024007a का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना 5024007c भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् 5024008a भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् 5024008c न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता 5024009a चरणेनापि सव्येन न स्पृशेयं निशाचरम् 5024009c रावणं किं पुनरहं कामयेयं विगर्हितम् 5024010a प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् 5024010c यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति 5024011a छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता 5024011c रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् 5024012a ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः 5024012c सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 5024013a राक्षसानां जनस्थाने सहस्राणि चतुर्दश 5024013c येनैकेन निरस्तानि स मां किं नाभिपद्यते 5024014a निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा 5024014c समर्थः खलु मे भर्ता रावणं हन्तुमाहवे 5024015a विराधो दण्डकारण्ये येन राक्षसपुंगवः 5024015c रणे रामेण निहतः स मां किं नाभिपद्यते 5024016a कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा 5024016c न तु राघवबाणानां गतिरोधी ह विद्यते 5024017a किं नु तत्कारणं येन रामो दृढपराक्रमः 5024017c रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते 5024018a इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः 5024018c जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति 5024019a हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् 5024019c गृध्रराजोऽपि स रणे रावणेन निपातितः 5024020a कृतं कर्म महत्तेन मां तदाभ्यवपद्यता 5024020c तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा 5024021a यदि मामिह जानीयाद्वर्तमानां स राघवः 5024021c अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं 5024022a विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् 5024022c रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् 5024023a ततो निहतनथानां राक्षसीनां गृहे गृहे 5024023c यथाहमेवं रुदती तथा भूयो न संशयः 5024023e अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः 5024024a न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति 5024024c चिता धूमाकुलपथा गृध्रमण्डलसंकुला 5024024e अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् 5024025a अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् 5024025c दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः 5024026a यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु 5024026c अचिरेणैव कालेन भविष्यति हतप्रभा 5024027a नूनं लङ्का हते पापे रावणे राक्षसाधिपे 5024027c शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा 5024028a पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा 5024028c भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना 5024029a नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे 5024029c श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् 5024030a सान्धकारा हतद्योता हतराक्षसपुंगवा 5024030c भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः 5024031a यदि नाम स शूरो मां रामो रक्तान्तलोचनः 5024031c जानीयाद्वर्तमानां हि रावणस्य निवेशने 5024032a अनेन तु नृशंसेन रावणेनाधमेन मे 5024032c समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः 5024033a अकार्यं ये न जानन्ति नैरृताः पापकारिणः 5024033c अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् 5024034a नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः 5024034c ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति 5024035a साहं कथं करिष्यामि तं विना प्रियदर्शनम् 5024035c रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता 5024036a यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह 5024036c क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना 5024037a नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः 5024037c जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् 5024038a नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः 5024038c देवलोकमितो यातस्त्यक्त्वा देहं महीतले 5024039a धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 5024039c मम पश्यन्ति ये नाथं रामं राजीवलोचनम् 5024040a अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः 5024040c मया रामस्य राजर्षेर्भार्यया परमात्मनः 5024041a दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः 5024041c नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति 5024042a किं नु मे न गुणाः केचित्किं वा भाग्य क्षयो हि मे 5024042c याहं सीता वरार्हेण हीना रामेण भामिनी 5024043a श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना 5024043c रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् 5024044a अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ 5024044c भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ 5024045a अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना 5024045c छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ 5024046a साहमेवंगते काले मर्तुमिच्छामि सर्वथा 5024046c न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति 5024047a धन्याः खलु महात्मानो मुनयः सत्यसंमताः 5024047c जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये 5024048a प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् 5024048c ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् 5024049a साहं त्यक्ता प्रियेणेह रामेण विदितात्मना 5024049c प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् 5025001a इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः 5025001c काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः 5025002a ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः 5025002c पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् 5025003a हन्तेदानीं तवानार्ये सीते पापविनिश्चये 5025003c राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् 5025004a सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा 5025004c राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् 5025005a आत्मानं खादतानार्या न सीतां भक्षयिष्यथ 5025005c जनकस्य सुतामिष्टां स्नुषां दशरथस्य च 5025006a स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः 5025006c राक्षसानामभावाय भर्तुरस्या भवाय च 5025007a एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः 5025007c सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः 5025008a कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि 5025009a तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् 5025009c उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् 5025010a गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् 5025010c युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः 5025011a स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता 5025011c सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता 5025011e रामेण संगता सीता भास्करेण प्रभा यथा 5025012a राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् 5025012c आरूढः शैलसंकाशं चचार सहलक्ष्मणः 5025013a ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा 5025013c शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ 5025014a ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः 5025014c भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता 5025015a भर्तुरङ्कात्समुत्पत्य ततः कमललोचना 5025015c चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती 5025016a ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः 5025016c सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः 5025017a पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् 5025017c शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः 5025017e लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया 5025018a विमानात्पुष्पकादद्य रावणः पतितो भुवि 5025018c कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः 5025019a रथेन खरयुक्तेन रक्तमाल्यानुलेपनः 5025019c प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम् 5025020a कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी 5025020c काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति 5025021a वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् 5025021c उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् 5025022a समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः 5025022c पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् 5025023a लङ्का चेयं पुरी रम्या सवाजिरथसंकुला 5025023c सागरे पतिता दृष्टा भग्नगोपुरतोरणा 5025024a पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः 5025024c लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः 5025025a कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः 5025025c रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे 5025026a अपगच्छत नश्यध्वं सीतामाप्नोति राघवः 5025026c घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः 5025027a प्रियां बहुमतां भार्यां वनवासमनुव्रताम् 5025027c भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः 5025028a तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् 5025028c अभियाचाम वैदेहीमेतद्धि मम रोचते 5025029a यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते 5025029c सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् 5025030a भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया 5025030c राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् 5025031a प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा 5025031c अलमेषा परित्रातुं राक्षस्यो महतो भयात् 5025032a अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये 5025032c विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् 5025033a छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् 5025033c अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् 5025034a अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् 5025034c राक्षसेन्द्रविनाशं च विजयं राघवस्य च 5025035a निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् 5025035c दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् 5025036a ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः 5025036c अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते 5025037a करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः 5025037c वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् 5025038a पक्षी च शाखा निलयं प्रविष्टः; पुनः पुनश्चोत्तमसान्त्ववादी 5025038c सुखागतां वाचमुदीरयाणः; पुनः पुनश्चोदयतीव हृष्टः 5026001a सा राक्षसेन्द्रस्य वचो निशम्य; तद्रावणस्याप्रियमप्रियार्ता 5026001c सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या 5026002a सा राक्षसी मध्यगता च भीरु;र्वाग्भिर्भृशं रावणतर्जिता च 5026002c कान्तारमध्ये विजने विसृष्टा; बालेव कन्या विललाप सीता 5026003a सत्यं बतेदं प्रवदन्ति लोके; नाकालमृत्युर्भवतीति सन्तः 5026003c यत्राहमेवं परिभर्त्स्यमाना; जीवामि किंचित्क्षणमप्यपुण्या 5026004a सुखाद्विहीनं बहुदुःखपूर्ण;मिदं तु नूनं हृदयं स्थिरं मे 5026004c विदीर्यते यन्न सहस्रधाद्य; वज्राहतं शृङ्गमिवाचलस्य 5026005a नैवास्ति नूनं मम दोषमत्र; वध्याहमस्याप्रियदर्शनस्य 5026005c भावं न चास्याहमनुप्रदातु;मलं द्विजो मन्त्रमिवाद्विजाय 5026006a नूनं ममाङ्गान्यचिरादनार्यः; शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः 5026006c तस्मिन्ननागच्छति लोकनाथे; गर्भस्थजन्तोरिव शल्यकृन्तः 5026007a दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतो द्वौ 5026007c बद्धस्य वध्यस्य यथा निशान्ते; राजापराधादिव तस्करस्य 5026008a हा राम हा लक्ष्मण हा सुमित्रे; हा राम मातः सह मे जनन्या 5026008c एषा विपद्याम्यहमल्पभाग्या; महार्णवे नौरिव मूढ वाता 5026009a तरस्विनौ धारयता मृगस्य; सत्त्वेन रूपं मनुजेन्द्रपुत्रौ 5026009c नूनं विशस्तौ मम कारणात्तौ; सिंहर्षभौ द्वाविव वैद्युतेन 5026010a नूनं स कालो मृगरूपधारी; मामल्पभाग्यां लुलुभे तदानीम् 5026010c यत्रार्यपुत्रं विससर्ज मूढा; रामानुजं लक्ष्मणपूर्वकं च 5026011a हा राम सत्यव्रत दीर्घवाहो; हा पूर्णचन्द्रप्रतिमानवक्त्र 5026011c हा जीवलोकस्य हितः प्रियश्च; वध्यां न मां वेत्सि हि राक्षसानाम् 5026012a अनन्यदेवत्वमियं क्षमा च; भूमौ च शय्या नियमश्च धर्मे 5026012c पतिव्रतात्वं विफलं ममेदं; कृतं कृतघ्नेष्विव मानुषाणाम् 5026013a मोघो हि धर्मश्चरितो ममायं; तथैकपत्नीत्वमिदं निरर्थम् 5026013c या त्वां न पश्यामि कृशा विवर्णा; हीना त्वया संगमने निराशा 5026014a पितुर्निर्देशं नियमेन कृत्वा; वनान्निवृत्तश्चरितव्रतश्च 5026014c स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः; संरंस्यसे वीतभयः कृतार्थः 5026015a अहं तु राम त्वयि जातकामा; चिरं विनाशाय निबद्धभावा 5026015c मोघं चरित्वाथ तपोव्रतं च; त्यक्ष्यामि धिग्जीवितमल्पभाग्या 5026016a सा जीवितं क्षिप्रमहं त्यजेयं; विषेण शस्त्रेण शितेन वापि 5026016c विषस्य दाता न तु मेऽस्ति कश्चि;च्छस्त्रस्य वा वेश्मनि राक्षसस्य 5026017a शोकाभितप्ता बहुधा विचिन्त्य; सीताथ वेण्युद्ग्रथनं गृहीत्वा 5026017c उद्बध्य वेण्युद्ग्रथनेन शीघ्र;महं गमिष्यामि यमस्य मूलम् 5026018a इतीव सीता बहुधा विलप्य; सर्वात्मना राममनुस्मरन्ती 5026018c प्रवेपमाना परिशुष्कवक्त्रा; नगोत्तमं पुष्पितमाससाद 5026019a उपस्थिता सा मृदुर्सर्वगात्री; शाखां गृहीत्वाथ नगस्य तस्य 5026019c तस्यास्तु रामं प्रविचिन्तयन्त्या; रामानुजं स्वं च कुलं शुभाङ्ग्याः 5026020a शोकानिमित्तानि तदा बहूनि; धैर्यार्जितानि प्रवराणि लोके 5026020c प्रादुर्निमित्तानि तदा बभूवुः; पुरापि सिद्धान्युपलक्षितानि 5027001a तथागतां तां व्यथितामनिन्दितां; व्यपेतहर्षां परिदीनमानसाम् 5027001c शुभां निमित्तानि शुभानि भेजिरे; नरं श्रिया जुष्टमिवोपजीविनः 5027002a तस्याः शुभं वाममरालपक्ष्म; राजीवृतं कृष्णविशालशुक्लम् 5027002c प्रास्पन्दतैकं नयनं सुकेश्या; मीनाहतं पद्ममिवाभिताम्रम् 5027003a भुजश्च चार्वञ्चितपीनवृत्तः; परार्ध्य कालागुरुचन्दनार्हः 5027003c अनुत्तमेनाध्युषितः प्रियेण; चिरेण वामः समवेपताशु 5027004a गजेन्द्रहस्तप्रतिमश्च पीन;स्तयोर्द्वयोः संहतयोः सुजातः 5027004c प्रस्पन्दमानः पुनरूरुरस्या; रामं पुरस्तात्स्थितमाचचक्षे 5027005a शुभं पुनर्हेमसमानवर्ण;मीषद्रजोध्वस्तमिवामलाक्ष्याः 5027005c वासः स्थितायाः शिखराग्रदन्त्याः; किंचित्परिस्रंसत चारुगात्र्याः 5027006a एतैर्निमित्तैरपरैश्च सुभ्रूः; संबोधिता प्रागपि साधुसिद्धैः 5027006c वातातपक्लान्तमिव प्रनष्टं; वर्षेण बीजं प्रतिसंजहर्ष 5027007a तस्याः पुनर्बिम्बफलोपमौष्ठं; स्वक्षिभ्रुकेशान्तमरालपक्ष्म 5027007c वक्त्रं बभासे सितशुक्लदंष्ट्रं; राहोर्मुखाच्चन्द्र इव प्रमुक्तः 5027008a सा वीतशोका व्यपनीततन्द्री; शान्तज्वरा हर्षविबुद्धसत्त्वा 5027008c अशोभतार्या वदनेन शुक्ले; शीतान्शुना रात्रिरिवोदितेन 5028001a हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः 5028001c सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् 5028002a अवेक्षमाणस्तां देवीं देवतामिव नन्दने 5028002c ततो बहुविधां चिन्तां चिन्तयामास वानरः 5028003a यां कपीनां सहस्राणि सुबहून्ययुतानि च 5028003c दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया 5028004a चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता 5028004c गूढेन चरता तावदवेक्षितमिदं मया 5028005a राक्षसानां विशेषश्च पुरी चेयमवेक्षिता 5028005c राक्षसाधिपतेरस्य प्रभावो रावणस्य च 5028006a युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः 5028006c समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् 5028007a अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् 5028007c अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् 5028008a यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् 5028008c अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् 5028009a गते हि मयि तत्रेयं राजपुत्री यशस्विनी 5028009c परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् 5028010a मया च स महाबाहुः पूर्णचन्द्रनिभाननः 5028010c समाश्वासयितुं न्याय्यः सीतादर्शनलालसः 5028011a निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् 5028011c कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् 5028012a अनेन रात्रिशेषेण यदि नाश्वास्यते मया 5028012c सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम् 5028013a रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः 5028013c किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् 5028014a सीतासंदेशरहितं मामितस्त्वरया गतम् 5028014c निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा 5028015a यदि चेद्योजयिष्यामि भर्तारं रामकारणात् 5028015c व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति 5028016a अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः 5028016c शनैराश्वासयिष्यामि संतापबहुलामिमाम् 5028017a अहं ह्यतितनुश्चैव वनरश्च विशेषतः 5028017c वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् 5028018a यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् 5028018c रावणं मन्यमाना मां सीता भीता भविष्यति 5028019a अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् 5028019c मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता 5028020a सेयमालोक्य मे रूपं जानकी भाषितं तथा 5028020c रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति 5028021a ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी 5028021c जानमाना विशालाक्षी रावणं कामरूपिणम् 5028022a सीतया च कृते शब्दे सहसा राक्षसीगणः 5028022c नानाप्रहरणो घोरः समेयादन्तकोपमः 5028023a ततो मां संपरिक्षिप्य सर्वतो विकृताननाः 5028023c वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् 5028024a तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् 5028024c दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः 5028025a मम रूपं च संप्रेक्ष्य वनं विचरतो महत् 5028025c राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः 5028026a ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि 5028026c राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने 5028027a ते शूलशरनिस्त्रिंश विविधायुधपाणयः 5028027c आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः 5028028a संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् 5028028c शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः 5028029a मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः 5028029c स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् 5028030a हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् 5028030c विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् 5028031a उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते 5028031c सागरेण परिक्षिप्ते गुप्ते वसति जानकी 5028032a विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे 5028032c नान्यं पश्यामि रामस्य सहायं कार्यसाधने 5028033a विमृशंश्च न पश्यामि यो हते मयि वानरः 5028033c शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् 5028034a कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् 5028034c न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः 5028035a असत्यानि च युद्धानि संशयो मे न रोचते 5028035c कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् 5028036a एष दोषो महान्हि स्यान्मम सीताभिभाषणे 5028036c प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे 5028037a भूताश्चार्था विनश्यन्ति देशकालविरोधिताः 5028037c विक्लवं दूतमासाद्य तमः सूर्योदये यथा 5028038a अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते 5028038c घातयन्ति हि कार्याणि दूताः पण्डितमानिनः 5028039a न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् 5028039c लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् 5028040a कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च 5028040c इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम् 5028041a राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् 5028041c नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् 5028042a इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः 5028042c शुभानि धर्मयुक्तानि वचनानि समर्पयन् 5028043a श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् 5028043c श्रद्धास्यति यथा हीयं तथा सर्वं समादधे 5028044a इति स बहुविधं महानुभावो; जगतिपतेः प्रमदामवेक्षमाणः 5028044c मधुरमवितथं जगाद वाक्यं; द्रुमविटपान्तरमास्थितो हनूमान् 5029001a एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः 5029001c संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह 5029002a राजा दशरथो नाम रथकुञ्जरवाजिनाम् 5029002c पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः 5029002e चक्रवर्तिकुले जातः पुरंदरसमो बले 5029003a अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः 5029003c मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः 5029004a पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः 5029004c पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी 5029005a तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः 5029005c रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् 5029006a रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता 5029006c रक्षिता जीवलोकस्य धर्मस्य च परंतपः 5029007a तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः 5029007c सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् 5029008a तेन तत्र महारण्ये मृगयां परिधावता 5029008c जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ 5029008e ततस्त्वमर्षापहृता जानकी रावणेन तु 5029009a यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् 5029009c अश्रौषं राघवस्याहं सेयमासादिता मया 5029010a विररामैवमुक्त्वासौ वाचं वानरपुंगवः 5029010c जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता 5029011a ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् 5029011c उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत 5029012a सा तिर्यगूर्ध्वं च तथाप्यधस्ता;न्निरीक्षमाणा तमचिन्त्य बुद्धिम् 5029012c ददर्श पिङ्गाधिपतेरमात्यं; वातात्मजं सूर्यमिवोदयस्थम् 5030001a ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा 5030001c सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् 5030002a सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् 5030002c मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी 5030003a सा तं समीक्ष्यैव भृशं विसंज्ञा; गतासुकल्पेव बभूव सीता 5030003c चिरेण संज्ञां प्रतिलभ्य चैव; विचिन्तयामास विशालनेत्रा 5030004a स्वप्नो मयायं विकृतोऽद्य दृष्टः; शाखामृगः शास्त्रगणैर्निषिद्धः 5030004c स्वस्त्यस्तु रामाय सलक्ष्मणाय; तथा पितुर्मे जनकस्य राज्ञः 5030005a स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा; शोकेन दुःखेन च पीडितायाः 5030005c सुखं हि मे नास्ति यतोऽस्मि हीना; तेनेन्दुपूर्णप्रतिमाननेन 5030006a अहं हि तस्याद्य मनो भवेन; संपीडिता तद्गतसर्वभावा 5030006c विचिन्तयन्ती सततं तमेव; तथैव पश्यामि तथा शृणोमि 5030007a मनोरथः स्यादिति चिन्तयामि; तथापि बुद्ध्या च वितर्कयामि 5030007c किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश्च वदत्ययं माम् 5030008a नमोऽस्तु वाचस्पतये सवज्रिणे; स्वयम्भुवे चैव हुताशनाय 5030008c अनेन चोक्तं यदिदं ममाग्रतो; वनौकसा तच्च तथास्तु नान्यथा 5031001a तामब्रवीन्महातेजा हनूमान्मारुतात्मजः 5031001c शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा 5031002a का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी 5031002c द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता 5031003a किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् 5031003c पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् 5031004a सुराणामसुराणां च नागगन्धर्वरक्षसाम् 5031004c यक्षाणां किंनराणां च का त्वं भवसि शोभने 5031005a का त्वं भवसि रुद्राणां मरुतां वा वरानने 5031005c वसूनां वा वरारोहे देवता प्रतिभासि मे 5031006a किं नु चन्द्रमसा हीना पतिता विबुधालयात् 5031006c रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता 5031007a कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा 5031007c वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती 5031008a को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे 5031008c अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि 5031009a व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये 5031009c महिषी भूमिपालस्य राजकन्यासि मे मता 5031010a रावणेन जनस्थानाद्बलादपहृता यदि 5031010c सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः 5031011a सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता 5031011c उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् 5031012a दुहिता जनकस्याहं वैदेहस्य महात्मनः 5031012c सीता च नाम नाम्नाहं भार्या रामस्य धीमतः 5031013a समा द्वादश तत्राहं राघवस्य निवेशने 5031013c भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी 5031014a ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् 5031014c अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे 5031015a तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने 5031015c कैकेयी नाम भर्तारं देवी वचनमब्रवीत् 5031016a न पिबेयं न खादेयं प्रत्यहं मम भोजनम् 5031016c एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते 5031017a यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम 5031017c तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः 5031018a स राजा सत्यवाग्देव्या वरदानमनुस्मरन् 5031018c मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् 5031019a ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः 5031019c ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत 5031020a स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् 5031020c मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् 5031021a दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किंचिदप्रियम् 5031021c अपि जीवितहेतोर्हि रामः सत्यपराक्रमः 5031022a स विहायोत्तरीयाणि महार्हाणि महायशाः 5031022c विसृज्य मनसा राज्यं जनन्यै मां समादिशत् 5031023a साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी 5031023c न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते 5031024a प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः 5031024c पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः 5031025a ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः 5031025c प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम् 5031026a वसतो दण्डकारण्ये तस्याहममितौजसः 5031026c रक्षसापहृता भार्या रावणेन दुरात्मना 5031027a द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः 5031027c ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् 5032001a तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः 5032001c दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् 5032002a अहं रामस्य संदेशाद्देवि दूतस्तवागतः 5032002c वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् 5032003a यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः 5032003c स त्वां दाशरथी रामो देवि कौशलमब्रवीत् 5032004a लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः 5032004c कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम् 5032005a सा तयोः कुशलं देवी निशम्य नरसिंहयोः 5032005c प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् 5032006a कल्याणी बत गथेयं लौकिकी प्रतिभाति मे 5032006c एहि जीवन्तमानदो नरं वर्षशतादपि 5032007a तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता 5032007c परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः 5032008a तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः 5032008c सीतायाः शोकदीनायाः समीपमुपचक्रमे 5032009a यथा यथा समीपं स हनूमानुपसर्पति 5032009c तथा तथा रावणं सा तं सीता परिशङ्कते 5032010a अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे 5032010c रूपान्तरमुपागम्य स एवायं हि रावणः 5032011a तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता 5032011c तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् 5032012a अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् 5032012c सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत 5032013a तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना 5032013c अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा 5032014a मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् 5032014c उत्पादयसि मे भूयः संतापं तन्न शोभनम् 5032015a स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् 5032015c जनस्थाने मया दृष्टस्त्वं स एवासि रावणः 5032016a उपवासकृशां दीनां कामरूप निशाचर 5032016c संतापयसि मां भूयः संतापं तन्न शोभनम् 5032017a यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते 5032017c पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे 5032018a गुणान्रामस्य कथय प्रियस्य मम वानर 5032018c चित्तं हरसि मे सौम्य नदीकूलं यथा रयः 5032019a अहो स्वप्नस्य सुखता याहमेवं चिराहृता 5032019c प्रेषितं नाम पश्यामि राघवेण वनौकसं 5032020a स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् 5032020c पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी 5032021a नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् 5032021c न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम 5032022a किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् 5032022c उन्मादजो विकारो वा स्यादियं मृगतृष्णिका 5032023a अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः 5032023c संबुध्ये चाहमात्मानमिमं चापि वनौकसं 5032024a इत्येवं बहुधा सीता संप्रधार्य बलाबलम् 5032024c रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् 5032025a एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा 5032025c न प्रतिव्याजहाराथ वानरं जनकात्मजा 5032026a सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः 5032026c श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् 5032027a आदित्य इव तेजस्वी लोककान्तः शशी यथा 5032027c राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा 5032028a विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः 5032028c सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा 5032029a रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् 5032029c स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः 5032029e बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः 5032030a अपकृष्याश्रमपदान्मृगरूपेण राघवम् 5032030c शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् 5032031a नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् 5032031c रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः 5032032a तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः 5032032c त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् 5032033a लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः 5032033c अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् 5032034a रामस्य च सखा देवि सुग्रीवो नाम वानरः 5032034c राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् 5032035a नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः 5032035c दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता 5032036a नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् 5032036c मध्ये वानरकोटीनां सुग्रीवं चामितौजसं 5032037a अहं सुग्रीवसचिवो हनूमान्नाम वानरः 5032037c प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् 5032038a कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः 5032038c त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् 5032039a नाहमस्मि तथा देवि यथा मामवगच्छसि 5032039c विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम 5033001a तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात् 5033001c उवाच वचनं सान्त्वमिदं मधुरया गिरा 5033002a क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् 5033002c वानराणां नराणां च कथमासीत्समागमः 5033003a यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर 5033003c तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् 5033004a कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् 5033004c कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे 5033005a एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः 5033005c ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे 5033006a जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि 5033006c भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च 5033007a यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै 5033007c लक्षितानि विशालाक्षि वदतः शृणु तानि मे 5033008a रामः कमलपत्राक्षः सर्वभूतमनोहरः 5033008c रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे 5033009a तेजसादित्यसंकाशः क्षमया पृथिवीसमः 5033009c बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः 5033010a रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता 5033010c रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः 5033011a रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता 5033011c मर्यादानां च लोकस्य कर्ता कारयिता च सः 5033012a अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः 5033012c साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् 5033013a राजविद्याविनीतश्च ब्राह्मणानामुपासिता 5033013c श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः 5033014a यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः 5033014c धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः 5033015a विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः 5033015c गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः 5033016a दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् 5033016c समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः 5033017a त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः 5033017c त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान् 5033018a चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः 5033018c चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः 5033019a महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् 5033019c दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् 5033019e षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः 5033020a सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः 5033020c देशकालविभागज्ञः सर्वलोकप्रियंवदः 5033021a भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः 5033021c अनुरागेण रूपेण गुणैश्चैव तथाविधः 5033022a त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम् 5033022c ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् 5033023a ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले 5033023c भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम् 5033024a वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम् 5033024c परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् 5033025a ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ 5033025c ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ 5033026a स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः 5033026c अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः 5033027a ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः 5033027c तयोः समीपं मामेव प्रेषयामास सत्वरः 5033028a तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू 5033028c रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः 5033029a तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ 5033029c पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ 5033030a निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने 5033030c तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत 5033031a तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ 5033031c परस्परकृताश्वासौ कथया पूर्ववृत्तया 5033032a तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः 5033032c स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा 5033033a ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः 5033033c लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् 5033034a स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः 5033034c तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् 5033035a ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया 5033035c यान्याभरणजालानि पातितानि महीतले 5033036a तानि सर्वाणि रामाय आनीय हरियूथपाः 5033036c संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव 5033037a तानि रामाय दत्तानि मयैवोपहृतानि च 5033037c स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि 5033038a तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः 5033038c तेन देवप्रकाशेन देवेन परिदेवितम् 5033039a पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः 5033039c प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् 5033040a शयितं च चिरं तेन दुःखार्तेन महात्मना 5033040c मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः 5033041a तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः 5033041c राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत् 5033042a स तवादर्शनादार्ये राघवः परितप्यते 5033042c महता ज्वलता नित्यमग्निनेवाग्निपर्वतः 5033043a त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् 5033043c तापयन्ति महात्मानमग्न्यगारमिवाग्नयः 5033044a तवादर्शनशोकेन राघवः प्रविचाल्यते 5033044c महता भूमिकम्पेन महानिव शिलोच्चयः 5033045a कानानानि सुरम्याणि नदीप्रस्रवणानि च 5033045c चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे 5033046a स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः 5033046c समित्रबान्धवं हत्वा रावणं जनकात्मजे 5033047a सहितौ रामसुग्रीवावुभावकुरुतां तदा 5033047c समयं वालिनं हन्तुं तव चान्वेषणं तथा 5033048a ततो निहत्य तरसा रामो वालिनमाहवे 5033048c सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम् 5033049a रामसुग्रीवयोरैक्यं देव्येवं समजायत 5033049c हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् 5033050a स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन् 5033050c त्वदर्थं प्रेषयामास दिशो दश महाबलान् 5033051a आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः 5033051c अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् 5033052a अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः 5033052c प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः 5033053a तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे 5033053c भृशं शोकपरीतनामहोरात्रगणा गताः 5033054a ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च 5033054c भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः 5033055a विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च 5033055c अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः 5033056a भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः 5033056c तव नाशं च वैदेहि वालिनश्च तथा वधम् 5033056e प्रायोपवेशमस्माकं मरणं च जटायुषः 5033057a तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् 5033057c कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान् 5033058a गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट् 5033058c श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् 5033059a यवीयान्केन मे भ्राता हतः क्व च विनाशितः 5033059c एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः 5033060a अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् 5033060c रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् 5033061a जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः 5033061c त्वामाह स वरारोहे वसन्तीं रावणालये 5033062a तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् 5033062c अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् 5033062e त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः 5033063a अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः 5033063c व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः 5033064a लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला 5033064c रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता 5033065a एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते 5033065c अभिभाषस्व मां देवि दूतो दाशरथेरहम् 5033066a त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् 5033066c सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् 5033067a कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः 5033067c गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः 5033068a तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः 5033068c अहमेकस्तु संप्राप्तः सुग्रीववचनादिह 5033069a मयेयमसहायेन चरता कामरूपिणा 5033069c दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा 5033070a दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् 5033070c अपनेष्यामि संतापं तवाभिगमशंसनात् 5033071a दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् 5033071c प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः 5033072a राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते 5033072c समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् 5033073a कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः 5033073c ततो गच्छति गोकर्णं पर्वतं केसरी हरिः 5033074a स च देवर्षिभिर्दृष्टः पिता मम महाकपिः 5033074c तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् 5033075a तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि 5033075c हनूमानिति विख्यातो लोके स्वेनैव कर्मणा 5033075e विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः 5033076a एवं विश्वासिता सीता हेतुभिः शोककर्शिता 5033076c उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति 5033077a अतुलं च गता हर्षं प्रहर्षेण तु जानकी 5033077c नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् 5033078a चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् 5033078c अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् 5033078e हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा 5033079a अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् 5033080a हतेऽसुरे संयति शम्बसादने; कपिप्रवीरेण महर्षिचोदनात् 5033080c ततोऽस्मि वायुप्रभवो हि मैथिलि; प्रभावतस्तत्प्रतिमश्च वानरः 5034001a भूय एव महातेजा हनूमान्मारुतात्मजः 5034001c अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् 5034002a वानरोऽहं महाभागे दूतो रामस्य धीमतः 5034002c रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् 5034002e समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि 5034003a गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् 5034003c भर्तारमिव संप्राप्ता जानकी मुदिताभवत् 5034004a चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् 5034004c बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् 5034005a ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता 5034005c परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् 5034006a विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम 5034006c येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् 5034007a शतयोजनविस्तीर्णः सागरो मकरालयः 5034007c विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः 5034008a न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ 5034008c यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः 5034009a अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् 5034009c यद्यसि प्रेषितस्तेन रामेण विदितात्मना 5034010a प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् 5034010c पराक्रममविज्ञाय मत्सकाशं विशेषतः 5034011a दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः 5034011c लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः 5034012a कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् 5034012c महीं दहति कोपेन युगान्ताग्निरिवोत्थितः 5034013a अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे 5034013c ममैव तु न दुःखानामस्ति मन्ये विपर्ययः 5034014a कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते 5034014c उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः 5034015a कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति 5034015c कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः 5034016a द्विविधं त्रिविधोपायमुपायमपि सेवते 5034016c विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः 5034017a कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते 5034017c कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः 5034018a कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः 5034018c कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते 5034019a कच्चिन्न विगतस्नेहो विवासान्मयि राघवः 5034019c कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः 5034020a सुखानामुचितो नित्यमसुखानामनूचितः 5034020c दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति 5034021a कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च 5034021c अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च 5034022a मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः 5034022c कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति 5034023a कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः 5034023c ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते 5034024a वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति 5034024c मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः 5034025a कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः 5034025c अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति 5034026a रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे 5034026c द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् 5034027a कच्चिन्न तद्धेमसमानवर्णं; तस्याननं पद्मसमानगन्धि 5034027c मया विना शुष्यति शोकदीनं; जलक्षये पद्ममिवातपेन 5034028a धर्मापदेशात्त्यजतश्च राज्यां; मां चाप्यरण्यं नयतः पदातिम् 5034028c नासीद्व्यथा यस्य न भीर्न शोकः; कच्चित्स धैर्यं हृदये करोति 5034029a न चास्य माता न पिता न चान्यः; स्नेहाद्विशिष्टोऽस्ति मया समो वा 5034029c तावद्ध्यहं दूतजिजीविषेयं; यावत्प्रवृत्तिं शृणुयां प्रियस्य 5034030a इतीव देवी वचनं महार्थं; तं वानरेन्द्रं मधुरार्थमुक्त्वा 5034030c श्रोतुं पुनस्तस्य वचोऽभिरामं; रामार्थयुक्तं विरराम रामा 5034031a सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः 5034031c शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् 5034032a न त्वामिहस्थां जानीते रामः कमललोचनः 5034032c श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः 5034033a चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम् 5034033c विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् 5034033e करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् 5034034a तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः 5034034c स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति 5034035a तवादर्शनजेनार्ये शोकेन स परिप्लुतः 5034035c न शर्म लभते रामः सिंहार्दित इव द्विपः 5034036a दर्दरेण च ते देवि शपे मूलफलेन च 5034036c मलयेन च विन्ध्येन मेरुणा मन्दरेण च 5034037a यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् 5034037c मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् 5034038a क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ 5034038c शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि 5034039a न मांसं राघवो भुङ्क्ते न चापि मधुसेवते 5034039c वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् 5034040a नैव दंशान्न मशकान्न कीटान्न सरीसृपान् 5034040c राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना 5034041a नित्यं ध्यानपरो रामो नित्यं शोकपरायणः 5034041c नान्यच्चिन्तयते किंचित्स तु कामवशं गतः 5034042a अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः 5034042c सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते 5034043a दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् 5034043c बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते 5034044a स देवि नित्यं परितप्यमान;स्त्वामेव सीतेत्यभिभाषमाणः 5034044c धृतव्रतो राजसुतो महात्मा; तवैव लाभाय कृतप्रयत्नः 5034045a सा रामसंकीर्तनवीतशोका; रामस्य शोकेन समानशोका 5034045c शरन्मुखेनाम्बुदशेषचन्द्रा; निशेव वैदेहसुता बभूव 5035001a सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना 5035001c हनूमन्तमुवाचेदं धर्मार्थसहितं वचः 5035002a अमृतं विषसंसृष्टं त्वया वानरभाषितम् 5035002c यच्च नान्यमना रामो यच्च शोकपरायणः 5035003a ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे 5035003c रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति 5035004a विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम 5035004c सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् 5035005a शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति 5035005c प्लवमानः परिश्रान्तो हतनौः सागरे यथा 5035006a राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् 5035006c लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः 5035007a स वाच्यः संत्वरस्वेति यावदेव न पूर्यते 5035007c अयं संवत्सरः कालस्तावद्धि मम जीवितम् 5035008a वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम 5035008c रावणेन नृशंसेन समयो यः कृतो मम 5035009a विभीषणेन च भ्रात्रा मम निर्यातनं प्रति 5035009c अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् 5035010a मम प्रतिप्रदानं हि रावणस्य न रोचते 5035010c रावणं मार्गते संख्ये मृत्युः कालवशं गतम् 5035011a ज्येष्ठा कन्यानला नम विभीषणसुता कपे 5035011c तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् 5035012a अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुंगवः 5035012c धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः 5035013a रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् 5035013c न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् 5035014a आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः 5035014c अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः 5035015a उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता 5035015c विक्रमश्च प्रभावश्च सन्ति वानरराघवे 5035016a चतुर्दशसहस्राणि राक्षसानां जघान यः 5035016c जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् 5035017a न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः 5035017c अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा 5035018a शरजालांशुमाञ्शूरः कपे रामदिवाकरः 5035018c शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति 5035019a इति संजल्पमानां तां रामार्थे शोककर्शिताम् 5035019c अश्रुसंपूर्णवदनामुवाच हनुमान्कपिः 5035020a श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः 5035020c चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् 5035021a अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् 5035021c अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते 5035022a त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् 5035022c शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् 5035023a अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि 5035023c प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः 5035024a द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् 5035024c व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा 5035025a त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् 5035025c पुरंदरमिवासीनं नागराजस्य मूर्धनि 5035026a पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने 5035026c योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी 5035027a कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला 5035027c मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् 5035028a न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने 5035028c अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः 5035029a यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् 5035029c यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं 5035030a मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् 5035030c हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् 5035031a हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि 5035031c तदेव खलु ते मन्ये कपित्वं हरियूथप 5035032a कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि 5035032c सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ 5035033a सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः 5035033c चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् 5035034a न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा 5035034c तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः 5035035a इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः 5035035c दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः 5035036a स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः 5035036c ततो वर्धितुमारेभे सीताप्रत्ययकारणात् 5035037a मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः 5035037c अग्रतो व्यवतस्थे च सीताया वानरर्षभः 5035038a हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः 5035038c वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् 5035039a सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् 5035039c लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे 5035040a तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया 5035040c विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् 5035041a तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा 5035041c पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् 5035042a तव सत्त्वं बलं चैव विजानामि महाकपे 5035042c वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् 5035043a प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति 5035043c उदधेरप्रमेयस्य पारं वानरपुंगव 5035044a जानामि गमने शक्तिं नयने चापि ते मम 5035044c अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः 5035045a अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह 5035045c वायुवेगसवेगस्य वेगो मां मोहयेत्तव 5035046a अहमाकाशमासक्ता उपर्युपरि सागरम् 5035046c प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः 5035047a पतिता सागरे चाहं तिमिनक्रझषाकुले 5035047c भयेयमाशु विवशा यादसामन्नमुत्तमम् 5035048a न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन 5035048c कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम् 5035049a ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः 5035049c अनुगच्छेयुरादिष्टा रावणेन दुरात्मना 5035050a तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः 5035050c भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् 5035051a सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः 5035051c कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् 5035052a युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः 5035052c प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम 5035053a अथ रक्षांसि भीमानि महान्ति बलवन्ति च 5035053c कथंचित्साम्पराये त्वां जयेयुः कपिसत्तम 5035054a अथ वा युध्यमानस्य पतेयं विमुखस्य ते 5035054c पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः 5035055a मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा 5035055c अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ 5035056a अहं वापि विपद्येयं रक्षोभिरभितर्जिता 5035056c त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु 5035057a कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् 5035057c राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः 5035058a अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् 5035058c यत्र ते नाभिजानीयुर्हरयो नापि राघवः 5035059a आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः 5035059c त्वया हि सह रामस्य महानागमने गुणः 5035060a मयि जीवितमायत्तं राघवस्य महात्मनः 5035060c भ्रातॄणां च महाबाहो तव राजकुलस्य च 5035061a तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ 5035061c सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् 5035062a भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर 5035062c नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम 5035063a यदहं गात्रसंस्पर्शं रावणस्य गता बलात् 5035063c अनीशा किं करिष्यामि विनाथा विवशा सती 5035064a यदि रामो दशग्रीवमिह हत्वा सराक्षसं 5035064c मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् 5035065a श्रुता हि दृष्टाश्च मया पराक्रमा; महात्मनस्तस्य रणावमर्दिनः 5035065c न देवगन्धर्वभुजंगराक्षसा; भवन्ति रामेण समा हि संयुगे 5035066a समीक्ष्य तं संयति चित्रकार्मुकं; महाबलं वासवतुल्यविक्रमम् 5035066c सलक्ष्मणं को विषहेत राघवं; हुताशनं दीप्तमिवानिलेरितम् 5035067a सलक्ष्मणं राघवमाजिमर्दनं; दिशागजं मत्तमिव व्यवस्थितम् 5035067c सहेत को वानरमुख्य संयुगे; युगान्तसूर्यप्रतिमं शरार्चिषम् 5035068a स मे हरिश्रेष्ठ सलक्ष्मणं पतिं; सयूथपं क्षिप्रमिहोपपादय 5035068c चिराय रामं प्रति शोककर्शितां; कुरुष्व मां वानरमुख्य हर्षिताम् 5036001a ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः 5036001c सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः 5036002a युक्तरूपं त्वया देवि भाषितं शुभदर्शने 5036002c सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च 5036003a स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् 5036003c मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् 5036004a द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते 5036004c रामादन्यस्य नार्हामि संस्पर्शमिति जानकि 5036005a एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः 5036005c का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् 5036006a श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः 5036006c चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः 5036007a कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया 5036007c स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् 5036008a लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः 5036008c सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् 5036009a इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना 5036009c गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् 5036010a यदि नोत्सहसे यातुं मया सार्धमनिन्दिते 5036010c अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् 5036011a एवमुक्ता हनुमता सीता सुरसुतोपमा 5036011c उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् 5036012a इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् 5036012c शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा 5036013a तापसाश्रमवासिन्याः प्राज्यमूलफलोदके 5036013c तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः 5036014a तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु 5036014c विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् 5036015a पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः 5036016a ततो मांससमायुक्तो वायसः पर्यतुण्डयत् 5036016c तमहं लोष्टमुद्यम्य वारयामि स्म वायसं 5036017a दारयन्स च मां काकस्तत्रैव परिलीयते 5036017c न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः 5036018a उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे 5036018c स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् 5036019a त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा 5036019c भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता 5036020a आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् 5036020c क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता 5036021a बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती 5036021c लक्षिताहं त्वया नाथ वायसेन प्रकोपिता 5036022a आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः 5036022c केन ते नागनासोरु विक्षतं वै स्तनान्तरम् 5036022e कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना 5036023a वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः 5036023c नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् 5036024a पुत्रः किल स शक्रस्य वायसः पततां वरः 5036024c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5036025a ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः 5036025c वायसे कृतवान्क्रूरां मतिं मतिमतां वर 5036026a स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः 5036026c स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् 5036027a चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति 5036027c अनुसृष्टस्तदा कालो जगाम विविधां गतिम् 5036027e त्राणकाम इमं लोकं सर्वं वै विचचार ह 5036028a स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः 5036028c त्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः 5036029a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5036029c वधार्हमपि काकुत्स्थ कृपया पर्यपालयः 5036029e न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः 5036030a परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् 5036030c मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् 5036031a ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् 5036032a स ते तदा नमस्कृत्वा राज्ञे दशरथाय च 5036032c त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् 5036033a मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् 5036033c कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते 5036034a स कुरुष्व महोत्साहं कृपां मयि नरर्षभ 5036034c आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः 5036035a जानामि त्वां महावीर्यं महोत्साहं महाबलम् 5036035c अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् 5036035e भर्तारं ससमुद्राया धरण्या वासवोपमम् 5036036a एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि 5036036c किमर्थमस्त्रं रक्षःसु न योजयसि राघव 5036037a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5036037c रामस्य समरे वेगं शक्ताः प्रति समाधितुम् 5036038a तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः 5036038c किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् 5036039a भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः 5036039c कस्य हेतोर्न मां वीरः परित्राति महाबलः 5036040a यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ 5036040c सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः 5036041a ममैव दुष्कृतं किंचिन्महदस्ति न संशयः 5036041c समर्थावपि तौ यन्मां नावेक्षेते परंतपौ 5036042a कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी 5036042c तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय 5036043a स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः 5036043c ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् 5036044a पितरं मातरं चैव संमान्याभिप्रसाद्य च 5036044c अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः 5036044e आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् 5036045a अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने 5036045c सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः 5036046a पितृवद्वर्तते रामे मातृवन्मां समाचरन् 5036046c ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः 5036047a वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता 5036047c राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे 5036048a मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः 5036048c नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् 5036049a यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् 5036049c स ममार्थाय कुशलं वक्तव्यो वचनान्मम 5036049e मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः 5036050a इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः 5036050c जीवितं धारयिष्यामि मासं दशरथात्मज 5036050e ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते 5036051a रावणेनोपरुद्धां मां निकृत्या पापकर्मणा 5036051c त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् 5036052a ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् 5036052c प्रदेयो राघवायेति सीता हनुमते ददौ 5036053a प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् 5036053c अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः 5036054a मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च 5036054c सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः 5036055a हर्षेण महता युक्तः सीतादर्शनजेन सः 5036055c हृदयेन गतो रामं शरीरेण तु विष्ठितः 5036056a मणिवरमुपगृह्य तं महार्हं; जनकनृपात्मजया धृतं प्रभावात् 5036056c गिरिवरपवनावधूतमुक्तः; सुखितमनाः प्रतिसंक्रमं प्रपेदे 5037001a मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् 5037001c अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः 5037002a मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति 5037002c वीरो जनन्या मम च राज्ञो दशरथस्य च 5037003a स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम 5037003c अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् 5037004a त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम 5037004c तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् 5037005a स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः 5037005c शिरसावन्द्य वैदेहीं गमनायोपचक्रमे 5037006a ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम् 5037006c बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् 5037007a कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ 5037007c सुग्रीवं च सहामात्यं वृद्धान्सर्वांश्च वानरान् 5037008a यथा च स महाबाहुर्मां तारयति राघवः 5037008c अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि 5037009a जीवन्तीं मां यथा रामः संभावयति कीर्तिमान् 5037009c तत्त्वया हनुमन्वाच्यं वाचा धर्ममवाप्नुहि 5037010a नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः 5037010c वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये 5037011a मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः 5037011c पराक्रमविधिं वीरो विधिवत्संविधास्यति 5037012a सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः 5037012c शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् 5037013a क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः 5037013c यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति 5037014a न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा 5037014c यस्तस्य वमतो बाणान्स्थातुमुत्सहतेऽग्रतः 5037015a अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् 5037015c स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः 5037016a स हि सागरपर्यन्तां महीं शासितुमीहते 5037016c त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि 5037017a तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् 5037017c जानकी बहु मेनेऽथ वचनं चेदमब्रवीत् 5037018a ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5037018c भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत् 5037019a यदि वा मन्यसे वीर वसैकाहमरिंदम 5037019c कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि 5037020a मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान् 5037020c अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् 5037021a गते हि हरिशार्दूल पुनरागमनाय तु 5037021c प्राणानामपि संदेहो मम स्यान्नात्र संशयः 5037022a तवादर्शनजः शोको भूयो मां परितापयेत् 5037022c दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर 5037023a अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः 5037023c सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर 5037024a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5037024c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5037025a त्रयाणामेव भूतानां सागरस्येह लङ्घने 5037025c शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा 5037026a तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे 5037026c किं पश्यसि समाधानं त्वं हि कार्यविदां वरः 5037027a काममस्य त्वमेवैकः कार्यस्य परिसाधने 5037027c पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः 5037028a बलैः समग्रैर्यदि मां रावणं जित्य संयुगे 5037028c विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् 5037029a बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः 5037029c मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् 5037030a तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः 5037030c भवेदाहव शूरस्य तथा त्वमुपपादय 5037031a तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् 5037031c निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् 5037032a देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः 5037032c सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः 5037033a स वानरसहस्राणां कोटीभिरभिसंवृतः 5037033c क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः 5037034a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5037034c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5037035a येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः 5037035c न च कर्मसु सीदन्ति महत्स्वमिततेजसः 5037036a असकृत्तैर्महोत्सहैः ससागरधराधरा 5037036c प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः 5037037a मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः 5037037c मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ 5037038a अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः 5037038c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5037039a तदलं परितापेन देवि शोको व्यपैतु ते 5037039c एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः 5037040a मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ 5037040c त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः 5037041a तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ 5037041c आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः 5037042a सगणं रावणं हत्वा राघवो रघुनन्दनः 5037042c त्वामादाय वरारोहे स्वपुरं प्रतियास्यति 5037043a तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी 5037043c नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् 5037044a निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे 5037044c त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी 5037045a क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि 5037045c रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् 5037046a एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः 5037046c गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् 5037047a तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् 5037047c लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् 5037048a नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् 5037048c वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् 5037049a शैलाम्बुदनिकाशानां लङ्कामलयसानुषु 5037049c नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः 5037050a स तु मर्मणि घोरेण ताडितो मन्मथेषुणा 5037050c न शर्म लभते रामः सिंहार्दित इव द्विपः 5037051a मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम् 5037051c शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि 5037052a रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः 5037052c अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ 5037053a नास्मिंश्चिरं वत्स्यसि देवि देशे; रक्षोगणैरध्युषितोऽतिरौद्रे 5037053c न ते चिरादागमनं प्रियस्य; क्षमस्व मत्संगमकालमात्रम् 5038001a श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः 5038001c उवाचात्महितं वाक्यं सीता सुरसुतोपमा 5038002a त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर 5038002c अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा 5038003a यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः 5038003c संस्पृशेयं सकामाहं तथा कुरु दयां मयि 5038004a अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम 5038004c क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम् 5038005a मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः 5038005c त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि 5038006a स वीर्यवान्कथं सीतां हृतां समनुमन्यसे 5038006c वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम 5038007a एष चूडामणिर्दिव्यो मया सुपरिरक्षितः 5038007c एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ 5038008a एष निर्यातितः श्रीमान्मया ते वारिसंभवः 5038008c अतः परं न शक्ष्यामि जीवितुं शोकलालसा 5038009a असह्यानि च दुःखानि वाचश्च हृदयच्छिदः 5038009c राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् 5038010a धारयिष्यामि मासं तु जीवितं शत्रुसूदन 5038010c मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज 5038011a घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि 5038011c त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम् 5038012a वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् 5038012c अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः 5038013a त्वच्छोकविमुखो रामो देवि सत्येन ते शपे 5038013c रामे शोकाभिभूते तु लक्ष्मणः परितप्यते 5038014a दृष्टा कथंचिद्भवती न कालः परिशोचितुम् 5038014c इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि 5038015a तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ 5038015c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5038016a हत्वा तु समरे क्रूरं रावणं सह बान्धवम् 5038016c राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः 5038017a यत्तु रामो विजानीयादभिज्ञानमनिन्दिते 5038017c प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि 5038018a साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम् 5038018c एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् 5038018e श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति 5038019a स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः 5038019c प्रणम्य शिरसा देवीं गमनायोपचक्रमे 5038020a तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम् 5038020c वर्धमानं महावेगमुवाच जनकात्मजा 5038020e अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा 5038021a हनूमन्सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ 5038021c सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् 5038022a यथा च स महाबाहुर्मां तारयति राघवः 5038022c अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि 5038023a इमं च तीव्रं मम शोकवेगं; रक्षोभिरेभिः परिभर्त्सनं च 5038023c ब्रूयास्तु रामस्य गतः समीपं; शिवश्च तेऽध्वास्तु हरिप्रवीर 5038024a स राजपुत्र्या प्रतिवेदितार्थः; कपिः कृतार्थः परिहृष्टचेताः 5038024c तदल्पशेषं प्रसमीक्ष्य कार्यं; दिशं ह्युदीचीं मनसा जगाम 5039001a स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया 5039001c तस्माद्देशादपक्रम्य चिन्तयामास वानरः 5039002a अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा 5039002c त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते 5039003a न साम रक्षःसु गुणाय कल्पते; न दनमर्थोपचितेषु वर्तते 5039003c न भेदसाध्या बलदर्पिता जनाः; पराक्रमस्त्वेष ममेह रोचते 5039004a न चास्य कार्यस्य पराक्रमादृते; विनिश्चयः कश्चिदिहोपपद्यते 5039004c हृतप्रवीरास्तु रणे हि राक्षसाः; कथंचिदीयुर्यदिहाद्य मार्दवम् 5039005a कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् 5039005c पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति 5039006a न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः 5039006c यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने 5039007a इहैव तावत्कृतनिश्चयो ह्यहं; यदि व्रजेयं प्लवगेश्वरालयम् 5039007c परात्मसंमर्द विशेषतत्त्ववि;त्ततः कृतं स्यान्मम भर्तृशासनम् 5039008a कथं नु खल्वद्य भवेत्सुखागतं; प्रसह्य युद्धं मम राक्षसैः सह 5039008c तथैव खल्वात्मबलं च सारव;त्समानयेन्मां च रणे दशाननः 5039009a इदमस्य नृशंसस्य नन्दनोपममुत्तमम् 5039009c वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् 5039010a इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः 5039010c अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः 5039011a ततो महत्साश्वमहारथद्विपं; बलं समानेष्वपि राक्षसाधिपः 5039011c त्रिशूलकालायसपट्टिशायुधं; ततो महद्युद्धमिदं भविष्यति 5039012a अहं तु तैः संयति चण्डविक्रमैः; समेत्य रक्षोभिरसंगविक्रमः 5039012c निहत्य तद्रावणचोदितं बलं; सुखं गमिष्यामि कपीश्वरालयम् 5039013a ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः 5039013c ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् 5039014a ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् 5039014c मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् 5039015a तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः 5039015c चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् 5039016a लतागृहैश्चित्रगृहैश्च नाशितै;र्महोरगैर्व्यालमृगैश्च निर्धुतैः 5039016c शिलागृहैरुन्मथितैस्तथा गृहैः; प्रनष्टरूपं तदभून्महद्वनम् 5039017a स तस्य कृत्वार्थपतेर्महाकपि;र्महद्व्यलीकं मनसो महात्मनः 5039017c युयुत्सुरेको बहुभिर्महाबलैः; श्रिया ज्वलंस्तोरणमाश्रितः कपिः 5040001a ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च 5040001c बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः 5040002a विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः 5040002c रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे 5040003a ततो गतायां निद्रायां राक्षस्यो विकृताननाः 5040003c तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् 5040004a स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः 5040004c चकार सुमहद्रूपं राक्षसीनां भयावहम् 5040005a ततस्तं गिरिसंकाशमतिकायं महाबलम् 5040005c राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् 5040006a कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः 5040006c कथं त्वया सहानेन संवादः कृत इत्युत 5040007a आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् 5040007c संवादमसितापाङ्गे त्वया किं कृतवानयम् 5040008a अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना 5040008c रक्षसां कामरूपाणां विज्ञाने मम का गतिः 5040009a यूयमेवास्य जानीत योऽयं यद्वा करिष्यति 5040009c अहिरेव अहेः पादान्विजानाति न संशयः 5040010a अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् 5040010c वेद्मि राक्षसमेवैनं कामरूपिणमागतम् 5040011a वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् 5040011c स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् 5040012a रावणस्य समीपे तु राक्षस्यो विकृताननाः 5040012c विरूपं वानरं भीममाख्यातुमुपचक्रमुः 5040013a अशोकवनिका मध्ये राजन्भीमवपुः कपिः 5040013c सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः 5040014a न च तं जानकी सीता हरिं हरिणलोचणा 5040014c अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति 5040015a वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा 5040015c प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया 5040016a तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम् 5040016c नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् 5040017a न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः 5040017c यत्र सा जानकी सीता स तेन न विनाशितः 5040018a जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते 5040018c अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता 5040019a चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता 5040019c प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः 5040020a तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि 5040020c सीता संभाषिता येन तद्वनं च विनाशितम् 5040021a मनःपरिगृहीतां तां तव रक्षोगणेश्वर 5040021c कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः 5040022a राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः 5040022c हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः 5040023a आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान् 5040023c व्यादिदेश महातेजा निग्रहार्थं हनूमतः 5040024a तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् 5040024c निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः 5040025a महोदरा महादंष्ट्रा घोररूपा महाबलाः 5040025c युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः 5040026a ते कपिं तं समासाद्य तोरणस्थमवस्थितम् 5040026c अभिपेतुर्महावेगाः पतङ्गा इव पावकम् 5040027a ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः 5040027c आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः 5040028a हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः 5040028c क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् 5040029a तस्य संनादशब्देन तेऽभवन्भयशङ्किताः 5040029c ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् 5040030a स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् 5040030c चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः 5040031a स तैः परिवृतः शूरैः सर्वतः स महाबलः 5040031c आससादायसं भीमं परिघं तोरणाश्रितम् 5040032a स तं परिघमादाय जघान रजनीचरान् 5040033a स पन्नगमिवादाय स्फुरन्तं विनतासुतः 5040033c विचचाराम्बरे वीरः परिगृह्य च मारुतिः 5040034a स हत्वा राक्षसान्वीरः किंकरान्मारुतात्मजः 5040034c युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः 5040035a ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः 5040035c निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन् 5040036a स राक्षसानां निहतं महाबलं; निशम्य राजा परिवृत्तलोचनः 5040036c समादिदेशाप्रतिमं पराक्रमे; प्रहस्तपुत्रं समरे सुदुर्जयम् 5041001a ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः 5041001c वनं भग्नं मया चैत्यप्रासादो न विनाशितः 5041001e तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् 5041002a इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम् 5041002c चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् 5041002e आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः 5041003a संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम् 5041003c हनूमान्प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत् 5041004a स भूत्वा तु महाकायो हनूमान्मारुतात्मजः 5041004c धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् 5041005a तस्यास्फोटितशब्देन महता श्रोत्रघातिना 5041005c पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत् 5041006a जयत्यतिबलो रामो लक्ष्मणश्च महाबलः 5041006c राजा जयति सुग्रीवो राघवेणाभिपालितः 5041007a दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः 5041007c हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः 5041008a न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् 5041008c शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः 5041009a अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् 5041009c समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् 5041010a एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः 5041010c ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् 5041011a तेन शब्देन महता चैत्यपालाः शतं ययुः 5041011c गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान् 5041011e विसृजन्तो महाक्षया मारुतिं पर्यवारयन् 5041012a आवर्त इव गङ्गायास्तोयस्य विपुलो महान् 5041012c परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः 5041013a ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः 5041014a प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् 5041014c उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः 5041014e ततस्तं भ्रामयामास शतधारं महाबलः 5041015a स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् 5041015c अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् 5041016a मादृशानां सहस्राणि विसृष्टानि महात्मनाम् 5041016c बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् 5041017a शतैः शतसहस्रैश्च कोटीभिरयुतैरपि 5041017c आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः 5041018a नेयमस्ति पुरी लङ्का न यूयं न च रावणः 5041018c यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना 5042001a संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली 5042001c जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः 5042002a रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः 5042002c महान्विवृत्तनयनश्चण्डः समरदुर्जयः 5042003a धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् 5042003c विस्फारयाणो वेगेन वज्राशनिसमस्वनम् 5042004a तस्य विस्फारघोषेण धनुषो महता दिशः 5042004c प्रदिशश्च नभश्चैव सहसा समपूर्यत 5042005a रथेन खरयुक्तेन तमागतमुदीक्ष्य सः 5042005c हनूमान्वेगसंपन्नो जहर्ष च ननाद च 5042006a तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम् 5042006c जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः 5042007a अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना 5042007c बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् 5042008a तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् 5042008c शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना 5042009a चुकोप बाणाभिहतो राक्षसस्य महाकपिः 5042009c ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् 5042010a तरसा तां समुत्पाट्य चिक्षेप बलवद्बली 5042010c तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः 5042011a विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः 5042011c सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् 5042012a भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् 5042012c चिक्षेप सुबहून्बाणाञ्जम्बुमाली महाबलः 5042013a सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे 5042013c उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे 5042014a स शरैः पूरिततनुः क्रोधेन महता वृतः 5042014c तमेव परिघं गृह्य भ्रामयामास वेगितः 5042015a अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः 5042015c परिघं पातयामास जम्बुमालेर्महोरसि 5042016a तस्य चैव शिरो नास्ति न बाहू न च जानुनी 5042016c न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः 5042017a स हतस्तरसा तेन जम्बुमाली महारथः 5042017c पपात निहतो भूमौ चूर्णिताङ्गविभूषणः 5042018a जम्बुमालिं च निहतं किंकरांश्च महाबलान् 5042018c चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः 5042019a स रोषसंवर्तितताम्रलोचनः; प्रहस्तपुत्रे निहते महाबले 5042019c अमात्यपुत्रानतिवीर्यविक्रमा;न्समादिदेशाशु निशाचरेश्वरः 5043001a ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः 5043001c निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः 5043002a महाबलपरीवारा धनुष्मन्तो महाबलाः 5043002c कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः 5043003a हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः 5043003c तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः 5043004a तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः 5043004c विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः 5043005a जनन्यस्तास्ततस्तेषां विदित्वा किंकरान्हतान् 5043005c बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः 5043006a ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः 5043006c अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् 5043007a सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः 5043007c वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः 5043008a अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः 5043008c अभवत्संवृताकारः शैलराडिव वृष्टिभिः 5043009a स शरान्वञ्चयामास तेषामाशुचरः कपिः 5043009c रथवेगांश्च वीराणां विचरन्विमलेऽम्बरे 5043010a स तैः क्रीडन्धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते 5043010c धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे 5043011a स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् 5043011c चकार हनुमान्वेगं तेषु रक्षःसु वीर्यवान् 5043012a तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परंतपः 5043012c मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् 5043013a प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः 5043013c केचित्तस्यैव नादेन तत्रैव पतिता भुवि 5043014a ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च 5043014c तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम् 5043015a विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः 5043015c भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः 5043016a स तान्प्रवृद्धान्विनिहत्य राक्षसा;न्महाबलश्चण्डपराक्रमः कपिः 5043016c युयुत्सुरन्यैः पुनरेव राक्षसै;स्तदेव वीरोऽभिजगाम तोरणम् 5044001a हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना 5044001c रावणः संवृताकारश्चकार मतिमुत्तमाम् 5044002a स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं 5044002c प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् 5044003a संदिदेश दशग्रीवो वीरान्नयविशारदान् 5044003c हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि 5044004a यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः 5044004c सवाजिरथमातङ्गाः स कपिः शास्यतामिति 5044005a यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् 5044005c कर्म चापि समाधेयं देशकालविरोधितम् 5044006a न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् 5044006c सर्वथा तन्महद्भूतं महाबलपरिग्रहम् 5044006e भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् 5044007a सनागयक्षगन्धर्वा देवासुरमहर्षयः 5044007c युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः 5044008a तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः 5044008c तदेव नात्र संदेहः प्रसह्य परिगृह्यताम् 5044009a नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः 5044009c दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः 5044010a वाली च सह सुग्रीवो जाम्बवांश्च महाबलः 5044010c नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः 5044011a नैव तेषां गतिर्भीमा न तेजो न पराक्रमः 5044011c न मतिर्न बलोत्साहो न रूपपरिकल्पनम् 5044012a महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् 5044012c प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः 5044013a कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः 5044013c भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे 5044014a तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे 5044014c आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला 5044015a ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः 5044015c समुत्पेतुर्महावेगा हुताशसमतेजसः 5044016a रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः 5044016c शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः 5044017a ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् 5044017c रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् 5044018a तोरणस्थं महावेगं महासत्त्वं महाबलम् 5044018c महामतिं महोत्साहं महाकायं महाबलम् 5044019a तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः 5044019c तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः 5044020a तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः 5044020c शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः 5044021a स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः 5044021c उत्पपात नदन्व्योम्नि दिशो दश विनादयन् 5044022a ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः 5044022c किरञ्शरशतैर्नैकैरभिपेदे महाबलः 5044023a स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् 5044023c वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः 5044024a अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः 5044024c चकार निनदं भूयो व्यवर्धत च वेगवान् 5044025a स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः 5044025c निपपात महावेगो विद्युद्राशिर्गिराविव 5044026a ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् 5044026c विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः 5044027a तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि 5044027c संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ 5044028a स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे 5044028c मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः 5044029a तयोर्वेगवतोर्वेगं विनिहत्य महाबलः 5044029c निपपात पुनर्भूमौ सुपर्णसमविक्रमः 5044030a स सालवृक्षमासाद्य समुत्पाट्य च वानरः 5044030c तावुभौ राक्षसौ वीरौ जघान पवनात्मजः 5044031a ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना 5044031c अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् 5044032a भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् 5044032c एकतः कपिशार्दूलं यशस्विनमवस्थितौ 5044033a पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् 5044033c भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् 5044034a स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः 5044034c अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः 5044035a समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् 5044035c जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः 5044036a ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु 5044036c बलं तदवशेषं तु नाशयामास वानरः 5044037a अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् 5044037c स कपिर्नाशयामास सहस्राक्ष इवासुरान् 5044038a हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः 5044038c हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः 5044039a ततः कपिस्तान्ध्वजिनीपतीन्रणे; निहत्य वीरान्सबलान्सवाहनान् 5044039c तदेव वीरः परिगृह्य तोरणं; कृतक्षणः काल इव प्रजाक्षये 5045001a सेनापतीन्पञ्च स तु प्रमापिता;न्हनूमता सानुचरान्सवाहनान् 5045001c समीक्ष्य राजा समरोद्धतोन्मुखं; कुमारमक्षं प्रसमैक्षताक्षतम् 5045002a स तस्य दृष्ट्यर्पणसंप्रचोदितः; प्रतापवान्काञ्चनचित्रकार्मुकः 5045002c समुत्पपाताथ सदस्युदीरितो; द्विजातिमुख्यैर्हविषेव पावकः 5045003a ततो महद्बालदिवाकरप्रभं; प्रतप्तजाम्बूनदजालसंततम् 5045003c रथां समास्थाय ययौ स वीर्यवा;न्महाहरिं तं प्रति नैरृतर्षभः 5045004a ततस्तपःसंग्रहसंचयार्जितं; प्रतप्तजाम्बूनदजालशोभितम् 5045004c पताकिनं रत्नविभूषितध्वजं; मनोजवाष्टाश्ववरैः सुयोजितम् 5045005a सुरासुराधृष्यमसंगचारिणं; रविप्रभं व्योमचरं समाहितम् 5045005c सतूणमष्टासिनिबद्धबन्धुरं; यथाक्रमावेशितशक्तितोमरम् 5045006a विराजमानं प्रतिपूर्णवस्तुना; सहेमदाम्ना शशिसूर्यवर्वसा 5045006c दिवाकराभं रथमास्थितस्ततः; स निर्जगामामरतुल्यविक्रमः 5045007a स पूरयन्खं च महीं च साचलां; तुरंगमतङ्गमहारथस्वनैः 5045007c बलैः समेतैः स हि तोरणस्थितं; समर्थमासीनमुपागमत्कपिम् 5045008a स तं समासाद्य हरिं हरीक्षणो; युगान्तकालाग्निमिव प्रजाक्षये 5045008c अवस्थितं विस्मितजातसंभ्रमः; समैक्षताक्षो बहुमानचक्षुषा 5045009a स तस्य वेगं च कपेर्महात्मनः; पराक्रमं चारिषु पार्थिवात्मजः 5045009c विचारयन्खं च बलं महाबलो; हिमक्षये सूर्य इवाभिवर्धते 5045010a स जातमन्युः प्रसमीक्ष्य विक्रमं; स्थिरः स्थितः संयति दुर्निवारणम् 5045010c समाहितात्मा हनुमन्तमाहवे; प्रचोदयामास शरैस्त्रिभिः शितैः 5045011a ततः कपिं तं प्रसमीक्ष्य गर्वितं; जितश्रमं शत्रुपराजयोर्जितम् 5045011c अवैक्षताक्षः समुदीर्णमानसः; सबाणपाणिः प्रगृहीतकार्मुकः 5045012a स हेमनिष्काङ्गदचारुकुण्डलः; समाससादाशु पराक्रमः कपिम् 5045012c तयोर्बभूवाप्रतिमः समागमः; सुरासुराणामपि संभ्रमप्रदः 5045013a ररास भूमिर्न तताप भानुमा;न्ववौ न वायुः प्रचचाल चाचलः 5045013c कपेः कुमारस्य च वीक्ष्य संयुगं; ननाद च द्यौरुदधिश्च चुक्षुभे 5045014a ततः स वीरः सुमुखान्पतत्रिणः; सुवर्णपुङ्खान्सविषानिवोरगान् 5045014c समाधिसंयोगविमोक्षतत्त्ववि;च्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् 5045015a स तैः शरैर्मूर्ध्नि समं निपातितैः; क्षरन्नसृग्दिग्धविवृत्तलोचनः 5045015c नवोदितादित्यनिभः शरांशुमा;न्व्यराजतादित्य इवांशुमालिकः 5045016a ततः स पिङ्गाधिपमन्त्रिसत्तमः; समीक्ष्य तं राजवरात्मजं रणे 5045016c उदग्रचित्रायुधचित्रकार्मुकं; जहर्ष चापूर्यत चाहवोन्मुखः 5045017a स मन्दराग्रस्थ इवांशुमाली; विवृद्धकोपो बलवीर्यसंयुतः 5045017c कुमारमक्षं सबलं सवाहनं; ददाह नेत्राग्निमरीचिभिस्तदा 5045018a ततः स बाणासनशक्रकार्मुकः; शरप्रवर्षो युधि राक्षसाम्बुदः 5045018c शरान्मुमोचाशु हरीश्वराचले; बलाहको वृष्टिमिवाचलोत्तमे 5045019a ततः कपिस्तं रणचण्डविक्रमं; विवृद्धतेजोबलवीर्यसायकम् 5045019c कुमारमक्षं प्रसमीक्ष्य संयुगे; ननाद हर्षाद्घनतुल्यविक्रमः 5045020a स बालभावाद्युधि वीर्यदर्पितः; प्रवृद्धमन्युः क्षतजोपमेक्षणः 5045020c समाससादाप्रतिमं रणे कपिं; गजो महाकूपमिवावृतं तृणैः 5045021a स तेन बाणैः प्रसभं निपातितै;श्चकार नादं घननादनिःस्वनः 5045021c समुत्पपाताशु नभः स मारुति;र्भुजोरुविक्षेपण घोरदर्शनः 5045022a समुत्पतन्तं समभिद्रवद्बली; स राक्षसानां प्रवरः प्रतापवान् 5045022c रथी रथश्रेष्ठतमः किरञ्शरैः; पयोधरः शैलमिवाश्मवृष्टिभिः 5045023a स ताञ्शरांस्तस्य विमोक्षयन्कपि;श्चचार वीरः पथि वायुसेविते 5045023c शरान्तरे मारुतवद्विनिष्पत;न्मनोजवः संयति चण्डविक्रमः 5045024a तमात्तबाणासनमाहवोन्मुखं; खमास्तृणन्तं विविधैः शरोत्तमैः 5045024c अवैक्षताक्षं बहुमानचक्षुषा; जगाम चिन्तां च स मारुतात्मजः 5045025a ततः शरैर्भिन्नभुजान्तरः कपिः; कुमारवर्येण महात्मना नदन् 5045025c महाभुजः कर्मविशेषतत्त्ववि;द्विचिन्तयामास रणे पराक्रमम् 5045026a अबालवद्बालदिवाकरप्रभः; करोत्ययं कर्म महन्महाबलः 5045026c न चास्य सर्वाहवकर्मशोभिनः; प्रमापणे मे मतिरत्र जायते 5045027a अयं महात्मा च महांश्च वीर्यतः; समाहितश्चातिसहश्च संयुगे 5045027c असंशयं कर्मगुणोदयादयं; सनागयक्षैर्मुनिभिश्च पूजितः 5045028a पराक्रमोत्साहविवृद्धमानसः; समीक्षते मां प्रमुखागतः स्थितः 5045028c पराक्रमो ह्यस्य मनांसि कम्पये;त्सुरासुराणामपि शीघ्रकारिणः 5045029a न खल्वयं नाभिभवेदुपेक्षितः; पराक्रमो ह्यस्य रणे विवर्धते 5045029c प्रमापणं त्वेव ममास्य रोचते; न वर्धमानोऽग्निरुपेक्षितुं क्षमः 5045030a इति प्रवेगं तु परस्य तर्कय;न्स्वकर्मयोगं च विधाय वीर्यवान् 5045030c चकार वेगं तु महाबलस्तदा; मतिं च चक्रेऽस्य वधे महाकपिः 5045031a स तस्य तानष्टहयान्महाजवा;न्समाहितान्भारसहान्विवर्तने 5045031c जघान वीरः पथि वायुसेविते; तलप्रहालैः पवनात्मजः कपिः 5045032a ततस्तलेनाभिहतो महारथः; स तस्य पिङ्गाधिपमन्त्रिनिर्जितः 5045032c स भग्ननीडः परिमुक्तकूबरः; पपात भूमौ हतवाजिरम्बरात् 5045033a स तं परित्यज्य महारथो रथं; सकार्मुकः खड्गधरः खमुत्पतत् 5045033c तपोऽभियोगादृषिरुग्रवीर्यवा;न्विहाय देहं मरुतामिवालयम् 5045034a ततः कपिस्तं विचरन्तमम्बरे; पतत्रिराजानिलसिद्धसेविते 5045034c समेत्य तं मारुतवेगविक्रमः; क्रमेण जग्राह च पादयोर्दृढम् 5045035a स तं समाविध्य सहस्रशः कपि;र्महोरगं गृह्य इवाण्डजेश्वरः 5045035c मुमोच वेगात्पितृतुल्यविक्रमो; महीतले संयति वानरोत्तमः 5045036a स भग्नबाहूरुकटीशिरो धरः; क्षरन्नसृन्निर्मथितास्थिलोचनः 5045036c स भिन्नसंधिः प्रविकीर्णबन्धनो; हतः क्षितौ वायुसुतेन राक्षसः 5045037a महाकपिर्भूमितले निपीड्य तं; चकार रक्षोऽधिपतेर्महद्भयम् 5045038a महर्षिभिश्चक्रचरैर्महाव्रतैः; समेत्य भूतैश्च सयक्षपन्नगैः 5045038c सुरैश्च सेन्द्रैर्भृशजातविस्मयै;र्हते कुमारे स कपिर्निरीक्षितः 5045039a निहत्य तं वज्रसुतोपमप्रभं; कुमारमक्षं क्षतजोपमेक्षणम् 5045039c तदेव वीरोऽभिजगाम तोरणं; कृतक्षणः काल इव प्रजाक्षये 5046001a ततस्तु रक्षोऽधिपतिर्महात्मा; हनूमताक्षे निहते कुमारे 5046001c मनः समाधाय तदेन्द्रकल्पं; समादिदेशेन्द्रजितं स रोषात् 5046002a त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः; सुरासुराणामपि शोकदाता 5046002c सुरेषु सेन्द्रेषु च दृष्टकर्मा; पितामहाराधनसंचितास्त्रः 5046003a तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः 5046003c न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः 5046004a भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः 5046004c देशकालविभागज्ञस्त्वमेव मतिसत्तमः 5046005a न तेऽस्त्यशक्यं समरेषु कर्मणा; न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे 5046005c न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै; न वेद यस्तेऽस्त्रबलं बलं च ते 5046006a ममानुरूपं तपसो बलं च ते; पराक्रमश्चास्त्रबलं च संयुगे 5046006c न त्वां समासाद्य रणावमर्दे; मनः श्रमं गच्छति निश्चितार्थम् 5046007a निहता इंकराः सर्वे जम्बुमाली च राक्षसः 5046007c अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः 5046008a सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः 5046008c न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन 5046009a इदं हि दृष्ट्वा मतिमन्महद्बलं; कपेः प्रभावं च पराक्रमं च 5046009c त्वमात्मनश्चापि समीक्ष्य सारं; कुरुष्व वेगं स्वबलानुरूपम् 5046010a बलावमर्दस्त्वयि संनिकृष्टे; यथा गते शाम्यति शान्तशत्रौ 5046010c तथा समीक्ष्यात्मबलं परं च; समारभस्वास्त्रविदां वरिष्ठ 5046011a न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम् 5046011c इयं च राजधर्माणां क्षत्रस्य च मतिर्मता 5046012a नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम 5046012c अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे 5046013a ततः पितुस्तद्वचनं निशम्य; प्रदक्षिणं दक्षसुतप्रभावः 5046013c चकार भर्तारमदीनसत्त्वो; रणाय वीरः प्रतिपन्नबुद्धिः 5046014a ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः 5046014c युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत 5046015a श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः 5046015c निर्जगाम महातेजाः समुद्र इव पर्वसु 5046016a स पक्षि राजोपमतुल्यवेगै;र्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः 5046016c रथं समायुक्तमसंगवेगं; समारुरोहेन्द्रजिदिन्द्रकल्पः 5046017a स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः 5046017c रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् 5046018a स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च 5046018c निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् 5046019a सुमहच्चापमादाय शितशल्यांश्च सायकान् 5046019c हनूमन्तमभिप्रेत्य जगाम रणपण्डितः 5046020a तस्मिंस्ततः संयति जातहर्षे; रणाय निर्गच्छति बाणपाणौ 5046020c दिशश्च सर्वाः कलुषा बभूवु;र्मृगाश्च रौद्रा बहुधा विनेदुः 5046021a समागतास्तत्र तु नागयक्षा; महर्षयश्चक्रचराश्च सिद्धाः 5046021c नभः समावृत्य च पक्षिसंघा; विनेदुरुच्चैः परमप्रहृष्टाः 5046022a आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः 5046022c विननाद महानादं व्यवर्धत च वेगवान् 5046023a इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः 5046023c धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् 5046024a ततः समेतावतितीक्ष्णवेगौ; महाबलौ तौ रणनिर्विशङ्कौ 5046024c कपिश्च रक्षोऽधिपतेश्च पुत्रः; सुरासुरेन्द्राविव बद्धवैरौ 5046025a स तस्य वीरस्य महारथस्या; धनुष्मतः संयति संमतस्य 5046025c शरप्रवेगं व्यहनत्प्रवृद्ध;श्चचार मार्गे पितुरप्रमेयः 5046026a ततः शरानायततीक्ष्णशल्या;न्सुपत्रिणः काञ्चनचित्रपुङ्खान् 5046026c मुमोच वीरः परवीरहन्ता; सुसंततान्वज्रनिपातवेगान् 5046027a स तस्य तत्स्यन्दननिःस्वनं च; मृदङ्गभेरीपटहस्वनं च 5046027c विकृष्यमाणस्य च कार्मुकस्य; निशम्य घोषं पुनरुत्पपात 5046028a शराणामन्तरेष्वाशु व्यवर्तत महाकपिः 5046028c हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसंग्रहम् 5046029a शराणामग्रतस्तस्य पुनः समभिवर्तत 5046029c प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः 5046030a तावुभौ वेगसंपन्नौ रणकर्मविशारदौ 5046030c सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् 5046031a हनूमतो वेद न राक्षसोऽन्तरं; न मारुतिस्तस्य महात्मनोऽन्तरम् 5046031c परस्परं निर्विषहौ बभूवतुः; समेत्य तौ देवसमानविक्रमौ 5046032a ततस्तु लक्ष्ये स विहन्यमाने; शरेषु मोघेषु च संपतत्सु 5046032c जगाम चिन्तां महतीं महात्मा; समाधिसंयोगसमाहितात्मा 5046033a ततो मतिं राक्षसराजसूनु;श्चकार तस्मिन्हरिवीरमुख्ये 5046033c अवध्यतां तस्य कपेः समीक्ष्य; कथं निगच्छेदिति निग्रहार्थम् 5046034a ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः 5046034c संदधे सुमहातेजास्तं हरिप्रवरं प्रति 5046035a अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् 5046035c निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् 5046036a तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः 5046036c अभवन्निर्विचेष्टश्च पपात च महीतले 5046037a ततोऽथ बुद्ध्वा स तदास्त्रबन्धं; प्रभोः प्रभावाद्विगताल्पवेगः 5046037c पितामहानुग्रहमात्मनश्च; विचिन्तयामास हरिप्रवीरः 5046038a ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम् 5046038c हनूमांश्चिन्तयामास वरदानं पितामहात् 5046039a न मेऽस्त्रबन्धस्य च शक्तिरस्ति; विमोक्षणे लोकगुरोः प्रभावात् 5046039c इत्येवमेवंविहितोऽस्त्रबन्धो; मयात्मयोनेरनुवर्तितव्यः 5046040a स वीर्यमस्त्रस्य कपिर्विचार्य; पितामहानुग्रहमात्मनश्च 5046040c विमोक्षशक्तिं परिचिन्तयित्वा; पितामहाज्ञामनुवर्तते स्म 5046041a अस्त्रेणापि हि बद्धस्य भयं मम न जायते 5046041c पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च 5046042a ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् 5046042c राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे 5046043a स निश्चितार्थः परवीरहन्ता; समीक्ष्य करी विनिवृत्तचेष्टः 5046043c परैः प्रसह्याभिगतैर्निगृह्य; ननाद तैस्तैः परिभर्त्स्यमानः 5046044a ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् 5046044c बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः 5046045a स रोचयामास परैश्च बन्धनं; प्रसह्य वीरैरभिनिग्रहं च 5046045c कौतूहलान्मां यदि राक्षसेन्द्रो; द्रष्टुं व्यवस्येदिति निश्चितार्थः 5046046a स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् 5046046c अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते 5046047a अथेन्द्रजित्तं द्रुमचीरबन्धं; विचार्य वीरः कपिसत्तमं तम् 5046047c विमुक्तमस्त्रेण जगाम चिन्ता;मन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् 5046048a अहो महत्कर्म कृतं निरर्थकं; न राक्षसैर्मन्त्रगतिर्विमृष्टा 5046048c पुनश्च नास्त्रे विहतेऽस्त्रमन्य;त्प्रवर्तते संशयिताः स्म सर्वे 5046049a अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते 5046049c कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः 5046050a हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः 5046050c समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः 5046051a अथेन्द्रजित्तं प्रसमीक्ष्य मुक्त;मस्त्रेण बद्धं द्रुमचीरसूत्रैः 5046051c व्यदर्शयत्तत्र महाबलं तं; हरिप्रवीरं सगणाय राज्ञे 5046052a तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् 5046052c राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् 5046053a कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः 5046053c इति राक्षसवीराणां तत्र संजज्ञिरे कथाः 5046054a हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे 5046054c राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् 5046055a अतीत्य मार्गं सहसा महात्मा; स तत्र रक्षोऽधिपपादमूले 5046055c ददर्श राज्ञः परिचारवृद्धा;न्गृहं महारत्नविभूषितं च 5046056a स ददर्श महातेजा रावणः कपिसत्तमम् 5046056c रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः 5046057a राक्षसाधिपतिं चापि ददर्श कपिसत्तमः 5046057c तेजोबलसमायुक्तं तपन्तमिव भास्करम् 5046058a स रोषसंवर्तितताम्रदृष्टि;र्दशाननस्तं कपिमन्ववेक्ष्य 5046058c अथोपविष्टान्कुलशीलवृद्धा;न्समादिशत्तं प्रति मन्त्रमुख्यान् 5046059a यथाक्रमं तैः स कपिश्च पृष्टः; कार्यार्थमर्थस्य च मूलमादौ 5046059c निवेदयामास हरीश्वरस्य; दूतः सकाशादहमागतोऽस्मि 5047001a ततः स कर्मणा तस्य विस्मितो भीमविक्रमः 5047001c हनुमान्रोषताम्राक्षो रक्षोऽधिपमवैक्षत 5047002a भाजमानं महार्हेण काञ्चनेन विराजता 5047002c मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् 5047003a वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः 5047003c हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः 5047004a महार्हक्षौमसंवीतं रक्तचन्दनरूषितम् 5047004c स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः 5047005a विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः 5047005c दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः 5047006a शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं 5047006c नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् 5047007a नीलाञ्जनचय प्रख्यं हारेणोरसि राजता 5047007c पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम् 5047008a बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः 5047008c भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः 5047009a महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते 5047009c उत्तमास्तरणास्तीर्णे उपविष्टं वरासने 5047010a अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः 5047010c वालव्यजनहस्ताभिरारात्समुपसेवितम् 5047011a दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा 5047011c मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा 5047012a उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः 5047012c कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः 5047013a मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः 5047013c अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् 5047014a अपश्यद्राक्षसपतिं हनूमानतितेजसं 5047014c विष्ठितं मेरुशिखरे सतोयमिव तोयदम् 5047015a स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः 5047015c विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत 5047016a भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् 5047016c मनसा चिन्तयामास तेजसा तस्य मोहितः 5047017a अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः 5047017c अहो राक्षसराजस्य सर्वलक्षणयुक्तता 5047018a यद्यधर्मो न बलवान्स्यादयं राक्षसेश्वरः 5047018c स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता 5047019a तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः 5047019c अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् 5047020a इति चिन्तां बहुविधामकरोन्मतिमान्कपिः 5047020c दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः 5048001a तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् 5048001c रोषेण महताविष्टो रावणो लोकरावणः 5048002a स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् 5048002c कालयुक्तमुवाचेदं वचो विपुलमर्थवत् 5048003a दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम् 5048003c वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने 5048004a रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् 5048004c समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे 5048005a यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् 5048005c तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे 5048006a यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च 5048006c चारुरूपमिदं कृत्वा यमस्य वरुणस्य च 5048007a विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा 5048007c न हि ते वानरं तेजो रूपमात्रं तु वानरम् 5048008a तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे 5048008c अनृतं वदतश्चापि दुर्लभं तव जीवितम् 5048009a अथ वा यन्निमित्तस्ते प्रवेशो रावणालये 5048010a एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् 5048010c अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा 5048011a धनदेन न मे सख्यं विष्णुना नास्मि चोदितः 5048011c जातिरेव मम त्वेषा वानरोऽहमिहागतः 5048012a दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया 5048012c वनं राक्षसराजस्य दर्शनार्थे विनाशितम् 5048013a ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः 5048013c रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे 5048014a अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि 5048014c पितामहादेव वरो ममाप्येषोऽभ्युपागतः 5048015a राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् 5048015c विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः 5048016a दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः 5048016c श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो 5049001a तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः 5049001c वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् 5049002a अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् 5049002c राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् 5049003a भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः 5049003c धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् 5049004a राजा दशरथो नाम रथकुञ्जरवाजिमान् 5049004c पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः 5049005a ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः 5049005c पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम् 5049006a लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया 5049006c रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः 5049007a तस्य भार्या वने नष्टा सीता पतिमनुव्रता 5049007c वैदेहस्य सुता राज्ञो जनकस्य महात्मनः 5049008a स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः 5049008c ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः 5049009a तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम् 5049009c सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम् 5049010a ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम् 5049010c सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः 5049011a स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः 5049011c हरीन्संप्रेषयामास दिशः सर्वा हरीश्वरः 5049012a तां हरीणां सहस्राणि शतानि नियुतानि च 5049012c दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे 5049013a वैनतेय समाः केचित्केचित्तत्रानिलोपमाः 5049013c असंगगतयः शीघ्रा हरिवीरा महाबलाः 5049014a अहं तु हनुमान्नाम मारुतस्यौरसः सुतः 5049014c सीतायास्तु कृते तूर्णं शतयोजनमायतम् 5049014e समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः 5049015a तद्भवान्दृष्टधर्मार्थस्तपः कृतपरिग्रहः 5049015c परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि 5049016a न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु 5049016c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 5049017a कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम् 5049017c शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि 5049018a न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन 5049018c राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात् 5049019a तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च 5049019c मन्यस्व नरदेवाय जानकी प्रतिदीयताम् 5049020a दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम् 5049020c उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः 5049021a लक्षितेयं मया सीता तथा शोकपरायणा 5049021c गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम् 5049022a नेयं जरयितुं शक्या सासुरैरमरैरपि 5049022c विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा 5049023a तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः 5049023c न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः 5049024a अवध्यतां तपोभिर्यां भवान्समनुपश्यति 5049024c आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान् 5049025a सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः 5049025c न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः 5049026a मानुषो राघवो राजन्सुग्रीवश्च हरीश्वरः 5049026c तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि 5049027a न तु धर्मोपसंहारमधर्मफलसंहितम् 5049027c तदेव फलमन्वेति धर्मश्चाधर्मनाशनः 5049028a प्राप्तं धर्मफलं तावद्भवता नात्र संशयः 5049028c फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे 5049029a जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा 5049029c रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः 5049030a कामं खल्वहमप्येकः सवाजिरथकुञ्जराम् 5049030c लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः 5049031a रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ 5049031c उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता 5049032a अपकुर्वन्हि रामस्य साक्षादपि पुरंदरः 5049032c न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः 5049033a यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे 5049033c कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् 5049034a तदलं कालपाशेन सीता विग्रहरूपिणा 5049034c स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम् 5049035a सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् 5049035c दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम् 5049036a स सौष्ठवोपेतमदीनवादिनः; कपेर्निशम्याप्रतिमोऽप्रियं वचः 5049036c दशाननः कोपविवृत्तलोचनः; समादिशत्तस्य वधं महाकपेः 5050001a तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः 5050001c आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः 5050002a वधे तस्य समाज्ञप्ते रावणेन दुरात्मना 5050002c निवेदितवतो दौत्यं नानुमेने विभीषणः 5050003a तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् 5050003c विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः 5050004a निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् 5050004c उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः 5050005a राजन्धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् 5050005c तव चासदृशं वीर कपेरस्य प्रमापणम् 5050006a असंशयं शत्रुरयं प्रवृद्धः; कृतं ह्यनेनाप्रियमप्रमेयम् 5050006c न दूतवध्यां प्रवदन्ति सन्तो; दूतस्य दृष्टा बहवो हि दण्डाः 5050007a वैरूप्यामङ्गेषु कशाभिघातो; मौण्ड्यं तथा लक्ष्मणसंनिपातः 5050007c एतान्हि दूते प्रवदन्ति दण्डा;न्वधस्तु दूतस्य न नः श्रुतोऽपि 5050008a कथं च धर्मार्थविनीतबुद्धिः; परावरप्रत्ययनिश्चितार्थः 5050008c भवद्विधः कोपवशे हि तिष्ठे;त्कोपं नियच्छन्ति हि सत्त्ववन्तः 5050009a न धर्मवादे न च लोकवृत्ते; न शास्त्रबुद्धिग्रहणेषु वापि 5050009c विद्येत कश्चित्तव वीरतुल्य;स्त्वं ह्युत्तमः सर्वसुरासुराणाम् 5050010a न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम् 5050010c तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः 5050011a साधुर्वा यदि वासाधुर्परैरेष समर्पितः 5050011c ब्रुवन्परार्थं परवान्न दूतो वधमर्हति 5050012a अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् 5050012c इह यः पुनरागच्छेत्परं पारं महोदधिः 5050013a तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय 5050013c भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति 5050014a अस्मिन्विनष्टे न हि दूतमन्यं; पश्यामि यस्तौ नरराजपुत्रौ 5050014c युद्धाय युद्धप्रियदुर्विनीता;वुद्योजयेद्दीर्घपथावरुद्धौ 5050015a पराक्रमोत्साहमनस्विनां च; सुरासुराणामपि दुर्जयेन 5050015c त्वया मनोनन्दन नैरृतानां; युद्धायतिर्नाशयितुं न युक्ता 5050016a हिताश्च शूराश्च समाहिताश्च; कुलेषु जाताश्च महागुणेषु 5050016c मनस्विनः शस्त्रभृतां वरिष्ठाः; कोट्यग्रशस्ते सुभृताश्च योधाः 5050017a तदेकदेशेन बलस्य ताव;त्केचित्तवादेशकृतोऽपयान्तु 5050017c तौ राजपुत्रौ विनिगृह्य मूढौ; परेषु ते भावयितुं प्रभावम् 5051001a तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः 5051001c देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत् 5051002a सम्यगुक्तं हि भवता दूतवध्या विगर्हिता 5051002c अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः 5051003a कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् 5051003c तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु 5051004a ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् 5051004c समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः 5051005a आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् 5051005c लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् 5051006a तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः 5051006c वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः 5051007a संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः 5051007c शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः 5051008a तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन् 5051009a लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् 5051009c रोषामर्षपरीतात्मा बालसूर्यसमाननः 5051010a स भूयः संगतैः क्रूरै राकसैर्हरिसत्तमः 5051010c निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् 5051011a कामं खलु न मे शक्ता निबधस्यापि राक्षसाः 5051011c छित्त्वा पाशान्समुत्पत्य हन्यामहमिमान्पुनः 5051012a सर्वेषामेव पर्याप्तो राक्षसानामहं युधि 5051012c किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् 5051013a लङ्का चरयितव्या मे पुनरेव भवेदिति 5051013c रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः 5051013e अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये 5051014a कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च 5051014c पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः 5051015a ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् 5051015c परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् 5051016a शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः 5051016c राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् 5051017a हनुमांश्चारयामास राक्षसानां महापुरीम् 5051017c अथापश्यद्विमानानि विचित्राणि महाकपिः 5051018a संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् 5051018c रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च 5051019a चत्वरेषु चतुष्केषु राजमार्गे तथैव च 5051019c घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः 5051020a दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः 5051020c राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् 5051021a यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः 5051021c लाङ्गूलेन प्रदीप्तेन स एष परिणीयते 5051022a श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् 5051022c वैदेही शोकसंतप्ता हुताशनमुपागमत् 5051023a मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः 5051023c उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् 5051024a यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः 5051024c यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः 5051025a यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः 5051025c यदि वा भाग्यशेषं मे शीतो भव हनूमतः 5051026a यदि मां वृत्तसंपन्नां तत्समागमलालसाम् 5051026c स विजानाति धर्मात्मा शीतो भव हनूमतः 5051027a यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरः 5051027c अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः 5051028a ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः 5051028c जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः 5051029a दह्यमाने च लाङ्गूले चिन्तयामास वानरः 5051029c प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः 5051030a दृश्यते च महाज्वालः करोति च न मे रुजम् 5051030c शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः 5051031a अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया 5051031c रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ 5051032a यदि तावत्समुद्रस्य मैनाकस्य च धीमथ 5051032c रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति 5051033a सीतायाश्चानृशंस्येन तेजसा राघवस्य च 5051033c पितुश्च मम सख्येन न मां दहति पावकः 5051034a भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः 5051034c उत्पपाताथ वेगेन ननाद च महाकपिः 5051035a पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् 5051035c विभक्तरक्षःसंबाधमाससादानिलात्मजः 5051036a स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् 5051036c ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् 5051037a विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः 5051037c वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् 5051038a स तं गृह्य महाबाहुः कालायसपरिष्कृतम् 5051038c रक्षिणस्तान्पुनः सर्वान्सूदयामास मारुतिः 5051039a स तान्निहत्वा रणचण्डविक्रमः; समीक्षमाणः पुनरेव लङ्काम् 5051039c प्रदीप्तलाङ्गूलकृतार्चिमाली; प्रकाशतादित्य इवांशुमाली 5052001a वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः 5052001c वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् 5052002a किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम् 5052002c यदेषां रक्षसां भूयः संतापजननं भवेत् 5052003a वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः 5052003c बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् 5052004a दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् 5052004c अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः 5052005a यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः 5052005c अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः 5052006a ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः 5052006c भवनाग्रेषु लङ्काया विचचार महाकपिः 5052007a मुमोच हनुमानग्निं कालानलशिखोपमम् 5052008a श्वसनेन च संयोगादतिवेगो महाबलः 5052008c कालाग्निरिव जज्वाल प्रावर्धत हुताशनः 5052009a प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत् 5052010a तानि काञ्चनजालानि मुक्तामणिमयानि च 5052010c भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च 5052011a तानि भग्नविमानानि निपेतुर्वसुधातले 5052011c भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये 5052012a वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् 5052012c विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः 5052013a नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा 5052013c हनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति 5052014a हुताशनज्वालसमावृता सा; हतप्रवीरा परिवृत्तयोधा 5052014c हनूमातः क्रोधबलाभिभूता; बभूव शापोपहतेव लङ्का 5052015a ससंभ्रमं त्रस्तविषण्णराक्षसां; समुज्ज्वलज्ज्वालहुताशनाङ्किताम् 5052015c ददर्श लङ्कां हनुमान्महामनाः; स्वयम्भुकोपोपहतामिवावनिम् 5052016a स राक्षसांस्तान्सुबहूंश्च हत्वा; वनं च भङ्क्त्वा बहुपादपं तत् 5052016c विसृज्य रक्षो भवनेषु चाग्निं; जगाम रामं मनसा महात्मा 5052017a लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः 5052017c निर्वापयामास तदा समुद्रे हरिसत्तमः 5053001a संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम् 5053001c अवेक्ष्य हानुमाँल्लङ्कां चिन्तयामास वानरः 5053002a तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत 5053002c लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया 5053003a धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम् 5053003c निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा 5053004a यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी 5053004c दग्धा तेन मया भर्तुर्हतं कार्यमजानता 5053005a यदर्थमयमारम्भस्तत्कार्यमवसादितम् 5053005c मया हि दहता लङ्कां न सीता परिरक्षिता 5053006a ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः 5053006c तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः 5053007a विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते 5053007c लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी 5053008a यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् 5053008c इहैव प्राणसंन्यासो ममापि ह्यतिरोचते 5053009a किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे 5053009c शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् 5053010a कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः 5053010c तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना 5053011a मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् 5053011c प्रथितं त्रिषु लोकेषु कपितमनवस्थितम् 5053012a धिगस्तु राजसं भावमनीशमनवस्थितम् 5053012c ईश्वरेणापि यद्रागान्मया सीता न रक्षिता 5053013a विनष्टायां तु सीतायां तावुभौ विनशिष्यतः 5053013c तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति 5053014a एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः 5053014c धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् 5053015a इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् 5053015c भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः 5053016a तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः 5053016c रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः 5053017a इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे 5053017c पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् 5053018a अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा 5053018c न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते 5053019a न हि धर्मान्मनस्तस्य भार्याममिततेजसः 5053019c स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः 5053020a नूनं रामप्रभावेन वैदेह्याः सुकृतेन च 5053020c यन्मां दहनकर्मायं नादहद्धव्यवाहनः 5053021a त्रयाणां भरतादीनां भ्रातॄणां देवता च या 5053021c रामस्य च मनःकान्ता सा कथं विनशिष्यति 5053022a यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः 5053022c न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति 5053023a तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि 5053023c अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति 5053024a स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् 5053024c शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् 5053025a अहो खलु कृतं कर्म दुर्विषह्यं हनूमता 5053025c अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि 5053026a दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा 5053026c जानकी न च दग्धेति विस्मयोऽद्भुत एव नः 5053027a स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः 5053027c ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः 5053028a ततः कपिः प्राप्तमनोरथार्थ;स्तामक्षतां राजसुतां विदित्वा 5053028c प्रत्यक्षतस्तां पुनरेव दृष्ट्वा; प्रतिप्रयाणाय मतिं चकार 5054001a ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् 5054001c अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् 5054002a ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः 5054002c भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत 5054003a काममस्य त्वमेवैकः कार्यस्य परिसाधने 5054003c पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः 5054004a बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः 5054004c मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत् 5054005a तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः 5054005c भवत्याहवशूरस्य तत्त्वमेवोपपादय 5054006a तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5054006c निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् 5054007a क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः 5054007c यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति 5054008a एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः 5054008c गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् 5054009a ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः 5054009c आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः 5054010a तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः 5054010c सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् 5054011a लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् 5054011c नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् 5054012a बहुप्रस्रवणोपेतं शिलासंचयसंकटम् 5054012c महर्षियक्षगन्धर्वकिंनरोरगसेवितम् 5054013a लतापादपसंबाधं सिंहाकुलितकन्दरम् 5054013c व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् 5054014a तमारुरोहातिबलः पर्वतं प्लवगोत्तमः 5054014c रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः 5054015a तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु 5054015c सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः 5054016a स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः 5054016c दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः 5054017a अधिरुह्य ततो वीरः पर्वतं पवनात्मजः 5054017c ददर्श सागरं भीमं मीनोरगनिषेवितम् 5054018a स मारुत इवाकाशं मारुतस्यात्मसंभवः 5054018c प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् 5054019a स तदा पीडितस्तेन कपिना पर्वतोत्तमः 5054019c ररास सह तैर्भूतैः प्राविशद्वसुधातलम् 5054019e कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः 5054020a तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः 5054020c निपेतुर्भूतले रुग्णाः शक्रायुधहता इव 5054021a कन्दरोदरसंस्थानां पीडितानां महौजसाम् 5054021c सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे 5054022a स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा 5054022c विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् 5054023a अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः 5054023c निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः 5054024a किंनरोरगगन्धर्वयक्षविद्याधरास्तथा 5054024c पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः 5054025a स च भूमिधरः श्रीमान्बलिना तेन पीडितः 5054025c सवृक्षशिखरोदग्राः प्रविवेश रसातलम् 5054026a दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः 5054026c धरण्यां समतां यातः स बभूव धराधरः 5055001a सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् 5055001c तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम् 5055002a पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम् 5055002c ऐरावतमहाद्वीपं स्वातीहंसविलोडितम् 5055003a वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत् 5055003c भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम् 5055004a ग्रसमान इवाकाशं ताराधिपमिवालिखन् 5055004c हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् 5055005a मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् 5055005c हनूमान्मेघजालानि विकर्षन्निव गच्छति 5055006a पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च 5055006c हरितारुणवर्णानि महाभ्राणि चकाशिरे 5055007a प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः 5055007c प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते 5055008a नदन्नादेन महता मेघस्वनमहास्वनः 5055008c आजगाम महातेजाः पुनर्मध्येन सागरम् 5055009a पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् 5055009c ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः 5055010a स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् 5055010c महेन्द्रमेघसंकाशं ननाद हरिपुंगवः 5055011a निशम्य नदतो नादं वानरास्ते समन्ततः 5055011c बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः 5055012a जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः 5055012c उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् 5055013a सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः 5055013c न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् 5055014a तस्या बाहूरुवेगं च निनादं च महात्मनः 5055014c निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः 5055015a ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च 5055015c प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः 5055016a ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः 5055016c वासांसीव प्रकाशानि समाविध्यन्त वानराः 5055017a तमभ्रघनसंकाशमापतन्तं महाकपिम् 5055017c दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा 5055018a ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः 5055018c निपपात महेन्द्रस्य शिखरे पादपाकुले 5055019a ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः 5055019c हनूमन्तं महात्मानं परिवार्योपतस्थिरे 5055020a परिवार्य च ते सर्वे परां प्रीतिमुपागताः 5055020c प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् 5055021a उपायनानि चादाय मूलानि च फलानि च 5055021c प्रत्यर्चयन्हरिश्रेष्ठं हरयो मारुतात्मजम् 5055022a विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथा 5055022c हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः 5055023a हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा 5055023c कुमारमङ्गदं चैव सोऽवन्दत महाकपिः 5055024a स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः 5055024c दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् 5055025a निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् 5055025c रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा 5055026a हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् 5055026c अशोकवनिकासंस्था दृष्टा सा जनकात्मजा 5055027a रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता 5055027c एकवेणीधरा बाला रामदर्शनलालसा 5055027e उपवासपरिश्रान्ता मलिना जटिला कृशा 5055028a ततो दृष्टेति वचनं महार्थममृतोपमम् 5055028c निशम्य मारुतेः सर्वे मुदिता वानरा भवन् 5055029a क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः 5055029c चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे 5055030a केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः 5055030c अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः 5055031a अपरे तु हनूमन्तं वानरा वारणोपमम् 5055031c आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः 5055032a उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् 5055032c सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् 5055033a सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते 5055033c यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः 5055034a दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी 5055034c दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् 5055035a ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः 5055035c परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः 5055036a श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः 5055036c दर्शनं चापि लङ्कायाः सीताया रावणस्य च 5055036e तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः 5055037a तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः 5055037c उपास्यमानो विबुधैर्दिवि देवपतिर्यथा 5055038a हनूमता कीर्तिमता यशस्विना; तथाङ्गदेनाङ्गदबद्धबाहुना 5055038c मुदा तदाध्यासितमुन्नतं मह;न्महीधराग्रं ज्वलितं श्रियाभवत् 5056001a ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः 5056001c हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् 5056002a तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम् 5056002c जाम्बवान्कार्यवृत्तान्तमपृच्छदनिलात्मजम् 5056003a कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते 5056003c तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः 5056004a तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे 5056004c श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् 5056005a यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् 5056005c रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः 5056006a स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः 5056006c नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत 5056007a प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः 5056007c उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः 5056008a गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् 5056008c काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् 5056009a स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् 5056010a उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् 5056010c कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च 5056011a प्रहतं च मया तस्य लाङ्गूलेन महागिरेः 5056011c शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा 5056012a व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः 5056012c पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव 5056013a पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः 5056013c मैनाकमिति विख्यातं निवसन्तं महोदधौ 5056014a पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः 5056014c छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः 5056015a श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः 5056015c चिच्छेद भगवान्पक्षान्वज्रेणैषां सहस्रशः 5056016a अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना 5056016c मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे 5056017a रामस्य च मया साह्ये वर्तितव्यमरिंदम 5056017c रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः 5056018a एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः 5056018c कार्यमावेद्य तु गिरेरुद्धतं च मनो मम 5056019a तेन चाहमनुज्ञातो मैनाकेन महात्मना 5056019c उत्तमं जवमास्थाय शेषमध्वानमास्थितः 5056020a ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि 5056020c ततः पश्याम्यहं देवीं सुरसां नागमातरम् 5056021a समुद्रमध्ये सा देवी वचनं मामभाषत 5056021c मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् 5056021e ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे 5056022a एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः 5056022c विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् 5056023a रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् 5056023c लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः 5056024a तस्य सीता हृता भार्या रावणेन दुरात्मना 5056024c तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् 5056025a कर्तुमर्हसि रामस्य साह्यं विषयवासिनि 5056026a अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् 5056026c आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे 5056027a एवमुक्ता मया सा तु सुरसा कामरूपिणी 5056027c अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम 5056028a एवमुक्तः सुरसया दशयोजनमायतः 5056028c ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु 5056029a मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया 5056029c तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः 5056030a तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः 5056030c अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् 5056031a अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः 5056031c अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् 5056032a समानय च वैदेहीं राघवेण महात्मना 5056032c सुखी भव महाबाहो प्रीतास्मि तव वानर 5056033a ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः 5056033c ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा 5056034a छाया मे निगृहीता च न च पश्यामि किंचन 5056034c सोऽहं विगतवेगस्तु दिशो दश विलोकयन् 5056034e न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः 5056035a ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम 5056035c ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते 5056036a अधो भागेन मे दृष्टिः शोचता पातिता मया 5056036c ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् 5056037a प्रहस्य च महानादमुक्तोऽहं भीमया तया 5056037c अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् 5056038a क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः 5056038c भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् 5056039a बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः 5056039c आस्य प्रमाणादधिकं तस्याः कायमपूरयम् 5056040a तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे 5056040c न च मां सा तु बुबुधे मम वा विकृतं कृतम् 5056041a ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् 5056041c तस्या हृदयमादाय प्रपतामि नभस्तलम् 5056042a सा विसृष्टभुजा भीमा पपात लवणाम्भसि 5056042c मया पर्वतसंकाशा निकृत्तहृदया सती 5056043a शृणोमि खगतानां च सिद्धानां चारणैः सह 5056043c राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता 5056044a तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् 5056044c गत्वा च महदध्वानं पश्यामि नगमण्डितम् 5056044e दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी 5056045a अस्तं दिनकरे याते रक्षसां निलयं पुरीम् 5056045c प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः 5056046a तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् 5056046c रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् 5056047a ततः सीतामपश्यंस्तु रावणस्य निवेशने 5056047c शोकसागरमासाद्य न पारमुपलक्षये 5056048a शोचता च मया दृष्टं प्राकारेण समावृतम् 5056048c काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् 5056049a स प्राकारमवप्लुत्य पश्यामि बहुपादपम् 5056050a अशोकवनिकामध्ये शिंशपापादपो महान् 5056050c तमारुह्य च पश्यामि काञ्चनं कदली वनम् 5056051a अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम् 5056051c श्यामां कमलपत्राक्षीमुपवासकृशाननाम् 5056052a राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् 5056052c मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा 5056053a तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् 5056053c तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः 5056054a ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् 5056054c शृणोम्यधिकगम्भीरं रावणस्य निवेशने 5056055a ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् 5056055c अहं च शिंशपावृक्षे पक्षीव गहने स्थितः 5056056a ततो रावणदाराश्च रावणश्च महाबलः 5056056c तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता 5056057a तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् 5056057c संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च 5056058a तामुवाच दशग्रीवः सीतां परमदुःखिताम् 5056058c अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति 5056059a यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते 5056059c द्विमासानन्तरं सीते पास्यामि रुधिरं तव 5056060a एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः 5056060c उवाच परमक्रुद्धा सीता वचनमुत्तमम् 5056061a राक्षसाधम रामस्य भार्याममिततेजसः 5056061c इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च 5056061e अवाच्यं वदतो जिह्वा कथं न पतिता तव 5056062a किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ 5056062c अपहृत्यागतः पाप तेनादृष्टो महात्मना 5056063a न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे 5056063c यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः 5056064a जानक्या परुषं वाक्यमेवमुक्तो दशाननः 5056064c जज्वाल सहसा कोपाच्चितास्थ इव पावकः 5056065a विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् 5056065c मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा 5056066a स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः 5056066c वरा मन्दोदरी नाम तया स प्रतिषेधितः 5056067a उक्तश्च मधुरां वाणीं तया स मदनार्दितः 5056067c सीतया तव किं कार्यं महेन्द्रसमविक्रम 5056067e मया सह रमस्वाद्य मद्विशिष्टा न जानकी 5056068a देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च 5056068c सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि 5056069a ततस्ताभिः समेताभिर्नारीभिः स महाबलः 5056069c उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः 5056070a याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः 5056070c सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः 5056071a तृणवद्भाषितं तासां गणयामास जानकी 5056071c तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् 5056072a वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः 5056072c रावणाय शशंसुस्ताः सीताव्यवसितं महत् 5056073a ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः 5056073c परिक्षिप्य समन्तात्तां निद्रावशमुपागताः 5056074a तासु चैव प्रसुप्तासु सीता भर्तृहिते रता 5056074c विलप्य करुणं दीना प्रशुशोच सुदुःखिता 5056075a तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् 5056075c चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः 5056076a संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः 5056076c इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः 5056077a श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् 5056077c प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना 5056078a कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव 5056078c का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि 5056079a तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः 5056079c देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः 5056079e सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः 5056080a तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् 5056080c भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा 5056081a इदं च पुरुषव्याघ्रः श्रीमान्दाशरथिः स्वयम् 5056081c अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि 5056082a तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् 5056082c रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् 5056083a एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी 5056083c आह रावणमुत्साद्य राघवो मां नयत्विति 5056084a प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् 5056084c राघवस्य मनोह्लादमभिज्ञानमयाचिषम् 5056085a एवमुक्ता वरारोहा मणिप्रवरमुत्तमम् 5056085c प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ह 5056086a ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः 5056086c प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः 5056087a उत्तरं पुनरेवाह निश्चित्य मनसा तदा 5056087c हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे 5056088a यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ 5056088c सुग्रीवसहितौ वीरावुपेयातां तथा कुरु 5056089a यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम 5056089c न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् 5056090a तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत 5056090c उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् 5056091a ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः 5056091c युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे 5056092a तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् 5056092c प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः 5056093a मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः 5056093c ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे 5056094a राजन्वनमिदं दुर्गं तव भग्नं दुरात्मना 5056094c वानरेण ह्यविज्ञाय तव वीर्यं महाबल 5056095a दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः 5056095c वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् 5056096a तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः 5056096c राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः 5056097a तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् 5056097c मया तस्मिन्वनोद्देशे परिघेण निषूदितम् 5056098a तेषां तु हतशेषा ये ते गता लघुविक्रमाः 5056098c निहतं च मया सैन्यं रावणायाचचक्षिरे 5056099a ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् 5056100a तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः 5056100c ललाम भूतो लङ्काया मया विध्वंसितो रुषा 5056101a ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् 5056102a तमहं बलसंपन्नं राक्षसं रणकोविदम् 5056102c परिघेणातिघोरेण सूदयामि सहानुगम् 5056103a तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् 5056103c पदातिबलसंपन्नान्प्रेषयामास रावणः 5056103e परिघेणैव तान्सर्वान्नयामि यमसादनम् 5056104a मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् 5056104c पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः 5056104e तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम् 5056105a ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् 5056105c बहुभी राकसैः सार्धं प्रेषयामास संयुगे 5056106a तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् 5056106c सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् 5056106e चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् 5056107a तमक्षमागतं भग्नं निशम्य स दशाननः 5056107c तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् 5056107e व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् 5056108a तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम् 5056108c नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् 5056109a महता हि महाबाहुः प्रत्ययेन महाबलः 5056109c प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः 5056110a ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः 5056110c रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः 5056111a रावणस्य समीपं च गृहीत्वा मामुपानयन् 5056111c दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना 5056112a पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् 5056112c तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् 5056113a अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो 5056113c मारुतस्यौरसः पुत्रो वानरो हनुमानहम् 5056114a रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् 5056114c सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः 5056115a शृणु चापि समादेशं यदहं प्रब्रवीमि ते 5056115c राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् 5056115e धर्मार्थकामसहितं हितं पथ्यमिवाशनम् 5056116a वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे 5056116c राघवो रणविक्रान्तो मित्रत्वं समुपागतः 5056117a तेन मे कथितं राजन्भार्या मे रक्षसा हृता 5056117c तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि 5056118a वालिना हृतराज्येन सुग्रीवेण सह प्रभुः 5056118c चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः 5056119a तेन वालिनमुत्साद्य शरेणैकेन संयुगे 5056119c वानराणां महाराजः कृतः संप्लवतां प्रभुः 5056120a तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह 5056120c तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः 5056121a क्षिप्रमानीयतां सीता दीयतां राघवस्य च 5056121c यावन्न हरयो वीरा विधमन्ति बलं तव 5056122a वानराणां प्रभवो हि न केन विदितः पुरा 5056122c देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः 5056123a इति वानरराजस्त्वामाहेत्यभिहितो मया 5056123c मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव 5056124a तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा 5056125a ततो विभीषणो नाम तस्य भ्राता महामतिः 5056125c तेन राक्षसराजोऽसौ याचितो मम कारणात् 5056126a दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस 5056126c दूतेन वेदितव्यं च यथार्थं हितवादिना 5056127a सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः 5056127c विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः 5056128a विभीषणेनैवमुक्तो रावणः संदिदेश तान् 5056128c राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति 5056129a ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः 5056129c वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा 5056130a राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः 5056130c तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः 5056131a बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः 5056131c न मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा 5056132a ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् 5056132c अघोषयन्राजमार्गे नगरद्वारमागताः 5056133a ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः 5056133c विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः 5056134a आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् 5056134c ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् 5056135a पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् 5056135c दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः 5056136a दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत 5056136c दहता च मया लङ्कां दग्धा सीता न संशयः 5056137a अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् 5056137c जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् 5056138a ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् 5056138c पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः 5056139a राघवस्य प्रभावेन भवतां चैव तेजसा 5056139c सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् 5056140a एतत्सर्वं मया तत्र यथावदुपपादितम् 5056140c अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति 5057001a एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः 5057001c भूयः समुपचक्राम वचनं वक्तुमुत्तरम् 5057002a सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः 5057002c शीलमासाद्य सीताया मम च प्लवनं महत् 5057003a आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः 5057003c तपसा धारयेल्लोकान्क्रुद्धा वा निर्दहेदपि 5057004a सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः 5057004c यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् 5057005a न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती 5057005c जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता 5057006a अशोकवनिकामध्ये रावणस्य दुरात्मनः 5057006c अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता 5057007a राक्षसीभिः परिवृता शोकसंतापकर्शिता 5057007c मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा 5057008a अचिन्तयन्ती वैदेही रावणं बलदर्पितम् 5057008c पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी 5057009a अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा 5057009c अनन्यचित्ता रामे च पौलोमीव पुरंदरे 5057010a तदेकवासःसंवीता रजोध्वस्ता तथैव च 5057010c शोकसंतापदीनाङ्गी सीता भर्तृहिते रता 5057011a सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः 5057011c राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने 5057012a एकवेणीधरा दीना भर्तृचिन्तापरायणा 5057012c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5057013a रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया 5057013c कथंचिन्मृगशावाक्षी विश्वासमुपपादिता 5057014a ततः संभाषिता चैव सर्वमर्थं च दर्शिता 5057014c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता 5057015a नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा 5057016a यन्न हन्ति दशग्रीवं स महात्मा दशाननः 5057016c निमित्तमात्रं रामस्तु वधे तस्य भविष्यति 5057017a एवमास्ते महाभागा सीता शोकपरायणा 5057017c यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम् 5058001a तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत 5058001c जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन् 5058002a अस्मिन्नेवंगते कार्ये भवतां च निवेदिते 5058002c न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ 5058003a अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम् 5058003c तां लङ्कां तरसा हन्तुं रावणं च महाबलम् 5058004a किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः 5058004c कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः 5058005a अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् 5058005c सपुत्रं विधमिष्यामि सहोदरयुतं युधि 5058006a ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा 5058006c यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे 5058006e तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान् 5058007a भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् 5058008a मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा 5058008c देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान् 5058009a सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि 5058009c न जाम्बवन्तं समरे कम्पयेदरिवाहिनी 5058010a सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः 5058010c अलमेको विनाशाय वीरो वायुसुतः कपिः 5058011a पनसस्योरुवेगेन नीलस्य च महात्मनः 5058011c मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः 5058012a सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु 5058012c मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा 5058013a अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ 5058013c पितामहवरोत्सेकात्परमं दर्पमास्थितौ 5058014a अश्विनोर्माननार्थं हि सर्वलोकपितामहः 5058014c सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा 5058015a वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् 5058015c सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ 5058016a एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् 5058016c लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः 5058017a अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः 5058017c समीपं गन्तुमस्माभी राघवस्य महात्मनः 5058018a दृष्टा देवी न चानीता इति तत्र निवेदनम् 5058018c अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः 5058019a न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे 5058019c तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः 5058020a तेष्वेवं हतवीरेषु राक्षसेषु हनूमता 5058020c किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् 5058021a तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः 5058021c उवाच परमप्रीतो वाक्यमर्थवदर्थवित् 5058022a न तावदेषा मतिरक्षमा नो; यथा भवान्पश्यति राजपुत्र 5058022c यथा तु रामस्य मतिर्निविष्टा; तथा भवान्पश्यतु कार्यसिद्धिम् 5059001a ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः 5059001c अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः 5059002a प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः 5059002c महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः 5059003a मेरुमन्दरसंकाशा मत्ता इव महागजाः 5059003c छादयन्त इवाकाशं महाकाया महाबलाः 5059004a सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् 5059004c हनूमन्तं महावेगं वहन्त इव दृष्टिभिः 5059005a राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः 5059005c समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः 5059006a प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः 5059006c सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः 5059007a प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः 5059007c नन्दनोपममासेदुर्वनं द्रुमलतायुतम् 5059008a यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् 5059008c अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् 5059009a यद्रक्षति महावीर्यः सदा दधिमुखः कपिः 5059009c मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः 5059010a ते तद्वनमुपागम्य बभूवुः परमोत्कटाः 5059010c वानरा वानरेन्द्रस्य मनःकान्ततमं महत् 5059011a ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् 5059011c कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः 5059012a ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन् 5059012c अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे 5059013a ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः 5059013c मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः 5059014a गायन्ति केचित्प्रणमन्ति केचि;न्नृत्यन्ति केचित्प्रहसन्ति केचित् 5059014c पतन्ति केचिद्विचरन्ति केचि;त्प्लवन्ति केचित्प्रलपन्ति केचित् 5059015a परस्परं केचिदुपाश्रयन्ते; परस्परं केचिदतिब्रुवन्ते 5059015c द्रुमाद्द्रुमं केचिदभिप्लवन्ते; क्षितौ नगाग्रान्निपतन्ति केचित् 5059016a महीतलात्केचिदुदीर्णवेगा; महाद्रुमाग्राण्यभिसंपतन्ते 5059016c गायन्तमन्यः प्रहसन्नुपैति; हसन्तमन्यः प्रहसन्नुपैति 5059017a रुदन्तमन्यः प्ररुदन्नुपैति; नुदन्तमन्यः प्रणुदन्नुपैति 5059017c समाकुलं तत्कपिसैन्यमासी;न्मधुप्रपानोत्कट सत्त्वचेष्टम् 5059017e न चात्र कश्चिन्न बभूव मत्तो; न चात्र कश्चिन्न बभूव तृप्तो 5059018a ततो वनं तत्परिभक्ष्यमाणं; द्रुमांश्च विध्वंसितपत्रपुष्पान् 5059018c समीक्ष्य कोपाद्दधिवक्त्रनामा; निवारयामास कपिः कपींस्तान् 5059019a स तैः प्रवृद्धैः परिभर्त्स्यमानो; वनस्य गोप्ता हरिवीरवृद्धः 5059019c चकार भूयो मतिमुग्रतेजा; वनस्य रक्षां प्रति वानरेभ्यः 5059020a उवाच कांश्चित्परुषाणि धृष्ट;मसक्तमन्यांश्च तलैर्जघान 5059020c समेत्य कैश्चित्कलहं चकार; तथैव साम्नोपजगाम कांश्चित् 5059021a स तैर्मदाच्चाप्रतिवार्य वेगै;र्बलाच्च तेनाप्रतिवार्यमाणैः 5059021c प्रधर्षितस्त्यक्तभयैः समेत्य; प्रकृष्यते चाप्यनवेक्ष्य दोषम् 5059022a नखैस्तुदन्तो दशनैर्दशन्त;स्तलैश्च पादैश्च समाप्नुवन्तः 5059022c मदात्कपिं तं कपयः समग्रा; महावनं निर्विषयं च चक्रुः 5060001a तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः 5060001c अव्यग्रमनसो यूयं मधु सेवत वानराः 5060002a श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः 5060002c प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु 5060003a अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया 5060003c अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् 5060004a अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः 5060004c साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् 5060005a पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् 5060005c जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् 5060006a ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः 5060006c अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् 5060007a उत्पत्य च ततः सर्वे वनपालान्समागताः 5060007c ताडयन्ति स्म शतशः सक्तान्मधुवने तदा 5060008a मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते 5060008c घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे 5060009a केचित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः 5060009c मधूच्चिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः 5060010a अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः 5060010c अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते 5060011a उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् 5060011c क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे 5060012a केचित्क्ष्वेडान्प्रकुर्वन्ति केचित्कूजन्ति हृष्टवत् 5060012c हरयो मधुना मत्ताः केचित्सुप्ता महीतले 5060013a येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु 5060013c तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः 5060014a जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः 5060014c अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः 5060015a हनूमता दत्तवरैर्हतं मधुवनं बलात् 5060015c वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः 5060016a ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः 5060016c हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् 5060017a एतागच्छत गच्छामो वानरानतिदर्पितान् 5060017c बलेनावारयिष्यामो मधु भक्षयतो वयम् 5060018a श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः 5060018c पुनर्वीरा मधुवनं तेनैव सहिता ययुः 5060019a मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् 5060019c समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः 5060020a ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः 5060020c गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः 5060021a ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् 5060021c त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः 5060022a वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् 5060022c अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः 5060023a अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः 5060023c अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा 5060024a तं सवृक्षं महाबाहुमापतन्तं महाबलम् 5060024c आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः 5060025a मदान्धश न वेदैनमार्यकोऽयं ममेति सः 5060025c अथैनं निष्पिपेषाशु वेगवद्वसुधातले 5060026a स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः 5060026c मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः 5060027a स कथंचिद्विमुक्तस्तैर्वानरैर्वानरर्षभः 5060027c उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् 5060028a एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः 5060028c सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति 5060029a सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव 5060029c अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् 5060030a इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः 5060030c पितृपैतामहं दिव्यं देवैरपि दुरासदम् 5060031a स वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः 5060031c घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् 5060032a वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः 5060032c अमर्षप्रभवो रोषः सफलो नो भविष्यति 5060033a एवमुक्त्वा दधिमुखो वनपालान्महाबलः 5060033c जगाम सहसोत्पत्य वनपालैः समन्वितः 5060034a निमेषान्तरमात्रेण स हि प्राप्तो वनालयः 5060034c सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः 5060035a रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च 5060035c समप्रतिष्ठां जगतीमाकाशान्निपपात ह 5060036a स निपत्य महावीर्यः सर्वैस्तैः परिवारितः 5060036c हरिर्दधिमुखः पालैः पालानां परमेश्वरः 5060037a स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् 5060037c सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् 5061001a ततो मूर्ध्ना निपतितं वानरं वानरर्षभः 5061001c दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह 5061002a उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम 5061002c अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् 5061003a स तु विश्वासितस्तेन सुग्रीवेण महात्मना 5061003c उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् 5061004a नैवर्क्षरजसा राजन्न त्वया नापि वालिना 5061004c वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः 5061005a एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः 5061005c मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति च 5061006a शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे 5061006c निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि 5061007a इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः 5061007c वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः 5061008a ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः 5061008c संरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः 5061009a पाणिभिर्निहताः केचित्केचिज्जानुभिराहताः 5061009c प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः 5061010a एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि 5061010c कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते 5061011a एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् 5061011c अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा 5061012a किमयं वानरो राजन्वनपः प्रत्युपस्थितः 5061012c कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् 5061013a एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना 5061013c लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः 5061014a आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः 5061014c अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः 5061015a नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः 5061015c वनं यथाभिपन्नं तैः साधितं कर्म वानरैः 5061016a दृष्टा देवी न संदेहो न चान्येन हनूमता 5061016c न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः 5061017a कार्यसिद्धिर्हनुमति मतिश्च हरिपुंगव 5061017c व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् 5061018a जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः 5061018c हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा 5061019a अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल 5061019c विचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः 5061020a आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः 5061020c धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः 5061020e वारिताः सहिताः पालास्तथा जानुभिराहताः 5061021a एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह 5061021c नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः 5061022a दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः 5061022c अभिगम्य यथा सर्वे पिबन्ति मधु वानराः 5061023a न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ 5061023c वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः 5061024a ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः 5061024c श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् 5061025a प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः 5061025c श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च 5061025e वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत 5061026a प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः 5061026c मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् 5061027a इच्छामि शीघ्रं हनुमत्प्रधाना;न्शाखामृगांस्तान्मृगराजदर्पान् 5061027c द्रष्टुं कृतार्थान्सह राघवाभ्यां; श्रोतुं च सीताधिगमे प्रयत्नम् 5062001a सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः 5062001c राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् 5062002a स प्रणम्य च सुग्रीवं राघवौ च महाबलौ 5062002c वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह 5062003a स यथैवागतः पूर्वं तथैव त्वरितो गतः 5062003c निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह 5062004a स प्रविष्टो मधुवनं ददर्श हरियूथपान् 5062004c विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् 5062005a स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् 5062005c उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् 5062006a सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः 5062006c अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः 5062007a युवराजस्त्वमीशश्च वनस्यास्य महाबल 5062007c मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति 5062008a यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः 5062008c तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम 5062009a आख्यातं हि मया गत्वा पितृव्यस्य तवानघ 5062009c इहोपयानं सर्वेषामेतेषां वनचारिणाम् 5062010a स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः 5062010c प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् 5062011a प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः 5062011c शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः 5062012a श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः 5062012c अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः 5062013a शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः 5062013c तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः 5062014a पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः 5062014c किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः 5062015a सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः 5062015c तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् 5062016a नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि 5062016c अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया 5062017a ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् 5062017c प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः 5062018a एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ 5062018c ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते 5062019a तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् 5062019c संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् 5062020a सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः 5062020c स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः 5062021a त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् 5062021c क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते 5062022a एवं तु वदतां तेषामङ्गदः प्रत्यभाषत 5062022c बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् 5062023a उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः 5062023c कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः 5062024a तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः 5062024c विनदन्तो महानादं घना वातेरिता यथा 5062025a अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः 5062025c उवाच शोकोपहतं रामं कमललोचनम् 5062026a समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः 5062026c नागन्तुमिह शक्यं तैरतीते समये हि नः 5062027a न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते 5062027c युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः 5062028a यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः 5062028c भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः 5062029a पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् 5062029c न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः 5062030a कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत 5062030c दृष्टा देवी न संदेहो न चान्येन हनूमता 5062030e न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् 5062031a हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम 5062031c व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् 5062032a जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः 5062032c हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा 5062033a मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम 5062034a ततः किल किला शब्दं शुश्रावासन्नमम्बरे 5062034c हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् 5062034e किष्किन्धामुपयातानां सिद्धिं कथयतामिव 5062035a ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः 5062035c आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः 5062036a आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः 5062036c अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् 5062037a तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः 5062037c निपेतुर्हरिराजस्य समीपे राघवस्य च 5062038a हनूमांश्च महाबहुः प्रणम्य शिरसा ततः 5062038c नियतामक्षतां देवीं राघवाय न्यवेदयत् 5062039a निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे 5062039c लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत 5062040a प्रीत्या च रममाणोऽथ राघवः परवीरहा 5062040c बहु मानेन महता हनूमन्तमवैक्षत 5063001a ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् 5063001c प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् 5063002a युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च 5063002c प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः 5063003a रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् 5063003c रामे समनुरागं च यश्चापि समयः कृतः 5063004a एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ 5063004c वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् 5063005a क्व सीता वर्तते देवी कथं च मयि वर्तते 5063005c एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः 5063006a रामस्य गदितं श्रुत्व हरयो रामसंनिधौ 5063006c चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् 5063007a श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः 5063007c उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा 5063008a समुद्रं लङ्घयित्वाहं शतयोजनमायतम् 5063008c अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया 5063009a तत्र लङ्केति नगरी रावणस्य दुरात्मनः 5063009c दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे 5063010a तत्र दृष्टा मया सीता रावणान्तःपुरे सती 5063010c संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् 5063011a दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः 5063011c राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने 5063012a दुःखमापद्यते देवी तवादुःखोचिता सती 5063012c रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता 5063013a एकवेणीधरा दीना त्वयि चिन्तापरायणा 5063013c अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे 5063014a रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया 5063014c देवी कथंचित्काकुत्स्थ त्वन्मना मार्गिता मया 5063015a इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ 5063015c स मया नरशार्दूल विश्वासमुपपादिता 5063016a ततः संभाषिता देवी सर्वमर्थं च दर्शिता 5063016c रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता 5063017a नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि 5063017c एवं मया महाभागा दृष्टा जनकनन्दिनी 5063017e उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ 5063018a अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके 5063018c चित्रकूटे महाप्राज्ञ वायसं प्रति राघव 5063019a विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वया 5063019c अखिलेनेह यद्दृष्टमिति मामाह जानकी 5063020a इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम् 5063020c ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः 5063021a एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः 5063021c मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत् 5063022a एष निर्यातितः श्रीमान्मया ते वारिसंभवः 5063022c एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ 5063023a जीवितं धारयिष्यामि मासं दशरथात्मज 5063023c ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता 5063024a इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी 5063024c रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना 5063025a एतदेव मयाख्यातं सर्वं राघव यद्यथा 5063025c सर्वथा सागरजले संतारः प्रविधीयताम् 5063026a तौ जाताश्वासौ राजपुत्रौ विदित्वा; तच्चाभिज्ञानं राघवाय प्रदाय 5063026c देव्या चाख्यातं सर्वमेवानुपूर्व्या;द्वाचा संपूर्णं वायुपुत्रः शशंस 5064001a एवमुक्तो हनुमता रामो दशरथात्मजः 5064001c तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः 5064002a तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः 5064002c नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् 5064003a यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला 5064003c तथा ममापि हृदयं मणिरत्नस्य दर्शनात् 5064004a मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे 5064004c वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते 5064005a अयं हि जलसंभूतो मणिः प्रवरपूजितः 5064005c यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता 5064006a इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् 5064006c अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः 5064007a अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः 5064007c अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये 5064008a किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः 5064008c परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा 5064009a इतस्तु किं दुःखतरं यदिमं वारिसंभवम् 5064009c मणिं पश्यामि सौमित्रे वैदेहीमागतं विना 5064010a चिरं जीवति वैदेही यदि मासं धरिष्यति 5064010c क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् 5064011a नय मामपि तं देशं यत्र दृष्टा मम प्रिया 5064011c न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च 5064012a कथं सा मम सुश्रोणि भीरु भीरुः सती तदा 5064012c भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् 5064013a शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः 5064013c आवृतं वदनं तस्या न विराजति राक्षसैः 5064014a किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे 5064014c एतेन खलु जीविष्ये भेषजेनातुरो यथा 5064015a मधुरा मधुरालापा किमाह मम भामिनी 5064015c मद्विहीना वरारोहा हनुमन्कथयस्व मे 5064015e दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी 5065001a एवमुक्तस्तु हनुमान्राघवेण महात्मना 5065001c सीताया भाषितं सर्वं न्यवेदयत राघवे 5065002a इदमुक्तवती देवी जानकी पुरुषर्षभ 5065002c पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् 5065003a सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता 5065003c वायसः सहसोत्पत्य विरराद स्तनान्तरे 5065004a पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज 5065004c पुनश्च किल पक्षी स देव्या जनयति व्यथाम् 5065005a ततः पुनरुपागम्य विरराद भृशं किल 5065005c ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः 5065006a वायसेन च तेनैव सततं बाध्यमानया 5065006c बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप 5065007a तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे 5065007c आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः 5065008a नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् 5065008c कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना 5065009a निरीक्षमाणः सहसा वायसं समवैक्षताः 5065009c नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् 5065010a सुतः किल स शक्रस्य वायसः पततां वरः 5065010c धरान्तरचरः शीघ्रं पवनस्य गतौ समः 5065011a ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः 5065011c वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर 5065012a स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः 5065012c स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् 5065013a स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति 5065013c ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह 5065014a स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः 5065014c त्रीँल्लोकान्संपरिक्रम्य त्रातारं नाधिगच्छति 5065015a तं त्वं निपतितं भूमौ शरण्यः शरणागतम् 5065015c वधार्हमपि काकुत्स्थ कृपया परिपालयः 5065016a मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव 5065016c ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् 5065017a राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च 5065017c विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् 5065018a एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि 5065018c किमर्थमस्त्रं रक्षःसु न योजयसि राघव 5065019a न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः 5065019c तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् 5065020a तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः 5065020c क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः 5065021a भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः 5065021c स किमर्थं नरवरो न मां रक्षति राघवः 5065022a शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ 5065022c सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः 5065023a ममैव दुष्कृतं किंचिन्महदस्ति न संशयः 5065023c समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ 5065024a वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् 5065024c पुनरप्यहमार्यां तामिदं वचनमब्रुवम् 5065025a त्वच्छोकविमुखो रामो देवि सत्येन ते शपे 5065025c रामे दुःखाभिभूते च लक्ष्मणः परितप्यते 5065026a कथंचिद्भवती दृष्टा न कालः परिशोचितुम् 5065026c इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि 5065027a तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ 5065027c त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः 5065028a हत्वा च समरे रौद्रं रावणं सह बान्धवम् 5065028c राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् 5065029a यत्तु रामो विजानीयादभिज्ञानमनिन्दिते 5065029c प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि 5065030a साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् 5065030c मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल 5065031a प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम 5065031c शिरसा संप्रणम्यैनामहमागमने त्वरे 5065032a गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी 5065032c विवर्धमानं च हि मामुवाच जनकात्मजा 5065032e अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी 5065033a हनुमन्सिंहसंकाशौ तावुभौ रामलक्ष्मणौ 5065033c सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् 5065034a यथा च स महाबाहुर्मां तारयति राघवः 5065034c अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि 5065035a इमं च तीव्रं मम शोकवेगं; रक्षोभिरेभिः परिभर्त्सनं च 5065035c ब्रूयास्तु रामस्य गतः समीपं; शिवश्च तेऽध्वास्तु हरिप्रवीर 5065036a एतत्तवार्या नृपराजसिंह; सीता वचः प्राह विषादपूर्वम् 5065036c एतच्च बुद्ध्वा गदितं मया त्वं; श्रद्धत्स्व सीतां कुशलां समग्राम् 5066001a अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम् 5066001c तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च 5066002a एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया 5066002c यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे 5066003a यदि वा मन्यसे वीर वसैकाहमरिंदम 5066003c कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि 5066004a मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर 5066004c अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् 5066005a गते हि त्वयि विक्रान्ते पुनरागमनाय वै 5066005c प्राणानामपि संदेहो मम स्यान्नात्र संशयः 5066006a तवादर्शनजः शोको भूयो मां परितापयेत् 5066006c दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् 5066007a अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतः 5066007c सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः 5066008a कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् 5066008c तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ 5066009a त्रयाणामेव भूतानां सागरस्यास्य लङ्घने 5066009c शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ 5066010a तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे 5066010c किं पश्यसि समाधानं ब्रूहि कार्यविदां वर 5066011a काममस्य त्वमेवैकः कार्यस्य परिसाधने 5066011c पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः 5066012a बलैः समग्रैर्यदि मां हत्वा रावणमाहवे 5066012c विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् 5066013a यथाहं तस्य वीरस्य वनादुपधिना हृता 5066013c रक्षसा तद्भयादेव तथा नार्हति राघवः 5066014a बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः 5066014c मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् 5066015a तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः 5066015c भवत्याहवशूरस्य तथा त्वमुपपादय 5066016a तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् 5066016c निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् 5066017a देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः 5066017c सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः 5066018a तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः 5066018c मनःसंकल्पसंपाता निदेशे हरयः स्थिताः 5066019a येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः 5066019c न च कर्मसु सीदन्ति महत्स्वमिततेजसः 5066020a असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः 5066020c प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः 5066021a मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः 5066021c मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ 5066022a अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः 5066022c न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः 5066023a तदलं परितापेन देवि मन्युर्व्यपैतु ते 5066023c एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः 5066024a मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ 5066024c त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः 5066025a अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् 5066025c लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् 5066026a नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् 5066026c वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि संगतान् 5066027a शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु 5066027c नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् 5066028a निवृत्तवनवासं च त्वया सार्धमरिंदमम् 5066028c अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् 5066029a ततो मया वाग्भिरदीनभाषिणी; शिवाभिरिष्टाभिरभिप्रसादिता 5066029c जगाम शान्तिं मम मैथिलात्मजा; तवापि शोकेन तथाभिपीडिता