% Ramayana: Aranyakanda % Last updated: Wed Nov 18 2020 % Encoding: Unicode Devanagari % 3001001a प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् 3001001c ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् 3001002a कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् 3001002c यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् 3001003a शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा 3001003c पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः 3001004a विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः 3001004c समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् 3001005a आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् 3001005c बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् 3001006a पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया 3001006c फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः 3001007a सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् 3001007c पुण्यैश नियताहारैः शोभितं परमर्षिभिः 3001008a तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् 3001008c ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् 3001009a तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् 3001009c अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः 3001010a दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः 3001010c अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम् 3001011a ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः 3001011c मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः 3001012a रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् 3001012c ददृशुर्विस्मिताकारा रामस्य वनवासिनः 3001013a वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव 3001013c आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः 3001014a अत्रैनं हि महाभागाः सर्वभूतहिते रताः 3001014c अतिथिं पर्णशालायां राघवं संन्यवेशयन् 3001015a ततो रामस्य सत्कृत्य विधिना पावकोपमाः 3001015c आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः 3001016a मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः 3001016c निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् 3001017a धर्मपालो जनस्यास्य शरण्यश्च महायशाः 3001017c पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः 3001018a इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव 3001018c राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः 3001019a ते वयं भवता रक्ष्या भवद्विषयवासिनः 3001019c नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः 3001020a न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः 3001020c रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः 3001021a एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् 3001021c अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् 3001022a तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः 3001022c न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् 3002001a कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति 3002001c आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत 3002002a नानामृगगणाकीर्णं शार्दूलवृकसेवितम् 3002002c ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् 3002003a निष्कूजनानाशकुनि झिल्लिका गणनादितम् 3002003c लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह 3002004a वनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुते 3002004c ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् 3002005a गभीराक्षं महावक्त्रं विकटं विषमोदरम् 3002005c बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् 3002006a वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् 3002006c त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् 3002007a त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश 3002007c सविषाणं वसादिग्धं गजस्य च शिरो महत् 3002008a अवसज्यायसे शूले विनदन्तं महास्वनम् 3002008c स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् 3002009a अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः 3002009c स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् 3002010a अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् 3002010c युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ 3002011a प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ 3002011c कथं तापसयोर्वां च वासः प्रमदया सह 3002012a अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ 3002012c अहं वनमिदं दुर्गं विराघो नाम राक्षसः 3002013a चरामि सायुधो नित्यमृषिमांसानि भक्षयन् 3002013c इयं नारी वरारोहा मम भर्या भविष्यति 3002013e युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे 3002014a तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः 3002014c श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा 3002014e सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा 3002015a तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् 3002015c अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता 3002016a पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् 3002016c मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् 3002016e अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् 3002017a यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् 3002017c कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण 3002018a या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी 3002018c ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् 3002018e अद्येदानीं सकामा सा या माता मम मध्यमा 3002019a परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे 3002019c पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा 3002020a इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते 3002020c अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् 3002021a अनाथ इव भूतानां नाथस्त्वं वासवोपमः 3002021c मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे 3002022a शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः 3002022c विराधस्य गतासोर्हि मही पास्यति शोणितम् 3002023a राज्यकामे मम क्रोधो भरते यो बभूव ह 3002023c तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले 3002024a मम भुजबलवेगवेगितः; पततु शरोऽस्य महान्महोरसि 3002024c व्यपनयतु तनोश्च जीवितं; पततु ततश्च महीं विघूर्णितः 3003001a अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् 3003001c आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः 3003002a तमुवाच ततो रामो राक्षसं ज्वलिताननम् 3003002c पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः 3003003a क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ 3003003c त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् 3003004a तमुवाच विराधस्तु रामं सत्यपराक्रमम् 3003004c हन्त वक्ष्यामि ते राजन्निबोध मम राघव 3003005a पुत्रः किल जयस्याहं माता मम शतह्रदा 3003005c विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः 3003006a तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा 3003006c शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च 3003007a उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् 3003007c त्वरमाणौ पालयेथां न वां जीवितमाददे 3003008a तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः 3003008c राक्षसं विकृताकारं विराधं पापचेतसं 3003009a क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् 3003009c रणे संप्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि 3003010a ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान् 3003010c सुशीघ्रमभिसंधाय राक्षसं निजघान ह 3003011a धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह 3003011c रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान् 3003012a ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः 3003012c निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः 3003013a स विनद्य महानादं शूलं शक्रध्वजोपमम् 3003013c प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः 3003014a तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् 3003014c द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः 3003015a तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह 3003015c रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः 3003016a स भग्नबाहुः संविग्नो निपपाताशु राक्षसः 3003016c धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः 3003016e इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् 3003017a कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया 3003017c वैदेही च महाभागा लक्ष्मणश्च महायशाः 3003018a अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् 3003018c तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्वरणेन हि 3003019a प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः 3003019c यदा दाशरथी रामस्त्वां वधिष्यति संयुगे 3003020a तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति 3003020c इति वैश्रवणो राजा रम्भासक्तमुवाच ह 3003021a अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह 3003021c तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात् 3003021e भवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप 3003022a इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् 3003022c अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः 3003023a तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति 3003023c अवटे चापि मां राम निक्षिप्य कुशली व्रज 3003024a रक्षसां गतसत्त्वानामेष धर्मः सनातनः 3003024c अवटे ये निधीयन्ते तेषां लोकाः सनातनाः 3003025a एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः 3003025c बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः 3003026a तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् 3003026c विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् 3003027a ततस्तु तौ काञ्चनचित्रकार्मुकौ; निहत्य रक्षः परिगृह्य मैथिलीम् 3003027c विजह्रतुस्तौ मुदितौ महावने; दिवि स्थितौ चन्द्रदिवाकराविव 3004001a हत्वा तु तं भीमबलं विराधं राक्षसं वने 3004001c ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् 3004001e अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं 3004002a कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः 3004002c अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् 3004003a आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह 3004004a तस्य देवप्रभावस्य तपसा भावितात्मनः 3004004c समीपे शरभङ्गस्य ददर्श महदद्भुतम् 3004005a विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् 3004005c असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् 3004006a सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् 3004006c तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः 3004007a हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् 3004007c ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् 3004008a पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् 3004008c अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् 3004009a चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने 3004009c गृहीते वननारीभ्यां धूयमाने च मूर्धनि 3004010a गन्धर्वामरसिद्धाश्च बहवः परमर्षयः 3004010c अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे 3004011a दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् 3004011c ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः 3004011e अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् 3004012a इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् 3004012c शतं शतं कुण्डलिनो युवानः खड्गपाणयः 3004013a उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः 3004013c रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् 3004014a एतद्धि किल देवानां वयो भवति नित्यदा 3004014c यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः 3004015a इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण 3004015c यावज्जनाम्यहं व्यक्तं क एष द्युतिमान्रथे 3004016a तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति 3004016c अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति 3004017a ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः 3004017c शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् 3004018a इहोपयात्यसौ रामो यावन्मां नाभिभाषते 3004018c निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति 3004019a जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् 3004019c कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् 3004020a इति वज्री तमामन्त्र्य मानयित्वा च तापसं 3004020c रथेन हरियुक्तेन ययौ दिवमरिंदमः 3004021a प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः 3004021c अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् 3004022a तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः 3004022c निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः 3004023a ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः 3004023c शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् 3004024a मामेष वरदो राम ब्रह्मलोकं निनीषति 3004024c जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः 3004025a अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः 3004025c ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् 3004026a समागम्य गमिष्यामि त्रिदिवं देवसेवितम् 3004026c अक्षया नरशार्दूल जिता लोका मया शुभाः 3004026e ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् 3004027a एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः 3004027c ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् 3004028a अहमेवाहरिष्यामि सर्वाँल्लोकान्महामुने 3004028c आवासं त्वहमिच्छामि प्रदिष्टमिह कानने 3004029a राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै 3004029c शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः 3004030a सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् 3004030c रमणीये वनोद्देशे स ते वासं विधास्यति 3004031a एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् 3004031c यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः 3004032a ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् 3004032c शरभङ्गो महातेजाः प्रविवेश हुताशनम् 3004033a तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः 3004033c जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम् 3004034a स च पावकसंकाशः कुमारः समपद्यत 3004034c उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत 3004035a स लोकानाहिताग्नीनामृषीणां च महात्मनाम् 3004035c देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत 3004036a स पुण्यकर्मा भुवने द्विजर्षभः; पितामहं सानुचरं ददर्श ह 3004036c पितामहश्चापि समीक्ष्य तं द्विजं; ननन्द सुस्वागतमित्युवाच ह 3005001a शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः 3005001c अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं 3005002a वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः 3005002c अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः 3005003a दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे 3005003c मुनयः सलिलाहारा वायुभक्षास्तथापरे 3005004a आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः 3005004c तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः 3005005a सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः 3005005c सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः 3005005e शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः 3005006a अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् 3005006c ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः 3005007a त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः 3005007c प्रधानश्चासि नाथश्च देवानां मघवानिव 3005008a विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च 3005008c पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः 3005009a त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् 3005009c अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि 3005010a अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः 3005010c यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत् 3005011a युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव 3005011c नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः 3005012a प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् 3005012c ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते 3005013a यत्करोति परं धर्मं मुनिर्मूलफलाशनः 3005013c तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः 3005014a सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् 3005014c त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम् 3005015a एहि पश्य शरीराणि मुनीनां भावितात्मनाम् 3005015c हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने 3005016a पम्पानदीनिवासानामनुमन्दाकिनीमपि 3005016c चित्रकूटालयानां च क्रियते कदनं महत् 3005017a एवं वयं न मृष्यामो विप्रकारं तपस्विनम् 3005017c क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः 3005018a ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः 3005018c परिपालय नो राम वध्यमानान्निशाचरैः 3005019a एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् 3005019c इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः 3005019e नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम् 3005020a भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया 3005020c तस्य मेऽयं वने वासो भविष्यति महाफलः 3005020e तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् 3005021a दत्त्वा वरं चापि तपोधनानां; धर्मे धृतात्मा सहलक्ष्मणेन 3005021c तपोधनैश्चापि सहार्य वृत्तः; सुतीष्क्णमेवाभिजगाम वीरः 3006001a रामस्तु सहितो भ्रात्रा सीतया च परंतपः 3006001c सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः 3006002a स गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः 3006002c ददर्श विपुलं शैलं महामेघमिवोन्नतम् 3006003a ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः 3006003c काननं तौ विविशतुः सीतया सह राघवौ 3006004a प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् 3006004c ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् 3006005a तत्र तापसमासीनं मलपङ्कजटाधरम् 3006005c रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत 3006006a रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः 3006006c तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम 3006007a स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् 3006007c समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् 3006008a स्वागतं खलु ते वीर राम धर्मभृतां वर 3006008c आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् 3006009a प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः 3006009c देवलोकमितो वीर देहं त्यक्त्वा महीतले 3006010a चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः 3006010c इहोपयातः काकुत्स्थो देवराजः शतक्रतुः 3006010e सर्वाँल्लोकाञ्जितानाह मम पुण्येन कर्मणा 3006011a तेषु देवर्षिजुष्टेषु जितेषु तपसा मया 3006011c मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः 3006012a तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् 3006012c प्रत्युवाचात्मवान्रामो ब्रह्माणमिव वासवः 3006013a अहमेवाहरिष्यामि स्वयं लोकान्महामुने 3006013c आवासं त्वहमिच्छामि प्रदिष्टमिह कानने 3006014a भवान्सर्वत्र कुशलः सर्वभूतहिते रतः 3006014c आख्यातः शरभङ्गेन गौतमेन महात्मना 3006015a एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः 3006015c अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः 3006016a अयमेवाश्रमो राम गुणवान्रम्यतामिह 3006016c ऋषिसंघानुचरितः सदा मूलफलैर्युतः 3006017a इममाश्रममागम्य मृगसंघा महायशाः 3006017c अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः 3006018a तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः 3006018c उवाच वचनं धीरो विकृष्य सशरं धनुः 3006019a तानहं सुमहाभाग मृगसंघान्समागतान् 3006019c हन्यां निशितधारेण शरेणाशनिवर्चसा 3006020a भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः 3006020c एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये 3006021a तमेवमुक्त्वा वरदं रामः संध्यामुपागमत् 3006021c अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् 3006022a ततः शुभं तापसभोज्यमन्नं; स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् 3006022c ताभ्यां सुसत्कृत्य ददौ महात्मा; संध्यानिवृत्तौ रजनीं समीक्ष्य 3007001a रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः 3007001c परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत 3007002a उत्थाय तु यथाकालं राघवः सह सीतया 3007002c उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना 3007003a अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ 3007003c काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने 3007004a उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः 3007004c सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् 3007005a सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः 3007005c आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः 3007006a त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् 3007006c ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् 3007007a अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः 3007007c धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः 3007008a अविषह्यातपो यावत्सूर्यो नातिविराजिते 3007008c अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः 3007009a तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः 3007009c ववन्दे सहसौमित्रिः सीतया सह राघवः 3007010a तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः 3007010c गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् 3007011a अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह 3007011c सीतया चानया सार्धं छाययेवानुवृत्तया 3007012a पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् 3007012c एषां तपस्विनां वीर तपसा भावितात्मनाम् 3007013a सुप्राज्यफलमूलानि पुष्पितानि वनानि च 3007013c प्रशान्तमृगयूथानि शान्तपक्षिगणानि च 3007014a फुल्लपङ्कजषडानि प्रसन्नसलिलानि च 3007014c कारण्डवविकीर्णानि तटाकानि सरांसि च 3007015a द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च 3007015c रमणीयान्यरण्यानि मयूराभिरुतानि च 3007016a गम्यतां वत्स सौमित्रे भवानपि च गच्छतु 3007016c आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम 3007017a एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः 3007017c प्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे 3007018a ततः शुभतरे तूणी धनुषी चायतेक्षणा 3007018c ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः 3007019a आबध्य च शुभे तूणी चापे चादाय सस्वने 3007019c निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ 3008001a सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् 3008001c वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत् 3008002a अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् 3008002c निवृत्तेन च शक्योऽयं व्यसनात्कामजादिह 3008003a त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत 3008003c मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ 3008003e परदाराभिगमनं विना वैरं च रौद्रता 3008004a मिथ्यावाक्यं न ते भूतं न भविष्यति राघव 3008004c कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् 3008005a तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः 3008005c तव वश्येन्द्रियत्वं च जानामि शुभदर्शन 3008006a तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् 3008006c निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् 3008007a प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् 3008007c ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् 3008008a एतन्निमित्तं च वनं दण्डका इति विश्रुतम् 3008008c प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः 3008009a ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः 3008009c त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् 3008010a न हि मे रोचते वीर गमनं दण्डकान्प्रति 3008010c कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम 3008011a त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः 3008011c दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याः शरव्ययम् 3008012a क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च 3008012c समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् 3008013a पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः 3008013c कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे 3008014a तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः 3008014c खड्गपाणिरथागच्छदाश्रमं भट रूपधृक् 3008015a तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः 3008015c स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः 3008016a स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः 3008016c वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः 3008017a यत्र गच्छत्युपादातुं मूलानि च फलानि च 3008017c न विना याति तं खड्गं न्यासरक्षणतत्परः 3008018a नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः 3008018c चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् 3008019a ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः 3008019c तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः 3008020a स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये 3008020c न कथंचन सा कार्या हृहीतधनुषा त्वया 3008021a बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् 3008021c अपराधं विना हन्तुं लोकान्वीर न कामये 3008022a क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् 3008022c धनुषा कार्यमेतावदार्तानामभिरक्षणम् 3008023a क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च 3008023c व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् 3008024a तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् 3008024c पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि 3008025a अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम 3008025c यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः 3008026a धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् 3008026c धर्मेण लभते सर्वं धर्मसारमिदं जगत् 3008027a आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः 3008027c प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् 3008028a नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने 3008028c सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः 3008029a स्त्रीचापलादेतदुदाहृतं मे; धर्मं च वक्तुं तव कः समर्थः 3008029c विचार्य बुद्ध्या तु सहानुजेन; यद्रोचते तत्कुरु माचिरेण 3009001a वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया 3009001c श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् 3009002a हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः 3009002c कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे 3009003a किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः 3009003c क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति 3009004a ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः 3009004c मां सीते स्वयमागम्य शरण्याः शरणं गताः 3009005a वसन्तो धर्मनिरता वने मूलफलाशनाः 3009005c न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः 3009006a काले काले च निरता नियमैर्विविधैर्वने 3009006c भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः 3009007a ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः 3009007c अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः 3009008a मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् 3009008c कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् 3009009a प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला 3009009c यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः 3009009e किं करोमीति च मया व्याहृतं द्विजसंनिधौ 3009010a सर्वैरेव समागम्य वागियं समुदाहृता 3009010c राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः 3009010e अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति 3009011a होमकाले तु संप्राप्ते पर्वकालेषु चानघ 3009011c धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः 3009012a राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् 3009012c गतिं मृगयमाणानां भवान्नः परमा गतिः 3009013a कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् 3009013c चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् 3009014a बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव 3009014c तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः 3009015a तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः 3009015c रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने 3009016a मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् 3009016c ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे 3009017a संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् 3009017c मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा 3009018a अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् 3009018c न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः 3009019a तदवश्यं मया कार्यमृषीणां परिपालनम् 3009019c अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः 3009020a मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः 3009020c परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते 3009020e सदृशं चानुरूपं च कुलस्य तव शोभने 3009021a इत्येवमुक्त्वा वचनं महात्मा; सीतां प्रियां मैथिल राजपुत्रीम् 3009021c रामो धनुष्मान्सहलक्ष्मणेन; जगाम रम्याणि तपोवनानि 3010001a अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा 3010001c पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह 3010002a तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च 3010002c नदीश्च विविधा रम्या जग्मतुः सह सीतया 3010003a सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः 3010003c सरांसि च सपद्मानि युतानि जलजैः खगैः 3010004a यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः 3010004c महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः 3010005a ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे 3010005c ददृशुः सहिता रम्यं तटाकं योजनायतम् 3010006a पद्मपुष्करसंबाधं गजयूथैरलंकृतम् 3010006c सारसैर्हंसकादम्बैः संकुलं जलचारिभिः 3010007a प्रसन्नसलिले रम्यतस्मिन्सरसि शुश्रुवे 3010007c गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते 3010008a ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः 3010008c मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे 3010009a इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने 3010009c कौतूहलं महज्जातं किमिदं साधु कथ्यताम् 3010010a तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा 3010010c प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे 3010011a इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् 3010011c निर्मितं तपसा राम मुनिना माण्डकर्णिना 3010012a स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः 3010012c दशवर्षसहस्राणि वायुभक्षो जलाश्रय 3010013a ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः 3010013c अब्रुवन्वचनं सर्वे परस्पर समागताः 3010013e अस्मकं कस्यचित्स्थानमेष प्रार्थयते मुनिः 3010014a ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः 3010014c प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः 3010015a अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः 3010015c नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये 3010016a ताश्चैवाप्सरसः पञ्चमुनेः पत्नीत्वमागताः 3010016c तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् 3010017a तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम् 3010017c रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् 3010018a तासां संक्रीडमानानामेष वादित्रनिःस्वनः 3010018c श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः 3010019a आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः 3010019c राघवः प्रतिजग्राह सह भ्रात्रा महायशाः 3010020a एवं कथयमानस्य ददर्शाश्रममण्डलम् 3010020c कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् 3010021a प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः 3010021c तदा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले 3010022a उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः 3010022c जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् 3010023a येषामुषितवान्पूर्वं सकाशे स महास्त्रवित् 3010023c क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् 3010024a क्वचिच्च चतुरो मासान्पञ्चषट्चापरान्क्वचित् 3010024c अपरत्राधिकान्मासानध्यर्धमधिकं क्वचित् 3010025a त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् 3010025c तथा संवसतस्तस्य मुनीनामाश्रमेषु वै 3010025e रमतश्चानुकुल्येन ययुः संवत्सरा दश 3010026a परिसृत्य च धर्मज्ञो राघवः सह सीतया 3010026c सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह 3010027a स तमाश्रममागम्य मुनिभिः प्रतिपूजितः 3010027c तत्रापि न्यवसद्रामः कंचित्कालमरिंदमः 3010028a अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् 3010028c उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् 3010029a अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः 3010029c वसतीति मया नित्यं कथाः कथयतां श्रुतम् 3010030a न तु जानामि तं देशं वनस्यास्य महत्तया 3010030c कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः 3010031a प्रसादात्तत्र भवतः सानुजः सह सीतया 3010031c अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् 3010032a मनोरथो महानेष हृदि संपरिवर्तते 3010032c यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् 3010033a इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः 3010033c सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् 3010034a अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् 3010034c अगस्त्यमभिगच्छेति सीतया सह राघव 3010035a दिष्ट्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् 3010035c अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः 3010036a योजनान्याश्रमात्तात याहि चत्वारि वै ततः 3010036c दक्षिणेन महाञ्श्रीमानगस्त्यभ्रातुराश्रमः 3010037a स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते 3010037c बहुपुष्पफले रम्ये नानाशकुनिनादिते 3010038a पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः 3010038c हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः 3010039a तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम् 3010039c दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः 3010040a तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् 3010040c रमणीये वनोद्देशे बहुपादप संवृते 3010040e रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह 3010041a स हि रम्यो वनोद्देशो बहुपादपसंकुलः 3010041c यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् 3010041e अद्यैव गमने बुद्धिं रोचयस्व महायशः 3010042a इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च 3010042c प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सह सीतया 3010043a पश्यन्वनानि चित्राणि पर्वपांश्चाभ्रसंनिभान् 3010043c सरांसि सरितश्चैव पथि मार्गवशानुगाः 3010044a सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् 3010044c इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् 3010045a एतदेवाश्रमपदं नूनं तस्य महात्मनः 3010045c अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः 3010046a यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः 3010046c संनताः फलभरेण पुष्पभारेण च द्रुमाः 3010047a पिप्पलीनां च पक्वानां वनादस्मादुपागतः 3010047c गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः 3010048a तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः 3010048c लूनाश्च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः 3010049a एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् 3010049c पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते 3010050a विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः 3010050c पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः 3010051a तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् 3010051c अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति 3010052a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3010052c यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा 3010053a इहैकदा किल क्रूरो वातापिरपि चेल्वलः 3010053c भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ 3010054a धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् 3010054c आमन्त्रयति विप्रान्स श्राद्धमुद्दिश्य निर्घृणः 3010055a भ्रातरं संस्कृतं भ्राता ततस्तं मेषरूपिणम् 3010055c तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा 3010056a ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् 3010056c वातापे निष्क्रमस्वेति स्वरेण महता वदन् 3010057a ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् 3010057c भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत् 3010058a ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः 3010058c विनाशितानि संहत्य नित्यशः पिशिताशनैः 3010059a अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा 3010059c अनुभूय किल श्राद्धे भक्षितः स महासुरः 3010060a ततः संपन्नमित्युक्त्वा दत्त्वा हस्तावसेचनम् 3010060c भ्रातरं निष्क्रमस्वेति इल्वलः सोऽभ्यभाषत 3010061a तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम् 3010061c अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः 3010062a कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः 3010062c भ्रातुस्ते मेष रूपस्य गतस्य यमसादनम् 3010063a अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम् 3010063c प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः 3010064a सोऽभ्यद्रवद्द्विजेन्द्रं तं मुनिना दीप्ततेजसा 3010064c चक्षुषानलकल्पेन निर्दग्धो निधनं गतः 3010065a तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः 3010065c विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् 3010066a एवं कथयमानस्य तस्य सौमित्रिणा सह 3010066c रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत 3010067a उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि 3010067c प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयन् 3010068a सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः 3010068c न्यवसत्तां निशामेकां प्राश्य मूलफलानि च 3010069a तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले 3010069c भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः 3010070a अभिवादये त्वा भगवन्सुखमध्युषितो निशाम् 3010070c आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् 3010071a गम्यतामिति तेनोक्तो जगाम रघुनन्दनः 3010071c यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् 3010072a नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान् 3010072c चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् 3010073a पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् 3010073c ददर्श रामः शतशस्तत्र कान्तारपादपान् 3010074a हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् 3010074c मत्तैः शकुनिसंघैश्च शतशः प्रतिनादितान् 3010075a ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः 3010075c पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् 3010076a स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः 3010076c आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः 3010077a अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा 3010077c आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः 3010078a प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः 3010078c प्रशान्तमृगयूथश्च नानाशकुनिनादितः 3010079a निगृह्य तरसा मृत्युं लोकानां हितकाम्यया 3010079c दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा 3010080a तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः 3010080c दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते 3010081a यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा 3010081c तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः 3010082a नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा 3010082c प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः 3010083a मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः 3010083c संदेशं पालयंस्तस्य विन्ध्यशौलो न वर्धते 3010084a अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः 3010084c अगस्त्यस्याश्रमः श्रीमान्विनीतमृगसेवितः 3010085a एष लोकार्चितः साधुर्हिते नित्यं रतः सताम् 3010085c अस्मानधिगतानेष श्रेयसा योजयिष्यति 3010086a आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् 3010086c शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो 3010087a अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 3010087c अगस्त्यं नियताहारं सततं पर्युपासते 3010088a नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः 3010088c नृशंसः कामवृत्तो वा मुनिरेष तथाविधः 3010089a अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह 3010089c वसन्ति नियताहारा धर्ममाराधयिष्णवः 3010090a अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः 3010090c त्यक्त्वा देहान्नवैर्देहैः स्वर्याताः परमर्षयः 3010091a यक्षत्वममरत्वं च राज्यानि विविधानि च 3010091c अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः 3010092a आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः 3010092c निवेदयेह मां प्राप्तमृषये सह सीतया 3011001a स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः 3011001c अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह 3011002a राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली 3011002c रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया 3011003a लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः 3011003c अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः 3011004a ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् 3011004c द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् 3011005a तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः 3011005c तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् 3011006a स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् 3011006c कृताञ्जलिरुवाचेदं रामागमनमञ्जसा 3011007a पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च 3011007c प्रविष्टावाश्रमपदं सीतया सह भार्यया 3011008a द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ 3011008c यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि 3011009a ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् 3011009c वैदेहीं च महाभागामिदं वचनमब्रवीत् 3011010a दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः 3011010c मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति 3011011a गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः 3011011c प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः 3011012a एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना 3011012c अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः 3011013a ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् 3011013c क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् 3011014a ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः 3011014c दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् 3011015a तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् 3011015c प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम् 3011016a प्रविवेश ततो रामः सीतया सहलक्ष्मणः 3011016c प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् 3011017a स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च 3011017c विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः 3011018a सोमस्थानं भगस्थानं स्थानं कौबेरमेव च 3011018c धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च 3011019a ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् 3011019c तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं 3011019e अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् 3011020a एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः 3011020c औदार्येणावगच्छामि निधानं तपसामिमम् 3011021a एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं 3011021c जग्राह परमप्रीतस्तस्य पादौ परंतपः 3011022a अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः 3011022c सीतया सह वैदेह्या तदा राम सलक्ष्मणः 3011023a प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः 3011023c कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत् 3011024a अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च 3011024c वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ 3011025a प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः 3011025c उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् 3011026a अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् 3011026c दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् 3011027a राजा सर्वस्य लोकस्य धर्मचारी महारथः 3011027c पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः 3011028a एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् 3011028c पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् 3011029a इदं दिव्यं महच्चापं हेमवज्रविभूषितम् 3011029c वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा 3011030a अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः 3011030c दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ 3011031a संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः 3011031c महाराजत कोशोऽयमसिर्हेमविभूषितः 3011032a अनेन धनुषा राम हत्वा संख्ये महासुरान् 3011032c आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् 3011033a तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद 3011033c जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा 3011034a एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् 3011034c दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् 3012001a राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण 3012001c अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया 3012002a अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः 3012002c व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा 3012003a एषा हि सुकुमारी च दुःखैश्च न विमानिता 3012003c प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता 3012004a यथैषा रमते राम इह सीता तथा कुरु 3012004c दुष्करं कृतवत्येषा वने त्वामनुगच्छती 3012005a एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन 3012005c समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च 3012006a शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा 3012006c गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः 3012007a इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः 3012007c श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती 3012008a अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह 3012008c वैदेह्या चानया राम वत्स्यसि त्वमरिंदम 3012009a एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः 3012009c उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् 3012010a धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः 3012010c गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति 3012011a किं तु व्यादिश मे देशं सोदकं बहुकाननम् 3012011c यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् 3012012a ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् 3012012c ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः 3012013a इतो द्वियोजने तात बहुमूलफलोदकः 3012013c देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः 3012014a तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह 3012014c रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् 3012015a विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ 3012015c तपसश्च प्रभावेन स्नेहाद्दशरथस्य च 3012016a हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया 3012016c इह वासं प्रतिज्ञाय मया सह तपोवने 3012017a अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति 3012017c स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते 3012018a स देशः श्लाघनीयश्च नातिदूरे च राघव 3012018c गोदावर्याः समीपे च मैथिली तत्र रंस्यते 3012019a प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः 3012019c विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च 3012020a भवानपि सदारश्च शक्तश्च परिरक्षणे 3012020c अपि चात्र वसन्रामस्तापसान्पालयिष्यसि 3012021a एतदालक्ष्यते वीर मधुकानां महद्वनम् 3012021c उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता 3012022a ततः स्थलमुपारुह्य पर्वतस्याविदूरतः 3012022c ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः 3012023a अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह 3012023c सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् 3012024a तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ 3012024c तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया 3012025a गृहीतचापौ तु नराधिपात्मजौ; विषक्ततूणी समरेष्वकातरौ 3012025c यथोपदिष्टेन पथा महर्षिणा; प्रजग्मतुः पञ्चवटीं समाहितौ 3013001a अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः 3013001c आससाद महाकायं गृध्रं भीमपराक्रमम् 3013002a तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ 3013002c मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति 3013003a स तौ मधुरया वाचा सौम्यया प्रीणयन्निव 3013003c उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः 3013004a स तं पितृसखं बुद्ध्वा पूजयामास राघवः 3013004c स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च 3013005a रामस्य वचनं श्रुत्वा कुलमात्मानमेव च 3013005c आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् 3013006a पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् 3013006c तान्मे निगदतः सर्वानादितः शृणु राघव 3013007a कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् 3013007c शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् 3013008a स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः 3013008c पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा 3013009a दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव 3013009c कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः 3013010a प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम् 3013010c षष्टिर्दुहितरो राम यशस्विन्यो महायशः 3013011a कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः 3013011c अदितिं च दितिं चैव दनूमपि च कालकाम् 3013012a ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि 3013012c तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् 3013013a पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् 3013013c अदितिस्तन्मना राम दितिश्च दनुरेव च 3013014a कालका च महाबाहो शेषास्त्वमनसोऽभवन् 3013014c अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम 3013015a आदित्या वसवो रुद्रा अश्विनौ च परंतप 3013015c दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः 3013016a तेषामियं वसुमती पुरासीत्सवनार्णवा 3013016c दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम 3013017a नरकं कालकं चैव कालकापि व्यजायत 3013017c क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् 3013018a ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः 3013018c उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत 3013019a श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः 3013019c धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः 3013020a चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी 3013020c शुकी नतां विजज्ञे तु नताया विनता सुता 3013021a दशक्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः 3013021c मृगीं च मृगमन्दां च हरीं भद्रमदामपि 3013022a मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा 3013022c सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि 3013023a अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम 3013023c ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा 3013024a ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् 3013024c तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः 3013025a हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः 3013025c गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् 3013026a मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ 3013026c दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम् 3013027a ततो दुहितरौ राम सुरभिर्देव्यजायत 3013027c रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् 3013028a रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् 3013028c सुरसाजनयन्नागान्राम कद्रूश्च पन्नगान् 3013029a मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः 3013029c ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ 3013030a मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा 3013030c ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः 3013031a सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायत 3013031c विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा 3013032a कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम् 3013032c द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च 3013033a तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजः 3013033c जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम 3013034a सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि 3013034c सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे 3013035a जटायुषं तु प्रतिपूज्य राघवो; मुदा परिष्वज्य च संनतोऽभवत् 3013035c पितुर्हि शुश्राव सखित्वमात्मवा;ञ्जटायुषा संकथितं पुनः पुनः 3013036a स तत्र सीतां परिदाय मैथिलीं; सहैव तेनातिबलेन पक्षिणा 3013036c जगाम तां पञ्चवटीं सलक्ष्मणो; रिपून्दिधक्षञ्शलभानिवानलः 3014001a ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् 3014001c उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3014002a आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा 3014002c अयं पञ्चवटी देशः सौम्य पुष्पितकाननः 3014003a सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि 3014003c आश्रमः कतरस्मिन्नो देशे भवति संमतः 3014004a रमते यत्र वैदेही त्वमहं चैव लक्ष्मण 3014004c तादृशो दृश्यतां देशः संनिकृष्टजलाशयः 3014005a वनरामण्यकं यत्र जलरामण्यकं तथा 3014005c संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् 3014006a एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः 3014006c सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत् 3014007a परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते 3014007c स्वयं तु रुचिरे देशे क्रियतामिति मां वद 3014008a सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः 3014008c विमृशन्रोचयामास देशं सर्वगुणान्वितम् 3014009a स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि 3014009c हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् 3014010a अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतः 3014010c इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि 3014011a इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः 3014011c अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता 3014012a यथाख्यातमगस्त्येन मुनिना भावितात्मना 3014012c इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता 3014013a हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता 3014013c नातिदूरे न चासन्ने मृगयूथनिपीडिता 3014014a मयूरनादिता रम्याः प्रांशवो बहुकन्दराः 3014014c दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः 3014015a सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः 3014015c गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः 3014016a सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः 3014016c नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः 3014017a चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि 3014017c पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः 3014018a चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि 3014018c धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः 3014019a इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् 3014019c इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा 3014020a एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा 3014020c अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः 3014021a पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम् 3014021c सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् 3014022a स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा 3014022c स्नात्वा पद्मानि चादाय सफलः पुनरागतः 3014023a ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि 3014023c दर्शयामास रामाय तदाश्रमपदं कृतम् 3014024a स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया 3014024c राघवः पर्णशालायां हर्षमाहारयत्परम् 3014025a सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा 3014025c अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् 3014026a प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो 3014026c प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः 3014027a भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण 3014027c त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम 3014028a एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः 3014028c तस्मिन्देशे बहुफले न्यवसत्स सुखं वशी 3014029a कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च 3014029c अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः 3015001a वसतस्तस्य तु सुखं राघवस्य महात्मनः 3015001c शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते 3015002a स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः 3015002c प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् 3015003a प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् 3015003c पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् 3015004a अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद 3015004c अलंकृत इवाभाति येन संवत्सरः शुभः 3015005a नीहारपरुषो लोकः पृथिवी सस्यमालिनी 3015005c जलान्यनुपभोग्यानि सुभगो हव्यवाहनः 3015006a नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः 3015006c कृताग्रयणकाः काले सन्तो विगतकल्मषाः 3015007a प्राज्यकामा जनपदाः संपन्नतरगोरसाः 3015007c विचरन्ति महीपाला यात्रार्थं विजिगीषवः 3015008a सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् 3015008c विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते 3015009a प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् 3015009c यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः 3015010a अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः 3015010c दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः 3015011a मृदुसूर्याः सनीहाराः पटुशीताः समारुताः 3015011c शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् 3015012a निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः 3015012c शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् 3015013a रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः 3015013c निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते 3015014a ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते 3015014c सीतेव चातपश्यामा लक्ष्यते न तु शोभते 3015015a प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम् 3015015c प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः 3015016a बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च 3015016c शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः 3015017a खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः 3015017c शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः 3015018a मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः 3015018c दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते 3015019a अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः 3015019c संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ 3015020a अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला 3015020c वनानां शोभते भूमिर्निविष्टतरुणातपा 3015021a अवश्यायतमोनद्धा नीहारतमसावृताः 3015021c प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः 3015022a बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः 3015022c हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् 3015023a तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च 3015023c शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् 3015024a जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः 3015024c नालशेषा हिमध्वस्ता न भान्ति कमलाकराः 3015025a अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः 3015025c तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे 3015026a त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् 3015026c तपस्वी नियताहारः शेते शीते महीतले 3015027a सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः 3015027c वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् 3015028a अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः 3015028c कथं त्वपररात्रेषु सरयूमवगाहते 3015029a पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान् 3015029c धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः 3015030a प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः 3015030c संत्यज्य विविधान्सौख्यानार्यं सर्वात्मनाश्रितः 3015031a जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना 3015031c वनस्थमपि तापस्ये यस्त्वामनुविधीयते 3015032a न पित्र्यमनुवर्न्तन्ते मातृकं द्विपदा इति 3015032c ख्यातो लोकप्रवादोऽयं भरतेनान्यथाकृतः 3015033a भर्ता दशरथो यस्याः साधुश्च भरतः सुतः 3015033c कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी 3015034a इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके 3015034c परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत् 3015035a न तेऽम्बा मध्यमा तात गर्हितव्या कथंचन 3015035c तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु 3015036a निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता 3015036c भरतस्नेहसंतप्ता बालिशीक्रियते पुनः 3015037a इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् 3015037c चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया 3015038a तर्पयित्वाथ सलिलैस्ते पितॄन्दैवतानि च 3015038c स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः 3015039a कृताभिषेकः स रराज रामः; सीताद्वितीयः सह लक्ष्मणेन 3015039c कृताभिषेकस्त्वगराजपुत्र्या; रुद्रः सनन्दिर्भगवानिवेशः 3016001a कृताभिषेको रामस्तु सीता सौमित्रिरेव च 3016001c तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् 3016002a आश्रमं तमुपागम्य राघवः सहलक्ष्मणः 3016002c कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् 3016003a स रामः पर्णशालायामासीनः सह सीतया 3016003c विरराज महाबाहुश्चित्रया चन्द्रमा इव 3016003e लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः 3016004a तदासीनस्य रामस्य कथासंसक्तचेतसः 3016004c तं देशं राक्षसी काचिदाजगाम यदृच्छया 3016005a सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः 3016005c भगिनी राममासाद्य ददर्श त्रिदशोपमम् 3016006a सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् 3016006c सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् 3016007a राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् 3016007c बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता 3016008a सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी 3016008c विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा 3016009a प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना 3016009c तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी 3016010a न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना 3016010c शरीरजसमाविष्टा राक्षसी राममब्रवीत् 3016011a जटी तापसरूपेण सभार्यः शरचापधृक् 3016011c आगतस्त्वमिमं देशं कथं राक्षससेवितम् 3016012a एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः 3016012c ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे 3016013a आसीद्दशरथो नाम राजा त्रिदशविक्रमः 3016013c तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः 3016014a भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः 3016014c इयं भार्या च वैदेही मम सीतेति विश्रुता 3016015a नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः 3016015c धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः 3016016a त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा 3016016c इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः 3016017a साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता 3016017c श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम 3016018a अहं शूर्पणखा नाम राक्षसी कामरूपिणी 3016018c अरण्यं विचरामीदमेका सर्वभयंकरा 3016019a रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः 3016019c प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः 3016020a विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः 3016020c प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ 3016021a तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् 3016021c समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् 3016021e चिराय भव भर्ता मे सीतया किं करिष्यसि 3016022a विकृता च विरूपा च न सेयं सदृशी तव 3016022c अहमेवानुरूपा ते भार्यारूपेण पश्य माम् 3016023a इमां विरूपामसतीं करालां निर्णतोदरीम् 3016023c अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् 3016024a ततः पर्वतशृङ्गाणि वनानि विविधानि च 3016024c पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि 3016025a इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् 3016025c इदं वचनमारेभे वक्तुं वाक्यविशारदः 3017001a तां तु शूर्पणखां रामः कामपाशावपाशिताम् 3017001c स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् 3017002a कृतदारोऽस्मि भवति भार्येयं दयिता मम 3017002c त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता 3017003a अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः 3017003c श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् 3017004a अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः 3017004c अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति 3017005a एनं भज विशालाक्षि भर्तारं भ्रातरं मम 3017005c असपत्ना वरारोहे मेरुमर्कप्रभा यथा 3017006a इति रामेण सा प्रोक्ता राक्षसी काममोहिता 3017006c विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् 3017007a अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी 3017007c मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि 3017008a एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः 3017008c ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् 3017009a कथं दासस्य मे दासी भार्या भवितुमिच्छसि 3017009c सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि 3017010a समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी 3017010c आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी 3017011a एतां विरूपामसतीं करालां निर्णतोदरीम् 3017011c भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति 3017012a को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि 3017012c मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः 3017013a इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी 3017013c मन्यते तद्वचः सत्यं परिहासाविचक्षणा 3017014a सा रामं पर्णशालायामुपविष्टं परंतपम् 3017014c सीतया सह दुर्धर्षमब्रवीत्काममोहिता 3017015a इमां विरूपामसतीं करालां निर्णतोदरीम् 3017015c वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे 3017016a अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् 3017016c त्वया सह चरिष्यामि निःसपत्ना यथासुखम् 3017017a इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा 3017017c अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव 3017018a तां मृत्युपाशप्रतिमामापतन्तीं महाबलः 3017018c निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् 3017019a क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन 3017019c न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम् 3017020a इमां विरूपामसतीमतिमत्तां महोदरीम् 3017020c राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि 3017021a इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः 3017021c उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः 3017022a निकृत्तकर्णनासा तु विस्वरं सा विनद्य च 3017022c यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् 3017023a सा विरूपा महाघोरा राक्षसी शोणितोक्षिता 3017023c ननाद विविधान्नादान्यथा प्रावृषि तोयदः 3017024a सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना 3017024c प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् 3017025a ततस्तु सा राक्षससंघसंवृतं; खरं जनस्थानगतं विरूपिता 3017025c उपेत्य तं भ्रातरमुग्रतेजसं; पपात भूमौ गगनाद्यथाशनिः 3017026a ततः सभार्यं भयमोहमूर्छिता; सलक्ष्मणं राघवमागतं वनम् 3017026c विरूपणं चात्मनि शोणितोक्षिता; शशंस सर्वं भगिनी खरस्य सा 3018001a तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् 3018001c भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः 3018002a बलविक्रमसंपन्ना कामगा कामरूपिणी 3018002c इमामवस्थां नीता त्वं केनान्तकसमा गता 3018003a देवगन्धर्वभूतानामृषीणां च महात्मनाम् 3018003c कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह 3018004a न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् 3018004c अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् 3018005a अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः 3018005c सलिले क्षीरमासक्तं निष्पिबन्निव सारसः 3018006a निहतस्य मया संख्ये शरसंकृत्तमर्मणः 3018006c सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति 3018007a कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः 3018007c प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे 3018008a तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः 3018008c मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे 3018009a उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि 3018009c येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता 3018010a इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः 3018010c ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् 3018011a तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ 3018011c पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ 3018012a गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ 3018012c देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे 3018013a तरुणी रूपसंपन्ना सर्वाभरणभूषिता 3018013c दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा 3018014a ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् 3018014c इमामवस्थां नीताहं यथानाथासती तथा 3018015a तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् 3018015c सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि 3018016a एष मे प्रथमः कामः कृतस्तात त्वया भवेत् 3018016c तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे 3018017a इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् 3018017c व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् 3018018a मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ 3018018c प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह 3018019a तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ 3018019c इयं च रुधिरं तेषां भगिनी मम पास्यति 3018020a मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः 3018020c शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा 3018021a इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश 3018021c तत्र जग्मुस्तया सार्धं घना वातेरिता यथा 3019001a ततः शूर्पणखा घोरा राघवाश्रममागता 3019001c रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया 3019002a ते रामं पर्णशालायामुपविष्टं महाबलम् 3019002c ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च 3019003a तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् 3019003c अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं 3019004a मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः 3019004c इमानस्या वधिष्यामि पदवीमागतानिह 3019005a वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः 3019005c तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् 3019006a राघवोऽपि महच्चापं चामीकरविभूषितम् 3019006c चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् 3019007a पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ 3019007c प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् 3019008a फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ 3019008c वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ 3019009a युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने 3019009c ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः 3019010a तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ 3019010c यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः 3019011a तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश 3019011c ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः 3019012a संरक्तनयना घोरा रामं रक्तान्तलोचनम् 3019012c परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् 3019013a क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः 3019013c त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि 3019014a का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि 3019014c अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे 3019015a एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः 3019015c प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् 3019016a इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश 3019016c उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः 3019016e चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् 3019017a तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश 3019017c तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः 3019018a ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान् 3019018c जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् 3019019a गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् 3019019c मुमोच राघवो बाणान्वज्रानिव शतक्रतुः 3019020a रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः 3019020c अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः 3019021a ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः 3019021c विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः 3019022a ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः 3019022c निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः 3019023a तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता 3019023c परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम् 3019024a सा नदन्ती महानादं जवाच्छूर्पणखा पुनः 3019024c उपगम्य खरं सा तु किंचित्संशुष्क शोणिता 3019024e पपात पुनरेवार्ता सनिर्यासेव वल्लरी 3019025a निपातितान्प्रेक्ष्य रणे तु राक्षसा;न्प्रधाविता शूर्पणखा पुनस्ततः 3019025c वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा 3020001a स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः 3020001c उवाच व्यक्तता वाचा तामनर्थार्थमागताम् 3020002a मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः 3020002c त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः 3020003a भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः 3020003c घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम 3020004a किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः 3020004c हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ 3020005a अनाथवद्विलपसि किं नु नाथे मयि स्थिते 3020005c उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह 3020006a इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता 3020006c विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् 3020007a प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश 3020007c निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम् 3020008a ते तु रामेण सामर्षाः शूलपट्टिशपाणयः 3020008c समरे निहताः सर्वे सायकैर्मर्मभेदिभिः 3020009a तान्भूमौ पतितान्दृष्ट्वा क्षणेनैव महाबलान् 3020009c रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम 3020010a सास्मि भीता समुद्विग्ना विषण्णा च निशाचर 3020010c शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी 3020011a विषादनक्राध्युषिते परित्रासोर्मिमालिनि 3020011c किं मां न त्रायसे मग्नां विपुले शोकसागरे 3020012a एते च निहता भूमौ रामेण निशितैः शरैः 3020012c ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः 3020013a मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च 3020013c रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर 3020013e दण्डकारण्यनिलयं जहि राक्षसकण्टकम् 3020014a यदि रामं ममामित्रमद्य त्वं न वधिष्यसि 3020014c तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा 3020015a बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे 3020015c स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे 3020016a शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः 3020016c मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ 3020017a अपयाहि जनस्थानात्त्वरितः सहबान्धवः 3020017c निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह 3020018a रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि 3020018c स हि तेजःसमायुक्तो रामो दशरथात्मजः 3020018e भ्राता चास्य महावीर्यो येन चास्मि विरूपिता 3021001a एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा 3021001c उवाच रक्षसां मध्ये खरः खरतरं वचः 3021002a तवापमानप्रभवः क्रोधोऽयमतुलो मम 3021002c न शक्यते धारयितुं लवणाम्भ इवोत्थितम् 3021003a न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् 3021003c आत्मा दुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति 3021004a बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम् 3021004c अहं रामः सह भ्रात्रा नयामि यमसादनम् 3021005a परश्वधहतस्याद्य मन्दप्राणस्य भूतले 3021005c रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि 3021006a सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम् 3021006c प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम् 3021007a तया परुषितः पूर्वं पुनरेव प्रशंसितः 3021007c अब्रवीद्दूषणं नाम खरः सेनापतिं तदा 3021008a चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् 3021008c रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम् 3021009a नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् 3021009c लोकसिंहाविहाराणां बलिनामुग्रतेजसाम् 3021010a तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् 3021010c सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय 3021011a उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च 3021011c शरांश्च चित्रान्खड्गांश्च शक्तीश्च विविधाः शिताः 3021012a अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् 3021012c वधार्थं दुर्विनीतस्य रामस्य रणकोविदः 3021013a इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् 3021013c सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः 3021014a तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् 3021014c हेमचक्रमसंबाधं वैदूर्यमय कूबरम् 3021015a मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः 3021015c माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम् 3021016a ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् 3021016c सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः 3021017a निशाम्य तं रथगतं राक्षसा भीमविक्रमाः 3021017c तस्थुः संपरिवार्यैनं दूषणं च महाबलम् 3021018a खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान् 3021018c निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान् 3021019a ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम् 3021019c निर्जगाम जनस्थानान्महानादं महाजवम् 3021020a मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः 3021020c खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः 3021021a शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैः 3021021c गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः 3021022a राक्षसानां सुघोराणां सहस्राणि चतुर्दश 3021022c निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् 3021023a तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान् 3021023c खरस्यापि रथः किंचिज्जगाम तदनन्तरम् 3021024a ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् 3021024c खरस्य मतमाज्ञाय सारथिः समचोदयत् 3021025a स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः 3021025c शब्देनापूरयामास दिशश्च प्रतिशस्तथा 3021026a प्रवृद्धमन्युस्तु खरः खरस्वनो; रिपोर्वधार्थं त्वरितो यथान्तकः 3021026c अचूचुदत्सारथिमुन्नदन्पुन;र्महाबलो मेघ इवाश्मवर्षवान् 3022001a तत्प्रयातं बलं घोरमशिवं शोणितोदकम् 3022001c अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः 3022002a निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः 3022002c समे पुष्पचिते देशे राजमार्गे यदृच्छया 3022003a श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् 3022003c अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् 3022004a ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् 3022004c समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः 3022005a जनस्थानसमीपे च समाक्रम्य खरस्वनाः 3022005c विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः 3022006a व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम् 3022006c अशिवा यातु दाहानां शिवा घोरा महास्वनाः 3022007a प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः 3022007c आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः 3022008a बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् 3022008c दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे 3022009a क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ 3022009c खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः 3022010a नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः 3022010c नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः 3022011a कबन्धः परिघाभासो दृश्यते भास्करान्तिके 3022011c जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः 3022012a प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः 3022012c उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः 3022013a संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः 3022013c तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः 3022014a उद्धूतश्च विना वातं रेणुर्जलधरारुणः 3022014c वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः 3022015a उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः 3022015c प्रचचाल मही चापि सशैलवनकानना 3022016a खरस्य च रथस्थस्य नर्दमानस्य धीमतः 3022016c प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत 3022017a सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः 3022017c ललाटे च रुजा जाता न च मोहान्न्यवर्तत 3022018a तान्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् 3022018c अब्रवीद्राक्षसान्सर्वान्प्रहसन्स खरस्तदा 3022019a महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् 3022019c न चिन्तयाम्यहं वीर्याद्बलवान्दुर्बलानिव 3022020a तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् 3022020c मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् 3022021a राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् 3022021c अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे 3022022a सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः 3022022c यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः 3022023a न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः 3022023c युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् 3022024a देवराजमपि क्रुद्धो मत्तैरावतयायिनम् 3022024c वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ 3022025a सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः 3022025c प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता 3022026a समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः 3022026c ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः 3022027a समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः 3022027c स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः 3022028a जयतां राघवो युद्धे पौलस्त्यान्रजनीचरान् 3022028c चक्रा हस्तो यथा युद्धे सर्वानसुरपुंगवान् 3022029a एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः 3022029c ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् 3022030a रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः 3022030c तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः 3022031a श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः 3022031c दुर्जयः करवीराक्षः परुषः कालकार्मुकः 3022032a मेघमाली महामाली सर्पास्यो रुधिराशनः 3022032c द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् 3022033a महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा 3022033c चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः 3022034a सा भीमवेगा समराभिकामा; सुदारुणा राक्षसवीर सेना 3022034c तौ राजपुत्रौ सहसाभ्युपेता; मालाग्रहाणामिव चन्द्रसूर्यौ 3023001a आश्रमं प्रति याते तु खरे खरपराक्रमे 3023001c तानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श ह 3023002a तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान् 3023002c प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् 3023003a इमान्पश्य महाबाहो सर्वभूतापहारिणः 3023003c समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् 3023004a अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् 3023004c व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः 3023005a सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः 3023005c रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण 3023006a यादृशा इह कूजन्ति पक्षिणो वनचारिणः 3023006c अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च 3023007a संप्रहारस्तु सुमहान्भविष्यति न संशयः 3023007c अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः 3023008a संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् 3023008c सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते 3023009a उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः 3023009c निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः 3023010a अनागतविधानं तु कर्तव्यं शुभमिच्छता 3023010c आपदं शङ्कमानेन पुरुषेण विपश्चिता 3023011a तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः 3023011c गुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम् 3023012a प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया 3023012c शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् 3023013a एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया 3023013c शरानादाय चापं च गुहां दुर्गां समाश्रयत् 3023014a तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया 3023014c हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् 3023015a सा तेनाग्निनिकाशेन कवचेन विभूषितः 3023015c बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः 3023016a स चापमुद्यम्य महच्छरानादाय वीर्यवान् 3023016c बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः 3023017a ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः 3023017c ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम् 3023018a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3023018c एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति 3023019a ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् 3023019c अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत 3023020a सिंहनादं विसृजतामन्योन्यमभिगर्जताम् 3023020c चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः 3023021a विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् 3023021c तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् 3023022a तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः 3023022c दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् 3023023a तत्त्वनीकं महावेगं रामं समुपसर्पत 3023023c घृतनानाप्रहरणं गम्भीरं सागरोपमम् 3023024a रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः 3023024c ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् 3023025a वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् 3023025c क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् 3023026a दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् 3023026c तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः 3023027a तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा 3023027c दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः 3024001a अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् 3024001c ददर्शाश्रममागम्य खरः सह पुरःसरैः 3024002a तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् 3024002c रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् 3024003a स खरस्याज्ञया सूतस्तुरगान्समचोदयत् 3024003c यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः 3024004a तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः 3024004c नर्दमाना महानादं सचिवाः पर्यवारयन् 3024005a स तेषां यातुधानानां मध्ये रतो गतः खरः 3024005c बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः 3024006a ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः 3024006c रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् 3024007a मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः 3024007c राक्षसाः समरे रामं निजघ्नू रोषतत्पराः 3024008a ते बलाहकसंकाशा महानादा महाबलाः 3024008c अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः 3024009a ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाः 3024009c शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः 3024010a स तैः परिवृतो घोरै राघवो रक्षसां गणैः 3024010c तिथिष्विव महादेवो वृतः पारिषदां गणैः 3024011a तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः 3024011c प्रतिजग्राह विशिखैर्नद्योघानिव सागरः 3024012a स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे 3024012c रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः 3024013a स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः 3024013c बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः 3024014a विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः 3024014c एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् 3024015a ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः 3024015c ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः 3024016a दुरावारान्दुर्विषहान्कालपाशोपमान्रणे 3024016c मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् 3024017a ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया 3024017c आददू रक्षसां प्राणान्पाशाः कालकृता इव 3024018a भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः 3024018c अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः 3024019a असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् 3024019c विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः 3024020a तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च 3024020c बहून्सहस्ताभरणानूरून्करिकरोपमान् 3024021a ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः 3024021c भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः 3024022a तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः 3024022c रामेण न सुखं लेभे शुष्कं वनमिवाग्निना 3024023a केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान् 3024023c चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः 3024024a तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः 3024024c जहार समरे प्राणांश्चिच्छेद च शिरोधरान् 3024025a अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः 3024025c खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः 3024026a तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः 3024026c अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः 3024027a निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः 3024027c राममेवाभ्यधावन्त सालतालशिलायुधाः 3024028a तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् 3024028c रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् 3025001a तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् 3025001c प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः 3025002a प्रतिगृह्य च तद्वरं निमीलित इवर्षभः 3025002c रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् 3025003a ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा 3025003c शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम् 3025004a ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः 3025004c जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् 3025005a वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् 3025005c आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम् 3025006a वज्राशनिसमस्पर्शं परगोपुरदारणम् 3025006c तं महोरगसंकाशं प्रगृह्य परिघं रणे 3025006e दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः 3025007a तस्याभिपतमानस्य दूषणस्य स राघवः 3025007c द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ 3025008a भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि 3025008c परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः 3025009a स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः 3025009c विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः 3025010a दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे 3025010c साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् 3025011a एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः 3025011c संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः 3025011e महाकपालः स्थूलाक्षः प्रमाथी च महाबलः 3025012a महाकपालो विपुलं शूलमुद्यम्य राक्षसः 3025012c स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् 3025013a दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः 3025013c तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव 3025014a महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः 3025014c असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् 3025015a स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः 3025015c स पपात हतो भूमौ विटपीव महाद्रुमः 3025016a ततः पावकसंकाशैर्हेमवज्रविभूषितैः 3025016c जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः 3025017a ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः 3025017c निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् 3025018a रक्षसां तु शतं रामः शतेनैकेन कर्णिना 3025018c सहस्रं च सहस्रेण जघान रणमूर्धनि 3025019a तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः 3025019c निपेतुः शोणितादिग्धा धरण्यां रजनीचराः 3025020a तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः 3025020c आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव 3025021a क्षणेन तु महाघोरं वनं निहतराक्षसं 3025021c बभूव निरय प्रख्यं मांसशोणितकर्दमम् 3025022a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3025022c हतान्येकेन रामेण मानुषेण पदातिना 3025023a तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः 3025023c राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः 3025024a ततस्तु तद्भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा 3025024c रथेन रामं महता खरस्ततः; समाससादेन्द्र इवोद्यताशनिः 3026001a खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः 3026001c राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् 3026002a मां नियोजय विक्रान्त संनिवर्तस्व साहसात् 3026002c पश्य रामं महाबाहुं संयुगे विनिपातितम् 3026003a प्रतिजानामि ते सत्यमायुधं चाहमालभे 3026003c यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् 3026004a अहं वास्य रणे मृत्युरेष वा समरे मम 3026004c विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव 3026005a प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि 3026005c मयि वा निहते रामं संयुगायोपयास्यसि 3026006a खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः 3026006c गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ 3026007a त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता 3026007c अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः 3026008a शरधारा समूहान्स महामेघ इवोत्सृजन् 3026008c व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः 3026009a आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः 3026009c धनुषा प्रतिजग्राह विधुन्वन्सायकाञ्शितान् 3026010a स संप्रहारस्तुमुलो राम त्रिशिरसोर्महान् 3026010c बभूवातीव बलिनोः सिंहकुञ्जरयोरिव 3026011a ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः 3026011c अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् 3026012a अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् 3026012c पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः 3026012e ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् 3026013a एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् 3026013c त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश 3026014a चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः 3026014c न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः 3026015a अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् 3026015c रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् 3026016a ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् 3026016c बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः 3026017a सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः 3026017c शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः 3026018a स भूमौ शोणितोद्गारी रामबाणाभिपीडितः 3026018c न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः 3026019a हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः 3026019c द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव 3026020a तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् 3026020c राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा 3027001a निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह 3027001c खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् 3027002a स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् 3027002c हतमेकेन रामेण दूषणस्त्रिशिरा अपि 3027003a तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः 3027003c आससाद खरो रामं नमुचिर्वासवं यथा 3027004a विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् 3027004c खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव 3027005a ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् 3027005c चचार समरे मार्गाञ्शरै रथगतः खरः 3027006a स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः 3027006c पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः 3027007a स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः 3027007c नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः 3027008a तद्बभूव शितैर्बाणैः खररामविसर्जितैः 3027008c पर्याकाशमनाकाशं सर्वतः शरसंकुलम् 3027009a शरजालावृतः सूर्यो न तदा स्म प्रकाशते 3027009c अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः 3027010a ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः 3027010c आजघान रणे रामं तोत्रैरिव महाद्विपम् 3027011a तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् 3027011c ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् 3027012a तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् 3027012c दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा 3027013a ततः सूर्यनिकाशेन रथेन महता खरः 3027013c आससाद रणे रामं पतङ्ग इव पावकम् 3027014a ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः 3027014c खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् 3027015a स पुनस्त्वपरान्सप्त शरानादाय वर्मणि 3027015c निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् 3027016a ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः 3027016c पपात कवचं भूमौ रामस्यादित्यवर्चसः 3027017a स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः 3027017c रराज समरे रामो विधूमोऽग्निरिव ज्वलन् 3027018a ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः 3027018c चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः 3027019a सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा 3027019c वरं तद्धनुरुद्यम्य खरं समभिधावत 3027020a ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः 3027020c चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् 3027021a स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः 3027021c जगाम धरणीं सूर्यो देवतानामिवाज्ञया 3027022a तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः 3027022c विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः 3027023a स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः 3027023c विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् 3027024a स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे 3027024c मुमोच परमेष्वासः षट्शरानभिलक्षितान् 3027025a शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् 3027025c त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह 3027026a ततः पश्चान्महातेजा नाराचान्भास्करोपमान् 3027026c जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् 3027027a ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् 3027027c षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः 3027028a त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः 3027028c द्वादशेन तु बाणेन खरस्य सशरं धनुः 3027028e छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव 3027028g त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् 3027029a प्रभग्नधन्वा विरथो हताश्वो हतसारथिः 3027029c गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा 3027030a तत्कर्म रामस्य महारथस्य; समेत्य देवाश्च महर्षयश्च 3027030c अपूजयन्प्राञ्जलयः प्रहृष्टा;स्तदा विमानाग्रगताः समेताः 3028001a खरं तु विरथं रामो गदापाणिमवस्थितम् 3028001c मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् 3028002a गजाश्वरथसंबाधे बले महति तिष्ठता 3028002c कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् 3028003a उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् 3028003c त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति 3028004a कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर 3028004c तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् 3028005a लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते 3028005c भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव 3028006a वसतो दण्डकारण्ये तापसान्धर्मचारिणः 3028006c किं नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस 3028007a न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः 3028007c ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः 3028008a अवश्यं लभते कर्ता फलं पापस्य कर्मणः 3028008c घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् 3028009a नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् 3028009c सविषाणामिवान्नानां भुक्तानां क्षणदाचर 3028010a पापमाच्चरतां घोरं लोकस्याप्रियमिच्छताम् 3028010c अहमासादितो राजा प्राणान्हन्तुं निशाचर 3028011a अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः 3028011c विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः 3028012a ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः 3028012c तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि 3028013a अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः 3028013c निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा 3028014a प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम 3028014c अद्य ते पातयिष्यामि शिरस्तालफलं यथा 3028015a एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः 3028015c प्रत्युवाच ततो रामं प्रहसन्क्रोधमूर्छितः 3028016a प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज 3028016c आत्मना कथमात्मानमप्रशस्यं प्रशंससि 3028017a विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः 3028017c कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः 3028018a प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः 3028018c निरर्थकं विकत्थन्ते यथा राम विकत्थसे 3028019a कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति 3028019c मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् 3028020a सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् 3028020c सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना 3028021a न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् 3028021c धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् 3028022a पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव 3028022c त्रयाणामपि लोकानां पाशहस्त इवान्तकः 3028023a कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् 3028023c अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् 3028024a चतुर्दश सहस्राणि राक्षसानां हतानि ते 3028024c त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम् 3028025a इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम् 3028025c खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा 3028026a खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा 3028026c भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः 3028027a तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा 3028027c अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः 3028028a सा विशीर्णा शरैर्भिन्ना पपात धरणीतले 3028028c गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता 3029001a भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः 3029001c स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् 3029002a एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम 3029002c शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम् 3029003a एषा बाणविनिर्भिन्ना गदा भूमितलं गता 3029003c अभिधानप्रगल्भस्य तव प्रत्ययघातिनी 3029004a यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् 3029004c राक्षसानां करोमीति मिथ्या तदपि ते वचः 3029005a नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः 3029005c प्राणानपहरिष्यामि गरुत्मानमृतं यथा 3029006a अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम् 3029006c विदारितस्य मद्बाणैर्मही पास्यति शोणितम् 3029007a पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः 3029007c स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव 3029008a प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने 3029008c भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे 3029009a जनस्थाने हतस्थाने तव राक्षसमच्छरैः 3029009c निर्भया विचरिष्यन्ति सर्वतो मुनयो वने 3029010a अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः 3029010c बाष्पार्द्रवदना दीना भयादन्यभयावहाः 3029011a अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचर 3029011c अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः 3029012a नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक 3029012c त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः 3029013a तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे 3029013c खरो निर्भर्त्सयामास रोषात्खरतर स्वनः 3029014a दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः 3029014c वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे 3029015a कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये 3029015c कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः 3029016a एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः 3029016c स ददर्श महासालमविदूरे निशाचरः 3029017a रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् 3029017c स तमुत्पाटयामास संदृश्य दशनच्छदम् 3029018a तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः 3029018c राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् 3029019a तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् 3029019c रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् 3029020a जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः 3029020c निर्बिभेद सहस्रेण बाणानां समरे खरम् 3029021a तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् 3029021c गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः 3029022a विह्वलः स कृतो बाणैः खरो रामेण संयुगे 3029022c मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् 3029023a तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् 3029023c अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः 3029024a ततः पावकसंकाशं बधाय समरे शरम् 3029024c खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् 3029025a स तद्दत्तं मघवता सुरराजेन धीमता 3029025c संदधे च स धर्मात्मा मुमोच च खरं प्रति 3029026a स विमुक्तो महाबाणो निर्घातसमनिःस्वनः 3029026c रामेण धनुरुद्यम्य खरस्योरसि चापतत् 3029027a स पपात खरो भूमौ दह्यमानः शराग्निना 3029027c रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः 3029028a स वृत्र इव वज्रेण फेनेन नमुचिर्यथा 3029028c बलो वेन्द्राशनिहतो निपपात हतः खरः 3029029a ततो राजर्षयः सर्वे संगताः परमर्षयः 3029029c सभाज्य मुदिता राममिदं वचनमब्रुवन् 3029030a एतदर्थं महातेजा महेन्द्रः पाकशासनः 3029030c शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः 3029031a आनीतस्त्वमिमं देशमुपायेन महर्षिभिः 3029031c एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् 3029032a तदिदं नः कृतं कार्यं त्वया दशरथात्मज 3029032c सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः 3029033a एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया 3029033c गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी 3029034a ततो रामस्तु विजयी पूज्यमानो महर्षिभिः 3029034c प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः 3029035a तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् 3029035c बभूव हृष्टा वैदेही भर्तारं परिषस्वजे 3030001a ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश 3030001c हतान्येकेन रामेण रक्षसां भीमकर्मणाम् 3030002a दूषणं च खरं चैव हतं त्रिशिरसं रणे 3030002c दृष्ट्वा पुनर्महानादं ननाद जलदोपमा 3030003a सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् 3030003c जगाम परमौद्विग्ना लङ्कां रावणपालिताम् 3030004a स ददर्श विमानाग्रे रावणं दीप्ततेजसं 3030004c उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् 3030005a आसीनं सूर्यसंकाशे काञ्चने परमासने 3030005c रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् 3030006a देवगन्धर्वभूतानामृषीणां च महात्मनाम् 3030006c अजेयं समरे शूरं व्यात्ताननमिवान्तकम् 3030007a देवासुरविमर्देषु वज्राशनिकृतव्रणम् 3030007c ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं 3030008a विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् 3030008c विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् 3030009a स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम् 3030009c सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् 3030010a विष्णुचक्रनिपातैश्च शतशो देवसंयुगे 3030010c आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा 3030011a अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् 3030011c क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् 3030012a उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् 3030012c सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा 3030013a पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् 3030013c तक्षकस्य प्रियां भार्यां पराजित्य जहार यः 3030014a कैलासं पर्वतं गत्वा विजित्य नरवाहनम् 3030014c विमानं पुष्पकं तस्य कामगं वै जहार यः 3030015a वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् 3030015c विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् 3030016a चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ 3030016c निवारयति बाहुभ्यां यः शैलशिखरोपमः 3030017a दशवर्षसहस्राणि तपस्तप्त्वा महावने 3030017c पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः 3030018a देवदानवगन्धर्वपिशाचपतगोरगैः 3030018c अभयं यस्य संग्रामे मृत्युतो मानुषादृते 3030019a मन्त्ररभितुष्टं पुण्यमध्वरेषु द्विजातिभिः 3030019c हविर्धानेषु यः सोममुपहन्ति महाबलः 3030020a आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् 3030020c कर्कशं निरनुक्रोशं प्रजानामहिते रतम् 3030020e रावणं सर्वभूतानां सर्वलोकभयावहम् 3030021a राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् 3030021c तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् 3030021e राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् 3030022a तमब्रवीद्दीप्तविशाललोचनं; प्रदर्शयित्वा भयमोहमूर्छिता 3030022c सुदारुणं वाक्यमभीतचारिणी; महात्मना शूर्पणखा विरूपिता 3031001a ततः शूर्पणखा दीना रावणं लोकरावणम् 3031001c अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् 3031002a प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः 3031002c समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे 3031003a सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् 3031003c लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः 3031004a स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः 3031004c स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति 3031005a अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् 3031005c वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः 3031006a ये न रक्षन्ति विषयमस्वाधीना नराधिपः 3031006c ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा 3031007a आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः 3031007c अयुक्तचारश्चपलः कथं राजा भविष्यसि 3031008a येषां चारश्च कोशश्च नयश्च जयतां वर 3031008c अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः 3031009a यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः 3031009c चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः 3031010a अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् 3031010c स्वजनं च जनस्थानं हतं यो नावबुध्यसे 3031011a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3031011c हतान्येकेन रामेण खरश्च सहदूषणः 3031012a ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः 3031012c धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा 3031013a त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण 3031013c विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे 3031014a तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् 3031014c व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् 3031015a अतिमानिनमग्राह्यमात्मसंभावितं नरम् 3031015c क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् 3031016a नानुतिष्ठति कार्याणि भयेषु न बिभेति च 3031016c क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति 3031017a शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः 3031017c न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः 3031018a उपभुक्तं यथा वासः स्रजो वा मृदिता यथा 3031018c एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः 3031019a अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः 3031019c कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् 3031020a नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा 3031020c व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः 3031021a त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः 3031021c यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः 3031022a परावमन्ता विषयेषु संगतो; नदेश कालप्रविभाग तत्त्ववित् 3031022c अयुक्तबुद्धिर्गुणदोषनिश्चये; विपन्नराज्यो न चिराद्विपत्स्यते 3031023a इति स्वदोषान्परिकीर्तितांस्तया; समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः 3031023c धनेन दर्पेण बलेन चान्वितो; विचिन्तयामास चिरं स रावणः 3032001a ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः 3032001c अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः 3032002a कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः 3032002c किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम् 3032003a आयुधं किं च रामस्य निहता येन राक्षसाः 3032003c खरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा 3032004a इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता 3032004c ततो रामं यथान्यायमाख्यातुमुपचक्रमे 3032005a दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः 3032005c कन्दर्पसमरूपश्च रामो दशरथात्मजः 3032006a शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् 3032006c दीप्तान्क्षिपति नाराचान्सर्पानिव महाविषान् 3032007a नाददानं शरान्घोरान्न मुञ्चन्तं महाबलम् 3032007c न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे 3032008a हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः 3032008c इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः 3032009a रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश 3032009c निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना 3032010a अर्धाधिकमुहूर्तेन खरश्च सहदूषणः 3032010c ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः 3032011a एका कथंचिन्मुक्ताहं परिभूय महात्मना 3032011c स्त्रीवधं शङ्कमानेन रामेण विदितात्मना 3032012a भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः 3032012c अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् 3032013a अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली 3032013c रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः 3032014a रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी 3032014c सीता नाम वरारोहा वैदेही तनुमध्यमा 3032015a नैव देवी न गन्धर्वा न यक्षी न च किंनरी 3032015c तथारूपा मया नारी दृष्टपूर्वा महीतले 3032016a यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् 3032016c अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् 3032017a सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि 3032017c तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः 3032018a तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् 3032018c भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् 3032019a तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् 3032019c मन्मथस्य शराणां च त्वं विधेयो भविष्यसि 3032020a यदि तस्यामभिप्रायो भार्यार्थे तव जायते 3032020c शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः 3032021a कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर 3032021c वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः 3032022a तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् 3032022c हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे 3032023a रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर 3032023c क्रियतां निर्विशङ्केन वचनं मम राघव 3032024a निशम्य रामेण शरैरजिह्मगै;र्हताञ्जनस्थानगतान्निशाचरान् 3032024c खरं च बुद्ध्वा निहतं च दूषणं; त्वमद्य कृत्यं प्रतिपत्तुमर्हसि 3033001a ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् 3033001c सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह 3033002a तत्कार्यमनुगम्याथ यथावदुपलभ्य च 3033002c दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3033003a इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः 3033003c स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह 3033004a यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः 3033004c सूतं संचोदयामास रथः संयुज्यतामिति 3033005a एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः 3033005c रथं संयोजयामास तस्याभिमतमुत्तमम् 3033006a काञ्चनं रथमास्थाय कामगं रत्नभूषितम् 3033006c पिशाचवदनैर्युक्तं खरैः कनकभूषणैः 3033007a मेघप्रतिमनादेन स तेन धनदानुजः 3033007c राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् 3033008a स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः 3033008c स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः 3033009a दशास्यो विंशतिभुजो दर्शनीय परिच्छदः 3033009c त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् 3033010a कामगं रथमास्थाय शुशुभे राक्षसाधिपः 3033010c विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे 3033011a सशैलं सागरानूपं वीर्यवानवलोकयन् 3033011c नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः 3033012a शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः 3033012c विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् 3033013a कदल्याढकिसंबाधं नालिकेरोपशोभितम् 3033013c सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः 3033014a अत्यन्तनियताहारैः शोभितं परमर्षिभिः 3033014c नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः 3033015a जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम् 3033015c आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः 3033016a दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् 3033016c क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः 3033017a सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् 3033017c देवदानवसंघैश्च चरितं त्वमृताशिभिः 3033018a हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम् 3033018c वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा 3033019a पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च 3033019c तूर्यगीताभिजुष्टानि विमानानि समन्ततः 3033020a तपसा जितलोकानां कामगान्यभिसंपतन् 3033020c गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः 3033021a निर्यासरसमूलानां चन्दनानां सहस्रशः 3033021c वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च 3033022a अगरूणां च मुख्यानां वनान्युपवनानि च 3033022c तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् 3033023a पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च 3033023c मुक्तानां च समूहानि शुष्यमाणानि तीरतः 3033024a शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा 3033024c काञ्चनानि च शैलानि राजतानि च सर्वशः 3033025a प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च 3033025c धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च 3033026a हस्त्यश्वरथगाढानि नगराण्यवलोकयन् 3033026c तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् 3033027a अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् 3033027c तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् 3033028a समन्ताद्यस्य ताः शाखाः शतयोजनमायताः 3033028c यस्य हस्तिनमादाय महाकायं च कच्चपम् 3033028e भक्षार्थं गरुडः शाखामाजगाम महाबलः 3033029a तस्य तां सहसा शाखां भारेण पतगोत्तमः 3033029c सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः 3033030a तत्र वैखानसा माषा वालखिल्या मरीचिपाः 3033030c अजा बभूवुर्धूम्राश्च संगताः परमर्षयः 3033031a तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् 3033031c जगामादाय वेगेन तौ चोभौ गजकच्छपौ 3033032a एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् 3033032c निषादविषयं हत्वा शाखया पतगोत्तमः 3033032e प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् 3033033a स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः 3033033c अमृतानयनार्थं वै चकार मतिमान्मतिम् 3033034a अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् 3033034c महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः 3033035a तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् 3033035c नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः 3033036a तं तु गत्वा परं पारं समुद्रस्य नदीपतेः 3033036c ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे 3033037a तत्र कृष्णाजिनधरं जटावल्कलधारिणम् 3033037c ददर्श नियताहारं मारीचं नाम राक्षसं 3033038a स रावणः समागम्य विधिवत्तेन रक्षसा 3033038c ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः 3034001a मारीच श्रूयतां तात वचनं मम भाषतः 3034001c आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः 3034002a जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम 3034002c दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे 3034003a त्रिशिराश्च महातेजा राक्षसः पिशिताशनः 3034003c अन्ये च बहवः शूरा लब्धलक्षा निशाचराः 3034004a वसन्ति मन्नियोगेन अधिवासं च राक्षसः 3034004c बाधमाना महारण्ये मुनीन्ये धर्मचारिणः 3034005a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3034005c शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् 3034006a ते त्विदानीं जनस्थाने वसमाना महाबलाः 3034006c संगताः परमायत्ता रामेण सह संयुगे 3034007a तेन संजातरोषेण रामेण रणमूर्धनि 3034007c अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः 3034008a चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् 3034008c निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना 3034009a खरश्च निहतः संख्ये दूषणश्च निपातितः 3034009c हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः 3034010a पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः 3034010c स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः 3034011a अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः 3034011c त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः 3034012a येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् 3034012c कर्णनासापहारेण भगिनी मे विरूपिता 3034013a तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम् 3034013c आनयिष्यामि विक्रम्य सहायस्तत्र मे भव 3034014a त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल 3034014c भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये 3034015a तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस 3034015c वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव 3034016a एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर 3034016c शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम 3034017a सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3034017c आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर 3034018a त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् 3034018c गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति 3034019a ततस्तयोरपाये तु शून्ये सीतां यथासुखम् 3034019c निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव 3034020a ततः पश्चात्सुखं रामे भार्याहरणकर्शिते 3034020c विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना 3034021a तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः 3034021c शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च 3034022a स रावणं त्रस्तविषण्णचेता; महावने रामपराक्रमज्ञः 3034022c कृताञ्जलिस्तत्त्वमुवाच वाक्यं; हितं च तस्मै हितमात्मनश्च 3035001a तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः 3035001c प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् 3035002a सुलभाः पुरुषा राजन्सततं प्रियवादिनः 3035002c अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः 3035003a न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् 3035003c अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् 3035004a अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् 3035004c अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसं 3035005a अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा 3035005c अपि सीता निमित्तं च न भवेद्व्यसनं महत् 3035006a अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् 3035006c न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा 3035007a त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः 3035007c आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः 3035008a न च पित्रा परित्यक्तो नामर्यादः कथंचन 3035008c न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः 3035009a न च धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः 3035009c न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः 3035010a वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् 3035010c करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् 3035011a कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च 3035011c हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् 3035012a न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः 3035012c अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि 3035013a रामो विग्रहवान्धर्मः साधुः सत्यपराक्रमः 3035013c राजा सर्वस्य लोकस्य देवानामिव वासवः 3035014a कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा 3035014c इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः 3035015a शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे 3035015c रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि 3035016a धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् 3035016c चापबाणधरं वीरं शत्रुसेनापहारिणम् 3035017a राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः 3035017c नात्यासादयितुं तात रामान्तकमिहार्हसि 3035018a अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा 3035018c न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने 3035019a प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता 3035019c दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा 3035020a किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप 3035020c दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् 3035020e जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् 3035021a स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः 3035021c मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः 3035022a दोषाणां च गुणानां च संप्रधार्य बलाबलम् 3035022c आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः 3035022e हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि 3035023a अहं तु मन्ये तव न क्षमं रणे; समागमं कोसलराजसूनुना 3035023c इदं हि भूयः शृणु वाक्यमुत्तमं; क्षमं च युक्तं च निशाचराधिप 3036001a कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् 3036001c बलं नागसहस्रस्य धारयन्पर्वतोपमः 3036002a नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः 3036002c भयं लोकस्य जनयन्किरीटी परिघायुधः 3036002e व्यचरं दण्डकारण्यमृषिमांसानि भक्षयन् 3036003a विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः 3036003c स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् 3036004a अयं रक्षतु मां रामः पर्वकाले समाहितः 3036004c मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर 3036005a इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा 3036005c प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् 3036006a ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः 3036006c कामं तु मम यत्सैन्यं मया सह गमिष्यति 3036006e बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् 3036007a इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत् 3036007c रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः 3036008a बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे 3036008c गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः 3036009a इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् 3036009c जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् 3036010a तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् 3036010c बभूवावस्थितो रामश्चित्रं विस्फारयन्धनुः 3036011a अजातव्यञ्जनः श्रीमान्बालः श्यामः शुभेक्षणः 3036011c एकवस्त्रधरो धन्वी शिखी कनकमालया 3036012a शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा 3036012c अदृश्यत तदा रामो बालचन्द्र इवोदितः 3036013a ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः 3036013c बली दत्तवरो दर्पादाजगाम तदाश्रमम् 3036014a तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः 3036014c मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह 3036015a अवजानन्नहं मोहाद्बालोऽयमिति राघवम् 3036015c विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः 3036016a तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः 3036016c तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने 3036017a रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः 3036017c पातितोऽहं तदा तेन गम्भीरे सागराम्भसि 3036017e प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् 3036018a एवमस्मि तदा मुक्तः सहायास्ते निपातिताः 3036018c अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा 3036019a तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् 3036019c करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि 3036020a क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम् 3036020c रक्षसां चैव संतापमनर्थं चाहरिष्यसि 3036021a हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् 3036021c द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते 3036022a अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् 3036022c परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा 3036023a दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान् 3036023c द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान् 3036024a हृतदारान्सदारांश्च दशविद्रवतो दिशः 3036024c हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान् 3036025a शरजालपरिक्षिप्तामग्निज्वालासमावृताम् 3036025c प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम् 3036026a प्रमदानां सहस्राणि तव राजन्परिग्रहः 3036026c भव स्वदारनिरतः स्वकुलं रक्षराक्षस 3036027a मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः 3036027c यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् 3036028a निवार्यमाणः सुहृदा मया भृशं; प्रसह्य सीतां यदि धर्षयिष्यसि 3036028c गमिष्यसि क्षीणबलः सबान्धवो; यमक्षयं रामशरात्तजीवितः 3037001a एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे 3037001c इदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम् 3037002a राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः 3037002c सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् 3037003a दीप्तजिह्वो महाकायस्तीक्ष्णशृण्गो महाबलः 3037003c व्यचरन्दण्डकारण्यं मांसभक्षो महामृगः 3037004a अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण 3037004c अत्यन्तघोरो व्यचरंस्तापसांस्तान्प्रधर्षयन् 3037005a निहत्य दण्डकारण्ये तापसान्धर्मचारिणः 3037005c रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् 3037006a ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान् 3037006c तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम् 3037007a तदाहं दण्डकारण्ये विचरन्धर्मदूषकः 3037007c आसादयं तदा रामं तापसं धर्ममाश्रितम् 3037008a वैदेहीं च महाभागां लक्ष्मणं च महारथम् 3037008c तापसं नियताहारं सर्वभूतहिते रतम् 3037009a सोऽहं वनगतं रामं परिभूय महाबलम् 3037009c तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् 3037010a अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः 3037010c जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् 3037011a तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः 3037011c विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः 3037012a ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः 3037012c आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः 3037013a पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा 3037013c समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ 3037014a शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम् 3037014c इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः 3037015a वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् 3037015c गृहीतधनुषं रामं पाशहस्तमिवान्तकम् 3037016a अपि रामसहस्राणि भीतः पश्यामि रावण 3037016c रामभूतमिदं सर्वमरण्यं प्रतिभाति मे 3037017a राममेव हि पश्यामि रहिते राक्षसेश्वर 3037017c दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः 3037018a रकारादीनि नामानि रामत्रस्तस्य रावण 3037018c रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे 3037019a अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् 3037019c रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस 3037019e न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि 3037020a इदं वचो बन्धुहितार्थिना मया; यथोच्यमानं यदि नाभिपत्स्यसे 3037020c सबान्धवस्त्यक्ष्यसि जीवितं रणे; हतोऽद्य रामेण शरैरजिह्मगैः 3038001a मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः 3038001c उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् 3038002a तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः 3038002c अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः 3038003a यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते 3038003c वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे 3038004a त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे 3038004c पापशीलस्य मूर्खस्य मानुषस्य विशेषतः 3038005a यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा 3038005c स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः 3038006a अवश्यं तु मया तस्य संयुगे खरघातिनः 3038006c प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ 3038007a एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते 3038007c न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः 3038008a दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि 3038008c अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये 3038009a संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता 3038009c उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः 3038010a वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् 3038010c उपचारेण युक्तं च वक्तव्यो वसुधाधिपः 3038011a सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते 3038011c नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् 3038012a पञ्चरूपाणि राजानो धारयन्त्यमितौजसः 3038012c अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च 3038012e औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् 3038013a तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः 3038013c त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः 3038014a अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम् 3038014c गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस 3038014e अस्मिंस्तु स भवान्कृत्ये साहाय्यं कर्तुमर्हति 3038015a सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः 3038015c प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि 3038016a त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया 3038016c आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली 3038017a अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् 3038017c आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव 3038018a एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस 3038018c राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत 3038019a गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये 3038019c प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् 3038019e लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया 3038020a एतत्कार्यमवश्यं मे बलादपि करिष्यसि 3038020c राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते 3038021a आसाद्य तं जीवितसंशयस्ते; मृत्युर्ध्रुवो ह्यद्य मया विरुध्य 3038021c एतद्यथावत्परिगृह्य बुद्ध्या; यदत्र पथ्यं कुरु तत्तथा त्वम् 3039001a आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः 3039001c अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् 3039002a केनायमुपदिष्टस्ते विनाशः पापकर्मणा 3039002c सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर 3039003a कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् 3039003c केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः 3039004a शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर 3039004c इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा 3039005a केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना 3039005c यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर 3039006a वध्याः खलु न हन्यन्ते सचिवास्तव रावण 3039006c ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः 3039007a अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः 3039007c निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे 3039008a धर्ममर्थं च कामं च यशश्च जयतां वर 3039008c स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर 3039009a विपर्यये तु तत्सर्वं व्यर्थं भवति रावण 3039009c व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः 3039010a राजमूलो हि धर्मश्च जयश्च जयतां वर 3039010c तस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः 3039011a राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर 3039011c न चापि प्रतिकूलेन नाविनीतेन राक्षस 3039012a ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै 3039012c विषमेषु रथाः शीघ्रं मन्दसारथयो यथा 3039013a बहवः साधवो लोके युक्तधर्ममनुष्ठिताः 3039013c परेषामपराधेन विनष्टाः सपरिच्छदाः 3039014a स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण 3039014c रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा 3039015a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3039015c येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः 3039016a तदिदं काकतालीयं घोरमासादितं त्वया 3039016c अत्र किं शोभनं यत्त्वं ससैन्यो विनशिष्यसि 3039017a मां निहत्य तु रामोऽसौ नचिरात्त्वां वधिष्यति 3039017c अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः 3039018a दर्शनादेव रामस्य हतं मामुपधारय 3039018c आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् 3039019a आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया 3039019c नैव त्वमसि नैवाहं नैव लङ्का न राक्षसाः 3039020a निवार्यमाणस्तु मया हितैषिणा; न मृष्यसे वाक्यमिदं निशाचर 3039020c परेतकल्पा हि गतायुषो नरा; हितं न गृह्णन्ति सुहृद्भिरीरितम् 3040001a एवमुक्त्वा तु परुषं मारीचो रावणं ततः 3040001c गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः 3040002a दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा 3040002c मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे 3040003a किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि 3040003c एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर 3040004a प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः 3040004c परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् 3040005a एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् 3040005c इदानीमसि मारीचः पूर्वमन्यो निशाचरः 3040006a आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः 3040006c मया सह रथो युक्तः पिशाचवदनैः खरैः 3040007a ततो रावणमारीचौ विमानमिव तं रथम् 3040007c आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् 3040008a तथैव तत्र पश्यन्तौ पत्तनानि वनानि च 3040008c गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च 3040009a समेत्य दण्डकारण्यं राघवस्याश्रमं ततः 3040009c ददर्श सहमरीचो रावणो राक्षसाधिपः 3040010a अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् 3040010c हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् 3040011a एतद्रामाश्रमपदं दृश्यते कदलीवृतम् 3040011c क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः 3040012a स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा 3040012c मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह 3040013a मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः 3040013c रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः 3040014a किंचिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः 3040014c मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः 3040015a वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः 3040015c इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः 3040016a मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः 3040016c क्षणेन राक्षसो जातो मृगः परमशोभनः 3040017a वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् 3040017c मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः 3040018a प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् 3040018c विचरन्गच्छते सम्यक्शाद्वलानि समन्ततः 3040019a रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः 3040019c विटपीनां किसलयान्भङ्क्त्वादन्विचचार ह 3040020a कदलीगृहकं गत्वा कर्णिकारानितस्ततः 3040020c समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा 3040021a राजीवचित्रपृष्ठः स विरराज महामृगः 3040021c रामाश्रमपदाभ्याशे विचचार यथासुखम् 3040022a पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः 3040022c गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते 3040023a विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति 3040023c आश्रमद्वारमागम्य मृगयूथानि गच्छति 3040024a मृगयूथैरनुगतः पुनरेव निवर्तते 3040024c सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः 3040025a परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् 3040025c समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः 3040026a उपगम्य समाघ्राय विद्रवन्ति दिशो दश 3040026c राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः 3040027a प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् 3040027c तस्मिन्नेव ततः काले वैदेही शुभलोचना 3040028a कुसुमापचये व्यग्रा पादपानत्यवर्तत 3040028c कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा 3040029a कुसुमान्यपचिन्वन्ती चचार रुचिरानना 3040029c अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् 3040029e मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना 3040030a तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् 3040030c विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत 3040031a स च तां रामदयितां पश्यन्मायामयो मृगः 3040031c विचचार ततस्तत्र दीपयन्निव तद्वनम् 3040032a अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् 3040032c विस्मयं परमं सीता जगाम जनकात्मजा 3041001a सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती 3041001c हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् 3041002a प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी 3041002c भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् 3041003a तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ 3041003c वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् 3041004a शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् 3041004c तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् 3041005a चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने 3041005c अनेन निहता राम राजानः कामरूपिणा 3041006a अस्य मायाविदो मायामृगरूपमिदं कृतम् 3041006c भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् 3041007a मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव 3041007c जगत्यां जगतीनाथ मायैषा हि न संशयः 3041008a एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता 3041008c उवाच सीता संहृष्टा छद्मना हृतचेतना 3041009a आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः 3041009c आनयैनं महाबाहो क्रीडार्थं नो भविष्यति 3041010a इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः 3041010c मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा 3041011a ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथा 3041011c विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः 3041012a न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा 3041012c तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः 3041013a नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः 3041013c द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः 3041014a अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना 3041014c मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे 3041015a यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव 3041015c आश्चर्यभूतं भवति विस्मयं जनयिष्यति 3041016a समाप्तवनवासानां राज्यस्थानां च नः पुनः 3041016c अन्तःपुरविभूषार्थो मृग एष भविष्यति 3041017a भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो 3041017c मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति 3041018a जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः 3041018c अजिनं नरशार्दूल रुचिरं मे भविष्यति 3041019a निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि 3041019c शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् 3041020a कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् 3041020c वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम 3041021a तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा 3041021c तरुणादित्यवर्णेन नक्षत्रपथवर्चसा 3041021e बभूव राघवस्यापि मनो विस्मयमागतम् 3041022a एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् 3041022c उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः 3041023a पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् 3041023c रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति 3041024a न वने नन्दनोद्देशे न चैत्ररथसंश्रये 3041024c कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः 3041025a प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः 3041025c शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः 3041026a पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् 3041026c जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् 3041027a मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः 3041027c कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः 3041028a कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम् 3041028c नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् 3041029a मांसहेतोरपि मृगान्विहारार्थं च धन्विनः 3041029c घ्नन्ति लक्ष्मण राजानो मृगयायां महावने 3041030a धनानि व्यवसायेन विचीयन्ते महावने 3041030c धातवो विविधाश्चापि मणिरत्नसुवर्णिनः 3041031a तत्सारमखिलं नॄणां धनं निचयवर्धनम् 3041031c मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण 3041032a अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् 3041032c तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण 3041033a एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि 3041033c उपवेक्ष्यति वैदेही मया सह सुमध्यमा 3041034a न कादली न प्रियकी न प्रवेणी न चाविकी 3041034c भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः 3041035a एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः 3041035c उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ 3041036a यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण 3041036c मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया 3041037a एतेन हि नृशंसेन मारीचेनाकृतात्मना 3041037c वने विचरता पूर्वं हिंसिता मुनिपुंगवाः 3041038a उत्थाय बहवो येन मृगयायां जनाधिपाः 3041038c निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः 3041039a पुरस्तादिह वातापिः परिभूय तपस्विनः 3041039c उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव 3041040a स कदाचिच्चिराल्लोके आससाद महामुनिम् 3041040c अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह 3041041a समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् 3041041c उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत् 3041042a त्वयाविगण्य वातापे परिभूताश्च तेजसा 3041042c जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः 3041043a एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण 3041043c मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् 3041044a भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः 3041044c इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् 3041045a अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन 3041045c अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् 3041046a यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् 3041046c पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् 3041047a त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति 3041047c अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया 3041048a यावत्पृषतमेकेन सायकेन निहन्म्यहम् 3041048c हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण 3041049a प्रदक्षिणेनातिबलेन पक्षिणा; जटायुषा बुद्धिमता च लक्ष्मण 3041049c भवाप्रमत्तः प्रतिगृह्य मैथिलीं; प्रतिक्षणं सर्वत एव शङ्कितः 3042001a तथा तु तं समादिश्य भ्रातरं रघुनन्दनः 3042001c बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् 3042002a ततस्त्रिविणतं चापमादायात्मविभूषणम् 3042002c आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः 3042003a तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै 3042003c बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत् 3042004a बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः 3042004c तं स पश्यति रूपेण द्योतमानमिवाग्रतः 3042005a अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने 3042005c अतिवृत्तमिषोः पाताल्लोभयानं कदाचन 3042006a शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे 3042006c दश्यमानमदृश्यं च नवोद्देशेषु केषुचित् 3042007a छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् 3042007c मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते 3042008a दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् 3042008c आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः 3042009a अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले 3042009c मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत 3042010a दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः 3042010c संधाय सुदृढे चापे विकृष्य बलवद्बली 3042011a तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम् 3042011c मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम् 3042012a स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः 3042012c मारीचस्यैव हृदयं विभेदाशनिसंनिभः 3042013a तालमात्रमथोत्पत्य न्यपतत्स शरातुरः 3042013c व्यनदद्भैरवं नादं धरण्यामल्पजीवितः 3042013e म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् 3042014a संप्राप्तकालमाज्ञाय चकार च ततः स्वरम् 3042014c सदृशं राघवस्यैव हा सीते लक्ष्मणेति च 3042015a तेन मर्मणि निर्विद्धः शरेणानुपमेन हि 3042015c मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः 3042015e चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् 3042016a ततो विचित्रकेयूरः सर्वाभरणभूषितः 3042016c हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः 3042017a तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् 3042017c जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् 3042018a हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम् 3042018c ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् 3042019a लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति 3042019c इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः 3042020a तत्र रामं भयं तीव्रमाविवेश विषादजम् 3042020c राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् 3042021a निहत्य पृषतं चान्यं मांसमादाय राघवः 3042021c त्वरमाणो जनस्थानं ससाराभिमुखस्तदा 3043001a आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने 3043001c उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् 3043002a न हि मे जीवितं स्थाने हृदयं वावतिष्ठते 3043002c क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् 3043003a आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि 3043003c तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् 3043004a रक्षसां वशमापन्नं सिंहानामिव गोवृषम् 3043004c न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् 3043005a तमुवाच ततस्तत्र कुपिता जनकात्मजा 3043005c सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् 3043006a यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे 3043006c इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते 3043007a व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते 3043007c तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् 3043008a किं हि संशयमापन्ने तस्मिन्निह मया भवेत् 3043008c कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः 3043009a इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम् 3043009c अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव 3043010a देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु 3043010c राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च 3043011a दानवेषु च घोरेषु न स विद्येत शोभने 3043011c यो रामं प्रतियुध्येत समरे वासवोपमम् 3043012a अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि 3043012c न त्वामस्मिन्वने हातुमुत्सहे राघवं विना 3043013a अनिवार्यं बलं तस्य बलैर्बलवतामपि 3043013c त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि 3043014a हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम् 3043014c आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् 3043015a न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः 3043015c गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः 3043016a न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना 3043016c रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे 3043017a कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः 3043017c खरस्य निधने देवि जनस्थानवधं प्रति 3043018a राक्षसा विधिना वाचो विसृजन्ति महावने 3043018c हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि 3043019a लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना 3043019c अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् 3043020a अनार्य करुणारम्भ नृशंस कुलपांसन 3043020c अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे 3043021a नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् 3043021c त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु 3043022a सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि 3043022c मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा 3043023a कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् 3043023c उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् 3043024a समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः 3043024c रामं विना क्षणमपि न हि जीवामि भूतले 3043025a इत्युक्तः परुषं वाक्यं सीतया सोमहर्षणम् 3043025c अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः 3043026a उत्तरं नोत्सहे वक्तुं दैवतं भवती मम 3043026c वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि 3043027a स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते 3043027c विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः 3043028a उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः 3043028c न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया 3043029a धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे 3043029c स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् 3043030a गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने 3043030c रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः 3043031a निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे 3043031c अपि त्वां सह रामेण पश्येयं पुनरागतः 3043032a लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा 3043032c प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता 3043033a गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण 3043033c आबन्धिष्येऽथ वा त्यक्ष्ये विषमे देहमात्मनः 3043034a पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् 3043034c न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे 3043035a इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता 3043035c पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह 3043036a तामार्तरूपां विमना रुदन्तीं; सौमित्रिरालोक्य विशालनेत्राम् 3043036c आश्वासयामास न चैव भर्तु;स्तं भ्रातरं किंचिदुवाच सीता 3043037a ततस्तु सीतामभिवाद्य लक्ष्मणः; कृताञ्जलिः किंचिदभिप्रणम्य 3043037c अवेक्षमाणो बहुशश्च मैथिलीं; जगाम रामस्य समीपमात्मवान् 3044001a तया परुषमुक्तस्तु कुपितो राघवानुजः 3044001c स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव 3044002a तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः 3044002c अभिचक्राम वैदेहीं परिव्राजकरूपधृक् 3044003a श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही 3044003c वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू 3044003e परिव्राजकरूपेण वैदेहीं समुपागमत् 3044004a तामाससादातिबलो भ्रातृभ्यां रहितां वने 3044004c रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः 3044005a तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम् 3044005c रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः 3044006a तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः 3044006c समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः 3044007a शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् 3044007c स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी 3044008a रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे 3044008c उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः 3044009a अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् 3044009c अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः 3044010a स पापो भव्यरूपेण तृणैः कूप इवावृतः 3044010c अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् 3044011a शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् 3044011c आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् 3044012a स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् 3044012c अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः 3044013a स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् 3044013c अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः 3044014a तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् 3044014c विभ्राजमानां वपुषा रावणः प्रशशंस ह 3044015a का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि 3044015c कमलानां शुभां मालां पद्मिनीव च बिभ्रती 3044016a ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने 3044016c भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी 3044017a समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव 3044017c विशाले विमले नेत्रे रक्तान्ते कृष्णतारके 3044018a विशालं जघनं पीनमूरू करिकरोपमौ 3044018c एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ 3044019a पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ 3044019c मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ 3044020a चारुस्मिते चारुदति चारुनेत्रे विलासिनि 3044020c मनो हरसि मे रामे नदीकूलमिवाम्भसा 3044021a करान्तमितमध्यासि सुकेशी संहतस्तनी 3044021c नैव देवी न गन्धर्वी न यक्षी न च किंनरी 3044022a नैवंरूपा मया नारी दृष्टपूर्वा महीतले 3044022c इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे 3044023a सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि 3044023c राक्षसानामयं वासो घोराणां कामरूपिणाम् 3044024a प्रासादाग्र्याणि रम्याणि नगरोपवनानि च 3044024c संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया 3044025a वरं माल्यं वरं पानं वरं वस्त्रं च शोभने 3044025c भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे 3044026a का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते 3044026c वसूनां वा वरारोहे देवता प्रतिभासि मे 3044027a नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः 3044027c राक्षसानामयं वासः कथं नु त्वमिहागता 3044028a इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा 3044028c ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे 3044029a मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् 3044029c कथमेका महारण्ये न बिभेषि वनानने 3044030a कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् 3044030c एका चरसि कल्याणि घोरान्राक्षससेवितान् 3044031a इति प्रशस्ता वैदेही रावणेन दुरात्मना 3044031c द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् 3044031e सर्वैरतिथिसत्कारैः पूजयामास मैथिली 3044032a उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च 3044032c अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् 3044033a द्विजातिवेषेण समीक्ष्य मैथिली; तमागतं पात्रकुसुम्भधारिणम् 3044033c अशक्यमुद्द्वेष्टुमुपायदर्शना;न्न्यमन्त्रयद्ब्राह्मणवद्यथागतम् 3044034a इयं बृसी ब्राह्मण काममास्यता;मिदं च पाद्यं प्रतिगृह्यतामिति 3044034c इदं च सिद्धं वनजातमुत्तमं; त्वदर्थमव्यग्रमिहोपभुज्यताम् 3044035a निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं; नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् 3044035c प्रहस्य तस्या हरणे धृतं मनः; समर्पयामास वधाय रावणः 3044036a ततः सुवेषं मृगया गतं पतिं; प्रतीक्षमाणा सहलक्ष्मणं तदा 3044036c निरीक्षमाणा हरितं ददर्श त;न्महद्वनं नैव तु रामलक्ष्मणौ 3045001a रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा 3045001c परिव्राजकरूपेण शशंसात्मानमात्मना 3045002a ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् 3045002c इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् 3045003a दुहिता जनकस्याहं मैथिलस्य महात्मनः 3045003c सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम 3045004a संवत्सरं चाध्युषिता राघवस्य निवेशने 3045004c भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी 3045005a ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम् 3045005c अभिषेचयितुं रामं समेतो राजमन्त्रिभिः 3045006a तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने 3045006c कैकेयी नाम भर्तारं ममार्या याचते वरम् 3045007a प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे 3045007c मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् 3045007e द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् 3045008a नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदाचन 3045008c एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते 3045009a इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः 3045009c अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा 3045010a मम भर्ता महातेजा वयसा पञ्चविंशकः 3045010c रामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिः 3045010e विशालाक्षो महाबाहुः सर्वभूतहिते रतः 3045011a अभिषेकाय तु पितुः समीपं राममागतम् 3045011c कैकेयी मम भर्तारमित्युवाच द्रुतं वचः 3045012a तव पित्रा समाज्ञप्तं ममेदं शृणु राघव 3045012c भरताय प्रदातव्यमिदं राज्यमकण्टकम् 3045013a त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च 3045013c वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् 3045014a तथेत्युवाच तां रामः कैकेयीमकुतोभयः 3045014c चकार तद्वचस्तस्या मम भर्ता दृढव्रतः 3045015a दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम् 3045015c एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम् 3045016a तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् 3045016c रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा 3045017a स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः 3045017c अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह 3045018a ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः 3045018c विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा 3045019a समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया 3045019c आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् 3045020a स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः 3045020c एकश्च दण्डकारण्ये किमर्थं चरसि द्विज 3045021a एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः 3045021c प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः 3045022a येन वित्रासिता लोकाः सदेवासुरपन्नगाः 3045022c अहं स रावणो नाम सीते रक्षोगणेश्वरः 3045023a त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् 3045023c रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते 3045024a बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः 3045024c सर्वासामेव भद्रं ते ममाग्रमहिषी भव 3045025a लङ्का नाम समुद्रस्य मध्ये मम महापुरी 3045025c सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि 3045026a तत्र सीते मया सार्धं वनेषु विचरिष्यसि 3045026c न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि 3045027a पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः 3045027c सीते परिचरिष्यन्ति भार्या भवसि मे यदि 3045028a रावणेनैवमुक्ता तु कुपिता जनकात्मजा 3045028c प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं 3045029a महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् 3045029c महोदधिमिवाक्षोभ्यमहं राममनुव्रता 3045030a महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् 3045030c नृसिंहं सिंहसंकाशमहं राममनुव्रता 3045031a पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् 3045031c पृथुकीर्तिं महाबाहुमहं राममनुव्रता 3045032a त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् 3045032c नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा 3045033a पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् 3045033c राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण 3045034a क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः 3045034c आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि 3045035a मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि 3045035c कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि 3045036a अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् 3045036c राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि 3045037a अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि 3045037c सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि 3045037e यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि 3045038a अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि 3045038c कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि 3045039a अयोमुखानां शूलानामग्रे चरितुमिच्छसि 3045039c रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि 3045040a यदन्तरं सिंहशृगालयोर्वने; यदन्तरं स्यन्दनिकासमुद्रयोः 3045040c सुराग्र्यसौवीरकयोर्यदन्तरं; तदन्तरं दाशरथेस्तवैव च 3045041a यदन्तरं काञ्चनसीसलोहयो;र्यदन्तरं चन्दनवारिपङ्कयोः 3045041c यदन्तरं हस्तिबिडालयोर्वने; तदन्तरं दशरथेस्तवैव च 3045042a यदन्तरं वायसवैनतेययो;र्यदन्तरं मद्गुमयूरयोरपि 3045042c यदन्तरं सारसगृध्रयोर्वने; तदन्तरं दाशरथेस्तवैव च 3045043a तस्मिन्सहस्राक्षसमप्रभावे; रामे स्थिते कार्मुकबाणपाणौ 3045043c हृतापि तेऽहं न जरां गमिष्ये; वज्रं यथा मक्षिकयावगीर्णम् 3045044a इतीव तद्वाक्यमदुष्टभावा; सुदृष्टमुक्त्वा रजनीचरं तम् 3045044c गात्रप्रकम्पाद्व्यथिता बभूव; वातोद्धता सा कदलीव तन्वी 3045045a तां वेपमानामुपलक्ष्य सीतां; स रावणो मृत्युसमप्रभावः 3045045c कुलं बलं नाम च कर्म चात्मनः; समाचचक्षे भयकारणार्थम् 3046001a एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् 3046001c ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह 3046002a भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि 3046002c रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् 3046003a यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः 3046003c विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः 3046004a येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे 3046004c द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः 3046005a मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् 3046005c कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः 3046006a यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् 3046006c वीर्यादावर्जितं भद्रे येन यामि विहायसं 3046007a मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि 3046007c विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः 3046008a यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः 3046008c तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः 3046009a निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः 3046009c भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च 3046010a मम पारे समुद्रस्य लङ्का नाम पुरी शुभा 3046010c संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती 3046011a प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता 3046011c हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा 3046012a हस्त्यश्वरथसंभाधा तूर्यनादविनादिता 3046012c सर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता 3046013a तत्र त्वं वसती सीते राजपुत्रि मया सह 3046013c न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि 3046014a भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि 3046014c न स्मरिष्यसि रामस्य मानुषस्य गतायुषः 3046015a स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः 3046015c मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् 3046016a तेन किं भ्रष्टराज्येन रामेण गतचेतसा 3046016c करिष्यसि विशालाक्षि तापसेन तपस्विना 3046017a सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् 3046017c न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि 3046018a प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि 3046018c चरणेनाभिहत्येव पुरूरवसमुर्वशी 3046019a एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना 3046019c अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् 3046020a कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् 3046020c भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि 3046021a अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः 3046021c येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः 3046022a अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् 3046022c न तु रामस्य भार्यां मामपनीयास्ति जीवितम् 3046023a जीवेच्चिरं वज्रधरस्य हस्ता;च्छचीं प्रधृष्याप्रतिरूपरूपाम् 3046023c न मादृशीं राक्षसधर्षयित्वा; पीतामृतस्यापि तवास्ति मोक्षः 3047001a सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् 3047001c हस्ते हस्तं समाहत्य चकार सुमहद्वपुः 3047002a स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् 3047002c नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ 3047003a उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः 3047003c आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः 3047004a अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् 3047004c कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् 3047005a एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे 3047005c क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः 3047006a सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः 3047006c स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः 3047007a संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः 3047007c दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः 3047008a स परिव्राजकच्छद्म महाकायो विहाय तत् 3047008c प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः 3047009a संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः 3047009c रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् 3047010a स तामसितकेशान्तां भास्करस्य प्रभामिव 3047010c वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् 3047011a त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि 3047011c मामाश्रय वरारोहे तवाहं सदृशः पतिः 3047012a मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः 3047012c नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् 3047012e त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् 3047013a राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् 3047013c कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि 3047014a यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् 3047014c अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः 3047015a इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् 3047015c जग्राह रावणः सीतां बुधः खे रोहिणीमिव 3047016a वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः 3047016c ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना 3047017a तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् 3047017c प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः 3047018a स च मायामयो दिव्यः खरयुक्तः खरस्वनः 3047018c प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः 3047019a ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः 3047019c अङ्केनादाय वैदेहीं रथमारोपयत्तदा 3047020a सा गृहीतातिचुक्रोश रावणेन यशस्विनी 3047020c रामेति सीता दुःखार्ता रामं दूरगतं वने 3047021a तामकामां स कामार्तः पन्नगेन्द्रवधूमिव 3047021c विवेष्टमानामादाय उत्पपाथाथ रावणः 3047022a ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा 3047022c भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा 3047023a हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक 3047023c ह्रियमाणां न जानीषे रक्षसा कामरूपिणा 3047024a जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् 3047024c ह्रियमाणामधर्मेण मां राघव न पश्यसि 3047025a ननु नामाविनीतानां विनेतासि परंतप 3047025c कथमेवंविधं पापं न त्वं शाधि हि रावणम् 3047026a ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् 3047026c कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये 3047027a स कर्म कृतवानेतत्कालोपहतचेतनः 3047027c जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि 3047028a हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह 3047028c ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः 3047029a आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् 3047029c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047030a माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् 3047030c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047031a हंससारससंघुष्टां वन्दे गोदावरीं नदीम् 3047031c क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः 3047032a दैवतानि च यान्त्यस्मिन्वने विविधपादपे 3047032c नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् 3047033a यानि कानिचिदप्यत्र सत्त्वानि निवसन्त्युत 3047033c सर्वाणि शरणं यामि मृगपक्षिगणानपि 3047034a ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् 3047034c विवशापहृता सीता रावणेनेति शंसत 3047035a विदित्वा मां महाबाहुरमुत्रापि महाबलः 3047035c आनेष्यति पराक्रम्य वैवस्वतहृतामपि 3047036a रामाय तु यथातत्त्वं जटायो हरणं मम 3047036c लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः 3048001a तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे 3048001c निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः 3048002a ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः 3048002c वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् 3048003a दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः 3048003c जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः 3048004a राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः 3048004c लोकानां च हिते युक्तो रामो दशरथात्मजः 3048005a तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी 3048005c सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि 3048006a कथं राजा स्थितो धर्मे परदारान्परामृशेत् 3048006c रक्षणीया विशेषेण राजदारा महाबलः 3048006e निवर्तय मतिं नीचां परदाराभिमर्शनम् 3048007a न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् 3048007c यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् 3048008a अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् 3048008c व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन 3048009a राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः 3048009c धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते 3048010a पापस्वभावश्चपलः कथं त्वं रक्षसां वर 3048010c ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती 3048011a कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् 3048011c न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् 3048012a विषये वा पुरे वा ते यदा रामो महाबलः 3048012c नापराध्यति धर्मात्मा कथं तस्यापराध्यसि 3048013a यदि शूर्पणखाहेतोर्जनस्थानगतः खरः 3048013c अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा 3048014a अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः 3048014c यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि 3048015a क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा 3048015c दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा 3048016a सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे 3048016c ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि 3048017a स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् 3048017c तदन्नमुपभोक्तव्यं जीर्यते यदनामयम् 3048018a यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि 3048018c शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत् 3048019a षष्टिवर्षसहस्राणि मम जातस्य रावण 3048019c पितृपैतामहं राज्यं यथावदनुतिष्ठतः 3048020a वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी 3048020c तथाप्यादाय वैदेहीं कुशली न गमिष्यसि 3048021a न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः 3048021c हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव 3048022a युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण 3048022c शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा 3048023a असकृत्संयुगे येन निहता दैत्यदानवाः 3048023c नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति 3048024a किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ 3048024c क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः 3048025a न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् 3048025c सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् 3048026a अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः 3048026c जीवितेनापि रामस्य तथा दशरथस्य च 3048027a तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण 3048027c युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर 3048027e वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् 3049001a इत्युक्तस्य यथान्यायं रावणस्य जटायुषा 3049001c क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः 3049002a संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः 3049002c राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः 3049003a स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने 3049003c बभूव वातोद्धतयोर्मेघयोर्गगने यथा 3049004a तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा 3049004c सपक्षयोर्माल्यवतोर्महापर्वतयोरिव 3049005a ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः 3049005c अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः 3049006a स तानि शरजालानि गृध्रः पत्ररथेश्वरः 3049006c जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे 3049007a तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः 3049007c चकार बहुधा गात्रे व्रणान्पतगसत्तमः 3049008a अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् 3049008c मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया 3049009a स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः 3049009c बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः 3049010a स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् 3049010c अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् 3049011a ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् 3049011c चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः 3049012a तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् 3049012c पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः 3049013a काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् 3049013c तांश्चास्य जवसंपन्नाञ्जघान समरे बली 3049014a वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् 3049014c मणिहेमविचित्राङ्गं बभञ्ज च महारथम् 3049014e पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह 3049015a स भग्नधन्वा विरथो हताश्वो हतसारथिः 3049015c अङ्केनादाय वैदेहीं पपात भुवि रावणः 3049016a दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् 3049016c साधु साध्विति भूतानि गृध्रराजमपूजयन् 3049017a परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् 3049017c उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः 3049018a तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् 3049018c गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् 3049019a वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण 3049019c अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् 3049020a समित्रबन्धुः सामात्यः सबलः सपरिच्छदः 3049020c विषपानं पिबस्येतत्पिपासित इवोदकम् 3049021a अनुबन्धमजानन्तः कर्मणामविचक्षणाः 3049021c शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि 3049022a बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे 3049022c वधाय बडिशं गृह्य सामिषं जलजो यथा 3049023a न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण 3049023c धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ 3049024a यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् 3049024c तस्कराचरितो मार्गो नैष वीरनिषेवितः 3049025a युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण 3049025c शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा 3049026a परेतकाले पुरुषो यत्कर्म प्रतिपद्यते 3049026c विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् 3049027a पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् 3049027c कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि 3049028a एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः 3049028c निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् 3049029a तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः 3049029c अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् 3049030a विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् 3049030c केशांश्चोत्पाटयामास नखपक्षमुखायुधः 3049031a स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः 3049031c अमर्षस्फुरितौष्ठः सन्प्राकम्पत स राक्षसः 3049032a संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः 3049032c तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः 3049033a जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः 3049033c वामबाहून्दश तदा व्यपाहरदरिंदमः 3049034a ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान् 3049034c मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् 3049035a ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः 3049035c राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च 3049036a तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः 3049036c पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् 3049037a स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा 3049037c निपपात हतो गृध्रो धरण्यामल्पजीवितः 3049038a तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् 3049038c अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता 3049039a तं नीलजीमूतनिकाशकल्पं; सुपाण्डुरोरस्कमुदारवीर्यम् 3049039c ददर्श लङ्काधिपतिः पृथिव्यां; जटायुषं शान्तमिवाग्निदावम् 3049040a ततस्तु तं पत्ररथं महीतले; निपातितं रावणवेगमर्दितम् 3049040c पुनः परिष्वज्य शशिप्रभानना; रुरोद सीता जनकात्मजा तदा 3050001a तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः 3050001c ददर्श गृध्रं पतितं समीपे राघवाश्रमात् 3050002a सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् 3050002c गृध्रराजं विनिहतं विललाप सुदुःखिता 3050003a निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् 3050003c अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते 3050004a न नूनं राम जानासि महद्व्यसनमात्मजः 3050004c धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः 3050005a त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना 3050005c सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके 3050006a तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् 3050006c अभ्यधावत वैदेहीं रावणो राक्षसाधिपः 3050007a तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् 3050007c मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः 3050008a क्रोशन्तीं राम रामेति रामेण रहितां वने 3050008c जीवितान्ताय केशेषु जग्राहान्तकसंनिभः 3050009a प्रधर्षितायां वैदेह्यां बभूव सचराचरम् 3050009c जगत्सर्वममर्यादं तमसान्धेन संवृतम् 3050010a दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा 3050010c कृतं कार्यमिति श्रीमान्व्याजहार पितामहः 3050011a प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः 3050011c दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः 3050012a स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च 3050012c जगामाकाशमादाय रावणो राक्षसाधिपः 3050013a तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी 3050013c रराज राजपुत्री तु विद्युत्सौदामनी यथा 3050014a उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः 3050014c अधिकं परिबभ्राज गिरिर्दीप इवाग्निना 3050015a तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च 3050015c पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् 3050016a तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् 3050016c बभौ चादित्यरागेण ताम्रमभ्रमिवातपे 3050017a तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् 3050017c न रराज विना रामं विनालमिव पङ्कजम् 3050018a बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः 3050018c सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् 3050018e शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् 3050019a रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् 3050019c सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम् 3050020a राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम् 3050020c शुशुभे न विना रामं दिवा चन्द्र इवोदितः 3050021a सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् 3050021c शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता 3050022a सा पद्मगौरी हेमाभा रावणं जनकात्मजा 3050022c विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा 3050023a तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः 3050023c बभूव विमलो नीलः सघोष इव तोयदः 3050024a उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः 3050024c सीताया ह्रियमाणायाः पपात धरणीतले 3050025a सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः 3050025c समाधूता दशग्रीवं पुनरेवाभ्यवर्तत 3050026a अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् 3050026c नक्षत्रमालाविमला मेरुं नगमिवोत्तमम् 3050027a चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् 3050027c विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् 3050028a तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् 3050028c प्राशोभयत वैदेही गजं कष्येव काञ्चनी 3050029a तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा 3050029c जहाराकाशमाविश्य सीतां वैश्रवणानुजः 3050030a तस्यास्तान्यग्निवर्णानि भूषणानि महीतले 3050030c सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् 3050031a तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः 3050031c वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता 3050032a उत्पात वाताभिहता नानाद्विज गणायुताः 3050032c मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः 3050033a नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः 3050033c सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् 3050034a समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः 3050034c अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः 3050035a जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः 3050035c सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः 3050036a ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः 3050036c प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः 3050037a नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता 3050037c यत्र रामस्य वैदेहीं भार्यां हरति रावणः 3050038a इति सर्वाणि भूतानि गणशः पर्यदेवयन् 3050038c वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः 3050039a उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः 3050039c सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः 3050040a विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् 3050040c तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् 3050041a अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् 3050041c स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् 3050041e जहारात्मविनाशाय दशग्रीवो मनस्विनाम् 3050042a ततस्तु सा चारुदती शुचिस्मिता; विनाकृता बन्धुजनेन मैथिली 3050042c अपश्यती राघवलक्ष्मणावुभौ; विवर्णवक्त्रा भयभारपीडिता 3051001a खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा 3051001c दुःखिता परमोद्विग्ना भये महति वर्तिनी 3051002a रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् 3051002c रुदती करुणं सीता ह्रियमाणेदमब्रवीत् 3051003a न व्यपत्रपसे नीच कर्मणानेन रावण 3051003c ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे 3051004a त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता 3051004c ममापवाहितो भर्ता मृगरूपेण मायया 3051004e यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः 3051005a परमं खलु ते वीर्यं दृश्यते राक्षसाधम 3051005c विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया 3051006a ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे 3051006c स्त्रियाश्च हरणं नीच रहिते च परस्य च 3051007a कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् 3051007c सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः 3051008a धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा 3051008c कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् 3051009a किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि 3051009c मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि 3051010a न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः 3051010c ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम् 3051011a न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन 3051011c वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः 3051012a साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण 3051012c मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम 3051012e विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि 3051013a येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि 3051013c व्यवसायः स ते नीच भविष्यति निरर्थकः 3051014a न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् 3051014c उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् 3051015a न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे 3051015c मृत्युकाले यथा मर्त्यो विपरीतानि सेवते 3051016a मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते 3051016c पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् 3051017a यथा चास्मिन्भयस्थाने न बिभेषे दशानन 3051017c व्यक्तं हिरण्मयान्हि त्वं संपश्यसि महीरुहान् 3051018a नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम् 3051018c खड्गपत्रवनं चैव भीमं पश्यसि रावण 3051019a तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् 3051019c द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् 3051020a न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः 3051020c धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः 3051021a बद्धस्त्वं कालपाशेन दुर्निवारेण रावण 3051021c क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः 3051022a निमेषान्तरमात्रेण विना भ्रातरमाहवे 3051022c राक्षसा निहता येन सहस्राणि चतुर्दश 3051023a स कथं राघवो वीरः सर्वास्त्रकुशलो बली 3051023c न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् 3051024a एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा 3051024c भयशोकसमाविष्टा करुणं विललाप ह 3051025a तथा भृशार्तां बहु चैव भाषिणीं; विललाप पूर्वं करुणं च भामिनीम् 3051025c जहार पापस्तरुणीं विवेष्टतीं; नृपात्मजामागतगात्रवेपथुम् 3052001a ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती 3052001c ददर्श गिरिशृङ्गस्थान्पञ्चवानरपुंगवान् 3052002a तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् 3052002c उत्तरीयं वरारोहा शुभान्याभरणानि च 3052002e मुमोच यदि रामाय शंसेयुरिति मैथिली 3052003a वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम् 3052003c संभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान् 3052004a पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव 3052004c विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः 3052005a स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् 3052005c जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः 3052006a तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः 3052006c उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् 3052007a वनानि सरितः शैलान्सरांसि च विहायसा 3052007c स क्षिप्रं समतीयाय शरश्चापादिव च्युतः 3052008a तिमिनक्रनिकेतं तु वरुणालयमक्षयम् 3052008c सरितां शरणं गत्वा समतीयाय सागरम् 3052009a संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः 3052009c वैदेह्यां ह्रियमाणायां बभूव वरुणालयः 3052010a अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा 3052010c एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् 3052011a स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः 3052011c प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः 3052012a सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् 3052012c संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत् 3052013a तत्र तामसितापाङ्गीं शोकमोहपरायणाम् 3052013c निदधे रावणः सीतां मयो मायामिवासुरीम् 3052014a अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः 3052014c यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः 3052015a मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च 3052015c यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा 3052016a या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् 3052016c अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् 3052017a तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् 3052017c निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् 3052017e ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् 3052018a स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः 3052018c उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः 3052019a नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः 3052019c जनस्थानं हतस्थानं भूतपूर्वं खरालयम् 3052020a तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे 3052020c पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः 3052021a बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् 3052021c सदूषणखरं युद्धे हतं तद्रामसायकैः 3052022a ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते 3052022c वैरं च सुमहज्जातं रामं प्रति सुदारुणम् 3052023a निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः 3052023c न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् 3052024a तं त्विदानीमहं हत्वा खरदूषणघातिनम् 3052024c रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः 3052025a जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता 3052025c प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः 3052026a अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः 3052026c कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति 3052027a युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि 3052027c अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः 3052028a ततः प्रियं वाक्यमुपेत्य राक्षसा; महार्थमष्टावभिवाद्य रावणम् 3052028c विहाय लङ्कां सहिताः प्रतस्थिरे; यतो जनस्थानमलक्ष्यदर्शनाः 3052029a ततस्तु सीतामुपलभ्य रावणः; सुसंप्रहृष्टः परिगृह्य मैथिलीम् 3052029c प्रसज्य रामेण च वैरमुत्तमं; बभूव मोहान्मुदितः स राक्षसः 3053001a संदिश्य राक्षसान्घोरान्रावणोऽष्टौ महाबलान् 3053001c आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत 3053002a स चिन्तयानो वैदेहीं कामबाणसमर्पितः 3053002c प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् 3053003a स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः 3053003c अपश्यद्राक्षसीमध्ये सीतां शोकपरायणम् 3053004a अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् 3053004c वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे 3053005a मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् 3053005c अधोमुखमुखीं दीनामभ्येत्य च निशाचरः 3053006a तां तु शोकवशां दीनामवशां राक्षसाधिपः 3053006c स बलाद्दर्शयामास गृहं देवगृहोपमम् 3053007a हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम् 3053007c नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् 3053008a काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथा 3053008c वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः 3053009a दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् 3053009c सोपानं काञ्चनं चित्रमारुरोह तया सह 3053010a दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः 3053010c हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः 3053011a सुधामणिविचित्राणि भूमिभागानि सर्वशः 3053011c दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् 3053012a दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः 3053012c रावणो दर्शयामास सीतां शोकपरायणाम् 3053013a दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् 3053013c उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् 3053014a दशराक्षसकोट्यश्च द्वाविंशतिरथापराः 3053014c वर्जयित्वा जरा वृद्धान्बालांश्च रजनीचरान् 3053015a तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् 3053015c सहस्रमेकमेकस्य मम कार्यपुरःसरम् 3053016a यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् 3053016c जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी 3053017a बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः 3053017c तासां त्वमीश्वरी सीते मम भार्या भव प्रिये 3053018a साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम 3053018c भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि 3053019a परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना 3053019c नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः 3053020a न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु 3053020c अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् 3053021a राज्यभ्रष्टेन दीनेन तापसेन गतायुषा 3053021c किं करिष्यसि रामेण मानुषेणाल्पतेजसा 3053022a भजस्व सीते मामेव भर्ताहं सदृशस्तव 3053022c यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह 3053023a दर्शने मा कृथा बुद्धिं राघवस्य वरानने 3053023c कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः 3053024a न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः 3053024c दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् 3053025a त्रयाणामपि लोकानां न तं पश्यामि शोभने 3053025c विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् 3053026a लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय 3053026c अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् 3053027a दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् 3053027c यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि 3053028a इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि 3053028c भूषणानि च मुख्यानि तानि सेव मया सह 3053029a पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे 3053029c विमानं रमणीयं च तद्विमानं मनोजवम् 3053030a तत्र सीते मया सार्धं विहरस्व यथासुखम् 3053030c वदनं पद्मसंकाशं विमलं चारुदर्शनम् 3053031a शोकार्तं तु वरारोहे न भ्राजति वरानने 3053031c अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते 3053032a आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति 3053032c एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ 3053033a प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते 3053033c नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः 3053034a न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह 3053034c एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् 3053035a कृतान्तवशमापन्नो ममेयमिति मन्यते 3054001a सा तथोक्ता तु वैदेही निर्भया शोककर्षिता 3054001c तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत 3054002a राजा दशरथो नाम धर्मसेतुरिवाचलः 3054002c सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः 3054003a रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः 3054003c दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम 3054004a इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः 3054004c लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति 3054005a प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् 3054005c शयिता त्वं हतः संख्ये जनस्थाने यथा खरः 3054006a य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः 3054006c राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा 3054007a तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः 3054007c शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः 3054008a असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण 3054008c उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे 3054009a स ते जीवितशेषस्य राघवोऽन्तकरो बली 3054009c पशोर्यूपगतस्येव जीवितं तव दुर्लभम् 3054010a यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा 3054010c रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् 3054011a यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा 3054011c सागरं शोषयेद्वापि स सीतां मोचयेदिह 3054012a गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः 3054012c लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति 3054013a न ते पापमिदं कर्म सुखोदर्कं भविष्यति 3054013c याहं नीता विना भावं पतिपार्श्वात्त्वया वनात् 3054014a स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः 3054014c निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके 3054015a स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् 3054015c अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे 3054016a यदा विनाशो भूतानां दृश्यते कालचोदितः 3054016c तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः 3054017a मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम 3054017c आत्मनो राक्षसानां च वधायान्तःपुरस्य च 3054018a न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता 3054018c द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् 3054019a इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा 3054019c नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस 3054019e न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः 3054020a एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः 3054020c रावणं मैथिली तत्र पुनर्नोवाच किंचन 3054021a सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् 3054021c प्रत्युवाच ततः सीतां भयसंदर्शनं वचः 3054022a शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि 3054022c कालेनानेन नाभ्येषि यदि मां चारुहासिनि 3054022e ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः 3054023a इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः 3054023c राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् 3054024a शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः 3054024c दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः 3054025a वचनादेव तास्तस्य विकृता घोरदर्शनाः 3054025c कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् 3054026a स ताः प्रोवाच राजा तु रावणो घोरदर्शनः 3054026c प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् 3054027a अशोकवनिकामध्ये मैथिली नीयतामिति 3054027c तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता 3054028a तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् 3054028c आनयध्वं वशं सर्वा वन्यां गजवधूमिव 3054029a इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः 3054029c अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम् 3054030a सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् 3054030c सर्वकालमदैश्चापि द्विजैः समुपसेविताम् 3054031a सा तु शोकपरीताङ्गी मैथिली जनकात्मजा 3054031c राक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा 3054032a न विन्दते तत्र तु शर्म मैथिली; विरूपनेत्राभिरतीव तर्जिता 3054032c पतिं स्मरन्ती दयितं च देवरं; विचेतनाभूद्भयशोकपीडिता 3055001a राक्षसं मृगरूपेण चरन्तं कामरूपिणम् 3055001c निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत 3055002a तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् 3055002c क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः 3055003a स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् 3055003c चिन्तयामास गोमायोः स्वरेण परिशङ्कितः 3055004a अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा 3055004c स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना 3055005a मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् 3055005c विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि 3055006a स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् 3055006c तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति 3055007a राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः 3055007c काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् 3055008a दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः 3055008c हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार ह 3055009a अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने 3055009c जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः 3055009e निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च 3055010a इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिःस्वनम् 3055010c आत्मनश्चापनयनं मृगरूपेण रक्षसा 3055010e आजगाम जनस्थानं राघवः परिशङ्कितः 3055011a तं दीनमानसं दीनमासेदुर्मृगपक्षिणः 3055011c सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् 3055012a तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः 3055012c ततो लक्षणमायान्तं ददर्श विगतप्रभम् 3055013a ततोऽविदूरे रामेण समीयाय स लक्ष्मणः 3055013c विषण्णः स विषण्णेन दुःखितो दुःखभागिना 3055014a संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम् 3055014c विहाय सीतां विजने वने राक्षससेविते 3055015a गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः 3055015c उवाच मधुरोदर्कमिदं परुषमार्तवत् 3055016a अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् 3055016c सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति 3055017a न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा 3055017c विनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः 3055018a अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे 3055018c अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे 3055019a इदं हि रक्षोमृगसंनिकाशं; प्रलोभ्य मां दूरमनुप्रयातम् 3055019c हतं कथंचिन्महता श्रमेण; स राक्षसोऽभून्म्रियमाण एव 3055020a मनश्च मे दीनमिहाप्रहृष्टं; चक्षुश्च सव्यं कुरुते विकारम् 3055020c असंशयं लक्ष्मण नास्ति सीता; हृता मृता वा पथि वर्तते वा 3056001a स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः 3056001c पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना 3056002a प्रस्थितं दण्डकारण्यं या मामनुजगाम ह 3056002c क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः 3056003a राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः 3056003c क्व सा दुःखसहाया मे वैदेही तनुमध्यमा 3056004a यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् 3056004c क्व सा प्राणसहाया मे सीता सुरसुतोपमा 3056005a पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण 3056005c विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् 3056006a कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम 3056006c कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति 3056007a सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि 3056007c कच्चित्सकामा सुखिता कैकेयी सा भविष्यति 3056008a सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी 3056008c उपस्थास्यति कौसल्या कच्चिन्सौम्य न कैकयीम् 3056009a यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः 3056009c सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण 3056010a यदि मामाश्रमगतं वैदेही नाभिभाषते 3056010c पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण 3056011a ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा 3056011c त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी 3056012a सुकुमारी च बाला च नित्यं चादुःखदर्शिनी 3056012c मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः 3056013a सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना 3056013c वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् 3056014a श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम 3056014c त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः 3056015a सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने 3056015c प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् 3056016a दुःखिताः खरघातेन राक्षसाः पिशिताशनाः 3056016c तैः सीता निहता घोरैर्भविष्यति न संशयः 3056017a अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन 3056017c किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् 3056018a इति सीतां वरारोहां चिन्तयन्नेव राघवः 3056018c आजगाम जनस्थानं त्वरया सहलक्ष्मणः 3056019a विगर्हमाणोऽनुजमार्तरूपं; क्षुधा श्रमाच्चैव पिपासया च 3056019c विनिःश्वसञ्शुष्कमुखो विषण्णः; प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् 3056020a स्वमाश्रमं संप्रविगाह्य वीरो; विहारदेशाननुसृत्य कांश्चित् 3056020c एतत्तदित्येव निवासभूमौ; प्रहृष्टरोमा व्यथितो बभूव 3057001a अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः 3057001c परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः 3057002a तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् 3057002c यदा सा तव विश्वासाद्वने विहरिता मया 3057003a दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण 3057003c शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः 3057004a स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे 3057004c दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि 3057005a एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः 3057005c भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् 3057006a न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः 3057006c प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः 3057007a आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च 3057007c परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् 3057008a सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली 3057008c गच्छ गच्छेति मामाह रुदन्ती भयविह्वला 3057009a प्रचोद्यमानेन मया गच्छेति बहुशस्तया 3057009c प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् 3057010a न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् 3057010c निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् 3057011a विगर्हितं च नीचं च कथमार्योऽभिधास्यति 3057011c त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि 3057012a किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् 3057012c विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति 3057012e न भवत्या व्यथा कार्या कुनारीजनसेविता 3057013a अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका 3057013c न चास्ति त्रिषु लोकेषु पुमान्यो राघवं रणे 3057013e जातो वा जायमानो वा संयुगे यः पराजयेत् 3057014a एवमुक्ता तु वैदेही परिमोहितचेतना 3057014c उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः 3057015a भावो मयि तवात्यर्थं पाप एव निवेशितः 3057015c विनष्टे भ्रातरि प्राप्ते न च त्वं मामवाप्स्यसि 3057016a संकेताद्भरतेन त्वं रामं समनुगच्छसि 3057016c क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे 3057017a रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि 3057017c राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे 3057018a एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः 3057018c क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः 3057019a एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः 3057019c अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः 3057020a जानन्नपि समर्थं मां रक्षसां विनिवारणे 3057020c अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् 3057021a न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् 3057021c क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः 3057022a सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः 3057022c क्रोधस्य वशमागम्य नाकरोः शासनं मम 3057023a असौ हि राक्षसः शेते शरेणाभिहतो मया 3057023c मृगरूपेण येनाहमाश्रमादपवादितः 3057024a विकृष्य चापं परिधाय सायकं; सलील बाणेन च ताडितो मया 3057024c मार्गीं तनुं त्यज्य च विक्लवस्वरो; बभूव केयूरधरः स राक्षसः 3057025a शराहतेनैव तदार्तया गिरा; स्वरं ममालम्ब्य सुदूरसंश्रवम् 3057025c उदाहृतं तद्वचनं सुदारुणं; त्वमागतो येन विहाय मैथिलीम् 3058001a भृशमाव्रजमानस्य तस्याधोवामलोचनम् 3058001c प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते 3058002a उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः 3058002c अपि क्षेमं तु सीताया इति वै व्याजहार ह 3058003a त्वरमाणो जगामाथ सीतादर्शनलालसः 3058003c शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः 3058004a उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः 3058004c तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः 3058005a ददर्श पर्णशालां च रहितां सीतया तदा 3058005c श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव 3058006a रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् 3058006c श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् 3058007a विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् 3058007c दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः 3058008a हृता मृता वा नष्टा वा भक्षिता वा भविष्यति 3058008c निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता 3058009a गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः 3058009c अथ वा पद्मिनीं याता जलार्थं वा नदीं गता 3058010a यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् 3058010c शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते 3058011a वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम् 3058011c बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः 3058012a अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया 3058012c कदम्ब यदि जानीषे शंस सीतां शुभाननाम् 3058013a स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् 3058013c शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी 3058014a अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् 3058014c जनकस्य सुता भीरुर्यदि जीवति वा न वा 3058015a ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् 3058015c लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः 3058016a भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् 3058016c एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् 3058017a अशोकशोकापनुद शोकोपहतचेतसं 3058017c त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् 3058018a यदि ताल त्वया दृष्टा पक्वतालफलस्तनी 3058018c कथयस्व वरारोहां कारुष्यं यदि ते मयि 3058019a यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा 3058019c प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे 3058020a अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम् 3058020c मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् 3058021a गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् 3058021c तां मन्ये विदितां तुभ्यमाख्याहि वरवारण 3058022a शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना 3058022c मैथिली मम विस्रब्धः कथयस्व न ते भयम् 3058023a किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे 3058023c वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे 3058024a तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि 3058024c नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे 3058025a पीतकौशेयकेनासि सूचिता वरवर्णिनि 3058025c धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् 3058026a नैव सा नूनमथ वा हिंसिता चारुहासिनी 3058026c कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति 3058027a व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः 3058027c विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया 3058028a नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् 3058028c सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता 3058029a कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा 3058029c नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ 3058030a भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ 3058030c मया विरहिता बाला रक्षसां भक्षणाय वै 3058031a सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा 3058031c हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् 3058032a हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः 3058032c इत्येवं विलपन्रामः परिधावन्वनाद्वनम् 3058033a क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात् 3058033c क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः 3058034a स वनानि नदीः शैलान्गिरिप्रस्रवणानि च 3058034c काननानि च वेगेन भ्रमत्यपरिसंस्थितः 3058035a तथा स गत्वा विपुलं महद्वनं; परीत्य सर्वं त्वथ मैथिलीं प्रति 3058035c अनिष्ठिताशः स चकार मार्गणे; पुनः प्रियायाः परमं परिश्रमम् 3059001a दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः 3059001c रहितां पर्णशालां च विध्वस्तान्यासनानि च 3059002a अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः 3059002c उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ 3059003a क्व नु लक्ष्मण वैदेही कं वा देशमितो गता 3059003c केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया 3059004a वृष्केणावार्य यदि मां सीते हसितुमिच्छसि 3059004c अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् 3059005a यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः 3059005c एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः 3059006a मृतं शोकेन महता सीताहरणजेन माम् 3059006c परलोके महाराजो नूनं द्रक्ष्यति मे पिता 3059007a कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः 3059007c अपूरयित्वा तं कालं मत्सकाशमिहागतः 3059008a कामवृत्तमनार्यं मां मृषावादिनमेव च 3059008c धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता 3059009a विवशं शोकसंतप्तं दीनं भग्नमनोरथम् 3059009c मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् 3059010a क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे 3059010c त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः 3059011a इतीव विलपन्रामः सीतादर्शनलालसः 3059011c न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् 3059012a अनासादयमानं तं सीतां दशरथात्मजम् 3059012c पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् 3059012e लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया 3059013a मा विषादं महाबाहो कुरु यत्नं मया सह 3059013c इदं च हि वनं शूर बहुकन्दरशोभितम् 3059014a प्रियकाननसंचारा वनोन्मत्ता च मैथिली 3059014c सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् 3059015a सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम् 3059015c वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् 3059015e जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ 3059016a तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे 3059016c वनं सर्वं विचिनुवो यत्र सा जनकात्मजा 3059016e मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः 3059017a एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः 3059017c सह सौमित्रिणा रामो विचेतुमुपचक्रमे 3059017e तौ वनानि गिरींश्चैव सरितश्च सरांसि च 3059018a निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ 3059018c तस्य शैलस्य सानूनि गुहाश्च शिखराणि च 3059019a निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः 3059019c विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् 3059020a नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे 3059020c ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् 3059021a विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं 3059021c प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् 3059022a यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् 3059022c एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः 3059023a उवाच दीनया वाचा दुःखाभिहतचेतनः 3059023c वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः 3059024a गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः 3059024c न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् 3059025a एवं स विलपन्रामः सीताहरणकर्शितः 3059025c दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् 3059026a स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः 3059026c विषसादातुरो दीनो निःश्वस्याशीतमायतम् 3059027a बहुशः स तु निःश्वस्य रामो राजीवलोचनः 3059027c हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः 3059028a तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः 3059028c बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः 3059029a अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम् 3059029c अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः 3060001a स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् 3060001c शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् 3060001e अपि गोदावरीं सीता पद्मान्यानयितुं गता 3060002a एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि 3060002c नदीं गोदावरीं रम्यां जगाम लघुविक्रमः 3060003a तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् 3060003c नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे 3060004a कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी 3060004c न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा 3060005a लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः 3060005c रामः समभिचक्राम स्वयं गोदावरीं नदीम् 3060006a स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् 3060007a भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि 3060007c न तां शशंसू रामाय तथा गोदावरी नदी 3060008a ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति 3060008c न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता 3060009a रावणस्य च तद्रूपं कर्माणि च दुरात्मनः 3060009c ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् 3060010a निराशस्तु तया नद्या सीताया दर्शने कृतः 3060010c उवाच रामः सौमित्रिं सीतादर्शनकर्शितः 3060011a किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः 3060011c मातरं चैव वैदेह्या विना तामहमप्रियम् 3060012a या मे राज्यविहीनस्य वने वन्येन जीवतः 3060012c सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता 3060013a ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः 3060013c मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः 3060014a गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् 3060014c सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते 3060015a एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ 3060015c वसुंधरायां पतितं पुष्पमार्गमपश्यताम् 3060016a तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले 3060016c उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः 3060017a अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण 3060017c अपिनद्धानि वैदेह्या मया दत्तानि कानने 3060018a एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् 3060018c क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा 3060019a तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत 3060019c यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् 3060020a मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि 3060020c असेव्यः सततं चैव निस्तृणद्रुमपल्लवः 3060021a इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण 3060021c यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् 3060022a एवं स रुषितो रामो दिधक्षन्निव चक्षुषा 3060022c ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् 3060023a स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च 3060023c संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् 3060024a पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः 3060024c भूषणानां हि सौमित्रे माल्यानि विविधानि च 3060025a तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः 3060025c आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् 3060026a मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः 3060026c भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति 3060027a तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः 3060027c बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह 3060028a मुक्तामणिचितं चेदं तपनीयविभूषितम् 3060028c धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः 3060029a तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् 3060029c विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् 3060030a छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् 3060030c भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम् 3060031a काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः 3060031c भीमरूपा महाकायाः कस्य वा निहता रणे 3060032a दीप्तपावकसंकाशो द्युतिमान्समरध्वजः 3060032c अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः 3060033a रथाक्षमात्रा विशिखास्तपनीयविभूषणाः 3060033c कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः 3060034a वैरं शतगुणं पश्य ममेदं जीवितान्तकम् 3060034c सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः 3060035a हृता मृता वा सीता हि भक्षिता वा तपस्विनी 3060035c न धर्मस्त्रायते सीतां ह्रियमाणां महावने 3060036a भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण 3060036c के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः 3060037a कर्तारमपि लोकानां शूरं करुणवेदिनम् 3060037c अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण 3060038a मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् 3060038c निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः 3060039a मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण 3060039c अद्यैव सर्वभूतानां रक्षसामभवाय च 3060039e संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः 3060040a नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः 3060040c किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण 3060041a ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण 3060041c निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् 3060042a संनिरुद्धग्रहगणमावारितनिशाकरम् 3060042c विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् 3060043a विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् 3060043c ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् 3060044a न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः 3060044c अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् 3060045a नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण 3060045c मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम् 3060046a अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् 3060046c समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण 3060047a आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः 3060047c करिष्ये मैथिलीहेतोरपिशाचमराक्षसं 3060048a मम रोषप्रयुक्तानां सायकानां बलं सुराः 3060048c द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् 3060049a नैव देवा न दैतेया न पिशाचा न राक्षसाः 3060049c भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते 3060050a देवदानवयक्षाणां लोका ये रक्षसामपि 3060050c बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः 3060050e निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः 3060051a यथा जरा यथा मृत्युर्यथाकालो यथाविधिः 3060051c नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण 3060051e तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् 3060052a पुरेव मे चारुदतीमनिन्दितां; दिशन्ति सीतां यदि नाद्य मैथिलीम् 3060052c सदेवगन्धर्वमनुष्य पन्नगं; जगत्सशैलं परिवर्तयाम्यहम् 3061001a तप्यमानं तथा रामं सीताहरणकर्शितम् 3061001c लोकानामभवे युक्तं साम्वर्तकमिवानलम् 3061002a वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः 3061002c हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा 3061003a अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः 3061003c अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता 3061004a पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः 3061004c न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि 3061005a चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा 3061005c एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः 3061006a न तु जानामि कस्यायं भग्नः सांग्रामिको रथः 3061006c केन वा कस्य वा हेतोः सायुधः सपरिच्छदः 3061007a खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः 3061007c देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज 3061008a एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर 3061008c न हि वृत्तं हि पश्यामि बलस्य महतः पदम् 3061009a नैकस्य तु कृते लोकान्विनाशयितुमर्हसि 3061009c युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः 3061010a सदा त्वं सर्वभूतानां शरण्यः परमा गतिः 3061010c को नु दारप्रणाशं ते साधु मन्येत राघव 3061011a सरितः सागराः शैला देवगन्धर्वदानवाः 3061011c नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः 3061012a येन राजन्हृता सीता तमन्वेषितुमर्हसि 3061012c मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः 3061013a समुद्रं च विचेष्यामः पर्वतांश्च वनानि च 3061013c गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह 3061014a देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः 3061014c यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् 3061015a न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः 3061015c कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि 3061016a शीलेन साम्ना विनयेन सीतां; नयेन न प्राप्स्यसि चेन्नरेन्द्र 3061016c ततः समुत्सादय हेमपुङ्खै;र्महेन्द्रवज्रप्रतिमैः शरौघैः 3062001a तं तथा शोकसंतप्तं विलपन्तमनाथवत् 3062001c मोहेन महताविष्टं परिद्यूनमचेतनम् 3062002a ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः 3062002c रामं संबोधयामास चरणौ चाभिपीडयन् 3062003a महता तपसा राम महता चापि कर्मणा 3062003c राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः 3062004a तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः 3062004c राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् 3062005a यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे 3062005c प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति 3062006a दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते 3062006c आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् 3062007a लोकस्वभाव एवैष ययातिर्नहुषात्मजः 3062007c गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् 3062008a महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितः 3062008c अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् 3062009a या चेयं जगतो माता देवी लोकनमस्कृता 3062009c अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव 3062010a यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम् 3062010c आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ 3062011a सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ 3062011c न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः 3062012a शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ 3062012c श्रूयेते नरशार्दूल न त्वं व्यथितुमर्हसि 3062013a नष्टायामपि वैदेह्यां हृतायामपि चानघ 3062013c शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा 3062014a त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः 3062014c सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः 3062015a तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय 3062015c बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे 3062016a अदृष्टगुणदोषाणामधृतानां च कर्मणाम् 3062016c नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते 3062017a मामेव हि पुरा वीर त्वमेव बहुषोऽन्वशाः 3062017c अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः 3062018a बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया 3062018c शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम् 3062019a दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् 3062019c इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे 3062020a किं ते सर्वविनाशेन कृतेन पुरुषर्षभ 3062020c तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि 3063001a पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् 3063001c सारग्राही महासारं प्रतिजग्राह राघवः 3063002a संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः 3063002c अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् 3063003a किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण 3063003c केनोपायेन पश्येयं सीतामिति विचिन्तय 3063004a तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् 3063004c इदमेव जनस्थानं त्वमन्वेषितुमर्हसि 3063005a राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् 3063005c सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च 3063006a गुहाश्च विविधा घोरा नानामृगगणाकुलाः 3063006c आवासाः किंनराणां च गन्धर्वभवनानि च 3063007a तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि 3063007c त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ 3063008a आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः 3063008c इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः 3063009a क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् 3063009c ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् 3063010a ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् 3063010c तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् 3063010e अनेन सीता वैदेही भक्षिता नात्र संशयः 3063011a गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् 3063011c भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् 3063011e एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः 3063012a इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम् 3063012c क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् 3063013a तं दीनदीनया वाचा सफेनं रुधिरं वमन् 3063013c अभ्यभाषत पक्षी तु रामं दशरथात्मजम् 3063014a यामोषधिमिवायुष्मन्नन्वेषसि महावने 3063014c सा देवी मम च प्राणा रावणेनोभयं हृतम् 3063015a त्वया विरहिता देवी लक्ष्मणेन च राघव 3063015c ह्रियमाणा मया दृष्टा रावणेन बलीयसा 3063016a सीतामभ्यवपन्नोऽहं रावणश्च रणे मया 3063016c विध्वंसितरथच्छत्रः पातितो धरणीतले 3063017a एतदस्य धनुर्भग्नमेतदस्य शरावरम् 3063017c अयमस्य रणे राम भग्नः सांग्रामिको रथः 3063018a परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः 3063018c सीतामादाय वैदेहीमुत्पपात विहायसं 3063018e रक्षसा निहतं पूर्व्म न मां हन्तुं त्वमर्हसि 3063019a रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् 3063019c गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः 3063020a एकमेकायने दुर्गे निःश्वसन्तं कथंचन 3063020c समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् 3063021a राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः 3063021c ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् 3063022a संपूर्णमपि चेदद्य प्रतरेयं महोदधिम् 3063022c सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः 3063023a नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे 3063023c येनेयं महती प्राप्ता मया व्यसनवागुरा 3063024a अयं पितृवयस्यो मे गृध्रराजो जरान्वितः 3063024c शेते विनिहतो भूमौ मम भाग्यविपर्ययात् 3063025a इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः 3063025c जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् 3063026a निकृत्तपक्षं रुधिरावसिक्तं; तं गृध्रराजं परिरभ्य रामः 3063026c क्व मैथिलि प्राणसमा ममेति; विमुच्य वाचं निपपात भूमौ 3064001a रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् 3064001c सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् 3064002a ममायं नूनमर्थेषु यतमानो विहंगमः 3064002c राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान् 3064003a अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते 3064003c तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते 3064004a जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः 3064004c सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः 3064005a किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया 3064005c अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया 3064006a कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् 3064006c सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम 3064007a कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः 3064007c क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः 3064008a तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् 3064008c वाचातिसन्नया रामं जटायुरिदमब्रवीत् 3064009a सा हृता राक्षसेन्द्रेण रावणेन विहायसा 3064009c मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् 3064010a परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः 3064010c सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः 3064011a उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव 3064011c पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् 3064012a येन याति मुहूर्तेन सीतामादाय रावणः 3064012c विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते 3064013a विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत् 3064013c झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति 3064014a न च त्वया व्यथा कार्या जनकस्य सुतां प्रति 3064014c वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे 3064015a असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः 3064015c आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् 3064016a पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च 3064016c इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः 3064017a ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः 3064017c त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं 3064018a स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा 3064018c विक्षिप्य च शरीरं स्वं पपात धरणीतले 3064019a तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् 3064019c रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् 3064020a बहूनि रक्षसां वासे वर्षाणि वसता सुखम् 3064020c अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा 3064021a अनेकवार्षिको यस्तु चिरकालं समुत्थितः 3064021c सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः 3064022a पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे 3064022c सीतामभ्यवपन्नो वै रावणेन बलीयसा 3064023a गृध्रराज्यं परित्यज्य पितृपैतामहं महत् 3064023c मम हेतोरयं प्राणान्मुमोच पतगेश्वरः 3064024a सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः 3064024c शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि 3064025a सीताहरणजं दुःखं न मे सौम्य तथागतम् 3064025c यथा विनाशो गृध्रस्य मत्कृते च परंतप 3064026a राजा दशरथः श्रीमान्यथा मम मया यशाः 3064026c पूजनीयश्च मान्यश्च तथायं पतगेश्वरः 3064027a सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् 3064027c गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् 3064028a नाथं पतगलोकस्य चितामारोपयाम्यहम् 3064028c इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा 3064029a या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः 3064029c अपरावर्तिनां या च या च भूमिप्रदायिनाम् 3064030a मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् 3064030c गृध्रराज महासत्त्व संस्कृतश्च मया व्रज 3064031a एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् 3064031c ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः 3064032a रामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान् 3064032c स्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम् 3064033a रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः 3064033c शकुनाय ददौ रामो रम्ये हरितशाद्वले 3064034a यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः 3064034c तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह 3064035a ततो गोदावरीं गत्वा नदीं नरवरात्मजौ 3064035c उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ 3064036a स गृध्रराजः कृतवान्यशस्करं; सुदुष्करं कर्म रणे निपातितः 3064036c महर्षिकल्पेन च संस्कृतस्तदा; जगाम पुण्यां गतिमात्मनः शुभाम् 3065001a कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा 3065001c अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् 3065002a तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ 3065002c अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः 3065003a गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् 3065003c आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् 3065004a व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् 3065004c सुभीमं तन्महारण्यं व्यतियातौ महाबलौ 3065005a ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ 3065005c क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ 3065006a नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः 3065006c नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् 3065007a दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः 3065007c तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ 3065008a लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः 3065008c अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं 3065009a स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः 3065009c प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये 3065010a तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् 3065010c ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् 3065011a एष वञ्चुलको नाम पक्षी परमदारुणः 3065011c आवयोर्विजयं युद्धे शंसन्निव विनर्दति 3065012a तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा 3065012c संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् 3065013a संवेष्टितमिवात्यर्थं गहनं मातरिश्वना 3065013c वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव 3065014a तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः 3065014c ददर्श सुमहाकायं राक्षसं विपुलोरसं 3065015a आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् 3065015c विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् 3065016a रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् 3065016c नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् 3065017a महापक्ष्मेण पिङ्गेन विपुलेनायतेन च 3065017c एकेनोरसि घोरेण नयनेनाशुदर्शिना 3065018a महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् 3065018c भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् 3065019a घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ 3065019c कराभ्यां विविधान्गृह्य ऋष्कान्पक्षिगणान्मृगान् 3065020a आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् 3065020c स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः 3065021a अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः 3065021c महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् 3065022a स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ 3065022c जग्राह सहितावेव राघवौ पीडयन्बलात् 3065023a खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ 3065023c भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ 3065024a तावुवाच महाबाहुः कबन्धो दानवोत्तमः 3065024c कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ 3065025a घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ 3065025c वदतं कार्यमिह वां किमर्थं चागतौ युवाम् 3065026a इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः 3065026c सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ 3065026e ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः 3065027a तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः 3065027c उवाच लक्ष्मणं रामो मुखेन परिशुष्यता 3065028a कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम 3065028c व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् 3065029a कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण 3065029c त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ 3065029e नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण 3065030a शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे 3065030c कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः 3065031a इति ब्रुवाणो दृढसत्यविक्रमो; महायशा दाशरथिः प्रतापवान् 3065031c अवेक्ष्य सौमित्रिमुदग्रविक्रमं; स्थिरां तदा स्वां मतिमात्मनाकरोत् 3066001a तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ 3066001c बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् 3066002a तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ 3066002c आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ 3066003a तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा 3066003c उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः 3066004a त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः 3066004c तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू 3066005a ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ 3066005c अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः 3066006a दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः 3066006c चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः 3066007a स पपात महाबाहुश्छिन्नबाहुर्महास्वनः 3066007c खं च गां च दिशश्चैव नादयञ्जलदो यथा 3066008a स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः 3066008c दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः 3066009a इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः 3066009c शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः 3066010a अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः 3066010c अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् 3066011a अस्य देवप्रभावस्य वसतो विजने वने 3066011c रक्षसापहृता भार्या यामिच्छन्ताविहागतौ 3066012a त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने 3066012c आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे 3066013a एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः 3066013c उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् 3066014a स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् 3066014c दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ 3066015a विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा 3066015c तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव 3067001a पुरा राम महाबाहो महाबलपराक्रम 3067001c रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् 3067001e यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः 3067002a सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् 3067002c ऋषीन्वनगतान्राम त्रासयामि ततस्ततः 3067003a ततः स्थूलशिरा नाम महर्षिः कोपितो मया 3067003c संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः 3067004a तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना 3067004c एतदेव नृशंसं ते रूपमस्तु विगर्हितम् 3067005a स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति 3067005c अभिशापकृतस्येति तेनेदं भाषितं वचः 3067006a यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने 3067006c तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् 3067007a श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण 3067007c इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे 3067008a अहं हि तपसोग्रेण पितामहमतोषयम् 3067008c दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् 3067009a दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति 3067009c इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् 3067010a तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा 3067010c सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम् 3067011a स मया याच्यमानः सन्नानयद्यमसादनम् 3067011c पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् 3067012a अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः 3067012c वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् 3067013a एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ 3067013c प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् 3067014a सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् 3067014c सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः 3067015a स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः 3067015c छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि 3067016a स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव 3067016c शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा 3067017a अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ 3067017c मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना 3067018a एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः 3067018c इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः 3067019a रावणेन हृता सीता मम भार्या यशस्विनी 3067019c निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् 3067020a नाममात्रं तु जानामि न रूपं तस्य रक्षसः 3067020c निवासं वा प्रभावं वा वयं तस्य न विद्महे 3067021a शोकार्तानामनाथानामेवं विपरिधावताम् 3067021c कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् 3067022a काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः 3067022c भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते 3067023a स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता 3067023c कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः 3067024a एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् 3067024c प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् 3067025a दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् 3067025c यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः 3067026a अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो 3067026c राक्षसं तं महावीर्यं सीता येन हृता तव 3067027a विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव 3067027c स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् 3067028a किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः 3067028c तावन्मामवटे क्षिप्त्वा दह राम यथाविधि 3067029a दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन 3067029c वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं 3067030a तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव 3067030c कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः 3067031a न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव 3067031c सर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे 3068001a एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ 3068001c गिरिप्रदरमासाद्य पावकं विससर्जतुः 3068002a लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः 3068002c चितामादीपयामास सा प्रजज्वाल सर्वतः 3068003a तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् 3068003c मेदसा पच्यमानस्य मन्दं दहति पावक 3068004a स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः 3068004c अरजे वाससी विभ्रन्मालां दिव्यां महाबलः 3068005a ततश्चिताया वेगेन भास्वरो विरजाम्बरः 3068005c उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः 3068006a विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे 3068006c प्रभया च महातेजा दिशो दश विराजयन् 3068007a सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् 3068007c शृणु राघव तत्त्वेन यथा सीमामवाप्स्यसि 3068008a राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते 3068008c परिमृष्टो दशान्तेन दशाभागेन सेव्यते 3068009a दशाभागगतो हीनस्त्वं राम सहलक्ष्मणः 3068009c यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् 3068010a तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर 3068010c अकृत्वा न हि ते सिद्धिमहं पश्यामि चिन्तयन् 3068011a श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः 3068011c भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना 3068012a ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते 3068012c निवसत्यात्मवान्वीरश्चतुर्भिः सह वानरैः 3068013a वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव 3068013c अद्रोहाय समागम्य दीप्यमाने विभावसौ 3068014a न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः 3068014c कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् 3068015a शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् 3068015c कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति 3068016a स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः 3068016c भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः 3068017a संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम् 3068017c कुरु राघव सत्येन वयस्यं वनचारिणम् 3068018a स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः 3068018c नरमांसाशिनां लोके नैपुण्यादधिगच्छति 3068019a न तस्याविदितं लोके किंचिदस्ति हि राघव 3068019c यावत्सूर्यः प्रतपति सहस्रांशुररिंदम 3068020a स नदीर्विपुलाञ्शैलान्गिरिदुर्गाणि कन्दरान् 3068020c अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति 3068021a वानरांश्च महाकायान्प्रेषयिष्यति राघव 3068021c दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् 3068022a स मेरुशृङ्गाग्रगतामनिन्दितां; प्रविश्य पातालतलेऽपि वाश्रिताम् 3068022c प्लवंगमानां प्रवरस्तव प्रियां; निहत्य रक्षांसि पुनः प्रदास्यति 3069001a निदर्शयित्वा रामाय सीतायाः प्रतिपादने 3069001c वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् 3069002a एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः 3069002c प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः 3069003a जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः 3069003c अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः 3069004a तानारुह्याथ वा भूमौ पातयित्वा च तान्बलात् 3069004c फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः 3069005a चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम् 3069005c ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः 3069006a अशर्करामविभ्रंशां समतीर्थमशैवलाम् 3069006c राम संजातवालूकां कमलोत्पलशोभिताम् 3069007a तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव 3069007c वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः 3069008a नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः 3069008c घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः 3069009a रोहितान्वक्रतुण्डांश्च नलमीनांश्च राघव 3069009c पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् 3069010a निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् 3069010c तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति 3069011a भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये 3069011c पद्मगन्धि शिवं वारि सुखशीतमनामयम् 3069012a उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् 3069012c अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति 3069013a स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः 3069013c अपां लोभादुपावृत्तान्वृषभानिव नर्दतः 3069013e रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम 3069014a सायाह्ने विचरन्राम विटपी माल्यधारिणः 3069014c शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि 3069015a सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् 3069015c उत्पलानि च फुल्लानि पङ्कजानि च राघव 3069016a न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः 3069016c मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः 3069017a तेषां भाराभितप्तानां वन्यमाहरतां गुरोः 3069017c ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः 3069018a तानि माल्यानि जातानि मुनीनां तपसा तदा 3069018c स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव 3069019a तेषामद्यापि तत्रैव दृश्यते परिचारिणी 3069019c श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी 3069020a त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् 3069020c दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति 3069021a ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् 3069021c आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि 3069022a न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् 3069022c ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम् 3069023a तस्मिन्नन्दनसंकाशे देवारण्योपमे वने 3069023c नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः 3069024a ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः 3069024c सुदुःखारोहणो नाम शिशुनागाभिरक्षितः 3069024e उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः 3069025a शयानः पुरुषो राम तस्य शैलस्य मूर्धनि 3069025c यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति 3069026a न त्वेनं विषमाचारः पापकर्माधिरोहति 3069026c तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः 3069027a ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान् 3069027c क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् 3069028a सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः 3069028c प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः 3069029a ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् 3069029c निवृत्ताः संविगाहन्ते वनानि वनगोचराः 3069030a राम तस्य तु शैलस्य महती शोभते गुहा 3069030c शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् 3069031a तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः 3069031c बहुमूलफलो रम्यो नानानगसमावृतः 3069032a तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः 3069032c कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते 3069033a कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ 3069033c स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् 3069034a तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ 3069034c प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात् 3069035a गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः 3069035c सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा 3069036a स तत्कबन्धः प्रतिपद्य रूपं; वृतः श्रिया भास्करतुल्यदेहः 3069036c निदर्शयन्राममवेक्ष्य खस्थः; सख्यं कुरुष्वेति तदाभ्युवाच 3070001a तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने 3070001c आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ 3070002a तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान् 3070002c वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ 3070003a कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ 3070003c पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः 3070004a तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् 3070004c अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् 3070005a तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् 3070005c सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः 3070006a तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः 3070006c पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः 3070007a तामुवाच ततो रामः श्रमणीं संशितव्रताम् 3070007c कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः 3070008a कच्चित्ते नियतः कोप आहारश्च तपोधने 3070008c कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् 3070008e कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि 3070009a रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता 3070009c शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता 3070010a चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः 3070010c इतस्ते दिवमारूढा यानहं पर्यचारिषम् 3070011a तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः 3070011c आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् 3070012a स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः 3070012c तं च दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि 3070013a मया तु विविधं वन्यं संचितं पुरुषर्षभ 3070013c तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् 3070014a एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् 3070014c राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् 3070015a दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः 3070015c श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे 3070016a एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् 3070016c शबरी दर्शयामास तावुभौ तद्वनं महत् 3070017a पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् 3070017c मतङ्गवनमित्येव विश्रुतं रघुनन्दन 3070018a इह ते भावितात्मानो गुरवो मे महाद्युते 3070018c जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् 3070019a इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः 3070019c पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः 3070020a तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम 3070020c द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः 3070021a अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः 3070021c चिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान् 3070022a कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह 3070022c अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन 3070023a कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया 3070023c तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम् 3070024a तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् 3070024c मुनीनामाश्रंमो येषामहं च परिचारिणी 3070025a धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः 3070025c अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत् 3070026a अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने 3070026c ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा 3070027a यत्र ते सुकृतात्मानो विहरन्ति महर्षयः 3070027c तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना 3071001a दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा 3071001c लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः 3071002a चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् 3071002c हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् 3071003a दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् 3071003c विश्वस्तमृगशार्दूलो नानाविहगसेवितः 3071004a सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण 3071004c उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः 3071005a प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम् 3071005c तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति 3071006a हृदये हि नरव्याघ्र शुभमाविर्भविष्यति 3071006c तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् 3071007a ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते 3071007c यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः 3071007e नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः 3071008a अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् 3071008c तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् 3071009a इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत् 3071009c गच्छावस्त्वरितं तत्र ममापि त्वरते मनः 3071010a आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः 3071010c आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः 3071011a समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् 3071011c कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः 3071011e एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत् 3071012a स रामो विधिवान्वृक्षान्सरांसि विविधानि च 3071012c पश्यन्कामाभिसंतप्तो जगाम परमं ह्रदम् 3071013a स तामासाद्य वै रामो दूरादुदकवाहिनीम् 3071013c मतङ्गसरसं नाम ह्रदं समवगाहत 3071014a स तु शोकसमाविष्टो रामो दशरथात्मजः 3071014c विवेश नलिनीं पम्पां पङ्कजैश्च समावृताम् 3071015a तिलकाशोकपुंनागबकुलोद्दाल काशिनीम् 3071015c रम्योपवनसंबाधां पद्मसंपीडितोदकाम् 3071016a स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् 3071016c मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम् 3071017a सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम् 3071017c किंनरोरगगन्धर्वयक्षराक्षससेविताम् 3071017e नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् 3071018a पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः 3071018c नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव 3071019a अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् 3071019c पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् 3071020a स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह 3071020c विललाप च तेजस्वी कामाद्दशरथात्मजः 3071021a तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा 3071021c पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः 3071022a मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा 3071022c अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः 3071022e अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम् 3071023a अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः 3071023c ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः 3071024a हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः 3071024c अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः 3071025a सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ 3071025c इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् 3071026a ततो महद्वर्त्म च दूरसंक्रमं; क्रमेण गत्वा प्रविलोकयन्वनम् 3071026c ददर्श पम्पां शुभदर्श कानना;मनेकनानाविधपक्षिसंकुलाम्