% Mahabharata: Svargarohanaparvan % Last updated: Mon Jul 23 2007 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 18001001 जनमेजय उवाच 18001001a स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः 18001001c पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे 18001002a एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः 18001002c महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा 18001003 वैशंपायन उवाच 18001003a स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः 18001003c युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु 18001004a स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः 18001004c दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने 18001005a भ्राजमानमिवादित्यं वीरलक्ष्म्याभिसंवृतम् 18001005c देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः 18001006a ततो युधिष्ठिरो दृष्ट्वा दुर्योधनममर्षितः 18001006c सहसा संनिवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने 18001007a ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै 18001007c सहितः कामये लोकाँल्लुब्धेनादीर्घदर्शिना 18001008a यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा 18001008c हतास्माभिः प्रसह्याजौ क्लिष्टैः पूर्वं महावने 18001009a द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी 18001009c परिक्लिष्टानवद्याङ्गी पत्नी नो गुरुसंनिधौ 18001010a स्वस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् 18001010c तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम 18001011a मैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव 18001011c स्वर्गे निवासो राजेन्द्र विरुद्धं चापि नश्यति 18001012a युधिष्ठिर महाबाहो मैवं वोचः कथंचन 18001012c दुर्योधनं प्रति नृपं शृणु चेदं वचो मम 18001013a एष दुर्योधनो राजा पूज्यते त्रिदशैः सह 18001013c सद्भिश्च राजप्रवरैर्य इमे स्वर्गवासिनः 18001014a वीरलोकगतिं प्राप्तो युद्धे हुत्वात्मनस्तनुम् 18001014c यूयं सर्वे सुरसमा येन युद्धे समासिताः 18001015a स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् 18001015c भये महति योऽभीतो बभूव पृथिवीपतिः 18001016a न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् 18001016c द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि 18001017a ये चान्येऽपि परिक्लेशा युष्माकं द्यूतकारिताः 18001017c संग्रामेष्वथ वान्यत्र न तान्संस्मर्तुमर्हसि 18001018a समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै 18001018c स्वर्गोऽयं नेह वैराणि भवन्ति मनुजाधिप 18001019a नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः 18001019c भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह 18001020a यदि दुर्योधनस्यैते वीरलोकाः सनातनाः 18001020c अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः 18001021a यत्कृते पृथिवी नष्टा सहया सरथद्विपा 18001021c वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः 18001022a ये ते वीरा महात्मानो भ्रातरो मे महाव्रताः 18001022c सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः 18001023a तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् 18001023c कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम् 18001024a धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् 18001024c ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः 18001025a क्व नु ते पार्थिवा ब्रह्मन्नैतान्पश्यामि नारद 18001025c विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् 18001026a शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः 18001026c अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद 18002001 युधिष्ठिर उवाच 18002001a नेह पश्यामि विबुधा राधेयममितौजसम् 18002001c भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ 18002002a जुहुवुर्ये शरीराणि रणवह्नौ महारथाः 18002002c राजानो राजपुत्राश्च ये मदर्थे हता रणे 18002003a क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः 18002003c तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः 18002004a यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः 18002004c स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः 18002005a कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः 18002005c न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा 18002006a मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि 18002006c कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै 18002007a इदं च परितप्यामि पुनः पुनरहं सुराः 18002007c यन्मातुः सदृशौ पादौ तस्याहममितौजसः 18002008a दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् 18002008c न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे 18002009a तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् 18002009c अविज्ञातो मया योऽसौ घातितः सव्यसाचिना 18002010a भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम 18002010c अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ 18002011a द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् 18002011c न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः 18002012a किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः 18002012c यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम 18002013 देवा ऊचुः 18002013a यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम् 18002013c प्रिये हि तव वर्तामो देवराजस्य शासनात् 18002014 वैशंपायन उवाच 18002014a इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् 18002014c युधिष्ठिरस्य सुहृदो दर्शयेति परंतप 18002015a ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः 18002015c सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः 18002016a अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः 18002016c पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः 18002017a तमसा संवृतं घोरं केशशैवलशाद्वलम् 18002017c युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम् 18002018a दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम् 18002018c इतश्चेतश्च कुणपैः समन्तात्परिवारितम् 18002019a अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् 18002019c ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् 18002020a अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम् 18002020c सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् 18002021a मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः 18002021c निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः 18002022a स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् 18002022c जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन् 18002023a ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् 18002023c असिपत्रवनं चैव निशितक्षुरसंवृतम् 18002024a करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक् 18002024c लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः 18002025a कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम् 18002025c ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम् 18002026a स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह 18002026c कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम् 18002027a क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि 18002027c देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् 18002028a स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् 18002028c देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव 18002029a निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः 18002029c यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि 18002030a युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः 18002030c निवर्तने धृतमनाः पर्यावर्तत भारत 18002031a स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः 18002031c शुश्राव तत्र वदतां दीना वाचः समन्ततः 18002032a भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव 18002032c अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् 18002033a आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः 18002033c तव गन्धानुगस्तात येनास्मान्सुखमागमत् 18002034a ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ 18002034c सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम 18002035a संतिष्ठस्व महाबाहो मुहूर्तमपि भारत 18002035c त्वयि तिष्ठति कौरव्य यातनास्मान्न बाधते 18002036a एवं बहुविधा वाचः कृपणा वेदनावताम् 18002036c तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप 18002037a तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् 18002037c अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः 18002038a स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः 18002038c ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः 18002039a अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः 18002039c उवाच के भवन्तो वै किमर्थमिह तिष्ठथ 18002040a इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे 18002040c कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो 18002041a नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत 18002041c द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः 18002042a ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप 18002042c ततो विममृशे राजा किं न्विदं दैवकारितम् 18002043a किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः 18002043c कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया 18002044a य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे 18002044c न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् 18002045a किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः 18002045c तथा श्रिया युतः पापः सह सर्वैः पदानुगैः 18002046a महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः 18002046c कस्येदानीं विकारोऽयं यदिमे नरकं गताः 18002047a सर्वधर्मविदः शूराः सत्यागमपरायणाः 18002047c क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः 18002048a किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये 18002048c अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः 18002049a एवं बहुविधं राजा विममर्श युधिष्ठिरः 18002049c दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः 18002050a क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः 18002050c देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः 18002051a स तीव्रगन्धसंतप्तो देवदूतमुवाच ह 18002051c गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् 18002052a न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् 18002052c मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे 18002053a इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता 18002053c जगाम तत्र यत्रास्ते देवराजः शतक्रतुः 18002054a निवेदयामास च तद्धर्मराजचिकीर्षितम् 18002054c यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप 18003001 वैशंपायन उवाच 18003001a स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे 18003001c आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः 18003002a स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम् 18003002c तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः 18003003a तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु 18003003c समागतेषु देवेषु व्यगमत्तत्तमो नृप 18003004a नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम् 18003004c नदी वैतरणी चैव कूटशाल्मलिना सह 18003005a लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः 18003005c विकृतानि शरीराणि यानि तत्र समन्ततः 18003005e ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन् 18003006a ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः 18003006c ववौ देवसमीपस्थः शीतलोऽतीव भारत 18003007a मरुतः सह शक्रेण वसवश्चाश्विनौ सह 18003007c साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः 18003008a सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः 18003008c यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् 18003009a ततः शक्रः सुरपतिः श्रिया परमया युतः 18003009c युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः 18003010a युधिष्ठिर महाबाहो प्रीता देवगणास्तव 18003010c एह्येहि पुरुषव्याघ्र कृतमेतावता विभो 18003010e सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव 18003011a न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम 18003011c अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः 18003012a शुभानामशुभानां च द्वौ राशी पुरुषर्षभ 18003012c यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः 18003012e पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः 18003013a भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते 18003013c तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप 18003014a व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति 18003014c व्याजेनैव ततो राजन्दर्शितो नरकस्तव 18003015a यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा 18003015c द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः 18003016a आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात् 18003016c स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे 18003016e सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ 18003017a कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः 18003017c स गतः परमां सिद्धिं यदर्थं परितप्यसे 18003018a तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो 18003018c स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ 18003019a भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान् 18003019c स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः 18003020a अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव 18003020c विहरस्व मया सार्धं गतशोको निरामयः 18003021a कर्मणां तात पुण्यानां जितानां तपसा स्वयम् 18003021c दानानां च महाबाहो फलं प्राप्नुहि पाण्डव 18003022a अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि 18003022c उपसेवन्तु कल्याणं विरजोम्बरवाससः 18003023a राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान् 18003023c प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत् 18003024a उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर 18003024c हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि 18003025a मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः 18003025c दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि 18003026a एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी 18003026c आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि 18003027a अत्र स्नातस्य ते भावो मानुषो विगमिष्यति 18003027c गतशोको निरायासो मुक्तवैरो भविष्यसि 18003028a एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् 18003028c धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः 18003029a भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक 18003029c मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च 18003030a एषा तृतीया जिज्ञासा तव राजन्कृता मया 18003030c न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः 18003031a पूर्वं परीक्षितो हि त्वमासीर्द्वैतवनं प्रति 18003031c अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि 18003032a सोदर्येषु विनष्टेषु द्रौपद्यां तत्र भारत 18003032c श्वरूपधारिणा पुत्र पुनस्त्वं मे परीक्षितः 18003033a इदं तृतीयं भ्रातॄणामर्थे यत्स्थातुमिच्छसि 18003033c विशुद्धोऽसि महाभाग सुखी विगतकल्मषः 18003034a न च ते भ्रातरः पार्थ नरकस्था विशां पते 18003034c मायैषा देवराजेन महेन्द्रेण प्रयोजिता 18003035a अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः 18003035c ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् 18003036a न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ 18003036c कर्णो वा सत्यवाक्शूरो नरकार्हाश्चिरं नृप 18003037a न कृष्णा राजपुत्री च नरकार्हा युधिष्ठिर 18003037c एह्येहि भरतश्रेष्ठ पश्य गङ्गां त्रिलोकगाम् 18003038a एवमुक्तः स राजर्षिस्तव पूर्वपितामहः 18003038c जगाम सह धर्मेण सर्वैश्च त्रिदशालयैः 18003039a गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् 18003039c अवगाह्य तु तां राजा तनुं तत्याज मानुषीम् 18003040a ततो दिव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः 18003040c निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः 18003041a ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः 18003041c धर्मेण सहितो धीमान्स्तूयमानो महर्षिभिः 18004001 वैशंपायन उवाच 18004001a ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः 18004001c पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः 18004002a ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् 18004002c तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् 18004003a दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् 18004003c चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः 18004003e उपास्यमानं वीरेण फल्गुनेन सुवर्चसा 18004004a अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् 18004004c द्वादशादित्यसहितं ददर्श कुरुनन्दनः 18004005a अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् 18004005c भीमसेनमथापश्यत्तेनैव वपुषान्वितम् 18004006a अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा 18004006c नकुलं सहदेवं च ददर्श कुरुनन्दनः 18004007a तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् 18004007c वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् 18004008a अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः 18004008c ततोऽस्य भगवानिन्द्रः कथयामास देवराट् 18004009a श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता 18004009c अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर 18004010a द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता 18004010c रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना 18004011a एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः 18004011c द्रौपद्यास्तनया राजन्युष्माकममितौजसः 18004012a पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् 18004012c एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः 18004013a अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः 18004013c सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः 18004013e आदित्यसहितो याति पश्यैनं पुरुषर्षभ 18004014a साध्यानामथ देवानां वसूनां मरुतामपि 18004014c गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् 18004014e सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् 18004015a सोमेन सहितं पश्य सौभद्रमपराजितम् 18004015c अभिमन्युं महेष्वासं निशाकरसमद्युतिम् 18004016a एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च संगतः 18004016c विमानेन सदाभ्येति पिता तव ममान्तिकम् 18004017a वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् 18004017c द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय 18004018a एते चान्ये महीपाला योधास्तव च पाण्डव 18004018c गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा 18004019a गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः 18004019c त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः 18005001 जनमेजय उवाच 18005001a भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः 18005001c विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा 18005002a धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् 18005002c दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः 18005003a कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः 18005003c घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः 18005004a ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः 18005004c स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे 18005005a आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम 18005005c अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः 18005005e एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज 18005006 सूत उवाच 18005006a इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना 18005006c व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे 18005007 वैशंपायन उवाच 18005007a गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप 18005007c शृणु गुह्यमिदं राजन्देवानां भरतर्षभ 18005007e यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् 18005008a मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः 18005008c अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् 18005009a वसूनेव महातेजा भीष्मः प्राप महाद्युतिः 18005009c अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ 18005010a बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् 18005010c कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् 18005011a सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् 18005011c धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् 18005012a धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी 18005012c पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ 18005013a विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः 18005013c निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः 18005014a भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः 18005014c उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् 18005015a उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः 18005015c विश्वेषां देवतानां ते विविशुर्नरसत्तमाः 18005016a वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् 18005016c सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् 18005017a स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् 18005017c विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः 18005018a आविवेश रविं कर्णः पितरं पुरुषर्षभ 18005018c द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् 18005019a धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः 18005019c ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः 18005019e धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः 18005020a अनन्तो भगवान्देवः प्रविवेश रसातलम् 18005020c पितामहनियोगाद्धि यो योगाद्गामधारयत् 18005021a षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः 18005021c न्यमज्जन्त सरस्वत्यां कालेन जनमेजय 18005021e ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् 18005022a हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः 18005022c घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे 18005023a दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः 18005023c प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् 18005024a भवनं च महेन्द्रस्य कुबेरस्य च धीमतः 18005024c वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः 18005025a एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते 18005025c कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत 18005026 सूत उवाच 18005026a एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः 18005026c विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ 18005027a ततः समापयामासुः कर्म तत्तस्य याजकाः 18005027c आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् 18005028a ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् 18005028c पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् 18005029a विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः 18005029c ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् 18005030a एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् 18005030c व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह 18005031a पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् 18005031c कृष्णेन मुनिना विप्र नियतं सत्यवादिना 18005032a सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता 18005032c अतीन्द्रियेण शुचिना तपसा भावितात्मना 18005033a ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा 18005033c नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा 18005034a कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् 18005034c अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् 18005035a य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि 18005035c धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति 18005036a यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः 18005036c अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते 18005037a अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा 18005037c महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते 18005038a धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ 18005038c यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् 18005039a जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता 18005039c राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता 18005040a स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् 18005040c गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् 18005041a अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः 18005041c संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया 18005042a नारदोऽश्रावयद्देवानसितो देवलः पितॄन् 18005042c रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु 18005043a इतिहासमिमं पुण्यं महार्थं वेदसंमितम् 18005043c श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः 18005044a स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक 18005044c गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः 18005045a भारताध्ययनात्पुण्यादपि पादमधीयतः 18005045c श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः 18005046a महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा 18005046c श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् 18005047a मातापितृसहस्राणि पुत्रदारशतानि च 18005047c संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे 18005048a हर्षस्थानसहस्राणि भयस्थानशतानि च 18005048c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 18005049a ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे 18005049c धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते 18005050a न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः 18005050c नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः 18005051a इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् 18005051c स भारतफलं प्राप्य परं ब्रह्माधिगच्छति 18005052a यथा समुद्रो भगवान्यथा च हिमवान्गिरिः 18005052c ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते 18005053a महाभारतमाख्यानं यः पठेत्सुसमाहितः 18005053c स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः 18005054a द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च 18005054c यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन