% Mahabharata: Asramavasikaparvan % Last updated: Tue May 15 2007 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 15001001 जनमेजय उवाच 15001001a प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः 15001001c कथमासन्महाराजे धृतराष्ट्रे महात्मनि 15001002a स हि राजा हतामात्यो हतपुत्रो निराश्रयः 15001002c कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी 15001003a कियन्तं चैव कालं ते पितरो मम पूर्वकाः 15001003c स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि 15001004 वैशंपायन उवाच 15001004a प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः 15001004c धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् 15001005a धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा 15001005c युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः 15001006a पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् 15001006c चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च 15001007a सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् 15001007c पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः 15001007e ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे 15001008a कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत 15001008c द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः 15001008e समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि 15001009a शयनानि महार्हाणि वासांस्याभरणानि च 15001009c राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः 15001009e युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् 15001010a तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत 15001010c विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः 15001010e उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् 15001011a स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् 15001011c स च तस्मिन्महेष्वासः कृपः समभवत्तदा 15001012a व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह 15001012c कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् 15001013a धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च 15001013c धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् 15001014a सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि 15001014c प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै 15001015a अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा 15001015c न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत् 15001016a विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः 15001016c सर्वान्कामान्महातेजाः प्रददावम्बिकासुते 15001017a आरालिकाः सूपकारा रागखाण्डविकास्तथा 15001017c उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा 15001018a वासांसि च महार्हाणि माल्यानि विविधानि च 15001018c उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः 15001019a मैरेयं मधु मांसानि पानकानि लघूनि च 15001019c चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा 15001020a ये चापि पृथिवीपालाः समाजग्मुः समन्ततः 15001020c उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा 15001021a कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी 15001021c उलूपी नागकन्या च देवी चित्राङ्गदा तथा 15001022a धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा 15001022c किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा 15001023a यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् 15001023c इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः 15001024a एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् 15001024c सविशेषमवर्तन्त भीममेकं विना तदा 15001025a न हि तत्तस्य वीरस्य हृदयादपसर्पति 15001025c धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् 15002001 वैशंपायन उवाच 15002001a एवं संपूजितो राजा पाण्डवैरम्बिकासुतः 15002001c विजहार यथापूर्वमृषिभिः पर्युपासितः 15002002a ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः 15002002c तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत 15002003a आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः 15002003c उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः 15002004a मया चैव भवद्भिश्च मान्य एष नराधिपः 15002004c निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् 15002004e विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः 15002005a परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि 15002005c ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् 15002006a ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः 15002006c ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः 15002007a धर्मराजश्च भीमश्च सव्यसाची यमावपि 15002007c तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया 15002008a कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः 15002008c शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते 15002009a यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् 15002009c बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः 15002010a ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः 15002010c तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने 15002011a धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् 15002011c शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत 15002012a गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः 15002012c आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै 15002013a एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 15002013c भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् 15003001 वैशंपायन उवाच 15003001a स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः 15003001c नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने 15003002a वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु 15003002c प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः 15003003a सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् 15003003c सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव 15003004a प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह 15003004c वैचित्रवीर्ये नृपतौ समाचरति नित्यदा 15003005a यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः 15003005c गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी 15003006a तत्स राजा महाराज पाण्डवानां धुरंधरः 15003006c पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा 15003007a तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः 15003007c अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् 15003008a सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः 15003008c आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् 15003009a ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् 15003009c आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः 15003010a न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः 15003010c यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः 15003011a ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत 15003011c तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा 15003012a यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम् 15003012c अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत 15003013a यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते 15003013c कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः 15003014a न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै 15003014c उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः 15003015a धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा 15003015c शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् 15003016a अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् 15003016c धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः 15003017a राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् 15003017c अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः 15004001 वैशंपायन उवाच 15004001a युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा 15004001c नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति 15004002a यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् 15004002c तदा भीमं हृदा राजन्नपध्याति स पार्थिवः 15004003a तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् 15004003c नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा 15004004a अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः 15004004c आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा 15004005a अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् 15004005c संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः 15004006a स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि 15004006c प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः 15004007a अन्धस्य नृपतेः पुत्रा मया परिघबाहुना 15004007c नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः 15004008a इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ 15004008c ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः 15004009a ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ 15004009c याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः 15004010a एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः 15004010c वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् 15004011a सा च बुद्धिमती देवी कालपर्यायवेदिनी 15004011c गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे 15004012a ततः पञ्चदशे वर्षे समतीते नराधिपः 15004012c राजा निर्वेदमापेदे भीमवाग्बाणपीडितः 15004013a नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः 15004013c श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी 15004014a माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् 15004014c राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम् 15004015a ततः समानयामास धृतराष्ट्रः सुहृज्जनम् 15004015c बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम् 15005001 धृतराष्ट्र उवाच 15005001a विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः 15005001c ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः 15005002a योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् 15005002c दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् 15005003a यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् 15005003c वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः 15005004a पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः 15005004c विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च 15005005a पदे पदे भगवता व्यासेन च महात्मना 15005005c संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् 15005006a यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु 15005006c न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् 15005007a विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः 15005007c एतच्छ्रेयः स परमममन्यत जनार्दनः 15005008a सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा 15005008c हृदये शल्यभूतानि धारयामि सहस्रशः 15005009a विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै 15005009c अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः 15005010a चतुर्थे नियते काले कदाचिदपि चाष्टमे 15005010c तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम 15005011a करोत्याहारमिति मां सर्वः परिजनः सदा 15005011c युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः 15005012a भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः 15005012c नियमव्यपदेशेन गान्धारी च यशस्विनी 15005013a हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम् 15005013c नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः 15005013e इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः 15005014a भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे 15005014c सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः 15005015a महादानानि दत्तानि श्राद्धानि च पुनः पुनः 15005015c प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् 15005015e गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् 15005016a द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः 15005016c समतीता नृशंसास्ते धर्मेण निहता युधि 15005017a न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन 15005017c सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः 15005018a आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे 15005018c गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि 15005019a त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः 15005019c राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् 15005020a अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् 15005020c चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया 15005020e तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः 15005021a उचितं नः कुले तात सर्वेषां भरतर्षभ 15005021c पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप 15005022a तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् 15005022c पत्न्या सहानया वीर चरिष्यामि तपः परम् 15005023a त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि 15005023c फलभाजो हि राजानः कल्याणस्येतरस्य वा 15006001 युधिष्ठिर उवाच 15006001a न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप 15006001c धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् 15006002a योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप 15006002c यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह 15006003a अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना 15006003c विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः 15006004a किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा 15006004c यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् 15006005a पीडितं चापि जानामि राज्यमात्मानमेव च 15006005c अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर 15006006a भवान्पिता भवान्माता भवान्नः परमो गुरुः 15006006c भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् 15006007a औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम 15006007c अस्तु राजा महाराज यं चान्यं मन्यते भवान् 15006008a अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् 15006008c न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि 15006009a नाहं राजा भवान्राजा भवता परवानहम् 15006009c कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे 15006010a न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ 15006010c भवितव्यं तथा तद्धि वयं ते चैव मोहिताः 15006011a वयं हि पुत्रा भवतो यथा दुर्योधनादयः 15006011c गान्धारी चैव कुन्ती च निर्विशेषे मते मम 15006012a स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि 15006012c पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे 15006013a इयं हि वसुसंपूर्णा मही सागरमेखला 15006013c भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् 15006014a भवदीयमिदं सर्वं शिरसा त्वां प्रसादये 15006014c त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः 15006015a भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप 15006015c दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् 15006016 धृतराष्ट्र उवाच 15006016a तापस्ये मे मनस्तात वर्तते कुरुनन्दन 15006016c उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो 15006017a चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया 15006017c वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप 15006018 वैशंपायन उवाच 15006018a इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् 15006018c उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः 15006019a संजयं च महामात्रं कृपं चापि महारथम् 15006019c अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् 15006020a ग्लायते मे मनो हीदं मुखं च परिशुष्यति 15006020c वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि 15006021a इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः 15006021c गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् 15006022a तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् 15006022c आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा 15006023 युधिष्ठिर उवाच 15006023a यस्य नागसहस्रेण दशसंख्येन वै बलम् 15006023c सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् 15006024a आयसी प्रतिमा येन भीमसेनस्य वै पुरा 15006024c चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् 15006025a धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् 15006025c यत्कृते पृथिवीपालः शेतेऽयमतथोचितः 15006026a अहमप्युपवत्स्यामि यथैवायं गुरुर्मम 15006026c यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी 15006027 वैशंपायन उवाच 15006027a ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः 15006027c उरो मुखं च शनकैः पर्यमार्जत धर्मवित् 15006028a तेन रत्नौषधिमता पुण्येन च सुगन्धिना 15006028c पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह 15007001 धृतराष्ट्र उवाच 15007001a स्पृश मां पाणिना भूयः परिष्वज च पाण्डव 15007001c जीवामीव हि संस्पर्शात्तव राजीवलोचन 15007002a मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप 15007002c पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम 15007003a अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे 15007003c येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् 15007004a व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता 15007004c ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम् 15007005a तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो 15007005c लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह 15007006 वैशंपायन उवाच 15007006a एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत 15007006c पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा 15007007a उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः 15007007c बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् 15007008a विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् 15007008c अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः 15007009a गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् 15007009c दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् 15007010a इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः 15007010c नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् 15007011a अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् 15007011c अनुजानीहि मां राजंस्तापस्ये भरतर्षभ 15007012a ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः 15007012c न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि 15007013a तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् 15007013c सर्वेषामवरोधानामार्तनादो महानभूत् 15007014a दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् 15007014c उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् 15007015a धर्मपुत्रः स पितरं परिष्वज्य महाभुजः 15007015c शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् 15007016a न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा 15007016c यथा तव प्रियं राजंश्चिकीर्षामि परंतप 15007017a यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा 15007017c क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् 15007018a ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः 15007018c अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये 15007019a इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् 15007019c ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् 15008001 व्यास उवाच 15008001a युधिष्ठिर महाबाहो यदाह कुरुनन्दनः 15008001c धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् 15008002a अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः 15008002c नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम 15008003a गान्धारी च महाभागा प्राज्ञा करुणवेदिनी 15008003c पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् 15008004a अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः 15008004c अनुज्ञां लभतां राजा मा वृथेह मरिष्यति 15008005a राजर्षीणां पुराणानामनुयातु गतिं नृपः 15008005c राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः 15008006 वैशंपायन उवाच 15008006a इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा 15008006c प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः 15008007a भगवानेव नो मान्यो भगवानेव नो गुरुः 15008007c भगवानस्य राज्यस्य कुलस्य च परायणम् 15008008a अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे 15008008c निदेशवर्ती च पितुः पुत्रो भवति धर्मतः 15008009a इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः 15008009c युधिष्ठिरं महातेजाः पुनरेव विशां पते 15008010a एवमेतन्महाबाहो यथा वदसि भारत 15008010c राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः 15008011a सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते 15008011c करोतु स्वमभिप्रायं मास्य विघ्नकरो भव 15008012a एष एव परो धर्मो राजर्षीणां युधिष्ठिर 15008012c समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् 15008013a पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता 15008013c शिष्यभूतेन राजायं गुरुवत्पर्युपासितः 15008014a क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः 15008014c महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः 15008015a पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि 15008015c त्रयोदशसमा भुक्तं दत्तं च विविधं वसु 15008016a त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः 15008016c आराधितः सभृत्येन गान्धारी च यशस्विनी 15008017a अनुजानीहि पितरं समयोऽस्य तपोविधौ 15008017c न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर 15008018a एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् 15008018c तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् 15008019a गते भगवति व्यासे राजा पाण्डुसुतस्ततः 15008019c प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः 15008020a यदाह भगवान्व्यासो यच्चापि भवतो मतम् 15008020c यदाह च महेष्वासः कृपो विदुर एव च 15008021a युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा 15008021c सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः 15008022a इदं तु याचे नृपते त्वामहं शिरसा नतः 15008022c क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति 15009001 वैशंपायन उवाच 15009001a ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् 15009001c ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा 15009002a मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् 15009002c पदातिः स महीपालो जीर्णो गजपतिर्यथा 15009003a तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः 15009003c स चापि परमेष्वासः कृपः शारद्वतस्तथा 15009004a स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः 15009004c तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा 15009005a गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी 15009005c वधूभिरुपचारेण पूजिताभुङ्क्त भारत 15009006a कृताहारं कृताहाराः सर्वे ते विदुरादयः 15009006c पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् 15009007a ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे 15009007c निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः 15009008a अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन 15009008c अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते 15009009a तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन 15009009c राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् 15009010a विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर 15009010c शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् 15009011a प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि 15009011c कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः 15009012a ते तु संमानिता राजंस्त्वया राज्यहितार्थिना 15009012c प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन 15009013a इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय 15009013c हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा 15009014a अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् 15009014c दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः 15009015a चारयेथाश्च सततं चारैरविदितैः परान् 15009015c परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च 15009016a पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् 15009016c अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम् 15009017a तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च 15009017c सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च 15009018a पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः 15009018c आत्मा च रक्ष्यः सततं भोजनादिषु भारत 15009019a विहाराहारकालेषु माल्यशय्यासनेषु च 15009019c स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः 15009019e शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर 15009020a मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् 15009020c विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् 15009021a तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह 15009021c समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् 15009022a सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः 15009022c अरण्ये निःशलाके वा न च रात्रौ कथंचन 15009023a वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः 15009023c सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः 15009024a मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् 15009024c न ते शक्याः समाधातुं कथंचिदिति मे मतिः 15009025a दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले 15009025c अभेदे च गुणान्राजन्पुनः पुनररिंदम 15009026a पौरजानपदानां च शौचाशौचं युधिष्ठिर 15009026c यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम 15010001 धृतराष्ट्र उवाच 15010001a व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः 15010001c योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः 15010002a परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत 15010002c प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर 15010003a आदानरुचयश्चैव परदाराभिमर्शकाः 15010003c उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा 15010004a आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः 15010004c सभाविहारभेत्तारो वर्णानां च प्रदूषकाः 15010004e हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः 15010005a प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते 15010005c अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः 15010006a पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन् 15010006c दूतानां च चराणां च प्रदोषस्ते सदा भवेत् 15010007a सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये 15010007c मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत् 15010008a सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ 15010008c तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः 15010008e चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः 15010009a कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा 15010009c द्विविधस्य महाराज विपरीतं विवर्जयेः 15010010a चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः 15010010c तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम् 15010011a कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह 15010011c कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः 15010012a सेनाप्रणेता च भवेत्तव तात दृढव्रतः 15010012c शूरः क्लेशसहश्चैव प्रियश्च तव मानवः 15010013a सर्वे जानपदाश्चैव तव कर्माणि पाण्डव 15010013c पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः 15010014a स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च 15010014c उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर 15010015a देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु 15010015c मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया 15010016a गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप 15010016c अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः 15011001 धृतराष्ट्र उवाच 15011001a मण्डलानि च बुध्येथाः परेषामात्मनस्तथा 15011001c उदासीनगुणानां च मध्यमानां तथैव च 15011002a चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् 15011002c मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन 15011003a तथामात्या जनपदा दुर्गाणि विषमाणि च 15011003c बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम् 15011004a ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः 15011004c मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो 15011005a एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः 15011005c अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत् 15011006a वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन 15011006c द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः 15011007a यदा स्वपक्षो बलवान्परपक्षस्तथाबलः 15011007c विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा 15011007e यदा स्वपक्षोऽबलवांस्तदा संधिं समाश्रयेत् 15011008a द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा 15011008c यदा समर्थो यानाय नचिरेणैव भारत 15011009a तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत् 15011009c भूमिरल्पफला देया विपरीतस्य भारत 15011010a हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत् 15011010c विपरीतान्न गृह्णीयात्स्वयं संधिविशारदः 15011011a संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ 15011011c विपरीतस्तु तेऽदेयः पुत्र कस्यांचिदापदि 15011011e तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित् 15011012a प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत् 15011012c क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम् 15011013a पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च 15011013c कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम् 15011014a न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता 15011014c कौन्तेय तं न हिंसेत यो महीं विजिगीषते 15011015a गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः 15011015c साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा 15011016a दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा 15011016c तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः 15011017a यद्येवमभियायाच्च दुर्बलं बलवान्नृपः 15011017c सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत् 15011018a अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः 15011018c कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः 15011019a असंभवे तु सर्वस्य यथामुख्येन निष्पतेत् 15011019c क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम् 15012001 धृतराष्ट्र उवाच 15012001a संधिविग्रहमप्यत्र पश्येथा राजसत्तम 15012001c द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर 15012002a राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः 15012002c तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत् 15012003a पर्युपासनकाले तु विपरीतं विधीयते 15012003c आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः 15012004a व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः 15012004c कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम् 15012005a प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् 15012005c आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः 15012006a उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत 15012006c उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा 15012007a आददीत बलं राजा मौलं मित्रबलं तथा 15012007c अटवीबलं भृतं चैव तथा श्रेणीबलं च यत् 15012008a तत्र मित्रबलं राजन्मौलेन न विशिष्यते 15012008c श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः 15012009a तथा चारबलं चैव परस्परसमं नृप 15012009c विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते 15012010a आपदश्चापि बोद्धव्या बहुरूपा नराधिप 15012010c भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु 15012011a विकल्पा बहवो राजन्नापदां पाण्डुनन्दन 15012011c सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा 15012012a यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप 15012012c संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा 15012013a तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः 15012013c आहूतश्चाप्यथो यायादनृतावपि पार्थिवः 15012014a स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम् 15012014c पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात् 15012015a अथोपपत्त्या शकटं पद्मं वज्रं च भारत 15012015c उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो 15012016a सादयित्वा परबलं कृत्वा च बलहर्षणम् 15012016c स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च 15012017a लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान् 15012017c ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत् 15012018a सर्वथैव महाराज शरीरं धारयेदिह 15012018c प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम् 15012019a एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः 15012019c प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन् 15012020a एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम् 15012020c उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च 15012021a भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च 15012021c मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम 15012022a एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण 15012022c प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि 15012023a अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः 15012023c पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत् 15013001 युधिष्ठिर उवाच 15013001a एवमेतत्करिष्यामि यथात्थ पृथिवीपते 15013001c भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ 15013002a भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने 15013002c विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति 15013003a यत्तु मामनुशास्तीह भवानद्य हिते स्थितः 15013003c कर्तास्म्येतन्महीपाल निर्वृतो भव भारत 15013004 वैशंपायन उवाच 15013004a एवमुक्तः स राजर्षिर्धर्मराजेन धीमता 15013004c कौन्तेयं समनुज्ञातुमियेष भरतर्षभ 15013005a पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः 15013005c इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा 15013006a तमासनगतं देवी गान्धारी धर्मचारिणी 15013006c उवाच काले कालज्ञा प्रजापतिसमं पतिम् 15013007a अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा 15013007c युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि 15013008 धृतराष्ट्र उवाच 15013008a गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना 15013008c युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम् 15013009a अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम् 15013009c पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु 15013009e सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि 15013010 वैशंपायन उवाच 15013010a इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः 15013010c स च तद्वचनात्सर्वं समानिन्ये महीपतिः 15013011a ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा 15013011c सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा 15013011e समवेतांश्च तान्सर्वान्पौरजानपदानथ 15013012a ब्राह्मणांश्च महीपालान्नानादेशसमागतान् 15013012c ततः प्राह महातेजा धृतराष्ट्रो महीपतिः 15013013a शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः 15013013c क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः 15013014a भवन्तः कुरवश्चैव बहुकालं सहोषिताः 15013014c परस्परस्य सुहृदः परस्परहिते रताः 15013015a यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते 15013015c तथा भवद्भिः कर्तव्यमविचार्य वचो मम 15013016a अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे 15013016c व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च 15013016e भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा 15013017a अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती 15013017c न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम 15013018a श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः 15013018c उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः 15013019a युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत् 15013019c मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः 15013020a मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः 15013020c ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ 15013021a तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः 15013021c बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ 15013022a तानविब्रुवतः किंचिद्दुःखशोकपरायणान् 15013022c पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम् 15014001 धृतराष्ट्र उवाच 15014001a शंतनुः पालयामास यथावत्पृथिवीमिमाम् 15014001c तथा विचित्रवीर्यश्च भीष्मेण परिपालितः 15014001e पालयामास वस्तातो विदितं वो नसंशयः 15014002a यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत् 15014002c स चापि पालयामास यथावत्तच्च वेत्थ ह 15014003a मया च भवतां सम्यक्छुश्रूषा या कृतानघाः 15014003c असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः 15014004a यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम् 15014004c अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् 15014005a तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् 15014005c विमर्दः सुमहानासीदनयान्मत्कृतादथ 15014006a तन्मया साधु वापीदं यदि वासाधु वै कृतम् 15014006c तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ 15014007a वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः 15014007c पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत 15014008a इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी 15014008c गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया 15014009a हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा 15014009c अनुजानीत भद्रं वो व्रजावः शरणं च वः 15014010a अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः 15014010c सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च 15014010e न जातु विषमं चैव गमिष्यति कदाचन 15014011a चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः 15014011c लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः 15014012a ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः 15014012c युधिष्ठिरो महातेजा भवतः पालयिष्यति 15014013a अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः 15014013c एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः 15014013e भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः 15014014a यद्येव तैः कृतं किंचिद्व्यलीकं वा सुतैर्मम 15014014c यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ 15014015a भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन 15014015c अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः 15014016a तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् 15014016c कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः 15014017a इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः 15014017c नोचुर्बाष्पकलाः किंचिद्वीक्षां चक्रुः परस्परम् 15015001 वैशंपायन उवाच 15015001a एवमुक्तास्तु ते तेन पौरजानपदा जनाः 15015001c वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् 15015002a तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः 15015002c धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत 15015003a वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया 15015003c विलपन्तं बहुविधं कृपणं चैव सत्तमाः 15015004a पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै 15015004c वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च 15015005a सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः 15015005c गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ 15015006a श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते 15015006c रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः 15015007a उत्तरीयैः करैश्चापि संछाद्य वदनानि ते 15015007c रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् 15015008a हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् 15015008c दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन् 15015009a ते विनीय तमायासं कुरुराजवियोगजम् 15015009c शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत 15015010a ततः संधाय ते सर्वे वाक्यान्यथ समासतः 15015010c एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम् 15015011a ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः 15015011c साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे 15015012a अनुमान्य महाराजं तत्सदः संप्रभाष्य च 15015012c विप्रः प्रगल्भो मेधावी स राजानमुवाच ह 15015013a राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् 15015013c वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप 15015014a यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो 15015014c नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम् 15015015a न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन 15015015c राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत् 15015016a पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः 15015016c न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप 15015017a यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः 15015017c तथा कुरु महाराज स हि नः परमो गुरुः 15015018a त्यक्ता वयं तु भवता दुःखशोकपरायणाः 15015018c भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः 15015019a यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च 15015019c भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव 15015020a भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता 15015020c तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः 15015021a न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप 15015021c पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे 15015021e वयमास्म यथा सम्यग्भवतो विदितं तथा 15015022a तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता 15015022c पाल्यमाना धृतिमता सुखं विन्दामहे नृप 15015023a राजर्षीणां पुराणानां भवतां वंशधारिणाम् 15015023c कुरुसंवरणादीनां भरतस्य च धीमतः 15015024a वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः 15015024c नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते 15015025a उषिताः स्म सुखं नित्यं भवता परिपालिताः 15015025c सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते 15015026a यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति 15015026c भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन 15016001 ब्राह्मण उवाच 15016001a न तद्दुर्योधनकृतं न च तद्भवता कृतम् 15016001c न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः 15016002a दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् 15016002c दैवं पुरुषकारेण न शक्यमतिवर्तितुम् 15016003a अक्षौहिण्यो महाराज दशाष्टौ च समागताः 15016003c अष्टादशाहेन हता दशभिर्योधपुंगवैः 15016004a भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना 15016004c युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह 15016005a चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप 15016005c जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः 15016006a अवश्यमेव संग्रामे क्षत्रियेण विशेषतः 15016006c कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना 15016007a तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः 15016007c पृथिवी निहता सर्वा सहया सरथद्विपा 15016008a न स राजापराध्नोति पुत्रस्तव महामनाः 15016008c न भवान्न च ते भृत्या न कर्णो न च सौबलः 15016009a यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः 15016009c सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति 15016010a गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः 15016010c धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् 15016011a लभतां वीरलोकान्स ससहायो नराधिपः 15016011c द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी 15016012a प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् 15016012c वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम 15016013a दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः 15016013c समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः 15016014a अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च 15016014c प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् 15016015a ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव 15016015c पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः 15016016a दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा 15016016c अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः 15016017a अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ 15016017c ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा 15016018a विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै 15016018c न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः 15016019a मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः 15016019c वीर्यवन्तो महात्मानः पौराणां च हिते रताः 15016020a न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती 15016020c अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् 15016021a भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् 15016021c न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः 15016022a अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः 15016022c मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः 15016023a स राजन्मानसं दुःखमपनीय युधिष्ठिरात् 15016023c कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ 15016024 वैशंपायन उवाच 15016024a तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् 15016024c साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् 15016025a धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः 15016025c विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः 15016026a स तैः संपूजितो राजा शिवेनावेक्षितस्तदा 15016026c प्राञ्जलिः पूजयामास तं जनं भरतर्षभ 15016027a ततो विवेश भुवनं गान्धार्या सहितो नृपः 15016027c व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् 15017001 वैशंपायन उवाच 15017001a व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः 15017001c विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् 15017002a स गत्वा राजवचनादुवाचाच्युतमीश्वरम् 15017002c युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः 15017003a धृतराष्ट्रो महाराज वनवासाय दीक्षितः 15017003c गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् 15017004a स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति 15017004c श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः 15017005a द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः 15017005c पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः 15017005e यदि चाभ्यनुजानीषे सैन्धवापसदस्य च 15017006a एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः 15017006c हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः 15017007a न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा 15017007c विदुरस्य महातेजा दुर्योधनकृतं स्मरन् 15017008a अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः 15017008c किरीटी किंचिदानम्य भीमं वचनमब्रवीत् 15017009a भीम राजा पिता वृद्धो वनवासाय दीक्षितः 15017009c दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् 15017010a भवता निर्जितं वित्तं दातुमिच्छति कौरवः 15017010c भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि 15017011a दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति 15017011c याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् 15017012a योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः 15017012c परैर्विनिहतापत्यो वनं गन्तुमभीप्सति 15017013a मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् 15017013c अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज 15017014a राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् 15017014c अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ 15017014e एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् 15017015a भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा 15017015c वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन 15017016a सोमदत्तस्य नृपतेर्भूरिश्रवस एव च 15017016c बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः 15017017a अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति 15017017c श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः 15017018a इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः 15017018c कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः 15017018e यैरियं पृथिवी सर्वा घातिता कुलपांसनैः 15017019a कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् 15017019c अज्ञातवासगमनं द्रौपदीशोकवर्धनम् 15017019e क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा 15017020a कृष्णाजिनोपसंवीतो हृताभरणभूषणः 15017020c सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् 15017020e क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् 15017021a यत्र त्रयोदश समा वने वन्येन जीवसि 15017021c न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते 15017022a किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः 15017022c दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत 15017023a तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः 15017023c उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् 15018001 अर्जुन उवाच 15018001a भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे 15018001c धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति 15018002a न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च 15018002c असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः 15018003a इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् 15018003c यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् 15018004a भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् 15018004c मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः 15018005 वैशंपायन उवाच 15018005a इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् 15018005c भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम् 15018006a ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः 15018006c न भीमसेने कोपं स नृपतिः कर्तुमर्हति 15018007a परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः 15018007c दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव 15018008a किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् 15018008c यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति 15018009a यन्मात्सर्यमयं भीमः करोति भृशदुःखितः 15018009c न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः 15018010a यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि 15018010c तस्य स्वामी महाराज इति वाच्यः स पार्थिवः 15018011a ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः 15018011c पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः 15018012a इदं चापि शरीरं मे तवायत्तं जनाधिप 15018012c धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः 15019001 वैशंपायन उवाच 15019001a एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः 15019001c धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् 15019002a उक्तो युधिष्ठिरो राजा भवद्वचनमादितः 15019002c स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः 15019003a बीभत्सुश्च महातेजा निवेदयति ते गृहान् 15019003c वसु तस्य गृहे यच्च प्राणानपि च केवलान् 15019004a धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च 15019004c अनुजानाति राजर्षे यच्चान्यदपि किंचन 15019005a भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत 15019005c कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् 15019006a स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा 15019006c अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च 15019007a न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट् 15019007c संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् 15019008a एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप 15019008c युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः 15019009a वृकोदरकृते चाहमर्जुनश्च पुनः पुनः 15019009c प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् 15019010a प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव 15019010c त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत 15019011a ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् 15019011c इतो रत्नानि गाश्चैव दासीदासमजाविकम् 15019012a आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु 15019012c दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया 15019013a बह्वन्नरसपानाढ्याः सभा विदुर कारय 15019013c गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् 15019014a इति मामब्रवीद्राजा पार्थश्चैव धनंजयः 15019014c यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति 15019015a इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत् 15019015c मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय 15020001 वैशंपायन उवाच 15020001a विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः 15020001c प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा 15020002a ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् 15020002c पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः 15020003a कारयित्वान्नपानानि यानान्याच्छादनानि च 15020003c सुवर्णमणिरत्नानि दासीदासपरिच्छदान् 15020004a कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम् 15020004c अलंकारान्गजानश्वान्कन्याश्चैव वरस्त्रियः 15020004e आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः 15020005a द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् 15020005c दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् 15020005e जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः 15020006a स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः 15020006c अनेकधनरत्नौघो युधिष्ठिरमते तदा 15020007a अनिशं यत्र पुरुषा गणका लेखकास्तथा 15020007c युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम् 15020008a आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति 15020008c तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते 15020009a शते देये दशशतं सहस्रे चायुतं तथा 15020009c दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः 15020010a एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः 15020010c तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः 15020011a ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः 15020011c अन्नपानरसौघेन प्लावयामास पार्थिवः 15020012a सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः 15020012c गवाश्वमकरावर्तो नारीरत्नमहाकरः 15020013a ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः 15020013c जगत्संप्लावयामास धृतराष्ट्रदयाम्बुधिः 15020014a एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा 15020014c गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम् 15020015a परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः 15020015c ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः 15020016a एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम् 15020016c नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् 15020017a दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः 15020017c बभूव पुत्रपौत्राणामनृणो भरतर्षभ 15021001 वैशंपायन उवाच 15021001a ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः 15021001c आहूय पाण्डवान्वीरान्वनवासकृतक्षणः 15021002a गान्धारीसहितो धीमानभिनन्द्य यथाविधि 15021002c कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः 15021003a अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः 15021003c वधूपरिवृतो राजा निर्ययौ भवनात्ततः 15021004a ततः स्त्रियः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः 15021004c तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते 15021005a ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजयित्वा 15021005c संयोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः 15021006a ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः 15021006c विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ 15021007a तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः 15021007c युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः 15021008a वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश्च 15021008c वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः 15021009a कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती 15021009c राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः 15021010a तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च 15021010c चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः 15021011a तासां नादो रुदतीनां तदासी;द्राजन्दुःखात्कुररीणामिवोच्चैः 15021011c ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात् 15021012a तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वयेऽतीव बभूव राजन् 15021012c यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभायाम् 15021013a या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे 15021013c महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः 15022001 वैशंपायन उवाच 15022001a ततः प्रासादहर्म्येषु वसुधायां च पार्थिव 15022001c स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् 15022002a स राजा राजमार्गेण नृनारीसंकुलेन च 15022002c कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः 15022003a स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् 15022003c विसर्जयामास च तं जनौघं स मुहुर्मुहुः 15022004a वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः 15022004c संजयश्च महामात्रः सूतो गावल्गणिस्तथा 15022005a कृपं निवर्तयामास युयुत्सुं च महारथम् 15022005c धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे 15022006a निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा 15022006c धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः 15022007a सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ 15022007c अहं राजानमन्विष्ये भवती विनिवर्तताम् 15022008a वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि 15022008c राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः 15022009a इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना 15022009c जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह 15022010a सहदेवे महाराज मा प्रमादं कृथाः क्वचित् 15022010c एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा 15022011a कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम् 15022011c अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा 15022012a आयसं हृदयं नूनं मन्दाया मम पुत्रक 15022012c यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते 15022013a एवंगते तु किं शक्यं मया कर्तुमरिंदम 15022013c मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः 15022013e तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् 15022014a सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन 15022014c द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन 15022015a भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह 15022015c समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता 15022016a श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् 15022016c गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी 15022017a एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी 15022017c विषादमगमत्तीव्रं न च किंचिदुवाच ह 15022018a स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः 15022018c उवाच मातरं दीनश्चिन्ताशोकपरायणः 15022019a किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि 15022019c न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि 15022020a व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने 15022020c विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि 15022021a निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया 15022021c तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् 15022022a क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया 15022022c क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि 15022023a अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् 15022023c कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे 15022024a इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती 15022024c जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् 15022025a यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् 15022025c प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः 15022026a किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् 15022026c कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि 15022027a वनाच्चापि किमानीता भवत्या बालका वयम् 15022027c दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा 15022028a प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि 15022028c श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् 15022029a इति सा निश्चितैवाथ वनवासकृतक्षणा 15022029c लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः 15022030a द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा 15022030c वनवासाय गच्छन्तीं रुदती भद्रया सह 15022031a सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती 15022031c जगामैव महाप्राज्ञा वनाय कृतनिश्चया 15022032a अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा 15022032c ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् 15023001 कुन्त्युवाच 15023001a एवमेतन्महाबाहो यथा वदसि पाण्डव 15023001c कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप 15023002a द्यूतापहृतराज्यानां पतितानां सुखादपि 15023002c ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया 15023003a कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः 15023003c यशश्च वो न नश्येत इति चोद्धर्षणं कृतम् 15023004a यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः 15023004c मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया 15023005a कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः 15023005c पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम् 15023006a नागायुतसमप्राणः ख्यातविक्रमपौरुषः 15023006c नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम् 15023007a भीमसेनादवरजस्तथायं वासवोपमः 15023007c विजयो नावसीदेत इति चोद्धर्षणं कृतम् 15023008a नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ 15023008c क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम् 15023009a इयं च बृहती श्यामा श्रीमत्यायतलोचना 15023009c वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम् 15023010a प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव 15023010c स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम् 15023011a दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत 15023011c तदैव विदितं मह्यं पराभूतमिदं कुलम् 15023012a विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः 15023012c यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा 15023013a केशपक्षे परामृष्टा पापेन हतबुद्धिना 15023013c यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप 15023014a युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम् 15023014c तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः 15023015a कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम 15023015c पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम् 15023016a न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव 15023016c लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति 15023017a भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा 15023017c महादानानि दत्तानि पीतः सोमो यथाविधि 15023018a साहं नात्मफलार्थं वै वासुदेवमचूचुदम् 15023018c विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम् 15023019a नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम् 15023019c पतिलोकानहं पुण्यान्कामये तपसा विभो 15023020a श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः 15023020c तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् 15023021a निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह 15023021c धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च 15024001 वैशंपायन उवाच 15024001a कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम 15024001c व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः 15024002a ततः शब्दो महानासीत्सर्वेषामेव भारत 15024002c अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् 15024003a प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा 15024003c अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै 15024004a ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः 15024004c गान्धारीं विदुरं चैव समाभाष्य निगृह्य च 15024005a युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् 15024005c यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि 15024006a पुत्रैश्वर्यं महदिदमपास्य च महाफलम् 15024006c का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् 15024007a राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् 15024007c अनया शक्यमद्येह श्रूयतां च वचो मम 15024008a गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै 15024008c तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि 15024009a इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह 15024009c तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् 15024010a न च सा वनवासाय देवीं कृतमतिं तदा 15024010c शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् 15024011a तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः 15024011c निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा 15024012a उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च 15024012c ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा 15024013a पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः 15024013c यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा 15024014a तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् 15024014c नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् 15024015a सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः 15024015c कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः 15024016a धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् 15024016c ततो भागीरथीतीरे निवासमकरोत्प्रभुः 15024017a प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः 15024017c व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः 15024017e प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः 15024018a स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा 15024018c संध्यागतं सहस्रांशुमुपातिष्ठत भारत 15024019a विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः 15024019c चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः 15024020a गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ 15024020c युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता 15024021a तेषां संश्रवणे चापि निषेदुर्विदुरादयः 15024021c याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः 15024022a प्राधीतद्विजमुख्या सा संप्रज्वालितपावका 15024022c बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी 15024023a ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः 15024023c हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् 15024023e उदङ्मुखा निरीक्षन्त उपवासपरायणाः 15024024a स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि 15024024c शोचतां शोच्यमानानां पौरजानपदैर्जनैः 15025001 वैशंपायन उवाच 15025001a ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते 15025001c निवासमकरोद्राजा विदुरस्य मते स्थितः 15025002a तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः 15025002c क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ 15025003a स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् 15025003c अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च 15025004a सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह 15025004c चकार विधिवच्छौचं गान्धारी च यशस्विनी 15025005a तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत 15025005c चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः 15025006a कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा 15025006c गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् 15025007a राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः 15025007c जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः 15025008a ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः 15025008c सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः 15025009a तत्राश्रमपदं धीमानभिगम्य स पार्थिवः 15025009c आससादाथ राजर्षिः शतयूपं मनीषिणम् 15025010a स हि राजा महानासीत्केकयेषु परंतपः 15025010c स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् 15025011a तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा 15025011c तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् 15025012a स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः 15025012c शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा 15025013a तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः 15025013c आरण्यकं महाराज व्यासस्यानुमते तदा 15025014a एवं स तपसा राजा धृतराष्ट्रो महामनाः 15025014c योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा 15025015a तथैव देवी गान्धारी वल्कलाजिनवासिनी 15025015c कुन्त्या सह महाराज समानव्रतचारिणी 15025016a कर्मणा मनसा वाचा चक्षुषा चापि ते नृप 15025016c संनियम्येन्द्रियग्राममास्थिताः परमं तपः 15025017a त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः 15025017c स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः 15025018a क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससंजयस्तं नृपतिं सदारम् 15025018c उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः 15026001 वैशंपायन उवाच 15026001a ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः 15026001c नारदः पर्वतश्चैव देवलश्च महातपाः 15026002a द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः 15026002c शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः 15026003a तेषां कुन्ती महाराज पूजां चक्रे यथाविधि 15026003c ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया 15026004a तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः 15026004c रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् 15026005a कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा 15026005c कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् 15026006a पुरा प्रजापतिसमो राजासीदकुतोभयः 15026006c सहस्रचित्य इत्युक्तः शतयूपपितामहः 15026007a स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके 15026007c सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः 15026008a स गत्वा तपसः पारं दीप्तस्य स नराधिपः 15026008c पुरंदरस्य संस्थानं प्रतिपेदे महामनाः 15026009a दृष्टपूर्वः स बहुशो राजन्संपतता मया 15026009c महेन्द्रसदने राजा तपसा दग्धकिल्बिषः 15026010a तथा शैलालयो राजा भगदत्तपितामहः 15026010c तपोबलेनैव नृपो महेन्द्रसदनं गतः 15026011a तथा पृषध्रो नामासीद्राजा वज्रधरोपमः 15026011c स चापि तपसा लेभे नाकपृष्ठमितो नृपः 15026012a अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः 15026012c पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् 15026013a भार्या समभवद्यस्य नर्मदा सरितां वरा 15026013c सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः 15026014a शशलोमा च नामासीद्राजा परमधार्मिकः 15026014c स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् 15026015a द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् 15026015c राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि 15026016a त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः 15026016c गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् 15026017a पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः 15026017c त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति 15026018a तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी 15026018c भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव 15026019a युधिष्ठिरस्य जननी स हि धर्मः सनातनः 15026019c वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा 15026020a प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् 15026020c संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति 15026021a एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् 15026021c विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय 15026022a तथा सर्वे नारदं विप्रसंघाः; संपूजयामासुरतीव राजन् 15026022c राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम् 15027001 वैशंपायन उवाच 15027001a नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः 15027001c शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् 15027002a अहो भगवता श्रद्धा कुरुराजस्य वर्धिता 15027002c सर्वस्य च जनस्यास्य मम चैव महाद्युते 15027003a अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु 15027003c धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित 15027004a सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा 15027004c युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् 15027005a उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् 15027005c न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने 15027006a स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो 15027006c त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः 15027007a इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् 15027007c व्याजहार सतां मध्ये दिव्यदर्शी महातपाः 15027008a यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् 15027008c दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् 15027009a तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप 15027009c तपसो दुश्चरस्यास्य यदयं तप्यते नृपः 15027010a तत्राहमिदमश्रौषं शक्रस्य वदतो नृप 15027010c वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः 15027011a ततः कुबेरभवनं गान्धारीसहितो नृपः 15027011c विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः 15027012a कामगेन विमानेन दिव्याभरणभूषितः 15027012c ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः 15027013a संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् 15027013c स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि 15027014a देवगुह्यमिदं प्रीत्या मया वः कथितं महत् 15027014c भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः 15027015a इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः 15027015c सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः 15027016a एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः 15027016c विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः 15028001 वैशंपायन उवाच 15028001a वनं गते कौरवेन्द्रे दुःखशोकसमाहताः 15028001c बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः 15028002a तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् 15028002c कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति 15028003a कथं नु राजा वृद्धः स वने वसति निर्जने 15028003c गान्धारी च महाभागा सा च कुन्ती पृथा कथम् 15028004a सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् 15028004c किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः 15028005a सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती 15028005c राज्यश्रियं परित्यज्य वनवासमरोचयत् 15028006a विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् 15028006c स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः 15028007a आकुमारं च पौरास्ते चिन्ताशोकसमाहताः 15028007c तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् 15028008a पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः 15028008c शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे 15028009a तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् 15028009c गान्धारीं च महाभागां विदुरं च महामतिम् 15028010a नैषां बभूव संप्रीतिस्तान्विचिन्तयतां तदा 15028010c न राज्ये न च नारीषु न वेदाध्ययने तथा 15028011a परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् 15028011c तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः 15028012a अभिमन्योश्च बालस्य विनाशं रणमूर्धनि 15028012c कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः 15028013a तथैव द्रौपदेयानामन्येषां सुहृदामपि 15028013c वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् 15028014a हतप्रवीरां पृथिवीं हतरत्नां च भारत 15028014c सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे 15028015a द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी 15028015c नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् 15028016a वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् 15028016c धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः 15029001 वैशंपायन उवाच 15029001a एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः 15029001c स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः 15029002a ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन् 15029002c ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे 15029003a आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन 15029003c संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन् 15029004a ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः 15029004c शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन् 15029005a अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः 15029005c कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा 15029006a कथं च स महीपालो हतपुत्रो निराश्रयः 15029006c पत्न्या सह वसत्येको वने श्वापदसेविते 15029007a सा च देवी महाभागा गान्धारी हतबान्धवा 15029007c पतिमन्धं कथं वृद्धमन्वेति विजने वने 15029008a एवं तेषां कथयतामौत्सुक्यमभवत्तदा 15029008c गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया 15029009a सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत् 15029009c अहो मे भवतो दृष्टं हृदयं गमनं प्रति 15029010a न हि त्वा गौरवेणाहमशकं वक्तुमात्मना 15029010c गमनं प्रति राजेन्द्र तदिदं समुपस्थितम् 15029011a दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम् 15029011c जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम् 15029012a प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम् 15029012c कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम् 15029013a अनित्याः खलु मर्त्यानां गतयो भरतर्षभ 15029013c कुन्ती राजसुता यत्र वसत्यसुखिनी वने 15029014a सहदेववचः श्रुत्वा द्रौपदी योषितां वरा 15029014c उवाच देवी राजानमभिपूज्याभिनन्द्य च 15029015a कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा 15029015c जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप 15029016a एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः 15029016c योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि 15029017a अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम् 15029017c काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च 15029018a इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ 15029018c सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत् 15029019a निर्यातयत मे सेनां प्रभूतरथकुञ्जराम् 15029019c द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम् 15029020a स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे 15029020c सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः 15029021a शकटापणवेशाश्च कोशशिल्पिन एव च 15029021c निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति 15029022a यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम् 15029022c अनावृतः सुविहितः स च यातु सुरक्षितः 15029023a सूदाः पौरोगवाश्चैव सर्वं चैव महानसम् 15029023c विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम 15029024a प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम् 15029024c क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च 15029025a एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः 15029025c श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः 15029026a स बहिर्दिवसानेवं जनौघं परिपालयन् 15029026c न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति 15030001 वैशंपायन उवाच 15030001a आज्ञापयामास ततः सेनां भरतसत्तमः 15030001c अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः 15030002a योगो योग इति प्रीत्या ततः शब्दो महानभूत् 15030002c क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति 15030003a केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः 15030003c रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः 15030004a गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप 15030004c पदातिनस्तथैवान्ये नखरप्रासयोधिनः 15030005a पौरजानपदाश्चैव यानैर्बहुविधैस्तथा 15030005c अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया 15030006a स चापि राजवचनादाचार्यो गौतमः कृपः 15030006c सेनामादाय सेनानी प्रययावाश्रमं प्रति 15030007a ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः 15030007c संस्तूयमानो बहुभिः सूतमागधबन्दिभिः 15030008a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 15030008c रथानीकेन महता निर्ययौ कुरुनन्दनः 15030009a गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः 15030009c सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः 15030010a माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ 15030010c जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ 15030011a अर्जुनश्च महातेजा रथेनादित्यवर्चसा 15030011c वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम् 15030012a द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः 15030012c स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु 15030013a समृद्धनरनागाश्वं वेणुवीणानिनादितम् 15030013c शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ 15030014a नदीतीरेषु रम्येषु सरत्सु च विशां पते 15030014c वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः 15030015a युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः 15030015c युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः 15030016a ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत् 15030016c क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम् 15030017a स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः 15030017c शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह 15030018a ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा 15030018c विवेश सुमहानादैरापूर्य भरतर्षभ 15031001 वैशंपायन उवाच 15031001a ततस्ते पाण्डवा दूरादवतीर्य पदातयः 15031001c अभिजग्मुर्नरपतेराश्रमं विनयानताः 15031002a स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः 15031002c स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा 15031003a आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः 15031003c शून्यं मृगगणाकीर्णं कदलीवनशोभितम् 15031004a ततस्तत्र समाजग्मुस्तापसा विविधव्रताः 15031004c पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः 15031005a तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् 15031005c पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः 15031006a तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् 15031006c पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो 15031007a तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा 15031007c ददृशुश्चाविदूरे तान्सर्वानथ पदातयः 15031008a ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः 15031008c सहदेवस्तु वेगेन प्राधावद्येन सा पृथा 15031009a सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् 15031009c सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम् 15031010a बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् 15031010c गान्धार्याः कथयामास सहदेवमुपस्थितम् 15031011a अनन्तरं च राजानं भीमसेनमथार्जुनम् 15031011c नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे 15031012a सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः 15031012c कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि 15031013a तान्राजा स्वरयोगेन स्पर्शेन च महामनाः 15031013c प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः 15031014a ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् 15031014c उपतस्थुर्महात्मानो मातरं च यथाविधि 15031015a सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा 15031015c पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः 15031016a ततो नार्यो नृसिंहानां स च योधजनस्तदा 15031016c पौरजानपदाश्चैव ददृशुस्तं नराधिपम् 15031017a निवेदयामास तदा जनं तं नामगोत्रतः 15031017c युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत् 15031018a स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः 15031018c राजात्मानं गृहगतं पुरेव गजसाह्वये 15031019a अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः 15031019c गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत 15031020a ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् 15031020c दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव 15032001 वैशंपायन उवाच 15032001a स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ 15032001c राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे 15032002a तापसैश्च महाभागैर्नानादेशसमागतैः 15032002c द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः 15032003a तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः 15032003c भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी 15032004a तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः 15032004c संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः 15032005a य एष जाम्बूनदशुद्धगौर;तनुर्महासिंह इव प्रवृद्धः 15032005c प्रचण्डघोणः पृथुदीर्घनेत्र;स्ताम्रायतास्यः कुरुराज एषः 15032006a अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः 15032006c पृथ्वायतांसः पृथुदीर्घबाहु;र्वृकोदरः पश्यत पश्यतैनम् 15032007a यस्त्वेष पार्श्वेऽस्य महाधनुष्मा;ञ्श्यामो युवा वारणयूथपाभः 15032007c सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः 15032008a कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ 15032008c मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले 15032009a इयं पुनः पद्मदलायताक्षी; मध्यं वयः किंचिदिव स्पृशन्ती 15032009c नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः 15032010a अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी 15032010c मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य 15032011a इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा 15032011c पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः 15032012a इयं च राज्ञो मगधाधिपस्य; सुता जरासंध इति श्रुतस्य 15032012c यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी 15032013a इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च 15032013c भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी 15032014a इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा 15032014c भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः 15032015a एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः 15032015c राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः 15032016a एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः 15032016c सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः 15032017a एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः 15032017c पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु 15032018a योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् 15032018c स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् 15033001 धृतराष्ट्र उवाच 15033001a युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि 15033001c सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा 15033002a ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः 15033002c सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो 15033003a कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् 15033003c कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते 15033004a अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः 15033004c ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि 15033005a कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ 15033005c शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा 15033006a कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः 15033006c अतिथींश्चान्नपानेन कच्चिदर्चसि भारत 15033007a कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव 15033007c क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः 15033008a कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते 15033008c जामयः पूजिताः कच्चित्तव गेहे नरर्षभ 15033009a कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् 15033009c यथोचितं महाराज यशसा नावसीदति 15033010 वैशंपायन उवाच 15033010a इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत 15033010c कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि 15033011a कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते 15033011c अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा 15033011e अप्यस्याः सफलो राजन्वनवासो भविष्यति 15033012a इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता 15033012c घोरेण तपसा युक्ता देवी कच्चिन्न शोचति 15033013a हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् 15033013c नापध्यायति वा कच्चिदस्मान्पापकृतः सदा 15033014a क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् 15033014c संजयः कुशली चायं कच्चिन्नु तपसि स्थितः 15033015a इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् 15033015c कुशली विदुरः पुत्र तपो घोरं समास्थितः 15033016a वायुभक्षो निराहारः कृशो धमनिसंततः 15033016c कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् 15033017a इत्येवं वदतस्तस्य जटी वीटामुखः कृशः 15033017c दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः 15033018a दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः 15033018c निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति 15033019a तमन्वधावन्नृपतिरेक एव युधिष्ठिरः 15033019c प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् 15033020a भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः 15033020c इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत 15033021a ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः 15033021c विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे 15033022a तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् 15033022c अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः 15033023a युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः 15033023c विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया 15033024a ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत 15033024c संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः 15033025a विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह 15033025c प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च 15033026a स योगबलमास्थाय विवेश नृपतेस्तनुम् 15033026c विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव 15033027a विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् 15033027c वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् 15033028a बलवन्तं तथात्मानं मेने बहुगुणं तदा 15033028c धर्मराजो महातेजास्तच्च सस्मार पाण्डवः 15033029a पौराणमात्मनः सर्वं विद्यावान्स विशां पते 15033029c योगधर्मं महातेजा व्यासेन कथितं यथा 15033030a धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा 15033030c दग्धुकामोऽभवद्विद्वानथ वै वागभाषत 15033031a भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् 15033031c कलेवरमिहैतत्ते धर्म एष सनातनः 15033032a लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव 15033032c यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप 15033033a इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः 15033033c राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् 15033034a ततः स राजा द्युतिमान्स च सर्वो जनस्तदा 15033034c भीमसेनादयश्चैव परं विस्मयमागताः 15033035a तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् 15033035c आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् 15033036a यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः 15033036c इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् 15033036e फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः 15033037a ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः 15033037c तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः 15034001 वैशंपायन उवाच 15034001a एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम् 15034001c शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत 15034002a तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः 15034002c विचित्रपदसंचारा नानाश्रुतिभिरन्विताः 15034003a पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा 15034003c उत्सृज्य सुमहार्हाणि शयनानि नराधिप 15034004a यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः 15034004c तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा 15034005a व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः 15034005c भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम् 15034006a सान्तःपुरपरीवारः सभृत्यः सपुरोहितः 15034006c यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया 15034007a ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः 15034007c कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः 15034008a वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि 15034008c ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः 15034009a मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः 15034009c अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो 15034010a केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः 15034010c कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः 15034011a प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम् 15034011c फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम् 15034012a ततः स राजा प्रददौ तापसार्थमुपाहृतान् 15034012c कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि 15034013a अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः 15034013c कमण्डलूंस्तथा स्थालीः पिठराणि च भारत 15034014a भाजनानि च लौहानि पात्रीश्च विविधा नृप 15034014c यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम् 15034015a एवं स राजा धर्मात्मा परीत्याश्रममण्डलम् 15034015c वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः 15034016a कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम् 15034016c ददर्शासीनमव्यग्रं गान्धारीसहितं तदा 15034017a मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम् 15034017c कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम् 15034018a स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः 15034018c निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह 15034019a भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम् 15034019c अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया 15034020a स तैः परिवृतो राजा शुशुभेऽतीव कौरवः 15034020c बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः 15034021a तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः 15034021c शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः 15034022a व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः 15034022c वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम् 15034023a ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान् 15034023c भीमसेनादयश्चैव समुत्थायाभ्यपूजयन् 15034024a समागतस्ततो व्यासः शतयूपादिभिर्वृतः 15034024c धृतराष्ट्रं महीपालमास्यतामित्यभाषत 15034025a नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम् 15034025c प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम् 15034026a ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः 15034026c द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः 15035001 वैशंपायन उवाच 15035001a तथा समुपविष्टेषु पाण्डवेषु महात्मसु 15035001c व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् 15035002a धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः 15035002c कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप 15035003a कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः 15035003c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ 15035004a कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् 15035004c कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते 15035005a महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी 15035005c आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति 15035006a कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहंकृता 15035006c या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता 15035007a कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः 15035007c भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः 15035008a कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः 15035008c कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप 15035009a एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत 15035009c निर्वैरता महाराज सत्यमद्रोह एव च 15035010a कच्चित्ते नानुतापोऽस्ति वनवासेन भारत 15035010c स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो 15035011a विदितं चापि मे राजन्विदुरस्य महात्मनः 15035011c गमनं विधिना येन धर्मस्य सुमहात्मनः 15035012a माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः 15035012c महाबुद्धिर्महायोगी महात्मा सुमहामनाः 15035013a बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः 15035013c न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः 15035014a तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम् 15035014c माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः 15035015a नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च 15035015c वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः 15035016a भ्राता तव महाराज देवदेवः सनातनः 15035016c धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः 15035017a सत्येन संवर्धयति दमेन नियमेन च 15035017c अहिंसया च दानेन तपसा च सनातनः 15035018a येन योगबलाज्जातः कुरुराजो युधिष्ठिरः 15035018c धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना 15035019a यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा 15035019c यथाकाशं तथा धर्म इह चामुत्र च स्थितः 15035020a सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम् 15035020c दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः 15035021a यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः 15035021c स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः 15035022a प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः 15035022c दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः 15035023a त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ 15035023c संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक 15035024a न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः 15035024c आश्चर्यभूतं तपसः फलं संदर्शयामि वः 15035025a किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम् 15035025c द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा 15036001 जनमेजय उवाच 15036001a वनवासं गते विप्र धृतराष्ट्रे महीपतौ 15036001c सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते 15036002a विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते 15036002c वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले 15036003a यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह 15036003c व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे 15036004a वनवासे च कौरव्यः कियन्तं कालमच्युतः 15036004c युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज 15036005a किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो 15036005c सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ 15036006 वैशंपायन उवाच 15036006a तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः 15036006c विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते 15036007a मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने 15036007c अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ 15036008a तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ 15036008c व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे 15036009a नारदः पर्वतश्चैव देवलश्च महातपाः 15036009c विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत 15036010a तेषामपि यथान्यायं पूजां चक्रे महामनाः 15036010c धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः 15036011a निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् 15036011c आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च 15036012a तेषु तत्रोपविष्टेषु स तु राजा महामतिः 15036012c पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः 15036013a गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा 15036013c स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः 15036014a तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप 15036014c ऋषीणां च पुराणानां देवासुरविमिश्रिताः 15036015a ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् 15036015c प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः 15036015e प्रीयमाणो महातेजाः सर्ववेदविदां वरः 15036016a विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् 15036016c दह्यमानस्य शोकेन तव पुत्रकृतेन वै 15036017a गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव 15036017c कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् 15036018a यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् 15036018c सुभद्रा कृष्णभगिनी तच्चापि विदितं मम 15036019a श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप 15036019c संशयच्छेदनायाहं प्राप्तः कौरवनन्दन 15036020a इमे च देवगन्धर्वाः सर्वे चैव महर्षयः 15036020c पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् 15036021a तदुच्यतां महाबाहो कं कामं प्रदिशामि ते 15036021c प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् 15036022a एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना 15036022c मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे 15036023a धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे 15036023c यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः 15036024a अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः 15036024c भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः 15036025a दर्शनादेव भवतां पूतोऽहं नात्र संशयः 15036025c विद्यते न भयं चापि परलोकान्ममानघाः 15036026a किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् 15036026c दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः 15036027a अपापाः पाण्डवा येन निकृताः पापबुद्धिना 15036027c घातिता पृथिवी चेयं सहसा सनरद्विपा 15036028a राजानश्च महात्मानो नानाजनपदेश्वराः 15036028c आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः 15036029a ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् 15036029c परित्यज्य गताः शूराः प्रेतराजनिवेशनम् 15036030a का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे 15036030c तथैव पुत्रपौत्राणां मम ये निहता युधि 15036031a दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् 15036031c भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् 15036032a मम पुत्रेण मूढेन पापेन सुहृदद्विषा 15036032c क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता 15036033a एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् 15036033c न शान्तिमधिगच्छामि दुःखशोकसमाहतः 15036033e इति मे चिन्तयानस्य पितः शर्म न विद्यते 15037001 वैशंपायन उवाच 15037001a तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् 15037001c पुनर्नवीकृतः शोको गान्धार्या जनमेजय 15037002a कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च 15037002c तासां च वरनारीणां वधूनां कौरवस्य ह 15037003a पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् 15037003c श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता 15037004a षोडशेमानि वर्षाणि गतानि मुनिपुंगव 15037004c अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो 15037005a पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः 15037005c न शेते वसतीः सर्वा धृतराष्ट्रो महामुने 15037006a लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् 15037006c किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् 15037007a इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् 15037007c शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा 15037008a तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी 15037008c सौभद्रवधसंतप्ता भृशं शोचति भामिनी 15037009a इयं च भूरिश्रवसो भार्या परमदुःखिता 15037009c भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो 15037010a यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः 15037010c निहतः सोमदत्तश्च पित्रा सह महारणे 15037011a श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः 15037011c पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे 15037012a तस्य भार्याशतमिदं पुत्रशोकसमाहतम् 15037012c पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च 15037012e तेनारम्भेण महता मामुपास्ते महामुने 15037013a ये च शूरा महात्मानः श्वशुरा मे महारथाः 15037013c सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो 15037014a तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः 15037014c कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव 15037015a इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना 15037015c प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम् 15037016a तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः 15037016c अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः 15037017a तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् 15037017c तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते 15037018a ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा 15037018c उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम् 15038001 कुन्त्युवाच 15038001a भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम् 15038001c स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम 15038002a तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः 15038002c भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम् 15038003a शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा 15038003c कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन 15038004a स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम् 15038004c अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः 15038005a ततः शापभयाद्विप्रमवोचं पुनरेव तम् 15038005c एवमस्त्विति च प्राह पुनरेव स मां द्विजः 15038006a धर्मस्य जननी भद्रे भवित्री त्वं वरानने 15038006c वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि 15038007a इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् 15038007c न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति 15038008a अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती 15038008c संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम् 15038008e स्थिताहं बालभावेन तत्र दोषमबुध्यती 15038009a अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत् 15038009c द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च 15038009e तताप लोकानेकेन द्वितीयेनागमच्च माम् 15038010a स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह 15038010c गम्यतामिति तं चाहं प्रणम्य शिरसावदम् 15038011a स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम् 15038011c धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव 15038012a तमहं रक्षती विप्रं शापादनपराधिनम् 15038012c पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम् 15038013a ततो मां तेजसाविश्य मोहयित्वा च भानुमान् 15038013c उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम् 15038014a ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी 15038014c गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम् 15038015a नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु 15038015c कन्याहमभवं विप्र यथा प्राह स मामृषिः 15038016a स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः 15038016c तन्मां दहति विप्रर्षे यथा सुविदितं तव 15038017a यदि पापमपापं वा तदेतद्विवृतं मया 15038017c तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि 15038018a यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ 15038018c तं चायं लभतां काममद्यैव मुनिसत्तम 15038019a इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः 15038019c साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम् 15038020a अपराधश्च ते नास्ति कन्याभावं गता ह्यसि 15038020c देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै 15038021a सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये 15038021c वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा 15038022a मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते 15038022c इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः 15038023a सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि 15038023c सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम् 15039001 व्यास उवाच 15039001a भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा 15039001c वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव 15039002a कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी 15039002c द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च 15039003a पूर्वमेवैष हृदये व्यवसायोऽभवन्मम 15039003c यथास्मि चोदितो राज्ञा भवत्या पृथयैव च 15039004a न ते शोच्या महात्मानः सर्व एव नरर्षभाः 15039004c क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः 15039005a भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते 15039005c अवतेरुस्ततः सर्वे देवभागैर्महीतलम् 15039006a गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः 15039006c तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च 15039007a देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः 15039007c त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे 15039008a गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः 15039008c स एव मानुषे लोके धृतराष्ट्रः पतिस्तव 15039009a पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् 15039009c धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः 15039010a कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा 15039010c दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने 15039011a मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम् 15039011c विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम् 15039011e नारायणं हृषीकेशमश्विनौ यमजावुभौ 15039012a द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् 15039012c लोकांश्च तापयानं वै विद्धि कर्णं च शोभने 15039012e यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा 15039013a यश्च पाण्डवदायादो हतः षड्भिर्महारथैः 15039013c स सोम इह सौभद्रो योगादेवाभवद्द्विधा 15039014a द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात् 15039014c अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् 15039015a द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् 15039015c भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम् 15039016a एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि 15039016c ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने 15039017a यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् 15039017c तदद्य व्यपनेष्यामि परलोककृताद्भयात् 15039018a सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति 15039018c तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे 15039019 वैशंपायन उवाच 15039019a इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा 15039019c महता सिंहनादेन गङ्गामभिमुखो ययौ 15039020a धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः 15039020c सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः 15039021a ततो गङ्गां समासाद्य क्रमेण स जनार्णवः 15039021c निवासमकरोत्सर्वो यथाप्रीति यथासुखम् 15039022a राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः 15039022c निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः 15039023a जगाम तदहश्चापि तेषां वर्षशतं यथा 15039023c निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् 15039024a अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः 15039024c ततः कृताभिषेकास्ते नैशं कर्म समाचरन् 15040001 वैशंपायन उवाच 15040001a ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः 15040001c व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः 15040002a धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा 15040002c शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् 15040003a गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् 15040003c पौरजानपदश्चापि जनः सर्वो यथावयः 15040004a ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् 15040004c अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः 15040005a पाण्डवानां च ये योधाः कौरवाणां च सर्वशः 15040005c राजानश्च महाभागा नानादेशनिवासिनः 15040006a ततः सुतुमुलः शब्दो जलान्तर्जनमेजय 15040006c प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः 15040007a ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः 15040007c ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः 15040008a विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ 15040008c द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः 15040009a कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः 15040009c दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः 15040010a जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः 15040010c भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः 15040011a लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः 15040011c शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः 15040012a अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः 15040012c बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः 15040013a एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः 15040013c सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः 15040014a यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् 15040014c तेन तेन व्यदृश्यन्त समुपेता नराधिपाः 15040015a दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः 15040015c निर्वैरा निरहंकारा विगतक्रोधमन्यवः 15040016a गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः 15040016c दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः 15040017a धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप 15040017c मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् 15040018a दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी 15040018c ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः 15040019a तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् 15040019c विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः 15040020a तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् 15040020c ददृशे बलमायान्तं चित्रं पटगतं यथा 15040021a धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा 15040021c मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः 15041001 वैशंपायन उवाच 15041001a ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् 15041001c विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः 15041002a विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् 15041002c संप्रीतमनसः सर्वे देवलोक इवामराः 15041003a पुत्रः पित्रा च मात्रा च भार्या च पतिना सह 15041003c भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः 15041004a पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च 15041004c संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः 15041005a ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः 15041005c समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् 15041006a ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः 15041006c असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः 15041007a एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा 15041007c पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः 15041008a तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः 15041008c मेनिरे परितोषेण नृपाः स्वर्गसदो यथा 15041009a नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् 15041009c परस्परं समागम्य योधानां भरतर्षभ 15041010a समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः 15041010c मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् 15041011a एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः 15041011c आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् 15041012a ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः 15041012c क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् 15041013a अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् 15041013c सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे 15041014a देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा 15041014c केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् 15041015a तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः 15041015c राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् 15041016a विचित्रगतयः सर्वे या अवाप्यामरैः सह 15041016c आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः 15041017a गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः 15041017c धर्मशीलो महातेजाः कुरूणां हितकृत्सदा 15041017e ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः 15041018a या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः 15041018c ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः 15041019a ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः 15041019c श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् 15041020a विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह 15041020c समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते 15041021a एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः 15041021c प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् 15041022a दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः 15041022c दिव्यमाल्याम्बरधरा यथासां पतयस्तथा 15041023a ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः 15041023c सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे 15041024a यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा 15041024c तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः 15041025a तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः 15041025c जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि 15041026a प्रियैः समागमं तेषां य इमं शृणुयान्नरः 15041026c प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह 15041027a इष्टबान्धवसंयोगमनायासमनामयम् 15041027c य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् 15041028a स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत 15041028c अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः 15041028e श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् 15042001 सूत उवाच 15042001a एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः 15042001c पितामहानां सर्वेषां गमनागमनं तदा 15042002a अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति 15042002c कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम् 15042003a इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् 15042003c प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम् 15042004a अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः 15042004c कर्मजानि शरीराणि तथैवाकृतयो नृप 15042005a महाभूतानि नित्यानि भूताधिपतिसंश्रयात् 15042005c तेषां च नित्यसंवासो न विनाशो वियुज्यताम् 15042006a अनाशाय कृतं कर्म तस्य चेष्टः फलागमः 15042006c आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते 15042007a अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः 15042007c भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् 15042008a यावन्न क्षीयते कर्म तावदस्य स्वरूपता 15042008c संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति 15042009a नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः 15042009c भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् 15042010a अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति 15042010c लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः 15042011a अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव 15042011c देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे 15042012a सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव 15042012c यदा समन्विता देवाः पशूनां गमनेश्वराः 15042012e गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते 15042013a नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः 15042013c अस्य नानासमायोगं यः पश्यति वृथामतिः 15042013e वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः 15042014a वियोगे दोषदर्शी यः संयोगमिह वर्जयेत् 15042014c असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम् 15042015a परापरज्ञस्तु नरो नाभिमानादुदीरितः 15042015c अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते 15042016a अदर्शनादापतितः पुनश्चादर्शनं गतः 15042016c नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता 15042017a येन येन शरीरेण करोत्ययमनीश्वरः 15042017c तेन तेन शरीरेण तदवश्यमुपाश्नुते 15042017e मानसं मनसाप्नोति शारीरं च शरीरवान् 15043001 वैशंपायन उवाच 15043001a अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् 15043001c ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह 15043002a स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा 15043002c अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च 15043003a विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् 15043003c धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् 15043004 जनमेजय उवाच 15043004a ममापि वरदो व्यासो दर्शयेत्पितरं यदि 15043004c तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते 15043005a प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः 15043005c प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् 15043006 सूत उवाच 15043006a इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् 15043006c प्रसादमकरोद्धीमानानयच्च परिक्षितम् 15043007a ततस्तद्रूपवयसमागतं नृपतिं दिवः 15043007c श्रीमन्तं पितरं राजा ददर्श जनमेजयः 15043008a शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् 15043008c अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह 15043009a ततः सोऽवभृथे राजा मुदितो जनमेजयः 15043009c पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः 15043010a स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् 15043010c यायावरकुलोत्पन्नं जरत्कारुसुतं तदा 15043011a आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः 15043011c यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः 15043012 आस्तीक उवाच 15043012a ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः 15043012c यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ 15043013a श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन 15043013c सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः 15043014a कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव 15043014c ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः 15043015a प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् 15043015c विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात् 15043016a ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये 15043016c यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः 15043017 सूत उवाच 15043017a एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः 15043017c पूजयामास तमृषिमनुमान्य पुनः पुनः 15043018a पप्रच्छ तमृषिं चापि वैशंपायनमच्युतम् 15043018c कथावशेषं धर्मज्ञो वनवासस्य सत्तम 15044001 जनमेजय उवाच 15044001a दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः 15044001c धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः 15044002 वैशंपायन उवाच 15044002a तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः 15044002c वीतशोकः स राजर्षिः पुनराश्रममागमत् 15044003a इतरस्तु जनः सर्वस्ते चैव परमर्षयः 15044003c प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया 15044004a पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः 15044004c अनुजग्मुर्महात्मानं सदारं तं महीपतिम् 15044005a तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः 15044005c मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत 15044006a धृतराष्ट्र महाबाहो शृणु कौरवनन्दन 15044006c श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् 15044007a ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् 15044007c धर्मज्ञानां पुराणानां वदतां विविधाः कथाः 15044008a मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः 15044008c श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् 15044009a गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् 15044009c यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः 15044010a युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते 15044010c सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः 15044011a विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् 15044011c मासः समधिको ह्येषामतीतो वसतां वने 15044012a एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप 15044012c बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप 15044013a इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना 15044013c युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् 15044014a अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह 15044014c त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते 15044015a रमे चाहं त्वया पुत्र पुरेव गजसाह्वये 15044015c नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना 15044016a प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि 15044016c न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् 15044017a भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते 15044017c तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः 15044018a मातरौ ते तथैवेमे शीर्णपर्णकृताशने 15044018c मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः 15044019a दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः 15044019c व्यासस्य तपसो वीर्याद्भवतश्च समागमात् 15044020a प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ 15044020c उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि 15044021a त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् 15044021c श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् 15044022a राजनीतिः सुबहुशः श्रुता ते भरतर्षभ 15044022c संदेष्टव्यं न पश्यामि कृतमेतावता विभो 15044023a इत्युक्तवचनं तात नृपो राजानमब्रवीत् 15044023c न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् 15044024a कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा 15044024c भवन्तमहमन्विष्ये मातरौ च यतव्रते 15044025a तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे 15044025c त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे 15044026a गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् 15044026c राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः 15044027a इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह 15044027c स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः 15044028a विसर्जयति मां राजा गान्धारी च यशस्विनी 15044028c भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः 15044029a न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि 15044029c तपसो हि परं नास्ति तपसा विन्दते महत् 15044030a ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा 15044030c तपस्येवानुरक्तं मे मनः सर्वात्मना तथा 15044031a शून्येयं च मही सर्वा न मे प्रीतिकरी शुभे 15044031c बान्धवा नः परिक्षीणा बलं नो न यथा पुरा 15044032a पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः 15044032c न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे 15044033a सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे 15044033c अवशेषास्तु निहता द्रोणपुत्रेण वै निशि 15044034a चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः 15044034c केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् 15044034e यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् 15044035a शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव 15044035c भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः 15044036a एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः 15044036c युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः 15044037a नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ 15044037c प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने 15044038a इहैव शोषयिष्यामि तपसाहं कलेवरम् 15044038c पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः 15044039a तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् 15044039c गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम 15044040a आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः 15044040c उपरोधो भवेदेवमस्माकं तपसः कृते 15044041a त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् 15044041c तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो 15044042a एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः 15044042c सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः 15044043a ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः 15044043c अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् 15044044a राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः 15044044c अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः 15044045a एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना 15044045c अनुजज्ञे जयाशीर्भिरभिनन्द्य युधिष्ठिरम् 15044046a भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः 15044046c स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् 15044047a अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ 15044047c अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च 15044048a गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः 15044048c जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् 15044048e चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे 15044049a पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् 15044049c तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः 15044050a न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः 15044050c श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः 15044050e संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह 15044051a ततः प्रजज्ञे निनदः सूतानां युज्यतामिति 15044051c उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि 15044052a ततो युधिष्ठिरो राजा सदारः सहसैनिकः 15044052c नगरं हास्तिनपुरं पुनरायात्सबान्धवः 15045001 वैशंपायन उवाच 15045001a द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया 15045001c देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् 15045002a तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः 15045002c आसीनं परिविश्वस्तं प्रोवाच वदतां वरः 15045003a चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् 15045003c कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् 15045004a के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते 15045004c तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः 15045005 नारद उवाच 15045005a चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् 15045005c परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप 15045006 युधिष्ठिर उवाच 15045006a वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः 15045006c धृतराष्ट्रं महात्मानमास्थितं परमं तपः 15045007a अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः 15045007c गान्धारी च पृथा चैव सूतपुत्रश्च संजयः 15045008a कथं च वर्तते चाद्य पिता मम स पार्थिवः 15045008c श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः 15045009 नारद उवाच 15045009a स्थिरीभूय महाराज शृणु सर्वं यथातथम् 15045009c यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने 15045010a वनवासनिवृत्तेषु भवत्सु कुरुनन्दन 15045010c कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप 15045011a गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः 15045011c संजयेन च सूतेन साग्निहोत्रः सयाजकः 15045012a आतस्थे स तपस्तीव्रं पिता तव तपोधनः 15045012c वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः 15045013a वने स मुनिभिः सर्वैः पूज्यमानो महातपाः 15045013c त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः 15045014a गान्धारी तु जलाहारा कुन्ती मासोपवासिनी 15045014c संजयः षष्ठभक्तेन वर्तयामास भारत 15045015a अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो 15045015c दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह 15045016a अनिकेतोऽथ राजा स बभूव वनगोचरः 15045016c ते चापि सहिते देव्यौ संजयश्च तमन्वयुः 15045017a संजयो नृपतेर्नेता समेषु विषमेषु च 15045017c गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता 15045018a ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः 15045018c गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् 15045019a अथ वायुः समुद्भूतो दावाग्निरभवन्महान् 15045019c ददाह तद्वनं सर्वं परिगृह्य समन्ततः 15045020a दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः 15045020c वराहाणां च यूथेषु संश्रयत्सु जलाशयान् 15045021a समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे 15045021c निराहारतया राजा मन्दप्राणविचेष्टितः 15045021e असमर्थोऽपसरणे सुकृशौ मातरौ च ते 15045022a ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् 15045022c इदमाह ततः सूतं संजयं पृथिवीपते 15045023a गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् 15045023c वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् 15045024a तमुवाच किलोद्विग्नः संजयो वदतां वरः 15045024c राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना 15045025a न चोपायं प्रपश्यामि मोक्षणे जातवेदसः 15045025c यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति 15045026a इत्युक्तः संजयेनेदं पुनराह स पार्थिवः 15045026c नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् 15045027a जलमग्निस्तथा वायुरथ वापि विकर्शनम् 15045027c तापसानां प्रशस्यन्ते गच्छ संजय माचिरम् 15045028a इत्युक्त्वा संजयं राजा समाधाय मनस्तदा 15045028c प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा 15045029a संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् 15045029c उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो 15045030a ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः 15045030c संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा 15045031a गान्धारी च महाभागा जननी च पृथा तव 15045031c दावाग्निना समायुक्ते स च राजा पिता तव 15045032a संजयस्तु महामात्रस्तस्माद्दावादमुच्यत 15045032c गङ्गाकूले मया दृष्टस्तापसैः परिवारितः 15045033a स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः 15045033c प्रययौ संजयः सूतो हिमवन्तं महीधरम् 15045034a एवं स निधनं प्राप्तः कुरुराजो महामनाः 15045034c गान्धारी च पृथा चैव जनन्यौ ते नराधिप 15045035a यदृच्छयानुव्रजता मया राज्ञः कलेवरम् 15045035c तयोश्च देव्योरुभयोर्दृष्टानि भरतर्षभ 15045036a ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः 15045036c श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते 15045037a तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम 15045037c यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव 15045038a न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः 15045038c प्राप्तवानग्निसंयोगं गान्धारी जननी च ते 15045039 वैशंपायन उवाच 15045039a एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् 15045039c निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् 15045040a अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् 15045040c पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् 15045041a अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः 15045041c ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः 15045041e भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते 15045042a अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः 15045042c प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् 15045043a तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् 15045043c अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् 15045044a तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत 15045044c निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् 15046001 युधिष्ठिर उवाच 15046001a तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः 15046001c अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु 15046002a दुर्विज्ञेया हि गतयः पुरुषाणां मता मम 15046002c यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना 15046003a यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः 15046003c नागायुतबलो राजा स दग्धो हि दवाग्निना 15046004a यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः 15046004c तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् 15046005a सूतमागधसंघैश्च शयानो यः प्रबोध्यते 15046005c धरण्यां स नृपः शेते पापस्य मम कर्मभिः 15046006a न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् 15046006c पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् 15046007a पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् 15046007c उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् 15046008a धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् 15046008c क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् 15046009a सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम 15046009c यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् 15046010a युधिष्ठिरस्य जननी भीमस्य विजयस्य च 15046010c अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् 15046011a वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना 15046011c उपकारमजानन्स कृतघ्न इति मे मतिः 15046012a यत्रादहत्स भगवान्मातरं सव्यसाचिनः 15046012c कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः 15046012e धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम् 15046013a इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे 15046013c वृथाग्निना समायोगो यदभूत्पृथिवीपतेः 15046014a तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह 15046014c कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् 15046015a तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने 15046015c वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम 15046016a मन्ये पृथा वेपमाना कृशा धमनिसंतता 15046016c हा तात धर्मराजेति समाक्रन्दन्महाभये 15046017a भीम पर्याप्नुहि भयादिति चैवाभिवाशती 15046017c समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना 15046018a सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु 15046018c न चैनां मोक्षयामास वीरो माद्रवतीसुतः 15046019a तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् 15046019c पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये 15046020a तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः 15046020c प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी 15047001 नारद उवाच 15047001a नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया 15047001c वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत 15047002a वनं प्रविशता तेन वायुभक्षेण धीमता 15047002c अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् 15047003a याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने 15047003c समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम 15047004a स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल 15047004c तेन तद्वनमादीप्तमिति मे तापसाब्रुवन् 15047005a स राजा जाह्नवीकच्छे यथा ते कथितं मया 15047005c तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ 15047006a एवमावेदयामासुर्मुनयस्ते ममानघ 15047006c ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर 15047007a एवं स्वेनाग्निना राजा समायुक्तो महीपते 15047007c मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् 15047008a गुरुशुश्रूषया चैव जननी तव पाण्डव 15047008c प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः 15047009a कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम् 15047009c भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् 15047010 वैशंपायन उवाच 15047010a ततः स पृथिवीपालः पाण्डवानां धुरंधरः 15047010c निर्ययौ सह सोदर्यैः सदारो भरतर्षभ 15047011a पौरजानपदाश्चैव राजभक्तिपुरस्कृताः 15047011c गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः 15047012a ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः 15047012c युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने 15047013a गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः 15047013c शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः 15047014a प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः 15047014c गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः 15047015a तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा 15047015c कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः 15047016a द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः 15047016c ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः 15047017a धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः 15047017c सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः 15047018a गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् 15047018c संकीर्त्य नामनी राजा ददौ दानमनुत्तमम् 15047019a यो यदिच्छति यावच्च तावत्स लभते द्विजः 15047019c शयनं भोजनं यानं मणिरत्नमथो धनम् 15047020a यानमाच्छादनं भोगान्दासीश्च परिचारिकाः 15047020c ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः 15047021a ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः 15047021c प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् 15047022a ते चापि राजवचनात्पुरुषा ये गताभवन् 15047022c संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः 15047023a माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि 15047023c कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः 15047024a समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् 15047024c नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् 15047025a एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः 15047025c वनवासे तदा त्रीणि नगरे दश पञ्च च 15047026a हतपुत्रस्य संग्रामे दानानि ददतः सदा 15047026c ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च 15047027a युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा 15047027c धारयामास तद्राज्यं निहतज्ञातिबान्धवः