% Ramayana: Ayodhyakanda % Last updated: Sun Jul 03 2022 % Encoding: Unicode Devanagari % 2001001a कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् 2001001c भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः 2001002a अयं केकयराजस्य पुत्रो वसति पुत्रक 2001002c त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव 2001003a श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः 2001003c गमनायाभिचक्राम शत्रुघ्नसहितस्तदा 2001004a आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् 2001004c मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ 2001005a युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः 2001005c स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह 2001006a स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः 2001006c मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः 2001007a तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः 2001007c भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् 2001008a राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ 2001008c उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ 2001009a सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः 2001009c स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः 2001010a तेषामपि महातेजा रामो रतिकरः पितुः 2001010c स्वयम्भूरिव भूतानां बभूव गुणवत्तरः 2001011a गते च भरते रामो लक्ष्मणश्च महाबलः 2001011c पितरं देवसंकाशं पूजयामासतुस्तदा 2001012a पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः 2001012c चकार रामो धर्मात्मा प्रियाणि च हितानि च 2001013a मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः 2001013c गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत 2001014a एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा 2001014c रामस्य शीलवृत्तेन सर्वे विषयवासिनः 2001015a स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते 2001015c उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते 2001016a कथंचिदुपकारेण कृतेनैकेन तुष्यति 2001016c न स्मरत्यपकाराणां शतमप्यात्मवत्तया 2001017a शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः 2001017c कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि 2001018a कल्याणाभिजनः साधुरदीनः सत्यवागृजुः 2001018c वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः 2001019a धर्मार्थकामतत्त्वज्ञः स्मृतिमान्प्रतिभावनान् 2001019c लौकिके समयाचरे कृतकल्पो विशारदः 2001020a शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः 2001020c यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः 2001021a आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् 2001021c श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि 2001022a अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः 2001022c वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् 2001023a आरोहे विनये चैव युक्तो वारणवाजिनाम् 2001023c धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः 2001024a अभियाता प्रहर्ता च सेनानयविशारदः 2001024c अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः 2001025a अनसूयो जितक्रोधो न दृप्तो न च मत्सरी 2001025c न चावमन्ता भूतानां न च कालवशानुगः 2001026a एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः 2001026c संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः 2001026e बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः 2001027a तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः 2001027c गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः 2001028a तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम् 2001028c लोकपालोपमं नाथमकामयत मेदिनी 2001029a एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् 2001029c दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः 2001030a एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते 2001030c कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् 2001031a वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः 2001031c मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् 2001032a यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ 2001032c महीधरसमो धृत्यां मत्तश्च गुणवत्तरः 2001033a महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् 2001033c अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् 2001034a तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः 2001034c निश्चित्य सचिवैः सार्धं युवराजममन्यत 2001035a नानानगरवास्तव्यान्पृथग्जानपदानपि 2001035c समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः 2001036a अथ राजवितीर्णेषु विविधेष्वासनेषु च 2001036c राजानमेवाभिमुखा निषेदुर्नियता नृपाः 2001037a स लब्धमानैर्विनयान्वितैर्नृपैः; पुरालयैर्जानपदैश्च मानवैः 2001037c उपोपविष्टैर्नृपतिर्वृतो बभौ; सहस्रचक्षुर्भगवानिवामरैः 2002001a ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः 2002001c हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः 2002002a दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना 2002002c स्वरेण महता राजा जीग्मूत इव नादयन् 2002003a सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् 2002003c श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् 2002004a मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता 2002004c प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता 2002005a इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् 2002005c पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया 2002006a प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः 2002006c जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये 2002007a राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः 2002007c परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् 2002008a सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते 2002008c संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् 2002009a अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः 2002009c पुरंदरसमो वीर्ये रामः परपुरंजयः 2002010a तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् 2002010c यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम् 2002011a अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः 2002011c त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् 2002012a अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् 2002012c गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै 2002013a इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् 2002013c वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः 2002014a तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः 2002014c ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् 2002015a अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव 2002015c स रामं युवराजानमभिषिञ्चस्व पार्थिवम् 2002016a इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् 2002016c अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् 2002017a कथं नु मयि धर्मेण पृथिवीमनुशासति 2002017c भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् 2002018a ते तमूचुर्महात्मानं पौरजानपदैः सह 2002018c बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते 2002019a दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः 2002019c इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते 2002020a रामः सत्पुरुषो लोके सत्यधर्मपरायणः 2002020c धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः 2002021a क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः 2002021c मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः 2002022a प्रियवादी च भूतानां सत्यवादी च राघवः 2002022c बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता 2002023a तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते 2002023c देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः 2002024a यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा 2002024c गत्वा सौमित्रिसहितो नाविजित्य निवर्तते 2002025a संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा 2002025c पौरान्स्वजनवन्नित्यं कुशलं परिपृच्छति 2002026a पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च 2002026c निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान् 2002027a शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः 2002027c इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते 2002028a व्यसनेषु मनुष्याणां भृशं भवति दुःखितः 2002028c उत्सवेषु च सर्वेषु पितेव परितुष्यति 2002029a सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः 2002029c वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः 2002029e दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः 2002030a बलमारोग्यमायुश्च रामस्य विदितात्मनः 2002030c आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा 2002031a अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः 2002031c स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः 2002032a सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः 2002032c तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् 2002033a राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् 2002033c पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् 2002034a तं देवदेवोपममात्मजं ते; सर्वस्य लोकस्य हिते निविष्टम् 2002034c हिताय नः क्षिप्रमुदारजुष्टं; मुदाभिषेक्तुं वरद त्वमर्हसि 2003001a तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः 2003001c प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः 2003002a अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम 2003002c यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ 2003003a इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् 2003003c वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् 2003004a चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः 2003004c यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् 2003005a कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् 2003005c यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ 2003006a ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् 2003006c रामः कृतात्मा भवता शीघ्रमानीयतामिति 2003007a स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् 2003007c रामं तत्रानयां चक्रे रथेन रथिनां वरम् 2003008a अथ तत्र समासीनास्तदा दशरथं नृपम् 2003008c प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः 2003009a म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः 2003009c उपासां चक्रिरे सर्वे तं देवा इव वासवम् 2003010a तेषां मध्ये स राजर्षिर्मरुतामिव वासवः 2003010c प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् 2003011a गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् 2003011c दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् 2003012a चन्द्रकान्ताननं राममतीव प्रियदर्शनम् 2003012c रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् 2003013a घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः 2003013c न ततर्प समायान्तं पश्यमानो नराधिपः 2003014a अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् 2003014c पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् 2003015a स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः 2003015c आरुरोह नृपं द्रष्टुं सह सूतेन राघवः 2003016a स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके 2003016c नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः 2003017a तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः 2003017c गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् 2003018a तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम् 2003018c दिदेश राजा रुचिरं रामाय परमासनम् 2003019a तदासनवरं प्राप्य व्यदीपयत राघवः 2003019c स्वयेव प्रभया मेरुमुदये विमलो रविः 2003020a तेन विभ्राजिता तत्र सा सभाभिव्यरोचत 2003020c विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना 2003021a तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् 2003021c अलंकृतमिवात्मानमादर्शतलसंस्थितम् 2003022a स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः 2003022c उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः 2003023a ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः 2003023c उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः 2003024a त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः 2003024c तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि 2003025a कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि 2003025c गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् 2003026a भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः 2003026c कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च 2003027a परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा 2003027c अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय 2003028a तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् 2003028c तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः 2003028e तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर 2003029a तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः 2003029c त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् 2003030a सा हिरण्यं च गाश्चैव रत्नानि विविधानि च 2003030c व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा 2003031a अथाभिवाद्य राजानं रथमारुह्य राघवः 2003031c ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः 2003032a ते चापि पौरा नृपतेर्वचस्त;च्छ्रुत्वा तदा लाभमिवेष्टमाप्य 2003032c नरेन्द्रमामन्त्य गृहाणि गत्वा; देवान्समानर्चुरतीव हृष्टाः 2004001a गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः 2004001c मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् 2004002a श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः 2004002c रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः 2004003a अथान्तर्गृहमाविश्य राजा दशरथस्तदा 2004003c सूतमाज्ञापयामास रामं पुनरिहानय 2004004a प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ 2004004c रामस्य भवनं शीघ्रं राममानयितुं पुनः 2004005a द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः 2004005c श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् 2004006a प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् 2004006c यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः 2004007a तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति 2004007c श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा 2004008a इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः 2004008c प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् 2004009a तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः 2004009c प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम् 2004010a प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः 2004010c ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः 2004011a प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः 2004011c प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् 2004012a राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः 2004012c अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः 2004013a जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि 2004013c दत्तमिष्टमधीतं च मया पुरुषसत्तम 2004014a अनुभूतानि चेष्टानि मया वीर सुखानि च 2004014c देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः 2004015a न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् 2004015c अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि 2004016a अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् 2004016c अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक 2004017a अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान् 2004017c सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः 2004018a अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः 2004018c आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः 2004019a प्रायेण हि निमित्तानामीदृशानां समुद्भवे 2004019c राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति 2004020a तद्यावदेव मे चेतो न विमुह्यति राघव 2004020c तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः 2004021a अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् 2004021c श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः 2004022a तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् 2004022c श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप 2004023a तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना 2004023c सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना 2004024a सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः 2004024c भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि 2004025a विप्रोषितश्च भरतो यावदेव पुरादितः 2004025c तावदेवाभिषेकस्ते प्राप्तकालो मतो मम 2004026a कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः 2004026c ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः 2004027a किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः 2004027c सतां च धर्मनित्यानां कृतशोभि च राघव 2004028a इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने 2004028c व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् 2004029a प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने 2004029c तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ 2004030a तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् 2004030c वाग्यतां देवतागारे ददर्श याचतीं श्रियम् 2004031a प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा 2004031c सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् 2004032a तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा 2004032c सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च 2004033a श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् 2004033c प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् 2004034a तथा सनियमामेव सोऽभिगम्याभिवाद्य च 2004034c उवाच वचनं रामो हर्षयंस्तामिदं तदा 2004035a अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि 2004035c भविता श्वोऽभिषेको मे यथा मे शासनं पितुः 2004036a सीतयाप्युपवस्तव्या रजनीयं मया सह 2004036c एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता 2004037a यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने 2004037c तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय 2004038a एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् 2004038c हर्षबाष्पकलं वाक्यमिदं राममभाषत 2004039a वत्स राम चिरं जीव हतास्ते परिपन्थिनः 2004039c ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय 2004040a कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक 2004040c येन त्वया दशरथो गुणैराराधितः पिता 2004041a अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे 2004041c येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति 2004042a इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् 2004042c प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव 2004043a लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् 2004043c द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता 2004044a सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च 2004044c जीवितं च हि राज्यं च त्वदर्थमभिकामये 2004045a इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च 2004045c अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् 2005001a संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने 2005001c पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् 2005002a गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन 2005002c श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् 2005003a तथेति च स राजानमुक्त्वा वेदविदां वरः 2005003c स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् 2005004a स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् 2005004c तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः 2005005a तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः 2005005c मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् 2005006a अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः 2005006c ततोऽवतारयामास परिगृह्य रथात्स्वयम् 2005007a स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च 2005007c प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः 2005008a प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि 2005008c उपवासं भवानद्य करोतु सह सीतया 2005009a प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः 2005009c पिता दशरथः प्रीत्या ययातिं नहुषो यथा 2005010a इत्युक्त्वा स तदा राममुपवासं यतव्रतम् 2005010c मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः 2005011a ततो यथावद्रामेण स राज्ञो गुरुरर्चितः 2005011c अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् 2005012a सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः 2005012c सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः 2005013a हृष्टनारी नरयुतं रामवेश्म तदा बभौ 2005013c यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः 2005014a स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् 2005014c निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् 2005015a वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः 2005015c बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः 2005016a जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा 2005016c बभूव राजमार्गस्य सागरस्येव निस्वनः 2005017a सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी 2005017c आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा 2005018a तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः 2005018c रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः 2005019a प्रजालंकारभूतं च जनस्यानन्दवर्धनम् 2005019c उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम् 2005020a एवं तं जनसंबाधं राजमार्गं पुरोहितः 2005020c व्यूहन्निव जनौघं तं शनै राज कुलं ययौ 2005021a सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः 2005021c समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः 2005022a तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः 2005022c पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् 2005023a गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् 2005023c विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव 2005024a तदग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम् 2005024c व्यदीपयंश्चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभः 2006001a गते पुरोहिते रामः स्नातो नियतमानसः 2006001c सह पत्न्या विशालाक्ष्या नारायणमुपागमत् 2006002a प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा 2006002c महते दैवतायाज्यं जुहाव ज्वलितेऽनले 2006003a शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् 2006003c ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे 2006004a वाग्यतः सह वैदेह्या भूत्वा नियतमानसः 2006004c श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः 2006005a एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः 2006005c अलंकारविधिं कृत्स्नं कारयामास वेश्मनः 2006006a तत्र शृण्वन्सुखा वाचः सूतमागधबन्दिनाम् 2006006c पूर्वां संध्यामुपासीनो जजाप यतमानसः 2006007a तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् 2006007c विमलक्षौमसंवीतो वाचयामास च द्विजान् 2006008a तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा 2006008c अयोध्यां पूरयामास तूर्यघोषानुनादितः 2006009a कृतोपवासं तु तदा वैदेह्या सह राघवम् 2006009c अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः 2006010a ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् 2006010c प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः 2006011a सिताभ्रशिखराभेषु देवतायतनेषु च 2006011c चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च 2006012a नानापण्यसमृद्धेषु वणिजामापणेषु च 2006012c कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च 2006013a सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च 2006013c ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा 2006014a नटनर्तकसंघानां गायकानां च गायताम् 2006014c मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः 2006015a रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः 2006015c रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च 2006016a बाला अपि क्रीडमाना गृहद्वारेषु संघशः 2006016c रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः 2006017a कृतपुष्पोपहारश्च धूपगन्धाधिवासितः 2006017c राजमार्गः कृतः श्रीमान्पौरै रामाभिषेचने 2006018a प्रकाशीकरणार्थं च निशागमनशङ्कया 2006018c दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः 2006019a अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः 2006019c आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् 2006020a समेत्य संघशः सर्वे चत्वरेषु सभासु च 2006020c कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् 2006021a अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः 2006021c ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति 2006022a सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः 2006022c चिराय भविता गोप्ता दृष्टलोकपरावरः 2006023a अनुद्धतमना विद्वान्धर्मात्मा भ्रातृवत्सलः 2006023c यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः 2006024a चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः 2006024c यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् 2006025a एवंविधं कथयतां पौराणां शुश्रुवुस्तदा 2006025c दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः 2006026a ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् 2006026c रामस्य पूरयामासुः पुरीं जानपदा जनाः 2006027a जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः 2006027c पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः 2006028a ततस्तदिन्द्रक्षयसंनिभं पुरं; दिदृक्षुभिर्जानपदैरुपागतैः 2006028c समन्ततः सस्वनमाकुलं बभौ; समुद्रयादोभिरिवार्णवोदकम् 2007001a ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता 2007001c प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया 2007002a सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम् 2007002c अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत 2007003a पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम् 2007003c सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम् 2007004a अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा 2007004c उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती 2007005a राममाता धनं किं नु जनेभ्यः संप्रयच्छति 2007005c अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे 2007005e कारयिष्यति किं वापि संप्रहृष्टो महीपतिः 2007006a विदीर्यमाणा हर्षेण धात्री परमया मुदा 2007006c आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् 2007007a श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् 2007007c राजा दशरथो राममभिषेचयितानघम् 2007008a धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता 2007008c कैलास शिखराकारात्प्रासादादवरोहत 2007009a सा दह्यमाना कोपेन मन्थरा पापदर्शिनी 2007009c शयानामेत्य कैकेयीमिदं वचनमब्रवीत् 2007010a उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते 2007010c उपप्लुतमहौघेन किमात्मानं न बुध्यसे 2007011a अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे 2007011c चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे 2007012a एवमुक्ता तु कैकेयी रुष्टया परुषं वचः 2007012c कुब्जया पापदर्शिन्या विषादमगमत्परम् 2007013a कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे 2007013c विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् 2007014a मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् 2007014c उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा 2007015a सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी 2007015c विषादयन्ती प्रोवाच भेदयन्ती च राघवम् 2007016a अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम् 2007016c रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति 2007017a सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता 2007017c दह्यमानानलेनेव त्वद्धितार्थमिहागता 2007018a तव दुःखेन कैकेयि मम दुःखं महद्भवेत् 2007018c त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः 2007019a नराधिपकुले जाता महिषी त्वं महीपतेः 2007019c उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे 2007020a धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः 2007020c शुद्धभावे न जानीषे तेनैवमतिसंधिता 2007021a उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् 2007021c अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति 2007022a अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु 2007022c काल्यं स्थापयिता रामं राज्ये निहतकण्टके 2007023a शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया 2007023c आशीविष इवाङ्केन बाले परिधृतस्त्वया 2007024a यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः 2007024c राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता 2007025a पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते 2007025c रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि 2007026a सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव 2007026c त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने 2007027a मन्थराया वचः श्रुत्वा शयनात्सा शुभानना 2007027c एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् 2007028a दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा 2007028c कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् 2007029a इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् 2007029c एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते 2007030a रामे वा भरते वाहं विशेषं नोपलक्षये 2007030c तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति 2007031a न मे परं किंचिदितस्त्वया पुनः; प्रियं प्रियार्हे सुवचं वचो वरम् 2007031c तथा ह्यवोचस्त्वमतः प्रियोत्तरं; वरं परं ते प्रददामि तं वृणु 2008001a मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत् 2008001c उवाचेदं ततो वाक्यं कोपदुःखसमन्विता 2008002a हर्षं किमिदमस्थाने कृतवत्यसि बालिशे 2008002c शोकसागरमध्यस्थमात्मानं नावबुध्यसे 2008003a सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते 2008003c यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः 2008004a प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् 2008004c उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः 2008005a हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः 2008005c अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये 2008006a तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः 2008006c रामस्यैव गुणान्देवी कैकेयी प्रशशंस ह 2008007a धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः 2008007c रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति 2008008a भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति 2008008c संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् 2008009a भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् 2008009c पितृपैतामहं राज्यमवाप्स्यति नरर्षभः 2008010a सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे 2008010c भविष्यति च कल्याणे किमर्थं परितप्यसे 2008010e कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम् 2008011a कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता 2008011c दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् 2008012a अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे 2008012c शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे 2008013a भविता राघवो राजा राघवस्य च यः सुतः 2008013c राजवंशात्तु भरतः कैकेयि परिहास्यते 2008014a न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि 2008014c स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् 2008015a तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः 2008015c स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि 2008016a असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति 2008016c अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले 2008017a साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे 2008017c सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि 2008018a ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् 2008018c देशान्तरं नाययिता लोकान्तरमथापि वा 2008019a बाल एव हि मातुल्यं भरतो नायितस्त्वया 2008019c संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि 2008020a गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः 2008020c अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् 2008021a तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति 2008021c रामस्तु भरते पापं कुर्यादिति न संशयः 2008022a तस्माद्राजगृहादेव वनं गच्छतु ते सुतः 2008022c एतद्धि रोचते मह्यं भृशं चापि हितं तव 2008023a एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति 2008023c यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति 2008024a स ते सुखोचितो बालो रामस्य सहजो रिपुः 2008024c समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे 2008025a अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् 2008025c प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि 2008026a दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया 2008026c राममाता सपत्नी ते कथं वैरं न यातयेत् 2008027a यदा हि रामः पृथिवीमवाप्स्यति; ध्रुवं प्रनष्टो भरतो भविष्यति 2008027c अतो हि संचिन्तय राज्यमात्मजे; परस्य चाद्यैव विवासकारणम् 2009001a एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना 2009001c दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् 2009002a अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् 2009002c यौवराज्येन भरतं क्षिप्रमेवाभिषेचये 2009003a इदं त्विदानीं संपश्य केनोपायेन मन्थरे 2009003c भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन 2009004a एवमुक्ता तया देव्या मन्थरा पापदर्शिनी 2009004c रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् 2009005a हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे 2009005c यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् 2009006a श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी 2009006c किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् 2009007a कथय त्वं ममोपायं केनोपायेन मन्थरे 2009007c भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन 2009008a एवमुक्ता तया देव्या मन्थरा पापदर्शिनी 2009008c रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् 2009009a तव देवासुरे युद्धे सह राजर्षिभिः पतिः 2009009c अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् 2009010a दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रति 2009010c वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः 2009011a स शम्बर इति ख्यातः शतमायो महासुरः 2009011c ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः 2009012a तस्मिन्महति संग्रामे राजा दशरथस्तदा 2009012c अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः 2009013a तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया 2009013c तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने 2009014a स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ 2009014c गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना 2009014e अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा 2009015a तौ वरौ याच भर्तारं भरतस्याभिषेचनम् 2009015c प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश 2009016a क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते 2009016c शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी 2009016e मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः 2009017a दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः 2009017c त्वत्कृते च महाराजो विशेदपि हुताशनम् 2009018a न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम् 2009018c तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् 2009019a न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः 2009019c मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः 2009020a मणिमुक्तासुवर्णानि रत्नानि विविधानि च 2009020c दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः 2009021a यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात् 2009021c तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत् 2009022a यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः 2009022c व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् 2009023a रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च 2009023c भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः 2009024a एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति 2009024c भरतश्च हतामित्रस्तव राजा भविष्यति 2009025a येन कालेन रामश्च वनात्प्रत्यागमिष्यति 2009025c तेन कालेन पुत्रस्ते कृतमूलो भविष्यति 2009025e संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् 2009026a प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा 2009026c रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय 2009027a अनर्थमर्थरूपेण ग्राहिता सा ततस्तया 2009027c हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् 2009028a कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम् 2009028c पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये 2009029a त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी 2009029c नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् 2009030a सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः 2009030c त्वं पद्ममिव वातेन संनता प्रियदर्शना 2009031a उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् 2009031c अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् 2009032a जघनं तव निर्घुष्टं रशनादामशोभितम् 2009032c जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ 2009033a त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि 2009033c अग्रतो मम गच्छन्ती राजहंसीव राजसे 2009034a तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् 2009034c मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते 2009035a अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् 2009035c अभिषिक्ते च भरते राघवे च वनं गते 2009036a जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि 2009036c लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु 2009037a मुखे च तिलकं चित्रं जातरूपमयं शुभम् 2009037c कारयिष्यामि ते कुब्जे शुभान्याभरणानि च 2009038a परिधाय शुभे वस्त्रे देवतेव चरिष्यसि 2009038c चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना 2009038e गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम् 2009039a तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः 2009039c पादौ परिचरिष्यन्ति यथैव त्वं सदा मम 2009040a इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् 2009040c शयानां शयने शुभ्रे वेद्यामग्निशिखामिव 2009041a गतोदके सेतुबन्धो न कल्याणि विधीयते 2009041c उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय 2009042a तथा प्रोत्साहिता देवी गत्वा मन्थरया सह 2009042c क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता 2009043a अनेकशतसाहस्रं मुक्ताहारं वराङ्गना 2009043c अवमुच्य वरार्हाणि शुभान्याभरणानि च 2009044a ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता 2009044c संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् 2009045a इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि 2009045c वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् 2009046a अथैतदुक्त्वा वचनं सुदारुणं; निधाय सर्वाभरणानि भामिनी 2009046c असंवृतामास्तरणेन मेदिनीं; तदाधिशिश्ये पतितेव किन्नरी 2009047a उदीर्णसंरम्भतमोवृतानना; तथावमुक्तोत्तममाल्यभूषणा 2009047c नरेन्द्रपत्नी विमना बभूव सा; तमोवृता द्यौरिव मग्नतारका 2010001a आज्ञाप्य तु महाराजो राघवस्याभिषेचनम् 2010001c प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी 2010002a तां तत्र पतितां भूमौ शयानामतथोचिताम् 2010002c प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः 2010003a स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् 2010003c अपापः पापसंकल्पां ददर्श धरणीतले 2010004a करेणुमिव दिग्धेन विद्धां मृगयुणा वने 2010004c महागज इवारण्ये स्नेहात्परिममर्श ताम् 2010005a परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः 2010005c कामी कमलपत्राक्षीमुवाच वनितामिदम् 2010006a न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् 2010006c देवि केनाभियुक्तासि केन वासि विमानिता 2010007a यदिदं मम दुःखाय शेषे कल्याणि पांसुषु 2010007c भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि 2010007e भूतोपहतचित्तेव मम चित्तप्रमाथिनी 2010008a सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः 2010008c सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि 2010009a कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् 2010009c कः प्रियं लभतामद्य को वा सुमहदप्रियम् 2010010a अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम् 2010010c दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाप्यकिंचनः 2010011a अहं चैव मदीयाश्च सर्वे तव वशानुगाः 2010011c न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे 2010012a आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि 2010012c यावदावर्तते चक्रं तावती मे वसुंधरा 2010013a तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम् 2010013c परिपीडयितुं भूयो भर्तारमुपचक्रमे 2010014a नास्मि विप्रकृता देव केनचिन्न विमानिता 2010014c अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् 2010015a प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि 2010015c अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया 2010016a एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः 2010016c तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः 2010017a अवलिप्ते न जानासि त्वत्तः प्रियतरो मम 2010017c मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते 2010018a भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे 2010018c एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे 2010019a बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि 2010019c करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे 2010020a तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः 2010020c व्याजहार महाघोरमभ्यागतमिवान्तकम् 2010021a यथाक्रमेण शपसि वरं मम ददासि च 2010021c तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः 2010022a चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः 2010022c जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा 2010023a निशाचराणि भूतानि गृहेषु गृहदेवताः 2010023c यानि चान्यानि भूतानि जानीयुर्भाषितं तव 2010024a सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः 2010024c वरं मम ददात्येष तन्मे शृण्वन्तु देवताः 2010025a इति देवी महेष्वासं परिगृह्याभिशस्य च 2010025c ततः परमुवाचेदं वरदं काममोहितम् 2010026a वरौ यौ मे त्वया देव तदा दत्तौ महीपते 2010026c तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः 2010027a अभिषेकसमारम्भो राघवस्योपकल्पितः 2010027c अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् 2010028a नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः 2010028c चीराजिनजटाधारी रामो भवतु तापसः 2010029a भरतो भजतामद्य यौवराज्यमकण्टकम् 2010029c अद्य चैव हि पश्येयं प्रयान्तं राघवं वने 2010030a ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः 2010030c व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः 2010031a असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् 2010031c अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः 2010031e मोहमापेदिवान्भूयः शोकोपहतचेतनः 2010032a चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः 2010032c कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा 2010033a नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि 2010033c किं कृतं तव रामेण पापे पापं मयापि वा 2010034a सदा ते जननी तुल्यां वृत्तिं वहति राघवः 2010034c तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता 2010035a त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता 2010035c अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा 2010036a जीवलोको यदा सर्वो रामस्येह गुणस्तवम् 2010036c अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् 2010037a कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् 2010037c जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् 2010038a परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् 2010038c अपश्यतस्तु मे रामं नष्टा भवति चेतना 2010039a तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना 2010039c न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् 2010040a तदलं त्यज्यतामेष निश्चयः पापनिश्चये 2010040c अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे 2010041a स भूमिपालो विलपन्ननाथव;त्स्त्रिया गृहीतो हृदयेऽतिमात्रता 2010041c पपात देव्याश्चरणौ प्रसारिता;वुभावसंस्पृश्य यथातुरस्तथा 2011001a अतदर्हं महाराजं शयानमतथोचितम् 2011001c ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् 2011002a अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी 2011002c पुनराकारयामास तमेव वरमङ्गना 2011003a त्वं कत्थसे महाराज सत्यवादी दृढव्रतः 2011003c मम चेमं वरं कस्माद्विधारयितुमिच्छसि 2011004a एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा 2011004c प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव 2011005a मृते मयि गते रामे वनं मनुजपुंगवे 2011005c हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् 2011006a यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति 2011006c अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे 2011007a तथा विलपतस्तस्य परिभ्रमितचेतसः 2011007c अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत 2011008a स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता 2011008c राज्ञो विलपमानस्य न व्यभासत शर्वरी 2011009a तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः 2011009c विललापार्तवद्दुःखं गगनासक्तलोचनः 2011010a न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः 2011010c अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् 2011010e नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् 2011011a एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः 2011011c प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् 2011012a साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः 2011012c प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः 2011013a शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् 2011013c कुरु साधु प्रसादं मे बाले सहृदया ह्यसि 2011014a विशुद्धभावस्य हि दुष्टभावा; ताम्रेक्षणस्याश्रुकलस्य राज्ञः 2011014c श्रुत्वा विचित्रं करुणं विलापं; भर्तुर्नृशंसा न चकार वाक्यम् 2011015a ततः स राजा पुनरेव मूर्छितः; प्रियामतुष्टां प्रतिकूलभाषिणीम् 2011015c समीक्ष्य पुत्रस्य विवासनं प्रति; क्षितौ विसंज्ञो निपपात दुःखितः 2012001a पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि 2012001c विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत् 2012002a पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् 2012002c शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि 2012003a आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः 2012003c सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः 2012004a संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः 2012004c प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम् 2012005a तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे 2012005c याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ 2012006a सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः 2012006c सत्यानुरोधात्समये वेलां खां नातिवर्तते 2012007a समयं च ममार्येमं यदि त्वं न करिष्यसि 2012007c अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् 2012008a एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया 2012008c नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा 2012009a उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् 2012009c स धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा 2012010a विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः 2012010c कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् 2012011a यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः 2012011c तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया 2012012a ततः पापसमाचारा कैकेयी पार्थिवं पुनः 2012012c उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता 2012013a किमिदं भाषसे राजन्वाक्यं गररुजोपमम् 2012013c आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि 2012014a स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् 2012014c निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि 2012015a स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः 2012015c राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् 2012016a धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना 2012016c ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् 2012017a इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् 2012017c स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय 2012018a ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति 2012018c शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः 2012019a सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् 2012019c प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन् 2012020a यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः 2012020c तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह 2012021a सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् 2012021c स मन्यमानः कल्याणं हृदयेन ननन्द च 2012022a सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया 2012022c व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् 2012023a इति सूतो मतिं कृत्वा हर्षेण महता पुनः 2012023c निर्जगाम महातेजा राघवस्य दिदृक्षया 2012024a ततः पुरस्तात्सहसा विनिर्गतो; महीपतीन्द्वारगतान्विलोकयन् 2012024c ददर्श पौरान्विविधान्महाधना;नुपस्थितान्द्वारमुपेत्य विष्ठितान् 2013001a ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः 2013001c उपतस्थुरुपस्थानं सहराजपुरोहिताः 2013002a अमात्या बलमुख्याश्च मुख्या ये निगमस्य च 2013002c राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः 2013003a उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि 2013003c अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् 2013004a काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् 2013004c रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा 2013005a गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम् 2013005c याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च 2013006a प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः 2013006c ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः 2013007a क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः 2013007c सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः 2013007e पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा 2013008a चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् 2013008c सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् 2013009a चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् 2013009c सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् 2013010a पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः 2013010c प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते 2013011a अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः 2013011c वादित्राणि च सर्वाणि बन्दिनश्च तथापरे 2013012a इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् 2013012c तथा जातीयामादाय राजपुत्राभिषेचनम् 2013013a ते राजवचनात्तत्र समवेता महीपतिम् 2013013c अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् 2013014a न पश्यामश्च राजानमुदितश्च दिवाकरः 2013014c यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः 2013015a इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन् 2013015c अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः 2013016a अयं पृच्छामि वचनात्सुखमायुष्मतामहम् 2013016c राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम् 2013017a इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् 2013017c आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् 2013018a गता भगवती रात्रिरहः शिवमुपस्थितम् 2013018c बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् 2013019a ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप 2013019c दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव 2013020a स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् 2013020c प्रतिबुध्य ततो राजा इदं वचनमब्रवीत् 2013021a न चैव संप्रसुतोऽहमानयेदाशु राघवम् 2013021c इति राजा दशरथः सूतं तत्रान्वशात्पुनः 2013022a स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् 2013022c निर्जगाम नृपावासान्मन्यमानः प्रियं महत् 2013023a प्रपन्नो राजमार्गं च पताका ध्वजशोभितम् 2013023c स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः 2013024a ततो ददर्श रुचिरं कैलाससदृशप्रभम् 2013024c रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् 2013025a महाकपाटपिहितं वितर्दिशतशोभितम् 2013025c काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् 2013026a शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् 2013026c दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम् 2013027a स वाजियुक्तेन रथेन सारथि;र्नराकुलं राजकुलं विलोकयन् 2013027c ततः समासाद्य महाधनं मह;त्प्रहृष्टरोमा स बभूव सारथिः 2013028a तदद्रिकूटाचलमेघसंनिभं; महाविमानोत्तमवेश्मसंघवत् 2013028c अवार्यमाणः प्रविवेश सारथिः; प्रभूतरत्नं मकरो यथार्णवम् 2014001a स तदन्तःपुरद्वारं समतीत्य जनाकुलम् 2014001c प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् 2014002a प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः 2014002c अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् 2014003a तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान् 2014003c ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान् 2014004a ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः 2014004c सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे 2014005a प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः 2014005c तत्रैवानाययामास राघवः प्रियकाम्यया 2014006a तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम् 2014006c दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे 2014007a वराहरुधिराभेण शुचिना च सुगन्धिना 2014007c अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् 2014008a स्थितया पार्श्वतश्चापि वालव्यजनहस्तया 2014008c उपेतं सीतया भूयश्चित्रया शशिनं यथा 2014009a तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा 2014009c ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् 2014010a प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने 2014010c राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः 2014011a कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति 2014011c महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् 2014012a एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः 2014012c ततः संमानयामास सीतामिदमुवाच ह 2014013a देवि देवश्च देवी च समागम्य मदन्तरे 2014013c मन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम् 2014014a लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा 2014014c संचोदयति राजानं मदर्थं मदिरेक्षणा 2014015a यादृशी परिषत्तत्र तादृशो दूत आगतः 2014015c ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति 2014016a हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः 2014016c सह त्वं परिवारेण सुखमास्स्व रमस्य च 2014017a पतिसंमानिता सीता भर्तारमसितेक्षणा 2014017c आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी 2014018a स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च 2014018c ततः पावकसंकाशमारुरोह रथोत्तमम् 2014019a मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम् 2014019c करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः 2014020a हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् 2014020c प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया 2014021a स पर्जन्य इवाकाशे स्वनवानभिनादयन् 2014021c निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः 2014022a छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः 2014022c जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः 2014023a ततो हलहलाशब्दस्तुमुलः समजायत 2014023c तस्य निष्क्रममाणस्य जनौघस्य समन्ततः 2014024a स राघवस्तत्र कथाप्रलापं; शुश्राव लोकस्य समागतस्य 2014024c आत्माधिकारा विविधाश्च वाचः; प्रहृष्टरूपस्य पुरे जनस्य 2014025a एष श्रियं गच्छति राघवोऽद्य; राजप्रसादाद्विपुलां गमिष्यन् 2014025c एते वयं सर्वसमृद्धकामा; येषामयं नो भविता प्रशास्ता 2014025e लाभो जनस्यास्य यदेष सर्वं; प्रपत्स्यते राष्ट्रमिदं चिराय 2014026a स घोषवद्भिश्च हयैः सनागैः; पुरःसरैः स्वस्तिकसूतमागधैः 2014026c महीयमानः प्रवरैश्च वादकै;रभिष्टुतो वैश्रवणो यथा ययौ 2014027a करेणुमातङ्गरथाश्वसंकुलं; महाजनौघैः परिपूर्णचत्वरम् 2014027c प्रभूतरत्नं बहुपण्यसंचयं; ददर्श रामो रुचिरं महापथम् 2015001a स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः 2015001c अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् 2015002a स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् 2015002c राजमार्गं ययौ रामो मध्येनागरुधूपितम् 2015003a शोभमानमसंबाधं तं राजपथमुत्तमम् 2015003c संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि 2015004a आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान् 2015004c यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ 2015005a पितामहैराचरितं तथैव प्रपितामहैः 2015005c अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय 2015006a यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः 2015006c ततः सुखतरं सर्वे रामे वत्स्याम राजनि 2015007a अलमद्य हि भुक्तेन परमार्थैरलं च नः 2015007c यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् 2015008a अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति 2015008c यथाभिषेको रामस्य राज्येनामिततेजसः 2015009a एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः 2015009c आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम् 2015010a न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् 2015010c नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे 2015011a सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम् 2015011c चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः 2015012a स राजकुलमासाद्य महेन्द्रभवनोपमम् 2015012c राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् 2015013a स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः 2015013c संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात् 2015014a ततः प्रविष्टे पितुरन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे 2015014c प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः 2016001a स ददर्शासने रामो निषण्णं पितरं शुभे 2016001c कैकेयीसहितं दीनं मुखेन परिशुष्यता 2016002a स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् 2016002c ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः 2016003a रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः 2016003c शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् 2016004a तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् 2016004c रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् 2016005a इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् 2016005c निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् 2016006a ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् 2016006c उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा 2016007a अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् 2016007c बभूव संरब्धतरः समुद्र इव पर्वणि 2016008a चिन्तयामास च तदा रामः पितृहिते रतः 2016008c किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति 2016009a अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति 2016009c तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते 2016010a स दीन इव शोकार्तो विषण्णवदनद्युतिः 2016010c कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् 2016011a कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता 2016011c कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय 2016012a विवर्णवदनो दीनो न हि मामभिभाषते 2016012c शारीरो मानसो वापि कच्चिदेनं न बाधते 2016012e संतापो वाभितापो वा दुर्लभं हि सदा सुखम् 2016013a कच्चिन्न किंचिद्भरते कुमारे प्रियदर्शने 2016013c शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् 2016014a अतोषयन्महाराजमकुर्वन्वा पितुर्वचः 2016014c मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे 2016015a यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः 2016015c कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते 2016016a कच्चित्ते परुषं किंचिदभिमानात्पिता मम 2016016c उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः 2016017a एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः 2016017c किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे 2016018a अहं हि वचनाद्राज्ञः पतेयमपि पावके 2016018c भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे 2016018e नियुक्तो गुरुणा पित्रा नृपेण च हितेन च 2016019a तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम् 2016019c करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते 2016020a तमार्जवसमायुक्तमनार्या सत्यवादिनम् 2016020c उवाच रामं कैकेयी वचनं भृशदारुणम् 2016021a पुरा देवासुरे युद्धे पित्रा ते मम राघव 2016021c रक्षितेन वरौ दत्तौ सशल्येन महारणे 2016022a तत्र मे याचितो राजा भरतस्याभिषेचनम् 2016022c गमनं दण्डकारण्ये तव चाद्यैव राघव 2016023a यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि 2016023c आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु 2016024a स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् 2016024c त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च 2016025a सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः 2016025c अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस 2016026a भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् 2016026c नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् 2016027a तदप्रियममित्रघ्नो वचनं मरणोपमम् 2016027c श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् 2016028a एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः 2016028c जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् 2016029a इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः 2016029c नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः 2016030a मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः 2016030c यास्यामि भव सुप्रीता वनं चीरजटाधरः 2016031a हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च 2016031c नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम् 2016032a अलीकं मानसं त्वेकं हृदयं दहतीव मे 2016032c स्वयं यन्नाह मां राजा भरतस्याभिषेचनम् 2016033a अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च 2016033c हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः 2016034a किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः 2016034c तव च प्रियकामार्थं प्रतिज्ञामनुपालयन् 2016035a तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः 2016035c वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति 2016036a गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः 2016036c भरतं मातुलकुलादद्यैव नृपशासनात् 2016037a दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः 2016037c अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश 2016038a सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी 2016038c प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् 2016039a एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः 2016039c भरतं मातुलकुलादुपावर्तयितुं नराः 2016040a तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम् 2016040c राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि 2016041a व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते 2016041c नैतत्किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम् 2016042a यावत्त्वं न वनं यातः पुरादस्मादभित्वरन् 2016042c पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा 2016043a धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः 2016043c मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते 2016044a रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः 2016044c कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः 2016045a तदप्रियमनार्याया वचनं दारुणोदरम् 2016045c श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् 2016046a नाहमर्थपरो देवि लोकमावस्तुमुत्सहे 2016046c विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् 2016047a यदत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया 2016047c प्राणानपि परित्यज्य सर्वथा कृतमेव तत् 2016048a न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् 2016048c यथा पितरि शुश्रूषा तस्य वा वचनक्रिया 2016049a अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् 2016049c वने वत्स्यामि विजने वर्षाणीह चतुर्दश 2016050a न नूनं मयि कैकेयि किंचिदाशंससे गुणम् 2016050c यद्राजानमवोचस्त्वं ममेश्वरतरा सती 2016051a यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् 2016051c ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् 2016052a भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा 2016052c तथा भवत्या कर्तव्यं स हि धर्मः सनातनः 2016053a स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता 2016053c शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम् 2016054a वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा 2016054c कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः 2016055a स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम् 2016055c निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम् 2016056a तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह 2016056c लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः 2016057a आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् 2016057c शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् 2016058a न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति 2016058c लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा 2016059a न वनं गन्तुकामस्य त्यजतश्च वसुंधराम् 2016059c सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया 2016060a धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च 2016060c प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान् 2016061a प्रविश्य वेश्मातिभृशं मुदान्वितं; समीक्ष्य तां चार्थविपत्तिमागताम् 2016061c न चैव रामोऽत्र जगाम विक्रियां; सुहृज्जनस्यात्मविपत्तिशङ्कया 2017001a रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः 2017001c जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी 2017002a सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् 2017002c उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् 2017003a प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः 2017003c ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान् 2017004a प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः 2017004c स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः 2017005a वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः 2017005c न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा 2017006a कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता 2017006c प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी 2017007a सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा 2017007c अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला 2017008a प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् 2017008c ददर्श मातरं तत्र हावयन्तीं हुताशनम् 2017009a सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् 2017009c अभिचक्राम संहृष्टा किशोरं वडवा यथा 2017010a तमुवाच दुराधर्षं राघवं सुतमात्मनः 2017010c कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः 2017011a वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् 2017011c प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले 2017012a सत्यप्रतिज्ञं पितरं राजानं पश्य राघव 2017012c अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति 2017013a मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत् 2017013c स स्वभावविनीतश्च गौरवाच्च तदानतः 2017014a देवि नूनं न जानीषे महद्भयमुपस्थितम् 2017014c इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च 2017015a चतुर्दश हि वर्षाणि वत्स्यामि विजने वने 2017015c मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् 2017016a भरताय महाराजो यौवराज्यं प्रयच्छति 2017016c मां पुनर्दण्डकारण्यं विवासयति तापसम् 2017017a तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव 2017017c रामस्तूत्थापयामास मातरं गतचेतसम् 2017018a उपावृत्योत्थितां दीनां वडवामिव वाहिताम् 2017018c पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना 2017019a सा राघवमुपासीनमसुखार्ता सुखोचिता 2017019c उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे 2017020a यदि पुत्र न जायेथा मम शोकाय राघव 2017020c न स्म दुःखमतो भूयः पश्येयमहमप्रजा 2017021a एक एव हि वन्ध्यायाः शोको भवति मानवः 2017021c अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते 2017022a न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे 2017022c अपि पुत्रे विपश्येयमिति रामास्थितं मया 2017023a सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् 2017023c अहं श्रोष्ये सपत्नीनामवराणां वरा सती 2017023e अतो दुःखतरं किं नु प्रमदानां भविष्यति 2017024a त्वयि संनिहितेऽप्येवमहमासं निराकृता 2017024c किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे 2017025a यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते 2017025c कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते 2017026a दश सप्त च वर्षाणि तव जातस्य राघव 2017026c अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् 2017027a उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः 2017027c दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया 2017028a स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते 2017028c प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा 2017029a ममैव नूनं मरणं न विद्यते; न चावकाशोऽस्ति यमक्षये मम 2017029c यदन्तकोऽद्यैव न मां जिहीर्षति; प्रसह्य सिंहो रुदतीं मृगीमिव 2017030a स्थिरं हि नूनं हृदयं ममायसं; न भिद्यते यद्भुवि नावदीर्यते 2017030c अनेन दुःखेन च देहमर्पितं; ध्रुवं ह्यकाले मरणं न विद्यते 2017031a इदं तु दुःखं यदनर्थकानि मे; व्रतानि दानानि च संयमाश्च हि 2017031c तपश्च तप्तं यदपत्यकारणा;त्सुनिष्फलं बीजमिवोप्तमूषरे 2017032a यदि ह्यकाले मरणं स्वयेच्छया; लभेत कश्चिद्गुरुदुःखकर्शितः 2017032c गताहमद्यैव परेत संसदं; विना त्वया धेनुरिवात्मजेन वै 2017033a भृशमसुखममर्षिता तदा; बहु विललाप समीक्ष्य राघवम् 2017033c व्यसनमुपनिशाम्य सा मह;त्सुतमिव बद्धमवेक्ष्य किंनरी 2018001a तथा तु विलपन्तीं तां कौसल्यां राममातरम् 2018001c उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः 2018002a न रोचते ममाप्येतदार्ये यद्राघवो वनम् 2018002c त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः 2018003a विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः 2018003c नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः 2018004a नास्यापराधं पश्यामि नापि दोषं तथा विधम् 2018004c येन निर्वास्यते राष्ट्राद्वनवासाय राघवः 2018005a न तं पश्याम्यहं लोके परोक्षमपि यो नरः 2018005c अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् 2018006a देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् 2018006c अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् 2018007a तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः 2018007c पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् 2018008a यावदेव न जानाति कश्चिदर्थमिमं नरः 2018008c तावदेव मया सार्धमात्मस्थं कुरु शासनम् 2018009a मया पार्श्वे सधनुषा तव गुप्तस्य राघव 2018009c कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः 2018010a निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ 2018010c करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये 2018011a भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति 2018011c सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते 2018012a त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् 2018012c कस्य शक्तिः श्रियं दातुं भरतायारिशासन 2018013a अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः 2018013c सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे 2018014a दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते 2018014c प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय 2018015a हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः 2018015c देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु 2018016a एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः 2018016c उवाच रामं कौसल्या रुदन्ती शोकलालसा 2018017a भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया 2018017c यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते 2018018a न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् 2018018c विहाय शोकसंतप्तां गन्तुमर्हसि मामितः 2018019a धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि 2018019c शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् 2018020a शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् 2018020c परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः 2018021a यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् 2018021c त्वां नाहमनुजानामि न गन्तव्यमितो वनम् 2018022a त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा 2018022c त्वया सह मम श्रेयस्तृणानामपि भक्षणम् 2018023a यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् 2018023c अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् 2018024a ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् 2018024c ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः 2018025a विलपन्तीं तथा दीनां कौसल्यां जननीं ततः 2018025c उवाच रामो धर्मात्मा वचनं धर्मसंहितम् 2018026a नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम 2018026c प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् 2018027a ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा 2018027c गौर्हता जानता धर्मं कण्डुनापि विपश्चिता 2018028a अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः 2018028c खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः 2018029a जामदग्न्येन रामेण रेणुका जननी स्वयम् 2018029c कृत्ता परशुनारण्ये पितुर्वचनकारिणा 2018030a न खल्वेतन्मयैकेन क्रियते पितृशासनम् 2018030c पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते 2018031a तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा 2018031c पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते 2018032a तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् 2018032c तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् 2018032e अभिप्रायमविज्ञाय सत्यस्य च शमस्य च 2018033a धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् 2018033c धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् 2018034a संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा 2018034c न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता 2018035a सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् 2018035c पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः 2018036a तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् 2018036c धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् 2018037a तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः 2018037c उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः 2018038a अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् 2018038c शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे 2018038e तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् 2018039a यशो ह्यहं केवलराज्यकारणा;न्न पृष्ठतः कर्तुमलं महोदयम् 2018039c अदीर्घकाले न तु देवि जीविते; वृणेऽवरामद्य महीमधर्मतः 2018040a प्रसादयन्नरवृषभः स मातरं; पराक्रमाज्जिगमिषुरेव दण्डकान् 2018040c अथानुजं भृशमनुशास्य दर्शनं; चकार तां हृदि जननीं प्रदक्षिणम् 2019001a अथ तं व्यथया दीनं सविशेषममर्षितम् 2019001c श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् 2019002a आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् 2019002c उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान् 2019003a सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः 2019003c अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः 2019004a यस्या मदभिषेकार्थं मानसं परितप्यते 2019004c माता नः सा यथा न स्यात्सविशङ्का तथा कुरु 2019005a तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे 2019005c मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् 2019006a न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन 2019006c मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् 2019007a सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः 2019007c परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम 2019008a तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते 2019008c सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् 2019009a अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण 2019009c अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः 2019010a मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा 2019010c सुतं भरतमव्यग्रमभिषेचयिता ततः 2019011a मयि चीराजिनधरे जटामण्डलधारिणि 2019011c गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम् 2019012a बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् 2019012c तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् 2019013a कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने 2019013c राज्यस्य च वितीर्णस्य पुनरेव निवर्तने 2019014a कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने 2019014c यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् 2019015a जानासि हि यथा सौम्य न मातृषु ममान्तरम् 2019015c भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा 2019016a सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः 2019016c उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये 2019017a कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा 2019017c ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ 2019018a यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते 2019018c व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः 2019019a कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान् 2019019c यस्य न ग्रहणं किंचित्कर्मणोऽन्यत्र दृश्यते 2019020a सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ 2019020c यस्य किंचित्तथाभूतं ननु दैवस्य कर्म तत् 2019021a व्याहतेऽप्यभिषेके मे परितापो न विद्यते 2019021c तस्मादपरितापः संस्त्वमप्यनुविधाय माम् 2019021e प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् 2019022a न लक्ष्मणास्मिन्मम राज्यविघ्ने; माता यवीयस्यतिशङ्कनीया 2019022c दैवाभिपन्ना हि वदन्त्यनिष्टं; जानासि दैवं च तथाप्रभावम् 2020001a इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः 2020001c श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः 2020002a तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ 2020002c निशश्वास महासर्पो बिलस्थ इव रोषितः 2020003a तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा 2020003c बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् 2020004a अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः 2020004c तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् 2020005a अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् 2020005c अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् 2020006a धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया 2020006c कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति 2020007a यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः 2020007c किं नाम कृपणं दैवमशक्तमभिशंससि 2020008a पापयोस्ते कथं नाम तयोः शङ्का न विद्यते 2020008c सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे 2020009a लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् 2020009c येनेयमागता द्वैधं तव बुद्धिर्महीपते 2020009e स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि 2020010a यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् 2020010c तथाप्युपेक्षणीयं ते न मे तदपि रोचते 2020011a विक्लवो वीर्यहीनो यः स दैवमनुवर्तते 2020011c वीराः संभावितात्मानो न दैवं पर्युपासते 2020012a दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् 2020012c न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति 2020013a द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च 2020013c दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति 2020014a अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः 2020014c यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् 2020015a अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम् 2020015c प्रधावितमहं दैवं पौरुषेण निवर्तये 2020016a लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् 2020016c न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता 2020017a यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः 2020017c अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा 2020018a अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव 2020018c अभिषेकविघातेन पुत्रराज्याय वर्तते 2020019a मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा 2020019c प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम 2020020a ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम् 2020020c आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि 2020021a पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते 2020021c प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने 2020022a स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया 2020022c नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि 2020023a प्रतिजाने च ते वीर मा भूवं वीरलोकभाक् 2020023c राज्यं च तव रक्षेयमहं वेलेव सागरम् 2020024a मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव 2020024c अहमेको महीपालानलं वारयितुं बलात् 2020025a न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे 2020025c नासिराबन्धनार्थाय न शराः स्तम्भहेतवः 2020026a अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् 2020026c न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम 2020027a असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा 2020027c प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये 2020028a खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे 2020028c हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही 2020029a खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः 2020029c पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः 2020030a बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने 2020030c कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते 2020031a बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान् 2020031c विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु 2020032a अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति 2020032c राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो 2020033a अद्य चन्दनसारस्य केयूरामोक्षणस्य च 2020033c वसूनां च विमोक्षस्य सुहृदां पालनस्य च 2020034a अनुरूपाविमौ बाहू राम कर्म करिष्यतः 2020034c अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे 2020035a ब्रवीहि कोऽद्यैव मया वियुज्यतां; तवासुहृत्प्राणयशः सुहृज्जनैः 2020035c यथा तवेयं वसुधा वशे भवे;त्तथैव मां शाधि तवास्मि किंकरः 2020036a विमृज्य बाष्पं परिसान्त्व्य चासकृ;त्स लक्ष्मणं राघववंशवर्धनः 2020036c उवाच पित्र्ये वचने व्यवस्थितं; निबोध मामेष हि सौम्य सत्पथः 2021001a तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने 2021001c कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् 2021002a अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः 2021002c मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् 2021003a यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते 2021003c कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् 2021004a क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् 2021004c गुणवान्दयितो राज्ञो राघवो यद्विवास्यते 2021005a त्वया विहीनामिह मां शोकाग्निरतुलो महान् 2021005c प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये 2021006a कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति 2021006c अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि 2021007a तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः 2021007c श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् 2021008a कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते 2021008c भवत्या च परित्यक्तो न नूनं वर्तयिष्यति 2021009a भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः 2021009c स भवत्या न कर्तव्यो मनसापि विगर्हितः 2021010a यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः 2021010c शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः 2021011a एवमुक्ता तु रामेण कौसल्या शुभ दर्शना 2021011c तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् 2021012a एवमुक्तस्तु वचनं रामो धर्मभृतां वरः 2021012c भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् 2021013a मया चैव भवत्या च कर्तव्यं वचनं पितुः 2021013c राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः 2021014a इमानि तु महारण्ये विहृत्य नव पञ्च च 2021014c वर्षाणि परमप्रीतः स्थास्यामि वचने तव 2021015a एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा 2021015c उवाच परमार्ता तु कौसल्या पुत्रवत्सला 2021016a आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् 2021016c नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा 2021016e यदि ते गमने बुद्धिः कृता पितुरपेक्षया 2021017a तां तथा रुदतीं रामो रुदन्वचनमब्रवीत् 2021017c जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च 2021017e भवत्या मम चैवाद्य राजा प्रभवति प्रभुः 2021018a भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः 2021018c भवतीमनुवर्तेत स हि धर्मरतः सदा 2021019a यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः 2021019c श्रमं नावाप्नुयात्किंचिदप्रमत्ता तथा कुरु 2021020a व्रतोपवासनिरता या नारी परमोत्तमा 2021020c भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् 2021021a शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता 2021021c एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः 2021022a पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः 2021022c एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी 2021023a प्राप्स्यसे परमं कामं मयि प्रत्यागते सति 2021023c यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् 2021024a एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा 2021024c कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् 2021024e गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो 2021025a तथा हि रामं वनवासनिश्चितं; समीक्ष्य देवी परमेण चेतसा 2021025c उवाच रामं शुभलक्षणं वचो; बभूव च स्वस्त्ययनाभिकाङ्क्षिणी 2022001a सापनीय तमायासमुपस्पृश्य जलं शुचि 2022001c चकार माता रामस्य मङ्गलानि मनस्विनी 2022002a स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः 2022002c स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा 2022003a ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः 2022003c दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा 2022004a स्मृतिर्धृतिश्च धर्मश्च पान्तु त्वां पुत्र सर्वतः 2022004c स्कन्दश्च भगवान्देवः सोमश्च सबृहस्पतिः 2022005a सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः 2022005c नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः 2022005e महावनानि चरतो मुनिवेषस्य धीमतः 2022006a प्लवगा वृश्चिका दंशा मशकाश्चैव कानने 2022006c सरीसृपाश्च कीटाश्च मा भूवन्गहने तव 2022007a महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः 2022007c महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक 2022008a नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः 2022008c मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह 2022009a आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः 2022009c सर्वसंपत्तयो राम स्वस्तिमान्गच्छ पुत्रक 2022010a स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः 2022010c सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः 2022011a सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः 2022011c ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम् 2022012a इति माल्यैः सुरगणान्गन्धैश्चापि यशस्विनी 2022012c स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना 2022013a यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते 2022013c वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम् 2022014a यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा 2022014c अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् 2022015a ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम् 2022015c चकार रक्षां कौसल्या मन्त्रैरभिजजाप च 2022016a आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी 2022016c अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम् 2022017a अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् 2022017c पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि 2022018a मयार्चिता देवगणाः शिवादयो; महर्षयो भूतमहासुरोरगाः 2022018c अभिप्रयातस्य वनं चिराय ते; हितानि काङ्क्षन्तु दिशश्च राघव 2022019a इतीव चाश्रुप्रतिपूर्णलोचना; समाप्य च स्वस्त्ययनं यथाविधि 2022019c प्रदक्षिणं चैव चकार राघवं; पुनः पुनश्चापि निपीड्य सस्वजे 2022020a तथा तु देव्या स कृतप्रदक्षिणो; निपीड्य मातुश्चरणौ पुनः पुनः 2022020c जगाम सीतानिलयं महायशाः; स राघवः प्रज्वलितः स्वया श्रिया 2023001a अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम् 2023001c कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः 2023002a विराजयन्राजसुतो राजमार्गं नरैर्वृतम् 2023002c हृदयान्याममन्थेव जनस्य गुणवत्तया 2023003a वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी 2023003c तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् 2023004a देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना 2023004c अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते 2023005a प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् 2023005c प्रहृष्टजनसंपूर्णं ह्रिया किंचिदवाङ्मुखः 2023006a अथ सीता समुत्पत्य वेपमाना च तं पतिम् 2023006c अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् 2023007a विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् 2023007c आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो 2023008a अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव 2023008c प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः 2023009a न ते शतशलाकेन जलफेननिभेन च 2023009c आवृतं वदनं वल्गु छत्रेणाभिविराजते 2023010a व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् 2023010c चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् 2023011a वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ 2023011c स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः 2023012a न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः 2023012c मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः 2023013a न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः 2023013c अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा 2023014a चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः 2023014c मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः 2023015a न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः 2023015c प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः 2023016a न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन 2023016c भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् 2023017a अभिषेको यदा सज्जः किमिदानीमिदं तव 2023017c अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते 2023018a इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः 2023018c सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् 2023019a कुले महति संभूते धर्मज्ञे धर्मचारिणि 2023019c शृणु जानकि येनेदं क्रमेणाभ्यागतं मम 2023020a राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे 2023020c कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ 2023021a तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते 2023021c प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः 2023022a चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया 2023022c पित्रा मे भरतश्चापि यौवराज्ये नियोजितः 2023022e सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् 2023023a भरतस्य समीपे ते नाहं कथ्यः कदाचन 2023023c ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् 2023023e तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम 2023024a नापि त्वं तेन भर्तव्या विशेषेण कदाचन 2023024c अनुकूलतया शक्यं समीपे तस्य वर्तितुम् 2023025a अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् 2023025c वनमद्यैव यास्यामि स्थिरा भव मनस्विनि 2023026a याते च मयि कल्याणि वनं मुनिनिषेवितम् 2023026c व्रतोपवासरतया भवितव्यं त्वयानघे 2023027a काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि 2023027c वन्दितव्यो दशरथः पिता मम नरेश्वरः 2023028a माता च मम कौसल्या वृद्धा संतापकर्शिता 2023028c धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति 2023029a वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः 2023029c स्नेहप्रणयसंभोगैः समा हि मम मातरः 2023030a भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः 2023030c त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम 2023031a विप्रियं न च कर्तव्यं भरतस्य कदाचन 2023031c स हि राजा प्रभुश्चैव देशस्य च कुलस्य च 2023032a आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः 2023032c राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये 2023033a औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः 2023033c समर्थान्संप्रगृह्णन्ति जनानपि नराधिपाः 2023034a अहं गमिष्यामि महावनं प्रिये; त्वया हि वस्तव्यमिहैव भामिनि 2023034c यथा व्यलीकं कुरुषे न कस्यचि;त्तथा त्वया कार्यमिदं वचो मम 2024001a एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी 2024001c प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् 2024002a आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा 2024002c स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते 2024003a भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ 2024003c अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि 2024004a न पिता नात्मजो नात्मा न माता न सखीजनः 2024004c इह प्रेत्य च नारीणां पतिरेको गतिः सदा 2024005a यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव 2024005c अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् 2024006a ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् 2024006c नय मां वीर विश्रब्धः पापं मयि न विद्यते 2024007a प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा 2024007c सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते 2024008a अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम् 2024008c नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया 2024009a सुखं वने निवत्स्यामि यथैव भवने पितुः 2024009c अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् 2024010a शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी 2024010c सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु 2024011a त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् 2024011c अन्यस्यापि जनस्येह किं पुनर्मम मानद 2024012a फलमूलाशना नित्यं भविष्यामि न संशयः 2024012c न ते दुःखं करिष्यामि निवसन्ती सह त्वया 2024013a इच्छामि सरितः शैलान्पल्वलानि वनानि च 2024013c द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता 2024014a हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः 2024014c इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता 2024015a सह त्वया विशालाक्ष रंस्ये परमनन्दिनी 2024015c एवं वर्षसहस्राणां शतं वाहं त्वया सह 2024016a स्वर्गेऽपि च विना वासो भविता यदि राघव 2024016c त्वया मम नरव्याघ्र नाहं तमपि रोचये 2024017a अहं गमिष्यामि वनं सुदुर्गमं; मृगायुतं वानरवारणैर्युतम् 2024017c वने निवत्स्यामि यथा पितुर्गृहे; तवैव पादावुपगृह्य संमता 2024018a अनन्यभावामनुरक्तचेतसं; त्वया वियुक्तां मरणाय निश्चिताम् 2024018c नयस्व मां साधु कुरुष्व याचनां; न ते मयातो गुरुता भविष्यति 2024019a तथा ब्रुवाणामपि धर्मवत्सलो; न च स्म सीतां नृवरो निनीषति 2024019c उवाच चैनां बहु संनिवर्तने; वने निवासस्य च दुःखितां प्रति 2025001a स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः 2025001c निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह 2025002a सीते महाकुलीनासि धर्मे च निरता सदा 2025002c इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् 2025003a सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले 2025003c वने दोषा हि बहवो वदतस्तान्निबोध मे 2025004a सीते विमुच्यतामेषा वनवासकृता मतिः 2025004c बहुदोषं हि कान्तारं वनमित्यभिधीयते 2025005a हितबुद्ध्या खलु वचो मयैतदभिधीयते 2025005c सदा सुखं न जानामि दुःखमेव सदा वनम् 2025006a गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम् 2025006c सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् 2025007a सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले 2025007c रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम् 2025008a उपवासश्च कर्तव्या यथाप्राणेन मैथिलि 2025008c जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा 2025009a अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः 2025009c भयानि च महान्त्यत्र ततो दुःखतरं वनम् 2025010a सरीसृपाश्च बहवो बहुरूपाश्च भामिनि 2025010c चरन्ति पृथिवीं दर्पादतो दुखतरं वनम् 2025011a नदीनिलयनाः सर्पा नदीकुटिलगामिनः 2025011c तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम् 2025012a पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सह 2025012c बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् 2025013a द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि 2025013c वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम् 2025014a तदलं ते वनं गत्वा क्षमं न हि वनं तव 2025014c विमृशन्निह पश्यामि बहुदोषतरं वनम् 2025015a वनं तु नेतुं न कृता मतिस्तदा; बभूव रामेण यदा महात्मना 2025015c न तस्य सीता वचनं चकार त;त्ततोऽब्रवीद्राममिदं सुदुःखिता 2026001a एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता 2026001c प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् 2026002a ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति 2026002c गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् 2026003a त्वया च सह गन्तव्यं मया गुरुजनाज्ञया 2026003c त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् 2026004a न च मां त्वत्समीपस्थमपि शक्नोति राघव 2026004c सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा 2026005a पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् 2026005c काममेवंविधं राम त्वया मम विदर्शितम् 2026006a अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् 2026006c पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने 2026007a लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे 2026007c वनवासकृतोत्साहा नित्यमेव महाबल 2026008a आदेशो वनवासस्य प्राप्तव्यः स मया किल 2026008c सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा 2026009a कृतादेशा भविष्यामि गमिष्यामि सह त्वया 2026009c कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः 2026010a वनवासे हि जानामि दुःखानि बहुधा किल 2026010c प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः 2026011a कन्यया च पितुर्गेहे वनवासः श्रुतो मया 2026011c भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः 2026012a प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो 2026012c गमनं वनवासस्य काङ्क्षितं हि सह त्वया 2026013a कृतक्षणाहं भद्रं ते गमनं प्रति राघव 2026013c वनवासस्य शूरस्य चर्या हि मम रोचते 2026014a शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा 2026014c भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् 2026015a प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया 2026015c श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् 2026016a इह लोके च पितृभिर्या स्त्री यस्य महामते 2026016c अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा 2026017a एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् 2026017c नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना 2026018a भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः 2026018c नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् 2026019a यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि 2026019c विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् 2026020a एवं बहुविधं तं सा याचते गमनं प्रति 2026020c नानुमेने महाबाहुस्तां नेतुं विजनं वनम् 2026021a एवमुक्ता तु सा चिन्तां मैथिली समुपागता 2026021c स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः 2026022a चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् 2026022c क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् 2027001a सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा 2027001c वनवासनिमित्ताय भर्तारमिदमब्रवीत् 2027002a सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् 2027002c प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् 2027003a किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः 2027003c राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् 2027004a अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति 2027004c तेजो नास्ति परं रामे तपतीव दिवाकरे 2027005a किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते 2027005c यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् 2027006a द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् 2027006c सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् 2027007a न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ 2027007c त्वया राघव गच्छेयं यथान्या कुलपांसनी 2027008a स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् 2027008c शैलूष इव मां राम परेभ्यो दातुमिच्छसि 2027009a स मामनादाय वनं न त्वं प्रस्थातुमर्हसि 2027009c तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया 2027010a न च मे भविता तत्र कश्चित्पथि परिश्रमः 2027010c पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि 2027011a कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः 2027011c तूलाजिनसमस्पर्शा मार्गे मम सह त्वया 2027012a महावातसमुद्धूतं यन्मामवकरिष्यति 2027012c रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् 2027013a शाद्वलेषु यदासिष्ये वनान्ते वनगोचरा 2027013c कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः 2027014a पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु 2027014c दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् 2027015a न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः 2027015c आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च 2027016a न च तत्र गतः किंचिद्द्रष्टुमर्हसि विप्रियम् 2027016c मत्कृते न च ते शोको न भविष्यामि दुर्भरा 2027017a यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना 2027017c इति जानन्परां प्रीतिं गच्छ राम मया सह 2027018a अथ मामेवमव्यग्रां वनं नैव नयिष्यसि 2027018c विषमद्यैव पास्यामि मा विशं द्विषतां वशम् 2027019a पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् 2027019c उज्झितायास्त्वया नाथ तदैव मरणं वरम् 2027020a इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे 2027020c किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता 2027021a इति सा शोकसंतप्ता विलप्य करुणं बहु 2027021c चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् 2027022a सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना 2027022c चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः 2027023a तस्याः स्फटिकसंकाशं वारि संतापसंभवम् 2027023c नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् 2027024a तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् 2027024c उवाच वचनं रामः परिविश्वासयंस्तदा 2027025a न देवि तव दुःखेन स्वर्गमप्यभिरोचये 2027025c न हि मेऽस्ति भयं किंचित्स्वयम्भोरिव सर्वतः 2027026a तव सर्वमभिप्रायमविज्ञाय शुभानने 2027026c वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे 2027027a यत्सृष्टासि मया सार्धं वनवासाय मैथिलि 2027027c न विहातुं मया शक्या कीर्तिरात्मवता यथा 2027028a धर्मस्तु गजनासोरु सद्भिराचरितः पुरा 2027028c तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला 2027029a एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता 2027029c अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे 2027030a स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः 2027030c तथा वर्तितुमिच्छामि स हि धर्मः सनातनः 2027030e अनुगच्छस्व मां भीरु सहधर्मचरी भव 2027031a ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् 2027031c देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् 2027032a अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः 2027032c क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे 2027033a ततः प्रहृष्टा परिपूर्णमानसा; यशस्विनी भर्तुरवेक्ष्य भाषितम् 2027033c धनानि रत्नानि च दातुमङ्गना; प्रचक्रमे धर्मभृतां मनस्विनी 2028001a ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः 2028001c स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् 2028002a मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम् 2028002c को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् 2028003a अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव 2028003c स कामपाशपर्यस्तो महातेजा महीपतिः 2028004a सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता 2028004c दुःखितानां सपत्नीनां न करिष्यति शोभनम् 2028005a एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा 2028005c प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् 2028006a तवैव तेजसा वीर भरतः पूजयिष्यति 2028006c कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः 2028007a कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् 2028007c यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम् 2028008a धनुरादाय सशरं खनित्रपिटकाधरः 2028008c अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन् 2028009a आहरिष्यामि ते नित्यं मूलानि च फलानि च 2028009c वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् 2028010a भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते 2028010c अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते 2028011a रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् 2028011c व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् 2028012a ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् 2028012c जनकस्य महायज्ञे धनुषी रौद्रदर्शने 2028013a अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ 2028013c आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ 2028014a सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि 2028014c स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण 2028015a स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः 2028015c इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम् 2028016a तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् 2028016c रामाय दर्शयामास सौमित्रिः सर्वमायुधम् 2028017a तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् 2028017c काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण 2028018a अहं प्रदातुमिच्छामि यदिदं मामकं धनम् 2028018c ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप 2028019a वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः 2028019c तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् 2028020a वसिष्ठपुत्रं तु सुयज्ञमार्यं; त्वमानयाशु प्रवरं द्विजानाम् 2028020c अभिप्रयास्यामि वनं समस्ता;नभ्यर्च्य शिष्टानपरान्द्विजातीन् 2029001a ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम् 2029001c गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् 2029002a तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् 2029002c सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः 2029003a ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह 2029003c जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् 2029004a तमागतं वेदविदं प्राञ्जलिः सीतया सह 2029004c सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् 2029005a जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः 2029005c सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि 2029006a अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् 2029006c सुयज्ञं स तदोवाच रामः सीताप्रचोदितः 2029007a हारं च हेमसूत्रं च भार्यायै सौम्य हारय 2029007c रशनां चाधुना सीता दातुमिच्छति ते सखे 2029008a पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम् 2029008c तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि 2029009a नागः शत्रुं जयो नाम मातुलो यं ददौ मम 2029009c तं ते गजसहस्रेण ददामि द्विजपुंगव 2029010a इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् 2029010c रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः 2029011a अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः 2029011c सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् 2029012a अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ 2029012c अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः 2029013a कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति 2029013c आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् 2029014a तस्य यानं च दासीश्च सौमित्रे संप्रदापय 2029014c कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः 2029015a सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः 2029015c तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा 2029016a शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा 2029016c व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु 2029017a ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् 2029017c यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा 2029018a अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः 2029018c संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः 2029019a लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम 2029019c अशून्यं कार्यमेकैकं यावदागमनं मम 2029020a इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम् 2029020c उवाचेदं धनध्यक्षं धनमानीयतामिति 2029020e ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः 2029021a ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः 2029021c द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत् 2029022a तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः 2029022c आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत् 2029023a स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् 2029023c निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः 2029023e उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति 2029024a तमुवाच ततो रामः परिहाससमन्वितम् 2029024c गवां सहस्रमप्येकं न तु विश्राणितं मया 2029024e परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि 2029025a स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् 2029025c आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः 2029026a उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् 2029026c मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम 2029027a ततः सभार्यस्त्रिजटो महामुनि;र्गवामनीकं प्रतिगृह्य मोदितः 2029027c यशोबलप्रीतिसुखोपबृंहिणी;स्तदाशिषः प्रत्यवदन्महात्मनः 2030001a दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु 2030001c जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ 2030002a ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे 2030002c मालादामभिरासक्ते सीतया समलंकृते 2030003a ततः प्रासादहर्म्याणि विमानशिखराणि च 2030003c अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् 2030004a न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः 2030004c आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् 2030005a पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः 2030005c ऊचुर्बहुविधा वाचः शोकोपहतचेतसः 2030006a यं यान्तमनुयाति स्म चतुरङ्गबलं महत् 2030006c तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः 2030007a ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः 2030007c नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् 2030008a या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि 2030008c तामद्य सीतां पश्यन्ति राजमार्गगता जनाः 2030009a अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम् 2030009c वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् 2030010a अद्य नूनं दशरथः सत्त्वमाविश्य भाषते 2030010c न हि राजा प्रियं पुत्रं विवासयितुमर्हति 2030011a निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम् 2030011c किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् 2030012a आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः 2030012c राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् 2030013a तस्मात्तस्योपघातेन प्रजाः परमपीडिताः 2030013c औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् 2030014a पीडया पीडितं सर्वं जगदस्य जगत्पतेः 2030014c मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः 2030015a ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः 2030015c गच्छन्तमनुगच्छामो येन गच्छति राघवः 2030016a उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च 2030016c एकदुःखसुखा राममनुगच्छाम धार्मिकम् 2030017a समुद्धृतनिधानानि परिध्वस्ताजिराणि च 2030017c उपात्तधनधान्यानि हृतसाराणि सर्वशः 2030018a रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः 2030018c अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् 2030019a वनं नगरमेवास्तु येन गच्छति राघवः 2030019c अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् 2030020a बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः 2030020c अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च 2030021a इत्येवं विविधा वाचो नानाजनसमीरिताः 2030021c शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् 2030022a प्रतीक्षमाणोऽभिजनं तदार्त;मनार्तरूपः प्रहसन्निवाथ 2030022c जगाम रामः पितरं दिदृक्षुः; पितुर्निदेशं विधिवच्चिकीर्षुः 2030023a तत्पूर्वमैक्ष्वाकसुतो महात्मा; रामो गमिष्यन्वनमार्तरूपम् 2030023c व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं; पितुर्महात्मा प्रतिहारणार्थम् 2030024a पितुर्निदेशेन तु धर्मवत्सलो; वनप्रवेशे कृतबुद्धिनिश्चयः 2030024c स राघवः प्रेक्ष्य सुमन्त्रमब्रवी;न्निवेदयस्वागमनं नृपाय मे 2031001a स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः 2031001c प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह 2031002a आलोक्य तु महाप्राज्ञः परमाकुल चेतसम् 2031002c राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् 2031003a अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः 2031003c ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् 2031004a स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः 2031004c सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते 2031005a गमिष्यति महारण्यं तं पश्य जगतीपते 2031005c वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः 2031006a स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः 2031006c आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् 2031007a सुमन्त्रानय मे दारान्ये केचिदिह मामकाः 2031007c दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् 2031008a सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् 2031008c आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् 2031009a एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया 2031009c प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् 2031010a अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः 2031010c कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः 2031011a आगतेषु च दारेषु समवेक्ष्य महीपतिः 2031011c उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् 2031012a स सूतो राममादाय लक्ष्मणं मैथिलीं तदा 2031012c जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः 2031013a स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् 2031013c उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः 2031014a सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः 2031014c तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः 2031015a तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः 2031015c विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा 2031016a स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि 2031016c हाहा रामेति सहसा भूषणध्वनिमूर्छितः 2031017a तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ 2031017c पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् 2031018a अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् 2031018c उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् 2031019a आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः 2031019c प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् 2031020a लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् 2031020c कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः 2031021a अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद 2031021c लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः 2031022a प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः 2031022c उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् 2031023a अहं राघव कैकेय्या वरदानेन मोहितः 2031023c अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् 2031024a एवमुक्तो नृपतिना रामो धर्मभृतां वरः 2031024c प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः 2031025a भवान्वर्षसहस्राय पृथिव्या नृपते पतिः 2031025c अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् 2031026a श्रेयसे वृद्धये तात पुनरागमनाय च 2031026c गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् 2031027a अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा 2031027c मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् 2031027e तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि 2031028a अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् 2031028c लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् 2031029a प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति 2031029c अपक्रमणमेवातः सर्वकामैरहं वृणे 2031030a इयं सराष्ट्रा सजना धनधान्यसमाकुला 2031030c मया विसृष्टा वसुधा भरताय प्रदीयताम् 2031031a अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः 2031031c न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः 2031032a नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् 2031032c त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ 2031033a पुरं च राष्ट्रं च मही च केवला; मया निसृष्टा भरताय दीयताम् 2031033c अहं निदेशं भवतोऽनुपालय;न्वनं गमिष्यामि चिराय सेवितुम् 2031034a मया निसृष्टां भरतो महीमिमां; सशैलखण्डां सपुरां सकाननाम् 2031034c शिवां सुसीमामनुशास्तु केवलं; त्वया यदुक्तं नृपते यथास्तु तत् 2031035a न मे तथा पार्थिव धीयते मनो; महत्सु कामेषु न चात्मनः प्रिये 2031035c यथा निदेशे तव शिष्टसंमते; व्यपैतु दुःखं तव मत्कृतेऽनघ 2031036a तदद्य नैवानघ राज्यमव्ययं; न सर्वकामान्न सुखं न मैथिलीम् 2031036c न जीवितं त्वामनृतेन योजय;न्वृणीय सत्यं व्रतमस्तु ते तथा 2031037a फलानि मूलानि च भक्षयन्वने; गिरींश्च पश्यन्सरितः सरांसि च 2031037c वनं प्रविश्यैव विचित्रपादपं; सुखी भविष्यामि तवास्तु निर्वृतिः 2032001a ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया 2032001c सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः 2032002a सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः 2032002c रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् 2032003a रूपाजीवा च शालिन्यो वणिजश्च महाधनाः 2032003c शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः 2032004a ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः 2032004c तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय 2032005a निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु 2032005c नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति 2032006a धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः 2032006c तौ राममनुगच्छेतां वसन्तं निर्जने वने 2032007a यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः 2032007c ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने 2032008a भरतश्च महाबाहुरयोध्यां पालयिष्यति 2032008c सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति 2032009a एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् 2032009c मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत 2032010a सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत् 2032010c राज्यं गतजनं साधो पीतमण्डां सुरामिव 2032010e निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते 2032011a कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् 2032011c राजा दशरथो वाक्यमुवाचायतलोचनाम् 2032011e वहन्तं किं तुदसि मां नियुज्य धुरि माहिते 2032012a कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् 2032012c तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् 2032012e असमञ्ज इति ख्यातं तथायं गन्तुमर्हति 2032013a एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् 2032013c व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत 2032014a तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः 2032014c शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् 2032015a असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् 2032015c सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः 2032016a तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् 2032016c असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन 2032017a तानुवाच ततो राजा किंनिमित्तमिदं भयम् 2032017c ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन् 2032018a क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः 2032018c सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते 2032019a स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप 2032019c तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया 2032020a इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः 2032020c रामः किमकरोत्पापं येनैवमुपरुध्यते 2032021a श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः 2032021c शोकोपहतया वाचा कैकेयीमिदमब्रवीत् 2032022a अनुव्रजिष्याम्यहमद्य रामं; राज्यं परित्यज्य सुखं धनं च 2032022c सहैव राज्ञा भरतेन च त्वं; यथा सुखं भुङ्क्ष्व चिराय राज्यम् 2033001a महामात्रवचः श्रुत्वा रामो दशरथं तदा 2033001c अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् 2033002a त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः 2033002c किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः 2033003a यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः 2033003c रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् 2033004a तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते 2033004c सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे 2033005a खनित्रपिटके चोभे ममानयत गच्छतः 2033005c चतुर्दश वने वासं वर्षाणि वसतो मम 2033006a अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् 2033006c उवाच परिधत्स्वेति जनौघे निरपत्रपा 2033007a स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते 2033007c सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह 2033008a लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे 2033008c तापसाच्छादने चैव जग्राह पितुरग्रतः 2033009a अथात्मपरिधानार्थं सीता कौशेयवासिनी 2033009c समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव 2033010a सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः 2033010c गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् 2033010e कथं नु चीरं बध्नन्ति मुनयो वनवासिनः 2033011a कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना 2033011c तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज 2033012a तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः 2033012c चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् 2033013a तस्यां चीरं वसानायां नाथवत्यामनाथवत् 2033013c प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति 2033014a स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् 2033014c कैकेयि कुशचीरेण न सीता गन्तुमर्हति 2033015a ननु पर्याप्तमेतत्ते पापे रामविवासनम् 2033015c किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः 2033016a एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम् 2033016c अवाक्शिरसमासीनमिदं वचनमब्रवीत् 2033017a इयं धार्मिक कौसल्या मम माता यशस्विनी 2033017c वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते 2033018a मया विहीनां वरद प्रपन्नां शोकसागरम् 2033018c अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि 2033019a इमां महेन्द्रोपमजातगर्भिणीं; तथा विधातुं जनमीं ममार्हसि 2033019c यथा वनस्थे मयि शोककर्शिता; न जीवितं न्यस्य यमक्षयं व्रजेत् 2034001a रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् 2034001c समीक्ष्य सह भार्याभी राजा विगतचेतनः 2034002a नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् 2034002c न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः 2034003a स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः 2034003c विललाप महाबाहू राममेवानुचिन्तयन् 2034004a मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः 2034004c प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् 2034005a न त्वेवानागते काले देहाच्च्यवति जीवितम् 2034005c कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते 2034006a योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् 2034006c विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् 2034007a एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः 2034007c स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् 2034008a एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह 2034008c रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह 2034009a संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः 2034009c नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् 2034010a औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः 2034010c प्रापयैनं महाभागमितो जनपदात्परम् 2034011a एवं मन्ये गुणवतां गुणानां फलमुच्यते 2034011c पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् 2034012a राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः 2034012c योजयित्वाययौ तत्र रथमश्वैरलंकृतम् 2034013a तं रथं राजपुत्राय सूतः कनकभूषितम् 2034013c आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः 2034014a राजा सत्वरमाहूय व्यापृतं वित्तसंचये 2034014c उवाच देशकालज्ञो निश्चितं सर्वतः शुचि 2034015a वासांसि च महार्हाणि भूषणानि वराणि च 2034015c वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय 2034016a नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः 2034016c प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् 2034017a सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् 2034017c भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः 2034018a व्यराजयत वैदेही वेश्म तत्सुविभूषिता 2034018c उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः 2034019a तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् 2034019c अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम् 2034020a असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः 2034020c भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः 2034021a स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम 2034021c तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा 2034022a विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् 2034022c कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता 2034023a करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् 2034023c अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे 2034024a न मामसज्जनेनार्या समानयितुमर्हति 2034024c धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा 2034025a नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः 2034025c नापतिः सुखमेधते या स्यादपि शतात्मजा 2034026a मितं ददाति हि पिता मितं माता मितं सुतः 2034026c अमितस्य हि दातारं भर्तारं का न पूजयेत् 2034027a साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा 2034027c आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम् 2034028a सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् 2034028c शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् 2034029a तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् 2034029c रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् 2034030a अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम 2034030c क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति 2034031a सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च 2034031c सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् 2034032a एतावदभिनीतार्थमुक्त्वा स जननीं वचः 2034032c त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः 2034033a ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः 2034033c धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः 2034034a संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् 2034034c तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः 2034035a जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः 2034035c मानवेन्द्रस्य भार्याणामेवं वदति राघवे 2034036a मुरजपणवमेघघोषव;द्दशरथवेश्म बभूव यत्पुरा 2034036c विलपित परिदेवनाकुलं; व्यसनगतं तदभूत्सुदुःखितम् 2035001a अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः 2035001c उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् 2035002a तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह 2035002c राघवः शोकसंमूढो जननीमभ्यवादयत् 2035003a अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् 2035003c अथ मातुः सुमित्राया जग्राह चरणौ पुनः 2035004a तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् 2035004c हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् 2035005a सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने 2035005c रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति 2035006a व्यसनी वा समृद्धो वा गतिरेष तवानघ 2035006c एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् 2035007a इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् 2035007c दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च 2035008a रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् 2035008c अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् 2035009a ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् 2035009c विनीतो विनयज्ञश्च मातलिर्वासवं यथा 2035010a रथमारोह भद्रं ते राजपुत्र महायशः 2035010c क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि 2035011a चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया 2035011c तान्युपक्रमितव्यानि यानि देव्यासि चोदितः 2035012a तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा 2035012c आरुरोह वरारोहा कृत्वालंकारमात्मनः 2035013a तथैवायुधजातानि भ्रातृभ्यां कवचानि च 2035013c रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत् 2035014a सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत् 2035014c सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे 2035015a प्रयाते तु महारण्यं चिररात्राय राघवे 2035015c बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च 2035016a तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम् 2035016c हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम् 2035017a ततः सबालवृद्धा सा पुरी परमपीडिता 2035017c राममेवाभिदुद्राव घर्मार्तः सलिलं यथा 2035018a पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः 2035018c बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः 2035019a संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैः 2035019c मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति 2035020a आयसं हृदयं नूनं राममातुरसंशयम् 2035020c यद्देवगर्भप्रतिमे वनं याति न भिद्यते 2035021a कृतकृत्या हि वैदेही छायेवानुगता पतिम् 2035021c न जहाति रता धर्मे मेरुमर्कप्रभा यथा 2035022a अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम् 2035022c भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि 2035023a महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान् 2035023c एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि 2035023e एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् 2035024a अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः 2035024c निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात् 2035025a शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः 2035025c यथा नादः करेणूनां बद्धे महति कुञ्जरे 2035026a पिता च राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौ 2035026c परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा 2035027a ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः 2035027c नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् 2035028a हा रामेति जनाः केचिद्राममातेति चापरे 2035028c अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन् 2035029a अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् 2035029c राजानं मातरं चैव ददर्शानुगतौ पथि 2035029e धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत 2035030a पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ 2035030c दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् 2035031a न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः 2035031c मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः 2035032a तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् 2035032c क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च 2035032e असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम् 2035033a तिष्ठेति राजा चुक्रोष याहि याहीति राघवः 2035033c सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा 2035034a नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि 2035034c चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् 2035035a रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम् 2035035c व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः 2035036a न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् 2035036c मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम् 2035037a यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत् 2035037c इत्यमात्या महाराजमूचुर्दशरथं वचः 2035038a तेषां वचः सर्वगुणोपपन्नं; प्रस्विन्नगात्रः प्रविषण्णरूपः 2035038c निशम्य राजा कृपणः सभार्यो; व्यवस्थितस्तं सुतमीक्षमाणः 2036001a तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ 2036001c आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् 2036002a अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः 2036002c यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति 2036003a न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् 2036003c क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति 2036004a कौसल्यायां महातेजा यथा मातरि वर्तते 2036004c तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति 2036005a कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् 2036005c परित्राता जनस्यास्य जगतः क्व नु गच्छति 2036006a अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् 2036006c धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति 2036007a इति सर्वा महिष्यस्ता विवत्सा इव धेनवः 2036007c रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः 2036008a स तमन्तःपुरे घोरमार्तशब्दं महीपतिः 2036008c पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः 2036009a नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत 2036009c व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन् 2036010a त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि 2036010c दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः 2036011a नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः 2036011c विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे 2036012a अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् 2036012c आहारे वा विहारे वा न कश्चिदकरोन्मनः 2036013a बाष्पपर्याकुलमुखो राजमार्गगतो जनः 2036013c न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः 2036014a न वाति पवनः शीतो न शशी सौम्यदर्शनः 2036014c न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् 2036015a अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा 2036015c सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् 2036016a ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः 2036016c शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा 2036017a ततस्त्वयोध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता 2036017c चचाल घोरं भयभारपीडिता; सनागयोधाश्वगणा ननाद च 2037001a यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत 2037001c नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी 2037002a यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् 2037002c तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने 2037003a न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः 2037003c तदार्तश्च विषण्णश्च पपात धरणीतले 2037004a तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना 2037004c वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया 2037005a तां नयेन च संपन्नो धर्मेण निवयेन च 2037005c उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः 2037006a कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी 2037006c न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी 2037007a ये च त्वामुपजीवन्ति नाहं तेषां न ते मम 2037007c केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् 2037008a अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् 2037008c अनुजानामि तत्सर्वमस्मिँल्लोके परत्र च 2037009a भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् 2037009c यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् 2037010a अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् 2037010c न्यवर्तत तदा देवी कौसल्या शोककर्शिता 2037011a हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना 2037011c अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् 2037012a निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु 2037012c राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा 2037013a विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् 2037013c नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् 2037014a वाहनानां च मुख्यानां वहतां तं ममात्मजम् 2037014c पदानि पथि दृश्यन्ते स महात्मा न दृश्यते 2037015a स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः 2037015c काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते 2037016a उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः 2037016c विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः 2037017a द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः 2037017c राममुत्थाय गच्छन्तं लोकनाथमनाथवत् 2037018a सकामा भव कैकेयि विधवा राज्यमावस 2037018c न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे 2037019a इत्येवं विलपन्राजा जनौघेनाभिसंवृतः 2037019c अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् 2037020a शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् 2037020c क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् 2037021a तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् 2037021c विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम् 2037022a महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् 2037022c रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च 2037023a कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम् 2037023c इति ब्रुवन्तं राजानमनयन्द्वारदर्शितः 2037024a ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् 2037024c अधिरुह्यापि शयनं बभूव लुलितं मनः 2037025a तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् 2037025c उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् 2037026a सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः 2037026c परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् 2037027a न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश 2037027c रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते 2037028a तं राममेवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम् 2037028c उपोपविश्याधिकमार्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्रम् 2038001a ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् 2038001c कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् 2038002a राघवो नरशार्दूल विषमुप्त्वा द्विजिह्ववत् 2038002c विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी 2038003a विवास्य रामं सुभगा लब्धकामा समाहिता 2038003c त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि 2038004a अथ स्म नगरे रामश्चरन्भैक्षं गृहे वसेत् 2038004c कामकारो वरं दातुमपि दासं ममात्मजम् 2038005a पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः 2038005c प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना 2038006a गजराजगतिर्वीरो महाबाहुर्धनुर्धरः 2038006c वनमाविशते नूनं सभार्यः सहलक्ष्मणः 2038007a वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया 2038007c त्यक्तानां वनवासाय का न्ववस्था भविष्यति 2038008a ते रत्नहीनास्तरुणाः फलकाले विवासिताः 2038008c कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः 2038009a अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः 2038009c सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् 2038010a श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति 2038010c यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी 2038011a कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ 2038011c नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि 2038012a कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति 2038012c पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव 2038013a कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ 2038013c लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ 2038014a कदा सुमनसः कन्या द्विजातीनां फलानि च 2038014c प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् 2038015a कदा परिणतो बुद्ध्या वयसा चामरप्रभः 2038015c अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन् 2038016a निःसंशयं मया मन्ये पुरा वीर कदर्यया 2038016c पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः 2038017a साहं गौरिव सिंहेन विवत्सा वत्सला कृता 2038017c कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् 2038018a न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् 2038018c एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे 2038019a न हि मे जीविते किंचित्सामर्थमिह कल्प्यते 2038019c अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम् 2038020a अयं हि मां दीपयते समुत्थित;स्तनूजशोकप्रभवो हुताशनः 2038020c महीमिमां रश्मिभिरुत्तमप्रभो; यथा निदाघे भगवान्दिवाकरः 2039001a विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् 2039001c इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् 2039002a तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः 2039002c किं ते विलपितेनैवं कृपणं रुदितेन वा 2039003a यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः 2039003c साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम् 2039004a शिष्टैराचरिते सम्यक्शश्वत्प्रेत्य फलोदये 2039004c रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन 2039005a वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः 2039005c दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः 2039006a अरण्यवासे यद्दुःखं जानती वै सुखोचिता 2039006c अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् 2039007a कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः 2039007c दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः 2039008a व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् 2039008c न गात्रमंशुभिः सूर्यः संतापयितुमर्हति 2039009a शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः 2039009c राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः 2039010a शयानमनघं रात्रौ पितेवाभिपरिष्वजन् 2039010c रश्मिभिः संस्पृशञ्शीतैश्चन्द्रमा ह्लादयिष्यति 2039011a ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे 2039011c दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे 2039012a पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः 2039012c क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते 2039013a दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम् 2039013c समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः 2039014a अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् 2039014c मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी 2039015a पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः 2039015c कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति 2039016a निशम्य तल्लक्ष्मणमातृवाक्यं; रामस्य मातुर्नरदेवपत्न्याः 2039016c सद्यः शरीरे विननाश शोकः; शरद्गतो मेघ इवाल्पतोयः 2040001a अनुरक्ता महात्मानं रामं सत्यपरक्रमम् 2040001c अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः 2040002a निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि 2040002c नैव ते संन्यवर्तन्त रामस्यानुगता रथम् 2040003a अयोध्यानिलयानां हि पुरुषाणां महायशाः 2040003c बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः 2040004a स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा 2040004c कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत 2040005a अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव 2040005c उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव 2040006a या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् 2040006c मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् 2040007a स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः 2040007c करिष्यति यथावद्वः प्रियाणि च हितानि च 2040008a ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः 2040008c अनुरूपः स वो भर्ता भविष्यति भयापहः 2040009a स हि राजगुणैर्युक्तो युवराजः समीक्षितः 2040009c अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् 2040010a न च तप्येद्यथा चासौ वनवासं गते मयि 2040010c महाराजस्तथा कार्यो मम प्रियचिकीर्षया 2040011a यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् 2040011c तथा तथा प्रकृतयो रामं पतिमकामयन् 2040012a बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह 2040012c चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम् 2040013a ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा 2040013c वयःप्रकम्पशिरसो दूरादूचुरिदं वचः 2040014a वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः 2040014c निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि 2040014e उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् 2040015a एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् 2040015c अवेक्ष्य सहसा रामो रथादवततार ह 2040016a पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः 2040016c संनिकृष्टपदन्यासो रामो वनपरायणः 2040017a द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः 2040017c न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः 2040018a गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः 2040018c ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः 2040019a ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति 2040019c द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी 2040020a वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः 2040020c पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये 2040021a अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते 2040021c एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः 2040022a या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी 2040022c त्वत्कृते सा कृता वत्स वनवासानुसारिणी 2040023a हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् 2040023c वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः 2040024a न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः 2040024c त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् 2040025a याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः 2040025c शिरोभिर्निभृताचार महीपतनपांशुलैः 2040026a बहूनां वितता यज्ञा द्विजानां य इहागताः 2040026c तेषां समाप्तिरायत्ता तव वत्स निवर्तने 2040027a भक्तिमन्ति हि भूतानि जंगमाजंगमानि च 2040027c याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय 2040028a अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः 2040028c उन्नता वायुवेगेन विक्रोशन्तीव पादपाः 2040029a निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः 2040029c पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् 2040030a एवं विक्रोशतां तेषां द्विजातीनां निवर्तने 2040030c ददृशे तमसा तत्र वारयन्तीव राघवम् 2041001a ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः 2041001c सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् 2041002a इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् 2041002c वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि 2041003a पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः 2041003c यथानिलयमायद्भिर्निलीनानि मृगद्विजैः 2041004a अद्यायोध्या तु नगरी राजधानी पितुर्मम 2041004c सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः 2041005a भरतः खलु धर्मात्मा पितरं मातरं च मे 2041005c धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति 2041006a भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः 2041006c नानुशोचामि पितरं मातरं चापि लक्ष्मण 2041007a त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् 2041007c अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता 2041008a अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् 2041008c एतद्धि रोचते मह्यं वन्येऽपि विविधे सति 2041009a एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः 2041009c अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह 2041010a सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते 2041010c प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः 2041011a उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम् 2041011c रामस्य शयनं चक्रे सूतः सौमित्रिणा सह 2041012a तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् 2041012c रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह 2041013a सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः 2041013c कथयामास सूताय रामस्य विविधान्गुणान् 2041014a जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः 2041014c सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् 2041015a गोकुलाकुलतीरायास्तमसाया विदूरतः 2041015c अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह 2041016a उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च 2041016c अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् 2041017a अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि 2041017c वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम् 2041018a यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने 2041018c अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् 2041019a यावदेव तु संसुप्तास्तावदेव वयं लघु 2041019c रथमारुह्य गच्छामः पन्थानमकुतोभयम् 2041020a अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः 2041020c स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः 2041021a पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः 2041021c न तु खल्वात्मना योज्या दुःखेन पुरवासिनः 2041022a अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् 2041022c रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति 2041023a सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः 2041023c योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् 2041024a मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः 2041024c उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे 2041025a मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः 2041025c यथा न विद्युः पौरा मां तथा कुरु समाहितः 2041026a रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः 2041026c प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् 2041027a तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः 2041027c शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् 2041028a स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् 2041028c प्रापद्यत महामार्गमभयं भयदर्शिनाम् 2041029a प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना 2041029c शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः 2041030a शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः 2041030c आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः 2041031a ततो मार्गानुसारेण गत्वा किंचित्क्षणं पुनः 2041031c मार्गनाशाद्विषादेन महता समभिप्लुतः 2041032a रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः 2041032c किमिदं किं करिष्यामो दैवेनोपहता इति 2041033a ततो यथागतेनैव मार्गेण क्लान्तचेतसः 2041033c अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् 2042001a अनुगम्य निवृत्तानां रामं नगरवासिनाम् 2042001c उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् 2042002a स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः 2042002c अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः 2042003a न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन् 2042003c न चाशोभन्त पण्यानि नापचन्गृहमेधिनः 2042004a नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् 2042004c पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत 2042005a गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् 2042005c व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् 2042006a किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा 2042006c पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् 2042007a एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया 2042007c योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने 2042008a आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च 2042008c येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि 2042009a शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः 2042009c आपगाश्च महानूपाः सानुमन्तश्च पर्वताः 2042010a काननं वापि शैलं वा यं रामोऽभिगमिष्यति 2042010c प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् 2042011a विचित्रकुसुमापीडा बहुमञ्जरिधारिणः 2042011c अकाले चापि मुख्यानि पुष्पाणि च फलानि च 2042011e दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् 2042012a विदर्शयन्तो विविधान्भूयश्चित्रांश्च निर्झरान् 2042012c पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् 2042013a यत्र रामो भयं नात्र नास्ति तत्र पराभवः 2042013c स हि शूरो महाबाहुः पुत्रो दशरथस्य च 2042014a पुरा भवति नो दूरादनुगच्छाम राघवम् 2042014c पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः 2042014e स हि नाथो जनस्यास्य स गतिः स परायणम् 2042015a वयं परिचरिष्यामः सीतां यूयं तु राघवम् 2042015c इति पौरस्त्रियो भर्तॄन्दुःखार्तास्तत्तदब्रुवन् 2042016a युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति 2042016c सीता नारीजनस्यास्य योगक्षेमं करिष्यति 2042017a को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च 2042017c संप्रीयेतामनोज्ञेन वासेन हृतचेतसा 2042018a कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् 2042018c न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः 2042019a यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् 2042019c कं सा परिहरेदन्यं कैकेयी कुलपांसनी 2042020a कैकेय्या न वयं राज्ये भृतका निवसेमहि 2042020c जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे 2042021a या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा 2042021c कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् 2042022a न हि प्रव्रजिते रामे जीविष्यति महीपतिः 2042022c मृते दशरथे व्यक्तं विलोपस्तदनन्तरम् 2042023a ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः 2042023c राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत 2042024a मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः 2042024c भरते संनिषृष्टाः स्मः सौनिके पशवो यथा 2042025a तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः 2042025c चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे 2042026a तथा स्त्रियो रामनिमित्तमातुरा; यथा सुते भ्रातरि वा विवासिते 2042026c विलप्य दीना रुरुदुर्विचेतसः; सुतैर्हि तासामधिको हि सोऽभवत् 2043001a रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् 2043001c जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् 2043002a तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा 2043002c उपास्य स शिवां संध्यां विषयान्तं व्यगाहत 2043003a ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च 2043003c पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः 2043004a शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2043004c राजानं धिग्दशरथं कामस्य वशमागतम् 2043005a हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी 2043005c तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते 2043006a या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् 2043006c वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम् 2043007a एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् 2043007c शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः 2043008a ततो वेदश्रुतिं नाम शिववारिवहां नदीम् 2043008c उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् 2043009a गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् 2043009c गोमतीं गोयुतानूपामतरत्सागरंगमाम् 2043010a गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः 2043010c मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् 2043011a स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा 2043011c स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् 2043012a सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः 2043012c हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः 2043013a कदाहं पुनरागम्य सरय्वाः पुष्पिते वने 2043013c मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः 2043014a नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने 2043014c रतिर्ह्येषातुला लोके राजर्षिगणसंमता 2043015a स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा 2043015c तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन् 2044001a विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः 2044001c आससाद महाबाहुः शृङ्गवेरपुरं प्रति 2044002a तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् 2044002c ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् 2044003a हंससारससंघुष्टां चक्रवाकोपकूजिताम् 2044003c शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम् 2044004a तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः 2044004c सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे 2044005a अविदूरादयं नद्या बहुपुष्पप्रवालवान् 2044005c सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे 2044006a लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् 2044006c उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः 2044007a रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः 2044007c रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः 2044008a सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् 2044008c वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः 2044009a तत्र राजा गुहो नाम रामस्यात्मसमः सखा 2044009c निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः 2044010a स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् 2044010c वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः 2044011a ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् 2044011c सह सौमित्रिणा रामः समागच्छद्गुहेन सः 2044012a तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् 2044012c यथायोध्या तथेदं ते राम किं करवाणि ते 2044013a ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् 2044013c अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह 2044014a स्वागतं ते महाबाहो तवेयमखिला मही 2044014c वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः 2044015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् 2044015c शयनानि च मुख्यानि वाजिनां खादनं च ते 2044016a गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह 2044016c अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् 2044017a पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च 2044017c भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् 2044018a दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः 2044018c अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च 2044019a यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम् 2044019c सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे 2044020a कुशचीराजिनधरं फलमूलाशनं च माम् 2044020c विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् 2044021a अश्वानां खादनेनाहमर्थी नान्येन केनचित् 2044021c एतावतात्रभवता भविष्यामि सुपूजितः 2044022a एते हि दयिता राज्ञः पितुर्दशरथस्य मे 2044022c एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः 2044023a अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् 2044023c गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति 2044024a ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् 2044024c जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् 2044025a तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः 2044025c सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः 2044026a गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् 2044026c अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः 2044027a तथा शयानस्य ततोऽस्य धीमतो; यशस्विनो दाशरथेर्महात्मनः 2044027c अदृष्टदुःखस्य सुखोचितस्य सा; तदा व्यतीयाय चिरेण शर्वरी 2045001a तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् 2045001c गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् 2045002a इयं तात सुखा शय्या त्वदर्थमुपकल्पिता 2045002c प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् 2045003a उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः 2045003c गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् 2045004a न हि रामात्प्रियतरो ममास्ति भुवि कश्चन 2045004c ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे 2045005a अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः 2045005c धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् 2045006a सोऽहं प्रियसखं रामं शयानं सह सीतया 2045006c रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह 2045007a न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा 2045007c चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि 2045008a लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ 2045008c नात्र भीता वयं सर्वे धर्ममेवानुपश्यता 2045009a कथं दाशरथौ भूमौ शयाने सह सीतया 2045009c शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा 2045010a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2045010c तं पश्य सुखसंविष्टं तृणेषु सह सीतया 2045011a यो मन्त्र तपसा लब्धो विविधैश्च परिश्रमैः 2045011c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2045012a अस्मिन्प्रव्रजितो राजा न चिरं वर्तयिष्यति 2045012c विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति 2045013a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2045013c निर्घोषोपरतं तात मन्ये राजनिवेशनम् 2045014a कौसल्या चैव राजा च तथैव जननी मम 2045014c नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् 2045015a जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2045015c तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति 2045016a अनुरक्तजनाकीर्णा सुखालोकप्रियावहा 2045016c राजव्यसनसंसृष्टा सा पुरी विनशिष्यति 2045017a अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् 2045017c राज्ये राममनिक्षिप्य पिता मे विनशिष्यति 2045018a सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते 2045018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2045019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2045019c हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् 2045020a रथाश्वगजसंबाधां तूर्यनादविनादिताम् 2045020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2045021a आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् 2045021c सुखिता विचरिष्यन्ति राजधानीं पितुर्मम 2045022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2045022c निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि 2045023a परिदेवयमानस्य दुःखार्तस्य महात्मनः 2045023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2045024a तथा हि सत्यं ब्रुवति प्रजाहिते; नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः 2045024c मुमोच बाष्पं व्यसनाभिपीडितो; ज्वरातुरो नाग इव व्यथातुरः 2046001a प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः 2046001c उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् 2046002a भास्करोदयकालोऽयं गता भगवती निशा 2046002c असौ सुकृष्णो विहगः कोकिलस्तात कूजति 2046003a बर्हिणानां च निर्घोषः श्रूयते नदतां वने 2046003c तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् 2046004a विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः 2046004c गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः 2046005a ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ 2046005c जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ 2046006a राममेव तु धर्मज्ञमुपगम्य विनीतवत् 2046006c किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् 2046007a निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम 2046007c यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् 2046008a आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः 2046008c सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् 2046009a नातिक्रान्तमिदं लोके पुरुषेणेह केनचित् 2046009c तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने 2046010a न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः 2046010c मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् 2046011a सह राघव वैदेह्या भ्रात्रा चैव वने वसन् 2046011c त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव 2046012a वयं खलु हता राम ये तयाप्युपवञ्चिताः 2046012c कैकेय्या वशमेष्यामः पापाया दुःखभागिनः 2046013a इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा 2046013c दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् 2046014a ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् 2046014c रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् 2046015a इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये 2046015c यथा दशरथो राजा मां न शोचेत्तथा कुरु 2046016a शोकोपहत चेताश्च वृद्धश्च जगतीपतिः 2046016c काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते 2046017a यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिः 2046017c कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया 2046018a एतदर्थं हि राज्यानि प्रशासति नरेश्वराः 2046018c यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते 2046019a तद्यथा स महाराजो नालीकमधिगच्छति 2046019c न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा 2046020a अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् 2046020c ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः 2046021a नैवाहमनुशोचामि लक्ष्मणो न च मैथिली 2046021c अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा 2046022a चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः 2046022c लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् 2046023a एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे 2046023c अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः 2046024a आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् 2046024c सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च 2046025a ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय 2046025c आगतश्चापि भरतः स्थाप्यो नृपमते पदे 2046026a भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च 2046026c अस्मत्संतापजं दुःखं न त्वामभिभविष्यति 2046027a भरतश्चापि वक्तव्यो यथा राजनि वर्तसे 2046027c तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः 2046028a यथा च तव कैकेयी सुमित्रा चाविशेषतः 2046028c तथैव देवी कौसल्या मम माता विशेषतः 2046029a निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः 2046029c तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् 2046030a यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः 2046030c भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि 2046031a कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् 2046031c तव तात वियोगेन पुत्रशोकाकुलामिव 2046032a सराममपि तावन्मे रथं दृष्ट्वा तदा जनः 2046032c विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी 2046033a दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् 2046033c सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे 2046034a दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् 2046034c चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः 2046035a आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने 2046035c रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः 2046036a अहं किं चापि वक्ष्यामि देवीं तव सुतो मया 2046036c नीतोऽसौ मातुलकुलं संतापं मा कृथा इति 2046037a असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् 2046037c कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः 2046038a मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः 2046038c कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः 2046039a यदि मे याचमानस्य त्यागमेव करिष्यसि 2046039c सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया 2046040a भविष्यन्ति वने यानि तपोविघ्नकराणि ते 2046040c रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव 2046041a तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् 2046041c आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् 2046042a प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः 2046042c प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः 2046043a तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् 2046043c अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् 2046044a न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना 2046044c राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा 2046045a इमे चापि हया वीर यदि ते वनवासिनः 2046045c परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् 2046046a वनवासे क्षयं प्राप्ते ममैष हि मनोरथः 2046046c यदनेन रथेनैव त्वां वहेयं पुरीं पुनः 2046047a चतुर्दश हि वर्षाणि सहितस्य त्वया वने 2046047c क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा 2046048a भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि 2046048c भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि 2046049a एवं बहुविधं दीनं याचमानं पुनः पुनः 2046049c रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् 2046050a जानामि परमां भक्तिं मयि ते भर्तृवत्सल 2046050c शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः 2046051a नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी 2046051c कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः 2046052a परितुष्टा हि सा देवि वनवासं गते मयि 2046052c राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् 2046053a एष मे प्रथमः कल्पो यदम्बा मे यवीयसी 2046053c भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् 2046054a मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज 2046054c संदिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा 2046055a इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः 2046055c गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् 2046055e जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय 2046056a तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् 2046056c लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः 2046057a तौ तदा चीरवसनौ जटामण्डलधारिणौ 2046057c अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ 2046058a ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः 2046058c व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत् 2046059a अप्रमत्तो बले कोशे दुर्गे जनपदे तथा 2046059c भवेथा गुह राज्यं हि दुरारक्षतमं मतम् 2046060a ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः 2046060c जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः 2046061a स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः 2046061c तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् 2046062a आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः 2046062c सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् 2046063a स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् 2046063c आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः 2046064a अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः 2046064c ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् 2046065a अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् 2046065c आस्थाय नावं रामस्तु चोदयामास नाविकान् 2046066a ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता 2046066c शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् 2046067a मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता 2046067c वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् 2046068a पुत्रो दशरथस्यायं महाराजस्य धीमतः 2046068c निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः 2046069a चतुर्दश हि वर्षाणि समग्राण्युष्य कानने 2046069c भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति 2046070a ततस्त्वां देवि सुभगे क्षेमेण पुनरागता 2046070c यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये 2046071a त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे 2046071c भार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यसे 2046072a सा त्वां देवि नमस्यामि प्रशंसामि च शोभने 2046072c प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते 2046073a गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् 2046073c ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया 2046074a तथा संभाषमाणा सा सीता गङ्गामनिन्दिता 2046074c दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् 2046075a तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः 2046075c प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः 2046076a अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् 2046076c अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु 2046077a पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् 2046077c अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति 2046078a गतं तु गङ्गापरपारमाशु; रामं सुमन्त्रः प्रततं निरीक्ष्य 2046078c अध्वप्रकर्षाद्विनिवृत्तदृष्टि;र्मुमोच बाष्पं व्यथितस्तपस्वी 2046079a तौ तत्र हत्वा चतुरो महामृगा;न्वराहमृश्यं पृषतं महारुरुम् 2046079c आदाय मेध्यं त्वरितं बुभुक्षितौ; वासाय काले ययतुर्वनस्पतिम् 2047001a स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् 2047001c रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् 2047002a अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः 2047002c या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि 2047003a जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु 2047003c योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः 2047004a रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे 2047004c उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः 2047005a स तु संविश्य मेदिन्यां महार्हशयनोचितः 2047005c इमाः सौमित्रये रामो व्याजहार कथाः शुभाः 2047006a ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण 2047006c कृतकामा तु कैकेयी तुष्टा भवितुमर्हति 2047007a सा हि देवी महाराजं कैकेयी राज्यकारणात् 2047007c अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम् 2047008a अनाथश्चैव वृद्धश्च मया चैव विनाकृतः 2047008c किं करिष्यति कामात्मा कैकेय्या वशमागतः 2047009a इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् 2047009c काम एवार्धधर्माभ्यां गरीयानिति मे मतिः 2047010a को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत् 2047010c छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण 2047011a सुखी बत सभार्यश्च भरतः केकयीसुतः 2047011c मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत् 2047012a स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति 2047012c ताते च वयसातीते मयि चारण्यमाश्रिते 2047013a अर्थधर्मौ परित्यज्य यः काममनुवर्तते 2047013c एवमापद्यते क्षिप्रं राजा दशरथो यथा 2047014a मन्ये दशरथान्ताय मम प्रव्राजनाय च 2047014c कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च 2047015a अपीदानीं न कैकेयी सौभाग्यमदमोहिता 2047015c कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते 2047016a मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् 2047016c अयोध्यामित एव त्वं काले प्रविश लक्ष्मण 2047017a अहमेको गमिष्यामि सीतया सह दण्डकान् 2047017c अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि 2047018a क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत् 2047018c परिदद्या हि धर्मज्ञे भरते मम मातरम् 2047019a नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः 2047019c जनन्या मम सौमित्रे तदप्येतदुपस्थितम् 2047020a मया हि चिरपुष्टेन दुःखसंवर्धितेन च 2047020c विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् 2047021a मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् 2047021c सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम् 2047022a मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका 2047022c यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश 2047023a शोचन्त्याश्चाल्पभाग्याया न किंचिदुपकुर्वता 2047023c पुर्त्रेण किमपुत्राया मया कार्यमरिंदम 2047024a अल्पभाग्या हि मे माता कौसल्या रहिता मया 2047024c शेते परमदुःखार्ता पतिता शोकसागरे 2047025a एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण 2047025c तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् 2047026a अधर्मभय भीतश्च परलोकस्य चानघ 2047026c तेन लक्ष्मण नाद्याहमात्मानमभिषेचये 2047027a एतदन्यच्च करुणं विलप्य विजने बहु 2047027c अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् 2047028a विलप्योपरतं रामं गतार्चिषमिवानलम् 2047028c समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः 2047029a ध्रुवमद्य पुरी राम अयोध्या युधिनां वर 2047029c निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी 2047030a नैतदौपयिकं राम यदिदं परितप्यसे 2047030c विषादयसि सीतां च मां चैव पुरुषर्षभ 2047031a न च सीता त्वया हीना न चाहमपि राघव 2047031c मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ 2047032a न हि तातं न शत्रुघ्नं न सुमित्रां परंतप 2047032c द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना 2047033a स लक्ष्मणस्योत्तम पुष्कलं वचो; निशम्य चैवं वनवासमादरात् 2047033c समाः समस्ता विदधे परंतपः; प्रपद्य धर्मं सुचिराय राघवः 2048001a ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् 2048001c विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे 2048002a यत्र भागीरथी गङ्गा यमुनामभिवर्तते 2048002c जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् 2048003a ते भूमिमागान्विविधान्देशांश्चापि मनोरमान् 2048003c अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः 2048004a यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान् 2048004c निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् 2048005a प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् 2048005c अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः 2048006a नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् 2048006c तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः 2048007a दारूणि परिभिन्नानि वनजैरुपजीविभिः 2048007c भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः 2048008a धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे 2048008c गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः 2048009a रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः 2048009c गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् 2048010a ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ 2048010c सीतयानुगतौ वीरौ दूरादेवावतस्थतुः 2048011a हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः 2048011c रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् 2048012a न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः 2048012c पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ 2048013a भार्या ममेयं वैदेही कल्याणी जनकात्मजा 2048013c मां चानुयाता विजनं तपोवनमनिन्दिता 2048014a पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः 2048014c अयमन्वगमद्भ्राता वनमेव दृढव्रतः 2048015a पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम् 2048015c धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः 2048016a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2048016c उपानयत धर्मात्मा गामर्घ्यमुदकं ततः 2048017a मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः 2048017c राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः 2048018a प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् 2048018c भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा 2048019a चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् 2048019c श्रुतं तव मया चेदं विवासनमकारणम् 2048020a अवकाशो विविक्तोऽयं महानद्योः समागमे 2048020c पुण्यश्च रमणीयश्च वसत्विह भगान्सुखम् 2048021a एवमुक्तस्तु वचनं भरद्वाजेन राघवः 2048021c प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः 2048022a भगवन्नित आसन्नः पौरजानपदो जनः 2048022c आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः 2048022e अनेन कारणेनाहमिह वासं न रोचये 2048023a एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् 2048023c रमते यत्र वैदेही सुखार्हा जनकात्मजा 2048024a एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः 2048024c राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् 2048025a दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि 2048025c महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः 2048026a गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः 2048026c चित्रकूट इति ख्यातो गन्धमादनसंनिभः 2048027a यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते 2048027c कल्याणानि समाधत्ते न पापे कुरुते मनः 2048028a ऋषयस्तत्र बहवो विहृत्य शरदां शतम् 2048028c तपसा दिवमारूढाः कपालशिरसा सह 2048029a प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् 2048029c इह वा वनवासाय वस राम मया सह 2048030a स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् 2048030c सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् 2048031a तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः 2048031c प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः 2048032a प्रभातायां रजन्यां तु भरद्वाजमुपागमत् 2048032c उवाच नरशार्दूलो मुनिं ज्वलिततेजसम् 2048033a शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे 2048033c उषिताः स्मेह वसतिमनुजानातु नो भवान् 2048034a रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् 2048034c मधुमूलफलोपेतं चित्रकूटं व्रजेति ह 2048035a तत्र कुञ्जरयूथानि मृगयूथानि चाभितः 2048035c विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव 2048036a प्रहृष्टकोयष्टिककोकिलस्वनै;र्विनादितं तं वसुधाधरं शिवम् 2048036c मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः; सुरम्यमासाद्य समावसाश्रमम् 2049001a उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ 2049001c महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति 2049002a प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात् 2049002c ततः प्रचक्रमे वक्तुं वचनं स महामुनिः 2049003a अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् 2049003c तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् 2049004a ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् 2049004c विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् 2049005a क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् 2049005c पलाशबदरीमिश्रं राम वंशैश्च यामुनैः 2049006a स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया 2049006c रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः 2049006e इति पन्थानमावेद्य महर्षिः स न्यवर्तत 2049007a उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत् 2049007c कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते 2049008a इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ 2049008c सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् 2049009a तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम् 2049009c चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसम् 2049010a तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् 2049010c ईषत्संलज्जमानां तामध्यारोपयत प्लवम् 2049011a ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् 2049011c तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम् 2049012a ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् 2049012c श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् 2049013a कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् 2049013c इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम् 2049014a क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ 2049014c बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने 2049015a विहृत्य ते बर्हिणपूगनादिते; शुभे वने वारणवानरायुते 2049015c समं नदीवप्रमुपेत्य संमतं; निवासमाजग्मुरदीनदर्शनः 2050001a अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् 2050001c प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः 2050002a सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् 2050002c संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप 2050003a स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः 2050003c जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् 2050004a तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् 2050004c पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः 2050005a ततः संप्रस्थितः काले रामः सौमित्रिणा सह 2050005c सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् 2050006a आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् 2050006c स्वैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये 2050007a पश्य भल्लातकान्फुल्लान्नरैरनुपसेवितान् 2050007c फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् 2050008a पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण 2050008c मधूनि मधुकारीभिः संभृतानि नगे नगे 2050009a एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति 2050009c रमणीये वनोद्देशे पुष्पसंस्तरसंकटे 2050010a मातंगयूथानुसृतं पक्षिसंघानुनादितम् 2050010c चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् 2050011a ततस्तौ पादचारेण गच्छन्तौ सह सीतया 2050011c रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् 2050012a तं तु पर्वतमासाद्य नानापक्षिगणायुतम् 2050012c अयं वासो भवेत्तावदत्र सौम्य रमेमहि 2050013a लक्ष्मणानय दारूणि दृढानि च वराणि च 2050013c कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः 2050014a तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान्द्रुमान् 2050014c आजहार ततश्चक्रे पर्ण शालामरिं दम 2050015a शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् 2050015c ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् 2050016a स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् 2050016c अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि 2050017a तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् 2050017c लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् 2050018a अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा 2050018c देवता देवसंकाश यजस्व कुशलो ह्यसि 2050019a रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः 2050019c पापसंशमनं रामश्चकार बलिमुत्तमम् 2050020a तां वृक्षपर्णच्छदनां मनोज्ञां; यथाप्रदेशं सुकृतां निवाताम् 2050020c वासाय सर्वे विविशुः समेताः; सभां यथा देव गणाः सुधर्माम् 2050021a अनेकनानामृगपक्षिसंकुले; विचित्रपुष्पस्तबलैर्द्रुमैर्युते 2050021c वनोत्तमे व्यालमृगानुनादिते; तथा विजह्रुः सुसुखं जितेन्द्रियाः 2050022a सुरम्यमासाद्य तु चित्रकूटं; नदीं च तां माल्यवतीं सुतीर्थाम् 2050022c ननन्द हृष्टो मृगपक्षिजुष्टां; जहौ च दुःखं पुरविप्रवासात् 2051001a कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह 2051001c रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः 2051002a अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् 2051002c अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः 2051003a स वनानि सुगन्धीनि सरितश्च सरांसि च 2051003c पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च 2051004a ततः सायाह्नसमये तृतीयेऽहनि सारथिः 2051004c अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह 2051005a स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः 2051005c सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः 2051006a कच्चिन्न सगजा साश्वा सजना सजनाधिपा 2051006c रामसंतापदुःखेन दग्धा शोकाग्निना पुरी 2051006e इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह 2051007a सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः 2051007c क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः 2051008a तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् 2051008c अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना 2051009a ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः 2051009c अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः 2051010a शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् 2051010c हताः स्म खलु ये नेह पश्याम इति राघवम् 2051011a दानयज्ञविवाहेषु समाजेषु महत्सु च 2051011c न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा 2051012a किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् 2051012c इति रामेण नगरं पितृवत्परिपालितम् 2051013a वातायनगतानां च स्त्रीणामन्वन्तरापणम् 2051013c रामशोकाभितप्तानां शुश्राव परिदेवनम् 2051014a स राजमार्गमध्येन सुमन्त्रः पिहिताननः 2051014c यत्र राजा दशरथस्तदेवोपययौ गृहम् 2051015a सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च 2051015c कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः 2051016a ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः 2051016c रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् 2051017a सह रामेण निर्यातो विना राममिहागतः 2051017c सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति 2051018a यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् 2051018c आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति 2051019a सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् 2051019c प्रदीप्तमिव शोकेन विवेश सहसा गृहम् 2051020a स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् 2051020c पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे 2051021a अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च 2051021c सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् 2051022a स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः 2051022c मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः 2051023a ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ 2051023c उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ 2051024a सुमित्रया तु सहिता कौसल्या पतितं पतिम् 2051024c उत्थापयामास तदा वचनं चेदमब्रवीत् 2051025a इमं तस्य महाभाग दूतं दुष्करकारिणः 2051025c वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे 2051026a अद्येममनयं कृत्वा व्यपत्रपसि राघव 2051026c उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता 2051027a देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् 2051027c नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् 2051028a सा तथोक्त्वा महाराजं कौसल्या शोकलालसा 2051028c धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी 2051029a एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि 2051029c पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः 2051030a ततस्तमन्तःपुरनादमुत्थितं; समीक्ष्य वृद्धास्तरुणाश्च मानवाः 2051030c स्त्रियश्च सर्वा रुरुदुः समन्ततः; पुरं तदासीत्पुनरेव संकुलम् 2052001a प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः 2052001c अथाजुहाव तं सूतं रामवृत्तान्तकारणात् 2052002a वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् 2052002c विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् 2052003a राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् 2052003c अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् 2052004a क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः 2052004c सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः 2052004e भूमिपालात्मजो भूमौ शेते कथमनाथवत् 2052005a यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः 2052005c स वत्स्यति कथं रामो विजनं वनमाश्रितः 2052006a व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् 2052006c कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ 2052007a सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया 2052007c राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ 2052008a सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ 2052008c वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् 2052009a किमुवाच वचो रामः किमुवाच च लक्ष्मणः 2052009c सुमन्त्र वनमासाद्य किमुवाच च मैथिली 2052009e आसितं शयितं भुक्तं सूत रामस्य कीर्तय 2052010a इति सूतो नरेन्द्रेण चोदितः सज्जमानया 2052010c उवाच वाचा राजानं सबाष्पपरिरब्धया 2052011a अब्रवीन्मां महाराज धर्ममेवानुपालयन् 2052011c अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च 2052012a सूत मद्वचनात्तस्य तातस्य विदितात्मनः 2052012c शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः 2052013a सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया 2052013c आरोग्यमविशेषेण यथार्हं चाभिवादनम् 2052014a माता च मम कौसल्या कुशलं चाभिवादनम् 2052014c देवि देवस्य पादौ च देववत्परिपालय 2052015a भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च 2052015c सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु 2052016a वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः 2052016c पितरं यौवराज्यस्थो राज्यस्थमनुपालय 2052017a इत्येवं मां महाराज ब्रुवन्नेव महायशाः 2052017c रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् 2052018a लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन्वाक्यमब्रवीत् 2052018c केनायमपराधेन राजपुत्रो विवासितः 2052019a यदि प्रव्राजितो रामो लोभकारणकारितम् 2052019c वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् 2052019e रामस्य तु परित्यागे न हेतुमुपलक्षये 2052020a असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् 2052020c जनयिष्यति संक्रोशं राघवस्य विवासनम् 2052021a अहं तावन्महाराजे पितृत्वं नोपलक्षये 2052021c भ्राता भर्ता च बन्धुश्च पिता च मम राघवः 2052022a सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् 2052022c सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा 2052023a जानकी तु महाराज निःश्वसन्ती तपस्विनी 2052023c भूतोपहतचित्तेव विष्ठिता विष्मृता स्थिता 2052024a अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी 2052024c तेन दुःखेन रुदती नैव मां किंचिदब्रवीत् 2052025a उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता 2052025c मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा 2052026a तथैव रामोऽश्रुमुखः कृताञ्जलिः; स्थितोऽभवल्लक्ष्मणबाहुपालितः 2052026c तथैव सीता रुदती तपस्विनी; निरीक्षते राजरथं तथैव माम् 2053001a मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि 2053001c उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम् 2053002a उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम् 2053002c प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् 2053003a गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून् 2053003c आशया यदि मां रामः पुनः शब्दापयेदिति 2053004a विषये ते महाराज रामव्यसनकर्शिताः 2053004c अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः 2053005a न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च 2053005c रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् 2053006a लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः 2053006c संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः 2053007a जलजानि च पुष्पाणि माल्यानि स्थलजानि च 2053007c नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम् 2053008a प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति 2053008c नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः 2053009a हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् 2053009c हाहाकारकृता नार्यो रामादर्शनकर्शिताः 2053010a आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः 2053010c अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः 2053011a नामित्राणां न मित्राणामुदासीनजनस्य च 2053011c अहमार्ततया कंचिद्विशेषं नोपलक्षये 2053012a अप्रहृष्टमनुष्या च दीननागतुरंगमा 2053012c आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना 2053013a निरानन्दा महाराज रामप्रव्राजनातुरा 2053013c कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा 2053014a सूतस्य वचनं श्रुत्वा वाचा परमदीनया 2053014c बाष्पोपहतया राजा तं सूतमिदमब्रवीत् 2053015a कैकेय्या विनियुक्तेन पापाभिजनभावया 2053015c मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम् 2053016a न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः 2053016c मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः 2053017a भवितव्यतया नूनमिदं वा व्यसनं महत् 2053017c कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया 2053018a सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम् 2053018c त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् 2053019a यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् 2053019c न शक्ष्यामि विना राम मुहूर्तमपि जीवितुम् 2053020a अथ वापि महाबाहुर्गतो दूरं भविष्यति 2053020c मामेव रथमारोप्य शीघ्रं रामाय दर्शय 2053021a वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः 2053021c यदि जीवामि साध्वेनं पश्येयं सह सीतया 2053022a लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् 2053022c रामं यदि न पश्यामि गमिष्यामि यमक्षयम् 2053023a अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् 2053023c इमामवस्थामापन्नो नेह पश्यामि राघवम् 2053024a हा राम रामानुज हा हा वैदेहि तपस्विनी 2053024c न मां जानीत दुःखेन म्रियमाणमनाथवत् 2053024e दुस्तरो जीवता देवि मयायं शोकसागरः 2053025a अशोभनं योऽहमिहाद्य राघवं; दिदृक्षमाणो न लभे सलक्ष्मणम् 2053025c इतीव राजा विलपन्महायशाः; पपात तूर्णं शयने स मूर्छितः 2053026a इति विलपति पार्थिवे प्रनष्टे; करुणतरं द्विगुणं च रामहेतोः 2053026c वचनमनुनिशम्य तस्य देवी; भयमगमत्पुनरेव राममाता 2054001a ततो भूतोपसृष्टेव वेपमाना पुनः पुनः 2054001c धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् 2054002a नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः 2054002c तान्विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् 2054003a निवर्तय रथं शीघ्रं दण्डकान्नय मामपि 2054003c अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् 2054004a बाष्पवेगौपहतया स वाचा सज्जमानया 2054004c इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत् 2054005a त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा 2054005c व्यवधूय च संतापं वने वत्स्यति राघवः 2054006a लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने 2054006c आराधयति धर्मज्ञः परलोकं जितेन्द्रियः 2054007a विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव 2054007c विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा 2054008a नास्या दैन्यं कृतं किंचित्सुसूक्ष्ममपि लक्षये 2054008c उचितेव प्रवासानां वैदेही प्रतिभाति मा 2054009a नगरोपवनं गत्वा यथा स्म रमते पुरा 2054009c तथैव रमते सीता निर्जनेषु वनेष्वपि 2054010a बालेव रमते सीता बालचन्द्रनिभानना 2054010c रामा रामे ह्यदीनात्मा विजनेऽपि वने सती 2054011a तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् 2054011c अयोध्यापि भवेत्तस्या रामहीना तथा वनम् 2054012a पथि पृच्छति वैदेही ग्रामांश्च नगराणि च 2054012c गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि 2054013a अध्वना वातवेगेन संभ्रमेणातपेन च 2054013c न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा 2054014a सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् 2054014c वदनं तद्वदान्याया वैदेह्या न विकम्पते 2054015a अलक्तरसरक्ताभावलक्तरसवर्जितौ 2054015c अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ 2054016a नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी 2054016c इदानीमपि वैदेही तद्रागा न्यस्तभूषणा 2054017a गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता 2054017c नाहारयति संत्रासं बाहू रामस्य संश्रिता 2054018a न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः 2054018c इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् 2054019a विधूय शोकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः 2054019c वने रता वन्यफलाशनाः पितुः; शुभां प्रतिज्ञां परिपालयन्ति ते 2054020a तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशोककर्शिता 2054020c न चैव देवी विरराम कूजिता;त्प्रियेति पुत्रेति च राघवेति च 2055001a वनं गते धर्मपरे रामे रमयतां वरे 2055001c कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् 2055002a यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः 2055002c सानुक्रोशो वदान्यश्च प्रियवादी च राघवः 2055003a कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया 2055003c दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः 2055004a सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता 2055004c कथमुष्णं च शीतं च मैथिली प्रसहिष्यते 2055005a भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् 2055005c वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते 2055006a गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता 2055006c कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् 2055007a महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः 2055007c भुजं परिघसंकाशमुपधाय महाबलः 2055008a पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् 2055008c कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् 2055009a वज्रसारमयं नूनं हृदयं मे न संशयः 2055009c अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा 2055010a यदि पञ्चदशे वर्षे राघवः पुनरेष्यति 2055010c जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते 2055011a एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते 2055011c भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते 2055012a न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति 2055012c एवमेव नरव्याघ्रः परलीढं न मंस्यते 2055013a हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः 2055013c नैतानि यातयामानि कुर्वन्ति पुनरध्वरे 2055014a तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव 2055014c नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् 2055015a नैवंविधमसत्कारं राघवो मर्षयिष्यति 2055015c बलवानिव शार्दूलो बालधेरभिमर्शनम् 2055016a स तादृशः सिंहबलो वृषभाक्षो नरर्षभः 2055016c स्वयमेव हतः पित्रा जलजेनात्मजो यथा 2055017a द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः 2055017c यदि ते धर्मनिरते त्वया पुत्रे विवासिते 2055018a गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः 2055018c तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते 2055019a तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः 2055019c न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया 2055020a हतं त्वया राज्यमिदं सराष्ट्रं; हतस्तथात्मा सह मन्त्रिभिश्च 2055020c हता सपुत्रास्मि हताश्च पौराः; सुतश्च भार्या च तव प्रहृष्टौ 2055021a इमां गिरं दारुणशब्दसंश्रितां; निशम्य राजापि मुमोह दुःखितः 2055021c ततः स शोकं प्रविवेश पार्थिवः; स्वदुष्कृतं चापि पुनस्तदास्मरत् 2056001a एवं तु क्रुद्धया राजा राममात्रा सशोकया 2056001c श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः 2056002a तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् 2056002c यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना 2056003a अमनास्तेन शोकेन रामशोकेन च प्रभुः 2056003c दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः 2056004a प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः 2056004c वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि 2056005a भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा 2056005c धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् 2056006a सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर 2056006c नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् 2056007a तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् 2056007c कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् 2056008a स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् 2056008c संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः 2056009a प्रसीद शिरसा याचे भूमौ निततितास्मि ते 2056009c याचितास्मि हता देव हन्तव्याहं न हि त्वया 2056010a नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता 2056010c उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते 2056011a जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् 2056011c पुत्रशोकार्तया तत्तु मया किमपि भाषितम् 2056012a शोको नाशयते धैर्यं शोको नाशयते श्रुतम् 2056012c शोको नाशयते सर्वं नास्ति शोकसमो रिपुः 2056013a शयमापतितः सोढुं प्रहरो रिपुहस्ततः 2056013c सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते 2056014a वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते 2056014c यः शोकहतहर्षायाः पञ्चवर्षोपमो मम 2056015a तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते 2056015c अदीनामिव वेगेन समुद्रसलिलं महत् 2056016a एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः 2056016c मन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत 2056017a अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः 2056017c शोकेन च समाक्रान्तो निद्राया वशमेयिवान् 2057001a प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनः 2057001c अथ राजा दशरथः स चिन्तामभ्यपद्यत 2057002a रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् 2057002c आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् 2057003a स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् 2057003c अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम् 2057003e कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् 2057004a यदाचरति कल्याणि शुभं वा यदि वाशुभम् 2057004c तदेव लभते भद्रे कर्ता कर्मजमात्मनः 2057005a गुरु लाघवमर्थानामारम्भे कर्मणां फलम् 2057005c दोषं वा यो न जानाति स बाल इति होच्यते 2057006a कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति 2057006c पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे 2057007a सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् 2057007c रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः 2057008a लब्धशब्देन कौसल्ये कुमारेण धनुष्मता 2057008c कुमारः शब्दवेधीति मया पापमिदं कृतम् 2057008e तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् 2057009a संमोहादिह बालेन यथा स्याद्भक्षितं विषम् 2057009c एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् 2057010a देव्यनूढा त्वमभवो युवराजो भवाम्यहम् 2057010c ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी 2057011a उपास्यहि रसान्भौमांस्तप्त्वा च जगदंशुभिः 2057011c परेताचरितां भीमां रविराविशते दिशम् 2057012a उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः 2057012c ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः 2057013a पतितेनाम्भसा छन्नः पतमानेन चासकृत् 2057013c आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः 2057014a तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी 2057014c व्यायाम कृतसंकल्पः सरयूमन्वगां नदीम् 2057015a निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् 2057015c अन्यं वा श्वापदं कंचिज्जिघांसुरजितेन्द्रियः 2057016a अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः 2057016c अचक्षुर्विषये घोषं वारणस्येव नर्दतः 2057017a ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् 2057017c अमुञ्चं निशितं बाणमहमाशीविषोपमम् 2057018a तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः 2057018c हा हेति पततस्तोये वागभूत्तत्र मानुषी 2057018e कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि 2057019a प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः 2057019c इषुणाभिहतः केन कस्य वा किं कृतं मया 2057020a ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः 2057020c कथं नु शस्त्रेण वधो मद्विधस्य विधीयते 2057021a जटाभारधरस्यैव वल्कलाजिनवाससः 2057021c को वधेन ममार्थी स्यात्किं वास्यापकृतं मया 2057022a एवं निष्फलमारब्धं केवलानर्थसंहितम् 2057022c न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् 2057023a नेमं तथानुशोचामि जीवितक्षयमात्मनः 2057023c मातरं पितरं चोभावनुशोचामि मद्विधे 2057024a तदेतान्मिथुनं वृद्धं चिरकालभृतं मया 2057024c मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति 2057025a वृद्धौ च मातापितरावहं चैकेषुणा हतः 2057025c केन स्म निहताः सर्वे सुबालेनाकृतात्मना 2057026a तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः 2057026c कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि 2057027a तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः 2057027c अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् 2057028a स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम् 2057028c इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा 2057029a किं तवापकृतं राजन्वने निवसता मया 2057029c जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया 2057030a एकेन खलु बाणेन मर्मण्यभिहते मयि 2057030c द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे 2057031a तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ 2057031c चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः 2057032a न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा 2057032c पिता यन्मां न जानाति शयानं पतितं भुवि 2057033a जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः 2057033c भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् 2057034a पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव 2057034c न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः 2057035a इयमेकपदी राजन्यतो मे पितुराश्रमः 2057035c तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् 2057036a विशल्यं कुरु मां राजन्मर्म मे निशितः शरः 2057036c रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा 2057037a न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा 2057037c शूद्रायामस्मि वैश्येन जातो जनपदाधिप 2057038a इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः 2057038c तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् 2057039a जलार्द्रगात्रं तु विलप्य कृच्छा;न्मर्मव्रणं संततमुच्छसन्तम् 2057039c ततः सरय्वां तमहं शयानं; समीक्ष्य भद्रे सुभृशं विषण्णः 2058001a तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः 2058001c एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् 2058002a ततस्तं घटमादय पूर्णं परमवारिणा 2058002c आश्रमं तमहं प्राप्य यथाख्यातपथं गतः 2058003a तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ 2058003c अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ 2058004a तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ 2058004c तामाशां मत्कृते हीनावुदासीनावनाथवत् 2058005a पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत 2058005c किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय 2058006a यन्निमित्तमिदं तात सलिले क्रीडितं त्वया 2058006c उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् 2058007a यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया 2058007c न तन्मनसि कर्तव्यं त्वया तात तपस्विना 2058008a त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् 2058008c समासक्तास्त्वयि प्राणाः किंचिन्नौ नाभिभाषसे 2058009a मुनिमव्यक्तया वाचा तमहं सज्जमानया 2058009c हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् 2058010a मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् 2058010c आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् 2058011a क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः 2058011c सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् 2058012a भगवंश्चापहस्तोऽहं सरयूतीरमागतः 2058012c जिघांसुः श्वापदं किंचिन्निपाने वागतं गजम् 2058013a तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः 2058013c द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया 2058014a गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि 2058014c विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् 2058015a भगवञ्शब्दमालक्ष्य मया गजजिघांसुना 2058015c विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः 2058016a स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः 2058016c भगवन्तावुभौ शोचन्नन्धाविति विलप्य च 2058017a अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया 2058017c शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः 2058018a स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः 2058018c मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् 2058019a यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् 2058019c फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा 2058020a क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः 2058020c ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् 2058021a अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि 2058021c अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान् 2058022a नय नौ नृप तं देशमिति मां चाभ्यभाषत 2058022c अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् 2058023a रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससम् 2058023c शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् 2058024a अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ 2058024c अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया 2058025a तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ 2058025c निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् 2058026a न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक 2058026c किं नु नालिङ्गसे पुत्र सुकुमार वचो वद 2058027a कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम् 2058027c अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः 2058028a को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः 2058028c श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् 2058029a कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् 2058029c भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् 2058030a इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् 2058030c कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् 2058031a तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति 2058031c श्वो मया सह गन्तासि जनन्या च समेधितः 2058032a उभावपि च शोकार्तावनाथौ कृपणौ वने 2058032c क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् 2058033a ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् 2058033c क्षमतां धर्मराजो मे बिभृयात्पितरावयम् 2058034a अपापोऽसि यथा पुत्र निहतः पापकर्मणा 2058034c तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् 2058035a यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः 2058035c हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज 2058036a यां गतिं सगरः शैब्यो दिलीपो जनमेजयः 2058036c नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक 2058037a या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या 2058037c भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च 2058038a गोसहस्रप्रदातॄणां या या गुरुभृतामपि 2058038c देहन्यासकृतां या च तां गतिं गच्छ पुत्रक 2058038e न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् 2058039a एवं स कृपणं तत्र पर्यदेवयतासकृत् 2058039c ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया 2058040a स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः 2058040c आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् 2058041a स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् 2058041c भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः 2058042a एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता 2058042c आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः 2058043a स कृत्वा तूदकं तूर्णं तापसः सह भार्यया 2058043c मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् 2058044a अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा 2058044c यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् 2058045a त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः 2058045c तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् 2058046a पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् 2058046c एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि 2058047a तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः 2058047c यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् 2058048a यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा 2058048c न तन्मे सदृशं देवि यन्मया राघवे कृतम् 2058049a चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते 2058049c दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् 2058050a अतस्तु किं दुःखतरं यदहं जीवितक्षये 2058050c न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् 2058051a न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् 2058051c मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः 2058052a पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् 2058052c धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् 2058053a सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च 2058053c सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् 2058054a निवृत्तवनवासं तमयोध्यां पुनरागतम् 2058054c द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा 2058055a अयमात्मभवः शोको मामनाथमचेतनम् 2058055c संसादयति वेगेन यथा कूलं नदीरयः 2058056a हा राघव महाबाहो हा ममायास नाशन 2058056c राजा दशरथः शोचञ्जीवितान्तमुपागमत् 2058057a तथा तु दीनं कथयन्नराधिपः; प्रियस्य पुत्रस्य विवासनातुरः 2058057c गतेऽर्धरात्रे भृशदुःखपीडित;स्तदा जहौ प्राणमुदारदर्शनः 2059001a अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि 2059001c बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् 2059002a ततः शुचिसमाचाराः पर्युपस्थान कोविदः 2059002c स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम् 2059003a हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः 2059003c आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि 2059004a मङ्गलालम्भनीयानि प्राशनीयानुपस्करान् 2059004c उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः 2059005a अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः 2059005c ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् 2059006a ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः 2059006c प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे 2059007a अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम् 2059007c यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः 2059008a ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः 2059008c करेणव इवारण्ये स्थानप्रच्युतयूथपाः 2059009a तासामाक्रन्द शब्देन सहसोद्गतचेतने 2059009c कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः 2059010a कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् 2059010c हा नाथेति परिक्रुश्य पेततुर्धरणीतले 2059011a सा कोसलेन्द्रदुहिता वेष्टमाना महीतले 2059011c न बभ्राज रजोध्वस्ता तारेव गगनच्युता 2059012a तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम् 2059012c सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् 2059013a सद्यो निपतितानन्दं दीनविक्लवदर्शनम् 2059013c बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः 2059014a अतीतमाज्ञाय तु पार्थिवर्षभं; यशस्विनं संपरिवार्य पत्नयः 2059014c भृशं रुदन्त्यः करुणं सुदुःखिताः; प्रगृह्य बाहू व्यलपन्ननाथवत् 2060001a तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् 2060001c हतप्रभमिवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् 2060002a कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता 2060002c उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत 2060003a सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् 2060003c त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि 2060004a विहाय मां गतो रामो भर्ता च स्वर्गतो मम 2060004c विपथे सार्थहीनेव नाहं जीवितुमुत्सहे 2060005a भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः 2060005c इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः 2060006a न लुब्धो बुध्यते दोषान्किं पाकमिव भक्षयन् 2060006c कुब्जानिमित्तं कैकेय्या राघवाणान्कुलं हतम् 2060007a अनियोगे नियुक्तेन राज्ञा रामं विवासितम् 2060007c सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा 2060008a रामः कमलपत्राक्षो जीवनाशमितो गतः 2060008c विदेहराजस्य सुता तहा सीता तपस्विनी 2060008e दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति 2060009a नदतां भीमघोषाणां निशासु मृगपक्षिणाम् 2060009c निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति 2060010a वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनिचिन्तयन् 2060010c सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् 2060011a तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् 2060011c व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः 2060012a तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् 2060012c राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् 2060013a न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः 2060013c सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् 2060014a तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् 2060014c हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् 2060015a बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः 2060015c रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् 2060016a निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता 2060016c पुरी नाराजतायोध्या हीना राज्ञा महात्मना 2060017a बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना 2060017c शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् 2060018a गतप्रभा द्यौरिव भास्करं विना; व्यपेतनक्षत्रगणेव शर्वरी 2060018c पुरी बभासे रहिता महात्मना; न चास्रकण्ठाकुलमार्गचत्वरा 2060019a नराश्च नार्यश्च समेत्य संघशो; विगर्हमाणा भरतस्य मातरम् 2060019c तदा नगर्यां नरदेवसंक्षये; बभूवुरार्ता न च शर्म लेभिरे 2061001a व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः 2061001c समेत्य राजकर्तारः सभामीयुर्द्विजातयः 2061002a मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः 2061002c कात्ययनो गौतमश्च जाबालिश्च महायशाः 2061003a एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् 2061003c वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम् 2061004a अतीता शर्वरी दुःखं या नो वर्षशतोपमा 2061004c अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे 2061005a स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः 2061005c लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह 2061006a उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ 2061006c पुरे राजगृहे रम्ये मातामहनिवेशने 2061007a इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् 2061007c अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात् 2061008a नाराजले जनपदे विद्युन्माली महास्वनः 2061008c अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा 2061009a नाराजके जनपदे बीजमुष्टिः प्रकीर्यते 2061009c नाराकके पितुः पुत्रो भार्या वा वर्तते वशे 2061010a अराजके धनं नास्ति नास्ति भार्याप्यराजके 2061010c इदमत्याहितं चान्यत्कुतः सत्यमराजके 2061011a नाराजके जनपदे कारयन्ति सभां नराः 2061011c उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च 2061012a नाराजके जनपदे यज्ञशीला द्विजातयः 2061012c सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः 2061013a नाराजके जनपदे प्रभूतनटनर्तकाः 2061013c उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः 2061014a नारजके जनपदे सिद्धार्था व्यवहारिणः 2061014c कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः 2061015a नाराजके जनपदे वाहनैः शीघ्रगामिभिः 2061015c नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः 2061016a नाराकजे जनपदे धनवन्तः सुरक्षिताः 2061016c शेरते विवृत द्वाराः कृषिगोरक्षजीविनः 2061017a नाराजके जनपदे वणिजो दूरगामिनः 2061017c गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः 2061018a नाराजके जनपदे चरत्येकचरो वशी 2061018c भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः 2061019a नाराजके जनपदे योगक्षेमं प्रवर्तते 2061019c न चाप्यराजके सेना शत्रून्विषहते युधि 2061020a यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् 2061020c अगोपाला यथा गावस्तथा राष्ट्रमराजकम् 2061021a नाराजके जनपदे स्वकं भवति कस्यचित् 2061021c मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् 2061022a येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः 2061022c तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः 2061023a अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन 2061023c राजा चेन्न भवेँल्लोके विभजन्साध्वसाधुनी 2061024a जीवत्यपि महाराजे तवैव वचनं वयम् 2061024c नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः 2061025a स नः समीक्ष्य द्विजवर्यवृत्तं; नृपं विना राज्यमरण्यभूतम् 2061025c कुमारमिक्ष्वाकुसुतं वदान्यं; त्वमेव राजानमिहाभिषिञ्चय 2062001a तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह 2062001c मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः 2062002a यदसौ मातुलकुले पुरे राजगृहे सुखी 2062002c भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः 2062003a तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः 2062003c आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् 2062004a गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् 2062004c तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत् 2062005a एहि सिद्धार्थ विजय जयन्ताशोकनन्दन 2062005c श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः 2062006a पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः 2062006c त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम 2062007a पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः 2062007c त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया 2062008a मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् 2062008c भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम् 2062009a कौशेयानि च वस्त्राणि भूषणानि वराणि च 2062009c क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत 2062009e वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः 2062010a ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः 2062010c पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् 2062011a ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् 2062011c उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम् 2062012a निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् 2062012c अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम् 2062013a अभिकालं ततः प्राप्य तेजोभिभवनाच्च्युताः 2062013c ययुर्मध्येन बाह्लीकान्सुदामानं च पर्वतम् 2062013e विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् 2062014a ते श्रान्तवाहना दूता विकृष्टेन सता पथा 2062014c गिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा 2062015a भर्तुः प्रियार्थं कुलरक्षणार्थं; भर्तुश्च वंशस्य परिग्रहार्थम् 2062015c अहेडमानास्त्वरया स्म दूता; रात्र्यां तु ते तत्पुरमेव याताः 2063001a यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् 2063001c भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः 2063002a व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् 2063002c पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत 2063003a तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः 2063003c आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः 2063004a वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे 2063004c नाटकान्यपरे प्राहुर्हास्यानि विविधानि च 2063005a स तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः 2063005c गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः 2063006a तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् 2063006c सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे 2063007a एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह 2063007c शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम् 2063008a स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् 2063008c पतन्तमद्रिशिखरात्कलुषे गोमये ह्रदे 2063009a प्लवमानश्च मे दृष्टः स तस्मिन्गोमयह्रदे 2063009c पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः 2063010a ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः 2063010c तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत 2063011a स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि 2063011c सहसा चापि संशन्तं ज्वलितं जातवेदसम् 2063012a अवदीर्णां च पृथिवीं शुष्कांश्च विविधान्द्रुमान् 2063012c अहं पश्यामि विध्वस्तान्सधूमांश्चैव पार्वतान् 2063013a पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् 2063013c प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः 2063014a त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः 2063014c रथेन खरयुक्तेन प्रयातो दक्षिणामुखः 2063015a एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् 2063015c अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति 2063016a नरो यानेन यः स्वप्ने खरयुक्तेन याति हि 2063016c अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते 2063016e एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये 2063017a शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः 2063017c जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् 2063018a इमां हि दुःस्वप्नगतिं निशाम्य ता;मनेकरूपामवितर्कितां पुरा 2063018c भयं महत्तद्धृदयान्न याति मे; विचिन्त्य राजानमचिन्त्यदर्शनम् 2064001a भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः 2064001c प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् 2064002a समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः 2064002c राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः 2064003a पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः 2064003c त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया 2064004a अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते 2064004c दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज 2064005a प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने 2064005c दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् 2064006a कच्चित्सुकुशली राजा पिता दशरथो मम 2064006c कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि 2064007a आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी 2064007c अरोगा चापि कौसल्या माता रामस्य धीमतः 2064008a कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या 2064008c शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा 2064009a आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी 2064009c अरोगा चापि कैकेयी माता मे किमुवाच ह 2064010a एवमुक्तास्तु ते दूता भरतेन महात्मना 2064010c ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा 2064010e कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि 2064011a भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत 2064011c आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम् 2064012a एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः 2064012c दूतैः संचोदितो वाक्यं मातामहमुवाच ह 2064013a राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः 2064013c पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि 2064014a भरतेनैवमुक्तस्तु नृपो मातामहस्तदा 2064014c तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् 2064015a गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया 2064015c मातरं कुशलं ब्रूयाः पितरं च परंतप 2064016a पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः 2064016c तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ 2064017a तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च 2064017c अभिसत्कृत्य कैकेयो भरताय धनं ददौ 2064018a रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च 2064018c सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत् 2064019a तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् 2064019c ददावश्वपतिः शीघ्रं भरतायानुयायिनः 2064020a ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् 2064020c खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ 2064021a अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान् 2064021c दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ 2064022a स मातामहमापृच्छ्य मातुलं च युधाजितम् 2064022c रथमारुह्य भरतः शत्रुघ्नसहितो ययौ 2064023a रथान्मण्डलचक्रांश्च योजयित्वा परःशतम् 2064023c उष्ट्रगोश्वखरैर्भृत्या भरतं यान्तमन्वयुः 2064024a बलेन गुप्तो भरतो महात्मा; सहार्यकस्यात्मसमैरमात्यैः 2064024c आदाय शत्रुघ्नमपेतशत्रु;र्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् 2065001a स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् 2065001c ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् 2065001e शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः 2065002a एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् 2065002c शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् 2065003a सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम् 2065003c अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति 2065004a वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् 2065004c यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा 2065005a शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः 2065005c तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् 2065006a राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् 2065006c भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् 2065007a तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् 2065007c वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः 2065008a तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ 2065008c उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः 2065009a सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः 2065009c अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ 2065010a वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् 2065010c अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः 2065011a हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत 2065011c ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् 2065011e एकसाले स्थाणुमतीं विनते गोमतीं नदीम् 2065012a कलिङ्ग नगरे चापि प्राप्य सालवनं तदा 2065012c भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः 2065013a वनं च समतीत्याशु शर्वर्यामरुणोदये 2065013c अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह 2065014a तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि 2065014c अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत् 2065015a एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी 2065015c अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका 2065016a यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः 2065016c भूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता 2065017a अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् 2065017c समन्तान्नरनारीणां तमद्य न शृणोम्यहम् 2065018a उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः 2065018c समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा 2065019a तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः 2065019c अरण्यभूतेव पुरी सारथे प्रतिभाति मे 2065020a न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः 2065020c निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् 2065021a अनिष्टानि च पापानि पश्यामि विविधानि च 2065021c निमित्तान्यमनोज्ञानि तेन सीदति ते मनः 2065022a द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः 2065022c द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ 2065023a स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् 2065023c सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः 2065024a श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने 2065024c आकारास्तानहं सर्वानिह पश्यामि सारथे 2065025a मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् 2065025c सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे 2065026a इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः 2065026c तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ 2065027a तां शून्यशृङ्गाटकवेश्मरथ्यां; रजोरुणद्वारकपाटयन्त्राम् 2065027c दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां; दुःखेन संपूर्णतरो बभूव 2065028a बहूनि पश्यन्मनसोऽप्रियाणि; यान्यन्न्यदा नास्य पुरे बभूवुः 2065028c अवाक्शिरा दीनमना नहृष्टः; पितुर्महात्मा प्रविवेश वेश्म 2066001a अपश्यंस्तु ततस्तत्र पितरं पितुरालये 2066001c जगाम भरतो द्रष्टुं मातरं मातुरालये 2066002a अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् 2066002c उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम् 2066003a स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् 2066003c भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ 2066004a तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् 2066004c अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे 2066005a अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः 2066005c अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव 2066006a आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव 2066006c प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि 2066007a एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः 2066007c आचष्ट भरतः सर्वं मात्रे राजीवलोचनः 2066008a अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः 2066008c अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे 2066009a यन्मे धनं च रत्नं च ददौ राजा परंतपः 2066009c परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः 2066010a राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः 2066010c यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि 2066011a शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः 2066011c न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे 2066012a राजा भवति भूयिष्ठमिहाम्बाया निवेशने 2066012c तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः 2066013a पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः 2066013c आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने 2066014a तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् 2066014c अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता 2066014e या गतिः सर्वभूतानां तां गतिं ते पिता गतः 2066015a तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः 2066015c पपात सहसा भूमौ पितृशोकबलार्दितः 2066016a ततः शोकेन संवीतः पितुर्मरणदुःखितः 2066016c विललाप महातेजा भ्रान्ताकुलितचेतनः 2066017a एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा 2066017c तदिदं न विभात्यद्य विहीनं तेन धीमता 2066018a तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि 2066018c उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् 2066019a उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः 2066019c त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः 2066020a स रुदत्या चिरं कालं भूमौ विपरिवृत्य च 2066020c जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः 2066021a अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति 2066021c इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् 2066022a तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम 2066022c पितरं यो न पश्यामि नित्यं प्रियहिते रतम् 2066023a अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते 2066023c धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् 2066024a न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् 2066024c उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् 2066025a क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः 2066025c येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति 2066026a यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः 2066026c तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः 2066027a पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः 2066027c तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम 2066028a आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः 2066028c पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः 2066029a इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् 2066029c रामेति राजा विलपन्हा सीते लक्ष्मणेति च 2066029e स महात्मा परं लोकं गतो गतिमतां वरः 2066030a इमां तु पश्चिमां वाचं व्याजहार पिता तव 2066030c काल धर्मपरिक्षिप्तः पाशैरिव महागजः 2066031a सिद्धार्थास्तु नरा राममागतं सीतया सह 2066031c लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् 2066032a तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् 2066032c विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् 2066033a क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः 2066033c लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः 2066034a तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे 2066034c मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया 2066035a स हि राजसुतः पुत्र चीरवासा महावनम् 2066035c दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः 2066036a तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया 2066036c स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे 2066037a कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्यचित् 2066037c कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2066038a कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते 2066038c कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः 2066039a अथास्य चपला माता तत्स्वकर्म यथातथम् 2066039c तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे 2066040a न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित् 2066040c कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः 2066040e न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति 2066041a मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् 2066041c याचितस्ते पिता राज्यं रामस्य च विवासनम् 2066042a स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् 2066042c रामश्च सहसौमित्रिः प्रेषितः सह सीतया 2066043a तमपश्यन्प्रियं पुत्रं महीपालो महायशाः 2066043c पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् 2066044a त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् 2066044c त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् 2066045a तत्पुत्र शीघ्रं विधिना विधिज्ञै;र्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः 2066045c संकाल्य राजानमदीनसत्त्व;मात्मानमुर्व्यामभिषेचयस्व 2067001a श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ 2067001c भरतो दुःखसंतप्त इदं वचनमब्रवीत् 2067002a किं नुण्कार्यं हतस्येह मम राज्येन शोचतः 2067002c विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च 2067003a दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः 2067003c राजानं प्रेतभावस्थं कृत्वा रामं च तापसम् 2067004a कुलस्य त्वमभावाय कालरात्रिरिवागता 2067004c अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् 2067005a कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते 2067005c दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम 2067006a ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् 2067006c वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते 2067007a तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी 2067007c त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते 2067008a तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम् 2067008c प्रस्थाप्य वनवासाय कथं पापे न शोचसि 2067009a अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् 2067009c प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् 2067010a लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति 2067010c तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम् 2067011a अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ 2067011c केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे 2067012a तं हि नित्यं महाराजो बलवन्तं महाबलः 2067012c अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा 2067013a सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम् 2067013c दम्यो धुरमिवासाद्य सहेयं केन चौजसा 2067014a अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा 2067014c सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् 2067014e निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् 2067015a इत्येवमुक्त्वा भरतो महात्मा; प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् 2067015c शोकातुरश्चापि ननाद भूयः; सिंहो यथा पर्वतगह्वरस्थः 2068001a तां तथा गर्हयित्वा तु मातरं भरतस्तदा 2068001c रोषेण महताविष्टः पुनरेवाब्रवीद्वचः 2068002a राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि 2068002c परित्यक्ता च धर्मेण मा मृतं रुदती भव 2068003a किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः 2068003c ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ 2068004a भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् 2068004c कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् 2068005a यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा 2068005c सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् 2068006a त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः 2068006c अयशो जीवलोके च त्वयाहं प्रतिपादितः 2068007a मातृरूपे ममामित्रे नृशंसे राज्यकामुके 2068007c न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि 2068008a कौसल्या च सुमित्रा च याश्चान्या मम मातरः 2068008c दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् 2068009a न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः 2068009c राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः 2068010a यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः 2068010c वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः 2068011a यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते 2068011c भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये 2068012a कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये 2068012c कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी 2068013a किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् 2068013c ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् 2068014a अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते 2068014c तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः 2068015a अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता 2068015c वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ 2068016a तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले 2068016c रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा 2068017a अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः 2068017c बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः 2068018a तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम् 2068018c इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः 2068019a भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् 2068019c कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि 2068020a एवमुक्ता तु सुरभिः सुरराजेन धीमता 2068020c पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा 2068021a शान्तं पातं न वः किंचित्कुतश्चिदमराधिप 2068021c अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ 2068022a एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ 2068022c वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप 2068023a मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ 2068023c यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः 2068024a यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् 2068024c किं पुनर्या विना रामं कौसल्या वर्तयिष्यति 2068025a एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता 2068025c तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे 2068026a अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् 2068026c वर्धनं यशसश्चापि करिष्यामि न संशयः 2068027a आनाययित्वा तनयं कौसल्याया महाद्युतिम् 2068027c स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् 2068028a इति नाग इवारण्ये तोमराङ्कुशचोदितः 2068028c पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः 2068029a संरक्तनेत्रः शिथिलाम्बरस्तदा; विधूतसर्वाभरणः परंतपः 2068029c बभूव भूमौ पतितो नृपात्मजः; शचीपतेः केतुरिवोत्सवक्षये 2069001a तथैव क्रोशतस्तस्य भरतस्य महात्मनः 2069001c कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् 2069002a आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः 2069002c तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् 2069003a एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा 2069003c प्रतस्थे भरतो यत्र वेपमाना विचेतना 2069004a स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा 2069004c प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् 2069005a ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ 2069005c पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम् 2069006a भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता 2069006c इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् 2069006e संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा 2069007a प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् 2069007c कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी 2069008a क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति 2069008c हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः 2069009a अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम् 2069009c अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः 2069010a कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि 2069010c यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः 2069011a इदं हि तव विस्तीर्णं धनधान्यसमाचितम् 2069011c हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया 2069012a एवं विलपमानां तां भरतः प्राञ्जलिस्तदा 2069012c कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् 2069013a आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम् 2069013c विपुलां च मम प्रीतिं स्थिरां जानासि राघवे 2069014a कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन 2069014c सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः 2069015a प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु 2069015c हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः 2069016a कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् 2069016c अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः 2069017a परिपालयमानस्य राज्ञो भूतानि पुत्रवत् 2069017c ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः 2069018a बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः 2069018c अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः 2069019a संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् 2069019c तां विप्रलपतां पापं यस्यार्योऽनुमते गतः 2069020a हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले 2069020c मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः 2069021a उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता 2069021c स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः 2069022a पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः 2069022c गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः 2069023a पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः 2069023c स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः 2069024a राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते 2069024c भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् 2069025a उभे संध्ये शयानस्य यत्पापं परिकल्प्यते 2069025c तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः 2069026a यदग्निदायके पापं यत्पापं गुरुतल्पगे 2069026c मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् 2069027a देवतानां पितॄणां च माता पित्रोस्तथैव च 2069027c मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः 2069028a सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा 2069028c भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः 2069029a विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः 2069029c एवमाश्वसयन्नेव दुःखार्तो निपपात ह 2069030a तथा तु शपथैः कष्टैः शपमानमचेतनम् 2069030c भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत् 2069031a मम दुःखमिदं पुत्र भूयः समुपजायते 2069031c शपथैः शपमानो हि प्राणानुपरुणत्सि मे 2069032a दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः 2069032c वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि 2069033a एवं विलपमानस्य दुःखार्तस्य महात्मनः 2069033c मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः 2069034a लालप्यमानस्य विचेतनस्य; प्रनष्टबुद्धेः पतितस्य भूमौ 2069034c मुहुर्मुहुर्निःश्वसतश्च दीर्घं; सा तस्य शोकेन जगाम रात्रिः 2070001a तमेवं शोकसंतप्तं भरतं केकयीसुतम् 2070001c उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः 2070002a अलं शोकेन भद्रं ते राजपुत्र महायशः 2070002c प्राप्तकालं नरपतेः कुरु संयानमुत्तरम् 2070003a वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः 2070003c प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् 2070004a उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम् 2070004c आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् 2070005a निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते 2070005c ततो दशरथं पुत्रो विललाप सुदुःखितः 2070006a किं ते व्यवसितं राजन्प्रोषिते मय्यनागते 2070006c विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् 2070007a क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् 2070007c हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा 2070008a योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे 2070008c त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते 2070009a विधवा पृथिवी राजंस्त्वया हीना न राजते 2070009c हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् 2070010a एवं विलपमानं तं भरतं दीनमानसम् 2070010c अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः 2070011a प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः 2070011c तान्यव्यग्रं महाबाहो क्रियतामविचारितम् 2070012a तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् 2070012c ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः 2070013a ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः 2070013c ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि 2070014a शिबिलायामथारोप्य राजानं गतचेतनम् 2070014c बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः 2070015a हिरण्यं च सुवर्णं च वासांसि विविधानि च 2070015c प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः 2070016a चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा 2070016c देवदारूणि चाहृत्य चितां चक्रुस्तथापरे 2070017a गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् 2070017c ततः संवेशयामासुश्चितामध्ये तमृत्विजः 2070018a तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः 2070018c जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः 2070019a शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः 2070019c नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा 2070020a प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् 2070020c स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा 2070021a क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे 2070021c आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः 2070022a ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः 2070022c यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः 2070023a कृतोदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरोहिताश्च 2070023c पुरं प्रविश्याश्रुपरीतनेत्रा; भूमौ दशाहं व्यनयन्त दुःखम् 2071001a ततो दशाहेऽतिगते कृतशौचो नृपात्मजः 2071001c द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् 2071002a ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् 2071002c बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा 2071003a दासीदासं च यानं च वेश्मानि सुमहान्ति च 2071003c ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् 2071004a ततः प्रभातसमये दिवसेऽथ त्रयोदशे 2071004c विललाप महाबाहुर्भरतः शोकमूर्छितः 2071005a शब्दापिहितकण्ठश्च शोधनार्थमुपागतः 2071005c चितामूले पितुर्वाक्यमिदमाह सुदुःखितः 2071006a तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे 2071006c तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया 2071007a यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम् 2071007c तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप 2071008a दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम् 2071008c पितुः शरीर निर्वाणं निष्टनन्विषसाद ह 2071009a स तु दृष्ट्वा रुदन्दीनः पपात धरणीतले 2071009c उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः 2071010a अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम् 2071010c अन्तकाले निपतितं ययातिमृषयो यथा 2071011a शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम् 2071011c विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् 2071012a उन्मत्त इव निश्चेता विललाप सुदुःखितः 2071012c स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा 2071013a मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसंकुलः 2071013c वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः 2071014a सुकुमारं च बालं च सततं लालितं त्वया 2071014c क्व तात भरतं हित्वा विलपन्तं गतो भवान् 2071015a ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च 2071015c प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति 2071016a अवदारण काले तु पृथिवी नावदीर्यते 2071016c विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना 2071017a पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते 2071017c किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम् 2071018a हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् 2071018c अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् 2071019a तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् 2071019c भृशमार्ततरा भूयः सर्व एवानुगामिनः 2071020a ततो विषण्णौ श्रान्तौ च शत्रुघ्नभरतावुभौ 2071020c धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ 2071021a ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः 2071021c वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह 2071022a त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः 2071022c तेषु चापरिहार्येषु नैवं भवितुमर्हति 2071023a सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च 2071023c श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ 2071024a उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ 2071024c वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव 2071025a अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ 2071025c अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः 2072001a अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः 2072001c भरतं शोकसंतप्तमिदं वचनमब्रवीत् 2072002a गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः 2072002c स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम् 2072003a बलवान्वीर्य संपन्नो लक्ष्मणो नाम योऽप्यसौ 2072003c किं न मोचयते रामं कृत्वापि पितृनिग्रहम् 2072004a पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ 2072004c उत्पथं यः समारूढो नार्या राजा वशं गतः 2072005a इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे 2072005c प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता 2072006a लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती 2072006c मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी 2072007a तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम् 2072007c गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत् 2072008a यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता 2072008c सेयं पापा नृशंसा च तस्याः कुरु यथामति 2072009a शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः 2072009c अन्तःपुरचरान्सर्वानित्युवाच धृतव्रतः 2072010a तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः 2072010c यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् 2072011a एवमुक्ता च तेनाशु सखी जनसमावृता 2072011c गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् 2072012a ततः सुभृश संतप्तस्तस्याः सर्वः सखीजनः 2072012c क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः 2072013a अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः 2072013c यथायं समुपक्रान्तो निःशेषं नः करिष्यति 2072014a सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् 2072014c कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः 2072015a स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः 2072015c विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले 2072016a तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः 2072016c चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत 2072017a तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम् 2072017c अशोभत तदा भूयः शारदं गगनं यथा 2072018a स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः 2072018c कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः 2072019a तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता 2072019c शत्रुघ्न भयसंत्रस्ता पुत्रं शरणमागता 2072020a तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् 2072020c अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति 2072021a हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् 2072021c यदि मां धार्मिको रामो नासूयेन्मातृघातकम् 2072022a इमामपि हतां कुब्जां यदि जानाति राघवः 2072022c त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम् 2072023a भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः 2072023c न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम् 2072024a सा पादमूले कैकेय्या मन्थरा निपपात ह 2072024c निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च 2072025a शत्रुघ्नविक्षेपविमूढसंज्ञां; समीक्ष्य कुब्जां भरतस्य माता 2072025c शनैः समाश्वासयदार्तरूपां; क्रौञ्चीं विलग्नामिव वीक्षमाणाम् 2073001a ततः प्रभातसमये दिवसेऽथ चतुर्दशे 2073001c समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् 2073002a गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः 2073002c रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् 2073003a त्वमद्य भव नो राजा राजपुत्र महायशः 2073003c संगत्या नापराध्नोति राज्यमेतदनायकम् 2073004a आभिषेचनिकं सर्वमिदमादाय राघव 2073004c प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज 2073005a राज्यं गृहाण भरत पितृपैतामहं महत् 2073005c अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ 2073006a आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् 2073006c भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः 2073007a ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः 2073007c नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः 2073008a रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः 2073008c अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च 2073009a युज्यतां महती सेना चतुरङ्गमहाबला 2073009c आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् 2073010a आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् 2073010c पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति 2073011a तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् 2073011c आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् 2073012a न सकामा करिष्यामि स्वमिमां मातृगन्धिनीम् 2073012c वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति 2073013a क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च 2073013c रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः 2073014a एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् 2073014c प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् 2073015a एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् 2073015c यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि 2073016a अनुत्तमं तद्वचनं नृपात्मज; प्रभाषितं संश्रवणे निशम्य च 2073016c प्रहर्षजास्तं प्रति बाष्पबिन्दवो; निपेतुरार्यानननेत्रसंभवाः 2073017a ऊचुस्ते वचनमिदं निशम्य हृष्टाः; सामात्याः सपरिषदो वियातशोकाः 2073017c पन्थानं नरवरभक्तिमाञ्जनश्च; व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः 2074001a अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः 2074001c स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा 2074002a कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः 2074002c तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः 2074003a कूपकाराः सुधाकारा वंशकर्मकृतस्तथा 2074003c समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे 2074004a स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् 2074004c अशोभत महावेगः सागरस्येव पर्वणि 2074005a ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः 2074005c करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे 2074006a लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च 2074006c जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान् 2074007a अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् 2074007c केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित् 2074008a अपरे वीरणस्तम्बान्बलिनो बलवत्तराः 2074008c विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः 2074009a अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम् 2074009c निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः 2074010a बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा 2074010c बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा 2074011a अचिरेणैव कालेन परिवाहान्बहूदकान् 2074011c चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून् 2074011e उदपानान्बहुविधान्वेदिका परिमण्डितान् 2074012a ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः 2074012c मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः 2074013a चन्दनोदकसंसिक्तो नानाकुसुमभूषितः 2074013c बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः 2074014a आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः 2074014c रमणीयेषु देशेषु बहुस्वादुफलेषु च 2074015a यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः 2074015c भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् 2074016a नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः 2074016c निवेशं स्थापयामासुर्भरतस्य महात्मनः 2074017a बहुपांसुचयाश्चापि परिखापरिवारिताः 2074017c तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः 2074018a प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः 2074018c पताका शोभिताः सर्वे सुनिर्मितमहापथाः 2074019a विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः 2074019c समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः 2074020a जाह्नवीं तु समासाद्य विविधद्रुम काननाम् 2074020c शीतलामलपानीयां महामीनसमाकुलाम् 2074021a सचन्द्रतारागणमण्डितं यथा; नभःक्षपायाममलं विराजते 2074021c नरेन्द्रमार्गः स तथा व्यराजत; क्रमेण रम्यः शुभशिल्पिनिर्मितः 2075001a ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः 2075001c तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः 2075002a सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः 2075002c दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान् 2075003a स तूर्य घोषः सुमहान्दिवमापूरयन्निव 2075003c भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत् 2075004a ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च 2075004c नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् 2075005a पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् 2075005c विसृज्य मयि दुःखानि राजा दशरथो गतः 2075006a तस्यैषा धर्मराजस्य धर्ममूला महात्मनः 2075006c परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले 2075007a इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् 2075007c कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा 2075008a तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् 2075008c सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः 2075009a शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम् 2075009c सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत 2075010a स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम् 2075010c अध्यास्त सर्ववेदज्ञो दूताननुशशास च 2075011a ब्राह्मणान्क्षत्रियान्योधानमात्यान्गणबल्लभान् 2075011c क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः 2075012a ततो हलहलाशब्दो महान्समुदपद्यत 2075012c रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम् 2075013a ततो भरतमायान्तं शतक्रतुमिवामराः 2075013c प्रत्यनन्दन्प्रकृतयो यथा दशरथं तथा 2075014a ह्रद इव तिमिनागसंवृतः; स्तिमितजलो मणिशङ्खशर्करः 2075014c दशरथसुतशोभिता सभा; सदशरथेव बभौ यथा पुरा 2076001a तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम् 2076001c ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव 2076002a आसनानि यथान्यायमार्याणां विशतां तदा 2076002c अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी 2076003a राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् 2076003c इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् 2076004a तात राजा दशरथः स्वर्गतो धर्ममाचरन् 2076004c धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव 2076005a रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् 2076005c नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः 2076006a पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् 2076006c तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय 2076007a उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः 2076007c कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते 2076008a तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः 2076008c जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया 2076009a स बाष्पकलया वाचा कलहंसस्वरो युवा 2076009c विललाप सभामध्ये जगर्हे च पुरोहितम् 2076010a चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः 2076010c धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् 2076011a कथं दशरथाज्जातो भवेद्राज्यापहारकः 2076011c राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि 2076012a ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः 2076012c लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा 2076013a अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि 2076013c इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः 2076014a यद्धि मात्रा कृतं पापं नाहं तदभिरोचये 2076014c इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः 2076015a राममेवानुगच्छामि स राजा द्विपदां वरः 2076015c त्रयाणामपि लोकानां राघवो राज्यमर्हति 2076016a तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः 2076016c हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः 2076017a यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् 2076017c वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा 2076018a सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् 2076018c समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् 2076019a एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः 2076019c समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् 2076020a तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् 2076020c यात्रामाज्ञापय क्षिप्रं बलं चैव समानय 2076021a एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना 2076021c प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत् 2076022a ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च 2076022c श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने 2076023a ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे 2076023c यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः 2076024a ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः 2076024c सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् 2076025a सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ 2076025c रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् 2076026a भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः 2076026c रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः 2076027a स राघवः सत्यधृतिः प्रतापवा;न्ब्रुवन्सुयुक्तं दृढसत्यविक्रमः 2076027c गुरुं महारण्यगतं यशस्विनं; प्रसादयिष्यन्भरतोऽब्रवीत्तदा 2076028a तूर्णं समुत्थाय सुमन्त्र गच्छ; बलस्य योगाय बलप्रधानान् 2076028c आनेतुमिच्छामि हि तं वनस्थं; प्रसाद्य रामं जगतो हिताय 2076029a स सूतपुत्रो भरतेन सम्य;गाज्ञापितः संपरिपूर्णकामः 2076029c शशास सर्वान्प्रकृतिप्रधाना;न्बलस्य मुख्यांश्च सुहृज्जनं च 2076030a ततः समुत्थाय कुले कुले ते; राजन्यवैश्या वृषलाश्च विप्राः 2076030c अयूयुजन्नुष्ट्ररथान्खरांश्च; नागान्हयांश्चैव कुलप्रसूतान् 2077001a ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् 2077001c प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया 2077002a अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः 2077002c अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान् 2077003a नवनागसहस्राणि कल्पितानि यथाविधि 2077003c अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम् 2077004a षष्ठी रथसहस्राणि धन्विनो विविधायुधाः 2077004c अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् 2077005a शतं सहस्राण्यश्वानां समारूढानि राघवम् 2077005c अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् 2077006a कैकेयी च सुमित्रा च कौसल्या च यशस्विनी 2077006c रामानयनसंहृष्टा ययुर्यानेन भास्वता 2077007a प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् 2077007c तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः 2077008a मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् 2077008c कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् 2077009a दृष्ट एव हि नः शोकमपनेष्यति राघवः 2077009c तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः 2077010a इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः 2077010c परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा 2077011a ये च तत्रापरे सर्वे संमता ये च नैगमाः 2077011c रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा 2077012a मणि काराश्च ये केचित्कुम्भकाराश्च शोभनाः 2077012c सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः 2077013a मायूरकाः क्राकचिका रोचका वेधकास्तथा 2077013c दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः 2077014a सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः 2077014c स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा 2077015a रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः 2077015c शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा 2077016a समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः 2077016c गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः 2077017a सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः 2077017c सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः 2077018a प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् 2077018c व्यवतिष्ठत सा सेना भरतस्यानुयायिनी 2077019a निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् 2077019c भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः 2077020a निवेशयत मे सैन्यमभिप्रायेण सर्वशः 2077020c विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् 2077021a दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः 2077021c और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम् 2077022a तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः 2077022c न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक् 2077023a निवेश्य गङ्गामनु तां महानदीं; चमूं विधानैः परिबर्ह शोभिनीम् 2077023c उवास रामस्य तदा महात्मनो; विचिन्तयानो भरतो निवर्तनम् 2078001a ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् 2078001c निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽब्रवीत् 2078002a महतीयमतः सेना सागराभा प्रदृश्यते 2078002c नास्यान्तमवगच्छामि मनसापि विचिन्तयन् 2078003a स एष हि महाकायः कोविदारध्वजो रथे 2078003c बन्धयिष्यति वा दाशानथ वास्मान्वधिष्यति 2078004a अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् 2078004c भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति 2078005a भर्ता चैव सखा चैव रामो दाशरथिर्मम 2078005c तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत 2078006a तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम् 2078006c बलयुक्ता नदीरक्षा मांसमूलफलाशनाः 2078007a नावां शतानां पञ्चानां कैवर्तानां शतं शतम् 2078007c संनद्धानां तथा यूनां तिष्ठन्त्वत्यभ्यचोदयत् 2078008a यदा तुष्टस्तु भरतो रामस्येह भविष्यति 2078008c सेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति 2078009a इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च 2078009c अभिचक्राम भरतं निषादाधिपतिर्गुहः 2078010a तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् 2078010c भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् 2078011a एष ज्ञातिसहस्रेण स्थपतिः परिवारितः 2078011c कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा 2078012a तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः 2078012c असंशयं विजानीते यत्र तौ रामलक्ष्मणौ 2078013a एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम् 2078013c उवाच वचनं शीघ्रं गुहः पश्यतु मामिति 2078014a लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः 2078014c आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् 2078015a निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् 2078015c निवेदयामस्ते सर्वे स्वके दाशकुले वस 2078016a अस्ति मूलं फलं चैव निषादैः समुपाहृतम् 2078016c आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् 2078017a आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् 2078017c अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि 2079001a एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् 2079001c प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् 2079002a ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे 2079002c यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि 2079003a इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् 2079003c अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः 2079004a कतरेण गमिष्यामि भरद्वाजाश्रमं गुह 2079004c गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः 2079005a तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः 2079005c अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः 2079006a दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः 2079006c अहं चानुगमिष्यामि राजपुत्र महायशः 2079007a कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः 2079007c इयं ते महती सेना शङ्कां जनयतीव मे 2079008a तमेवमभिभाषन्तमाकाश इव निर्मलः 2079008c भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् 2079009a मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि 2079009c राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम 2079010a तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् 2079010c बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते 2079011a स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् 2079011c पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः 2079012a धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले 2079012c अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि 2079013a शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति 2079013c यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि 2079014a एवं संभाषमाणस्य गुहस्य भरतं तदा 2079014c बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत 2079015a संनिवेश्य स तां सेनां गुहेन परितोषितः 2079015c शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत् 2079016a रामचिन्तामयः शोको भरतस्य महात्मनः 2079016c उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः 2079017a अन्तर्दाहेन दहनः संतापयति राघवम् 2079017c वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम् 2079018a प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः 2079018c यथा सूर्यांशुसंतप्तो हिमवान्प्रस्रुतो हिमम् 2079019a ध्याननिर्दरशैलेन विनिःश्वसितधातुना 2079019c दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा 2079020a प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना 2079020c आक्रान्तो दुःखशैलेन महता कैकयीसुतः 2079021a गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः 2079021c सुदुर्मनास्तं भरतं तदा पुन;र्गुहः समाश्वासयदग्रजं प्रति 2080001a आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः 2080001c भरतायाप्रमेयाय गुहो गहनगोचरः 2080002a तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम् 2080002c भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम् 2080003a इयं तात सुखा शय्या त्वदर्थमुपकल्पिता 2080003c प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन 2080004a उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितः 2080004c धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् 2080005a न हि रामात्प्रियतरो ममास्ति भुवि कश्चन 2080005c मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः 2080006a अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः 2080006c धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् 2080007a सोऽहं प्रियसखं रामं शयानं सह सीतया 2080007c रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह 2080008a न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा 2080008c चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि 2080009a एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना 2080009c अनुनीता वयं सर्वे धर्ममेवानुपश्यता 2080010a कथं दाशरथौ भूमौ शयाने सह सीतया 2080010c शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा 2080011a यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि 2080011c तं पश्य गुह संविष्टं तृणेषु सह सीतया 2080012a महता तपसा लब्धो विविधैश्च परिश्रमैः 2080012c एको दशरथस्यैष पुत्रः सदृशलक्षणः 2080013a अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति 2080013c विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति 2080014a विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः 2080014c निर्घोषोपरतं नूनमद्य राजनिवेशनम् 2080015a कौसल्या चैव राजा च तथैव जननी मम 2080015c नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम् 2080016a जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया 2080016c दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति 2080017a अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् 2080017c राज्ये राममनिक्षिप्य पिता मे विनशिष्यति 2080018a सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते 2080018c प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् 2080019a रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् 2080019c हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम् 2080020a गजाश्वरथसंबाधां तूर्यनादविनादिताम् 2080020c सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् 2080021a आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम् 2080021c सुखिता विचरिष्यन्ति राजधानीं पितुर्मम 2080022a अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् 2080022c निवृत्ते समये ह्यस्मिन्सुखिताः प्रविशेमहि 2080023a परिदेवयमानस्य तस्यैवं सुमहात्मनः 2080023c तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत 2080024a प्रभाते विमले सूर्ये कारयित्वा जटा उभौ 2080024c अस्मिन्भागीरथीतीरे सुखं संतारितौ मया 2080025a जटाधरौ तौ द्रुमचीरवाससौ; महाबलौ कुञ्जरयूथपोपमौ 2080025c वरेषुचापासिधरौ परंतपौ; व्यवेक्षमाणौ सह सीतया गतौ 2081001a गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् 2081001c ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् 2081002a सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः 2081002c पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः 2081003a प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः 2081003c पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः 2081004a तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः 2081004c परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः 2081005a ततः सर्वाः समापेतुर्मातरो भरतस्य ताः 2081005c उपवास कृशा दीना भर्तृव्यसनकर्शिताः 2081006a ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन् 2081006c कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे 2081007a वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी 2081007c परिपप्रच्छ भरतं रुदन्ती शोकलालसा 2081008a पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते 2081008c अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम् 2081009a त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते 2081009c वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः 2081010a कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम् 2081010c पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते 2081011a स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः 2081011c कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् 2081012a भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः 2081012c अस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे 2081013a सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः 2081013c यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ 2081014a अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च 2081014c रामायाभ्यवहारार्थं बहुचोपहृतं मया 2081015a तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः 2081015c न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन् 2081016a न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा 2081016c इति तेन वयं राजन्ननुनीता महात्मना 2081017a लक्ष्मणेन समानीतं पीत्वा वारि महायशाः 2081017c औपवास्यं तदाकार्षीद्राघवः सह सीतया 2081018a ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा 2081018c वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः 2081019a सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम् 2081019c स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात् 2081020a तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया 2081020c प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः 2081021a एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम् 2081021c यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ 2081022a नियम्य पृष्ठे तु तलाङ्गुलित्रवा;ञ्शरैः सुपूर्णाविषुधी परंतपः 2081022c महद्धनुः सज्यमुपोह्य लक्ष्मणो; निशामतिष्ठत्परितोऽस्य केवलम् 2081023a ततस्त्वहं चोत्तमबाणचापधृ;क्स्थितोऽभवं तत्र स यत्र लक्ष्मणः 2081023c अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकै;र्महेन्द्रकल्पं परिपालयंस्तदा 2082001a तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः 2082001c इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् 2082002a अब्रवीज्जननीः सर्वा इह तेन महात्मना 2082002c शर्वरी शयिता भूमाविदमस्य विमर्दितम् 2082003a महाभागकुलीनेन महाभागेन धीमता 2082003c जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति 2082004a अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये 2082004c शयित्वा पुरुषव्याघ्रः कथं शेते महीतले 2082005a प्रासादाग्र विमानेषु वलभीषु च सर्वदा 2082005c हैमराजतभौमेषु वरास्तरणशालिषु 2082006a पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु 2082006c पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च 2082007a गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः 2082007c मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः 2082008a बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः 2082008c गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः 2082009a अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा 2082009c मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः 2082010a न नूनं दैवतं किंचित्कालेन बलवत्तरम् 2082010c यत्र दाशरथी रामो भूमावेवं शयीत सः 2082011a विदेहराजस्य सुता सीता च प्रियदर्शना 2082011c दयिता शयिता भूमौ स्नुषा दशरथस्य च 2082012a इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् 2082012c स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् 2082013a मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदा 2082013c तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः 2082014a उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा 2082014c तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः 2082015a मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी 2082015c सुकुमारी सती दुःखं न विजानाति मैथिली 2082016a सार्वभौम कुले जातः सर्वलोकसुखावहः 2082016c सर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम् 2082017a कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः 2082017c सुखभागी च दुःखार्हः शयितो भुवि राघवः 2082018a सिद्धार्था खलु वैदेही पतिं यानुगता वनम् 2082018c वयं संशयिताः सर्वे हीनास्तेन महात्मना 2082019a अकर्णधारा पृथिवी शून्येव प्रतिभाति मा 2082019c गते दशरथे स्वर्गे रामे चारण्यमाश्रिते 2082020a न च प्रार्थयते कश्चिन्मनसापि वसुंधराम् 2082020c वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् 2082021a शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् 2082021c अपावृतपुरद्वारां राजधानीमरक्षिताम् 2082022a अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् 2082022c शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव 2082023a अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा 2082023c फलमूलाशनो नित्यं जटाचीराणि धारयन् 2082024a तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने 2082024c तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति 2082025a वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति 2082025c लक्ष्मणेन सह त्वार्यो अयोध्यां पालयिष्यति 2082026a अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः 2082026c अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् 2082027a प्रसाद्यमानः शिरसा मया स्वयं; बहुप्रकारं यदि न प्रपत्स्यते 2082027c ततोऽनुवत्स्यामि चिराय राघवं; वने वसन्नार्हति मामुपेक्षितुम् 2083001a व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः 2083001c भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् 2083002a शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् 2083002c शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् 2083003a जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् 2083003c इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः 2083004a इति संवदतोरेवमन्योन्यं नरसिंहयोः 2083004c आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् 2083005a कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् 2083005c कच्चिच्च सह सैन्यस्य तव सर्वमनामयम् 2083006a गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् 2083006c रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् 2083007a सुखा नः शर्वरी राजन्पूजिताश्चापि ते वयम् 2083007c गङ्गां तु नौभिर्बह्वीभिर्दाशाः संतारयन्तु नः 2083008a ततो गुहः संत्वरितः श्रुत्वा भरतशासनम् 2083008c प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् 2083009a उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा 2083009c नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् 2083010a ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् 2083010c पञ्च नावां शतान्येव समानिन्युः समन्ततः 2083011a अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः 2083011c शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः 2083012a ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् 2083012c सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् 2083013a तामारुरोह भरतः शत्रुघ्नश्च महाबलः 2083013c कौसल्या च सुमित्रा च याश्चान्या राजयोषितः 2083014a पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश्च ये 2083014c अनन्तरं राजदारास्तथैव शकटापणाः 2083015a आवासमादीपयतां तीर्थं चाप्यवगाहताम् 2083015c भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् 2083016a पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः 2083016c वहन्त्यो जनमारूढं तदा संपेतुराशुगाः 2083017a नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम् 2083017c कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम् 2083018a ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् 2083018c निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः 2083019a सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः 2083019c तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः 2083020a नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे 2083020c अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः 2083021a सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् 2083021c मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् 2083022a आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथोपजोषम् 2083022c द्रष्टुं भरद्वाजमृषिप्रवर्य;मृत्विग्वृतः सन्भरतः प्रतस्थे 2084001a भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः 2084001c बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः 2084002a पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः 2084002c वसानो वाससी क्षौमे पुरोधाय पुरोहितम् 2084003a ततः संदर्शने तस्य भरद्वाजस्य राघवः 2084003c मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम् 2084004a वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः 2084004c संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् 2084005a समागम्य वसिष्ठेन भरतेनाभिवादितः 2084005c अबुध्यत महातेजाः सुतं दशरथस्य तम् 2084006a ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च 2084006c आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले 2084007a अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु 2084007c जानन्दशरथं वृत्तं न राजानमुदाहरत् 2084008a वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् 2084008c शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु 2084009a तथेति च प्रतिज्ञाय भरद्वाजो महातपाः 2084009c भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् 2084010a किमिहागमने कार्यं तव राज्यं प्रशासतः 2084010c एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः 2084011a सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम् 2084011c भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् 2084012a नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः 2084012c वनवासी भवेतीह समाः किल चतुर्दश 2084013a कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि 2084013c अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च 2084014a एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह 2084014c पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया 2084015a हतोऽस्मि यदि मामेवं भगवानपि मन्यते 2084015c मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि 2084016a न चैतदिष्टं माता मे यदवोचन्मदन्तरे 2084016c नाहमेतेन तुष्टश्च न तद्वचनमाददे 2084017a अहं तु तं नरव्याघ्रमुपयातः प्रसादकः 2084017c प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् 2084018a त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि 2084018c शंस मे भगवन्रामः क्व संप्रति महीपतिः 2084019a उवाच तं भरद्वाजः प्रसादाद्भरतं वचः 2084019c त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे 2084019e गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता 2084020a जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति 2084020c अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन् 2084021a असौ वसति ते भ्राता चित्रकूटे महागिरौ 2084021c श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः 2084021e एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद 2084022a ततस्तथेत्येवमुदारदर्शनः; प्रतीतरूपो भरतोऽब्रवीद्वचः 2084022c चकार बुद्धिं च तदा महाश्रमे; निशानिवासाय नराधिपात्मजः 2085001a कृतबुद्धिं निवासाय तथैव स मुनिस्तदा 2085001c भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत् 2085002a अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् 2085002c पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते 2085003a अथोवाच भरद्वाजो भरतं प्रहसन्निव 2085003c जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केनचित् 2085004a सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् 2085004c मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ 2085005a किमर्थं चापि निक्षिप्य दूरे बलमिहागतः 2085005c कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ 2085006a भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् 2085006c ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् 2085007a वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः 2085007c प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम् 2085008a ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा 2085008c न हिंस्युरिति तेनाहमेक एवागतस्ततः 2085009a आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा 2085009c तथा तु चक्रे भरतः सेनायाः समुपागमम् 2085010a अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च 2085010c आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् 2085011a आह्वये विश्वकर्माणमहं त्वष्टारमेव च 2085011c आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् 2085012a प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च 2085012c पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः 2085013a अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् 2085013c अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् 2085014a आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् 2085014c तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः 2085015a घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् 2085015c शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः 2085015e सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः 2085016a वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत् 2085016c दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु 2085017a इह मे भगवान्सोमो विधत्तामन्नमुत्तमम् 2085017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु 2085018a विचित्राणि च माल्यानि पादपप्रच्युतानि च 2085018c सुरादीनि च पेयानि मांसानि विविधानि च 2085019a एवं समाधिना युक्तस्तेजसाप्रतिमेन च 2085019c शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः 2085020a मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः 2085020c आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् 2085021a मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः 2085021c उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः 2085022a ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः 2085022c देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे 2085023a प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः 2085023c प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान् 2085024a स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च 2085024c विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः 2085025a तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् 2085025c ददर्श भारतं सैन्यं विधानं विश्वकर्मणः 2085026a बभूव हि समा भूमिः समन्तात्पञ्चयोजनम् 2085026c शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः 2085027a तस्मिन्बिल्वाः कपित्थाश्च पनसा बीजपूरकाः 2085027c आमलक्यो बभूवुश्च चूताश्च फलभूषणाः 2085028a उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् 2085028c आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता 2085029a चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् 2085029c हर्म्यप्रासादसंघातास्तोरणानि शुभानि च 2085030a सितमेघनिभं चापि राजवेश्म सुतोरणम् 2085030c शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् 2085031a चतुरस्रमसंबाधं शयनासनयानवत् 2085031c दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् 2085032a उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् 2085032c कॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम् 2085033a प्रविवेश महाबाहुरनुज्ञातो महर्षिणा 2085033c वेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः 2085034a अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः 2085034c बभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम् 2085035a तत्र राजासनं दिव्यं व्यजनं छत्रमेव च 2085035c भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् 2085036a आसनं पूजयामास रामायाभिप्रणम्य च 2085036c वालव्यजनमादाय न्यषीदत्सचिवासने 2085037a आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः 2085037c ततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः 2085038a ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः 2085038c उपातिष्ठन्त भरतं भरद्वाजस्य शासनत् 2085039a तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः 2085039c रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः 2085040a तेनैव च मुहूर्तेन दिव्याभरणभूषिताः 2085040c आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः 2085041a सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः 2085041c आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः 2085042a याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते 2085042c आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः 2085043a नारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः 2085043c एते गन्धर्वराजानो भरतस्याग्रतो जगुः 2085044a अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना 2085044c उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् 2085045a यानि माल्यानि देवेषु यानि चैत्ररथे वने 2085045c प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात् 2085046a बिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः 2085046c अश्वत्था नर्तकाश्चासन्भरद्वाजस्य तेजसा 2085047a ततः सरलतालाश्च तिलका नक्तमालकाः 2085047c प्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः 2085048a शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः 2085048c प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् 2085049a सुरां सुरापाः पिबत पायसं च बुभुक्शिताः 2085049c मांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ 2085050a उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु 2085050c अप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च 2085051a संवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः 2085051c परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः 2085052a हयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् 2085052c इक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान् 2085052e इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः 2085053a नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः 2085053c मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ 2085054a तर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः 2085054c अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् 2085055a नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् 2085055c कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् 2085056a इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः 2085056c अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् 2085057a संप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः 2085057c भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन् 2085058a ततो भुक्तवतां तेषां तदन्नममृतोपमम् 2085058c दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः 2085059a प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः 2085059c बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः 2085060a कुञ्जराश्च खरोष्ट्रश्च गोश्वाश्च मृगपक्षिणः 2085060c बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् 2085061a नाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा 2085061c रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत 2085062a आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः 2085062c फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः 2085063a पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः 2085063c ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः 2085064a बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः 2085064c ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः 2085065a वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः 2085065c प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः 2085066a पात्रीणां च सहस्राणि शातकुम्भमयानि च 2085066c स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः 2085066e यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः 2085067a ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे 2085067c बभूवुः पायसस्यान्ते शर्करायाश्च संचयाः 2085068a कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च 2085068c ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः 2085069a शुक्लानंशुमतश्चापि दन्तधावनसंचयान् 2085069c शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः 2085070a दर्पणान्परिमृष्टांश्च वाससां चापि संचयान् 2085070c पादुकोपानहां चैव युग्मान्यत्र सहस्रशः 2085071a आञ्जनीः कङ्कतान्कूर्चांश्छत्राणि च धनूंषि च 2085071c मर्मत्राणानि चित्राणि शयनान्यासनानि च 2085072a प्रतिपानह्रदान्पूर्णान्खरोष्ट्रगजवाजिनाम् 2085072c अवगाह्य सुतीर्थांश्च ह्रदान्सोत्पल पुष्करान् 2085073a नीलवैदूर्यवर्णांश्च मृदून्यवससंचयान् 2085073c निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः 2085074a व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् 2085074c दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा 2085075a इत्येवं रममाणानां देवानामिव नन्दने 2085075c भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत 2085076a प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् 2085076c भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः 2085077a तथैव मत्ता मदिरोत्कटा नरा;स्तथैव दिव्यागुरुचन्दनोक्षिताः 2085077c तथैव दिव्या विविधाः स्रगुत्तमाः; पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः 2086001a ततस्तां रजनीमुष्य भरतः सपरिच्छदः 2086001c कृतातिथ्यो भरद्वाजं कामादभिजगाम ह 2086002a तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम् 2086002c हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत 2086003a कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता 2086003c समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ 2086004a तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च 2086004c आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसम् 2086005a सुखोषितोऽस्मि भगवन्समग्रबलवाहनः 2086005c तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया 2086006a अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः 2086006c अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः 2086007a आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम 2086007c समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा 2086008a आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः 2086008c आचक्ष्व कतमो मार्गः कियानिति च शंस मे 2086009a इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् 2086009c प्रत्युवाच महातेजा भरद्वाजो महातपाः 2086010a भरतार्धतृतीयेषु योजनेष्वजने वने 2086010c चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः 2086011a उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी 2086011c पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना 2086012a अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः 2086012c ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम् 2086013a दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च 2086013c गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते 2086013e वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् 2086014a प्रयाणमिति च श्रुत्वा राजराजस्य योषितः 2086014c हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन् 2086015a वेपमाना कृशा दीना सह देव्या सुमन्त्रिया 2086015c कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः 2086016a असमृद्धेन कामेन सर्वलोकस्य गर्हिता 2086016c कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा 2086017a तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् 2086017c अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा 2086018a ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः 2086018c विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव 2086019a एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः 2086019c उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः 2086020a यामिमां भगवन्दीनां शोकानशनकर्शिताम् 2086020c पितुर्हि महिषीं देवीं देवतामिव पश्यसि 2086021a एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् 2086021c कौसल्या सुषुवे रामं धातारमदितिर्यथा 2086022a अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः 2086022c कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे 2086023a एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ 2086023c उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ 2086024a यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ 2086024c राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः 2086025a ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम् 2086025c ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् 2086025e यतोमूलं हि पश्यामि व्यसनं महदात्मनः 2086026a इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा 2086026c स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत् 2086027a भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा 2086027c प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् 2086028a न दोषेणावगन्तव्या कैकेयी भरत त्वया 2086028c रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति 2086029a अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् 2086029c आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत् 2086030a ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान् 2086030c अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः 2086031a गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः 2086031c जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे 2086032a विविधान्यपि यानानि महानि च लघूनि च 2086032c प्रययुः सुमहार्हाणि पादैरेव पदातयः 2086033a अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः 2086033c रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा 2086034a स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् 2086034c आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः 2086035a सा प्रयाता महासेना गजवाजिरथाकुला 2086035c दक्षिणां दिशमावृत्य महामेघ इवोत्थितः 2086035e वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः 2086036a सा संप्रहृष्टद्विपवाजियोधा; वित्रासयन्ती मृगपक्षिसंघान् 2086036c महद्वनं तत्प्रविगाहमाना; रराज सेना भरतस्य तत्र 2087001a तया महत्या यायिन्या ध्वजिन्या वनवासिनः 2087001c अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः 2087002a ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः 2087002c दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च 2087003a स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः 2087003c वृतो महत्या नादिन्या सेनया चतुरङ्गया 2087004a सागरौघनिभा सेना भरतस्य महात्मनः 2087004c महीं संछादयामास प्रावृषि द्यामिवाम्बुदः 2087005a तुरंगौघैरवतता वारणैश्च महाजवैः 2087005c अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः 2087006a स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः 2087006c उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम् 2087007a यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया 2087007c व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् 2087008a अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी 2087008c एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् 2087009a गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति 2087009c वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः 2087010a मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु 2087010c नीला इवातपापाये तोयं तोयधरा घनाः 2087011a किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम् 2087011c हयैः समन्तादाकीर्णं मकरैरिव सागरम् 2087012a एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः 2087012c वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे 2087013a कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी 2087013c मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः 2087014a निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् 2087014c अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा 2087015a खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति 2087015c तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् 2087016a स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् 2087016c एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने 2087017a एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् 2087017c एतमाविशतः शैलमधिवासं पतत्रिणाम् 2087018a अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा 2087018c तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा 2087019a मृगा मृगीभिः सहिता बहवः पृषता वने 2087019c मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः 2087020a साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम् 2087020c यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ 2087021a भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः 2087021c विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः 2087022a ते समालोक्य धूमाग्रमूचुर्भरतमागताः 2087022c नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ 2087023a अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ 2087023c अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः 2087024a तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम् 2087024c सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः 2087025a यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः 2087025c अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च 2087026a एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः 2087026c भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत् 2087027a व्यवस्थिता या भरतेन सा चमू;र्निरीक्षमाणापि च धूममग्रतः 2087027c बभूव हृष्टा नचिरेण जानती; प्रियस्य रामस्य समागमं तदा 2088001a दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियः 2088001c विदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन् 2088002a अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् 2088002c भार्याममरसंकाशः शचीमिव पुरंदरः 2088003a न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः 2088003c मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् 2088004a पश्येममचलं भद्रे नानाद्विजगणायुतम् 2088004c शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् 2088005a केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाः 2088005c पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः 2088006a पुष्यार्ककेतुकाभाश्च केचिज्ज्योती रसप्रभाः 2088006c विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः 2088007a नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः 2088007c अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः 2088008a आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः 2088008c अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः 2088009a काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा 2088009c बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः 2088010a पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः 2088010c एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः 2088011a शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान् 2088011c किन्नरान्द्वंद्वशो भद्रे रममाणान्मनस्विनः 2088012a शाखावसक्तान्खड्गांश्च प्रवराण्यम्बराणि च 2088012c पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान् 2088013a जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित् 2088013c स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः 2088014a गुहासमीरणो गन्धान्नानापुष्पभवान्वहन् 2088014c घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् 2088015a यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते 2088015c लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति 2088016a बहुपुष्पफले रम्ये नानाद्विजगणायुते 2088016c विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि 2088017a अनेन वनवासेन मया प्राप्तं फलद्वयम् 2088017c पितुश्चानृणता धर्मे भरतस्य प्रियं तथा 2088018a वैदेहि रमसे कच्चिच्चित्रकूटे मया सह 2088018c पश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान् 2088019a इदमेवामृतं प्राहू राज्ञां राजर्षयः परे 2088019c वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः 2088020a शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः 2088020c बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः 2088021a निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव 2088021c ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः 2088022a केचित्क्षयनिभा देशाः केचिदुद्यानसंनिभाः 2088022c केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि 2088023a भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः 2088023c चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः 2088024a कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान् 2088024c कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् 2088025a मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः 2088025c कामिभिर्वनिते पश्य फलानि विविधानि च 2088026a वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् 2088026c पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः 2088027a इमं तु कालं वनिते विजह्रिवां;स्त्वया च सीते सह लक्ष्मणेन च 2088027c रतिं प्रपत्स्ये कुलधर्मवर्धिनीं; सतां पथि स्वैर्नियमैः परैः स्थितः 2089001a अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः 2089001c अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् 2089002a अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् 2089002c विदेहराजस्य सुतां रामो राजीवलोचनः 2089003a विचित्रपुलिनां रम्यां हंससारससेविताम् 2089003c कुसुमैरुपसंपन्नां पश्य मन्दाकिनीं नदीम् 2089004a नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः 2089004c राजन्तीं राजराजस्य नलिनीमिव सर्वतः 2089005a मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् 2089005c तीर्थानि रमणीयानि रतिं संजनयन्ति मे 2089006a जटाजिनधराः काले वल्कलोत्तरवाससः 2089006c ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये 2089007a आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः 2089007c एतेऽपरे विशालाक्षि मुनयः संशितव्रताः 2089008a मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः 2089008c पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् 2089009a कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम् 2089009c कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् 2089010a निर्धूतान्वायुना पश्य विततान्पुष्पसंचयान् 2089010c पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान् 2089011a तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः 2089011c अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः 2089012a दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने 2089012c अधिकं पुरवासाच्च मन्ये च तव दर्शनात् 2089013a विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः 2089013c नित्यविक्षोभित जलां विहाहस्व मया सह 2089014a सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम् 2089014c कमलान्यवमज्जन्ती पुष्कराणि च भामिनि 2089015a त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् 2089015c मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् 2089016a लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः 2089016c त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम 2089017a उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः 2089017c नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह 2089018a इमां हि रम्यां गजयूथलोलितां; निपीततोयां गजसिंहवानरैः 2089018c सुपुष्पितैः पुष्पधरैरलंकृतां; न सोऽस्ति यः स्यान्न गतक्रमः सुखी 2089019a इतीव रामो बहुसंगतं वचः; प्रिया सहायः सरितं प्रति ब्रुवन् 2089019c चचार रम्यं नयनाञ्जनप्रभं; स चित्रकूटं रघुवंशवर्धनः 2090001a तथा तत्रासतस्तस्य भरतस्योपयायिनः 2090001c सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ 2090002a एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः 2090002c अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः 2090003a स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः 2090003c तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत 2090004a तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम् 2090004c उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् 2090005a हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया 2090005c भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः 2090006a राजा वा राजमात्रो वा मृगयामटते वने 2090006c अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि 2090006e सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि 2090007a स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् 2090007c प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत 2090008a उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् 2090008c रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः 2090009a तामश्वगजसंपूर्णां रथध्वजविभूषिताम् 2090009c शशंस सेनां रामाय वचनं चेदमब्रवीत् 2090010a अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् 2090010c सज्यं कुरुष्व चापं च शरांश्च कवचं तथा 2090011a तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह 2090011c अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम् 2090012a एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत् 2090012c दिधक्षन्निव तां सेनां रुषितः पावको यथा 2090013a संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् 2090013c आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः 2090014a एष वै सुमहाञ्श्रीमान्विटपी संप्रकाशते 2090014c विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे 2090015a भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान् 2090015c एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः 2090016a गृहीतधनुषौ चावां गिरिं वीर श्रयावहे 2090016c अथ वेहैव तिष्ठावः संनद्धावुद्यतायुधौ 2090016e अपि नौ वशमागच्छेत्कोविदारध्वजो रणे 2090017a अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् 2090017c त्वया राघव संप्राप्तं सीतया च मया तथा 2090018a यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतीम् 2090018c संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे 2090019a भरतस्य वधे दोषं नाहं पश्यामि राघव 2090019c पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते 2090019e एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम् 2090020a अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका 2090020c मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् 2090021a कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् 2090021c कलुषेणाद्य महता मेदिनी परिमुच्यताम् 2090022a अद्येमं संयतं क्रोधमसत्कारं च मानद 2090022c मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् 2090023a अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः 2090023c भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम् 2090024a शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा 2090024c श्वापदाः परिकर्षन्तु नराश्च निहतान्मया 2090025a शराणां धनुषश्चाहमनृणोऽस्मि महावने 2090025c ससैन्यं भरतं हत्वा भविष्यामि न संशयः 2091001a सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् 2091001c रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् 2091002a किमत्र धनुषा कार्यमसिना वा सचर्मणा 2091002c महेष्वासे महाप्राज्ञे भरते स्वयमागते 2091003a प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति 2091003c अस्मासु मनसाप्येष नाहितं किंचिदाचरेत् 2091004a विप्रियं कृतपूर्वं ते भरतेन कदा न किम् 2091004c ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे 2091005a न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः 2091005c अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते 2091006a कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि 2091006c भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः 2091007a यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे 2091007c वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् 2091008a उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः 2091008c राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति 2091009a तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः 2091009c लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया 2091010a व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह 2091010c एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः 2091011a वनवासमनुध्याय गृहाय प्रतिनेष्यति 2091011c इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम् 2091012a एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ 2091012c वायुवेगसमौ वीर जवनौ तुरगोत्तमौ 2091013a स एष सुमहाकायः कम्पते वाहिनीमुखे 2091013c नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः 2091014a अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः 2091014c लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः 2091015a भरतेनाथ संदिष्टा संमर्दो न भवेदिति 2091015c समन्तात्तस्य शैलस्य सेनावासमकल्पयत् 2091016a अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा 2091016c पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला 2091017a सा चित्रकूटे भरतेन सेना; धर्मं पुरस्कृत्य विधूय दर्पम् 2091017c प्रसादनार्थं रघुनन्दनस्य; विरोचते नीतिमता प्रणीता 2092001a निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः 2092001c अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् 2092002a निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत् 2092002c भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् 2092003a क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः 2092003c लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि 2092004a यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् 2092004c वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति 2092005a यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम् 2092005c भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति 2092006a यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ 2092006c शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति 2092007a यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः 2092007c अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति 2092008a कृतकृत्या महाभागा वैदेही जनकात्मजा 2092008c भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति 2092009a सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः 2092009c यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने 2092010a कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् 2092010c यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः 2092011a एवमुक्त्वा महातेजा भरतः पुरुषर्षभः 2092011c पद्भ्यामेव महातेजाः प्रविवेश महद्वनम् 2092012a स तानि द्रुमजालानि जातानि गिरिसानुषु 2092012c पुष्पिताग्राणि मध्येन जगाम वदतां वरः 2092013a स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् 2092013c रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् 2092014a तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः 2092014c अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः 2092015a स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनोपपन्नम् 2092015c गुहेन सार्धं त्वरितो जगाम; पुनर्निवेश्यैव चमूं महात्मा 2093001a निविष्टायां तु सेनायामुत्सुको भरतस्तदा 2093001c जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् 2093002a ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय 2093002c इति तरितमग्रे स जागम गुरुवत्सलः 2093003a सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत 2093003c रामदार्शनजस्तर्षो भरतस्येव तस्य च 2093004a गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् 2093004c भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह 2093005a शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा 2093005c काष्टानि चावभग्नानि पुष्पाण्यवचितानि च 2093006a ददर्श च वने तस्मिन्महतः संचयान्कृतान् 2093006c मृगाणां महिषाणां च करीषैः शीतकारणात् 2093007a गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा 2093007c शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः 2093008a मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् 2093008c नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः 2093009a उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् 2093009c अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता 2093010a इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् 2093010c शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् 2093011a यमेवाधातुमिच्छन्ति तापसाः सततं वने 2093011c तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः 2093012a अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् 2093012c आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् 2093013a अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः 2093013c मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् 2093014a जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः 2093014c जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम् 2093015a मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः 2093015c सरान्कामान्परित्यज्य वने वसति राघवः 2093016a इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् 2093016c रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः 2093017a एवं स विलपंस्तस्मिन्वने दशरथात्मजः 2093017c ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् 2093018a सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् 2093018c विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे 2093019a शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः 2093019c रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः 2093020a अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः 2093020c शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव 2093021a महारजतवासोभ्यामसिभ्यां च विराजिताम् 2093021c रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् 2093022a गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः 2093022c अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव 2093023a प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम् 2093023c ददर्श भरतस्तत्र पुण्यां रामनिवेशने 2093024a निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् 2093024c उटजे राममासीनां जटामण्डलधारिणम् 2093025a तं तु कृष्णाजिनधरं चीरवल्कलवाससं 2093025c ददर्श राममासीनमभितः पावकोपमम् 2093026a सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् 2093026c पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम् 2093027a उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् 2093027c स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च 2093028a तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः 2093028c अभ्यधावत धर्मात्मा भरतः कैकयीसुतः 2093029a दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा 2093029c अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत् 2093030a यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् 2093030c वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः 2093031a वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः 2093031c मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् 2093032a अधारयद्यो विविधाश्चित्राः सुमनसस्तदा 2093032c सोऽयं जटाभारमिमं सहते राघवः कथम् 2093033a यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः 2093033c शरीर क्लेशसंभूतं स धर्मं परिमार्गते 2093034a चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् 2093034c मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते 2093035a मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः 2093035c धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् 2093036a इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः 2093036c पादावप्राप्य रामस्य पपात भरतो रुदन् 2093037a दुःखाभितप्तो भरतो राजपुत्रो महाबलः 2093037c उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किंचन 2093038a बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम् 2093038c आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः 2093039a शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् 2093039c तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत् 2093040a ततः सुमन्त्रेण गुहेन चैव; समीयतू राजसुतावरण्ये 2093040c दिवाकरश्चैव निशाकरश्च; यथाम्बरे शुक्रबृहस्पतिभ्याम् 2093041a तान्पार्थिवान्वारणयूथपाभा;न्समागतांस्तत्र महत्यरण्ये 2093041c वनौकसस्तेऽपि समीक्ष्य सर्वे;ऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम् 2094001a आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः 2094001c अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः 2094002a क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः 2094002c न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि 2094003a चिरस्य बत पश्यामि दूराद्भरतमागतम् 2094003c दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः 2094004a कच्चिद्दशरथो राजा कुशली सत्यसंगरः 2094004c राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः 2094005a स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः 2094005c इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते 2094006a तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती 2094006c सुखिनी कच्चिदार्या च देवी नन्दति कैकयी 2094007a कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः 2094007c अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः 2094008a कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः 2094008c हुतं च होष्यमाणं च काले वेदयते सदा 2094009a इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् 2094009c सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे 2094010a कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः 2094010c कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः 2094011a मन्त्रो विजयमूलं हि राज्ञां भवति राघव 2094011c सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः 2094012a कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे 2094012c कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम् 2094013a कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह 2094013c कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति 2094014a कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् 2094014c क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव 2094015a कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः 2094015c विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः 2094016a कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः 2094016c त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् 2094017a कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् 2094017c पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् 2094018a सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः 2094018c अथ वाप्ययुतान्येव नास्ति तेषु सहायता 2094019a एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः 2094019c राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् 2094020a कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः 2094020c जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः 2094021a अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् 2094021c श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु 2094022a कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा 2094022c उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः 2094023a उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् 2094023c शूरमैश्वर्यकामं च यो न हन्ति स वध्यते 2094024a कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः 2094024c कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः 2094025a बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः 2094025c दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः 2094026a कचिद्बलस्य भक्तं च वेतनं च यथोचितम् 2094026c संप्राप्तकालं दातव्यं ददासि न विलम्बसे 2094027a कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः 2094027c भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः 2094028a कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः 2094028c कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः 2094029a कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् 2094029c यथोक्तवादी दूतस्ते कृतो भरत पण्डितः 2094030a कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च 2094030c त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः 2094031a कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा 2094031c दुर्बलाननवज्ञाय वर्तसे रिपुसूदन 2094032a कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे 2094032c अनर्थ कुशला ह्येते बालाः पण्डितमानिनः 2094033a धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः 2094033c बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते 2094034a वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः 2094034c सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् 2094035a ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा 2094035c जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः 2094036a प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् 2094036c कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि 2094037a कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः 2094037c देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः 2094038a प्रहृष्टनरनारीकः समाजोत्सवशोभितः 2094038c सुकृष्टसीमा पशुमान्हिंसाभिरभिवर्जितः 2094039a अदेवमातृको रम्यः श्वापदैः परिवर्जितः 2094039c कच्चिज्जनपदः स्फीतः सुखं वसति राघव 2094040a कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः 2094040c वार्तायां संश्रितस्तात लोको हि सुखमेधते 2094041a तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् 2094041c रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः 2094042a कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः 2094042c कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे 2094043a कच्चिन्नागवनं गुप्तं कुञ्जराणां च तृप्यसि 2094043c कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् 2094043e उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे 2094044a कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः 2094044c यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः 2094045a आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः 2094045c अपात्रेषु न ते कच्चित्कोशो गच्छति राघव 2094046a देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च 2094046c योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः 2094047a कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा 2094047c अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः 2094048a गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः 2094048c कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ 2094049a व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव 2094049c अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः 2094050a यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव 2094050c तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः 2094051a कच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव 2094051c दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे 2094052a कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन् 2094052c चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि 2094053a कच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः 2094053c उभौ वा प्रीतिलोभेन कामेन न विबाधसे 2094054a कच्चिदर्थं च धर्मं च कामं च जयतां वर 2094054c विभज्य काले कालज्ञ सर्वान्भरत सेवसे 2094055a कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः 2094055c आशंसन्ते महाप्राज्ञ पौरजानपदैः सह 2094056a नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 2094056c अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् 2094057a एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् 2094057c निश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम् 2094058a मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः 2094058c कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश 2094059a कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव 2094059c कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि 2095001a रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह 2095001c किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति 2095002a शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ 2095002c ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः 2095003a स समृद्धां मया सार्धमयोध्यां गच्छ राघव 2095003c अभिषेचय चात्मानं कुलस्यास्य भवाय नः 2095004a राजानं मानुषं प्राहुर्देवत्वे संमतो मम 2095004c यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् 2095005a केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते 2095005c दिवमार्य गतो राजा यायजूकः सतां मतः 2095006a उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः 2095006c अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ 2095007a प्रियेण किल दत्तं हि पितृलोकेषु राघव 2095007c अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः 2095008a तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् 2095008c राघवो भरतेनोक्तां बभूव गतचेतनः 2095009a वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः 2095009c प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः 2095009e वने परशुना कृत्तस्तथा भुवि पपात ह 2095010a तथा हि पतितं रामं जगत्यां जगतीपतिम् 2095010c कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् 2095011a भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् 2095011c रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै 2095012a स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् 2095012c उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् 2095013a किं नु तस्य मया कार्यं दुर्जातेन महात्मना 2095013c यो मृतो मम शोकेन न मया चापि संस्कृतः 2095014a अहो भरत सिद्धार्थो येन राजा त्वयानघ 2095014c शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः 2095015a निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम् 2095015c निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे 2095016a समाप्तवनवासं मामयोध्यायां परंतप 2095016c को नु शासिष्यति पुनस्ताते लोकान्तरं गते 2095017a पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् 2095017c वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् 2095018a एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः 2095018c उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् 2095019a सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण 2095019c भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् 2095020a सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् 2095020c उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः 2095021a आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् 2095021c जलक्रियार्थं तातस्य गमिष्यामि महात्मनः 2095022a सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज 2095022c अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा 2095023a ततो नित्यानुगस्तेषां विदितात्मा महामतिः 2095023c मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् 2095024a सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् 2095024c अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् 2095025a ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः 2095025c नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् 2095026a शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् 2095026c सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति 2095027a प्रगृह्य च महीपालो जलपूरितमञ्जलिम् 2095027c दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् 2095028a एतत्ते राजशार्दूल विमलं तोयमक्षयम् 2095028c पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु 2095029a ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः 2095029c पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह 2095030a ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे 2095030c न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत् 2095031a इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम् 2095031c यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः 2095032a ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात् 2095032c आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् 2095033a ततः पर्णकुटीद्वारमासाद्य जगतीपतिः 2095033c परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ 2095034a तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ 2095034c भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव 2095035a विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः 2095035c अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम् 2095035e तेषामेव महाञ्शब्दः शोचतां पितरं मृतम् 2095036a अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम् 2095036c अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः 2095037a हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः 2095037c सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः 2095038a अचिरप्रोषितं रामं चिरविप्रोषितं यथा 2095038c द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् 2095039a भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम् 2095039c ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः 2095040a सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता 2095040c मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे 2095041a तेन वित्रासिता नागाः करेणुपरिवारिताः 2095041c आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः 2095042a वराहमृगसिंहाश्च महिषाः सर्क्षवानराः 2095042c व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह 2095043a रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः 2095043c तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः 2095044a तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् 2095044c मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा 2095045a तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान् 2095045c पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः 2095046a स तत्र कांश्चित्परिषस्वजे नरा;न्नराश्च केचित्तु तमभ्यवादयन् 2095046c चकार सर्वान्सवयस्यबान्धवा;न्यथार्हमासाद्य तदा नृपात्मजः 2095047a ततः स तेषां रुदतां महात्मनां; भुवं च खं चानुविनादयन्स्वनः 2095047c गुहा गिरीणां च दिशश्च संततं; मृदङ्गघोषप्रतिमो विशुश्रुवे 2096001a वसिष्ठः पुरतः कृत्वा दारान्दशरथस्य च 2096001c अभिचक्राम तं देशं रामदर्शनतर्षितः 2096002a राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति 2096002c ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् 2096003a कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता 2096003c सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः 2096004a इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम् 2096004c वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः 2096005a इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः 2096005c स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् 2096006a दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले 2096006c पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना 2096007a तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा 2096007c उवाच देवी कौसल्या सर्वा दशरथस्त्रियः 2096008a इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः 2096008c राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि 2096009a तस्य देवसमानस्य पार्थिवस्य महात्मनः 2096009c नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् 2096010a चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि 2096010c कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः 2096011a अतो दुःखतरं लोके न किंचित्प्रतिभाति मा 2096011c यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् 2096012a रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे 2096012c कथं दुःखेन हृदयं न स्फोटति सहस्रधा 2096013a एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा 2096013c ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम् 2096014a सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः 2096014c आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः 2096015a तासां रामः समुत्थाय जग्राह चरणाञ्शुभान् 2096015c मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः 2096016a ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः 2096016c प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः 2096017a सौमित्रिरपि ताः सर्वा मातॄः संप्रेक्ष्य दुःखितः 2096017c अभ्यवादयतासक्तं शनै रामादनन्तरम् 2096018a यथा रामे तथा तस्मिन्सर्वा ववृतिरे स्त्रियः 2096018c वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे 2096019a सीतापि चरणांस्तासामुपसंगृह्य दुःखिता 2096019c श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता 2096020a तां परिष्वज्य दुःखार्तां माता दुहितरं यथा 2096020c वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् 2096021a विदेहराजस्य सुता स्नुषा दशरथस्य च 2096021c रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने 2096022a पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम् 2096022c काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः 2096023a मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् 2096023c भृशं मनसि वैदेहि व्यसनारणिसंभवः 2096024a ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः 2096024c पादावासाद्य जग्राह वसिष्ठस्य स राघवः 2096025a पुरोहितस्याग्निसमस्य तस्य वै; बृहस्पतेरिन्द्र इवामराधिपः 2096025c प्रगृह्य पादौ सुसमृद्धतेजसः; सहैव तेनोपविवेश राघवः 2096026a ततो जघन्यं सहितैः स मन्त्रिभिः; पुरप्रधानैश्च सहैव सैनिकैः 2096026c जनेन धर्मज्ञतमेन धर्मवा;नुपोपविष्टो भरतस्तदाग्रजम् 2096027a उपोपविष्टस्तु तदा स वीर्यवां;स्तपस्विवेषेण समीक्ष्य राघवम् 2096027c श्रिया ज्वलन्तं भरतः कृताञ्जलि;र्यथा महेन्द्रः प्रयतः प्रजापतिम् 2096028a किमेष वाक्यं भरतोऽद्य राघवं; प्रणम्य सत्कृत्य च साधु वक्ष्यति 2096028c इतीव तस्यार्यजनस्य तत्त्वतो; बभूव कौतूहलमुत्तमं तदा 2096029a स राघवः सत्यधृतिश्च लक्ष्मणो; महानुभावो भरतश्च धार्मिकः 2096029c वृताः सुहृद्भिश्च विरेजुरध्वरे; यथा सदस्यैः सहितास्त्रयोऽग्नयः 2097001a तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् 2097001c लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे 2097002a किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया 2097002c यस्मात्त्वमागतो देशमिमं चीरजटाजिनी 2097003a यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः 2097003c हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि 2097004a इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना 2097004c प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् 2097005a आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् 2097005c गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः 2097006a स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप 2097006c चकार सुमहत्पापमिदमात्मयशोहरम् 2097007a सा राज्यफलमप्राप्य विधवा शोककर्शिता 2097007c पतिष्यति महाघोरे निरये जननी मम 2097008a तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि 2097008c अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव 2097009a इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः 2097009c त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि 2097010a तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद 2097010c राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु 2097011a भवत्वविधवा भूमिः समग्रा पतिना त्वया 2097011c शशिना विमलेनेव शारदी रजनी यथा 2097012a एभिश्च सचिवैः सार्धं शिरसा याचितो मया 2097012c भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि 2097013a तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् 2097013c पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे 2097014a एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः 2097014c रामस्य शिरसा पादौ जग्राह भरतः पुनः 2097015a तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः 2097015c भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् 2097016a कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः 2097016c राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः 2097017a न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन 2097017c न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि 2097018a यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते 2097018c तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् 2097019a एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव 2097019c माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे 2097020a त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् 2097020c वस्तव्यं दण्डकारण्ये मया वल्कलवाससा 2097021a एवं कृत्वा महाराजो विभागं लोकसंनिधौ 2097021c व्यादिश्य च महातेजा दिवं दशरथो गतः 2097022a स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव 2097022c पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि 2097023a चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः 2097023c उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना 2097024a यदब्रवीन्मां नरलोकसत्कृतः; पिता महात्मा विबुधाधिपोपमः 2097024c तदेव मन्ये परमात्मनो हितं; न सर्वलोकेश्वरभावमव्ययम् 2098001a ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः 2098001c शोचतामेव रजनी दुःखेन व्यत्यवर्तत 2098002a रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः 2098002c मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् 2098003a तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत् 2098003c भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत् 2098004a सान्त्विता मामिका माता दत्तं राज्यमिदं मम 2098004c तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् 2098005a महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे 2098005c दुरावारं त्वदन्येन राज्यखण्डमिदं महत् 2098006a गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः 2098006c अनुगन्तुं न शक्तिर्मे गतिं तव महीपते 2098007a सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते 2098007c राम तेन तु दुर्जीवं यः परानुपजीवति 2098008a यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः 2098008c ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः 2098009a स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् 2098009c स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः 2098010a एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि 2098010c यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि 2098011a श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः 2098011c प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम् 2098012a तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः 2098012c अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः 2098013a तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः 2098013c भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः 2098014a तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् 2098014c रामः कृतात्मा भरतं समाश्वासयदात्मवान् 2098015a नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः 2098015c इतश्चेतरतश्चैनं कृतान्तः परिकर्षति 2098016a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 2098016c संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 2098017a यथा फलानं पक्वानां नान्यत्र पतनाद्भयम् 2098017c एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् 2098018a यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति 2098018c तथावसीदन्ति नरा जरामृत्युवशं गताः 2098019a अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह 2098019c आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः 2098020a आत्मानमनुशोच त्वं किमन्यमनुशोचसि 2098020c आयुस्ते हीयते यस्य स्थितस्य च गतस्य च 2098021a सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति 2098021c गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते 2098022a गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः 2098022c जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् 2098023a नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ 2098023c आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् 2098024a हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम् 2098024c ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः 2098025a यथा काष्ठं च काष्ठं च समेयातां महार्णवे 2098025c समेत्य च व्यपेयातां कालमासाद्य कंचन 2098026a एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च 2098026c समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः 2098027a नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते 2098027c तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः 2098028a यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः 2098028c अहमप्यागमिष्यामि पृष्ठतो भवतामिति 2098029a एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः 2098029c तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः 2098030a वयसः पतमानस्य स्रोतसो वानिवर्तिनः 2098030c आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः 2098031a धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः 2098031c धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः 2098032a भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात् 2098032c अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः 2098033a इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् 2098033c उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः 2098034a स जीर्णं मानुषं देहं परित्यज्य पिता हि नः 2098034c दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् 2098035a तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति 2098035c त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः 2098036a एते बहुविधाः शोका विलाप रुदिते तथा 2098036c वर्जनीया हि धीरेण सर्वावस्थासु धीमता 2098037a स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम् 2098037c तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर 2098038a यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा 2098038c तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् 2098039a न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम 2098039c तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता 2098040a एवमुक्त्वा तु विरते रामे वचनमर्थवत् 2098040c उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः 2098041a को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम 2098041c न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् 2098042a संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् 2098042c यथा मृतस्तथा जीवन्यथासति तथा सति 2098043a यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः 2098043c स एवं व्यसनं प्राप्य न विषीदितुमर्हति 2098044a अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः 2098044c सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव 2098045a न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् 2098045c अविषह्यतमं दुःखमासादयितुमर्हति 2098046a प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् 2098046c क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम 2098047a धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् 2098047c हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् 2098048a कथं दशरथाज्जातः शुद्धाभिजनकर्मणः 2098048c जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् 2098049a गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च 2098049c तातं न परिगर्हेयं दैवतं चेति संसदि 2098050a को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् 2098050c स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित् 2098051a अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः 2098051c राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता 2098052a साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात् 2098052c तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् 2098053a पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते 2098053c तदपत्यं मतं लोके विपरीतमतोऽन्यथा 2098054a तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः 2098054c अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम् 2098055a कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः 2098055c पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान् 2098056a क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् 2098056c ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति 2098057a अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि 2098057c धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि 2098058a चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् 2098058c आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि 2098059a श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् 2098059c स कथं पालयिष्यामि भूमिं भवति तिष्ठति 2098060a हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् 2098060c भवता च विना भूतो न वर्तयितुमुत्सहे 2098061a इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् 2098061c अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः 2098062a इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः 2098062c ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः 2098063a अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज 2098063c विजित्य तरसा लोकान्मरुद्भिरिव वासवः 2098064a ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन् 2098064c सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम् 2098065a अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने 2098065c अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश 2098066a आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ 2098066c अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् 2098067a शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि 2098067c बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः 2098068a अथ वा पृष्ठतः कृत्वा वनमेव भवानितः 2098068c गमिष्यति गमिष्यामि भवता सार्धमप्यहम् 2098069a तथापि रामो भरतेन ताम्यत; प्रसाद्यमानः शिरसा महीपतिः 2098069c न चैव चक्रे गमनाय सत्त्ववा;न्मतिं पितुस्तद्वचने प्रतिष्ठितः 2098070a तदद्भुतं स्थैर्यमवेक्ष्य राघवे; समं जनो हर्षमवाप दुःखितः 2098070c न यात्ययोध्यामिति दुःखितोऽभव;त्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः 2098071a तमृत्विजो नैगमयूथवल्लभा;स्तथा विसंज्ञाश्रुकलाश्च मातरः 2098071c तथा ब्रुवाणं भरतं प्रतुष्टुवुः; प्रणम्य रामं च ययाचिरे सह 2099001a पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः 2099001c प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः 2099002a उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः 2099002c जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् 2099003a पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् 2099003c मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् 2099004a देवासुरे च संग्रामे जनन्यै तव पार्थिवः 2099004c संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः 2099005a ततः सा संप्रतिश्राव्य तव माता यशस्विनी 2099005c अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी 2099006a तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा 2099006c तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम् 2099007a तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ 2099007c चतुर्दश वने वासं वर्षाणि वरदानिकम् 2099008a सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः 2099008c शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः 2099009a भवानपि तथेत्येव पितरं सत्यवादिनम् 2099009c कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात् 2099010a ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् 2099010c पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय 2099011a श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विनी 2099011c गयेन यजमानेन गयेष्वेव पितॄन्प्रति 2099012a पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः 2099012c तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वा सुतः 2099013a एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः 2099013c तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् 2099014a एवं राजर्षयः सर्वे प्रतीता राजनन्दन 2099014c तस्मात्त्राहि नरश्रेष्ठ पितरं नरकात्प्रभो 2099015a अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय 2099015c शत्रुघ्न सहितो वीर सह सर्वैर्द्विजातिभिः 2099016a प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् 2099016c आभ्यां तु सहितो राजन्वैदेह्या लक्ष्मणेन च 2099017a त्वं राजा भव भरत स्वयं नराणां; वन्यानामहमपि राजराण्मृगाणाम् 2099017c गच्छ त्वं पुरवरमद्य संप्रहृष्टः; संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये 2099018a छायां ते दिनकरभाः प्रबाधमानं; वर्षत्रं भरत करोतु मूर्ध्नि शीताम् 2099018c एतेषामहमपि काननद्रुमाणां; छायां तामतिशयिनीं सुखं श्रयिष्ये 2099019a शत्रुघ्नः कुशलमतिस्तु ते सहायः; सौमित्रिर्मम विदितः प्रधानमित्रम् 2099019c चत्वारस्तनयवरा वयं नरेन्द्रं; सत्यस्थं भरत चराम मा विषादम् 2100001a आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः 2100001c उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः 2100002a साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका 2100002c प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः 2100003a कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् 2100003c यदेको जायते जन्तुरेक एव विनश्यति 2100004a तस्मान्माता पिता चेति राम सज्जेत यो नरः 2100004c उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्यचित् 2100005a यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् 2100005c उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि 2100006a एवमेव मनुष्याणां पिता माता गृहं वसु 2100006c आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः 2100007a पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम 2100007c आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् 2100008a समृद्धायामयोध्यायामात्मानमभिषेचय 2100008c एकवेणीधरा हि त्वां नगरी संप्रतीक्षते 2100009a राजभोगाननुभवन्महार्हान्पार्थिवात्मज 2100009c विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे 2100010a न ते कश्चिद्दशरतःस्त्वं च तस्य न कश्चन 2100010c अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते 2100011a गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै 2100011c प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे 2100012a अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् 2100012c ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे 2100013a अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः 2100013c अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति 2100014a यदि भुक्तमिहान्येन देहमन्यस्य गच्छति 2100014c दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् 2100015a दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः 2100015c यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज 2100016a स नास्ति परमित्येव कुरु बुद्धिं महामते 2100016c प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु 2100017a सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् 2100017c राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः 2101001a जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः 2101001c उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया 2101002a भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् 2101002c अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् 2101003a निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः 2101003c मानं न लभते सत्सु भिन्नचारित्रदर्शनः 2101004a कुलीनमकुलीनं वा वीरं पुरुषमानिनम् 2101004c चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् 2101005a अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः 2101005c लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव 2101006a अधर्मं धर्मवेषेण यदीमं लोकसंकरम् 2101006c अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् 2101007a कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः 2101007c बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् 2101008a कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् 2101008c अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया 2101009a कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते 2101009c यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः 2101010a सत्यमेवानृशंस्यं च राजवृत्तं सनातनम् 2101010c तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः 2101011a ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे 2101011c सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् 2101012a उद्विजन्ते यथा सर्पान्नरादनृतवादिनः 2101012c धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते 2101013a सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता 2101013c सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् 2101014a दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च 2101014c वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् 2101015a एकः पालयते लोकमेकः पालयते कुलम् 2101015c मज्जत्येको हि निरय एकः स्वर्गे महीयते 2101016a सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये 2101016c सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः 2101017a नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोन्वितः 2101017c सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः 2101018a असत्यसंधस्य सतश्चलस्यास्थिरचेतसः 2101018c नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् 2101019a प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् 2101019c भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते 2101020a क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् 2101020c क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः 2101021a कायेन कुरुते पापं मनसा संप्रधार्य च 2101021c अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् 2101022a भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि 2101022c स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् 2101023a श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् 2101023c आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह 2101024a कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः 2101024c भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः 2101025a स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ 2101025c प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा 2101026a वनवासं वसन्नेवं शुचिर्नियतभोजनः 2101026c मूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश्च तर्पयन् 2101027a संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये 2101027c अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः 2101028a कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् 2101028c अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः 2101029a शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः 2101029c तपांस्युग्राणि चास्थाय दिवं याता महर्षयः 2101030a सत्यं च धर्मं च पराक्रमं च; भूतानुकम्पां प्रियवादितां च 2101030c द्विजातिदेवातिथिपूजनं च; पन्थानमाहुस्त्रिदिवस्य सन्तः 2101031a धर्मे रताः सत्पुरुषैः समेता;स्तेजस्विनो दानगुणप्रधानाः 2101031c अहिंसका वीतमलाश्च लोके; भवन्ति पूज्या मुनयः प्रधानाः 2102001a क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह 2102001c जाबालिरपि जानीते लोकस्यास्य गतागतिम् 2102001e निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् 2102002a इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे 2102002c सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता 2102002e ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह 2102003a स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम् 2102003c असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः 2102004a आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः 2102004c तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः 2102005a विवस्वान्कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः 2102005c स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः 2102006a यस्येयं प्रथमं दत्ता समृद्धा मनुना मही 2102006c तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् 2102007a इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरेवेति विश्रुतः 2102007c कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत 2102008a विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् 2102008c बाणस्य तु महाबाहुरनरण्यो महायशाः 2102009a नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे 2102009c अनरण्ये महाराजे तस्करो वापि कश्चन 2102010a अनरण्यान्महाबाहुः पृथू राजा बभूव ह 2102010c तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत 2102010e स सत्यवचनाद्वीरः सशरीरो दिवं गतः 2102011a त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः 2102011c धुन्धुमारान्महातेजा युवनाश्वो व्यजायत 2102012a युवनाश्वसुतः श्रीमान्मान्धाता समपद्यत 2102012c मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत 2102013a सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् 2102013c यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः 2102014a भरतात्तु महाबाहोरसितो नाम जायत 2102014c यस्यैते प्रतिराजान उदपद्यन्त शत्रवः 2102014e हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः 2102015a तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः 2102015c स च शैलवरे रम्ये बभूवाभिरतो मुनिः 2102015e द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः 2102016a भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः 2102016c तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् 2102017a स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि 2102017c ततः सा गृहमागम्य देवी पुत्रं व्यजायत 2102018a सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया 2102018c गरेण सह तेनैव जातः स सगरोऽभवत् 2102019a स राजा सगरो नाम यः समुद्रमखानयत् 2102019c इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः 2102020a असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम् 2102020c जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् 2102021a अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् 2102021c दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः 2102022a भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः 2102022c ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः 2102023a रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः 2102023c कल्माषपादः सौदास इत्येवं प्रथितो भुवि 2102024a कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः 2102024c यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत् 2102025a शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान्सुदर्शनः 2102025c सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः 2102026a शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः 2102026c प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः 2102027a अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः 2102027c नहुषस्य च नाभागः पुत्रः परमधार्मिकः 2102028a अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ 2102028c अजस्य चैव धर्मात्मा राजा दशरथः सुतः 2102029a तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः 2102029c तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप 2102030a इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः 2102030c पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते 2102031a स राघवाणां कुलधर्ममात्मनः; सनातनं नाद्य विहातुमर्हसि 2102031c प्रभूतरत्नामनुशाधि मेदिनीं; प्रभूतराष्ट्रां पितृवन्महायशाः 2103001a वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः 2103001c अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः 2103002a पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः 2103002c आचार्यश्चैव काकुत्स्थ पिता माता च राघव 2103003a पिता ह्येनं जनयति पुरुषं पुरुषर्षभ 2103003c प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते 2103004a स तेऽहं पितुराचार्यस्तव चैव परंतप 2103004c मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम् 2103005a इमा हि ते परिषदः श्रेणयश्च समागताः 2103005c एषु तात चरन्धर्मं नातिवर्तेः सतां गतिम् 2103006a वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् 2103006c अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम् 2103007a भरतस्य वचः कुर्वन्याचमानस्य राघव 2103007c आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम 2103008a एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् 2103008c प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः 2103009a यन्मातापितरौ वृत्तं तनये कुरुतः सदा 2103009c न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् 2103010a यथाशक्ति प्रदानेन स्नापनाच्छादनेन च 2103010c नित्यं च प्रियवादेन तथा संवर्धनेन च 2103011a स हि राजा जनयिता पिता दशरथो मम 2103011c आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति 2103012a एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् 2103012c उवाच परमोदारः सूतं परमदुर्मनाः 2103013a इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे 2103013c आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति 2103014a अनाहारो निरालोको धनहीनो यथा द्विजः 2103014c शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति 2103015a स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः 2103015c कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम् 2103016a तमुवाच महातेजा रामो राजर्षिसत्तमाः 2103016c किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि 2103017a ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति 2103017c न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने 2103018a उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् 2103018c पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव 2103019a आसीनस्त्वेव भरतः पौरजानपदं जनम् 2103019c उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ 2103020a ते तमूचुर्महात्मानं पौरजानपदा जनाः 2103020c काकुत्स्थमभिजानीमः सम्यग्वदति राघवः 2103021a एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति 2103021c अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा 2103022a तेषामाज्ञाय वचनं रामो वचनमब्रवीत् 2103022c एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् 2103023a एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव 2103023c उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् 2103024a अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् 2103024c शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा 2103025a न याचे पितरं राज्यं नानुशासामि मातरम् 2103025c आर्यं परमधर्मज्ञमभिजानामि राघवम् 2103026a यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः 2103026c अहमेव निवत्स्यामि चतुर्दश वने समाः 2103027a धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः 2103027c उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् 2103028a विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम 2103028c न तल्लोपयितुं शक्यं मया वा भरतेन वा 2103029a उपधिर्न मया कार्यो वनवासे जुगुप्सितः 2103029c युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् 2103030a जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् 2103030c सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि 2103031a अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः 2103031c भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः 2103032a वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् 2103032c अनृतान्मोचयानेन पितरं तं महीपतिम् 2104001a तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् 2104001c विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः 2104002a अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः 2104002c तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे 2104003a स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ 2104003c श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे 2104004a ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः 2104004c भरतं राजशार्दूलमित्यूचुः संगता वचः 2104005a कुले जात महाप्राज्ञ महावृत्त महायशः 2104005c ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे 2104006a सदानृणमिमं रामं वयमिच्छामहे पितुः 2104006c अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः 2104007a एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः 2104007c राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः 2104008a ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः 2104008c रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् 2104009a स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया 2104009c कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् 2104010a राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम् 2104010c कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् 2104011a रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे 2104011c पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा 2104012a ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः 2104012c त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः 2104013a इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि 2104013c शक्तिमानसि काकुत्स्थ लोकस्य परिपालने 2104014a इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा 2104014c भृशं संप्रार्थयामास राममेवं प्रियं वदः 2104015a तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् 2104015c श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् 2104016a आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या 2104016c भृशमुत्सहसे तात रक्षितुं पृथिवीमपि 2104017a अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः 2104017c सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय 2104018a लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् 2104018c अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः 2104019a कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् 2104019c न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् 2104020a एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् 2104020c तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् 2104021a अधिरोहार्य पादाभ्यां पादुके हेमभूषिते 2104021c एते हि सर्वलोकस्य योगक्षेमं विधास्यतः 2104022a सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च 2104022c प्रायच्छत्सुमहातेजा भरताय महात्मने 2104023a स पादुके ते भरतः प्रतापवा;न्स्वलंकृते संपरिगृह्य धर्मवित् 2104023c प्रदक्षिणं चैव चकार राघवं; चकार चैवोत्तमनागमूर्धनि 2104024a अथानुपूर्व्यात्प्रतिपूज्य तं जनं; गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ 2104024c व्यसर्जयद्राघववंशवर्धनः; स्थितः स्वधर्मे हिमवानिवाचलः 2104025a तं मातरो बाष्पगृहीतकण्ठो; दुःखेन नामन्त्रयितुं हि शेकुः 2104025c स त्वेव मातॄरभिवाद्य सर्वा; रुदन्कुटीं स्वां प्रविवेश रामः 2105001a ततः शिरसि कृत्वा तु पादुके भरतस्तदा 2105001c आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः 2105002a वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः 2105002c अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः 2105003a मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा 2105003c प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् 2105004a पश्यन्धातुसहस्राणि रम्याणि विविधानि च 2105004c प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा 2105005a अदूराच्चित्रकूटस्य ददर्श भरतस्तदा 2105005c आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः 2105006a स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् 2105006c अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः 2105007a ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् 2105007c अपि कृत्यं कृतं तात रामेण च समागतम् 2105008a एवमुक्तस्तु भरतो भरद्वाजेन धीमता 2105008c प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः 2105009a स याच्यमानो गुरुणा मया च दृढविक्रमः 2105009c राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् 2105010a पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः 2105010c चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम 2105011a एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह 2105011c वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् 2105012a एते प्रयच्छ संहृष्टः पादुके हेमभूषिते 2105012c अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव 2105013a एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः 2105013c पादुके हेमविकृते मम राज्याय ते ददौ 2105014a निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना 2105014c अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे 2105015a एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2105015c भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् 2105016a नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर 2105016c यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् 2105017a अमृतः स महाबाहुः पिता दशरथस्तव 2105017c यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः 2105018a तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः 2105018c आमन्त्रयितुमारेभे चरणावुपगृह्य च 2105019a ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः 2105019c भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः 2105020a यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः 2105020c पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी 2105021a ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् 2105021c ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् 2105022a तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः 2105022c शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः 2105023a शृङ्गवेरपुराद्भूय अयोध्यां संददर्श ह 2105023c भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत् 2105024a सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते 2105024c निराकारा निरानन्दा दीना प्रतिहतस्वना 2106001a स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः 2106001c अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः 2106002a बिडालोलूकचरितामालीननरवारणाम् 2106002c तिमिराभ्याहतां कालीमप्रकाशां निशामिव 2106003a राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् 2106003c ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् 2106004a अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् 2106004c लीनमीनझषग्राहां कृशां गिरिनदीमिव 2106005a विधूमामिव हेमाभामध्वराग्निसमुत्थिताम् 2106005c हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् 2106006a विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् 2106006c हतप्रवीरामापन्नां चमूमिव महाहवे 2106007a सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् 2106007c प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम् 2106008a त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः 2106008c सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव 2106009a गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम् 2106009c गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् 2106010a प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः 2106010c वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव 2106011a सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् 2106011c संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् 2106012a पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् 2106012c द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव 2106013a संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् 2106013c प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् 2106014a क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् 2106014c हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् 2106015a वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् 2106015c उपयुक्तोदकां भग्नां प्रपां निपतितामिव 2106016a विपुलां विततां चैव युक्तपाशां तरस्विनाम् 2106016c भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् 2106017a सहसा युद्धशौण्डेन हयारोहेण वाहिताम् 2106017c निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् 2106018a प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् 2106018c प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव 2106019a भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजः 2106019c वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् 2106020a किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते 2106020c यथापुरमयोध्यायां गीतवादित्रनिःस्वनः 2106021a वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः 2106021c धूपितागरुगन्धश्च न प्रवाति समन्ततः 2106022a यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः 2106022c प्रमत्तगजनादश्च महांश्च रथनिःस्वनः 2106022e नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते 2106023a तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः 2106023c संपतद्भिरयोध्यायां न विभान्ति महापथाः 2106024a एवं बहुविधं जल्पन्विवेश वसतिं पितुः 2106024c तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव 2107001a ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः 2107001c भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत् 2107002a नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः 2107002c तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना 2107003a गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम 2107003c रामं प्रतीक्षे राज्याय स हि राजा महायशाः 2107004a एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः 2107004c अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः 2107005a सदृशं श्लाघनीयं च यदुक्तं भरत त्वया 2107005c वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् 2107006a नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे 2107006c आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् 2107007a मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् 2107007c अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति 2107008a प्रहृष्टवदनः सर्वा मातॄः समभिवाद्य सः 2107008c आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः 2107009a आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ 2107009c ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः 2107010a अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः 2107010c प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् 2107011a बलं च तदनाहूतं गजाश्वरथसंकुलम् 2107011c प्रययौ भरते याते सर्वे च पुरवासिनः 2107012a रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः 2107012c नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके 2107013a ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः 2107013c अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह 2107014a एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् 2107014c योगक्षेमवहे चेमे पादुके हेमभूषिते 2107014e तमिमं पालयिष्यामि राघवागमनं प्रति 2107015a क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् 2107015c चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ 2107016a ततो निक्षिप्तभारोऽहं राघवेण समागतः 2107016c निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् 2107017a राघवाय च संन्यासं दत्त्वेमे वरपादुके 2107017c राज्यं चेदमयोध्यां च धूतपापो भवामि च 2107018a अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने 2107018c प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् 2107019a एवं तु विलपन्दीनो भरतः स महायशाः 2107019c नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह 2107020a स वल्कलजटाधारी मुनिवेषधरः प्रभुः 2107020c नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा 2107021a रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः 2107021c भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा 2107022a पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा 2107022c भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् 2108001a प्रतिप्रयाते भरते वसन्रामस्तपोवने 2108001c लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् 2108002a ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे 2108002c राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् 2108003a नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः 2108003c अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः 2108004a तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः 2108004c कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः 2108005a न कच्चिद्भगवन्किंचित्पूर्ववृत्तमिदं मयि 2108005c दृश्यते विकृतं येन विक्रियन्ते तपस्विनः 2108006a प्रमादाच्चरितं कच्चित्किंचिन्नावरजस्य मे 2108006c लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः 2108007a कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि 2108007c प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते 2108008a अथर्षिर्जरया वृद्धस्तपसा च जरां गतः 2108008c वेपमान इवोवाच रामं भूतदयापरम् 2108009a कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा 2108009c चलनं तात वैदेह्यास्तपस्विषु विशेषतः 2108010a त्वन्निमित्तमिदं तावत्तापसान्प्रति वर्तते 2108010c रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः 2108011a रावणावरजः कश्चित्खरो नामेह राक्षसः 2108011c उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान् 2108012a धृष्टश्च जितकाशी च नृशंसः पुरुषादकः 2108012c अवलिप्तश्च पापश्च त्वां च तात न मृष्यते 2108013a त्वं यदा प्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे 2108013c तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् 2108014a दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि 2108014c नाना रूपैर्विरूपैश्च रूपैरसुखदर्शनैः 2108015a अप्रशस्तैरशुचिभिः संप्रयोज्य च तापसान् 2108015c प्रतिघ्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थितः 2108016a तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च 2108016c रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः 2108017a अपक्षिपन्ति स्रुग्भाण्डानग्नीन्सिञ्चन्ति वारिणा 2108017c कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते 2108018a तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः 2108018c गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् 2108019a तत्पुरा राम शारीरामुपहिंसां तपस्विषु 2108019c दर्शयति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् 2108020a बहुमूलफलं चित्रमविदूरादितो वनम् 2108020c पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः 2108021a खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते 2108021c सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते 2108022a सकलत्रस्य संदेहो नित्यं यत्तस्य राघव 2108022c समर्थस्यापि हि सतो वासो दुःख इहाद्य ते 2108023a इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् 2108023c न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् 2108024a अभिनन्द्य समापृच्छ्य समाधाय च राघवम् 2108024c स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह 2108025a रामः संसाध्य त्वृषिगणमनुगमना;द्देशात्तस्माच्चित्कुलपतिमभिवाद्यर्षिम् 2108025c सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः; पुण्यं वासाय स्वनिलयमुपसंपेदे 2108026a आश्रमं त्वृषिविरहितं प्रभुः; क्षणमपि न जहौ स राघवः 2108026c राघवं हि सततमनुगता;स्तापसाश्चर्षिचरितधृतगुणाः 2109001a राघवस्त्वपयातेषु तपस्विषु विचिन्तयन् 2109001c न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा 2109002a इह मे भरतो दृष्टो मातरश्च सनागराः 2109002c सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः 2109003a स्कन्धावारनिवेशेन तेन तस्य महात्मनः 2109003c हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् 2109004a तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः 2109004c प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः 2109005a सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः 2109005c तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत 2109006a स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् 2109006c सौमित्रिं च महाभागां सीतां च समसान्त्वयत् 2109007a पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् 2109007c सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः 2109008a अनसूयां महाभागां तापसीं धर्मचारिणीम् 2109008c प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः 2109009a रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् 2109009c दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् 2109010a यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता 2109010c उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता 2109011a दशवर्षसहस्राणि यया तप्तं महत्तपः 2109011c अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः 2109012a देवकार्यनिमित्तं च यया संत्वरमाणया 2109012c दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ 2109013a तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् 2109013c अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा 2109014a एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः 2109014c सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् 2109015a राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् 2109015c श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् 2109016a अनसूयेति या लोके कर्मभिः क्यातिमागता 2109016c तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम् 2109017a सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी 2109017c तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली 2109018a शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् 2109018c सततं वेपमानाङ्गीं प्रवाते कदली यथा 2109019a तां तु सीता महाभागामनसूयां पतिव्रताम् 2109019c अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् 2109020a अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् 2109020c बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् 2109021a ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् 2109021c सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे 2109022a त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि 2109022c अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि 2109023a नगरस्थो वनस्थो वा पापो वा यदि वाशुभः 2109023c यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः 2109024a दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः 2109024c स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः 2109025a नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् 2109025c सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् 2109026a न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः 2109026c कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः 2109027a प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि 2109027c अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः 2109028a त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः 2109028c स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा 2110001a सा त्वेवमुक्ता वैदेही अनसूयानसूयया 2110001c प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे 2110002a नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे 2110002c विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः 2110003a यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः 2110003c अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् 2110004a किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः 2110004c स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः 2110005a यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः 2110005c तामेव नृपनारीणामन्यासामपि वर्तते 2110006a सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः 2110006c मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् 2110007a आगच्छन्त्याश्च विजनं वनमेवं भयावहम् 2110007c समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम 2110008a प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ 2110008c अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् 2110009a नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि 2110009c पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते 2110010a सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते 2110010c तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् 2110011a वरिष्ठा सर्वनारीणामेषा च दिवि देवता 2110011c रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते 2110012a एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः 2110012c देवलोके महीयन्ते पुण्येन स्वेन कर्मणा 2110013a ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः 2110013c शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत 2110014a नियमैर्विविधैराप्तं तपो हि महदस्ति मे 2110014c तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते 2110015a उपपन्नं च युक्तं च वचनं तव मैथिलि 2110015c प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे 2110015e कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् 2110016a सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् 2110016c सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् 2110017a इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च 2110017c अङ्गरागं च वैदेहि महार्हमनुलेपनम् 2110018a मया दत्तमिदं सीते तव गात्राणि शोभयेत् 2110018c अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति 2110019a अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे 2110019c शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् 2110020a सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा 2110020c मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् 2110021a प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी 2110021c श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् 2110022a तथा सीतामुपासीनामनसूया दृढव्रता 2110022c वचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम् 2110023a स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना 2110023c राघवेणेति मे सीते कथा श्रुतिमुपागता 2110024a तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि 2110024c यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि 2110025a एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् 2110025c श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् 2110026a मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् 2110026c क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् 2110027a तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् 2110027c अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता 2110028a स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः 2110028c पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् 2110029a अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् 2110029c ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः 2110030a अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल 2110030c एवमेतन्नरपते धर्मेण तनया तव 2110031a ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः 2110031c अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः 2110032a दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा 2110032c तया संभाविता चास्मि स्निग्धया मातृसौहृदात् 2110033a पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता 2110033c चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः 2110034a सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् 2110034c प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि 2110035a तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः 2110035c चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ 2110036a अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् 2110036c सदृशं चानुरूपं च महीपालः पतिं मम 2110037a तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् 2110037c स्वयं वरं तनूजायाः करिष्यामीति धीमतः 2110038a महायज्ञे तदा तस्य वरुणेन महात्मना 2110038c दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ 2110039a असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् 2110039c तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः 2110040a तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना 2110040c समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् 2110041a इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः 2110041c तस्य मे दुहिता भार्या भविष्यति न संशयः 2110042a तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् 2110042c अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने 2110043a सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः 2110043c विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः 2110044a लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः 2110044c विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः 2110045a प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ 2110045c सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ 2110045e इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् 2110046a निमेषान्तरमात्रेण तदानम्य स वीर्यवान् 2110046c ज्यां समारोप्य झटिति पूरयामास वीर्यवान् 2110047a तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः 2110047c तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव 2110048a ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना 2110048c उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् 2110049a दीयमानां न तु तदा प्रतिजग्राह राघवः 2110049c अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः 2110050a ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् 2110050c मम पित्रा अहं दत्ता रामाय विदितात्मने 2110051a मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना 2110051c भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् 2110052a एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे 2110052c अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् 2111001a अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् 2111001c पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् 2111002a व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया 2111002c यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया 2111003a रमेऽहं कथया ते तु दृढं मधुरभाषिणि 2111003c रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् 2111004a दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् 2111004c संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः 2111005a एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः 2111005c सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः 2111006a ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् 2111006c कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः 2111007a अल्पपर्णा हि तरवो घनीभूताः समन्ततः 2111007c विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः 2111008a रजनी रससत्त्वानि प्रचरन्ति समन्ततः 2111008c तपोवनमृगा ह्येते वेदितीर्थेषु शेरते 2111009a संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता 2111009c ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे 2111010a गम्यतामनुजानामि रामस्यानुचरी भव 2111010c कथयन्त्या हि मधुरं त्वयाहं परितोषिता 2111011a अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि 2111011c प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी 2111012a सा तदा समलंकृत्य सीता सुरसुतोपमा 2111012c प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ 2111013a तथा तु भूषितां सीतां ददर्श वदतां वरः 2111013c राघवः प्रीतिदानेन तपस्विन्या जहर्ष च 2111014a न्यवेदयत्ततः सर्वं सीता रामाय मैथिली 2111014c प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् 2111015a प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः 2111015c मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् 2111016a ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः 2111016c अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः 2111017a तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् 2111017c आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् 2111018a तावूचुस्ते वनचरास्तापसा धर्मचारिणः 2111018c वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् 2111019a एष पन्था महर्षीणां फलान्याहरतां वने 2111019c अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् 2111020a इतीव तैः प्राञ्जलिभिस्तपस्विभि;र्द्विजैः कृतस्वस्त्ययनः परंतपः 2111020c वनं सभार्यः प्रविवेश राघवः; सलक्ष्मणः सूर्य इवाभ्रमण्डलम्