% Ramayana: Kiskindhakanda % Last updated: Sat Sep 25 2021 % Encoding: Unicode Devanagari % 4001001a स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् 4001001c रामः सौमित्रिसहितो विललापाकुलेन्द्रियः 4001002a तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे 4001002c स कामवशमापन्नः सौमित्रिमिदमब्रवीत् 4001003a सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् 4001003c यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव 4001004a मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै 4001004c भरतस्य च दुःखेन वैदेह्या हरणेन च 4001005a अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् 4001005c द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् 4001006a सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः 4001006c गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः 4001007a पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् 4001007c सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव 4001008a प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः 4001008c वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् 4001009a मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः 4001009c षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु 4001010a गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः 4001010c संसक्तशिखरा शैला विराजन्ति महाद्रुमैः 4001011a पुष्पिताग्रांश्च पश्येमान्कर्णिकारान्समन्ततः 4001011c हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव 4001012a अयं वसन्तः सौमित्रे नानाविहगनादितः 4001012c सीतया विप्रहीणस्य शोकसंदीपनो मम 4001013a मां हि शोकसमाक्रान्तं संतापयति मन्मथः 4001013c हृष्टः प्रवदमानश्च समाह्वयति कोकिलः 4001014a एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे 4001014c प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण 4001015a विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः 4001015c भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः 4001016a मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् 4001016c संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः 4001017a शिखिनीभिः परिवृता मयूरा गिरिसानुषु 4001017c मन्मथाभिपरीतस्य मम मन्मथवर्धनाः 4001018a पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति 4001018c शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु 4001019a मयूरस्य वने नूनं रक्षसा न हृता प्रिया 4001019c मम त्वयं विना वासः पुष्पमासे सुदुःसहः 4001020a पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे 4001020c पुष्पभारसमृद्धानां वनानां शिशिरात्यये 4001021a वदन्ति रावं मुदिताः शकुनाः संघशः कलम् 4001021c आह्वयन्त इवान्योन्यं कामोन्मादकरा मम 4001022a नूनं परवशा सीता सापि शोचत्यहं यथा 4001022c श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया 4001023a एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः 4001023c तां विचिन्तयतः कान्तां पावकप्रतिमो मम 4001024a तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदा 4001024c वायसः पादपगतः प्रहृष्टमभिनर्दति 4001025a एष वै तत्र वैदेह्या विहगः प्रतिहारकः 4001025c पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति 4001026a पश्य लक्ष्मण संनादं वने मदविवर्धनम् 4001026c पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् 4001027a सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु 4001027c नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् 4001028a एषा प्रसन्नसलिला पद्मनीलोत्पलायता 4001028c हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता 4001029a चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा 4001029c मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः 4001030a पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते 4001030c सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण 4001031a पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः 4001031c निःश्वास इव सीताया वाति वायुर्मनोहरः 4001032a सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि 4001032c पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् 4001033a अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः 4001033c विचित्रं सृजते रेणुं वायुवेगविघट्टितम् 4001034a गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः 4001034c निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः 4001035a पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः 4001035c मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः 4001036a केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः 4001036c माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः 4001037a चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा 4001037c चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः 4001038a नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः 4001038c अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः 4001039a चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः 4001039c मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु 4001040a केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः 4001040c शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा 4001040e तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा 4001041a विविधा विविधैः पुष्पैस्तैरेव नगसानुषु 4001041c विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः 4001042a हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् 4001042c पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः 4001043a पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् 4001043c चक्रवाकानुचरितां कारण्डवनिषेविताम् 4001043e प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम् 4001044a अधिकं शोभते पम्पाविकूजद्भिर्विहंगमैः 4001045a दीपयन्तीव मे कामं विविधा मुदिता द्विजाः 4001045c श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् 4001046a पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान् 4001046c मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् 4001047a एवं स विलपंस्तत्र शोकोपहतचेतनः 4001047c अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् 4001048a निरीक्षमाणः सहसा महात्मा; सर्वं वनं निर्झरकन्दरं च 4001048c उद्विग्नचेताः सह लक्ष्मणेन; विचार्य दुःखोपहतः प्रतस्थे 4001049a तावृष्यमूकं सहितौ प्रयातौ; सुग्रीवशाखामृगसेवितं तम् 4001049c त्रस्तास्तु दृष्ट्वा हरयो बभूवु;र्महौजसौ राघवलक्ष्मणौ तौ 4002001a तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ 4002001c वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् 4002002a उद्विग्नहृदयः सर्वा दिशः समवलोकयन् 4002002c न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः 4002003a नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ 4002003c कपेः परमभीतस्य चित्तं व्यवससाद ह 4002004a चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् 4002004c सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह 4002005a ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः 4002005c शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ 4002006a एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् 4002006c छद्मना चीरवसनौ प्रचरन्ताविहागतौ 4002007a ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ 4002007c जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् 4002008a ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् 4002008c हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे 4002009a एकमेकायनगताः प्लवमाना गिरेर्गिरिम् 4002009c प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च 4002010a ततः शाखामृगाः सर्वे प्लवमाना महाबलाः 4002010c बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् 4002011a आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् 4002011c मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा 4002012a ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः 4002012c संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः 4002013a ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् 4002013c उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः 4002014a यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव 4002014c तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् 4002015a यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः 4002015c स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् 4002016a अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम 4002016c लघुचित्ततयात्मानं न स्थापयसि यो मतौ 4002017a बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर 4002017c न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि 4002018a सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः 4002018c ततः शुभतरं वाक्यं हनूमन्तमुवाच ह 4002019a दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ 4002019c कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ 4002020a वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ 4002020c राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः 4002021a अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः 4002021c विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि 4002022a कृत्येषु वाली मेधावी राजानो बहुदर्शनाः 4002022c भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः 4002023a तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम 4002023c शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च 4002024a लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि 4002024c विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः 4002025a ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव 4002025c प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ 4002026a शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम 4002026c व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः 4002027a इत्येवं कपिराजेन संदिष्टो मारुतात्मजः 4002027c चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ 4002028a तथेति संपूज्य वचस्तु तस्य; कपेः सुभीतस्य दुरासदस्य 4002028c महानुभावो हनुमान्ययौ तदा; स यत्र रामोऽतिबलश्च लक्ष्मणः 4003001a वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः 4003001c पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ 4003002a स तत्र गत्वा हनुमान्बलवान्वानरोत्तमः 4003002c उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः 4003003a स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः 4003003c आबभाषे च तौ वीरौ यथावत्प्रशशंस च 4003004a राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ 4003004c देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ 4003005a त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः 4003005c पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः 4003006a इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ 4003006c धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ 4003007a सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ 4003007c शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः 4003008a श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ 4003008c हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ 4003009a प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः 4003009c राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ 4003010a पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ 4003010c अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ 4003011a यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम् 4003011c विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ 4003012a सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ 4003012c आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः 4003012e सर्वभूषणभूषार्हाः किमर्थं न विभूषितः 4003013a उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् 4003013c ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् 4003014a इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने 4003014c प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते 4003015a संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः 4003015c जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः 4003016a महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ 4003016c खड्गावेतौ विराजेते निर्मुक्तभुजगाविव 4003017a एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः 4003018a सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः 4003018c वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः 4003019a प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना 4003019c राज्ञा वानरमुख्यानां हनुमान्नाम वानरः 4003020a युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति 4003020c तस्य मां सचिवं वित्तं वानरं पवनात्मजम् 4003021a भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया 4003021c ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम् 4003022a एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ 4003022c वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन 4003023a एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् 4003023c प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् 4003024a सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः 4003024c तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः 4003025a तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् 4003025c वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम् 4004001a ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः 4004001c श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः 4004002a भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः 4004002c यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् 4004003a ततः परमसंहृष्टो हनूमान्प्लवगर्षभः 4004003c प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः 4004004a किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् 4004004c आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् 4004005a तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः 4004005c आचचक्षे महात्मानं रामं दशरथात्मजम् 4004006a राजा दशरथो नाम द्युतिमान्धर्मवत्सलः 4004006c तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः 4004007a शरण्यः सर्वभूतानां पितुर्निर्देशपारगः 4004007c वीरो दशरथस्यायं पुत्राणां गुणवत्तरः 4004008a राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः 4004008c भार्यया च महातेजाः सीतयानुगतो वशी 4004008e दिनक्षये महातेजाः प्रभयेव दिवाकरः 4004009a अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः 4004009c कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः 4004010a सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः 4004010c ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च 4004011a रक्षसापहृता भार्या रहिते कामरूपिणा 4004011c तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता 4004012a दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः 4004012c आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः 4004013a स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् 4004013c एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् 4004014a एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः 4004014c अहं चैव हि रामश्च सुग्रीवं शरणं गतौ 4004015a एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः 4004015c लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति 4004016a शोकाभिभूते रामे तु शोकार्ते शरणं गते 4004016c कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः 4004017a एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् 4004017c हनूमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः 4004018a ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः 4004018c द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः 4004019a स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना 4004019c हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् 4004020a करिष्यति स साहाय्यं युवयोर्भास्करात्मजः 4004020c सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे 4004021a इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा 4004021c बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम् 4004022a एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः 4004022c प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् 4004023a कपिः कथयते हृष्टो यथायं मारुतात्मजः 4004023c कृत्यवान्सोऽपि संप्राप्तः कृतकृत्योऽसि राघव 4004024a प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते 4004024c नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः 4004025a ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः 4004025c जगामादाय तौ वीरौ हरिराजाय राघवौ 4004026a स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत्प्रहृष्टः 4004026c गिरिवरमुरुविक्रमः प्रयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम् 4005001a ऋश्यमूकात्तु हनुमान्गत्वा तं मलयं गिरम् 4005001c आचचक्षे तदा वीरौ कपिराजाय राघवौ 4005002a अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः 4005002c लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः 4005003a इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः 4005003c धर्मे निगदितश्चैव पितुर्निर्देशपालकः 4005004a तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः 4005004c रक्षसापहृता भार्या स त्वां शरणमागतः 4005005a राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः 4005005c दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः 4005006a तपसा सत्यवाक्येन वसुधा येन पालिता 4005006c स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः 4005007a भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ 4005007c प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ 4005008a श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः 4005008c भयं स राघवाद्घोरं प्रजहौ विगतज्वरः 4005009a स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः 4005009c दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् 4005010a भवान्धर्मविनीतश्च विक्रान्तः सर्ववत्सलः 4005010c आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः 4005011a तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो 4005011c यत्त्वमिच्छसि सौहार्दं वानरेण मया सह 4005012a रोचते यदि वा सख्यं बाहुरेष प्रसारितः 4005012c गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा 4005013a एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् 4005013c संप्रहृष्टमना हस्तं पीडयामास पाणिना 4005013e हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् 4005014a ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः 4005014c काष्ठयोः स्वेन रूपेण जनयामास पावकम् 4005015a दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् 4005015c तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः 4005016a ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् 4005016c सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ 4005017a ततः सुप्रीत मनसौ तावुभौ हरिराघवौ 4005017c अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः 4005018a ततः सर्वार्थविद्वांसं रामं दशरथात्मजम् 4005018c सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा 4006001a अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः 4006001c हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः 4006002a लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव 4006002c रक्षसापहृता भार्या मैथिली जनकात्मजा 4006003a त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता 4006003c अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम् 4006004a भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे 4006004c अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा 4006005a रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले 4006005c अहमानीय दास्यामि तव भार्यामरिंदम 4006006a इदं तथ्यं मम वचस्त्वमवेहि च राघव 4006006c त्यज शोकं महाबाहो तां कान्तामानयामि ते 4006007a अनुमानात्तु जानामि मैथिली सा न संशयः 4006007c ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा 4006008a क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् 4006008c स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा 4006009a आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् 4006009c उत्तरीयं तया त्यक्तं शुभान्याभरणानि च 4006010a तान्यस्माभिर्गृहीतानि निहितानि च राघव 4006010c आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि 4006011a तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् 4006011c आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे 4006012a एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् 4006012c प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया 4006013a उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च 4006013c इदं पश्येति रामाय दर्शयामास वानरः 4006014a ततो गृहीत्वा तद्वासः शुभान्याभरणानि च 4006014c अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः 4006015a सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः 4006015c हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ 4006016a हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम् 4006016c निशश्वास भृशं सर्पो बिलस्थ इव रोषितः 4006017a अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः 4006017c परिदेवयितुं दीनं रामः समुपचक्रमे 4006018a पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया 4006018c उत्तरीयमिदं भूमौ शरीराद्भूषणानि च 4006019a शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया 4006019c उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते 4006020a ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया 4006020c रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया 4006021a क्व वा वसति तद्रक्षो महद्व्यसनदं मम 4006021c यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् 4006022a हरता मैथिलीं येन मां च रोषयता भृशम् 4006022c आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् 4006023a मम दयिततमा हृता वना;द्रजनिचरेण विमथ्य येन सा 4006023c कथय मम रिपुं तमद्य वै; प्रवगपते यमसंनिधिं नयामि 4007001a एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः 4007001c अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः 4007002a न जाने निलयं तस्य सर्वथा पापरक्षसः 4007002c सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् 4007003a सत्यं तु प्रतिजानामि त्यज शोकमरिंदम 4007003c करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् 4007004a रावणं सगणं हत्वा परितोष्यात्मपौरुषम् 4007004c तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि 4007005a अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर 4007005c त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् 4007006a मयापि व्यसनं प्राप्तं भार्या हरणजं महत् 4007006c न चाहमेवं शोचामि न च धैर्यं परित्यजे 4007007a नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् 4007007c महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान् 4007008a बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि 4007008c मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि 4007009a व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे 4007009c विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति 4007010a बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते 4007010c स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले 4007011a एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये 4007011c पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि 4007012a ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् 4007012c तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि 4007013a हितं वयस्य भावेन ब्रूहि नोपदिशामि ते 4007013c वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि 4007014a मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः 4007014c मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् 4007015a प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः 4007015c संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् 4007016a कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च 4007016c अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया 4007017a एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे 4007017c दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः 4007018a किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे 4007018c राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः 4007019a मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् 4007019c वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव 4007020a मया च यदिदं वाक्यमभिमानात्समीरितम् 4007020c तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् 4007021a अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन 4007021c एतत्ते प्रतिजानामि सत्येनैव शपामि ते 4007022a ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह 4007022c राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः 4007023a महानुभावस्य वचो निशम्य; हरिर्नराणामृषभस्य तस्य 4007023c कृतं स मेने हरिवीर मुख्य;स्तदा स्वकार्यं हृदयेन विद्वान् 4008001a परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः 4008001c लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत् 4008002a सर्वथाहमनुग्राह्यो देवतानामसंशयः 4008002c उपपन्नगुणोपेतः सखा यस्य भवान्मम 4008003a शक्यं खलु भवेद्राम सहायेन त्वयानघ 4008003c सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो 4008004a सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव 4008004c यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् 4008005a अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः 4008005c न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् 4008006a महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् 4008006c निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव 4008007a रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा 4008007c अविभक्तानि साधूनामवगच्छन्ति साधवः 4008008a आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा 4008008c निर्दोषो वा सदोषो वा वयस्यः परमा गतिः 4008009a धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः 4008009c वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् 4008010a तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् 4008010c लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः 4008011a ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् 4008011c सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् 4008012a स ददर्श ततः सालमविदूरे हरीश्वरः 4008012c सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् 4008013a तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् 4008013c सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः 4008014a तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् 4008014c सालशाखां समुत्पाट्य विनीतमुपवेशयत् 4008015a ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा 4008015c उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् 4008016a अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः 4008016c ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः 4008017a सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः 4008017c वालिना निकृतो भ्रात्रा कृतवैरश्च राघव 4008018a वालिनो मे भयार्तस्य सर्वलोकाभयंकर 4008018c ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि 4008019a एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः 4008019c प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव 4008020a उपकारफलं मित्रमपकारोऽरिलक्षणम् 4008020c अद्यैव तं हनिष्यामि तव भार्यापहारिणम् 4008021a इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः 4008021c कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः 4008022a कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः 4008022c सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव 4008023a भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् 4008023c शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् 4008024a राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः 4008024c प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् 4008025a रामशोकाभिभूतोऽहं शोकार्तानां भवान्गतिः 4008025c वयस्य इति कृत्वा हि त्वय्यहं परिदेवये 4008026a त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः 4008026c कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम् 4008027a वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् 4008027c दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः 4008028a एतावदुक्त्वा वचनं बाष्पदूषितलोचनः 4008028c बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् 4008029a बाष्पवेगं तु सहसा नदीवेगमिवागतम् 4008029c धारयामास धैर्येण सुग्रीवो रामसंनिधौ 4008030a संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे 4008030c विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत् 4008031a पुराहं वलिना राम राज्यात्स्वादवरोपितः 4008031c परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा 4008032a हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी 4008032c सुहृदश्च मदीया ये संयता बन्धनेषु ते 4008033a यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव 4008033c बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया 4008034a शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव 4008034c नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति 4008035a केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे 4008035c अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्र गतोऽपि सन् 4008036a एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः 4008036c सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते 4008037a संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते 4008037c स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः 4008038a तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् 4008038c सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् 4008039a एष मे राम शोकान्तः शोकार्तेन निवेदितः 4008039c दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः 4008040a श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् 4008040c किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः 4008041a सुखं हि कारणं श्रुत्वा वैरस्य तव वानर 4008041c आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् 4008042a बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् 4008042c वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः 4008043a हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः 4008043c सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव 4008044a एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना 4008044c प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः 4008045a ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे 4008045c वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे 4009001a वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः 4009001c पितुर्बहुमतो नित्यं मम चापि तथा पुरा 4009002a पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः 4009002c कपीनामीश्वरो राज्ये कृतः परमसंमतः 4009003a राज्यं प्रशासतस्तस्य पितृपैतामहं महत् 4009003c अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः 4009004a मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः 4009004c तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा 4009005a स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः 4009005c नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे 4009006a प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् 4009006c श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा 4009007a स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् 4009007c वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना 4009008a स तु निर्धूय सर्वान्नो निर्जगाम महाबलः 4009008c ततोऽहमपि सौहार्दान्निःसृतो वालिना सह 4009009a स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् 4009009c असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् 4009010a तस्मिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ 4009010c प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा 4009011a स तृणैरावृतं दुर्गं धरण्या विवरं महत् 4009011c प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ 4009012a तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः 4009012c मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः 4009013a इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः 4009013c यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् 4009014a मया त्वेतद्वचः श्रुत्वा याचितः स परंतप 4009014c शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा 4009015a तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः 4009015c स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत 4009016a अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः 4009016c भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः 4009017a अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् 4009017c सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः 4009018a नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः 4009018c निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः 4009019a अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् 4009019c पिधाय च बिलद्वारं शिलया गिरिमात्रया 4009019e शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे 4009020a गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् 4009020c ततोऽहं तैः समागम्य समेतैरभिषेचितः 4009021a राज्यं प्रशासतस्तस्य न्यायतो मम राघव 4009021c आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् 4009022a अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः 4009022c मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् 4009023a निग्रहेऽपि समर्थस्य तं पापं प्रति राघव 4009023c न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता 4009024a मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् 4009024c उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना 4010001a ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् 4010001c अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया 4010002a दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः 4010002c अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः 4010003a इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् 4010003c छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् 4010004a त्वमेव राजा मानार्हः सदा चाहं यथापुरा 4010004c न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् 4010005a मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण 4010005c याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः 4010006a बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः 4010006c राजभावे नियुक्तोऽहं शून्यदेशजिगीषया 4010007a स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः 4010007c धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह 4010008a प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् 4010008c मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् 4010009a विदितं वो यथा रात्रौ मायावी स महासुरः 4010009c मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः 4010010a तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात् 4010010c अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः 4010011a स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः 4010011c प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ 4010011e अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम् 4010012a तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् 4010012c अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः 4010013a अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् 4010013c बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् 4010014a स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् 4010014c तं च मे मार्गमाणस्य गतः संवत्सरस्तदा 4010015a स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः 4010015c निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह 4010016a तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् 4010016c पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले 4010017a सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् 4010017c निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् 4010018a विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः 4010018c यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः 4010019a पादप्रहारैस्तु मया बहुशस्तद्विदारितम् 4010019c ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः 4010020a तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः 4010020c सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् 4010021a एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः 4010021c तदा निर्वासयामास वाली विगतसाध्वसः 4010022a तेनाहमपविद्धश्च हृतदारश्च राघव 4010022c तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा 4010023a ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः 4010023c प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे 4010024a एतत्ते सर्वमाख्यातं वैरानुकथनं महत् 4010024c अनागसा मया प्राप्तं व्यसनं पश्य राघव 4010025a वालिनस्तु भयार्तस्य सर्वलोकाभयंकर 4010025c कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् 4010026a एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् 4010026c वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव 4010027a अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः 4010027c तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः 4010028a यावत्तं न हि पश्येयं तव भार्यापहारिणम् 4010028c तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः 4010029a आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे 4010029c त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् 4011001a रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् 4011001c सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च 4011002a असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः 4011002c त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः 4011003a वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या 4011003c तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् 4011004a समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् 4011004c क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः 4011005a अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि 4011005c ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् 4011006a बहवः सारवन्तश्च वनेषु विविधा द्रुमाः 4011006c वालिना तरसा भग्ना बलं प्रथयतात्मनः 4011007a महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः 4011007c बलं नागसहस्रस्य धारयामास वीर्यवान् 4011008a वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः 4011008c जगाम स महाकायः समुद्रं सरितां पतिम् 4011009a ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम् 4011009c मम युद्धं प्रयच्छेति तमुवाच महार्णवम् 4011010a ततः समुद्रो धर्मात्मा समुत्थाय महाबलः 4011010c अब्रवीद्वचनं राजन्नसुरं कालचोदितम् 4011011a समर्थो नास्मि ते दातुं युद्धं युद्धविशारद 4011011c श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति 4011012a शैलराजो महारण्ये तपस्विशरणं परम् 4011012c शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः 4011013a गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः 4011013c स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे 4011014a तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः 4011014c हिमवद्वनमागच्छच्छरश्चापादिव च्युतः 4011015a ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः 4011015c चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च 4011016a ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः 4011016c हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः 4011017a क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल 4011017c रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् 4011018a तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः 4011018c उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः 4011019a यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः 4011019c तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः 4011020a हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः 4011020c अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् 4011021a वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः 4011021c अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम् 4011022a स समर्थो महाप्राज्ञस्तव युद्धविशारदः 4011022c द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः 4011023a तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि 4011023c स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि 4011024a श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः 4011024c जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा 4011025a धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः 4011025c प्रावृषीव महामेघस्तोयपूर्णो नभस्तले 4011026a ततस्तु द्वारमागम्य किष्किन्धाया महाबलः 4011026c ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा 4011027a समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः 4011027c विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा 4011028a अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः 4011028c निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः 4011029a मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम् 4011029c हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् 4011030a किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि 4011030c दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल 4011031a तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः 4011031c उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः 4011032a न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि 4011032c मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् 4011033a अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम् 4011033c गृह्यतामुदयः स्वैरं कामभोगेषु वानर 4011034a यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् 4011034c हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् 4011035a स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् 4011035c विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा 4011036a मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे 4011036c मदोऽयं संप्रहारेऽस्मिन्वीरपानं समर्थ्यताम् 4011037a तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् 4011037c पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत 4011038a विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् 4011038c वाली व्यापातयां चक्रे ननर्द च महास्वनम् 4011039a युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा 4011039c श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः 4011039e पपात च महाकायः क्षितौ पञ्चत्वमागतः 4011040a तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् 4011040c चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् 4011041a तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः 4011041c प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति 4011042a तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः 4011042c उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति 4011042e इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् 4011043a स महर्षिं समासाद्य याचते स्म कृताञ्जलिः 4011044a ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् 4011044c प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर 4011045a तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् 4011045c विचरामि सहामात्यो विषादेन विवर्जितः 4011046a एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते 4011046c वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् 4011047a इमे च विपुलाः सालाः सप्त शाखावलम्बिनः 4011047c यत्रैकं घटते वाली निष्पत्रयितुमोजसा 4011048a एतदस्यासमं वीर्यं मया राम प्रकाशितम् 4011048c कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप 4011049a यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः 4011049c जानीयां त्वां महाबाहो समर्थं वालिनो वधे 4011050a तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः 4011050c राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया 4011050e तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् 4011051a क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् 4011051c लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् 4011052a आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे 4011052c लघुः संप्रति निर्मांसस्तृणभूतश्च राघव 4011052e नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् 4012001a एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् 4012001c प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् 4012002a स गृहीत्वा धनुर्घोरं शरमेकं च मानदः 4012002c सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः 4012003a स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः 4012003c भित्त्वा सालान्गिरिप्रस्थे सप्त भूमिं विवेश ह 4012004a प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः 4012004c निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह 4012005a तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवः 4012005c रामस्य शरवेगेन विस्मयं परमं गतः 4012006a स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः 4012006c सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः 4012007a इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः 4012007c रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् 4012008a सेन्द्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ 4012008c समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो 4012009a येन सप्त महासाला गिरिर्भूमिश्च दारिताः 4012009c बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः 4012010a अद्य मे विगतः शोकः प्रीतिरद्य परा मम 4012010c सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् 4012011a तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् 4012011c वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः 4012012a ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् 4012012c प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः 4012013a अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः 4012013c गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् 4012014a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् 4012014c वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने 4012015a सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात् 4012015c गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् 4012016a तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः 4012016c निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव 4012017a ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् 4012017c गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव 4012018a तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः 4012018c जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ 4012019a ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु 4012019c अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ 4012020a यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः 4012020c ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् 4012021a एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना 4012021c अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे 4012022a क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः 4012022c वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम् 4012023a तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः 4012023c मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः 4012024a राघवोऽपि सह भ्रात्रा सह चैव हनूमता 4012024c तदेव वनमागच्छत्सुग्रीवो यत्र वानरः 4012025a तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् 4012025c ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् 4012026a आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् 4012026c वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् 4012027a तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः 4012027c वालिनं न निहन्मीति ततो नाहमितो व्रजे 4012028a तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः 4012028c करुणं दीनया वाचा राघवः पुनरब्रवीत् 4012029a सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम् 4012029c कारणं येन बाणोऽयं न मया स विसर्जितः 4012030a अलंकारेण वेषेण प्रमाणेन गतेन च 4012030c त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् 4012031a स्वरेण वर्चसा चैव प्रेक्षितेन च वानर 4012031c विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये 4012032a ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम 4012032c नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् 4012033a एतन्मुहूर्ते तु मया पश्य वालिनमाहवे 4012033c निरस्तमिषुणैकेन वेष्टमानं महीतले 4012034a अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर 4012034c येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् 4012035a गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् 4012035c कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः 4012036a ततो गिरितटे जातामुत्पाट्य कुसुमायुताम् 4012036c लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् 4012037a स तथा शुशुभे श्रीमाँल्लतया कण्ठसक्तया 4012037c मालयेव बलाकानां ससंध्य इव तोयदः 4012038a विभ्राजमानो वपुषा रामवाक्यसमाहितः 4012038c जगाम सह रामेण किष्किन्धां वालिपालिताम् 4013001a ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः 4013001c जगाम सहसुग्रीवो वालिविक्रमपालिताम् 4013002a समुद्यम्य महच्चापं रामः काञ्चनभूषितम् 4013002c शरांश्चादित्य संकाशान्गृहीत्वा रणसाधकान् 4013003a अग्रतस्तु ययौ तस्य राघवस्य महात्मनः 4013003c सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः 4013004a पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः 4013004c तारश्चैव महातेजा हरियूथप यूथपाः 4013005a ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः 4013005c प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः 4013006a कन्दराणि च शैलांश्च निर्झराणि गुहास्तथा 4013006c शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः 4013007a वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः 4013007c शोभितान्सजलान्मार्गे तटाकांश्च व्यलोकयन् 4013008a कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः 4013008c चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् 4013009a मृदुशष्पाङ्कुराहारान्निर्भयान्वनगोचरान् 4013009c चरतः सर्वतोऽपश्यन्स्थलीषु हरिणान्स्थितान् 4013010a तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् 4013010c घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः 4013011a वने वनचरांश्चान्यान्खेचरांश्च विहंगमान् 4013011c पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः 4013012a तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः 4013012c द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् 4013013a एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते 4013013c मेघसंघातविपुलः पर्यन्तकदलीवृतः 4013014a किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम 4013014c कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया 4013015a तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः 4013015c गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् 4013016a एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् 4013016c उद्यानवनसंपन्नं स्वादुमूलफलोदकम् 4013017a अत्र सप्तजना नाम मुनयः संशितव्रताः 4013017c सप्तैवासन्नधःशीर्षा नियतं जलशायिनः 4013018a सप्तरात्रकृताहारा वायुना वनवासिनः 4013018c दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः 4013019a तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम् 4013019c आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः 4013020a पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः 4013020c विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः 4013021a विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः 4013021c तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव 4013022a त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते 4013022c वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः 4013023a कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघवः 4013023c लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः 4013024a प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् 4013024c न तेषामशुभं किंचिच्छरीरे राम दृश्यते 4013025a ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः 4013025c समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् 4013026a अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः 4013026c सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः 4013027a ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् 4013027c ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् 4014001a सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम् 4014001c वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने 4014002a विचार्य सर्वतो दृष्टिं कानने काननप्रियः 4014002c सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् 4014003a ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् 4014003c परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् 4014004a अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा 4014004c दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् 4014005a हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम् 4014005c प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम् 4014006a प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा 4014006c सफलां तां कुरु क्षिप्रं लतां काल इवागतः 4014007a एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः 4014007c तमथोवाच सुग्रीवं वचनं शत्रुसूदनः 4014008a कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वया 4014008c विपरीत इवाकाशे सूर्यो नक्षत्र मालया 4014009a अद्य वालिसमुत्थं ते भयं वैरं च वानर 4014009c एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे 4014010a मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम् 4014010c वाली विनिहतो यावद्वने पांसुषु वेष्टते 4014011a यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते 4014011c ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान् 4014012a प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः 4014012c ततो वेत्सि बलेनाद्य बालिनं निहतं मया 4014013a अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता 4014013c धर्मलोभपरीतेन न च वक्ष्ये कथंचन 4014014a सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् 4014014c प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः 4014015a तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः 4014015c सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः 4014016a जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् 4014016c निष्पतिष्यत्यसंगेन वाली स प्रियसंयुगः 4014017a रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे 4014017c जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः 4014018a स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः 4014018c ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् 4014019a तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः 4014019c राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः 4014020a द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः 4014020c पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः 4014021a ततः स जीमूतगणप्रणादो; नादं व्यमुञ्चत्त्वरया प्रतीतः 4014021c सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर्वानिलचञ्चलोर्मिः 4015001a अथ तस्य निनादं तं सुग्रीवस्य महात्मनः 4015001c शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः 4015002a श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् 4015002c मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् 4015003a स तु रोषपरीताङ्गो वाली संध्यातपप्रभः 4015003c उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः 4015004a वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः 4015004c भात्युत्पतितपद्माभः समृणाल इव ह्रदः 4015005a शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः 4015005c वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् 4015006a तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा 4015006c उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः 4015007a साधु क्रोधमिमं वीर नदी वेगमिवागतम् 4015007c शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् 4015008a सहसा तव निष्क्रामो मम तावन्न रोचते 4015008c श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे 4015009a पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि 4015009c निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः 4015010a त्वया तस्य निरस्तस्य पीडितस्य विशेषतः 4015010c इहैत्य पुनराह्वानं शङ्कां जनयतीव मे 4015011a दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः 4015011c निनादस्य च संरम्भो नैतदल्पं हि कारणम् 4015012a नासहायमहं मन्ये सुग्रीवं तमिहागतम् 4015012c अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति 4015013a प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः 4015013c अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति 4015014a पूर्वमेव मया वीर श्रुतं कथयतो वचः 4015014c अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः 4015015a तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः 4015015c रामः परबलामर्दी युगान्ताग्निरिवोत्थितः 4015016a निवासवृक्षः साधूनामापन्नानां परा गतिः 4015016c आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् 4015017a ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः 4015017c धातूनामिव शैलेन्द्रो गुणानामाकरो महान् 4015018a तत्क्षमं न विरोधस्ते सह तेन महात्मना 4015018c दुर्जयेनाप्रमेयेन रामेण रणकर्मसु 4015019a शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् 4015019c श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् 4015020a यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय 4015020c विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा 4015021a अहं हि ते क्षमं मन्ये तव रामेण सौहृदम् 4015021c सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः 4015022a लालनीयो हि ते भ्राता यवीयानेष वानरः 4015022c तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते 4015023a यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् 4015023c याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे 4016001a तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् 4016001c वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् 4016002a गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः 4016002c मर्षयिष्याम्यहं केन कारणेन वरानने 4016003a अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् 4016003c धर्षणामर्षणं भीरु मरणादतिरिच्यते 4016004a सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे 4016004c सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः 4016005a न च कार्यो विषादस्ते राघवं प्रति मत्कृते 4016005c धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति 4016006a निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि 4016006c सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया 4016007a प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् 4016007c दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते 4016008a शापितासि मम प्राणैर्निवर्तस्व जयेन च 4016008c अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे 4016009a तं तु तारा परिष्वज्य वालिनं प्रियवादिनी 4016009c चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् 4016010a ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी 4016010c अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता 4016011a प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् 4016011c नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् 4016012a स निःश्वस्य महावेगो वाली परमरोषणः 4016012c सर्वतश्चारयन्दृष्टिं शत्रुदर्शनकाङ्क्षया 4016013a स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् 4016013c सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् 4016014a स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् 4016014c गाढं परिदधे वासो वाली परमरोषणः 4016015a स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् 4016015c सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः 4016016a श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः 4016016c सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् 4016017a तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् 4016017c आपतन्तं महावेगमिदं वचनमब्रवीत् 4016018a एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः 4016018c मया वेगविमुक्तस्ते प्राणानादाय यास्यति 4016019a एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् 4016019c तवैव च हरन्प्राणान्मुष्टिः पततु मूर्धनि 4016020a ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः 4016020c अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः 4016021a सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा 4016021c गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः 4016022a स तु वाली प्रचरितः सालताडनविह्वलः 4016022c गुरुभारसमाक्रान्ता सागरे नौरिवाभवत् 4016023a तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ 4016023c प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे 4016024a वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः 4016024c वालिनं प्रति सामर्षो दर्शयामास लाघवम् 4016025a ततो धनुषि संधाय शरमाशीविषोपमम् 4016025c राघवेण महाबाणो वालिवक्षसि पातितः 4016026a वेगेनाभिहतो वाली निपपात महीतले 4016027a अथोक्षितः शोणिततोयविस्रवैः; सुपुष्पिताशोक इवानिलोद्धतः 4016027c विचेतनो वासवसूनुराहवे; प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः 4017001a ततः शरेणाभिहतो रामेण रणकर्कशः 4017001c पपात सहसा वाली निकृत्त इव पादपः 4017002a स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः 4017002c अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः 4017003a तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे 4017003c नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् 4017004a भूमौ निपतितस्यापि तस्य देहं महात्मनः 4017004c न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः 4017005a शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता 4017005c दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा 4017006a स तया मालया वीरो हैमया हरियूथपः 4017006c संध्यानुगतपर्यन्तः पयोधर इवाभवत् 4017007a तस्य माला च देहश्च मर्मघाती च यः शरः 4017007c त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते 4017008a तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् 4017008c रामबाणासनक्षिप्तमावहत्परमां गतिम् 4017009a तं तथा पतितं संख्ये गतार्चिषमिवानलम् 4017009c ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् 4017010a आदित्यमिव कालेन युगान्ते भुवि पातितम् 4017010c महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम् 4017011a महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् 4017011c सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् 4017011e लक्ष्मणानुगतो रामो ददर्शोपससर्प च 4017012a स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् 4017012c अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् 4017013a पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः 4017013c यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः 4017014a कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः 4017014c रामः करुणवेदी च प्रजानां च हिते रतः 4017015a सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः 4017015c इति ते सर्वभूतानि कथयन्ति यशो भुवि 4017016a तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव 4017016c तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः 4017017a न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि 4017017c इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव 4017018a न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् 4017018c जाने पापसमाचारं तृणैः कूपमिवावृतम् 4017019a सतां वेषधरं पापं प्रच्छन्नमिव पावकम् 4017019c नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम् 4017020a विषये वा पुरे वा ते यदा नापकरोम्यहम् 4017020c न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम् 4017021a फलमूलाशनं नित्यं वानरं वनगोचरम् 4017021c मामिहाप्रतियुध्यन्तमन्येन च समागतम् 4017022a त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः 4017022c लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम् 4017023a कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः 4017023c धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत् 4017024a राम राजकुले जातो धर्मवानिति विश्रुतः 4017024c अभव्यो भव्यरूपेण किमर्थं परिधावसि 4017025a साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ 4017025c पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु 4017026a वयं वनचरा राम मृगा मूलफलाशनाः 4017026c एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः 4017027a भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च 4017027c तत्र कस्ते वने लोभो मदीयेषु फलेषु वा 4017028a नयश्च विनयश्चोभौ निग्रहानुग्रहावपि 4017028c राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः 4017029a त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः 4017029c राजवृत्तैश्च संकीर्णः शरासनपरायणः 4017030a न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता 4017030c इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर 4017031a हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् 4017031c किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् 4017032a राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः 4017032c नास्तिकः परिवेत्ता च सर्वे निरयगामिनः 4017033a अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् 4017033c अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः 4017034a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव 4017034c शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः 4017035a चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः 4017035c अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः 4017036a त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा 4017036c प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा 4017037a शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः 4017037c कथं दशरथेन त्वं जातः पापो महात्मना 4017038a छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना 4017038c त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना 4017039a दृश्यमानस्तु युध्येथा मया युधि नृपात्मज 4017039c अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया 4017040a त्वयादृश्येन तु रणे निहतोऽहं दुरासदः 4017040c प्रसुप्तः पन्नगेनेव नरः पानवशं गतः 4017041a सुग्रीवप्रियकामेन यदहं निहतस्त्वया 4017041c कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे 4017042a न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् 4017042c जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव 4017043a युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि 4017043c अयुक्तं यदधर्मेण त्वयाहं निहतो रणे 4017044a काममेवंविधं लोकः कालेन विनियुज्यते 4017044c क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् 4017045a इत्येवमुक्त्वा परिशुष्कवक्त्रः; शराभिघाताद्व्यथितो महात्मा 4017045c समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः 4018001a इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् 4018001c परुषं वालिना रामो निहतेन विचेतसा 4018002a तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् 4018002c उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् 4018003a धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् 4018003c अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् 4018004a धर्ममर्थं च कामं च समयं चापि लौकिकम् 4018004c अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे 4018005a अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसंमतान् 4018005c सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि 4018006a इक्ष्वाकूणामियं भूमिः सशैलवनकानना 4018006c मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि 4018007a तां पालयति धर्मात्मा भरतः सत्यवागृजुः 4018007c धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः 4018008a नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् 4018008c विक्रमश्च यथा दृष्टः स राजा देशकालवित् 4018009a तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः 4018009c चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः 4018010a तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले 4018010c पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् 4018011a ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः 4018011c भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि 4018012a त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः 4018012c कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि 4018013a ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति 4018013c त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः 4018014a यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः 4018014c पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् 4018015a सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम 4018015c हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् 4018016a चपलश्चपलैः सार्धं वानरैरकृतात्मभिः 4018016c जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् 4018017a अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते 4018017c न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि 4018018a तदेतत्कारणं पश्य यदर्थं त्वं मया हतः 4018018c भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् 4018019a अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः 4018019c रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् 4018020a तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर 4018020c भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः 4018021a न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः 4018021c दण्डादन्यत्र पश्यामि निग्रहं हरियूथप 4018022a औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः 4018022c प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः 4018023a भरतस्तु महीपालो वयं त्वादेशवर्तिनः 4018023c त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम् 4018024a गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् 4018024c भरतः कामवृत्तानां निग्रहे पर्यवस्थितः 4018025a वयं तु भरतादेशं विधिं कृत्वा हरीश्वर 4018025c त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः 4018026a सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा 4018026c दारराज्यनिमित्तं च निःश्रेयसि रतः स मे 4018027a प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ 4018027c प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् 4018028a तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः 4018028c शासनं तव यद्युक्तं तद्भवाननुमन्यताम् 4018029a सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः 4018029c वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता 4018030a राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः 4018030c निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा 4018031a आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् 4018031c श्रमणेन कृते पापे यथा पापं कृतं त्वया 4018032a अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः 4018032c प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः 4018033a तदलं परितापेन धर्मतः परिकल्पितः 4018033c वधो वानरशार्दूल न वयं स्ववशे स्थिताः 4018034a वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः 4018034c प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् 4018034e प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान् 4018035a प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् 4018035c विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते 4018036a यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः 4018036c तस्मात्त्वं निहतो युद्धे मया बाणेन वानर 4018036e अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि 4018037a दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च 4018037c राजानो वानरश्रेष्ठ प्रदातारो न संशयः 4018038a तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् 4018038c देवा मानुषरूपेण चरन्त्येते महीतले 4018039a त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः 4018039c प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् 4018040a एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् 4018040c प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः 4018041a यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः 4018041c प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् 4018042a यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् 4018042c तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव 4018043a त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः 4018043c कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया 4018044a मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम् 4018044c धर्मसंहितया वाचा धर्मज्ञ परिपालय 4018045a बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः 4018045c उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः 4018046a न त्वात्मानमहं शोचे न तारां नापि बान्धवान् 4018046c यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् 4018047a स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः 4018047c तटाक इव पीताम्बुरुपशोषं गमिष्यति 4018048a सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् 4018048c त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः 4018049a या ते नरपते वृत्तिर्भरते लक्ष्मणे च या 4018049c सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि 4018050a मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् 4018050c सुग्रीवो नावमन्येत तथावस्थातुमर्हसि 4018051a त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम् 4018051c त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना 4018052a स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् 4018053a न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम 4018053c वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः 4018054a दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते 4018054c कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः 4018055a तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः 4018055c गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना 4018056a स तस्य वाक्यं मधुरं महात्मनः; समाहितं धर्मपथानुवर्तिनः 4018056c निशम्य रामस्य रणावमर्दिनो; वचः सुयुक्तं निजगाद वानरः 4018057a शराभितप्तेन विचेतसा मया; प्रदूषितस्त्वं यदजानता प्रभो 4018057c इदं महेन्द्रोपमभीमविक्रम; प्रसादितस्त्वं क्षम मे महीश्वर 4019001a स वानरमहाराजः शयानः शरविक्षतः 4019001c प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत 4019002a अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् 4019002c रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः 4019003a तं भार्याबाणमोक्षेण रामदत्तेन संयुगे 4019003c हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् 4019004a सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् 4019004c निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् 4019005a ये त्वङ्गदपरीवारा वानरा हि महाबलाः 4019005c ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः 4019006a सा ददर्श ततस्त्रस्तान्हरीनापततो द्रुतम् 4019006c यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् 4019007a तानुवाच समासाद्य दुःखितान्दुःखिता सती 4019007c राम वित्रासितान्सर्वाननुबद्धानिवेषुभिः 4019008a वानरा राजसिंहस्य यस्य यूयं पुरःसराः 4019008c तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः 4019009a राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः 4019009c रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः 4019010a कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः 4019010c प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् 4019011a जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम् 4019011c अन्तको राम रूपेण हत्वा नयति वालिनम् 4019012a क्षिप्तान्वृक्षान्समाविध्य विपुलाश्च शिलास्तथा 4019012c वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः 4019013a अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् 4019013c अस्मिन्प्लवगशार्दूले हते शक्रसमप्रभे 4019014a रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम् 4019014c पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः 4019015a अथ वा रुचिरं स्थानमिह ते रुचिरानने 4019015c आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः 4019016a अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः 4019016c लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम् 4019017a अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना 4019017c आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी 4019018a पुत्रेण मम किं कार्यं किं राज्येन किमात्मना 4019018c कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति 4019019a पादमूलं गमिष्यामि तस्यैवाहं महात्मनः 4019019c योऽसौ रामप्रयुक्तेन शरेण विनिपातितः 4019020a एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता 4019020c शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती 4019021a आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि 4019021c हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् 4019022a क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् 4019022c महावातसमाविष्टं महामेघौघनिःस्वनम् 4019023a शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम् 4019023c नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् 4019024a शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् 4019024c अर्चितं सर्वलोकस्य सपताकं सवेदिकम् 4019025a नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा 4019025c अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम् 4019026a रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा 4019026c तानतीत्य समासाद्य भर्तारं निहतं रणे 4019027a समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह 4019027c सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती 4019028a रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः 4019028c तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव 4019029a विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् 4020001a रामचापविसृष्टेन शरेणान्तकरेण तम् 4020001c दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना 4020002a सा समासाद्य भर्तारं पर्यष्वजत भामिनी 4020002c इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् 4020003a वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा 4020003c तारा तरुमिवोन्मूलं पर्यदेवयदातुरा 4020004a रणे दारुणविक्रान्त प्रवीर प्लवतां वर 4020004c किं दीनामपुरोभागामद्य त्वं नाभिभाषसे 4020005a उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् 4020005c नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः 4020006a अतीव खलु ते कान्ता वसुधा वसुधाधिप 4020006c गतासुरपि यां गात्रैर्मां विहाय निषेवसे 4020007a व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता 4020007c किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता 4020008a यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु 4020008c विहृतानि त्वया काले तेषामुपरमः कृतः 4020009a निरानन्दा निराशाहं निमग्ना शोकसागरे 4020009c त्वयि पञ्चत्वमापन्ने महायूथपयूथपे 4020010a हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि 4020010c यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा 4020011a सुग्रीवस्य त्वया भार्या हृता स च विवासितः 4020011c यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप 4020012a निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता 4020012c यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी 4020013a कालो निःसंशयो नूनं जीवितान्तकरस्तव 4020013c बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् 4020014a वैधव्यं शोकसंतापं कृपणं कृपणा सती 4020014c अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् 4020015a लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः 4020015c वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते 4020016a कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् 4020016c दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति 4020017a समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च 4020017c मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि 4020018a रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता 4020018c आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे 4020019a सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे 4020019c भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव 4020020a किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे 4020020c इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर 4020021a तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः 4020021c परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः 4020022a किमङ्गदं साङ्गद वीर बाहो; विहाय यास्यद्य चिरप्रवासं 4020022c न युक्तमेवं गुणसंनिकृष्टं; विहाय पुत्रं प्रियपुत्र गन्तुम् 4020023a किमप्रियं ते प्रियचारुवेष; कृतं मया नाथ सुतेन वा ते 4020023c सहायिनीमद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम् 4020024a यद्यप्रियं किंचिदसंप्रधार्य; कृतं मया स्यात्तव दीर्घबाहो 4020024c क्षमस्व मे तद्धरिवंश नाथ; व्रजामि मूर्ध्ना तव वीर पादौ 4020025a तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः 4020025c व्यवस्यत प्रायमनिन्द्यवर्णा; उपोपवेष्टुं भुवि यत्र वाली 4021001a ततो निपतितां तारां च्युतां तारामिवाम्बरात् 4021001c शनैराश्वासयामास हनूमान्हरियूथपः 4021002a गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् 4021002c अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् 4021003a शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे 4021003c कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन्बुद्बुदोपमे 4021004a अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया 4021004c आयत्या च विधेयानि समर्थान्यस्य चिन्तय 4021005a जानास्यनियतामेवं भूतानामागतिं गतिम् 4021005c तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् 4021006a यस्मिन्हरिसहस्राणि प्रयुतान्यर्बुदानि च 4021006c वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः 4021007a यदयं न्यायदृष्टार्थः सामदानक्षमापरः 4021007c गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि 4021008a सर्वे च हरिशार्दूल पुत्रश्चायं तवाङ्गदः 4021008c हर्यृष्कपतिराज्यं च त्वत्सनाथमनिन्दिते 4021009a ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि 4021009c त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् 4021010a संततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम् 4021010c राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः 4021011a संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् 4021011c सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि 4021012a सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता 4021012c अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् 4021013a अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम् 4021013c हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् 4021014a न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा 4021014c पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः 4021015a न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति 4021015c पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम 4021016a न हि मम हरिराजसंश्रया;त्क्षमतरमस्ति परत्र चेह वा 4021016c अभिमुखहतवीरसेवितं; शयनमिदं मम सेवितुं क्षमम् 4022001a वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् 4022001c आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः 4022002a तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम् 4022002c आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् 4022003a सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात् 4022003c कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् 4022004a युगपद्विहितं तात न मन्ये सुखमावयोः 4022004c सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा 4022005a प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् 4022005c मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् 4022006a जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् 4022006c प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः 4022007a अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः 4022007c यद्यप्यसुकरं राजन्कर्तुमेव तदर्हसि 4022008a सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् 4022008c बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् 4022009a मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं 4022009c मया हीनमहीनार्थं सर्वतः परिपालय 4022010a त्वमप्यस्य हि दाता च परित्राता च सर्वतः 4022010c भयेष्वभयदश्चैव यथाहं प्लवगेश्वर 4022011a एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः 4022011c रक्षसां तु वधे तेषामग्रतस्ते भविष्यति 4022012a अनुरूपाणि कर्माणि विक्रम्य बलवान्रणे 4022012c करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः 4022013a सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये 4022013c औत्पातिके च विविधे सर्वतः परिनिष्ठिता 4022014a यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम् 4022014c न हि तारामतं किंचिदन्यथा परिवर्तते 4022015a राघवस्य च ते कार्यं कर्तव्यमविशङ्कया 4022015c स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः 4022016a इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम् 4022016c उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि 4022017a इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् 4022017c हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् 4022018a तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः 4022018c जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् 4022019a तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम् 4022019c संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत् 4022020a देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये 4022020c सुखदुःखसहः काले सुग्रीववशगो भव 4022021a यथा हि त्वं महाबाहो लालितः सततं मया 4022021c न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते 4022022a मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम 4022022c भर्तुरर्थपरो दान्तः सुग्रीववशगो भव 4022023a न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते 4022023c उभयं हि महादोषं तस्मादन्तरदृग्भव 4022024a इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् 4022024c विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः 4022025a हते तु वीरे प्लवगाधिपे तदा; प्लवंगमास्तत्र न शर्म लेभिरे 4022025c वनेचराः सिंहयुते महावने; यथा हि गावो निहते गवां पतौ 4022026a ततस्तु तारा व्यसनार्णव प्लुता; मृतस्या भर्तुर्वदनं समीक्ष्य सा 4022026c जगाम भूमिं परिरभ्य वालिनं; महाद्रुमं छिन्नमिवाश्रिता लता 4023001a ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् 4023001c पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् 4023002a शेषे त्वं विषमे दुःखमकृत्वा वचनं मम 4023002c उपलोपचिते वीर सुदुःखे वसुधातले 4023003a मत्तः प्रियतरा नूनं वानरेन्द्र मही तव 4023003c शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे 4023004a सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय 4023004c ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते 4023005a एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः 4023005c मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे 4023006a इदं तच्छूरशयनं यत्र शेषे हतो युधि 4023006c शायिता निहता यत्र त्वयैव रिपवः पुरा 4023007a विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय 4023007c मामनाथां विहायैकां गतस्त्वमसि मानद 4023008a शूराय न प्रदातव्या कन्या खलु विपश्चिता 4023008c शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् 4023009a अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः 4023009c अगाधे च निमग्नास्मि विपुले शोकसागरे 4023010a अश्मसारमयं नूनमिदं मे हृदयं दृढम् 4023010c भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् 4023011a सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः 4023011c आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः 4023012a पतिहीना तु या नारी कामं भवतु पुत्रिणी 4023012c धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः 4023013a स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले 4023013c कृमिरागपरिस्तोमे त्वमेवं शयने यथा 4023014a रेणुशोणितसंवीतं गात्रं तव समन्ततः 4023014c परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ 4023015a कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे 4023015c यस्य रामविमुक्तेन हृतमेकेषुणा भयम् 4023016a शरेण हृदि लग्नेन गात्रसंस्पर्शने तव 4023016c वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते 4023017a उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा 4023017c गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा 4023018a तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः 4023018c अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव 4023019a पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः 4023019c ताम्रगैरिकसंपृक्ता धारा इव धराधरात् 4023020a अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना 4023020c अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् 4023021a रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् 4023021c उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना 4023022a अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् 4023022c संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा 4023023a बालसूर्योदयतनुं प्रयान्तं यमसादनम् 4023023c अभिवादय राजानं पितरं पुत्र मानदम् 4023024a एवमुक्तः समुत्थाय जग्राह चरणौ पितुः 4023024c भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन् 4023025a अभिवादयमानं त्वामङ्गदं त्वं यथापुरा 4023025c दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे 4023026a अहं पुत्रसहाया त्वामुपासे गतचेतनम् 4023026c सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् 4023027a इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा 4023027c अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना 4023028a या दत्ता देवराजेन तव तुष्टेन संयुगे 4023028c शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् 4023029a राजश्रीर्न जहाति त्वां गतासुमपि मानद 4023029c सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा 4023030a न मे वचः पथ्यमिदं त्वया कृतं; न चास्मि शक्ता हि निवारणे तव 4023030c हता सपुत्रास्मि हतेन संयुगे; सह त्वया श्रीर्विजहाति मामिह 4024001a गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम् 4024001c अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः 4024002a न शोकपरितापेन श्रेयसा युज्यते मृतः 4024002c यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ 4024003a लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् 4024003c न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् 4024004a नियतः कारणं लोके नियतिः कर्मसाधनम् 4024004c नियतिः सर्वभूतानां नियोगेष्विह कारणम् 4024005a न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः 4024005c स्वभावे वर्तते लोकस्तस्य कालः परायणम् 4024006a न कालः कालमत्येति न कालः परिहीयते 4024006c स्वभावं वा समासाद्य न कश्चिदतिवर्तते 4024007a न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः 4024007c न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः 4024008a किं तु काल परीणामो द्रष्टव्यः साधु पश्यता 4024008c धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः 4024009a इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम् 4024009c धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर 4024010a स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना 4024010c स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता 4024011a एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः 4024011c तदलं परितापेन प्राप्तकालमुपास्यताम् 4024012a वचनान्ते तु रामस्य लक्ष्मणः परवीरहा 4024012c अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं 4024013a कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् 4024013c ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति 4024014a समाज्ञापय काष्ठानि शुष्काणि च बहूनि च 4024014c चन्दनानि च दिव्यानि वालिसंस्कारकारणात् 4024015a समाश्वासय चैनं त्वमङ्गदं दीनचेतसं 4024015c मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् 4024016a अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च 4024016c घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् 4024017a त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात् 4024017c त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः 4024018a सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः 4024018c समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् 4024019a एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः 4024019c तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा 4024020a लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः 4024020c प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः 4024021a आदाय शिबिकां तारः स तु पर्यापयत्पुनः 4024021c वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः 4024022a ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा 4024022c आरोपयत विक्रोशन्नङ्गदेन सहैव तु 4024023a आरोप्य शिबिकां चैव वालिनं गतजीवितम् 4024023c अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् 4024024a आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः 4024024c और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः 4024025a विश्राणयन्तो रत्नानि विविधानि बहूनि च 4024025c अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् 4024026a राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः 4024026c तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् 4024027a अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा 4024027c क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः 4024028a ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः 4024028c अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः 4024029a तासां रुदितशब्देन वानरीणां वनान्तरे 4024029c वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः 4024030a पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते 4024030c चितां चक्रुः सुबहवो वानरा वनचारिणः 4024031a अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः 4024031c तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः 4024032a ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् 4024032c आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता 4024033a जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् 4024033c प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद 4024033e अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा 4024034a एष त्वां रामरूपेण कालः कर्षति वानर 4024034c येन स्म विधवाः सर्वाः कृता एकेषुणा रणे 4024035a इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा 4024035c पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे 4024036a तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः 4024036c इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् 4024037a एते हि सचिवा राजंस्तारप्रभृतयस्तव 4024037c पुरवासिजनश्चायं परिवार्यासतेऽनघ 4024038a विसर्जयैनान्प्रवलान्यथोचितमरिंदम 4024038c ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः 4024039a एवं विलपतीं तारां पतिशोकपरिप्लुताम् 4024039c उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः 4024040a सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् 4024040c चितामारोपयामास शोकेनाभिहतेन्द्रियः 4024041a ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह 4024041c पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः 4024042a संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः 4024042c आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम् 4024043a ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः 4024043c सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् 4024044a सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः 4024044c समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् 4025001a ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम् 4025001c शाखामृगमहामात्राः परिवार्योपतस्थिरे 4025002a अभिगम्य महाबाहुं राममक्लिष्टकारिणम् 4025002c स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः 4025003a ततः काञ्चनशैलाभस्तरुणार्कनिभाननः 4025003c अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः 4025004a भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् 4025004c वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो 4025005a भवता समनुज्ञातः प्रविश्य नगरं शुभम् 4025005c संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः 4025006a स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि 4025006c अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः 4025007a इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि 4025007c कुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन् 4025008a एवमुक्तो हनुमता राघवः परवीरहा 4025008c प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः 4025009a चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम् 4025009c न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः 4025010a सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः 4025010c प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् 4025011a एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् 4025011c इममप्यङ्गदं वीर यौवराज्येऽभिषेचय 4025012a पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः 4025012c प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः 4025013a नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् 4025013c अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः 4025014a इयं गिरिगुहा रम्या विशाला युक्तमारुता 4025014c प्रभूतसलिला सौम्य प्रभूतकमलोत्पला 4025015a कार्तिके समनुप्राप्ते त्वं रावणवधे यत 4025015c एष नः समयः सौम्य प्रविश त्वं स्वमालयम् 4025015e अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय 4025016a इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः 4025016c प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् 4025017a तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् 4025017c अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन् 4025018a ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् 4025018c प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः 4025019a सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् 4025019c भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः 4025020a प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम् 4025020c अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः 4025021a तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् 4025021c शुक्ले च बालव्यजने हेमदण्डे यशस्करे 4025022a तथा सर्वाणि रत्नानि सर्वबीजौषधानि च 4025022c सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च 4025023a शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् 4025023c सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च 4025024a चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून् 4025024c अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी 4025025a दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ 4025025c समालम्भनमादाय रोचनां समनःशिलाम् 4025025e आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश 4025026a ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि 4025026c रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् 4025027a ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं 4025027c मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः 4025028a ततो हेमप्रतिष्ठाने वरास्तरणसंवृते 4025028c प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते 4025029a प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने 4025029c नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः 4025030a आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः 4025030c अपः कनककुम्भेषु निधाय विमलाः शुभाः 4025031a शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः 4025031c शास्त्रदृष्टेन विधिना महर्षिविहितेन च 4025032a गजो गवाक्षो गवयः शरभो गन्धमादनः 4025032c मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः 4025033a अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना 4025033c सलिलेन सहस्राक्षं वसवो वासवं यथा 4025034a अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः 4025034c प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः 4025035a रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवः 4025035c अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत् 4025036a अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः 4025036c साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् 4025037a हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता 4025037c बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे 4025038a निवेद्य रामाय तदा महात्मने; महाभिषेकं कपिवाहिनीपतिः 4025038c रुमां च भार्यां प्रतिलभ्य वीर्यवा;नवाप राज्यं त्रिदशाधिपो यथा 4026001a अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् 4026001c आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् 4026002a शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम् 4026002c नानागुल्मलतागूढं बहुपादपसंकुलम् 4026003a ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् 4026003c मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् 4026004a तस्य शैलस्य शिखरे महतीमायतां गुहाम् 4026004c प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह 4026005a अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः 4026005c बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ 4026006a सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे 4026006c वसतस्तस्य रामस्य रतिरल्पापि नाभवत् 4026006e हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् 4026007a उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः 4026007c आविवेश न तं निद्रा निशासु शयनं गतम् 4026008a तत्समुत्थेन शोकेन बाष्पोपहतचेतसं 4026008c तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् 4026008e तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः 4026009a अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि 4026009c शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते 4026010a भवान्क्रियापरो लोके भवान्देवपरायणः 4026010c आस्तिको धर्मशीलश्च व्यवसायी च राघव 4026011a न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः 4026011c समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् 4026012a समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु 4026012c ततः सपरिवारं तं निर्मूलं कुरु राक्षसं 4026013a पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् 4026013c परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् 4026014a अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये 4026014c दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् 4026015a लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् 4026015c राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् 4026016a वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च 4026016c सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया 4026017a एष शोकः परित्यक्तः सर्वकार्यावसादकः 4026017c विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् 4026018a शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता 4026018c ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् 4026019a तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः 4026019c पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः 4026020a एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण 4026020c इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः 4026021a विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि 4026021c एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च 4026022a तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् 4026022c वर्षारात्रमनुप्राप्तमतिक्रामय राघव 4026023a नियम्य कोपं प्रतिपाल्यतां शर;त्क्षमस्व मासांश्चतुरो मया सह 4026023c वसाचलेऽस्मिन्मृगराजसेविते; संवर्धयञ्शत्रुवधे समुद्यतः 4027001a स तदा वालिनं हत्वाह्सुग्रीवमभिषिच्य च 4027001c वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत् 4027002a अयं स कालः संप्राप्तः समयोऽद्य जलागमः 4027002c संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः 4027003a नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः 4027003c पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् 4027004a शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः 4027004c कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम् 4027005a संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः 4027005c स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम् 4027006a मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम् 4027006c आपाण्डुजलदं भाति कामातुरमिवाम्बरम् 4027007a एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता 4027007c सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति 4027008a मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः 4027008c शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः 4027009a एष फुल्लार्जुनः शैलः केतकैरधिवासितः 4027009c सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते 4027010a मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः 4027010c मारुतापूरितगुहाः प्राधीता इव पर्वताः 4027011a कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् 4027011c अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् 4027012a नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे 4027012c स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी 4027013a इमास्ता मन्मथवतां हिताः प्रतिहता दिशः 4027013c अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः 4027014a क्वचिद्बाष्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् 4027014c कुटजान्पश्य सौमित्रे पुष्टितान्गिरिसानुषु 4027014e मम शोकाभिभूतस्य कामसंदीपनान्स्थितान् 4027015a रजः प्रशान्तं सहिमोऽद्य वायु;र्निदाघदोषप्रसराः प्रशान्ताः 4027015c स्थिता हि यात्रा वसुधाधिपानां; प्रवासिनो यान्ति नराः स्वदेशान् 4027016a संप्रस्थिता मानसवासलुब्धाः; प्रियान्विताः संप्रति चक्रवाकः 4027016c अभीक्ष्णवर्षोदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति 4027017a क्वचित्प्रकाशं क्वचिदप्रकाशं; नभः प्रकीर्णाम्बुधरं विभाति 4027017c क्वचित्क्वचित्पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य 4027018a व्यामिश्रितं सर्जकदम्बपुष्पै;र्नवं जलं पर्वतधातुताम्रम् 4027018c मयूरकेकाभिरनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति 4027019a रसाकुलं षट्पदसंनिकाशं; प्रभुज्यते जम्बुफलं प्रकामम् 4027019c अनेकवर्णं पवनावधूतं; भूमौ पतत्याम्रफलं विपक्वम् 4027020a विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः 4027020c गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः 4027021a मेघाभिकामी परिसंपतन्ती; संमोदिता भाति बलाकपङ्क्तिः 4027021c वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य 4027022a निद्रा शनैः केशवमभ्युपैति; द्रुतं नदी सागरमभ्युपैति 4027022c हृष्टा बलाका घनमभ्युपैति; कान्ता सकामा प्रियमभ्युपैति 4027023a जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः 4027023c जाता वृषा गोषु समानकामा; जाता मही सस्यवनाभिरामा 4027024a वहन्ति वर्षन्ति नदन्ति भान्ति; ध्यायन्ति नृत्यन्ति समाश्वसन्ति 4027024c नद्यो घना मत्तगजा वनान्ताः; प्रियाविनीहाः शिखिनः प्लवंगाः 4027025a प्रहर्षिताः केतकपुष्पगन्ध;माघ्राय हृष्टा वननिर्झरेषु 4027025c प्रपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति 4027026a धारानिपातैरभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः 4027026c क्षणार्जितं पुष्परसावगाढं; शनैर्मदं षट्चरणास्त्यजन्ति 4027027a अङ्गारचूर्णोत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः 4027027c जम्बूद्रुमाणां प्रविभान्ति शाखा; निलीयमाना इव षट्पदौघैः 4027028a तडित्पताकाभिरलंकृताना;मुदीर्णगम्भीरमहारवाणाम् 4027028c विभान्ति रूपाणि बलाहकानां; रणोद्यतानामिव वारणानाम् 4027029a मार्गानुगः शैलवनानुसारी; संप्रस्थितो मेघरवं निशम्य 4027029c युद्धाभिकामः प्रतिनागशङ्की; मत्तो गजेन्द्रः प्रतिसंनिवृत्तः 4027030a मुक्तासकाशं सलिलं पतद्वै; सुनिर्मलं पत्रपुटेषु लग्नम् 4027030c हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति 4027031a नीलेषु नीला नववारिपूर्णा; मेघेषु मेघाः प्रविभान्ति सक्ताः 4027031c दवाग्निदग्धेषु दवाग्निदग्धाः; शैलेषु शैला इव बद्धमूलाः 4027032a मत्ता गजेन्द्रा मुदिता गवेन्द्रा; वनेषु विश्रान्ततरा मृगेन्द्राः 4027032c रम्या नगेन्द्रा निभृता नगेन्द्राः; प्रक्रीडितो वारिधरैः सुरेन्द्रः 4027033a वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते 4027033c वैराणि चैव मार्गाश्च सलिलेन समीकृताः 4027034a मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् 4027034c अयमध्यायसमयः सामगानामुपस्थितः 4027035a निवृत्तकर्मायतनो नूनं संचितसंचयः 4027035c आषाढीमभ्युपगतो भरतः कोषकाधिपः 4027036a नूनमापूर्यमाणायाः सरय्वा वधते रयः 4027036c मां समीक्ष्य समायान्तमयोध्याया इव स्वनः 4027037a इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते 4027037c विजितारिः सदारश्च राज्ये महति च स्थितः 4027038a अहं तु हृतदारश्च राज्याच्च महतश्च्युतः 4027038c नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण 4027039a शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः 4027039c रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे 4027040a अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् 4027040c प्रणते चैव सुग्रीवे न मया किंचिदीरितम् 4027041a अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् 4027041c आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् 4027042a स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् 4027042c उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः 4027043a तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण 4027043c सुग्रीवस्य नदीनां च प्रसादमनुपालयन् 4027044a उपकारेण वीरो हि प्रतिकारेण युज्यते 4027044c अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः 4027045a अथैवमुक्तः प्रणिधाय लक्ष्मणः; कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् 4027045c उवाच रामं स्वभिराम दर्शनं; प्रदर्शयन्दर्शनमात्मनः शुभम् 4027046a यथोक्तमेतत्तव सर्वमीप्सितं; नरेन्द्र कर्ता नचिराद्धरीश्वरः 4027046c शरत्प्रतीक्षः क्षमतामिमं भवा;ञ्जलप्रपातं रिपुनिग्रहे धृतः 4028001a समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् 4028001c सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् 4028002a समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् 4028002c अत्यर्थमसतां मार्गमेकान्तगतमानसं 4028003a निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा 4028003c प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् 4028004a स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम् 4028004c विहरन्तमहोरात्रं कृतार्थं विगतज्वलम् 4028005a क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः 4028005c मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् 4028006a उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् 4028006c निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् 4028007a प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः 4028007c वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः 4028008a हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् 4028008c प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् 4028008e हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् 4028009a राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता 4028009c मित्राणां संग्रहः शेषस्तद्भवान्कर्तुमर्हति 4028010a यो हि मित्रेषु कालज्ञः सततं साधु वर्तते 4028010c तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते 4028011a यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप 4028011c समवेतानि सर्वाणि स राज्यं महदश्नुते 4028012a तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये 4028012c मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति 4028013a यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते 4028013c स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते 4028014a क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् 4028014c तदिदं वीर कार्यं ते कालातीतमरिंदम 4028015a न च कालमतीतं ते निवेदयति कालवित् 4028015c त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः 4028016a कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः 4028016c अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः 4028017a तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव 4028017c हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि 4028018a न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते 4028018c चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः 4028019a अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर 4028019c किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च 4028020a शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर 4028020c कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे 4028021a कामं खलु शरैर्शक्तः सुरासुरमहोरगान् 4028021c वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते 4028022a प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् 4028022c तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे 4028023a न देवा न च गन्धर्वा नासुरा न मरुद्गणाः 4028023c न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः 4028024a तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा 4028024c रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् 4028025a नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे 4028025c कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया 4028026a तदाज्ञापय कः किं ते कृते वसतु कुत्रचित् 4028026c हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ 4028027a तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम् 4028027c सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम् 4028028a स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् 4028028c दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे 4028029a यथा सेना समग्रा मे यूथपालाश्च सर्वशः 4028029c समागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु 4028030a ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः 4028030c समानयन्तु ते सैन्यं त्वरिताः शासनान्मम 4028030e स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु 4028031a त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः 4028031c तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा 4028032a हरींश्च वृद्धानुपयातु साङ्गदो; भवान्ममाज्ञामधिकृत्य निश्चिताम् 4028032c इति व्यवस्थां हरिपुंगवेश्वरो; विधाय वेश्म प्रविवेश वीर्यवान् 4029001a गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः 4029001c वर्षरात्रोषितो रामः कामशोकाभिपीडितः 4029002a पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् 4029002c शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् 4029003a कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् 4029003c बुद्ध्वा कालमतीतं च मुमोह परमातुरः 4029004a स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः 4029004c मनःस्थामपि वैदेहीं चिन्तयामास राघवः 4029005a आसीनः पर्वतस्याग्रे हेमधातुविभूषिते 4029005c शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम् 4029006a दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम् 4029006c सारसारवसंघुष्टं विललापार्तया गिरा 4029007a सारसारवसंनादैः सारसारवनादिनी 4029007c याश्रमे रमते बाला साद्य मे रमते कथम् 4029008a पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् 4029008c कथं स रमते बाला पश्यन्ती मामपश्यती 4029009a या पुरा कलहंसानां स्वरेण कलभाषिणी 4029009c बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम् 4029010a निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् 4029010c पुण्डरीकविशालाक्षी कथमेषा भविष्यति 4029011a सरांसि सरितो वापीः काननानि वनानि च 4029011c तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे 4029012a अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् 4029012c न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः 4029013a एवमादि नरश्रेष्ठो विललाप नृपात्मजः 4029013c विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् 4029014a ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु 4029014c ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् 4029015a तं चिन्तया दुःसहया परीतं; विसंज्ञमेकं विजने मनस्वी 4029015c भ्रातुर्विषादात्परितापदीनः; समीक्ष्य सौमित्रिरुवाच रामम् 4029016a किमार्य कामस्य वशंगतेन; किमात्मपौरुष्यपराभवेन 4029016c अयं सदा संहृइयते समाधिः; किमत्र योगेन निवर्तितेन 4029017a क्रियाभियोगं मनसः प्रसादं; समाधियोगानुगतं च कालम् 4029017c सहायसामर्थ्यमदीनसत्त्व; स्वकर्महेतुं च कुरुष्व हेतुम् 4029018a न जानकी मानववंशनाथ; त्वया सनाथा सुलभा परेण 4029018c न चाग्निचूडां ज्वलितामुपेत्य; न दह्यते वीरवरार्ह कश्चित् 4029019a सलक्ष्मणं लक्ष्मणमप्रधृष्यं; स्वभावजं वाक्यमुवाच रामः 4029019c हितं च पथ्यं च नयप्रसक्तं; ससामधर्मार्थसमाहितं च 4029020a निःसंशयं कार्यमवेक्षितव्यं; क्रियाविशेषो ह्यनुवर्तितव्यः 4029020c ननु प्रवृत्तस्य दुरासदस्य; कुमारकार्यस्य फलं न चिन्त्यम् 4029021a अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन् 4029021c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 4029022a तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम् 4029022c निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः 4029023a स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः 4029023c विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज 4029024a नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश 4029024c विमदा इव मातङ्गाः शान्तवेगाः पयोधराः 4029025a जलगर्भा महावेगाः कुटजार्जुनगन्धिनः 4029025c चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः 4029026a घनानां वारणानां च मयूराणां च लक्ष्मण 4029026c नादः प्रस्रवणानां च प्रशान्तः सहसानघ 4029027a अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः 4029027c अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः 4029028a दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः 4029028c नवसंगमसव्रीडा जघनानीव योषितः 4029029a प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः 4029029c चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः 4029030a अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज 4029030c उद्योगसमयः सौम्य पार्थिवानामुपस्थितः 4029031a इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज 4029031c न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् 4029032a चत्वारो वार्षिका मासा गता वर्षशतोपमाः 4029032c मम शोकाभितप्तस्य सौम्य सीतामपश्यतः 4029033a प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते 4029033c कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण 4029034a अनाथो हृतराज्योऽयं रावणेन च धर्षितः 4029034c दीनो दूरगृहः कामी मां चैव शरणं गतः 4029035a इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः 4029035c अहं वानरराजस्य परिभूतः परंतप 4029036a स कालं परिसंख्याय सीतायाः परिमार्गणे 4029036c कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते 4029037a त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम् 4029037c मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम 4029038a अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् 4029038c आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः 4029039a शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् 4029039c सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः 4029040a कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये 4029040c तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते 4029041a नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे 4029041c द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम् 4029042a घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे 4029042c निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति 4029043a काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे 4029043c त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज 4029044a यदर्थमयमारम्भः कृतः परपुरंजय 4029044c समयं नाभिजानाति कृतार्थः प्लवगेश्वरः 4029045a वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः 4029045c व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते 4029046a सामात्यपरिषत्क्रीडन्पानमेवोपसेवते 4029046c शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् 4029047a उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल 4029047c मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः 4029048a न च संकुचितः पन्था येन वाली हतो गतः 4029048c समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः 4029049a एक एव रणे वाली शरेण निहतो मया 4029049c त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् 4029050a तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ 4029050c तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः 4029051a कुरुष्व सत्यं मयि वानरेश्वर; प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् 4029051c मा वालिनं प्रेत्य गतो यमक्षयं; त्वमद्य पश्येर्मम चोदितैः शरैः 4029052a स पूर्वजं तीव्रविवृद्धकोपं; लालप्यमानं प्रसमीक्ष्य दीनम् 4029052c चकार तीव्रां मतिमुग्रतेजा; हरीश्वरमानववंशनाथः 4030001a स कामिनं दीनमदीनसत्त्वः; शोकाभिपन्नं समुदीर्णकोपम् 4030001c नरेन्द्रसूनुर्नरदेवपुत्रं; रामानुजः पूर्वजमित्युवाच 4030002a न वानरः स्थास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान् 4030002c न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमतेऽस्य बुद्धिः 4030003a मतिक्षयाद्ग्राम्यसुखेषु सक्त;स्तव प्रसादाप्रतिकारबुद्धिः 4030003c हतोऽग्रजं पश्यतु वालिनं स; न राज्यमेवं विगुणस्य देयम् 4030004a न धारये कोपमुदीर्णवेगं; निहन्मि सुग्रीवमसत्यमद्य 4030004c हरिप्रवीरैः सह वालिपुत्रो; नरेन्द्रपत्न्या विचयं करोतु 4030005a तमात्तबाणासनमुत्पतन्तं; निवेदितार्थं रणचण्डकोपम् 4030005c उवच रामः परवीरहन्ता; स्ववेक्षितं सानुनयं च वाक्यम् 4030006a न हि वै त्वद्विधो लोके पापमेवं समाचरेत् 4030006c पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः 4030007a नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण 4030007c तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् 4030008a सामोपहितया वाचा रूक्षाणि परिवर्जयन् 4030008c वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये 4030009a सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः 4030009c प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा 4030010a ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः 4030010c लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः 4030011a शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः 4030011c प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव 4030012a यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् 4030012c बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा 4030013a कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः 4030013c प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा 4030014a सालतालाश्वकर्णांश्च तरसा पातयन्बहून् 4030014c पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः 4030015a शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः 4030015c दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् 4030016a तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् 4030016c दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे 4030017a रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः 4030017c ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान् 4030018a शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् 4030018c जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे 4030019a तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः 4030019c बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः 4030020a तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः 4030020c कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः 4030021a ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः 4030021c क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् 4030022a तारया सहितः कामी सक्तः कपिवृषो रहः 4030022c न तेषां कपिवीराणां शुश्राव वचनं तदा 4030023a ततः सचिवसंदिष्टा हरयो रोमहर्षणाः 4030023c गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा 4030024a नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः 4030024c सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः 4030025a दशनागबलाः केचित्केचिद्दशगुणोत्तराः 4030025c केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः 4030026a कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः 4030026c अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् 4030027a ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् 4030027c निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा 4030028a सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् 4030028c बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः 4030029a स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः 4030029c बभूव नरशार्दूलसधूम इव पावकः 4030030a बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् 4030030c स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः 4030031a तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् 4030031c समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् 4030032a सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः 4030032c सुग्रीवः कथ्यतां वत्स ममागमनमित्युत 4030033a एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः 4030033c भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः 4030034a लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् 4030034c पितुः समीपमागम्य सौमित्रिरयमागतः 4030035a ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् 4030035c सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः 4030036a तेन शब्देन महता प्रत्यबुध्यत वानरः 4030036c मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः 4030037a अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ 4030037c मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ 4030038a प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः 4030038c वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः 4030039a प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः 4030039c आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् 4030040a सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ 4030040c वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ 4030041a तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः 4030041c यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः 4030042a स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः 4030042c व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् 4030043a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः 4030043c राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः 4031001a अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह 4031001c लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् 4031002a सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् 4031002c मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः 4031003a न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् 4031003c लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये 4031004a असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः 4031004c मम दोषानसंभूताञ्श्रावितो राघवानुजः 4031005a अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि 4031005c भवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः 4031006a न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् 4031006c मित्रं त्वस्थान कुपितं जनयत्येव संभ्रमम् 4031007a सर्वथा सुकरं मित्रं दुष्करं परिपालनम् 4031007c अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते 4031008a अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना 4031008c यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया 4031009a सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुंगवः 4031009c उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् 4031010a सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर 4031010c न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् 4031011a राघवेण तु शूरेण भयमुत्सृज्य दूरतः 4031011c त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः 4031012a सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः 4031012c भ्रातरं स प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् 4031013a त्वं प्रमत्तो न जानीषे कालं कलविदां वर 4031013c फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा 4031014a निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका 4031014c प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च 4031015a प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव 4031015c त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः 4031016a आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् 4031016c वचनं मर्षणीयं ते राघवस्य महात्मनः 4031017a कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् 4031017c अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् 4031018a नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम् 4031018c अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः 4031019a अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः 4031019c सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् 4031020a न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् 4031020c पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः 4031021a तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः 4031021c राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे 4031022a न रामरामानुजशासनं त्वया; कपीन्द्रयुक्तं मनसाप्यपोहितुम् 4031022c मनो हि ते ज्ञास्यति मानुषं बलं; सराघवस्यास्य सुरेन्द्रवर्चसः 4032001a अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा 4032001c प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् 4032002a द्वारस्था हरयस्तत्र महाकाया महाबलाः 4032002c बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः 4032003a निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् 4032003c बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् 4032004a स तं रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् 4032004c रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् 4032005a हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् 4032005c सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् 4032006a देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः 4032006c दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः 4032007a चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् 4032007c मैरेयाणां मधूनां च संमोदितमहापथाम् 4032008a विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः 4032008c ददर्श गिरिनद्यश्च विमलास्तत्र राघवः 4032009a अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च 4032009c गवयस्य गवाक्षस्य गजस्य शरभस्य च 4032010a विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः 4032010c वीरबाहोः सुबाहोश्च नलस्य च महात्मनः 4032011a कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा 4032011c दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः 4032012a एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् 4032012c ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः 4032013a पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च 4032013c प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च 4032014a पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम् 4032014c वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् 4032015a शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः 4032015c सर्वकामफलैर्वृक्षैः पुष्टितैरुपशोभितम् 4032016a महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः 4032016c दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः 4032017a हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः 4032017c दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् 4032018a सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः 4032018c अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः 4032019a स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः 4032019c प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत् 4032020a हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः 4032020c महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् 4032021a प्रविशन्नेव सततं शुश्राव मधुरस्वरम् 4032021c तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम् 4032022a बह्वीश्च विविधाकारा रूपयौवनगर्विताः 4032022c स्त्रियः सुग्रीवभवने ददर्श स महाबलः 4032023a दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः 4032023c वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः 4032024a नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान् 4032024c सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः 4032025a ततः सुग्रीवमासीनं काञ्चने परमासने 4032025c महार्हास्तरणोपेते ददर्शादित्यसंनिभम् 4032026a दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् 4032026c दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् 4032026e दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् 4032027a रुमां तु वीरः परिरभ्य गाढं; वरासनस्थो वरहेमवर्णः 4032027c ददर्श सौमित्रिमदीनसत्त्वं; विशालनेत्रः सुविशालनेत्रम् 4033001a तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् 4033001c सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः 4033002a क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा 4033002c भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् 4033003a उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् 4033003c महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः 4033004a उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः 4033004c सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव 4033005a संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः 4033005c बभूवावस्थितस्तत्र कल्पवृक्षो महानिव 4033006a रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् 4033006c अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा 4033007a सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः 4033007c कृतज्ञः सत्यवादी च राजा लोके महीयते 4033008a यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् 4033008c मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः 4033009a शतमश्वानृते हन्ति सहस्रं तु गवानृते 4033009c आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते 4033010a पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः 4033010c कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर 4033011a गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः 4033011c दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम 4033012a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 4033012c निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 4033013a अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर 4033013c पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् 4033014a ननु नाम कृतार्थेन त्वया रामस्य वानर 4033014c सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता 4033015a स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः 4033015c न त्वां रामो विजानीते सर्पं मण्डूकराविणम् 4033016a महाभागेन रामेण पापः करुणवेदिना 4033016c हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना 4033017a कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः 4033017c सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् 4033018a न च संकुचितः पन्था येन वाली हतो गतः 4033018c समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः 4033019a न नूनमिक्ष्वाकुवरस्य कार्मुका;च्च्युताञ्शरान्पश्यसि वज्रसंनिभान् 4033019c ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्यवेक्षसे 4034001a तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा 4034001c अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना 4034002a नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति 4034002c हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः 4034003a नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः 4034003c नैवानृतकथो वीर न जिह्मश्च कपीश्वरः 4034004a उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः 4034004c रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे 4034005a रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् 4034005c प्राप्तवानिह सुग्रीवो रुमां मां च परंतप 4034006a सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् 4034006c प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः 4034007a घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण 4034007c अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः 4034008a स हि प्राप्तं न जानीते कालं कालविदां वरः 4034008c विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः 4034009a देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण 4034009c अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति 4034010a न च रोषवशं तात गन्तुमर्हसि लक्ष्मण 4034010c निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा 4034011a सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ 4034011c अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् 4034012a प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता 4034012c महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् 4034013a रुमां मां कपिराज्यं च धनधान्यवसूनि च 4034013c रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम 4034014a समानेष्व्यति सुग्रीवः सीतया सह राघवम् 4034014c शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे 4034015a शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् 4034015c अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च 4034016a अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः 4034016c न शक्यो रावणो हन्तुं येन सा मैथिली हृता 4034017a ते न शक्या रणे हन्तुमसहायेन लक्ष्मण 4034017c रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः 4034018a एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः 4034018c आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् 4034019a त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः 4034019c आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् 4034020a तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् 4034020c राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः 4034021a कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा 4034021c अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः 4034022a ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च 4034022c अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम 4034022e कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् 4034023a तव हि मुखमिदं निरीक्ष्य कोपा;त्क्षतजनिभे नयने निरीक्षमाणाः 4034023c हरिवरवनिता न यान्ति शान्तिं; प्रथमभयस्य हि शङ्किताः स्म सर्वाः 4035001a इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् 4035001c मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः 4035002a तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः 4035002c लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् 4035003a ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् 4035003c चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः 4035004a स लक्ष्मणं भीमबलं सर्ववानरसत्तमः 4035004c अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् 4035005a प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् 4035005c रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया 4035006a कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा 4035006c तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम 4035007a सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् 4035007c सहायमात्रेण मया राघवः स्वेन तेजसा 4035008a सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः 4035008c शैलश्च वसुधा चैव बाणेनैकेन दारिताः 4035009a धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण 4035009c सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै 4035010a अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ 4035010c गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् 4035011a यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा 4035011c प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति 4035012a इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः 4035012c अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह 4035013a सर्वथा हि मम भ्राता सनाथो वानरेश्वर 4035013c त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः 4035014a यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम् 4035014c अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् 4035015a सहायेन च सुग्रीव त्वया रामः प्रतापवान् 4035015c वधिष्यति रणे शत्रूनचिरान्नात्र संशयः 4035016a धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः 4035016c उपपन्नं च युक्तं च सुग्रीव तव भाषितम् 4035017a दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति 4035017c वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम 4035018a सदृशश्चासि रामस्य विक्रमेण बलेन च 4035018c सहायो दैवतैर्दत्तश्चिराय हरिपुंगव 4035019a किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह 4035019c सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् 4035020a यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् 4035020c मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि 4036001a एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना 4036001c हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत् 4036002a महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च 4036002c मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः 4036003a तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः 4036003c पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि 4036004a आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे 4036004c पद्मतालवनं भीमं संश्रिता हरिपुंगवाः 4036005a अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः 4036005c अञ्जने परते चैव ये वसन्ति प्लवंगमाः 4036006a मनःशिला गुहावासा वानराः कनकप्रभाः 4036006c मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः 4036007a तरुणादित्यवर्णाश्च पर्वते ये महारुणे 4036007c पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः 4036008a वनेषु च सुरम्येषु सुगन्धिषु महत्सु च 4036008c तापसानां च रम्येषु वनान्तेषु समन्ततः 4036009a तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् 4036009c सामदानादिभिः कल्पैराशु प्रेषय वानरान् 4036010a प्रेषिताः प्रथमं ये च मया दूता महाजवाः 4036010c त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान् 4036011a ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः 4036011c इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् 4036012a अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया 4036012c हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः 4036013a शतान्यथ सहस्राणि कोट्यश्च मम शासनात् 4036013c प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः 4036014a मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् 4036014c घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः 4036015a ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः 4036015c आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम 4036016a तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः 4036016c दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् 4036017a ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः 4036017c प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै 4036018a ते समुद्रेषु गिरिषु वनेषु च सरित्सु च 4036018c वानरा वानरान्सर्वान्रामहेतोरचोदयन् 4036019a मृत्युकालोपमस्याज्ञां राजराजस्य वानराः 4036019c सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः 4036020a ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः 4036020c तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः 4036021a अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः 4036021c तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः 4036022a कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् 4036022c ततः कोटिसहस्राणि वानराणामुपागमन् 4036023a फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः 4036023c तेषां कोटिसहस्राणां सहस्रं समवर्तत 4036024a अङ्गारक समानानां भीमानां भीमकर्मणाम् 4036024c विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् 4036025a क्षीरोदवेलानिलयास्तमालवनवासिनः 4036025c नारिकेलाशनाश्चैव तेषां संख्या न विद्यते 4036026a वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः 4036026c आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् 4036027a ये तु त्वरयितुं याता वानराः सर्ववानरान् 4036027c ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् 4036028a तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा 4036028c सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः 4036029a अन्नविष्यन्दजातानि मूलानि च फलानि च 4036029c अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः 4036030a तदन्न संभवं दिव्यं फलं मूलं मनोहरम् 4036030c यः कश्चित्सकृदश्नाति मासं भवति तर्पितः 4036031a तानि मूलानि दिव्यानि फलानि च फलाशनाः 4036031c औषधानि च दिव्यानि जगृहुर्हरियूथपाः 4036032a तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च 4036032c आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् 4036033a ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् 4036033c संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः 4036034a ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः 4036034c किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः 4036035a ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः 4036035c तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् 4036036a सर्वे परिगताः शैलाः समुद्राश्च वनानि च 4036036c पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते 4036037a एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः 4036037c प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् 4037001a प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम् 4037001c वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् 4037002a विसर्जयित्वा स हरीञ्शूरांस्तान्कृतकर्मणः 4037002c मेने कृतार्थमात्मानं राघवं च महाबलम् 4037003a स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् 4037003c अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् 4037003e किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते 4037004a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् 4037004c सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह 4037005a एवं भवतु गच्छामः स्थेयं त्वच्छासने मया 4037005c तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम् 4037006a विसर्जयामास तदा तारामन्याश्च योषितः 4037006c एतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् 4037007a तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः 4037007c बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः 4037008a तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः 4037008c उपस्थापयत क्षिप्रं शिबिकां मम वानराः 4037009a श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः 4037009c समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् 4037010a तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः 4037010c लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् 4037011a इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् 4037011c बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः 4037012a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 4037012c शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः 4037013a शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः 4037013c निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् 4037014a स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः 4037014c परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः 4037015a स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् 4037015c अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः 4037016a आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् 4037016c कृताञ्जलौ स्थिते तस्मिन्वानराश्चभवंस्तथा 4037017a तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम् 4037017c वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् 4037018a पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् 4037018c प्रेंणा च बहुमानाच्च राघवः परिषस्वजे 4037019a परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् 4037019c तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः 4037020a धर्ममर्थं च कामं च काले यस्तु निषेवते 4037020c विभज्य सततं वीर स राजा हरिसत्तम 4037021a हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते 4037021c स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते 4037022a अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः 4037022c त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते 4037023a उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन 4037023c संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः 4037024a एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् 4037025a प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् 4037025c त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया 4037026a तव देवप्रसदाच्च भ्रातुश्च जयतां वर 4037026c कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः 4037027a एते वानरमुख्याश्च शतशः शत्रुसूदन 4037027c प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् 4037028a ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव 4037028c कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः 4037029a देवगन्धर्वपुत्राश्च वानराः कामरूपिणः 4037029c स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव 4037030a शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाः 4037030c अयुतैश्चावृता वीरा शङ्कुभिश्च परंतप 4037031a अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः 4037031c समुद्रैश्च परार्धैश्च हरयो हरियूथपाः 4037032a आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः 4037032c मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः 4037033a ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम् 4037033c निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् 4037034a ततस्तमुद्योगमवेक्ष्य बुद्धिमा;न्हरिप्रवीरस्य निदेशवर्तिनः 4037034c बभूव हर्षाद्वसुधाधिपात्मजः; प्रबुद्धनीलोत्पलतुल्यदर्शनः 4038001a इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः 4038001c बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् 4038002a यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि 4038002c आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः 4038003a चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् 4038003c त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप 4038004a एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् 4038004c जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् 4038005a त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन् 4038005c त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि 4038006a जहारात्मविनाशाय वैदेहीं राक्षसाधमः 4038006c वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् 4038007a नचिरात्तं हनिष्यामि रावणं निशितैः शरैः 4038007c पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा 4038008a एतस्मिन्नन्तरे चैव रजः समभिवर्तत 4038008c उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् 4038009a दिशः पर्याकुलाश्चासन्रजसा तेन मूर्छिताः 4038009c चचाल च मही सर्वा सशैलवनकानना 4038010a ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः 4038010c कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः 4038011a निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः 4038011c कोटीशतपरीवारैः कामरूपिभिरावृता 4038012a नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः 4038012c हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः 4038013a तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः 4038013c पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः 4038014a कोटीसहस्रैर्दशभिः श्रीमान्परिवृतस्तदा 4038014c वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत 4038015a ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता 4038015c अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत 4038016a पद्मकेसरसंकाशस्तरुणार्कनिभाननः 4038016c बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः 4038017a अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः 4038017c पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत 4038018a गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः 4038018c वृतः कोटिसहस्रेण वानराणामदृश्यत 4038019a ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः 4038019c वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत 4038020a महाचलनिभैर्घोरैः पनसो नाम यूथपः 4038020c आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः 4038021a नीलाञ्जनचयाकारो नीलो नामाथ यूथपः 4038021c अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः 4038022a दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा 4038022c वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः 4038023a मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ 4038023c कोटिकोटिसहस्रेण वानराणामदृश्यताम् 4038024a ततः कोटिसहस्राणां सहस्रेण शतेन च 4038024c पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः 4038025a ततः पद्मसहस्रेण वृतः शङ्कुशतेन च 4038025c युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः 4038026a ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः 4038026c पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत 4038027a इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत 4038027c एकादशानां कोटीनामीश्वरस्तैश्च संवृतः 4038028a ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः 4038028c अयुतेन वृतश्चैव सहस्रेण शतेन च 4038029a ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः 4038029c प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली 4038030a कैलासशिखराकारैर्वानरैर्भीमविक्रमैः 4038030c वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत 4038031a नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः 4038031c कोटीशतेन संप्राप्तः सहस्रेण शतेन च 4038032a शरभः कुमुदो वह्निर्वानरो रम्भ एव च 4038032c एते चान्ये च बहवो वानराः कामरूपिणः 4038033a आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च 4038033c आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः 4038033e अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव 4038034a कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः 4038034c शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् 4038035a अपरे वानरश्रेष्ठाः संगम्य च यथोचितम् 4038035c सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा 4038036a सुग्रीवस्त्वरितो रामे सर्वांस्तान्वानरर्षभान् 4038036c निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् 4038037a यथा सुखं पर्वतनिर्झरेषु; वनेषु सर्वेषु च वानरेन्द्राः 4038037c निवेशयित्वा विधिवद्बलानि; बलं बलज्ञः प्रतिपत्तुमीष्टे 4039001a अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः 4039001c उवाच नरशार्दूलं रामं परबलार्दनम् 4039002a आगता विनिविष्टाश्च बलिनः कामरूपिणः 4039002c वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः 4039003a त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः 4039003c आगता वानरा घोरा दैत्यदानवसंनिभाः 4039004a ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः 4039004c पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः 4039005a पृथिव्यम्बुचरा राम नानानगनिवासिनः 4039005c कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः 4039006a निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः 4039006c अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम 4039007a यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् 4039007c तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि 4039008a काममेषामिदं कार्यं विदितं मम तत्त्वतः 4039008c तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि 4039009a तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः 4039009c बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् 4039010a ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा 4039010c स च देशो महाप्राज्ञ यस्मिन्वसति रावणः 4039011a अधिगम्य च वैदेहीं निलयं रावणस्य च 4039011c प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया 4039012a नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः 4039012c त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर 4039013a त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् 4039013c त्वं हि जानासि यत्कार्यं मम वीर न संशयः 4039014a सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् 4039014c भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः 4039015a एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् 4039015c अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः 4039015e शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम् 4039016a सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम 4039016c देशकालनयैर्युक्तः कार्याकार्यविनिश्चये 4039017a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4039017c अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् 4039018a तत्र सीतां च वैदेहीं निलयं रावणस्य च 4039018c मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च 4039019a नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा 4039019c कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् 4039020a सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् 4039020c महीं कालमहीं चैव शैलकाननशोभिताम् 4039021a ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान् 4039021c मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च 4039022a पत्तनं कोशकाराणां भूमिं च रजताकराम् 4039022c सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः 4039023a रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम् 4039023c समुद्रमवगाढांश्च पर्वतान्पत्तनानि च 4039024a मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् 4039024c कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः 4039025a घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः 4039025c अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः 4039026a किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः 4039026c आममीनाशनास्तत्र किराता द्वीपवासिनः 4039027a अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः 4039027c एतेषामालयाः सर्वे विचेयाः काननौकसः 4039028a गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च 4039028c रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् 4039029a सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् 4039029c यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः 4039030a दिवं स्पृशति शृङ्गेण देवदानवसेवितः 4039030c एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च 4039031a रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4039031c ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ 4039032a तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः 4039032c ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः 4039033a तं कालमेघप्रतिमं महोरगनिषेवितम् 4039033c अभिगम्य महानादं तीर्थेनैव महोदधिम् 4039034a ततो रक्तजलं भीमं लोहितं नाम सागरम् 4039034c गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् 4039035a गृहं च वैनतेयस्य नानारत्नविभूषितम् 4039035c तत्र कैलाससंकाशं विहितं विश्वकर्मणा 4039036a तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः 4039036c शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः 4039037a ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति 4039037c अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः 4039038a ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम् 4039038c गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः 4039039a तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः 4039039c दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः 4039040a सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः 4039040c नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् 4039041a विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः 4039041c हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः 4039042a क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः 4039042c जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् 4039043a तत्र तत्कोपजं तेजः कृतं हयमुखं महत् 4039043c अस्याहुस्तन्महावेगमोदनं सचराचरम् 4039044a तत्र विक्रोशतां नादो भूतानां सागरौकसाम् 4039044c श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् 4039045a स्वादूदस्योत्तरे देशे योजनानि त्रयोदश 4039045c जातरूपशिलो नाम महान्कनकपर्वतः 4039046a आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् 4039046c सहस्रशिरसं देवमनन्तं नीलवाससं 4039047a त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः 4039047c स्थापितः पर्वतस्याग्रे विराजति सवेदिकः 4039048a पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः 4039048c ततः परं हेममयः श्रीमानुदयपर्वतः 4039049a तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता 4039049c जातरूपमयी दिव्या विराजति सवेदिका 4039050a सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः 4039050c जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः 4039051a तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् 4039051c शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् 4039052a तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे 4039052c द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः 4039053a उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः 4039053c दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् 4039054a तत्र वैखानसा नाम वालखिल्या महर्षयः 4039054c प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः 4039055a अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते 4039055c यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि 4039056a शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च 4039056c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4039057a काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः 4039057c आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते 4039058a ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता 4039058c रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता 4039059a शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च 4039059c ये च नोक्ता मया देशा विचेया तेषु जानकी 4039060a एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः 4039060c अभास्करममर्यादं न जानीमस्ततः परम् 4039061a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4039061c मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् 4039062a ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम 4039062c सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् 4039063a महेन्द्रकान्तां वनषण्ड मण्डितां; दिशं चरित्वा निपुणेन वानराः 4039063c अवाप्य सीतां रघुवंशजप्रियां; ततो निवृत्ताः सुखितो भविष्यथ 4040001a ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् 4040001c दक्षिणां प्रेषयामास वानरानभिलक्षितान् 4040002a नीलमग्निसुतं चैव हनुमन्तं च वानरम् 4040002c पितामहसुतं चैव जाम्बवन्तं महाकपिम् 4040003a सुहोत्रं च शरीरं च शरगुल्मं तथैव च 4040003c गजं गवाक्षं गवयं सुषेणमृषभं तथा 4040004a मैन्दं च द्विविदं चैव विजयं गन्धमादनम् 4040004c उल्कामुखमसङ्गं च हुताशन सुतावुभौ 4040005a अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः 4040005c वेगविक्रमसंपन्नान्संदिदेश विशेषवित् 4040006a तेषामग्रेसरं चैव महद्बलमसंगगम् 4040006c विधाय हरिवीराणामादिशद्दक्षिणां दिशम् 4040007a ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः 4040007c कपीशः कपिमुख्यानां स तेषां तानुदाहरत् 4040008a सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् 4040008c नर्मदां च नदीं दुर्गां महोरगनिषेविताम् 4040009a ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् 4040009c वरदां च महाभागां महोरगनिषेविताम् 4040010a मेखलानुत्कलांश्चैव दशार्णनगराण्यपि 4040010c अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत 4040011a विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि 4040011c तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः 4040012a अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् 4040012c नदीं गोदावरीं चैव सर्वमेवानुपश्यत 4040013a तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान् 4040013c अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः 4040014a विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः 4040014c सचन्दनवनोद्देशो मार्गितव्यो महागिरिः 4040015a ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् 4040015c तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः 4040016a तस्यासीनं नगस्याग्रे मलयस्य महौजसं 4040016c द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् 4040017a ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना 4040017c ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् 4040018a सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी 4040018c कान्तेव युवतिः कान्तं समुद्रमवगाहते 4040019a ततो हेममयं दिव्यं मुक्तामणिविभूषितम् 4040019c युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः 4040020a ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् 4040020c अगस्त्येनान्तरे तत्र सागरे विनिवेशितः 4040021a चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः 4040021c जातरूपमयः श्रीमानवगाढो महार्णवम् 4040022a नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् 4040022c देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् 4040023a सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् 4040023c तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु 4040024a द्वीपस्तस्यापरे पारे शतयोजनमायतः 4040024c अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः 4040024e तत्र सर्वात्मना सीता मार्गितव्या विशेषतः 4040025a स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः 4040025c राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः 4040026a दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी 4040026c अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी 4040027a तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने 4040027c गिरिः पुष्पितको नाम सिद्धचारणसेवितः 4040028a चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः 4040028c भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव 4040029a तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः 4040029c श्वेतं राजतमेकं च सेवते यं निशाकरः 4040030a न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः 4040030c प्रणम्य शिरसा शैलं तं विमार्गत वानराः 4040031a तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः 4040031c अध्वना दुर्विगाहेन योजनानि चतुर्दश 4040032a ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः 4040032c सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः 4040033a तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च 4040033c मधूनि पीत्वा मुख्यानि परं गच्छत वानराः 4040034a तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः 4040034c अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा 4040035a तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् 4040035c शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् 4040036a तत्र भोगवती नाम सर्पाणामालयः पुरी 4040036c विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता 4040036e रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः 4040037a सर्पराजो महाघोरो यस्यां वसति वासुकिः 4040037c निर्याय मार्गितव्या च सा च भोगवती पुरी 4040038a तं च देशमतिक्रम्य महानृषभसंस्थितः 4040038c सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः 4040039a गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् 4040039c दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् 4040040a न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन 4040040c रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् 4040041a तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः 4040041c शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च 4040042a अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः 4040042c ततः परं न वः सेव्यः पितृलोकः सुदारुणः 4040042e राजधानी यमस्यैषा कष्टेन तमसावृता 4040043a एतावदेव युष्माभिर्वीरा वानरपुंगवाः 4040043c शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः 4040044a सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते 4040044c गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ 4040045a यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति 4040045c मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति 4040046a ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः 4040046c कृतापराधो बहुशो मम बन्धुर्भविष्यति 4040047a अमितबलपराक्रमा भवन्तो; विपुलगुणेषु कुलेषु च प्रसूताः 4040047c मनुजपतिसुतां यथा लभध्वं; तदधिगुणं पुरुषार्थमारभध्वम् 4041001a ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् 4041001c बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे 4041002a अथाहूय महातेजाः सुषेणं नाम यूथपम् 4041002c तारायाः पितरं राजा श्वशुरभीमविक्रमम् 4041003a अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च 4041003c साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते 4041004a वृतः शतसहस्रेण वानराणां तरस्विनाम् 4041004c अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो 4041005a सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च 4041005c स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च 4041006a पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम् 4041006c तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः 4041007a प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः 4041007c तापसानामरण्यानि कान्तारा गिरयश्च ये 4041008a गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् 4041008c ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ 4041008e तिमि नक्रायुत जलमक्षोभ्यमथ वानरः 4041009a ततः केतकषण्डेषु तमालगहनेषु च 4041009c कपयो विहरिष्यन्ति नारिकेलवनेषु च 4041010a तत्र सीतां च मार्गध्वं निलयं रावणस्य च 4041010c मरीचिपत्तनं चैव रम्यं चैव जटीपुरम् 4041011a अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् 4041011c राष्ट्राणि च विशालानि पत्तनानि ततस्ततः 4041012a सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः 4041012c महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः 4041013a तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः 4041013c तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते 4041014a तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये 4041014c दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः 4041014e विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः 4041015a तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् 4041015c सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः 4041016a कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम् 4041016c दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः 4041017a कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम् 4041017c वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् 4041018a नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः 4041018c नादेयं च फलं तस्माद्देशात्किंचित्प्लवंगमैः 4041019a दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः 4041019c फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः 4041020a तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी 4041020c न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् 4041021a चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः 4041021c तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा 4041022a तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् 4041022c आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः 4041023a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4041023c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4041024a योजनानि चतुःषष्टिर्वराहो नाम पर्वतः 4041024c सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये 4041025a तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् 4041025c यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च 4041026a तस्य सानुषु चित्रेषु विशालासु गुहासु च 4041026c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4041027a तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः 4041027c पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः 4041028a तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः 4041028c अभिगर्जन्ति सततं तेन शब्देन दर्पिताः 4041029a तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः 4041029c अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः 4041030a तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् 4041030c षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ 4041031a तरुणादित्यवर्णानि भ्राजमानानि सर्वतः 4041031c जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः 4041032a तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः 4041032c आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा 4041033a तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः 4041033c मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः 4041034a त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः 4041034c ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः 4041035a आदित्या वसवो रुद्रा मरुतश्च दिवौकसः 4041035c आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् 4041036a आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः 4041036c अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् 4041037a योजनानां सहस्राणि दशतानि दिवाकरः 4041037c मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् 4041038a शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् 4041038c प्रासादगुणसंबाधं विहितं विश्वकर्मणा 4041039a शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः 4041039c निकेतं पाशहस्तस्य वरुणस्य महात्मनः 4041040a अन्तरा मेरुमस्तं च तालो दशशिरा महान् 4041040c जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः 4041041a तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च 4041041c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4041042a यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः 4041042c मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः 4041043a प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः 4041043c प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति 4041044a एतावज्जीवलोकस्य भास्करो रजनीक्षये 4041044c कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् 4041045a एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः 4041045c अभास्करममर्यादं न जानीमस्ततः परम् 4041046a अधिगम्य तु वैदेहीं निलयं रावणस्य च 4041046c अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत 4041047a ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम 4041047c सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति 4041048a श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः 4041048c गुरुरेष महाबाहुः श्वशुरो मे महाबलः 4041049a भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु 4041049c प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् 4041050a दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः 4041050c कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा 4041051a अतोऽन्यदपि यत्किंचित्कार्यस्यास्य हितं भवेत् 4041051c संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् 4041052a ततः सुषेण प्रमुखाः प्लवंगमाः; सुग्रीववाक्यं निपुणं निशम्य 4041052c आमन्त्र्य सर्वे प्लवगाधिपं ते; जग्मुर्दिशं तां वरुणाभिगुप्ताम् 4042001a ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् 4042001c वीरं शतबलिं नाम वानरं वानरर्षभः 4042002a उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् 4042002c वाक्यमात्महितं चैव रामस्य च हितं तथा 4042003a वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् 4042003c वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः 4042004a दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् 4042004c सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् 4042005a अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये 4042005c ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः 4042006a कृतं हि प्रियमस्माकं राघवेण महात्मना 4042006c तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् 4042007a एतां बुद्धिं समास्थाय दृश्यते जानकी यथा 4042007c तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः 4042008a अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः 4042008c अस्मासु चागतप्रीती रामः परपुरंजयः 4042009a इमानि वनदुर्गाणि नद्यः शैलान्तराणि च 4042009c भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा 4042010a तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च 4042010c प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः 4042011a काम्बोजान्यवनांश्चैव शकानारट्टकानपि 4042011c बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् 4042012a चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः 4042012c अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ 4042013a लोध्रपद्मकषण्डेषु देवदारुवनेषु च 4042013c रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः 4042014a ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् 4042014c कालं नाम महासानुं पर्वतं तं गमिष्यथ 4042015a महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च 4042015c विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् 4042016a तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् 4042016c ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ 4042017a तस्य काननषण्डेषु निर्दरेषु गुहासु च 4042017c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4042018a तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् 4042018c अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् 4042019a तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् 4042019c कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ 4042020a तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् 4042020c कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा 4042021a विशाला नलिनी यत्र प्रभूतकमलोत्पला 4042021c हंसकारण्डवाकीर्णा अप्सरोगणसेविता 4042022a तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः 4042022c धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् 4042023a तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च 4042023c रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः 4042024a क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् 4042024c अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् 4042025a वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः 4042025c देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः 4042026a क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च 4042026c निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः 4042027a क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः 4042027c अवृक्षं कामशैलं च मानसं विहगालयम् 4042028a न गतिस्तत्र भूतानां देवदानवरक्षसाम् 4042028c स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः 4042029a क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः 4042029c मयस्य भवनं तत्र दानवस्य स्वयं कृतम् 4042030a मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः 4042030c स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु 4042031a तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् 4042031c सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः 4042032a वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः 4042032c प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः 4042033a हेमपुष्करसंछन्नं तत्र वैखानसं सरः 4042033c तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः 4042034a औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः 4042034c गजः पर्येति तं देशं सदा सह करेणुभिः 4042035a तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् 4042035c अनक्षत्रगणं व्योम निष्पयोदमनादिमत् 4042036a गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते 4042036c विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः 4042037a तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा 4042037c उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः 4042038a ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च 4042038c उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः 4042039a ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः 4042039c नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः 4042040a रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः 4042040c तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः 4042041a महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः 4042041c नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः 4042042a निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः 4042042c उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः 4042043a सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः 4042043c जातरूपमयैश्चापि हुताशनसमप्रभैः 4042044a नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः 4042044c दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च 4042045a नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः 4042045c मुक्तावैदूर्यचित्राणि भूषणानि तथैव च 4042046a स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च 4042046c सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः 4042047a महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः 4042047c शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च 4042048a मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः 4042048c पानानि च महार्हाणि भक्ष्याणि विविधानि च 4042049a स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः 4042049c गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा 4042049e रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः 4042050a सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः 4042050c सर्वे कामार्थसहिता वसन्ति सह योषितः 4042051a गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः 4042051c श्रूयते सततं तत्र सर्वभूतमनोहरः 4042052a तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः 4042052c अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः 4042053a समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः 4042053c तत्र सोमगिरिर्नाम मध्ये हेममयो महान् 4042054a इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये 4042054c देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् 4042055a स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते 4042055c सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता 4042056a भगवानपि विश्वात्मा शम्भुरेकादशात्मकः 4042056c ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः 4042057a न कथंचन गन्तव्यं कुरूणामुत्तरेण वः 4042057c अन्येषामपि भूतानां नातिक्रामति वै गतिः 4042058a सा हि सोमगिरिर्नाम देवानामपि दुर्गमः 4042058c तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ 4042059a एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः 4042059c अभास्करममर्यादं न जानीमस्ततः परम् 4042060a सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् 4042060c यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः 4042061a ततः कृतं दाशरथेर्महत्प्रियं; महत्तरं चापि ततो मम प्रियम् 4042061c कृतं भविष्यत्यनिलानलोपमा; विदेहजा दर्शनजेन कर्मणा 4042062a ततः कृतार्थाः सहिताः सबान्धवा; मयार्चिताः सर्वगुणैर्मनोरमैः 4042062c चरिष्यथोर्वीं प्रतिशान्तशत्रवः; सहप्रिया भूतधराः प्लवंगमाः 4043001a विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् 4043001c स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने 4043002a न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये 4043002c नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव 4043003a सासुराः सहगन्धर्वाः सनागनरदेवताः 4043003c विदिताः सर्वलोकास्ते ससागरधराधराः 4043004a गतिर्वेगश्च तेजश्च लाघवं च महाकपे 4043004c पितुस्ते सदृशं वीर मारुतस्य महौजसः 4043005a तेजसा वापि ते भूतं समं भुवि न विद्यते 4043005c तद्यथा लभ्यते सीता तत्त्वमेवोपपादय 4043006a त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः 4043006c देशकालानुवृत्तश्च नयश्च नयपण्डित 4043007a ततः कार्यसमासंगमवगम्य हनूमति 4043007c विदित्वा हनुमन्तं च चिन्तयामास राघवः 4043008a सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः 4043008c निश्चितार्थतरश्चापि हनूमान्कार्यसाधने 4043009a तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः 4043009c भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः 4043010a तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् 4043010c कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः 4043011a ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् 4043011c अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः 4043012a अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा 4043012c मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति 4043013a व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः 4043013c सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे 4043014a स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः 4043014c वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः 4043015a स तत्प्रकर्षन्हरिणां बलं मह;द्बभूव वीरः पवनात्मजः कपि 4043015c गताम्बुदे व्योम्नि विशुद्धमण्डलः; शशीव नक्षत्रगणोपशोभितः 4043016a अतिबलबलमाश्रितस्तवाहं; हरिवरविक्रमविक्रमैरनल्पैः 4043016c पवनसुत यथाभिगम्यते सा; जनकसुता हनुमंस्तथा कुरुष्व 4044001a तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः 4044001c शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे 4044002a रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः 4044002c प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः 4044003a उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् 4044003c प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा 4044004a पूर्वां दिशं प्रति ययौ विनतो हरियूथपः 4044005a ताराङ्गदादि सहितः प्लवगः पवनात्मजः 4044005c अगस्त्यचरितामाशां दक्षिणां हरियूथपः 4044006a पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः 4044006c प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् 4044007a ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् 4044007c कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम् 4044008a एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः 4044008c स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे 4044009a नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः 4044009c क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः 4044009e आनयिष्यामहे सीतां हनिष्यामश्च रावणम् 4044010a अहमेको हनिष्यामि प्राप्तं रावणमाहवे 4044010c ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् 4044011a वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति 4044011c एक एवाहरिष्यामि पातालादपि जानकीम् 4044012a विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् 4044012c धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् 4044013a अहं योजनसंख्यायाः प्लविता नात्र संशयः 4044013c शतं योजनसंख्यायाः शतं समधिकं ह्यहम् 4044014a भूतले सागरे वापि शैलेषु च वनेषु च 4044014c पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः 4044015a इत्येकैकं तदा तत्र वानरा बलदर्पिताः 4044015c ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ 4045001a गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् 4045001c कथं भवान्विनाजीते सर्वं वै मण्डलं भुवः 4045002a सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् 4045002c श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ 4045003a यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् 4045003c परिकालयते वाली मलयं प्रति पर्वतम् 4045004a तदा विवेश महिषो मलयस्य गुहां प्रति 4045004c विवेश वाली तत्रापि मलयं तज्जिघांसया 4045005a ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत् 4045005c न च निष्क्रमते वाली तदा संवत्सरे गते 4045006a ततः क्षतजवेगेन आपुपूरे तदा बिलम् 4045006c तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः 4045007a अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः 4045007c शिलापर्वतसंकाशा बिलद्वारि मया कृता 4045007e अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति 4045008a ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते 4045008c राज्यं च सुमहत्प्राप्तं तारा च रुमया सह 4045008e मित्रैश्च सहितस्तत्र वसामि विगतज्वरः 4045009a आजगाम ततो वाली हत्वा तं दानवर्षभम् 4045009c ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः 4045010a स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः 4045010c परिलाकयते क्रोधाद्धावन्तं सचिवैः सह 4045011a ततोऽहं वालिना तेन सानुबन्धः प्रधावितः 4045011c नदीश्च विविधाः पश्यन्वनानि नगराणि च 4045012a आदर्शतलसंकाशा ततो वै पृथिवी मया 4045012c अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा 4045013a ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः 4045013c दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः 4045013e उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत् 4045014a इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः 4045014c मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले 4045015a प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत् 4045015c तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति 4045016a ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज 4045016c न विवेश तदा वाली मतङ्गस्य भयात्तदा 4045017a एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् 4045017c पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः 4046001a दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः 4046001c व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा 4046002a सरांसि सरितः कक्षानाकाशं नगराणि च 4046002c नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः 4046003a सुग्रीवेण समाख्यातान्सर्वे वानरयूथपाः 4046003c प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान् 4046004a विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः 4046004c समायान्ति स्म मेदिन्यां निशाकालेशु वानराः 4046005a सर्वर्तुकांश्च देशेषु वानराः सफलान्द्रुमान् 4046005c आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते 4046006a तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः 4046006c कपिराजेन संगम्य निराशाः कपियूथपाः 4046007a विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह 4046007c अदृष्ट्वा विनतः सीतामाजगाम महाबलः 4046008a उत्तरां तु दिशं सर्वां विचित्य स महाकपिः 4046008c आगतः सह सैन्येन वीरः शतबलिस्तदा 4046009a सुषेणः पश्चिमामाशां विचित्य सह वानरैः 4046009c समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे 4046010a तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च 4046010c आसीनं सह रामेण सुग्रीवमिदमब्रुवन् 4046011a विचिताः पर्वताः सर्वे वनानि नगराणि च 4046011c निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा 4046012a गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः 4046012c विचिताश्च महागुल्मा लताविततसंतताः 4046013a गहनेषु च देशेषु दुर्गेषु विषमेषु च 4046013c सत्त्वान्यतिप्रमाणानि विचितानि हतानि च 4046013e ये चैव गहना देशा विचितास्ते पुनः पुनः 4046014a उदारसत्त्वाभिजनो महात्मा; स मैथिलीं द्रक्ष्यति वानरेन्द्रः 4046014c दिशं तु यामेव गता तु सीता; तामास्थितो वायुसुतो हनूमान् 4047001a सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः 4047001c सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे 4047002a स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः 4047002c विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च 4047003a पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् 4047003c वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् 4047004a अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् 4047004c न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् 4047005a ते भक्षयन्तो मूलानि फलानि विविधानि च 4047005c अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह 4047005e स तु देशो दुरन्वेषो गुहागहनवान्महान् 4047006a त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः 4047006c देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः 4047007a यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः 4047007c निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् 4047008a न सन्ति महिषा यत्र न मृगा न च हस्तिनः 4047008c शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः 4047009a स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः 4047009c प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः 4047010a कण्डुर्नाम महाभागः सत्यवादी तपोधनः 4047010c महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः 4047011a तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः 4047011c प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः 4047012a तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् 4047012c अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् 4047013a तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च 4047013c प्रभवानि नदीनांच विचिन्वन्ति समाहिताः 4047014a तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् 4047014c हर्तारं रावणं वापि सुग्रीवप्रियकारिणः 4047015a ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् 4047015c ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् 4047016a तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् 4047016c गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् 4047017a सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली 4047017c अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् 4047018a तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा 4047018c रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह 4047019a स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् 4047019c असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः 4047020a ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः 4047020c व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् 4047021a विचितं तु ततः कृत्वा सर्वे ते काननं पुनः 4047021c अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् 4047022a ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः 4047022c एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः 4048001a अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् 4048001c परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः 4048002a वनानि गिरयो नद्यो दुर्गाणि गहनानि च 4048002c दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः 4048003a तत्र तत्र सहास्माभिर्जानकी न च दृश्यते 4048003c तद्वा रक्षो हृता येन सीता सुरसुतोपमा 4048004a कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनः 4048004c तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः 4048005a विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् 4048005c विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् 4048006a अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् 4048006c कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम् 4048007a अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः 4048007c खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम् 4048008a अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् 4048008c अलं निर्वेदमागम्य न हि नो मलिनं क्षमम् 4048009a सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः 4048009c भेतव्यं तस्य सततं रामस्य च महात्मनः 4048010a हितार्थमेतदुक्तं वः क्रियतां यदि रोचते 4048010c उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः 4048011a अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः 4048011c उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया 4048012a सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह 4048012c हितं चैवानुकूलं च क्रियतामस्य भाषितम् 4048013a पुनर्मार्गामहे शैलान्कन्दरांश्च दरीस्तथा 4048013c काननानि च शून्यानि गिरिप्रस्रवणानि च 4048014a यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना 4048014c विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः 4048015a ततः समुत्थाय पुनर्वानरास्ते महाबलाः 4048015c विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् 4048016a ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् 4048016c शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः 4048017a तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च 4048017c विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः 4048018a तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः 4048018c न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् 4048019a ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् 4048019c अवारोहन्त हरयो वीक्षमाणाः समन्ततः 4048020a अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः 4048020c स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः 4048021a ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः 4048021c पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् 4048022a हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः 4048022c विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः 4049001a सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः 4049001c विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च 4049002a सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा 4049002c विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च 4049003a तेषां तत्रैव वसतां स कालो व्यत्यवर्तत 4049004a स हि देशो दुरन्वेषो गुहा गहनवान्महान् 4049004c तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् 4049005a परस्परेण रहिता अन्योन्यस्याविदूरतः 4049005c गजो गवाक्षो गवयः शरभो गन्धमादनः 4049006a मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि 4049006c अङ्गदो युवराजश्च तारश्च वनगोचरः 4049007a गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् 4049007c क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः 4049007e अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् 4049008a ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् 4049008c जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः 4049009a ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् 4049009c विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः 4049010a संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः 4049010c अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः 4049011a ततः पर्वतकूटाभो हनुमान्मारुतात्मजः 4049011c अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः 4049012a गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् 4049012c वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् 4049013a अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः 4049013c जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः 4049014a नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः 4049014c तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः 4049015a इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम् 4049015c अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् 4049016a ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले 4049016c अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् 4049017a ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः 4049017c परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः 4049018a ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः 4049018c आलोकं ददृशुर्वीरा निराशा जीविते तदा 4049019a ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् 4049019c ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् 4049020a सालांस्तालांश्च पुंनागान्ककुभान्वञ्जुलान्धवान् 4049020c चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् 4049021a तरुणादित्यसंकाशान्वैदूर्यमयवेदिकान् 4049021c नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः 4049022a महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः 4049022c जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः 4049023a नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः 4049023c काञ्चनानि विमानानि राजतानि तथैव च 4049024a तपनीयगवाक्षाणि मुक्ताजालावृतानि च 4049024c हैमराजतभौमानि वैदूर्यमणिमन्ति च 4049025a ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः 4049025c पुष्पितान्फलिनो वृक्षान्प्रवालमणिसंनिभान् 4049026a काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः 4049026c मणिकाञ्चनचित्राणि शयनान्यासनानि च 4049027a महार्हाणि च यानानि ददृशुस्ते समन्ततः 4049027c हैमराजतकांस्यानां भाजनानां च संचयान् 4049028a अगरूणां च दिव्यानां चन्दनानां च संचयान् 4049028c शुचीन्यभ्यवहार्याणि मूलानि च फलानि च 4049029a महार्हाणि च पानानि मधूनि रसवन्ति च 4049029c दिव्यानामम्बराणां च महार्हाणां च संचयान् 4049029e कम्बलानां च चित्राणामजिनानां च संचयान् 4049030a तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः 4049030c ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः 4049031a तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम् 4049031c तापसीं नियताहारां ज्वलन्तीमिव तेजसा 4049032a ततो हनूमान्गिरिसंनिकाशः; कृताञ्जलिस्तामभिवाद्य वृद्धाम् 4049032c पप्रच्छ का त्वं भवनं बिलं च; रत्नानि चेमानि वदस्व कस्य 4050001a इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् 4050001c अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् 4050002a इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4050002c क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः 4050003a महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः 4050003c इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान् 4050003e दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः 4050004a कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः 4050004c शुचीन्यभ्यवहार्याणि मूलानि च फलानि च 4050005a काञ्चनानि विमानानि राजतानि गृहाणि च 4050005c तपनीय गवाक्षाणि मणिजालावृतानि च 4050006a पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः 4050006c इमे जाम्बूनदमयाः पादपाः कस्य तेजसा 4050007a काञ्चनानि च पद्मानि जातानि विमले जले 4050007c कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः 4050008a आत्मानमनुभावं च कस्य चैतत्तपोबलम् 4050008c अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि 4050009a एवमुक्ता हनुमता तापसी धर्मचारिणी 4050009c प्रत्युवाच हनूमन्तं सर्वभूतहिते रता 4050010a मयो नाम महातेजा मायावी दानवर्षभः 4050010c तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् 4050011a पुरा दानवमुख्यानां विश्वकर्मा बभूव ह 4050011c येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् 4050012a स तु वर्षसहस्राणि तपस्तप्त्वा महावने 4050012c पितामहाद्वरं लेभे सर्वमौशसनं धनम् 4050013a विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा 4050013c उवास सुखितः कालं कंचिदस्मिन्महावने 4050014a तमप्सरसि हेमायां सक्तं दानवपुंगवम् 4050014c विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः 4050015a इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् 4050015c शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् 4050016a दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा 4050016c इदं रक्षामि भवनं हेमाया वानरोत्तम 4050017a मम प्रियसखी हेमा नृत्तगीतविशारदा 4050017c तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् 4050018a किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ 4050018c कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् 4050019a इमान्यभ्यवहार्याणि मूलानि च फलानि च 4050019c भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ 4051001a अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् 4051001c इदं वचनमेकाग्रा तापसी धर्मचारिणी 4051002a वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् 4051002c यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् 4051003a तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः 4051003c आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे 4051004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 4051004c रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् 4051005a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4051005c तस्य भार्या जनस्थानाद्रावणेन हृता बलात् 4051006a वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः 4051006c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4051007a अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् 4051007c सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् 4051008a रावणं सहिताः सर्वे राक्षसं कामरूपिणम् 4051008c सीतया सह वैदेह्या मार्गध्वमिति चोदिताः 4051009a विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् 4051009c बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः 4051010a विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः 4051010c नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे 4051011a चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् 4051011c लतापादपसंछन्नं तिमिरेण समावृतम् 4051012a अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः 4051012c कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः 4051012e साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः 4051013a तेषामपि हि सर्वेषामनुमानमुपागतम् 4051013c गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः 4051014a ततो गाढं निपतिता गृह्य हस्तौ परस्परम् 4051014c इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् 4051015a एतन्नः कायमेतेन कृत्येन वयमागताः 4051015c त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः 4051016a आतिथ्यधर्मदत्तानि मूलानि च फलानि च 4051016c अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः 4051017a यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया 4051017c ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः 4051018a एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा 4051018c प्रत्युवाच ततः सर्वानिदं वानरयूथपम् 4051019a सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् 4051019c चरन्त्या मम धर्मेण न कार्यमिह केनचित् 4052001a एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् 4052001c उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् 4052002a शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि 4052002c यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना 4052002e स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् 4052003a सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि 4052004a तस्मात्सुग्रीववचनादतिक्रान्तान्गतायुषः 4052004c त्रातुमर्हसि नः सर्वान्सुग्रीवभयशङ्कितान् 4052005a महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि 4052005c तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः 4052006a एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् 4052006c जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् 4052007a तपसस्तु प्रभावेन नियमोपार्जितेन च 4052007c सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् 4052008a निमीलयत चक्षूंषि सर्वे वानरपुंगवाः 4052008c न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः 4052009a ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः 4052009c सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः 4052010a वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा 4052010c निमेषान्तरमात्रेण बिलादुत्तारितास्तया 4052011a ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी 4052011c निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् 4052012a एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः 4052012c एष प्रसवणः शैलः सागरोऽयं महोदधिः 4052013a स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः 4052013c इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा 4052014a ततस्ते ददृशुर्घोरं सागरं वरुणालयम् 4052014c अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् 4052015a मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् 4052015c तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः 4052016a विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे 4052016c उपविश्य महाभागाश्चिन्तामापेदिरे तदा 4052017a ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् 4052017c द्रुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः 4052018a ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् 4052018c नष्टसंदेशकालार्था निपेतुर्धरणीतले 4052019a स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः 4052019c युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् 4052020a शासनात्कपिराजस्य वयं सर्वे विनिर्गताः 4052020c मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते 4052021a तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् 4052021c प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् 4052022a तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः 4052022c न क्षमिष्यति नः सर्वानपराधकृतो गतान् 4052023a अप्रवृत्तौ च सीतायाः पापमेव करिष्यति 4052023c तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः 4052024a त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च 4052024c यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः 4052024e वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः 4052025a न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः 4052025c नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा 4052026a स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् 4052026c घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः 4052027a किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे 4052027c इहैव प्रायमासिष्ये पुण्ये सागररोधसि 4052028a एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् 4052028c सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् 4052029a तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः 4052029c अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् 4052030a राघवप्रियकामार्थं घातयिष्यत्यसंशयम् 4052030c न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः 4052031a प्लवंगमानां तु भयार्दितानां; श्रुत्वा वचस्तार इदं बभाषे 4052031c अलं विषादेन बिलं प्रविश्य; वसाम सर्वे यदि रोचते वः 4052032a इदं हि माया विहितं सुदुर्गमं; प्रभूतवृक्षोदकभोज्यपेयम् 4052032c इहास्ति नो नैव भयं पुरंदरा;न्न राघवाद्वानरराजतोऽपि वा 4052033a श्रुत्वाङ्गदस्यापि वचोऽनुकूल;मूचुश्च सर्वे हरयः प्रतीताः 4052033c यथा न हन्येम तथाविधान;मसक्तमद्यैव विधीयतां नः 4053001a तथा ब्रुवति तारे तु ताराधिपतिवर्चसि 4053001c अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् 4053002a बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् 4053002c चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् 4053003a आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः 4053003c शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया 4053004a बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः 4053004c शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् 4053005a भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम् 4053005c अभिसंधातुमारेभे हनुमानङ्गदं ततः 4053006a स चतुर्णामुपायानां तृतीयमुपवर्णयन् 4053006c भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा 4053007a तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् 4053007c भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः 4053008a त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् 4053008c दृढं धारयितुं शक्तः कपिराज्यं यथा पिता 4053009a नित्यमस्थिरचित्ता हि कपयो हरिपुंगव 4053009c नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया 4053010a त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते 4053010c यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः 4053011a न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः 4053011c दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् 4053012a विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः 4053012c आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः 4053013a यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् 4053013c एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे 4053014a स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा 4053014c लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा 4053014e लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः 4053015a अवस्थाने यदैव त्वमासिष्यसि परंतप 4053015c तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः 4053016a स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः 4053016c खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः 4053017a स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः 4053017c तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि 4053018a न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः 4053018c अपवृत्तं जिघांसन्तो महावेगा दुरासदाः 4053019a अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् 4053019c आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति 4053020a धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः 4053020c शुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति 4053021a प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् 4053021c तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् 4054001a श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् 4054001c स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् 4054002a स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम् 4054002c विक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते 4054003a भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् 4054003c धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः 4054004a कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना 4054004c युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् 4054005a सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः 4054005c विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् 4054006a लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा 4054006c आदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत् 4054007a तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि 4054007c आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः 4054008a राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा 4054008c कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति 4054009a भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् 4054009c किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः 4054010a उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् 4054010c शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् 4054011a बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् 4054011c अनुजानीत मां सर्वे गृहान्गच्छन्तु वानराः 4054012a अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् 4054012c इहैव प्रायमासिष्ये श्रेयो मरणमेव मे 4054013a अभिवादनपूर्वं तु राजा कुशलमेव च 4054013c वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः 4054014a आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे 4054014c मातरं चैव मे तारामाश्वासयितुमर्हथ 4054015a प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी 4054015c विनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम् 4054016a एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च 4054016c संविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः 4054017a तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः 4054017c नयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः 4054018a सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् 4054018c परिवार्याङ्गदो सर्वे व्यवस्यन्प्रायमासितुम् 4054019a मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः 4054019c उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् 4054019e दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः 4054020a स संविशद्भिर्बहुभिर्महीधरो; महाद्रिकूटप्रमितैः प्लवंगमैः 4054021c बभूव संनादितनिर्झरान्तरो; भृशं नदद्भिर्जलदैरिवोल्बणैः 4055001a उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले 4055001c हरयो गृध्रराजश्च तं देशमुपचक्रमे 4055002a साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः 4055002c भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः 4055003a कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः 4055003c उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् 4055004a विधिः किल नरं लोके विधानेनानुवर्तते 4055004c यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः 4055005a परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् 4055005c उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान् 4055006a तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः 4055006c अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् 4055007a पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः 4055007c इमं देशमनुप्राप्तो वानराणां विपत्तये 4055008a रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम् 4055008c हरीणामियमज्ञाता विपत्तिः सहसागता 4055009a वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा 4055009c गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः 4055010a तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि 4055010c प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् 4055011a राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः 4055011c कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् 4055012a स सुखी गृध्रराजस्तु रावणेन हतो रणे 4055012c मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् 4055013a जटायुषो विनाशेन राज्ञो दशरथस्य च 4055013c हरणेन च वैदेह्याः संशयं हरयो गताः 4055014a रामलक्ष्मणयोर्वासामरण्ये सह सीतया 4055014c राघवस्य च बाणेन वालिनश्च तथा वधः 4055015a रामकोपादशेषाणां राक्षसानां तथा वधः 4055015c कैकेय्या वरदानेन इदं हि विकृतं कृतम् 4055016a तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् 4055016c अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः 4055017a कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे 4055017c जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः 4055018a कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः 4055018c नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् 4055019a यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः 4055019c तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः 4055020a भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः 4055020c तस्यैव च मम भ्रातुः सखा दशरथः कथम् 4055020e यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः 4055021a सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् 4055021c इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः 4056001a शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः 4056001c श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः 4056002a ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः 4056002c चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति 4056003a सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति 4056003c कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः 4056004a एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः 4056004c अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा 4056005a बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान् 4056005c ममार्यः पार्थिवः पक्षिन्धार्मिकौ तस्य चात्मजौ 4056006a सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ 4056006c लोके विश्रुतकर्माभूद्राजा वाली पिता मम 4056007a राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः 4056007c रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् 4056008a लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया 4056008c पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः 4056008e तस्य भार्या जनस्थानाद्रावणेन हृता बलात् 4056009a रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट् 4056009c ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा 4056010a रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् 4056010c परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे 4056011a एवं गृध्रो हतस्तेन रावणेन बहीयसा 4056011c संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् 4056012a ततो मम पितृव्येण सुग्रीवेण महात्मना 4056012c चकार राघवः सख्यं सोऽवधीत्पितरं मम 4056013a माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह 4056013c निहत्य वालिनं रामस्ततस्तमभिषेचयत् 4056014a स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः 4056014c राजा वानरमुख्यानां येन प्रस्थापिता वयम् 4056015a एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः 4056015c वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव 4056016a ते वयं दण्दकारण्यं विचित्य सुसमाहिताः 4056016c अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् 4056017a मयस्य माया विहितं तद्बिलं च विचिन्वताम् 4056017c व्यतीतस्तत्र नो मासो यो राज्ञा सामयः कृतः 4056018a ते वयं कपिराजस्य सर्वे वचनकारिणः 4056018c कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे 4056019a क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे 4056019c गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् 4057001a इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः 4057001c सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः 4057002a यवीयान्मम स भ्राता जटायुर्नाम वानराः 4057002c यमाख्यात हतं युद्धे रावणेन बलीयसा 4057003a वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये 4057003c न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे 4057004a पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ 4057004c आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् 4057005a आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम् 4057005c मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति 4057006a तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् 4057006c पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम् 4057007a निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः 4057007c अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये 4057008a जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा 4057008c युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा 4057009a जटायुषो यदि भ्राता श्रुतं ते गदितं मया 4057009c आख्याहि यदि जानासि निलयं तस्य रक्षसः 4057010a अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम् 4057010c अन्तिके यदि वा दूरे यदि जानासि शंस नः 4057011a ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः 4057011c आत्मानुरूपं वचनं वानरान्संप्रहर्षयन् 4057012a निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः 4057012c वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् 4057013a जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि 4057013c देवासुरविमर्दांश्च अमृतस्य च मन्थनम् 4057014a रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया 4057014c जरया च हृतं तेजः प्राणाश्च शिथिला मम 4057015a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 4057015c ह्रियमाणा मया दृष्टा रावणेन दुरात्मना 4057016a क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी 4057016c भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती 4057017a सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् 4057017c असिते राक्षसे भाति यथा वा तडिदम्बुदे 4057018a तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् 4057018c श्रूयतां मे कथयतो निलयं तस्य रक्षसः 4057019a पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च 4057019c अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः 4057020a इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने 4057020c तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा 4057021a तस्यां वसति वैदेही दीना कौशेयवासिनी 4057021c रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता 4057022a जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् 4057022c लङ्कायामथ गुप्तायां सागरेण समन्ततः 4057023a संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् 4057023c आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम् 4057024a तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः 4057024c ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ 4057025a आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः 4057025c द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः 4057026a भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह 4057026c श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् 4057027a बलवीर्योपपन्नानां रूपयौवनशालिनाम् 4057027c षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा 4057027e वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः 4057028a गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः 4057028c इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा 4057029a अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा 4057029c तस्मादाहारवीर्येण निसर्गेण च वानराः 4057029e आयोजनशतात्साग्राद्वयं पश्याम नित्यशः 4057030a अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः 4057030c विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् 4057031a उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः 4057031c अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ 4057032a समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् 4057032c प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः 4057033a ततो नीत्वा तु तं देशं तीरे नदनदीपतेः 4057033c निर्दग्धपक्षं संपातिं वानराः सुमहौजसः 4057034a पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम् 4057034c बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते 4058001a ततस्तदमृतास्वादं गृध्रराजेन भाषितम् 4058001c निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः 4058002a जाम्बवान्वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः 4058002c भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत् 4058003a क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् 4058003c तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् 4058004a को दाशरथिबाणानां वज्रवेगनिपातिनाम् 4058004c स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् 4058005a स हरीन्प्रीतिसंयुक्तान्सीता श्रुतिसमाहितान् 4058005c पुनराश्वासयन्प्रीत इदं वचनमब्रवीत् 4058006a श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् 4058006c येन चापि ममाख्यातं यत्र चायतलोचना 4058007a अहमस्मिन्गिरौ दुर्गे बहुयोजनमायते 4058007c चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः 4058008a तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः 4058008c आहारेण यथाकालं बिभर्ति पततां वरः 4058009a तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजंगमाः 4058009c मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् 4058010a स कदाचित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः 4058010c गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः 4058011a स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः 4058011c क्षुत्पिपासा परीतेन कुमारः पततां वरः 4058012a स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः 4058012c अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् 4058013a अहं तात यथाकालमामिषार्थी खमाप्लुतः 4058013c महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः 4058014a तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् 4058014c पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः 4058015a तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् 4058015c स्त्रियमादाय गच्छन्वै भिन्नाञ्जनचयोपमः 4058016a सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः 4058016c तेन साम्ना विनीतेन पन्थानमभियाचितः 4058017a न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् 4058017c नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः 4058018a स यातस्तेजसा व्योम संक्षिपन्निव वेगतः 4058018c अथाहं खे चरैर्भूतैरभिगम्य सभाजितः 4058019a दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः 4058019c कथंचित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् 4058020a एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः 4058020c स च मे रावणो राजा रक्षसां प्रतिवेदितः 4058021a हरन्दाशरथेर्भार्यां रामस्य जनकात्मजाम् 4058021c भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् 4058022a रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् 4058022c एष कालात्ययस्तावदिति वाक्यविदां वरः 4058023a एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् 4058023c तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे 4058024a अपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमेत् 4058024c यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना 4058025a श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् 4058025c वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः 4058025e यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः 4058026a ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः 4058026c सहिताः कपिराजेन देवैरपि दुरासदाः 4058027a रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः 4058027c त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे 4058028a कामं खलु दशग्रीवस्तेजोबलसमन्वितः 4058028c भवतां तु समर्थानां न किंचिदपि दुष्करम् 4058029a तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः 4058029c न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः 4059001a ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः 4059001c उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः 4059002a तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् 4059002c जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् 4059003a कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम 4059003c तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् 4059004a अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने 4059004c सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः 4059005a लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव 4059005c वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन 4059006a ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च 4059006c वनान्यटविदेशांश्च समीक्ष्य मतिरागमत् 4059007a हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् 4059007c दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः 4059008a आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् 4059008c ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् 4059009a अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना 4059009c वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे 4059010a अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः 4059010c तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः 4059011a तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम् 4059011c जटायुषा मया चैव बहुशोऽभिगतो हि सः 4059012a तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः 4059012c वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते 4059013a उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः 4059013c द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् 4059014a अथापश्यमदूरस्थमृषिं ज्वलिततेजसं 4059014c कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् 4059015a तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः 4059015c परिवार्योपगच्छन्ति दातारं प्राणिनो यथा 4059016a ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः 4059016c प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् 4059017a ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः 4059017c मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत 4059018a सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते 4059018c अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव 4059019a द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे 4059019c गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ 4059020a ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव 4059020c मानुषं रूपमास्थाय गृह्णीतां चरणौ मम 4059021a किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् 4059021c दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः 4060001a ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् 4060001c आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा 4060002a भगवन्व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः 4060002c परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् 4060003a अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ 4060003c आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम् 4060004a कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् 4060004c रविः स्यादनुयातव्यो यावदस्तं महागिरिम् 4060005a अथावां युगपत्प्राप्तावपश्याव महीतले 4060005c रथचक्रप्रमाणानि नगराणि पृथक्पृथक् 4060006a क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव 4060006c गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः 4060007a तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ 4060007c आवामालोकयावस्तद्वनं शाद्वलसंस्थितम् 4060008a उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः 4060008c आपगाभिश्च संवीता सूत्रैरिव वसुंधरा 4060009a हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः 4060009c भूतले संप्रकाशन्ते नागा इव जलाशये 4060010a तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः 4060010c समाविशत मोहश्च मोहान्मूर्छा च दारुणा 4060011a न दिग्विज्ञायते याम्या नागेन्या न च वारुणी 4060011c युगान्ते नियतो लोको हतो दग्ध इवाग्निना 4060012a यत्नेन महता भूयो रविः समवलोकितः 4060012c तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ 4060013a जटायुर्मामनापृच्छ्य निपपात महीं ततः 4060013c तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् 4060014a पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत 4060014c प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम् 4060015a आशङ्के तं निपतितं जनस्थाने जटायुषम् 4060015c अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः 4060016a राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च 4060016c सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गिरेः 4061001a एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् 4061001c अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् 4061002a पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः 4061002c चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते 4061003a पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् 4061003c दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम 4061004a राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः 4061004c तस्य पुत्रो महातेजा रामो नाम भविष्यति 4061005a अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति 4061005c तस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः 4061006a नैरृतो रावणो नाम तस्या भार्यां हरिष्यति 4061006c राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः 4061007a सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली 4061007c न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी 4061008a परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः 4061008c यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् 4061009a तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति 4061009c अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति 4061010a यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः 4061010c देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति 4061011a एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः 4061011c आख्येया राममहिषी त्वया तेभ्यो विहंगम 4061012a सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि 4061012c देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे 4061013a उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् 4061013c इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि 4061014a त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः 4061014c ब्राह्मणानां सुराणां च मुनीनां वासवस्य च 4061015a इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ 4061015c नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् 4062001a एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः 4062001c मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् 4062002a कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः 4062002c अहं विन्ध्यं समारुह्य भवतः प्रतिपालये 4062003a अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् 4062003c देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः 4062004a महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे 4062004c मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् 4062005a उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये 4062005c बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु 4062005e सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः 4062006a बुध्यता च मया वीर्यं रावणस्य दुरात्मनः 4062006c पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् 4062007a तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ 4062007c न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम् 4062008a तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह 4062008c उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् 4062009a स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः 4062009c प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् 4062010a निशाकरस्य महर्षेः प्रभावादमितात्मनः 4062010c आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ 4062011a यौवने वर्तमानस्य ममासीद्यः पराक्रमः 4062011c तमेवाद्यावगच्छामि बलं पौरुषमेव च 4062012a सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ 4062012c पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः 4062013a इत्युक्त्वा तान्हरीन्सर्वान्संपातिः पततां वरः 4062013c उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् 4062014a तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः 4062014c बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः 4062015a अथ पवनसमानविक्रमाः; प्लवगवराः प्रतिलब्ध पौरुषाः 4062015c अभिजिदभिमुखां दिशं ययु;र्जनकसुता परिमार्गणोन्मुखाः 4063001a आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः 4063001c संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः 4063002a संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् 4063002c हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः 4063003a अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः 4063003c कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् 4063004a दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् 4063004c संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः 4063005a सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले 4063005c व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् 4063006a प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः 4063006c क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् 4063007a संकुलं दानवेन्द्रैश्च पातालतलवासिभिः 4063007c रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः 4063008a आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः 4063008c विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् 4063009a विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् 4063009c आश्वासयामास हरीन्भयार्तान्हरिसत्तमः 4063010a न निषादेन नः कार्यं विषादो दोषवत्तरः 4063010c विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः 4063011a विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते 4063011c तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति 4063012a तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह 4063012c हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् 4063013a सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ 4063013c वासवं परिवार्येव मरुतां वाहिनी स्थिता 4063014a कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् 4063014c अन्यत्र वालितनयादन्यत्र च हनूमतः 4063015a ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः 4063015c अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् 4063016a क इदानीं महातेजा लङ्घयिष्यति सागरम् 4063016c कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् 4063017a को वीरो योजनशतं लङ्घयेत प्लवंगमाः 4063017c इमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात् 4063018a कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च 4063018c इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् 4063019a कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् 4063019c अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् 4063020a यदि कश्चित्समर्थो वः सागरप्लवने हरिः 4063020c स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् 4063021a अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत् 4063021c स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी 4063022a पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः 4063022c सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः 4063023a व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः 4063023c न हि वो गमने संगः कदाचिदपि कस्यचित् 4063024a ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः 4064001a ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः 4064001c स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् 4064002a गजो गवाक्षो गवयः शरभो गन्धमादनः 4064002c मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा 4064003a आबभाषे गजस्तत्र प्लवेयं दशयोजनम् 4064003c गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् 4064004a गवयो वानरस्तत्र वानरांस्तानुवाच ह 4064004c त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः 4064005a शरभो वानरस्तत्र वानरांस्तानुवाच ह 4064005c चत्वारिंशद्गमिष्यामि योजनानां न संशयः 4064006a वानरांस्तु महातेजा अब्रवीद्गन्धमादनः 4064006c योजनानां गमिष्यामि पञ्चाशत्तु न संशयः 4064007a मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह 4064007c योजनानां परं षष्टिमहं प्लवितुमुत्सहे 4064008a ततस्तत्र महातेजा द्विविदः प्रत्यभाषत 4064008c गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् 4064009a सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् 4064009c अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः 4064010a तेषां कथयतां तत्र सर्वांस्ताननुमान्य च 4064010c ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत 4064011a पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः 4064011c ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् 4064012a किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् 4064012c यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ 4064013a साम्प्रतं कालभेदेन या गतिस्तां निबोधत 4064013c नवतिं योजनानां तु गमिष्यामि न संशयः 4064014a तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् 4064014c न खल्वेतावदेवासीद्गमने मे पराक्रमः 4064015a मया महाबलैश्चैव यज्ञे विष्णुः सनातनः 4064015c प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः 4064016a स इदानीमहं वृद्धः प्लवने मन्दविक्रमः 4064016c यौवने च तदासीन्मे बलमप्रतिमं परैः 4064017a संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् 4064017c नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति 4064018a अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा 4064018c अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम् 4064019a अहमेतद्गमिष्यामि योजनानां शतं महत् 4064019c निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् 4064020a तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः 4064020c ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम 4064021a कामं शतसहस्रं वा न ह्येष विधिरुच्यते 4064021c योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् 4064022a न हि प्रेषयिता तत स्वामी प्रेष्यः कथंचन 4064022c भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम 4064023a भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः 4064023c स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप 4064024a तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् 4064024c अपि चैतस्य कार्यस्य भवान्मूलमरिंदम 4064025a मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः 4064025c मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः 4064026a तद्भवानस्या कार्यस्य साधने सत्यविक्रमः 4064026c बुद्धिविक्रमसंपन्नो हेतुरत्र परंतपः 4064027a गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम 4064027c भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने 4064028a उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः 4064028c प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः 4064029a यदि नाहं गमिष्यामि नान्यो वानरपुंगवः 4064029c पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् 4064030a न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः 4064030c तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् 4064031a स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः 4064031c अतीत्य तस्य संदेशं विनाशो गमने भवेत् 4064032a तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः 4064032c तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति 4064033a सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः 4064033c जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् 4064034a अस्य ते वीर कार्यस्य न किंचित्परिहीयते 4064034c एष संचोदयाम्येनं यः कार्यं साधयिष्यति 4064035a ततः प्रतीतं प्लवतां वरिष्ठ;मेकान्तमाश्रित्य सुखोपविष्टम् 4064035c संचोदयामास हरिप्रवीरो; हरिप्रवीरं हनुमन्तमेव 4065001a अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् 4065001c जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् 4065002a वीर वानरलोकस्य सर्वशास्त्रविदां वर 4065002c तूष्णीमेकान्तमाश्रित्य हनुमन्किं न जल्पसि 4065003a हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि 4065003c रामलक्ष्मणयोश्चापि तेजसा च बलेन च 4065004a अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः 4065004c गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् 4065005a बहुशो हि मया दृष्टः सागरे स महाबलः 4065005c भुजगानुद्धरन्पक्षी महावेगो महायशाः 4065006a पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव 4065006c विक्रमश्चापि वेगश्च न ते तेनापहीयते 4065007a बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम 4065007c विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे 4065008a अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला 4065008c अज्ञनेति परिख्याता पत्नी केसरिणो हरेः 4065009a अभिशापादभूत्तात वानरी कामरूपिणी 4065009c दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः 4065010a कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी 4065010c मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी 4065011a अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे 4065011c विचित्रमाल्याभरणा महार्हक्षौमवासिनी 4065012a तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् 4065012c स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः 4065013a स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ 4065013c स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् 4065014a तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् 4065014c दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः 4065015a स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः 4065015c मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् 4065016a सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् 4065016c एकपत्नीव्रतमिदं को नाशयितुमिच्छति 4065017a अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत 4065017c न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् 4065018a मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि 4065018c वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति 4065019a अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने 4065019c फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् 4065020a शतानि त्रीणि गत्वाथ योजनानां महाकपे 4065020c तेजसा तस्य निर्धूतो न विषादं ततो गतः 4065021a तावदापततस्तूर्णमन्तरिक्षं महाकपे 4065021c क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता 4065022a ततः शैलाग्रशिखरे वामो हनुरभज्यत 4065022c ततो हि नामधेयं ते हनुमानिति कीर्त्यते 4065023a ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् 4065023c त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः 4065024a संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति 4065024c प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः 4065025a प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ 4065025c अशस्त्रवध्यतां तात समरे सत्यविक्रम 4065026a वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च 4065026c सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् 4065027a स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो 4065027c स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः 4065028a मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः 4065028c त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः 4065029a वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् 4065029c दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः 4065030a त्रिविक्रमे मया तात सशैलवनकानना 4065030c त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् 4065031a तदा चौषधयोऽस्माभिः संचिता देवशासनात् 4065031c निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् 4065032a स इदानीमहं वृद्धः परिहीनपराक्रमः 4065032c साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः 4065033a तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि 4065033c त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी 4065034a उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् 4065034c परा हि सर्वभूतानां हनुमन्या गतिस्तव 4065035a विषाण्णा हरयः सर्वे हनुमन्किमुपेक्षसे 4065035c विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव 4065036a ततस्तु वै जाम्बवताभिचोदितः; प्रतीतवेगः पवनात्मजः कपिः 4065036c प्रहर्षयंस्तां हरिवीर वाहिनीं; चकार रूपं महदात्मनस्तदा 4066001a संस्तूयमानो हनुमान्व्यवर्धत महाबलः 4066001c समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् 4066002a तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः 4066002c तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् 4066003a यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे 4066003c मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते 4066004a अशोभत मुखं तस्य जृम्भमाणस्य धीमतः 4066004c अम्बरीषोपमं दीप्तं विधूम इव पावकः 4066005a हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः 4066005c अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् 4066006a अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः 4066006c बलवानप्रमेयश्च वायुराकाशगोचरः 4066007a तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः 4066007c मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः 4066008a उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् 4066008c मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः 4066009a बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे 4066009c समाप्लावयितुं लोकं सपर्वतनदीह्रदम् 4066010a ममोरुजङ्घावेगेन भविष्यति समुत्थितः 4066010c संमूर्छितमहाग्राहः समुद्रो वरुणालयः 4066011a पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् 4066011c वैनतेयमहं शक्तः परिगन्तुं सहस्रशः 4066012a उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् 4066012c अनस्तमितमादित्यमभिगन्तुं समुत्सहे 4066013a ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे 4066013c प्रवेगेनैव महता भीमेन प्लवगर्षभाः 4066014a उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् 4066014c सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् 4066015a पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः 4066015c हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् 4066016a लतानां वीरुधां पुष्पं पादपानां च सर्वशः 4066016c अनुयास्यति मामद्य प्लवमानं विहायसा 4066016e भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे 4066017a चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च 4066017c द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः 4066018a महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः 4066018c दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् 4066019a विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् 4066019c सागरं क्षोभयिष्यामि प्लवमानः समाहितः 4066020a वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा 4066020c ऋते सुपर्णराजानं मारुतं वा महाबलम् 4066020e न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् 4066021a निमेषान्तरमात्रेण निरालम्भनमम्बरम् 4066021c सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता 4066022a भविष्यति हि मे रूपं प्लवमानस्य सागरम् 4066022c विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव 4066023a बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा 4066023c अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः 4066024a मारुतस्य समो वेगे गरुडस्य समो जवे 4066024c अयुतं योजनानां तु गमिष्यामीति मे मतिः 4066025a वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः 4066025c विक्रम्य सहसा हस्तादमृतं तदिहानये 4066025e लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः 4066026a तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं 4066026c उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः 4066027a वीर केसरिणः पुत्र वेगवन्मारुतात्मज 4066027c ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः 4066028a तव कल्याणरुचयः कपिमुख्याः समागताः 4066028c मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः 4066029a ऋषीणां च प्रसादेन कपिवृद्धमतेन च 4066029c गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् 4066030a स्थास्यामश्चैकपादेन यावदागमनं तव 4066030c त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् 4066031a ततस्तु हरिशार्दूलस्तानुवाच वनौकसः 4066031c नेयं मम मही वेगं प्लवने धारयिष्यति 4066032a एतानि हि नगस्यास्य शिलासंकटशालिनः 4066032c शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च 4066033a एतानि मम निष्पेषं पादयोः पततां वराः 4066033c प्लवतो धारयिष्यन्ति योजनानामितः शतम् 4066034a ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः 4066034c आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः 4066035a वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् 4066035c लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम् 4066036a सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् 4066036c मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् 4066037a महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः 4066037c विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः 4066038a पादाभ्यां पीडितस्तेन महाशैलो महात्मना 4066038c ररास सिंहाभिहतो महान्मत्त इव द्विपः 4066039a मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः 4066039c वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः 4066040a नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः 4066040c उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि 4066041a त्यज्यमानमहासानुः संनिलीनमहोरगः 4066041c शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः 4066042a निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः 4066042c सपताक इवाभाति स तदा धरणीधरः 4066043a ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः 4066043c सीदन्महति कान्तारे सार्थहीन इवाध्वगः 4066044a स वेगवान्वेगसमाहितात्मा; हरिप्रवीरः परवीरहन्ता 4066044c मनः समाधाय महानुभावो; जगाम लङ्कां मनसा मनस्वी