% Mahabharata: Asvamedhikaparvan % Last updated: Sun Apr 07 2024 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 14001001 वैशंपायन उवाच 14001001a कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः 14001001c पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः 14001002a उत्तीर्य च महीपालो बाष्पव्याकुललोचनः 14001002c पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः 14001003a तं सीदमानं जग्राह भीमः कृष्णेन चोदितः 14001003c मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः 14001004a तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः 14001004c ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् 14001005a तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम् 14001005c भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् 14001006a राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः 14001006c वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् 14001007a उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम् 14001007c क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया 14001008a तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर 14001008c न शोचितव्यं पश्यामि त्वया धर्मभृतां वर 14001009a शोचितव्यं मया चैव गान्धार्या च विशां पते 14001009c पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा 14001010a अश्रुत्वा हितकामस्य विदुरस्य महात्मनः 14001010c वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः 14001011a उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः 14001011c दुर्योधनापराधेन कुलं ते विनशिष्यति 14001012a स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च 14001012c वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः 14001013a कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित् 14001013c द्यूतसंपातमप्येषामप्रमत्तो निवारय 14001014a अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम् 14001014c स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् 14001015a अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम् 14001015c मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव 14001016a समं सर्वेषु भूतेषु वर्तमानं नराधिप 14001016c अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन 14001017a एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि 14001017c दुर्योधनमहं पापमन्ववर्तं वृथामतिः 14001018a अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम् 14001018c फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे 14001019a वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप 14001019c न शोचितव्यं भवता पश्यामीह जनाधिप 14002001 वैशंपायन उवाच 14002001a एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता 14002001c तूष्णीं बभूव मेधावी तमुवाचाथ केशवः 14002002a अतीव मनसा शोकः क्रियमाणो जनाधिप 14002002c संतापयति वैतस्य पूर्वप्रेतान्पितामहान् 14002003a यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः 14002003c देवांस्तर्पय सोमेन स्वधया च पितॄनपि 14002004a त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते 14002004c विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् 14002005a श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् 14002005c कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा 14002006a नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् 14002006c पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह 14002007a युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् 14002007c न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः 14002008a त्यज शोकं महाराज भवितव्यं हि तत्तथा 14002008c न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः 14002009a एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् 14002009c विरराम महातेजास्तमुवाच युधिष्ठिरः 14002010a गोविन्द मयि या प्रीतिस्तव सा विदिता मम 14002010c सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे 14002011a प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर 14002011c श्रीमन्प्रीतेन मनसा सर्वं यादवनन्दन 14002012a यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् 14002012c न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् 14002012e कर्णं च पुरुषव्याघ्रं संग्रामेष्वपलायिनम् 14002013a कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम 14002013c कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः 14002014a तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् 14002014c सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् 14002015a अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे 14002015c किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः 14002016a विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका 14002016c यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते 14002017a मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः 14002017c असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया 14002018a अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् 14002018c मैवं भव न ते युक्तमिदमज्ञानमीदृशम् 14002019a प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ 14002019c युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः 14002020a स कथं सर्वधर्मज्ञः सर्वागमविशारदः 14002020c परिमुह्यसि भूयस्त्वमज्ञानादिव भारत 14003001 व्यास उवाच 14003001a युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः 14003001c न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः 14003002a ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः 14003002c करोति पुरुषः कर्म तत्र का परिदेवना 14003003a आत्मानं मन्यसे चाथ पापकर्माणमन्ततः 14003003c शृणु तत्र यथा पापमपकृष्येत भारत 14003004a तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर 14003004c तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते 14003005a यज्ञेन तपसा चैव दानेन च नराधिप 14003005c पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः 14003006a असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् 14003006c प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् 14003007a यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः 14003007c ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् 14003008a राजसूयाश्वमेधौ च सर्वमेधं च भारत 14003008c नरमेधं च नृपते त्वमाहर युधिष्ठिर 14003009a यजस्व वाजिमेधेन विधिवद्दक्षिणावता 14003009c बहुकामान्नवित्तेन रामो दाशरथिर्यथा 14003010a यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः 14003010c शाकुन्तलो महावीर्यस्तव पूर्वपितामहः 14003011 युधिष्ठिर उवाच 14003011a असंशयं वाजिमेधः पावयेत्पृथिवीमपि 14003011c अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि 14003012a इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम 14003012c दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे 14003013a न च बालानिमान्दीनानुत्सहे वसु याचितुम् 14003013c तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् 14003014a स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम 14003014c करमाहारयिष्यामि कथं शोकपरायणान् 14003015a दुर्योधनापराधेन वसुधा वसुधाधिपाः 14003015c प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम 14003016a दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् 14003016c कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः 14003017a पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः 14003017c विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः 14003018a न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन 14003018c अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि 14003019 वैशंपायन उवाच 14003019a एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा 14003019c मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत् 14003020a विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् 14003020c उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः 14003020e तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति 14003021 युधिष्ठिर उवाच 14003021a कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् 14003021c कस्मिंश्च काले स नृपो बभूव वदतां वर 14003022 व्यास उवाच 14003022a यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् 14003022c यस्मिन्काले महावीर्यः स राजासीन्महाधनः 14004001 युधिष्ठिर उवाच 14004001a शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् 14004001c द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ 14004002 व्यास उवाच 14004002a आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः 14004002c तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः 14004003a प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः 14004003c क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः 14004004a तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् 14004004c तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः 14004005a तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् 14004005c विंशस्य पुत्रः कल्याणो विविंशो नाम भारत 14004006a विविंशस्य सुता राजन्बभूवुर्दश पञ्च च 14004006c सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः 14004007a दानधर्मरताः सन्तः सततं प्रियवादिनः 14004007c तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् 14004008a खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् 14004008c नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः 14004009a तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् 14004009c अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा 14004010a स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा 14004010c नियतो वर्तयामास प्रजाहितचिकीर्षया 14004011a ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः 14004011c प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् 14004012a तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् 14004012c तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् 14004013a स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः 14004013c आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च 14004014a न चैनं परिहर्तुं तेऽशक्नुवन्परिसंक्षये 14004014c सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर 14004015a यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः 14004015c ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् 14004016a ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् 14004016c एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः 14004017a तस्य कारंधमः पुत्रस्त्रेतायुगमुखेऽभवत् 14004017c इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः 14004018a तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा 14004018c स हि सम्राडभूत्तेषां वृत्तेन च बलेन च 14004019a अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् 14004019c यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः 14004020a तेजसादित्यसदृशः क्षमया पृथिवीसमः 14004020c बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः 14004021a कर्मणा मनसा वाचा दमेन प्रशमेन च 14004021c मनांस्याराधयामास प्रजानां स महीपतिः 14004022a य ईजे हयमेधानां शतेन विधिवत्प्रभुः 14004022c याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः 14004023a तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया 14004023c मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः 14004024a नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः 14004024c स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत 14004024e कारयामास शुभ्राणि भाजनानि सहस्रशः 14004025a मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे 14004025c काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः 14004026a ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च 14004026c चक्रुः सुवर्णकर्तारो येषां संख्या न विद्यते 14004027a तस्यैव च समीपे स यज्ञवाटो बभूव ह 14004027c ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः 14004027e मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः 14005001 युधिष्ठिर उवाच 14005001a कथंवीर्यः समभवत्स राजा वदतां वरः 14005001c कथं च जातरूपेण समयुज्यत स द्विज 14005002a क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते 14005002c कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन 14005003 व्यास उवाच 14005003a असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः 14005003c अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् 14005004a तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः 14005004c बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः 14005005a तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् 14005005c बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः 14005006a स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत 14005006c अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् 14005007a वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च 14005007c इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् 14005007e पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् 14005008a याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः 14005008c वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च 14005008e शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः 14005009a वाहनं यस्य योधाश्च द्रव्याणि विविधानि च 14005009c ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः 14005010a स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः 14005010c संजीव्य कालमिष्टं च सशरीरो दिवं गतः 14005011a बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् 14005011c अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् 14005011e विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः 14005012a तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् 14005012c पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा 14005013a स्पर्धते सततं स स्म देवराजेन पार्थिवः 14005013c वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन 14005014a शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः 14005014c यतमानोऽपि यं शक्रो न विशेषयति स्म ह 14005015a सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् 14005015c उवाचेदं वचो देवैः सहितो हरिवाहनः 14005016a बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन 14005016c दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् 14005017a अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते 14005017c इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः 14005018a कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् 14005018c याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया 14005019a मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् 14005019c परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् 14005020a एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः 14005020c मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत् 14005021a त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः 14005021c नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च 14005022a त्वमाजहर्थ देवानामेको वीर श्रियं पराम् 14005022c त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन 14005023a पौरोहित्यं कथं कृत्वा तव देवगणेश्वर 14005023c याजयेयमहं मर्त्यं मरुत्तं पाकशासन 14005024a समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित् 14005024c ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम 14005025a हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी 14005025c भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि 14005026a बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः 14005026c प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा 14006001 व्यास उवाच 14006001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14006001c बृहस्पतेश्च संवादं मरुत्तस्य च भारत 14006002a देवराजस्य समयं कृतमाङ्गिरसेन ह 14006002c श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा 14006003a संकल्प्य मनसा यज्ञं करंधमसुतात्मजः 14006003c बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् 14006004a भगवन्यन्मया पूर्वमभिगम्य तपोधन 14006004c कृतोऽभिसंधिर्यज्ञाय भवतो वचनाद्गुरो 14006005a तमहं यष्टुमिच्छामि संभाराः संभृताश्च मे 14006005c याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च 14006006 बृहस्पतिरुवाच 14006006a न कामये याजयितुं त्वामहं पृथिवीपते 14006006c वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे 14006007 मरुत्त उवाच 14006007a पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम् 14006007c न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् 14006008 बृहस्पतिरुवाच 14006008a अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम् 14006008c मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् 14006009a न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि 14006009c उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति 14006010 व्यास उवाच 14006010a एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् 14006010c प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् 14006011a देवर्षिणा समागम्य नारदेन स पार्थिवः 14006011c विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् 14006012a राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ 14006012c क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् 14006013a श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ 14006013c व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप 14006014a एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा 14006014c विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् 14006015a गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् 14006015c यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत 14006016a प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये 14006016c परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद 14006017a एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह 14006017c आविक्षितं महाराज वाचा संजीवयन्निव 14006018a राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः 14006018c चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः 14006019a तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः 14006019c प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति 14006020 मरुत्त उवाच 14006020a संजीवितोऽहं भवता वाक्येनानेन नारद 14006020c पश्येयं क्व नु संवर्तं शंस मे वदतां वर 14006021a कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् 14006021c प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे 14006022 नारद उवाच 14006022a उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् 14006022c वाराणसीं तु नगरीमभीक्ष्णमुपसेवते 14006023a तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् 14006023c तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते 14006024a तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् 14006024c तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः 14006025a पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह 14006025c ब्रूयास्त्वं नारदेनेति संतप्त इव शत्रुहन् 14006026a स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया 14006026c शंसेथा वह्निमारूढं मामपि त्वमशङ्कया 14006027 व्यास उवाच 14006027a स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् 14006027c अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् 14006028a तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः 14006028c कुणपं स्थापयामास नारदस्य वचः स्मरन् 14006029a यौगपद्येन विप्रश्च स पुरीद्वारमाविशत् 14006029c ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत 14006030a स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् 14006030c आविक्षितो महीपालः संवर्तमुपशिक्षितुम् 14006031a स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च 14006031c श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् 14006032a स तथा बाध्यमानोऽपि संवर्तेन महीपतिः 14006032c अन्वगादेव तमृषिं प्राञ्जलिः संप्रसादयन् 14006033a ततो निवृत्य संवर्तः परिश्रान्त उपाविशत् 14006033c शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् 14007001 संवर्त उवाच 14007001a कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते 14007001c एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम 14007002a सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः 14007002c मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति 14007003 मरुत्त उवाच 14007003a नारदेन भवान्मह्यमाख्यातो ह्यटता पथि 14007003c गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा 14007004 संवर्त उवाच 14007004a सत्यमेतद्भवानाह स मां जानाति सत्रिणम् 14007004c कथयस्वैतदेकं मे क्व नु संप्रति नारदः 14007005 मरुत्त उवाच 14007005a भवन्तं कथयित्वा तु मम देवर्षिसत्तमः 14007005c ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् 14007006 व्यास उवाच 14007006a श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा 14007006c एतावदहमप्येनं कुर्यामिति तदाब्रवीत् 14007007a ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव 14007007c रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् 14007008a वातप्रधानेन मया स्वचित्तवशवर्तिना 14007008c एवं विकृतरूपेण कथं याजितुमिच्छसि 14007009a भ्राता मम समर्थश्च वासवेन च सत्कृतः 14007009c वर्तते याजने चैव तेन कर्माणि कारय 14007010a गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः 14007010c पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् 14007011a नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् 14007011c याजयेयं कथंचिद्वै स हि पूज्यतमो मम 14007012a स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज 14007012c ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि 14007013 मरुत्त उवाच 14007013a बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु 14007013c न मां कामयते याज्यमसौ वासववारितः 14007014a अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् 14007014c याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् 14007015a स्पर्धते च मया विप्र सदा वै स हि पार्थिवः 14007015c एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा 14007016a स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति 14007016c देवराजमुपाश्रित्य तद्विद्धि मुनिपुंगव 14007017a सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् 14007017c कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः 14007018a न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् 14007018c प्रत्याख्यातो हि तेनास्मि तथानपकृते सति 14007019 संवर्त उवाच 14007019a चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् 14007019c यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव 14007020a याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ 14007020c द्विषेतां समभिक्रुद्धावेतदेकं समर्थय 14007021a स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु 14007021c कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् 14007022 मरुत्त उवाच 14007022a यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः 14007022c तावल्लोकान्न लभेयं त्यजेयं संगतं यदि 14007023a मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् 14007023c सम्यग्ज्ञाने वैषये वा त्यजेयं संगतं यदि 14007024 संवर्त उवाच 14007024a आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु 14007024c याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव 14007025a संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् 14007025c येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि 14007026a न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः 14007026c विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः 14007027a गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् 14007027c प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते 14008001 संवर्त उवाच 14008001a गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः 14008001c तप्यते यत्र भगवांस्तपो नित्यमुमापतिः 14008002a वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च 14008002c गुहासु शैलराजस्य यथाकामं यथासुखम् 14008003a उमासहायो भगवान्यत्र नित्यं महेश्वरः 14008003c आस्ते शूली महातेजा नानाभूतगणावृतः 14008004a तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा 14008004c यमश्च वरुणश्चैव कुबेरश्च सहानुगः 14008005a भूतानि च पिशाचाश्च नासत्यावश्विनावपि 14008005c गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा 14008006a आदित्या मरुतश्चैव यातुधानाश्च सर्वशः 14008006c उपासन्ते महात्मानं बहुरूपमुमापतिम् 14008007a रमते भगवांस्तत्र कुबेरानुचरैः सह 14008007c विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते 14008007e श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः 14008008a न रूपं दृश्यते तस्य संस्थानं वा कथंचन 14008008c निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः 14008009a नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः 14008009c न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप 14008010a तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर 14008010c धातवो जातरूपस्य रश्मयः सवितुर्यथा 14008011a रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः 14008011c चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः 14008012a तस्मै भगवते कृत्वा नमः शर्वाय वेधसे 14008012c रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे 14008013a कपर्दिने करालाय हर्यक्ष्णे वरदाय च 14008013c त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च 14008014a याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च 14008014c क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च 14008015a हरिकेशाय मुण्डाय कृशायोत्तारणाय च 14008015c भास्कराय सुतीर्थाय देवदेवाय रंहसे 14008016a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे 14008016c गिरिशाय प्रशान्ताय यतये चीरवाससे 14008017a बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च 14008017c मृगव्याधाय महते धन्विनेऽथ भवाय च 14008018a वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे 14008018c हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् 14008019a पशूनां पतये चैव भूतानां पतये तथा 14008019c वृषाय मातृभक्ताय सेनान्ये मध्यमाय च 14008020a स्रुवहस्ताय पतये धन्विने भार्गवाय च 14008020c अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह 14008021a तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च 14008021c महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते 14008022a तथा शुक्राधिपतये पृथवे कृत्तिवाससे 14008022c कपालमालिने नित्यं सुवर्णमुकुटाय च 14008023a महादेवाय कृष्णाय त्र्यम्बकायानघाय च 14008023c क्रोधनाय नृशंसाय मृदवे बाहुशालिने 14008024a दण्डिने तप्ततपसे तथैव क्रूरकर्मणे 14008024c सहस्रशिरसे चैव सहस्रचरणाय च 14008024e नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे 14008025a पिनाकिनं महादेवं महायोगिनमव्ययम् 14008025c त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् 14008026a त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् 14008026c प्रभवं सर्वभूतानां धारणं धरणीधरम् 14008027a ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् 14008027c उमापतिं पशुपतिं विश्वरूपं महेश्वरम् 14008028a विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् 14008028c उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् 14008029a शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् 14008029c विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् 14008030a प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् 14008030c शरण्यं शरणं याहि महादेवं चतुर्मुखम् 14008031a एवं कृत्वा नमस्तस्मै महादेवाय रंहसे 14008031c महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि 14008031e सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः 14008032 व्यास उवाच 14008032a इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः 14008032c ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् 14008032e सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः 14008033a बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः 14008033c समृद्धिमति देवेभ्यः संतापमकरोद्भृशम् 14008034a स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् 14008034c भविष्यति हि मे शत्रुः संवर्तो वसुमानिति 14008035a तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् 14008035c अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा 14009001 इन्द्र उवाच 14009001a कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते 14009001c कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति 14009002 बृहस्पतिरुवाच 14009002a सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे 14009002c तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति 14009003 इन्द्र उवाच 14009003a कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य 14009003c आचक्ष्व मे तद्द्विज यावदेता;न्निहन्मि सर्वांस्तव दुःखकर्तॄन् 14009004 बृहस्पतिरुवाच 14009004a मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन 14009004c तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत 14009005 इन्द्र उवाच 14009005a सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः 14009005c उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र 14009006 बृहस्पतिरुवाच 14009006a देवैः सह त्वमसुरान्संप्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान् 14009006c यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः 14009007a अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य 14009007c सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् 14009008 इन्द्र उवाच 14009008a एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14009008c अयं वै त्वा याजयिता बृहस्पति;स्तथामरं चैव करिष्यतीति 14009009 अग्निरुवाच 14009009a अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते 14009009c वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः 14009010 व्यास उवाच 14009010a ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन् 14009010c कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् 14009011 मरुत्त उवाच 14009011a आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् 14009011c आसनं सलिलं पाद्यं गां चोपानय वै मुने 14009012 अग्निरुवाच 14009012a आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ 14009012c इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् 14009013 मरुत्त उवाच 14009013a कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो 14009013c कच्चिद्देवाश्चास्य वशे यथाव;त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव 14009014 अग्निरुवाच 14009014a शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः 14009014c देवाश्च सर्वे वशगास्तस्य राज;न्संदेशं त्वं शृणु मे देवराज्ञः 14009015a यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते 14009015c अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु 14009016 मरुत्त उवाच 14009016a संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य 14009016c नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत् 14009017 अग्निरुवाच 14009017a ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान्देवराजप्रसादात् 14009017c त्वां चेदसौ याजयेद्वै बृहस्पति;र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः 14009018a तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः 14009018c ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र 14009019 संवर्त उवाच 14009019a मास्मानेवं त्वं पुनरागाः कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते 14009019c मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धोऽहं पावक तन्निबोध 14009020 व्यास उवाच 14009020a ततो देवानगमद्धूमकेतु;र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् 14009020c तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् 14009021a यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते 14009021c तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च 14009022 अग्निरुवाच 14009022a न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः 14009022c संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः 14009023a उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः 14009023c तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः 14009024 इन्द्र उवाच 14009024a पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम् 14009024c पुनर्यद्युक्तो न करिष्यते वच;स्ततो वज्रं संप्रहर्तास्मि तस्मै 14009025 अग्निरुवाच 14009025a गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम् 14009025c संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः 14009026a यद्यागच्छेः पुनरेवं कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते 14009026c दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्येतदवैहि शक्र 14009027 इन्द्र उवाच 14009027a त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता 14009027c त्वत्संस्पर्शात्सर्वलोको बिभे;त्यश्रद्धेयं वदसे हव्यवाह 14009028 अग्निरुवाच 14009028a दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र 14009028c एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार 14009029 इन्द्र उवाच 14009029a न चण्डिका जङ्गमा नो करेणु;र्न वारिसोमं प्रपिबामि वह्ने 14009029c न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः 14009030a प्रव्राजयेयं कालकेयान्पृथिव्या;मपाकर्षं दानवानन्तरिक्षात् 14009030c दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः 14009031 अग्निरुवाच 14009031a यत्र शर्यातिं च्यवनो याजयिष्य;न्सहाश्विभ्यां सोममगृह्णदेकः 14009031c तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता;च्छर्यातियज्ञं स्मर तं महेन्द्र 14009032a वज्रं गृहीत्वा च पुरंदर त्वं; संप्राहार्षीश्च्यवनस्यातिघोरम् 14009032c स ते विप्रः सह वज्रेण बाहु;मपागृह्णात्तपसा जातमन्युः 14009033a ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः 14009033c मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः 14009034a हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य 14009034c सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव 14009035a वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम् 14009035c स त्वां दन्तान्विदशन्नभ्यधाव;ज्जिघांसया शूलमुद्यम्य घोरम् 14009036a अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम् 14009036c यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि;मागच्छेथाः शरणं दानवघ्न 14009037a क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः 14009037c सोऽहं जानन्ब्रह्मतेजो यथाव;न्न संवर्तं गन्तुमिच्छामि शक्र 14010001 इन्द्र उवाच 14010001a एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः 14010001c आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् 14010002a धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व 14010002c बृहस्पतिं त्वमुपशिक्षस्व राज;न्वज्रं वा ते प्रहरिष्यामि घोरम् 14010003 व्यास उवाच 14010003a ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य 14010003c गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र 14010004a ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा 14010004c बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् 14010004e वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा 14010005 मरुत्त उवाच 14010005a त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च 14010005c मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः 14010006a बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम् 14010006c संवर्तो मां याजयिताद्य राज;न्न ते वाक्यं तस्य वा रोचयामि 14010007 गन्धर्व उवाच 14010007a घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह 14010007c व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः 14010008 व्यास उवाच 14010008a इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य 14010008c तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम् 14010009 मरुत्त उवाच 14010009a इममश्मानं प्लवमानमारा;दध्वा दूरं तेन न दृश्यतेऽद्य 14010009c प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य 14010010a अयमायाति वै वज्री दिशो विद्योतयन्दश 14010010c अमानुषेण घोरेण सदस्यास्त्रासिता हि नः 14010011 संवर्त उवाच 14010011a भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम् 14010011c संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः 14010012a अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप 14010012c सर्वेषामेव देवानां क्षपितान्यायुधानि मे 14010013a दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु 14010013c आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम् 14010014a अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा 14010014c वज्रं तथा स्थापयतां च वायु;र्महाघोरं प्लवमानं जलौघैः 14010015 मरुत्त उवाच 14010015a घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन 14010015c आत्मा हि मे प्रव्यथते मुहुर्मुहु;र्न मे स्वास्थ्यं जायते चाद्य विप्र 14010016 संवर्त उवाच 14010016a वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम् 14010016c भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि 14010017 मरुत्त उवाच 14010017a इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव 14010017c स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव 14010018 संवर्त उवाच 14010018a अयमिन्द्रो हरिभिरायाति राज;न्देवैः सर्वैः सहितः सोमपीथी 14010018c मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् 14010019 व्यास उवाच 14010019a ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान् 14010019c आयाद्यज्ञमधि राज्ञः पिपासु;राविक्षितस्याप्रमेयस्य सोमम् 14010020a तमायान्तं सहितं देवसंघैः; प्रत्युद्ययौ सपुरोधा मरुत्तः 14010020c चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः 14010021 संवर्त उवाच 14010021a स्वागतं ते पुरुहूतेह विद्व;न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र 14010021c शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया 14010022 मरुत्त उवाच 14010022a शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे 14010022c अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः 14010023 इन्द्र उवाच 14010023a जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम् 14010023c यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः 14010024 संवर्त उवाच 14010024a यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम् 14010024c स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव 14010025 व्यास उवाच 14010025a एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान् 14010025c सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः 14010026a कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम् 14010026c येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः 14010027a इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र 14010027c ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम् 14010028a एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः 14010028c सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् 14010029a आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन् 14010029c नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः 14010030a ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः 14010030c यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः 14010031a ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः 14010031c हवींष्युच्चैराह्वयन्देवसंघा;ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः 14010032a ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः 14010032c सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः 14010033a ततो राजा जातरूपस्य राशी;न्पदे पदे कारयामास हृष्टः 14010033c द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता 14010034a ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम् 14010034c अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् 14010035a एवंगुणः संबभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम् 14010035c तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः 14010036 वैशंपायन उवाच 14010036a ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य 14010036c मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः 14011001 वैशंपायन उवाच 14011001a इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा 14011001c वासुदेवो महातेजास्ततो वचनमाददे 14011002a तं नृपं दीनमनसं निहतज्ञातिबान्धवम् 14011002c उपप्लुतमिवादित्यं सधूममिव पावकम् 14011003a निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः 14011003c आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे 14011004 वासुदेव उवाच 14011004a सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् 14011004c एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति 14011005a नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः 14011005c कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे 14011006a अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् 14011006c इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत 14011007a वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप 14011007c दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते 14011007e धराहरणदुर्गन्धो विषयः समपद्यत 14011008a शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते 14011008c वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् 14011009a स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा 14011009c विवेश सहसैवापो जग्राह विषयं ततः 14011010a व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते 14011010c शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् 14011011a स वध्यमानो वज्रेण सलिले भूरितेजसा 14011011c विवेश सहसा ज्योतिर्जग्राह विषयं ततः 14011012a व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते 14011012c शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 14011013a स वध्यमानो वज्रेण सुभृशं भूरितेजसा 14011013c विवेश सहसा वायुं जग्राह विषयं ततः 14011014a व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते 14011014c शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 14011015a स वध्यमानो वज्रेण तस्मिन्नमिततेजसा 14011015c आकाशमभिदुद्राव जग्राह विषयं ततः 14011016a आकाशे वृत्रभूते च शब्दे च विषये हृते 14011016c शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् 14011017a स वध्यमानो वज्रेण तस्मिन्नमिततेजसा 14011017c विवेश सहसा शक्रं जग्राह विषयं ततः 14011018a तस्य वृत्रगृहीतस्य मोहः समभवन्महान् 14011018c रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत् 14011019a ततो वृत्रं शरीरस्थं जघान भरतर्षभ 14011019c शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् 14011020a इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु 14011020c ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप 14012001 वासुदेव उवाच 14012001a द्विविधो जायते व्याधिः शारीरो मानसस्तथा 14012001c परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते 14012002a शरीरे जायते व्याधिः शारीरो नात्र संशयः 14012002c मानसो जायते व्याधिर्मनस्येवेति निश्चयः 14012003a शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः 14012003c तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् 14012003e उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते 14012004a सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः 14012004c तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् 14012004e तेषामन्यतमोत्सेके विधानमुपदिश्यते 14012005a हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 14012005c कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति 14012005e कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति 14012006a स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा 14012006c स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् 14012007a अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे 14012007c दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् 14012007e मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि 14012008a प्रव्राजनं च नगरादजिनैश्च विवासनम् 14012008c महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि 14012009a जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः 14012009c सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि 14012010a पुनरज्ञातचर्यायां कीचकेन पदा वधः 14012010c याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि 14012011a यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम 14012011c मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 14012011e तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ 14012012a परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः 14012012c यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः 14012012e आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 14012013a तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि 14012013c एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि 14012014a एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् 14012014c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 14013001 वासुदेव उवाच 14013001a न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत 14013001c शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा 14013002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 14013002c यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा 14013003a द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 14013003c ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् 14013004a ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ 14013004c अदृश्यमानौ भूतानि योधयेतामसंशयम् 14013005a अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत 14013005c भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते 14013006a लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् 14013006c ममत्वं यस्य नैव स्यात्किं तया स करिष्यति 14013007a अथ वा वसतः पार्थ वने वन्येन जीवतः 14013007c ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते 14013008a बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत 14013008c यन्न पश्यति तद्भूतं मुच्यते स महाभयात् 14013009a कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः 14013009c दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि 14013010a व्रतं यज्ञान्नियमान्ध्यानयोगा;न्कामेन यो नारभते विदित्वा 14013010c यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम् 14013011a अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः 14013011c शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर 14013012a नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् 14013012c यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् 14013012e तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् 14013013a यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः 14013013c जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् 14013014a यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः 14013014c स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् 14013015a यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः 14013015c भावो भवामि तस्याहं स च मां नावबुध्यते 14013016a यो मां प्रयतते हन्तुं तपसा संशितव्रतः 14013016c ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् 14013017a यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः 14013017c तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च 14013017e अवध्यः सर्वभूतानामहमेकः सनातनः 14013018a तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः 14013018c धर्मं कुरु महाराज तत्र ते स भविष्यति 14013019a यजस्व वाजिमेधेन विधिवद्दक्षिणावता 14013019c अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः 14013020a मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः 14013020c न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे 14013021a स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः 14013021c लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि 14014001 वैशंपायन उवाच 14014001a एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः 14014001c समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः 14014002a सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् 14014002c द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः 14014003a नारदेनाथ भीमेन नकुलेन च पार्थिवः 14014003c कृष्णया सहदेवेन विजयेन च धीमता 14014004a अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः 14014004c व्यजहाच्छोकजं दुःखं संतापं चैव मानसम् 14014005a अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः 14014005c कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः 14014005e अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् 14014006a प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् 14014006c व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः 14014007a आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः 14014007c न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते 14014008a अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः 14014008c पुरस्कृत्येह भवतः समानेष्यामहे मखम् 14014009a हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह 14014009c बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम 14014010a तथा भगवता चित्रं कल्याणं बहु भाषितम् 14014010c देवर्षिणा नारदेन देवस्थानेन चैव ह 14014011a नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् 14014011c लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् 14014012a एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः 14014012c अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ 14014012e पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः 14014013a ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः 14014013c एवं नातिमहान्कालः स तेषामभ्यवर्तत 14014014a कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा 14014014c महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् 14014015a भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन 14014015c सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् 14014016a ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः 14014016c धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् 14014017a स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् 14014017c अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह 14015001 जनमेजय उवाच 14015001a विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम 14015001c राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ 14015002 वैशंपायन उवाच 14015002a विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते 14015002c राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ 14015003a विजह्राते मुदा युक्तौ दिवि देवेश्वराविव 14015003c तौ वनेषु विचित्रेषु पर्वतानां च सानुषु 14015004a शैलेषु रमणीयेषु पल्वलेषु नदीषु च 14015004c चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने 14015005a इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ 14015005c प्रविश्य तां सभां रम्यां विजह्राते च भारत 14015006a तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव 14015006c कथायोगे कथायोगे कथयामासतुस्तदा 14015007a ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा 14015007c प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ 14015008a मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः 14015008c निश्चयज्ञः स पार्थाय कथयामास केशवः 14015009a पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः 14015009c कथाभिः शमयामास पार्थं शौरिर्जनार्दनः 14015010a स तमाश्वास्य विधिवद्विधानज्ञो महातपाः 14015010c अपहृत्यात्मनो भारं विशश्रामेव सात्वतः 14015011a ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह 14015011c सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः 14015012a विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप 14015012c त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह 14015013a असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः 14015013c भीमसेनप्रभावेन यमयोश्च नरोत्तम 14015014a धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् 14015014c धर्मेण निहतः संख्ये स च राजा सुयोधनः 14015015a अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः 14015015c धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः 14015016a प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः 14015016c भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह 14015017a रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव 14015017c किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन 14015018a यत्र धर्मसुतो राजा यत्र भीमो महाबलः 14015018c यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम 14015019a तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत 14015019c रमणीयेषु पुण्येषु सहितस्य त्वयानघ 14015020a कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः 14015020c बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान् 14015021a सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति 14015021c रोचतां गमनं मह्यं तवापि पुरुषर्षभ 14015022a उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः 14015022c स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते 14015023a शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः 14015023c तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना 14015024a धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि 14015024c सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा 14015025a तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन 14015025c अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् 14015026a न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते 14015026c कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति 14015027a सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया 14015027c ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन 14015028a प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन 14015028c धार्तराष्ट्रो हतो राजा सबलः सपदानुगः 14015029a पृथिवी च वशे तात धर्मपुत्रस्य धीमतः 14015029c स्थिता समुद्रवसना सशैलवनकानना 14015029e चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव 14015030a धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् 14015030c उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः 14015030e स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ 14015031a तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् 14015031c आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति 14015032a इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे 14015032c प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः 14015033a प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज 14015033c स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह 14015034a इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः 14015034c तथेति कृच्छ्रादिव वाचमीरय;ज्जनार्दनं संप्रतिपूज्य पार्थिव 14016001 जनमेजय उवाच 14016001a सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः 14016001c केशवार्जुनयोः का नु कथा समभवद्द्विज 14016002 वैशंपायन उवाच 14016002a कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् 14016002c तस्यां सभायां रम्यायां विजहार मुदा युतः 14016003a ततः कंचित्सभोद्देशं स्वर्गोद्देशसमं नृप 14016003c यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ 14016004a ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः 14016004c निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् 14016005a विदितं ते महाबाहो संग्रामे समुपस्थिते 14016005c माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् 14016006a यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् 14016006c तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः 14016007a मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो 14016007c भवांश्च द्वारकां गन्ता नचिरादिव माधव 14016008a एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत 14016008c परिष्वज्य महातेजा वचनं वदतां वरः 14016009a श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् 14016009c धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् 14016010a अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् 14016010c नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव 14016011a स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने 14016011c न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः 14016012a परं हि ब्रह्म कथितं योगयुक्तेन तन्मया 14016012c इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् 14016013a यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि 14016013c शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे 14016014a आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम 14016014c ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् 14016015a अस्माभिः परिपृष्टश्च यदाह भरतर्षभ 14016015c दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् 14016016 ब्राह्मण उवाच 14016016a मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि 14016016c भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो 14016017a तत्तेऽहं संप्रवक्ष्यामि यथावन्मधुसूदन 14016017c शृणुष्वावहितो भूत्वा गदतो मम माधव 14016018a कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः 14016018c आससाद द्विजं कंचिद्धर्माणामागतागमम् 14016019a गतागते सुबहुशो ज्ञानविज्ञानपारगम् 14016019c लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः 14016020a जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः 14016020c द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् 14016021a चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् 14016021c दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः 14016022a अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः 14016022c तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह 14016023a संभाषमाणमेकान्ते समासीनं च तैः सह 14016023c यदृच्छया च गच्छन्तमसक्तं पवनं यथा 14016024a तं समासाद्य मेधावी स तदा द्विजसत्तमः 14016024c चरणौ धर्मकामो वै तपस्वी सुसमाहितः 14016024e प्रतिपेदे यथान्यायं भक्त्या परमया युतः 14016025a विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् 14016025c परिचारेण महता गुरुं वैद्यमतोषयत् 14016026a प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः 14016026c भावेन तोषयच्चैनं गुरुवृत्त्या परंतपः 14016027a तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः 14016027c सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन 14016028a विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः 14016028c गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् 14016029a न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः 14016029c स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः 14016030a अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् 14016030c काममन्युपरीतेन तृष्णया मोहितेन च 14016031a पुनः पुनश्च मरणं जन्म चैव पुनः पुनः 14016031c आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः 14016032a मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः 14016032c सुखानि च विचित्राणि दुःखानि च मयानघ 14016033a प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह 14016033c धननाशश्च संप्राप्तो लब्ध्वा दुःखेन तद्धनम् 14016034a अवमानाः सुकष्टाश्च परतः स्वजनात्तथा 14016034c शारीरा मानसाश्चापि वेदना भृशदारुणाः 14016035a प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः 14016035c पतनं निरये चैव यातनाश्च यमक्षये 14016036a जरा रोगाश्च सततं वासनानि च भूरिशः 14016036c लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया 14016037a ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च 14016037c लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया 14016037e ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया 14016038a नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् 14016038c आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा 14016039a उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा 14016039c इतः परं गमिष्यामि ततः परतरं पुनः 14016039e ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः 14016040a नाहं पुनरिहागन्ता मर्त्यलोकं परंतप 14016040c प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते 14016041a यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः 14016041c अभिजाने च तदहं यदर्थं मा त्वमागतः 14016041e अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् 14016042a भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण 14016042c परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् 14016043a बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च 14016043c येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप 14017001 वासुदेव उवाच 14017001a ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान् 14017001c पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः 14017002 काश्यप उवाच 14017002a कथं शरीरं च्यवते कथं चैवोपपद्यते 14017002c कथं कष्टाच्च संसारात्संसरन्परिमुच्यते 14017003a आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति 14017003c शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते 14017004a कथं शुभाशुभे चायं कर्मणी स्वकृते नरः 14017004c उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति 14017005 ब्राह्मण उवाच 14017005a एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत 14017005c आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु 14017006 सिद्ध उवाच 14017006a आयुःकीर्तिकराणीह यानि कर्माणि सेवते 14017006c शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः 14017007a आयुःक्षयपरीतात्मा विपरीतानि सेवते 14017007c बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते 14017008a सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा 14017008c अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् 14017009a यदायमतिकष्टानि सर्वाण्युपनिषेवते 14017009c अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन 14017010a दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च 14017010c गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः 14017011a व्यायाममतिमात्रं वा व्यवायं चोपसेवते 14017011c सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् 14017012a रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते 14017012c अपक्वानागते काले स्वयं दोषान्प्रकोपयन् 14017013a स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् 14017013c अथ चोद्बन्धनादीनि परीतानि व्यवस्यति 14017014a तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा 14017014c जीवितं प्रोच्यमानं तद्यथावदुपधारय 14017015a ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः 14017015c शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै 14017016a अत्यर्थं बलवानूष्मा शरीरे परिकोपितः 14017016c भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च 14017017a ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन् 14017017c शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु 14017017e वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम 14017018a जातीमरणसंविग्नाः सततं सर्वजन्तवः 14017018c दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ 14017019a गर्भसंक्रमणे चापि मर्मणामतिसर्पणे 14017019c तादृशीमेव लभते वेदनां मानवः पुनः 14017020a भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः 14017020c यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति 14017020e शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः 14017021a यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः 14017021c स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् 14017022a शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते 14017022c निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः 14017023a ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः 14017023c स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् 14017023e तैरेव न विजानाति प्राणमाहारसंभवम् 14017024a तत्रैव कुरुते काये यः स जीवः सनातनः 14017024c तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् 14017024e तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा 14017025a तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् 14017025c आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै 14017025e ततः स चेतनो जन्तुर्नाभिजानाति किंचन 14017026a तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु 14017026c स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना 14017027a ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् 14017027c निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् 14017028a स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः 14017028c अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते 14017029a ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः 14017029c इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः 14017030a यथान्धकारे खद्योतं लीयमानं ततस्ततः 14017030c चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः 14017031a पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा 14017031c च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् 14017032a तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः 14017032c कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः 14017033a ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः 14017033c इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः 14017034a इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः 14017034c अवाक्स निरये पापो मानवः पच्यते भृशम् 14017034e तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः 14017035a ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः 14017035c कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे 14017035e तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् 14017036a तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् 14017036c यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् 14017036e स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् 14017037a कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः 14017037c तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः 14017038a न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् 14017038c इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः 14017039a उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् 14017039c यथावत्तां निगदतः शृणुष्वावहितो द्विज 14018001 ब्राह्मण उवाच 14018001a शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् 14018001c प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा 14018002a यथा प्रसूयमानस्तु फली दद्यात्फलं बहु 14018002c तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् 14018003a पापं चापि तथैव स्यात्पापेन मनसा कृतम् 14018003c पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते 14018004a यथा कर्मसमादिष्टं काममन्युसमावृतः 14018004c नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् 14018005a शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् 14018005c क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् 14018006a सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते 14018006c संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् 14018006e तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः 14018007a स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः 14018007c दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः 14018007e ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः 14018008a यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् 14018008c उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् 14018009a लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् 14018009c तथा त्वमपि जानीहि गर्भे जीवोपपादनम् 14018010a यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् 14018010c एवमेव शरीराणि प्रकाशयति चेतना 14018011a यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् 14018011c पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते 14018012a ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते 14018012c यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते 14018013a तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै 14018013c आवर्तमानो जातीषु तथान्योन्यासु सत्तम 14018014a दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् 14018014c दमः प्रशान्तता चैव भूतानां चानुकम्पनम् 14018015a संयमश्चानृशंस्यं च परस्वादानवर्जनम् 14018015c व्यलीकानामकरणं भूतानां यत्र सा भुवि 14018016a मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् 14018016c गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः 14018017a प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते 14018017c ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः 14018018a एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः 14018018c आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः 14018019a तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः 14018019c यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् 14018020a अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु 14018020c यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते 14018021a वर्तमानस्य धर्मेण पुरुषस्य यथा तथा 14018021c संसारतारणं ह्यस्य कालेन महता भवेत् 14018022a एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते 14018022c सर्वं तत्कारणं येन निकृतोऽयमिहागतः 14018023a शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् 14018023c इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् 14018024a शरीरमात्मनः कृत्वा सर्वभूतपितामहः 14018024c त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् 14018025a ततः प्रधानमसृजच्चेतना सा शरीरिणाम् 14018025c यया सर्वमिदं व्याप्तं यां लोके परमां विदुः 14018026a इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् 14018026c त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् 14018027a असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः 14018027c स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः 14018028a तस्य कालपरीमाणमकरोत्स पितामहः 14018028c भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च 14018029a यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि 14018029c यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते 14018030a सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति 14018030c कायं चामेध्यसंघातं विनाशं कर्मसंहितम् 14018031a यच्च किंचित्सुखं तच्च सर्वं दुःखमिति स्मरन् 14018031c संसारसागरं घोरं तरिष्यति सुदुस्तरम् 14018032a जातीमरणरोगैश्च समाविष्टः प्रधानवित् 14018032c चेतनावत्सु चैतन्यं समं भूतेषु पश्यति 14018033a निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् 14018033c तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम 14018034a शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् 14018034c प्रोच्यमानं मया विप्र निबोधेदमशेषतः 14019001 ब्राह्मण उवाच 14019001a यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् 14019001c पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् 14019002a सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः 14019002c व्यपेतभयमन्युश्च कामहा मुच्यते नरः 14019003a आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः 14019003c अमानी निरभीमानः सर्वतो मुक्त एव सः 14019004a जीवितं मरणं चोभे सुखदुःखे तथैव च 14019004c लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते 14019005a न कस्यचित्स्पृहयते नावजानाति किंचन 14019005c निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः 14019006a अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् 14019006c त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते 14019007a नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः 14019007c धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते 14019008a अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् 14019008c अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् 14019009a वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः 14019009c आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव 14019010a अगन्धरसमस्पर्शमशब्दमपरिग्रहम् 14019010c अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते 14019011a पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् 14019011c अगुणं गुणभोक्तारं यः पश्यति स मुच्यते 14019012a विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान् 14019012c शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः 14019013a विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् 14019013c परमाप्नोति संशान्तमचलं दिव्यमक्षरम् 14019014a अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् 14019014c यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः 14019015a तस्योपदेशं पश्यामि यथावत्तन्निबोध मे 14019015c यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि 14019016a इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् 14019016c तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् 14019017a तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः 14019017c मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि 14019018a स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि 14019018c तत एकान्तशीलः स पश्यत्यात्मानमात्मनि 14019019a संयतः सततं युक्त आत्मवान्विजितेन्द्रियः 14019019c तथायमात्मनात्मानं साधु युक्तः प्रपश्यति 14019020a यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति 14019020c तथारूपमिवात्मानं साधु युक्तः प्रपश्यति 14019021a इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् 14019021c योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ 14019022a मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् 14019022c एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् 14019023a यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् 14019023c तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः 14019024a अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते 14019024c विनिवृत्य जरामृत्यू न हृष्यति न शोचति 14019025a देवानामपि देवत्वं युक्तः कारयते वशी 14019025c ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् 14019026a विनश्यत्स्वपि लोकेषु न भयं तस्य जायते 14019026c क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् 14019027a दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः 14019027c न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः 14019028a नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते 14019028c नातः सुखतरं किंचिल्लोके क्वचन विद्यते 14019029a सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति 14019029c तदैव न स्पृहयते साक्षादपि शतक्रतोः 14019030a निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन 14019030c योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु 14019031a दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे 14019031c पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः 14019032a पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् 14019032c तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः 14019033a प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते 14019033c तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः 14019034a संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने 14019034c कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् 14019035a दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च 14019035c हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् 14019036a इत्युक्तः स मया शिष्यो मेधावी मधुसूदन 14019036c पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् 14019037a भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते 14019037c कथं रसत्वं व्रजति शोणितं जायते कथम् 14019037e तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति 14019038a कथमेतानि सर्वाणि शरीराणि शरीरिणाम् 14019038c वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् 14019038e निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् 14019039a कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः 14019039c कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि 14019040a जीवः कायं वहति चेच्चेष्टयानः कलेवरम् 14019040c किंवर्णं कीदृशं चैव निवेशयति वै मनः 14019040e याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ 14019041a इति संपरिपृष्टोऽहं तेन विप्रेण माधव 14019041c प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम 14019042a यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् 14019042c तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः 14019042e आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् 14019043a एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव 14019043c आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् 14019044a न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः 14019044c मनसैव प्रदीपेन महानात्मनि दृश्यते 14019045a सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् 14019045c जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति 14019046a स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् 14019046c आत्मानमालोकयति मनसा प्रहसन्निव 14019047a इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम 14019047c आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् 14019048a इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः 14019048c अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः 14019049 वासुदेव उवाच 14019049a इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः 14019049c मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत 14019050a कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा 14019050c तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि 14019051a नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः 14019051c नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना 14019052a सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ 14019052c कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् 14019053a न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ 14019053c नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना 14019054a क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः 14019054c न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् 14019055a परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् 14019055c यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी 14019056a एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः 14019056c स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् 14019057a किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः 14019057c स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः 14019058a हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने 14019058c सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः 14019058e अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ 14019059a श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव 14019059c यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् 14019059e एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् 14019060a एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन 14019060c षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते 14020001 वासुदेव उवाच 14020001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14020001c दंपत्योः पार्थ संवादमभयं नाम नामतः 14020002a ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् 14020002c दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् 14020003a कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता 14020003c न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् 14020004a भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम् 14020004c त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् 14020005a एवमुक्तः स शान्तात्मा तामुवाच हसन्निव 14020005c सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे 14020006a ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते 14020006c एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः 14020007a मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः 14020007c नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते 14020008a कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् 14020008c जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते 14020009a रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु 14020009c आत्मस्थमात्मना तेन दृष्टमायतनं मया 14020010a यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना 14020010c व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् 14020011a यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते 14020011c विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः 14020012a घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया 14020012c स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते 14020013a चक्षुषा न विषह्यं च यत्किंचिच्छ्रवणात्परम् 14020013c अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् 14020014a यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति 14020014c प्राणोऽपानः समानश्च व्यानश्चोदान एव च 14020015a तत एव प्रवर्तन्ते तमेव प्रविशन्ति च 14020015c समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः 14020016a तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च 14020016c अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति 14020016e तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः 14020017a प्राणानायम्यते येन तमुदानं प्रचक्षते 14020017c तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः 14020018a तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् 14020018c अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा 14020019a घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् 14020019c मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः 14020020a घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च 14020020c मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम 14020021a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14020021c मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः 14020022a घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च 14020022c हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु 14020022e सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु 14020023a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 14020023c मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः 14020024a हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् 14020024c अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु 14020024e तत्रैव च निरुध्यन्ते प्रलये भूतभावने 14020025a ततः संजायते गन्धस्ततः संजायते रसः 14020025c ततः संजायते रूपं ततः स्पर्शोऽभिजायते 14020026a ततः संजायते शब्दः संशयस्तत्र जायते 14020026c ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः 14020027a अनेनैव प्रकारेण प्रगृहीतं पुरातनैः 14020027c पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा 14021001 ब्राह्मण उवाच 14021001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14021001c निबोध दशहोतॄणां विधानमिह यादृशम् 14021002a सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते 14021002c रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् 14021003a शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते 14021003c ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः 14021004a ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते 14021004c रूपं भवति वै व्यक्तं तदनुद्रवते मनः 14021005 ब्राह्मण्युवाच 14021005a कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् 14021005c मनसा चिन्तितं वाक्यं यदा समभिपद्यते 14021006a केन विज्ञानयोगेन मतिश्चित्तं समास्थिता 14021006c समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति 14021007 ब्राह्मण उवाच 14021007a तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् 14021007c तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते 14021008a प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि 14021008c तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् 14021009a उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् 14021009c आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो 14021010a मन इत्येव भगवांस्तदा प्राह सरस्वतीम् 14021010c अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ 14021011a स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम 14021011c स्थावरं मत्सकाशे वै जङ्गमं विषये तव 14021012a यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा 14021012c तन्मनो जङ्गमं नाम तस्मादसि गरीयसी 14021013a यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने 14021013c तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति 14021014a प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति 14021014c प्रेर्यमाणा महाभागे विना प्राणमपानती 14021014e प्रजापतिमुपाधावत्प्रसीद भगवन्निति 14021015a ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः 14021015c तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् 14021016a घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते 14021016c तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी 14021017a गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी 14021017c सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी 14021018a दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते 14021018c एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः 14021019a अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया 14021019c किं नु पूर्वं ततो देवी व्याजहार सरस्वती 14021020a प्राणेन या संभवते शरीरे; प्राणादपानं प्रतिपद्यते च 14021020c उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति 14021021a ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि 14021021c तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा 14022001 ब्राह्मण उवाच 14022001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14022001c सुभगे सप्तहोतॄणां विधानमिह यादृशम् 14022002a घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् 14022002c मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः 14022003a सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् 14022003c एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने 14022004 ब्राह्मण्युवाच 14022004a सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः 14022004c कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो 14022005 ब्राह्मण उवाच 14022005a गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता 14022005c परस्परगुणानेते न विजानन्ति कर्हिचित् 14022006a जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 14022006c न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति 14022007a घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 14022007c न रसानधिगच्छन्ति जिह्वा तानधिगच्छति 14022008a घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च 14022008c न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति 14022009a घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा 14022009c न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति 14022010a घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च 14022010c न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति 14022011a घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च 14022011c संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति 14022012a घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च 14022012c न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति 14022013a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14022013c इन्द्रियाणां च संवादं मनसश्चैव भामिनि 14022014 मन उवाच 14022014a न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते 14022014c रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते 14022015a न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन 14022015c प्रवरं सर्वभूतानामहमस्मि सनातनम् 14022016a अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः 14022016c इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः 14022017a काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः 14022017c गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः 14022018 इन्द्रियाण्यूचुः 14022018a एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् 14022018c ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि 14022019a यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् 14022019c भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा 14022020a अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च 14022020c यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् 14022021a अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा 14022021c घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा 14022022a श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया 14022022c त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च 14022023a बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् 14022023c भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि 14022024a यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति 14022024c ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति 14022025a विषयानेवमस्माभिर्दर्शितानभिमन्यसे 14022025c अनागतानतीतांश्च स्वप्ने जागरणे तथा 14022026a वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् 14022026c अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् 14022027a बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च 14022027c बुभुक्षया पीड्यमानो विषयानेव धावसि 14022028a अगारमद्वारमिव प्रविश्य; संकल्पभोगो विषयानविन्दन् 14022028c प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव 14022029a कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः 14022029c अस्मानृते नास्ति तवोपलब्धि;स्त्वामप्यृतेऽस्मान्न भजेत हर्षः 14023001 ब्राह्मण उवाच 14023001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14023001c सुभगे पञ्चहोतॄणां विधानमिह यादृशम् 14023002a प्राणापानावुदानश्च समानो व्यान एव च 14023002c पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः 14023003 ब्राह्मण्युवाच 14023003a स्वभावात्सप्त होतार इति ते पूर्विका मतिः 14023003c यथा वै पञ्च होतारः परो भावस्तथोच्यताम् 14023004 ब्राह्मण उवाच 14023004a प्राणेन संभृतो वायुरपानो जायते ततः 14023004c अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते 14023005a व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते 14023005c उदाने संभृतो वायुः समानः संप्रवर्तते 14023006a तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् 14023006c यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति 14023007 ब्रह्मोवाच 14023007a यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023007c यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः 14023008 प्राण उवाच 14023008a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023008c मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 14023009 ब्राह्मण उवाच 14023009a प्राणः प्रलीयत ततः पुनश्च प्रचचार ह 14023009c समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे 14023010a न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् 14023010c न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव 14023010e प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत 14023011a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023011c मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 14023012a व्यानश्च तमुदानश्च भाषमाणमथोचतुः 14023012c अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव 14023013a अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् 14023013c श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 14023014a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023014c मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 14023015a प्रालीयत ततो व्यानः पुनश्च प्रचचार ह 14023015c प्राणापानावुदानश्च समानश्च तमब्रुवन् 14023015e न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव 14023016a प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् 14023016c श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 14023017a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023017c मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 14023018a ततः समानः प्रालिल्ये पुनश्च प्रचचार ह 14023018c प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् 14023018e समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव 14023019a समानः प्रचचाराथ उदानस्तमुवाच ह 14023019c श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना 14023020a मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे 14023020c मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् 14023021a ततः प्रालीयतोदानः पुनश्च प्रचचार ह 14023021c प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् 14023021e उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव 14023022a ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः 14023022c सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः 14023022e सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः 14023023a एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः 14023023c एक एव ममैवात्मा बहुधाप्युपचीयते 14023024a परस्परस्य सुहृदो भावयन्तः परस्परम् 14023024c स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् 14024001 ब्राह्मण उवाच 14024001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14024001c नारदस्य च संवादमृषेर्देवमतस्य च 14024002 देवमत उवाच 14024002a जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते 14024002c प्राणोऽपानः समानो वा व्यानो वोदान एव च 14024003 नारद उवाच 14024003a येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् 14024003c प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् 14024004 देवमत उवाच 14024004a केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् 14024004c प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् 14024005 नारद उवाच 14024005a संकल्पाज्जायते हर्षः शब्दादपि च जायते 14024005c रसात्संजायते चापि रूपादपि च जायते 14024006a स्पर्शात्संजायते चापि गन्धादपि च जायते 14024006c एतद्रूपमुदानस्य हर्षो मिथुनसंभवः 14024007a कामात्संजायते शुक्रं कामात्संजायते रसः 14024007c समानव्यानजनिते सामान्ये शुक्रशोणिते 14024008a शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते 14024008c प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते 14024009a प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः 14024009c व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते 14024010a अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् 14024010c संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् 14024011a तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः 14024011c सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः 14024012a आघारौ समानो व्यानश्च इति यज्ञविदो विदुः 14024012c प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः 14024012e एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024013a निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु 14024014a अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः 14024014c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024015a उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः 14024015c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024016a उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः 14024016c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024017a उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः 14024017c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024018a सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः 14024018c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14024019a प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् 14024019c तृतीयं तु समानेन पुनरेव व्यवस्यते 14024020a शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् 14024020c एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः 14025001 ब्राह्मण उवाच 14025001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14025001c चातुर्होत्रविधानस्य विधानमिह यादृशम् 14025002a तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते 14025002c शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् 14025003a करणं कर्म कर्ता च मोक्ष इत्येव भामिनि 14025003c चत्वार एते होतारो यैरिदं जगदावृतम् 14025004a होतॄणां साधनं चैव शृणु सर्वमशेषतः 14025004c घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् 14025004e मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः 14025005a गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः 14025005c मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः 14025006a घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः 14025006c मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः 14025007a स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् 14025007c अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः 14025008a विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि 14025008c गुणास्ते देवताभूताः सततं भुञ्जते हविः 14025009a अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते 14025009c आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते 14025010a अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् 14025010c स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः 14025011a अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः 14025011c स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः 14025012a मनसा गम्यते यच्च यच्च वाचा निरुद्यते 14025012c श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते 14025013a स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् 14025013c मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः 14025014a गुणवत्पावको मह्यं दीप्यते हव्यवाहनः 14025014c योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः 14025014e प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः 14025015a कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः 14025015c कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा 14025016a ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः 14025016c नारायणाय देवाय यदबध्नन्पशून्पुरा 14025017a तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् 14025017c देवं नारायणं भीरु सर्वात्मानं निबोध मे 14026001 ब्राह्मण उवाच 14026001a एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि 14026001c हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् 14026002a एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि 14026002c तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव 14026003a एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि 14026003c तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति 14026004a एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि 14026004c तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् 14026005a एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि 14026005c तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव 14026006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14026006c प्रजापतौ पन्नगानां देवर्षीणां च संविदम् 14026007a देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् 14026007c पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति 14026008a तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् 14026008c ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः 14026009a तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः 14026009c सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु 14026010a असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः 14026010c दानं देवा व्यवसिता दममेव महर्षयः 14026011a एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः 14026011c नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः 14026012a शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् 14026012c पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते 14026013a तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते 14026013c गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः 14026014a पापेन विचरँल्लोके पापचारी भवत्ययम् 14026014c शुभेन विचरँल्लोके शुभचारी भवत्युत 14026015a कामचारी तु कामेन य इन्द्रियसुखे रतः 14026015c व्रतचारी सदैवैष य इन्द्रियजये रतः 14026016a अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः 14026016c ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् 14026017a ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः 14026017c आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः 14026018a एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः 14026018c विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः 14027001 ब्राह्मण उवाच 14027001a संकल्पदंशमशकं शोकहर्षहिमातपम् 14027001c मोहान्धकारतिमिरं लोभव्यालसरीसृपम् 14027002a विषयैकात्ययाध्वानं कामक्रोधविरोधकम् 14027002c तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् 14027003 ब्राह्मण्युवाच 14027003a क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः 14027003c गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् 14027004 ब्राह्मण उवाच 14027004a न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् 14027004c न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः 14027005a तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् 14027005c नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् 14027006a न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः 14027006c न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न 14027007a तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त 14027007c सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम् 14027008a पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च 14027008c सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 14027009a सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च 14027009c सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 14027010a चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च 14027010c सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 14027011a शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च 14027011c सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 14027012a सुरभीण्येकवर्णानि पुष्पाणि च फलानि च 14027012c सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् 14027013a बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च 14027013c विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः 14027014a एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति 14027014c तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः 14027015a आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः 14027015c अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् 14027016a प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् 14027016c ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् 14027017a येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः 14027017c ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते 14027018a सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः 14027018c ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च 14027019a तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च 14027019c सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह 14027020a यशो वर्चो भगश्चैव विजयः सिद्धितेजसी 14027020c एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् 14027021a गिरयः पर्वताश्चैव सन्ति तत्र समासतः 14027021c नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम् 14027022a नदीनां संगमस्तत्र वैतानः समुपह्वरे 14027022c स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् 14027023a कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः 14027023c आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते 14027024a ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः 14027024c तदरण्यमभिप्रेत्य यथाधीरमजायत 14027025a एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः 14027025c विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् 14028001 ब्राह्मण उवाच 14028001a गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि 14028001c न चापि शब्दान्विविधाञ्शृणोमि; न चापि संकल्पमुपैमि किंचित् 14028002a अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः 14028002c कामद्वेषावुद्भवतः स्वभावा;त्प्राणापानौ जन्तुदेहान्निवेश्य 14028003a तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा;न्भूतात्मानं लक्षयेयं शरीरे 14028003c तस्मिंस्तिष्ठन्नास्मि शक्यः कथंचि;त्कामक्रोधाभ्यां जरया मृत्युना च 14028004a अकामयानस्य च सर्वकामा;नविद्विषाणस्य च सर्वदोषान् 14028004c न मे स्वभावेषु भवन्ति लेपा;स्तोयस्य बिन्दोरिव पुष्करेषु 14028005a नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान् 14028005c न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् 14028006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14028006c अध्वर्युयतिसंवादं तं निबोध यशस्विनि 14028007a प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् 14028007c यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् 14028008a तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति 14028008c श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा 14028009a यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति 14028009c यदस्य वारिजं किंचिदपस्तत्प्रतिपद्यते 14028010a सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च 14028010c आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन 14028011 यतिरुवाच 14028011a प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि 14028011c छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् 14028012a अनु त्वा मन्यतां माता पिता भ्राता सखापि च 14028012c मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः 14028013a य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति 14028013c तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा 14028014a प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु 14028014c शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः 14028015a इन्धनस्य तु तुल्येन शरीरेण विचेतसा 14028015c हिंसा निर्वेष्टुकामानामिन्धनं पशुसंज्ञितम् 14028016a अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् 14028016c यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे 14028017a अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् 14028017c शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् 14028018a अहिंसा सर्वभूतानां नित्यमस्मासु रोचते 14028018c प्रत्यक्षतः साधयामो न परोक्षमुपास्महे 14028019 अध्वर्युरुवाच 14028019a भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान् 14028019c ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् 14028020a शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् 14028020c सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे 14028021a प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् 14028021c नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज 14028022 यतिरुवाच 14028022a अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः 14028022c अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते 14028023a प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह 14028023c भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः 14028024a समस्य सर्वभूतेषु निर्ममस्य जितात्मनः 14028024c समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् 14028025 अध्वर्युरुवाच 14028025a सद्भिरेवेह संवासः कार्यो मतिमतां वर 14028025c भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम 14028026a भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् 14028026c मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज 14028027 ब्राह्मण उवाच 14028027a उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् 14028027c अध्वर्युरपि निर्मोहः प्रचचार महामखे 14028028a एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः 14028028c विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना 14029001 ब्राह्मण उवाच 14029001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14029001c कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि 14029002a कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् 14029002c येन सागरपर्यन्ता धनुषा निर्जिता मही 14029003a स कदाचित्समुद्रान्ते विचरन्बलदर्पितः 14029003c अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् 14029004a तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह 14029004c मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते 14029005a मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः 14029005c वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो 14029006 अर्जुन उवाच 14029006a मत्समो यदि संग्रामे शरासनधरः क्वचित् 14029006c विद्यते तं ममाचक्ष्व यः समासीत मां मृधे 14029007 समुद्र उवाच 14029007a महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः 14029007c तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति 14029008a ततः स राजा प्रययौ क्रोधेन महता वृतः 14029008c स तमाश्रममागम्य राममेवान्वपद्यत 14029009a स रामप्रतिकूलानि चकार सह बन्धुभिः 14029009c आयासं जनयामास रामस्य च महात्मनः 14029010a ततस्तेजः प्रजज्वाल रामस्यामिततेजसः 14029010c प्रदहद्रिपुसैन्यानि तदा कमललोचने 14029011a ततः परशुमादाय स तं बाहुसहस्रिणम् 14029011c चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् 14029012a तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः 14029012c असीनादाय शक्तीश्च भार्गवं पर्यवारयन् 14029013a रामोऽपि धनुरादाय रथमारुह्य सत्वरः 14029013c विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् 14029014a ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च 14029014c विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव 14029015a तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् 14029015c प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् 14029016a त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह 14029016c वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः 14029017a ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः 14029017c द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत 14029018a एकविंशतिमेधान्ते रामं वागशरीरिणी 14029018c दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता 14029019a राम राम निवर्तस्व कं गुणं तात पश्यसि 14029019c क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः 14029020a तथैव तं महात्मानमृचीकप्रमुखास्तदा 14029020c पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् 14029021a पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् 14029021c नार्हन्तीह भवन्तो मां निवारयितुमित्युत 14029022 पितर ऊचुः 14029022a नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर 14029022c न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् 14030001 पितर ऊचुः 14030001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14030001c श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम 14030002a अलर्को नाम राजर्षिरभवत्सुमहातपाः 14030002c धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः 14030003a स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् 14030003c कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे 14030004a स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह 14030004c उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते 14030005 अलर्क उवाच 14030005a मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः 14030005c अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः 14030006a यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति 14030006c मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् 14030007 मन उवाच 14030007a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030007c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030008a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030008c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030009 अलर्क उवाच 14030009a आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति 14030009c तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 14030010 घ्राण उवाच 14030010a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030010c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030011a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030011c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030012 अलर्क उवाच 14030012a इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति 14030012c तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 14030013 जिह्वोवाच 14030013a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030013c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030014a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030014c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030015 अलर्क उवाच 14030015a स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति 14030015c तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः 14030016 त्वगुवाच 14030016a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030016c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030017a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030017c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030018 अलर्क उवाच 14030018a श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति 14030018c तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 14030019 श्रोत्र उवाच 14030019a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030019c तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् 14030020a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030020c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030021 अलर्क उवाच 14030021a दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति 14030021c तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 14030022 चक्षुरुवाच 14030022a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030022c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030023a अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि 14030023c तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् 14030024 अलर्क उवाच 14030024a इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति 14030024c तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् 14030025 बुद्धिरुवाच 14030025a नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन 14030025c तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि 14030026 पितर ऊचुः 14030026a ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् 14030026c नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु 14030026e सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः 14030027a स विचिन्त्य चिरं कालमलर्को द्विजसत्तम 14030027c नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः 14030028a स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः 14030028c इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् 14030028e योगेनात्मानमाविश्य संसिद्धिं परमां ययौ 14030029a विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह 14030029c अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् 14030029e इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् 14030030a इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि 14030030c तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे 14030031 ब्राह्मण उवाच 14030031a इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः 14030031c आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् 14031001 ब्राह्मण उवाच 14031001a त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः 14031001c हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः 14031002a शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः 14031002c स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः 14031003a एतान्निकृत्य धृतिमान्बाणसंघैरतन्द्रितः 14031003c जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः 14031004a अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः 14031004c अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता 14031005a समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु 14031005c जग्राह तरसा राज्यमम्बरीष इति श्रुतिः 14031006a स निगृह्य महादोषान्साधून्समभिपूज्य च 14031006c जगाम महतीं सिद्धिं गाथां चेमां जगाद ह 14031007a भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः 14031007c एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया 14031008a येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति 14031008c तृष्णार्त इव निम्नानि धावमानो न बुध्यते 14031009a अकार्यमपि येनेह प्रयुक्तः सेवते नरः 14031009c तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत 14031010a लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते 14031010c स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् 14031011a स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते 14031011c जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे 14031012a तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत् 14031012c एतद्राज्यं नान्यदस्तीति विद्या;द्यस्त्वत्र राजा विजितो ममैकः 14031013a इति राज्ञाम्बरीषेण गाथा गीता यशस्विना 14031013c आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता 14032001 ब्राह्मण उवाच 14032001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14032001c ब्राह्मणस्य च संवादं जनकस्य च भामिनि 14032002a ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे 14032002c विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् 14032003a इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् 14032003c आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः 14032004a सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो 14032004c वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते 14032005a इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना 14032005c मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत 14032006a तमासीनं ध्यायमानं राजानममितौजसम् 14032006c कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः 14032007a समाश्वास्य ततो राजा व्यपेते कश्मले तदा 14032007c ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् 14032008a पितृपैतामहे राज्ये वश्ये जनपदे सति 14032008c विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् 14032009a नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया 14032009c नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया 14032010a नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् 14032010c ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता 14032011a तया न विषयं मन्ये सर्वो वा विषयो मम 14032011c आत्मापि चायं न मम सर्वा वा पृथिवी मम 14032011e उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते 14032012a पितृपैतामहे राज्ये वश्ये जनपदे सति 14032012c ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया 14032013a कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव 14032013c नावैषि विषयं येन सर्वो वा विषयस्तव 14032014 जनक उवाच 14032014a अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु 14032014c नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् 14032015a कस्येदमिति कस्य स्वमिति वेदवचस्तथा 14032015c नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् 14032016a एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया 14032016c शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम 14032017a नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि 14032017c तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा 14032018a नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः 14032018c आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा 14032019a नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा 14032019c तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा 14032020a नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये 14032020c तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा 14032021a नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि 14032021c तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा 14032022a नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे 14032022c मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा 14032023a देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह 14032023c इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै 14032024a ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् 14032024c त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् 14032025a त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः 14032025c सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः 14033001 ब्राह्मण उवाच 14033001a नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या 14033001c विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि 14033002a नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे 14033002c मया व्याप्तमिदं सर्वं यत्किंचिज्जगतीगतम् 14033003a ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह 14033003c तेषां मामन्तकं विद्धि दारूणामिव पावकम् 14033004a राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे 14033004c तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम 14033005a एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः 14033005c गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु 14033005e लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते 14033006a नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका 14033006c ते भावमेकमायान्ति सरितः सागरं यथा 14033007a बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते 14033007c आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् 14033008a तस्मात्ते सुभगे नास्ति परलोककृतं भयम् 14033008c मद्भावभावनिरता ममैवात्मानमेष्यसि 14034001 ब्राह्मण्युवाच 14034001a नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना 14034001c बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम 14034002a उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः 14034002c तन्मन्ये कारणतमं यत एषा प्रवर्तते 14034003 ब्राह्मण उवाच 14034003a अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः 14034003c तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः 14034004 ब्राह्मण्युवाच 14034004a यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम् 14034004c ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु 14034005 ब्राह्मण उवाच 14034005a अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते 14034005c उपायमेव वक्ष्यामि येन गृह्येत वा न वा 14034006a सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते 14034006c कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् 14034007a इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते 14034007c पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते 14034008a यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत् 14034008c व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः 14034009a सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् 14034009c यतः परं न विद्येत ततोऽभ्यासे भविष्यति 14034010 वासुदेव उवाच 14034010a ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये 14034010c क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते 14034011 अर्जुन उवाच 14034011a क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः 14034011c याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत 14034012 वासुदेव उवाच 14034012a मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् 14034012c क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय 14035001 अर्जुन उवाच 14035001a ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि 14035001c भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः 14035002 वासुदेव उवाच 14035002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14035002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 14035003a कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् 14035003c शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप 14035004a भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः 14035004c याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे 14035005a तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह 14035005c कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज 14035006a इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः 14035006c प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते 14035007 शिष्य उवाच 14035007a कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् 14035007c कुतो जातानि भूतानि स्थावराणि चराणि च 14035008a केन जीवन्ति भूतानि तेषामायुः किमात्मकम् 14035008c किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः 14035008e के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् 14035009a एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम 14035009c वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः 14035010 वासुदेव उवाच 14035010a तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते 14035010c शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने 14035010e छायाभूताय दान्ताय यतये ब्रह्मचारिणे 14035011a तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः 14035011c गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम 14035012a ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् 14035012c वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् 14035013a भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् 14035013c सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् 14035014a प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते 14035014c बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः 14035015a उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् 14035015c बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा 14035016a वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च 14035016c मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः 14035017a ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः 14035017c ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् 14035018a तं प्रणम्य महात्मानं सुखासीनं महर्षयः 14035018c पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् 14035019a कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् 14035019c के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् 14035020a केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति 14035020c प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ 14035021a इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः 14035021c तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् 14035022 ब्रह्मोवाच 14035022a सत्याद्भूतानि जातानि स्थावराणि चराणि च 14035022c तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः 14035023a स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा 14035023c सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् 14035024a ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः 14035024c सत्याद्भूतानि जातानि भूतं सत्यमयं महत् 14035025a तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः 14035025c अतीतक्रोधसंतापा नियता धर्मसेतवः 14035026a अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् 14035026c तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् 14035027a चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् 14035027c धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः 14035028a पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः 14035028c नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः 14035029a गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् 14035029c निबोधत महाभागा निखिलेन परं पदम् 14035030a ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् 14035030c गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् 14035030e ततः परं तु विज्ञेयमध्यात्मं परमं पदम् 14035031a ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः 14035031c नोपैति यावदध्यात्मं तावदेतान्न पश्यति 14035031e तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत 14035032a फलमूलानिलभुजां मुनीनां वसतां वने 14035032c वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते 14035033a सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते 14035033c श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते 14035034a इत्येते देवयाना वः पन्थानः परिकीर्तिताः 14035034c सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः 14035035a एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः 14035035c कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ 14035036a अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना 14035036c विषयस्थानि सर्वाणि वर्तमानानि भागशः 14035037a महानात्मा तथाव्यक्तमहंकारस्तथैव च 14035037c इन्द्रियाणि दशैकं च महाभूतानि पञ्च च 14035038a विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः 14035038c चतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता 14035039a तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ 14035039c स धीरः सर्वभूतेषु न मोहमधिगच्छति 14035040a तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः 14035040c विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते 14036001 ब्रह्मोवाच 14036001a तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् 14036001c नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् 14036002a एकादशपरिक्षेपं मनो व्याकरणात्मकम् 14036002c बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् 14036003a त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः 14036003c प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः 14036004a तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते 14036004c अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः 14036005a अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः 14036005c अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः 14036006a तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः 14036006c रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः 14036007a नियम्यते तमो यत्र रजस्तत्र प्रवर्तते 14036007c नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते 14036008a नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम् 14036008c अधर्मलक्षणं चैव नियतं पापकर्मसु 14036009a प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम् 14036009c प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् 14036010a प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता 14036010c सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् 14036011a एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः 14036011c समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे 14036012a संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः 14036012c स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् 14036013a अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता 14036013c निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता 14036014a अकृते कृतमानित्वमज्ञाने ज्ञानमानिता 14036014c अमैत्री विकृतो भावो अश्रद्धा मूढभावना 14036015a अनार्जवमसंज्ञत्वं कर्म पापमचेतना 14036015c गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः 14036016a सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः 14036016c ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः 14036017a तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः 14036017c परिवादकथा नित्यं देवब्राह्मणवैदिकाः 14036018a अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा 14036018c मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते 14036019a वृथारम्भाश्च ये केचिद्वृथादानानि यानि च 14036019c वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते 14036020a अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता 14036020c अश्रद्दधानता चैव तामसं वृत्तमिष्यते 14036021a एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः 14036021c मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः 14036022a तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम् 14036022c अवाङ्निरयभावाय तिर्यङ्निरयगामिनः 14036023a स्थावराणि च भूतानि पशवो वाहनानि च 14036023c क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः 14036024a अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः 14036024c उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः 14036025a मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः 14036025c अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः 14036026a तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् 14036026c यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः 14036027a अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु 14036027c स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् 14036028a संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम् 14036028c स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः 14036029a अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु 14036029c पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः 14036030a पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः 14036030c वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् 14036031a शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः 14036031c स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे 14036032a अभिषङ्गस्तु कामेषु महामोह इति स्मृतः 14036032c ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः 14036033a तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः 14036033c मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते 14036034a भावतो गुणतश्चैव योनितश्चैव तत्त्वतः 14036034c सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि 14036035a को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति 14036035c अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् 14036036a तमोगुणा वो बहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम् 14036036c नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते 14037001 ब्रह्मोवाच 14037001a रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः 14037001c निबोधत महाभागा गुणवृत्तं च सर्वशः 14037002a संघातो रूपमायासः सुखदुःखे हिमातपौ 14037002c ऐश्वर्यं विग्रहः संधिर्हेतुवादोऽरतिः क्षमा 14037003a बलं शौर्यं मदो रोषो व्यायामकलहावपि 14037003c ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् 14037004a वधबन्धपरिक्लेशाः क्रयो विक्रय एव च 14037004c निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् 14037005a उग्रं दारुणमाक्रोशः परवित्तानुशासनम् 14037005c लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् 14037006a मृषावादो मृषादानं विकल्पः परिभाषणम् 14037006c निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् 14037007a परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः 14037007c व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः 14037008a संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् 14037008c नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च 14037009a संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये 14037009c प्रदानमाशीर्युक्तं च सततं मे भवत्विति 14037010a स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया 14037010c याजनाध्यापने चोभे तथैवाहुः परिग्रहम् 14037011a इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः 14037011c अभिद्रोहस्तथा माया निकृतिर्मान एव च 14037012a स्तैन्यं हिंसा परीवादः परितापः प्रजागरः 14037012c स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् 14037013a द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये 14037013c नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन 14037013e सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः 14037014a भूतभव्यभविष्याणां भावानां भुवि भावनाः 14037014c त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि 14037015a कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः 14037015c अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः 14037016a अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः 14037016c प्रेत्यभाविकमीहन्त इह लौकिकमेव च 14037016e ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति 14037017a रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च 14037017c नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते 14038001 ब्रह्मोवाच 14038001a अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम् 14038001c सर्वभूतहितं लोके सतां धर्ममनिन्दितम् 14038002a आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च 14038002c अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता 14038003a क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 14038003c अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः 14038004a मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः 14038004c एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते 14038005a निर्ममो निरहंकारो निराशीः सर्वतः समः 14038005c अकामहत इत्येष सतां धर्मः सनातनः 14038006a विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता 14038006c आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् 14038007a हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता 14038007c शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् 14038008a उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः 14038008c निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता 14038009a मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् 14038009c मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः 14038010a एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः 14038010c ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः 14038011a हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः 14038011c दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः 14038012a ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते 14038012c विकुर्वते महात्मानो देवास्त्रिदिवगा इव 14038013a ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः 14038013c विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः 14038013e यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च 14038014a इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः 14038014c एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति 14038015a प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च 14038015c नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते 14039001 ब्रह्मोवाच 14039001a नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः 14039001c अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा 14039002a अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः 14039002c अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः 14039003a यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः 14039003c यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते 14039004a संहत्य कुर्वते यात्रां सहिताः संघचारिणः 14039004c संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः 14039005a उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् 14039005c वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः 14039006a व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् 14039006c अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः 14039007a उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् 14039007c अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः 14039008a उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् 14039008c अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः 14039009a सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका 14039009c न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते 14039010a ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 14039010c जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः 14039011a तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम् 14039011c इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः 14039012a दूरादपि हि दृश्यन्ते सहिताः संघचारिणः 14039012c तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम 14039013a दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत् 14039013c अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः 14039014a आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः 14039014c परितापोऽध्वगानां च राजसो गुण उच्यते 14039015a प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः 14039015c उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु 14039016a एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः 14039016c पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा 14039017a स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः 14039017c राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः 14039018a अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते 14039018c मासार्धमासवर्षाणि ऋतवः संधयस्तथा 14039019a त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते 14039019c त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः 14039020a भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि 14039020c प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः 14039021a यत्किंचिदिह वै लोके सर्वमेष्वेव तत्त्रिषु 14039021c त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु 14039021e सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः 14039022a तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः 14039022c प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ 14039023a अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् 14039023c सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् 14039023e ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः 14039024a अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः 14039024c विमुक्तदेहः प्रविभागतत्त्ववि;त्स मुच्यते सर्वगुणैर्निरामयः 14040001 ब्रह्मोवाच 14040001a अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः 14040001c आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते 14040002a महानात्मा मतिर्विष्णुर्विश्वः शंभुश्च वीर्यवान् 14040002c बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः 14040003a पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते 14040003c तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति 14040004a सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः 14040004c सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति 14040005a महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः 14040005c अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 14040006a तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये 14040006c ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः 14040007a ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः 14040007c प्रसन्नमनसो धीरा निर्ममा निरहंकृताः 14040007e विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै 14040008a आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् 14040008c स धीरः सर्वलोकेषु न मोहमधिगच्छति 14040008e विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः 14040009a एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम् 14040009c हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति 14041001 ब्रह्मोवाच 14041001a य उत्पन्नो महान्पूर्वमहंकारः स उच्यते 14041001c अहमित्येव संभूतो द्वितीयः सर्ग उच्यते 14041002a अहंकारश्च भूतादिर्वैकारिक इति स्मृतः 14041002c तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः 14041003a देवानां प्रभवो देवो मनसश्च त्रिलोककृत् 14041003c अहमित्येव तत्सर्वमभिमन्ता स उच्यते 14041004a अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् 14041004c स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः 14041005a अहंकारेणाहरतो गुणानिमा;न्भूतादिरेवं सृजते स भूतकृत् 14041005c वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा 14042001 ब्रह्मोवाच 14042001a अहंकारात्प्रसूतानि महाभूतानि पञ्च वै 14042001c पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 14042002a तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु 14042002c शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च 14042003a महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते 14042003c सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् 14042004a यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते 14042004c लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् 14042005a ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे 14042005c स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन 14042006a शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः 14042006c क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः 14042007a लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः 14042007c मांसशोणितसंघाता अन्योन्यस्योपजीविनः 14042008a बहिरात्मान इत्येते दीनाः कृपणवृत्तयः 14042008c प्राणापानावुदानश्च समानो व्यान एव च 14042009a अन्तरात्मेति चाप्येते नियताः पञ्च वायवः 14042009c वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् 14042010a त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता 14042010c विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी 14042011a अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा 14042011c स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते 14042012a एकादश च यान्याहुरिन्द्रियाणि विशेषतः 14042012c अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः 14042013a श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 14042013c पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् 14042014a इन्द्रियग्राम इत्येष मन एकादशं भवेत् 14042014c एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते 14042015a बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च 14042015c श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः 14042016a अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु 14042016c उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् 14042017a इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात् 14042017c मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः 14042018a त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते 14042018c स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् 14042019a अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च 14042019c चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते 14042020a अचराण्यपि भूतानि खेचराणि तथैव च 14042020c अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् 14042021a संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः 14042021c जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते 14042022a भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् 14042022c उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः 14042023a द्विपादबहुपादानि तिर्यग्गतिमतीनि च 14042023c जरायुजानि भूतानि वित्त तान्यपि सत्तमाः 14042024a द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना 14042024c तपः कर्म च यत्पुण्यमित्येष विदुषां नयः 14042025a द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे 14042025c जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् 14042026a एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः 14042026c विमुक्तः सर्वपापेभ्य इति चैव निबोधत 14042027a आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते 14042027c अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् 14042028a द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम् 14042028c स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् 14042029a तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते 14042029c अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् 14042030a चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते 14042030c अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् 14042031a पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते 14042031c अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् 14042032a एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः 14042032c अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् 14042033a पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः 14042033c अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् 14042034a अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते 14042034c अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् 14042035a प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते 14042035c अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः 14042036a हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः 14042036c अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् 14042037a वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते 14042037c वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् 14042038a अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम् 14042038c अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् 14042039a अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी 14042039c अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् 14042040a यथावदध्यात्मविधिरेष वः कीर्तितो मया 14042040c ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह 14042041a इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च 14042041c सर्वाण्येतानि संधाय मनसा संप्रधारयेत् 14042042a क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते 14042042c ज्ञानसंपन्नसत्त्वानां तत्सुखं विदुषां मतम् 14042043a अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् 14042043c निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा 14042044a गुणागुणमनासङ्गमेकचर्यमनन्तरम् 14042044c एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् 14042045a विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः 14042045c विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा 14042046a कामानात्मनि संयम्य क्षीणतृष्णः समाहितः 14042046c सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति 14042047a इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् 14042047c मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते 14042048a यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते 14042048c तथेन्द्रियनिरोधेन महानात्मा प्रकाशते 14042049a यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि 14042049c स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् 14042050a अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च 14042050c मही पङ्कधरं घोरमाकाशं श्रवणं तथा 14042051a रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम् 14042051c पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् 14042052a रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम् 14042052c संसर्गाभिरतं मूढं शरीरमिति धारणा 14042053a दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम् 14042053c एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते 14042054a एतन्महार्णवं घोरमगाधं मोहसंज्ञितम् 14042054c विसृजेत्संक्षिपेच्चैव बोधयेत्सामरं जगत् 14042055a कामक्रोधौ भयं मोहमभिद्रोहमथानृतम् 14042055c इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् 14042056a यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः 14042056c व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते 14042057a कामकूलामपारान्तां मनःस्रोतोभयावहाम् 14042057c नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् 14042058a स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम् 14042058c मनो मनसि संधाय पश्यत्यात्मानमात्मनि 14042059a सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि 14042059c एकधा बहुधा चैव विकुर्वाणस्ततस्ततः 14042060a ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा 14042060c स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः 14042061a स हि धाता विधाता च स प्रभुः सर्वतोमुखः 14042061c हृदयं सर्वभूतानां महानात्मा प्रकाशते 14042062a तं विप्रसंघाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि 14042062c रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति 14043001 ब्रह्मोवाच 14043001a मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः 14043001c कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् 14043002a अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम् 14043002c गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च 14043003a न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा 14043003c शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः 14043003e एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः 14043004a हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् 14043004c श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः 14043005a शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा 14043005c एते पर्वतराजानो गणानां मरुतस्तथा 14043006a सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः 14043006c यमः पितॄणामधिपः सरितामथ सागरः 14043007a अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते 14043007c अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते 14043008a अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः 14043008c ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः 14043009a त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः 14043009c दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा 14043010a दिशामुदीची विप्राणां सोमो राजा प्रतापवान् 14043010c कुबेरः सर्वयक्षाणां देवतानां पुरंदरः 14043010e एष भूतादिकः सर्गः प्रजानां च प्रजापतिः 14043011a सर्वेषामेव भूतानामहं ब्रह्ममयो महान् 14043011c भूतं परतरं मत्तो विष्णोर्वापि न विद्यते 14043012a राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान् 14043012c ईश्वरं तं विजानीमः स विभुः स प्रजापतिः 14043013a नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम् 14043013c देवदानवनागानां सर्वेषामीश्वरो हि सः 14043014a भगदेवानुयातानां सर्वासां वामलोचना 14043014c माहेश्वरी महादेवी प्रोच्यते पार्वतीति या 14043015a उमां देवीं विजानीत नारीणामुत्तमां शुभाम् 14043015c रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा 14043016a धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः 14043016c तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे 14043017a राज्ञां हि विषये येषामवसीदन्ति साधवः 14043017c हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः 14043018a राज्ञां तु विषये येषां साधवः परिरक्षिताः 14043018c तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च 14043018e प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः 14043019a अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् 14043019c अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा 14043020a प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः 14043020c शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः 14043021a ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः 14043021c धरणी सर्वभूतानां पृथिवी गन्धलक्षणा 14043022a स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा 14043022c मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् 14043023a मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति 14043023c बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः 14043024a लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् 14043024c प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् 14043025a तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् 14043025c संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् 14043025e अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् 14043026a धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया 14043026c गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् 14043027a पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते 14043027c घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते 14043028a अपां धातुरसो नित्यं जिह्वया स तु गृह्यते 14043028c जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते 14043029a ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते 14043029c चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते 14043030a वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः 14043030c त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते 14043031a आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते 14043031c श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः 14043032a मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते 14043032c हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते 14043033a बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा 14043033c निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः 14043034a अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14043034c तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः 14043035a अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् 14043035c सदा पश्याम्यहं लीनं विजानामि शृणोमि च 14043036a पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते 14043036c गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति 14043037a आदिमध्यावसानान्तं सृज्यमानमचेतनम् 14043037c न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः 14043038a न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति 14043038c गुणानां गुणभूतानां यत्परं परतो महत् 14043039a तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् 14043039c क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ 14043040a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14043040c अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः 14044001 ब्रह्मोवाच 14044001a यदादिमध्यपर्यन्तं ग्रहणोपायमेव च 14044001c नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः 14044002a अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः 14044002c श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः 14044003a भूमिरादिस्तु गन्धानां रसानामाप एव च 14044003c रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते 14044003e शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः 14044004a अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् 14044004c आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते 14044005a सावित्री सर्वविद्यानां देवतानां प्रजापतिः 14044005c ओंकारः सर्ववेदानां वचसां प्राण एव च 14044005e यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते 14044006a गायत्री छन्दसामादिः पशूनामज उच्यते 14044006c गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः 14044007a श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् 14044007c परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः 14044008a कृतमादिर्युगानां च सर्वेषां नात्र संशयः 14044008c हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा 14044009a सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते 14044009c द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः 14044010a स्थावराणां च भूतानां सर्वेषामविशेषतः 14044010c ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः 14044011a अहं प्रजापतीनां च सर्वेषां नात्र संशयः 14044011c मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः 14044012a पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः 14044012c दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा 14044013a तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता 14044013c तथा सरोदपानानां सर्वेषां सागरोऽग्रजः 14044014a देवदानवभूतानां पिशाचोरगरक्षसाम् 14044014c नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः 14044015a आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् 14044015c भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते 14044016a आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः 14044016c लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च 14044017a अहान्यस्तमयान्तानि उदयान्ता च शर्वरी 14044017c सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् 14044018a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 14044018c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 14044019a सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् 14044019c अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् 14044020a इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये 14044020c सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते 14044021a तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः 14044021c निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः 14045001 ब्रह्मोवाच 14045001a बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् 14045001c महाभूतारविष्कम्भं निमेषपरिवेष्टनम् 14045002a जराशोकसमाविष्टं व्याधिव्यसनसंचरम् 14045002c देशकालविचारीदं श्रमव्यायामनिस्वनम् 14045003a अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् 14045003c सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् 14045004a छायातपविलेखं च निमेषोन्मेषविह्वलम् 14045004c घोरमोहजनाकीर्णं वर्तमानमचेतनम् 14045005a मासार्धमासगणितं विषमं लोकसंचरम् 14045005c तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् 14045006a सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् 14045006c स्वरविग्रहनाभीकं शोकसंघातवर्तनम् 14045007a क्रियाकारणसंयुक्तं रागविस्तारमायतम् 14045007c लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् 14045008a भयमोहपरीवारं भूतसंमोहकारकम् 14045008c आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् 14045009a महदादिविशेषान्तमसक्तप्रभवाव्ययम् 14045009c मनोजवनमश्रान्तं कालचक्रं प्रवर्तते 14045010a एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् 14045010c विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् 14045011a कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः 14045011c यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति 14045012a विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः 14045012c विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् 14045013a गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः 14045013c चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः 14045014a यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः 14045014c तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी 14045015a संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः 14045015c जातौ गुणविशिष्टायां समावर्तेत वेदवित् 14045016a स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः 14045016c पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह 14045017a देवतातिथिशिष्टाशी निरतो वेदकर्मसु 14045017c इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि 14045018a न पाणिपादचपलो न नेत्रचपलो मुनिः 14045018c न च वागङ्गचपल इति शिष्टस्य गोचरः 14045019a नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः 14045019c नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् 14045020a जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः 14045020c वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् 14045021a अधीत्याध्यापनं कुर्यात्तथा यजनयाजने 14045021c दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् 14045022a त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका 14045022c याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः 14045023a अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु 14045023c दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु 14045024a तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् 14045024c दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः 14045025a सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः 14045025c एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः 14046001 ब्रह्मोवाच 14046001a एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि 14046001c अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् 14046002a स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः 14046002c गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः 14046003a गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् 14046003c हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् 14046004a द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः 14046004c धारयीत सदा दण्डं बैल्वं पालाशमेव वा 14046005a क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा 14046005c सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह 14046006a मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा 14046006c यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः 14046007a पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् 14046007c भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते 14046008a एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः 14046008c न संसरति जातीषु परमं स्थानमाश्रितः 14046009a संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् 14046009c ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् 14046010a चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् 14046010c अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः 14046011a अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् 14046011c फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् 14046012a प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् 14046012c प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः 14046013a आमूलफलभिक्षाभिरर्चेदतिथिमागतम् 14046013c यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः 14046014a देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः 14046014c अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः 14046015a दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् 14046015c जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः 14046016a त्यक्तदेहः सदा दक्षो वननित्यः समाहितः 14046016c एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः 14046017a गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः 14046017c य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् 14046018a अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् 14046018c सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः 14046019a अयाचितमसंकॢप्तमुपपन्नं यदृच्छया 14046019c जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः 14046020a यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14046020c धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् 14046021a ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथंचन 14046021c यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा 14046022a परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन 14046022c दैन्यभावाच्च भूतानां संविभज्य सदा बुधः 14046023a नाददीत परस्वानि न गृह्णीयादयाचितम् 14046023c न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः 14046024a मृदमापस्तथाश्मानं पत्रपुष्पफलानि च 14046024c असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् 14046025a न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् 14046025c न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः 14046025e श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् 14046026a मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् 14046026c कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने 14046027a वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् 14046027c लाभे न च प्रहृष्येत नालाभे विमना भवेत् 14046028a मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः 14046028c लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः 14046028e अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः 14046029a शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च 14046029c नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा 14046029e यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् 14046030a असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् 14046030c न चान्यमनुभिक्षेत भिक्षमाणः कथंचन 14046031a न संनिकाशयेद्धर्मं विविक्ते विरजाश्चरेत् 14046031c शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा 14046031e प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् 14046032a ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् 14046032c अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् 14046033a दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् 14046033c संचयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् 14046034a पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् 14046034c उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा 14046035a अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च 14046035c अक्रोधश्चानसूया च दमो नित्यमपैशुनम् 14046036a अष्टास्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः 14046036c अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् 14046037a आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च 14046037c लोकसंग्रहधर्मं च नैव कुर्यान्न कारयेत् 14046038a सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् 14046038c समः सर्वेषु भूतेषु स्थावरेषु चरेषु च 14046039a परं नोद्वेजयेत्कंचिन्न च कस्यचिदुद्विजेत् 14046039c विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते 14046040a अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् 14046040c वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः 14046041a न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् 14046041c न प्रत्यक्षं परोक्षं वा किंचिद्दुष्टं समाचरेत् 14046042a इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः 14046042c क्षीणेन्द्रियमनोबुद्धिर्निरीक्षेत निरिन्द्रियः 14046043a निर्द्वंद्वो निर्नमस्कारो निःस्वाहाकार एव च 14046043c निर्ममो निरहंकारो निर्योगक्षेम एव च 14046044a निराशीः सर्वभूतेषु निरासङ्गो निराश्रयः 14046044c सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशयः 14046045a अपाणिपादपृष्ठं तमशिरस्कमनूदरम् 14046045c प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् 14046046a अगन्धरसमस्पर्शमरूपाशब्दमेव च 14046046c अत्वगस्थ्यथ वामज्जममांसमपि चैव ह 14046047a निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा 14046047c सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः 14046048a न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः 14046048c वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः 14046048e यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता 14046049a तस्मादलिङ्गो धर्मज्ञो धर्मव्रतमनुव्रतः 14046049c गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् 14046050a अमूढो मूढरूपेण चरेद्धर्ममदूषयन् 14046050c यथैनमवमन्येरन्परे सततमेव हि 14046051a तथावृत्तश्चरेद्धर्मं सतां वर्त्माविदूषयन् 14046051c यो ह्येवं वृत्तसंपन्नः स मुनिः श्रेष्ठ उच्यते 14046052a इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च 14046052c मनोबुद्धिरथात्मानमव्यक्तं पुरुषं तथा 14046053a सर्वमेतत्प्रसंख्याय सम्यक्संत्यज्य निर्मलः 14046053c ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः 14046054a एतदेवान्तवेलायां परिसंख्याय तत्त्ववित् 14046054c ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः 14046055a निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा 14046055c क्षीणकोशो निरातङ्कः प्राप्नोति परमं पदम् 14047001 ब्रह्मोवाच 14047001a संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः 14047001c ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः 14047002a अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम् 14047002c निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् 14047003a ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम् 14047003c निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः 14047004a तपसा क्षेममध्वानं गच्छन्ति परमैषिणः 14047004c संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः 14047005a तपः प्रदीप इत्याहुराचारो धर्मसाधकः 14047005c ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् 14047006a यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् 14047006c सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते 14047007a यो विद्वान्सहवासं च विवासं चैव पश्यति 14047007c तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते 14047008a यो न कामयते किंचिन्न किंचिदवमन्यते 14047008c इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते 14047009a प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् 14047009c निर्ममो निरहंकारो मुच्यते नात्र संशयः 14047010a निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च 14047010c निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति 14047011a हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् 14047011c उभे सत्यानृते हित्वा मुच्यते नात्र संशयः 14047012a अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् 14047012c महाहंकारविटप इन्द्रियान्तरकोटरः 14047013a महाभूतविशाखश्च विशेषप्रतिशाखवान् 14047013c सदापर्णः सदापुष्पः शुभाशुभफलोदयः 14047013e आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः 14047014a एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना 14047014c हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी 14047014e निर्ममो निरहंकारो मुच्यते नात्र संशयः 14047015a द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ 14047015c एताभ्यां तु परो यस्य चेतनावानिति स्मृतः 14047016a अचेतनः सत्त्वसंघातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा 14047016c स क्षेत्रज्ञः सत्त्वसंघातबुद्धि;र्गुणातिगो मुच्यते मृत्युपाशात् 14048001 ब्रह्मोवाच 14048001a केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् 14048001c केचित्पुरुषमव्यक्तं केचित्परमनामयम् 14048001e मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् 14048002a उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् 14048002c आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते 14048003a निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि 14048003c गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् 14048004a प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः 14048004c दशद्वादशभिर्वापि चतुर्विंशात्परं ततः 14048005a एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति 14048005c अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते 14048006a सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः 14048006c अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् 14048006e न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः 14048007a क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 14048007c ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते 14048008a एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः 14048008c सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा 14048009a आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः 14048009c क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते 14048010a पृथग्भूतस्ततो नित्यमित्येतदविचारितम् 14048010c पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः 14048011a तथैवैकत्वनानात्वमिष्यते विदुषां नयः 14048011c मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते 14048012a मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः 14048012c संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च 14048013 गुरुरुवाच 14048013a इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् 14048013c पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः 14048014 ऋषय ऊचुः 14048014a किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् 14048014c व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् 14048015a ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे 14048015c केचित्संशयितं सर्वं निःसंशयमथापरे 14048016a अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे 14048016c एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे 14048016e एकमेके पृथक्चान्ये बहुत्वमिति चापरे 14048017a मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः 14048017c जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः 14048018a अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे 14048018c आहारं केचिदिच्छन्ति केचिच्चानशने रताः 14048019a कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे 14048019c देशकालावुभौ केचिन्नैतदस्तीति चापरे 14048019e केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् 14048020a धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे 14048020c उपास्यसाधनं त्वेके नैतदस्तीति चापरे 14048021a अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः 14048021c पुण्येन यशसेत्येके नैतदस्तीति चापरे 14048022a सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः 14048022c दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः 14048023a यज्ञमित्यपरे धीराः प्रदानमिति चापरे 14048023c सर्वमेके प्रशंसन्ति न सर्वमिति चापरे 14048024a तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः 14048024c ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः 14048025a एवं व्युत्थापिते धर्मे बहुधा विप्रधावति 14048025c निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम 14048026a इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः 14048026c यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा 14048027a तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् 14048027c एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम 14048028a अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति 14048028c सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना 14048029a एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः 14048029c तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् 14049001 ब्रह्मोवाच 14049001a हन्त वः संप्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः 14049001c समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम् 14049002a अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम् 14049002c एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम् 14049003a ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः 14049003c तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः 14049004a हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः 14049004c लोभमोहसमायुक्तास्ते वै निरयगामिनः 14049005a आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः 14049005c तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः 14049006a कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः 14049006c अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः 14049007a अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा 14049007c संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः 14049008a विषयो विषयित्वं च संबन्धोऽयमिहोच्यते 14049008c विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः 14049009a व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा 14049009c भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् 14049009e यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते 14049010a अनित्यं द्वंद्वसंयुक्तं सत्त्वमाहुर्गुणात्मकम् 14049010c निर्द्वंद्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः 14049011a समः संज्ञागतस्त्वेवं यदा सर्वत्र दृश्यते 14049011c उपभुङ्क्ते सदा सत्त्वमापः पुष्करपर्णवत् 14049012a सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते 14049012c जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः 14049012e एवमेवाप्यसंसक्तः पुरुषः स्यान्न संशयः 14049013a द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः 14049013c यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा 14049014a यथा प्रदीपमादाय कश्चित्तमसि गच्छति 14049014c तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः 14049015a यावद्द्रव्यगुणस्तावत्प्रदीपः संप्रकाशते 14049015c क्षीणद्रव्यगुणं ज्योतिरन्तर्धानाय गच्छति 14049016a व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते 14049016c एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः 14049017a सहस्रेणापि दुर्मेधा न वृद्धिमधिगच्छति 14049017c चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते 14049018a एवं धर्मस्य विज्ञेयं संसाधनमुपायतः 14049018c उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते 14049019a यथाध्वानमपाथेयः प्रपन्नो मानवः क्वचित् 14049019c क्लेशेन याति महता विनश्यत्यन्तरापि वा 14049020a तथा कर्मसु विज्ञेयं फलं भवति वा न वा 14049020c पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम् 14049021a यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते 14049021c अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः 14049022a तमेव च यथाध्वानं रथेनेहाशुगामिना 14049022c यायादश्वप्रयुक्तेन तथा बुद्धिमतां गतिः 14049023a उच्चं पर्वतमारुह्य नान्ववेक्षेत भूगतम् 14049023c रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम् 14049024a यावद्रथपथस्तावद्रथेन स तु गच्छति 14049024c क्षीणे रथपथे प्राज्ञो रथमुत्सृज्य गच्छति 14049025a एवं गच्छति मेधावी तत्त्वयोगविधानवित् 14049025c समाज्ञाय महाबुद्धिरुत्तरादुत्तरोत्तरम् 14049026a यथा महार्णवं घोरमप्लवः संप्रगाहते 14049026c बाहुभ्यामेव संमोहाद्वधं चर्च्छत्यसंशयम् 14049027a नावा चापि यथा प्राज्ञो विभागज्ञस्तरित्रया 14049027c अक्लान्तः सलिलं गाहेत्क्षिप्रं संतरति ध्रुवम् 14049028a तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः 14049028c व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ 14049029a स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा 14049029c ममत्वेनाभिभूतः स तत्रैव परिवर्तते 14049030a नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् 14049030c तथैव रथमारुह्य नाप्सु चर्या विधीयते 14049031a एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् 14049031c यथा कर्म कृतं लोके तथा तदुपपद्यते 14049032a यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् 14049032c मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते 14049033a तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् 14049033c महतः प्रधानभूतस्य गुणोऽहंकार एव च 14049034a अहंकारप्रधानस्य महाभूतकृतो गुणः 14049034c पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः 14049035a बीजधर्मं यथाव्यक्तं तथैव प्रसवात्मकम् 14049035c बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम् 14049036a बीजधर्मा त्वहंकारः प्रसवश्च पुनः पुनः 14049036c बीजप्रसवधर्माणि महाभूतानि पञ्च वै 14049037a बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते 14049037c विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् 14049038a तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते 14049038c त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः 14049039a पृथ्वी पञ्चगुणा ज्ञेया त्रसस्थावरसंकुला 14049039c सर्वभूतकरी देवी शुभाशुभनिदर्शना 14049040a शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः 14049040c एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः 14049041a पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः 14049041c तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् 14049042a इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा 14049042c निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 14049042e एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत 14049043a शब्दः स्पर्शस्तथा रूपं रसश्चापां गुणाः स्मृताः 14049043c रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः 14049044a मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा 14049044c एवं षड्विधविस्तारो रसो वारिमयः स्मृतः 14049045a शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते 14049045c ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् 14049046a शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा 14049046c ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् 14049047a एवं द्वादशविस्तारं तेजसो रूपमुच्यते 14049047c विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः 14049048a शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते 14049048c वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः 14049049a उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 14049049c कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः 14049050a एवं द्वादशविस्तारो वायव्यो गुण उच्यते 14049050c विधिवद्ब्रह्मणैः सिद्धैर्धर्मज्ञैस्तत्त्वदर्शिभिः 14049051a तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः 14049051c तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् 14049052a षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा 14049052c अतः परं तु विज्ञेयो निषादो धैवतस्तथा 14049053a इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् 14049053c एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः 14049054a आकाशमुत्तमं भूतमहंकारस्ततः परम् 14049054c अहंकारात्परा बुद्धिर्बुद्धेरात्मा ततः परः 14049055a तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः 14049055c परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते 14050001 ब्रह्मोवाच 14050001a भूतानामथ पञ्चानां यथैषामीश्वरं मनः 14050001c नियमे च विसर्गे च भूतात्मा मन एव च 14050002a अधिष्ठाता मनो नित्यं भूतानां महतां तथा 14050002c बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते 14050003a इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः 14050003c इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा 14050004a महाभूतसमायुक्तं बुद्धिसंयमनं रथम् 14050004c तमारुह्य स भूतात्मा समन्तात्परिधावति 14050005a इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च 14050005c बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः 14050006a एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम् 14050006c स धीरः सर्वलोकेषु न मोहमधिगच्छति 14050007a अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम् 14050007c चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम् 14050008a नदीपर्वतजालैश्च सर्वतः परिभूषितम् 14050008c विविधाभिस्तथाद्भिश्च सततं समलंकृतम् 14050009a आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः 14050009c एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित् 14050010a लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च 14050010c तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः 14050010e गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः 14050011a देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः 14050011c सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् 14050012a एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः 14050012c तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु 14050012e प्रलीयन्ते यथाकालमूर्मयः सागरे यथा 14050013a विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति 14050013c भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम् 14050014a प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः 14050014c तथैव वेदानृषयस्तपसा प्रतिपेदिरे 14050015a तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा 14050015c त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः 14050016a ओषधान्यगदादीनी नानाविद्याश्च सर्वशः 14050016c तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम् 14050017a यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम् 14050017c तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् 14050018a सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः 14050018c तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः 14050019a मनुष्याः पितरो देवाः पशवो मृगपक्षिणः 14050019c यानि चान्यानि भूतानि त्रसानि स्थावराणि च 14050020a तपःपरायणा नित्यं सिध्यन्ते तपसा सदा 14050020c तथैव तपसा देवा महाभागा दिवं गताः 14050021a आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः 14050021c अहंकारसमायुक्तास्ते सकाशे प्रजापतेः 14050022a ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः 14050022c प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम् 14050023a ध्यानयोगादुपागम्य प्रसन्नमतयः सदा 14050023c सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया 14050024a ध्यानयोगादुपागम्य निर्ममा निरहंकृताः 14050024c अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम् 14050025a अव्यक्तादेव संभूतः समयज्ञो गतः पुनः 14050025c तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम् 14050026a विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः 14050026c क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित् 14050027a चित्तं चित्तादुपागम्य मुनिरासीत संयतः 14050027c यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम् 14050028a अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम् 14050028c निबोधत यथा हीदं गुणैर्लक्षणमित्युत 14050029a द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 14050029c ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् 14050030a कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः 14050030c ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते 14050031a कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः 14050031c पुरुषं सृजतेऽविद्या अग्राह्यममृताशिनम् 14050032a तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः 14050032c विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः 14050033a अपूर्वममृतं नित्यं य एनमविचारिणम् 14050033c य एनं विन्दतेऽऽत्मानमग्राह्यममृताशिनम् 14050033e अग्राह्योऽमृतो भवति य एभिः कारणैर्ध्रुवः 14050034a अपोह्य सर्वसंकल्पान्संयम्यात्मानमात्मनि 14050034c स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते 14050035a प्रसादेनैव सत्त्वस्य प्रसादं समवाप्नुयात् 14050035c लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम् 14050036a गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः 14050036c प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः 14050037a एषा गतिरसक्तानामेष धर्मः सनातनः 14050037c एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम् 14050038a समेन सर्वभूतेषु निःस्पृहेण निराशिषा 14050038c शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना 14050039a एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः 14050039c एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ 14050040 गुरुरुवाच 14050040a इत्युक्तास्ते तु मुनयो ब्रह्मणा गुरुणा तथा 14050040c कृतवन्तो महात्मानस्ततो लोकानवाप्नुवन् 14050041a त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः 14050041c सम्यगाचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि 14050042 वासुदेव उवाच 14050042a इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम् 14050042c चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान् 14050043a कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह 14050043c तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति 14050044 अर्जुन उवाच 14050044a को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन 14050044c श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो 14050045 वासुदेव उवाच 14050045a अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे 14050045c त्वत्प्रीत्या गुह्यमेतच्च कथितं मे धनंजय 14050046a मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह 14050046c अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत 14050047a ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन्कुरुनन्दन 14050047c सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् 14050048a पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते 14050048c मया तव महाबाहो तस्मादत्र मनः कुरु 14050049a मया तु भरतश्रेष्ठ चिरदृष्टः पिता विभो 14050049c तमहं द्रष्टुमिच्छामि संमते तव फल्गुन 14050050 वैशंपायन उवाच 14050050a इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः 14050050c गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै 14050051a समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम् 14050051c समनुज्ञाप्य दुर्धर्षं स्वां पुरीं यातुमर्हसि 14051001 वैशंपायन उवाच 14051001a ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् 14051001c मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः 14051002a तथैव चानुयात्राणि चोदयामास पाण्डवः 14051002c सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् 14051003a इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते 14051003c आचख्युः सज्जमित्येव पार्थायामिततेजसे 14051004a ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ 14051004c विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते 14051005a रथस्थं तु महातेजा वासुदेवं धनंजयः 14051005c पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम 14051006a त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह 14051006c निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् 14051007a नाथवन्तश्च भवता पाण्डवा मधुसूदन 14051007c भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् 14051008a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव 14051008c यथाहं त्वा विजानामि यथा चाहं भवन्मनाः 14051009a त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन 14051009c रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो 14051010a त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् 14051010c त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् 14051011a पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् 14051011c हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः 14051012a प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः 14051012c प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते 14051013a रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् 14051013c त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ 14051014a सुदीर्घेणापि कालेन न ते शक्या गुणा मया 14051014c आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण 14051015a विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा 14051015c कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् 14051016a त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः 14051016c यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ 14051017a एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन 14051017c इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया 14051018a यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः 14051018c त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे 14051019a भवता तत्कृतं कर्म येनावाप्तो जयो मया 14051019c दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः 14051020a कर्णस्य च वधोपायो यथावत्संप्रदर्शितः 14051020c सैन्धवस्य च पापस्य भूरिश्रवस एव च 14051021a अहं च प्रीयमाणेन त्वया देवकिनन्दन 14051021c यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा 14051022a राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् 14051022c चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ 14051023a रुचितं हि ममैतत्ते द्वारकागमनं प्रभो 14051023c अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन 14051023e बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान् 14051024a एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् 14051024c तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम् 14051025a तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् 14051025c ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् 14051026a विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् 14051026c भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ 14051026e धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् 14051027a गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् 14051027c सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा 14051027e ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै 14051028a ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ 14051028c निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् 14051029a गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च 14051029c भीमस्य च महात्मानौ तथा पादावगृह्णताम् 14051030a क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् 14051030c तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् 14051031a ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् 14051031c जनार्दनं च मेधावी व्यसर्जयत वै गृहान् 14051032a तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् 14051032c धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् 14051033a तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः 14051033c कृष्णः सुष्वाप मेधावी धनंजयसहायवान् 14051034a प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ 14051034c धर्मराजस्य भवनं जग्मतुः परमार्चितौ 14051034e यत्रास्ते स सहामात्यो धर्मराजो महामनाः 14051035a ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ 14051035c धर्मराजानमासीनं देवराजमिवाश्विनौ 14051036a तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ 14051036c निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै 14051037a ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ 14051037c प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः 14051038a विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ 14051038c ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् 14051039a इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् 14051039c विनीतवदुपागम्य वाक्यं वाक्यविशारदः 14051040a अयं चिरोषितो राजन्वासुदेवः प्रतापवान् 14051040c भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति 14051041a स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे 14051041c आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि 14051042 युधिष्ठिर उवाच 14051042a पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन 14051042c पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् 14051043a रोचते मे महाबाहो गमनं तव केशव 14051043c मातुलश्चिरदृष्टो मे त्वया देवी च देवकी 14051044a मातुलं वसुदेवं त्वं बलदेवं च माधव 14051044c पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः 14051045a स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् 14051045c फल्गुनं नकुलं चैव सहदेवं च माधव 14051046a आनर्तानवलोक्य त्वं पितरं च महाभुज 14051046c वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ 14051047a स गच्छ रत्नान्यादाय विविधानि वसूनि च 14051047c यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत 14051048a इयं हि वसुधा सर्वा प्रसादात्तव माधव 14051048c अस्मानुपगता वीर निहताश्चापि शत्रवः 14051049a एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे 14051049c वासुदेवो वरः पुंसामिदं वचनमब्रवीत् 14051050a तवैव रत्नानि धनं च केवल;म्धरा च कृत्स्ना तु महाभुजाद्य वै 14051050c यदस्ति चान्यद्द्रविणं गृहेषु मे; त्वमेव तस्येश्वर नित्यमीश्वरः 14051051a तथेत्यथोक्तः प्रतिपूजितस्तदा; गदाग्रजो धर्मसुतेन वीर्यवान् 14051051c पितृष्वसामभ्यवदद्यथाविधि; संपूजितश्चाप्यगमत्प्रदक्षिणम् 14051052a तया स सम्यक्प्रतिनन्दितस्तदा; तथैव सर्वैर्विदुरादिभिस्ततः 14051052c विनिर्ययौ नागपुराद्गदाग्रजो; रथेन दिव्येन चतुर्युजा हरिः 14051053a रथं सुभद्रामधिरोप्य भामिनीं; युधिष्ठिरस्यानुमते जनार्दनः 14051053c पितृष्वसायाश्च तथा महाभुजो; विनिर्ययौ पौरजनाभिसंवृतः 14051054a तमन्वगाद्वानरवर्यकेतनः; ससात्यकिर्माद्रवतीसुतावपि 14051054c अगाधबुद्धिर्विदुरश्च माधवं; स्वयं च भीमो गजराजविक्रमः 14051055a निवर्तयित्वा कुरुराष्ट्रवर्धनां;स्ततः स सर्वान्विदुरं च वीर्यवान् 14051055c जनार्दनो दारुकमाह सत्वरः; प्रचोदयाश्वानिति सात्यकिस्तदा 14051056a ततो ययौ शत्रुगणप्रमर्दनः; शिनिप्रवीरानुगतो जनार्दनः 14051056c यथा निहत्यारिगणाञ्शतक्रतु;र्दिवं तथानर्तपुरीं प्रतापवान् 14052001 वैशंपायन उवाच 14052001a तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः 14052001c परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः 14052002a पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः 14052002c आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः 14052003a कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम् 14052003c संजहार तदा दृष्टिं कृष्णश्चाप्यपराजितः 14052004a तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः 14052004c बहून्यद्भुतरूपाणि तानि मे गदतः शृणु 14052005a वायुर्वेगेन महता रथस्य पुरतो ववौ 14052005c कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् 14052006a ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च 14052006c दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः 14052007a स प्रयातो महाबाहुः समेषु मरुधन्वसु 14052007c ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् 14052008a स तं संपूज्य तेजस्वी मुनिं पृथुललोचनः 14052008c पूजितस्तेन च तदा पर्यपृच्छदनामयम् 14052009a स पृष्टः कुशलं तेन संपूज्य मधुसूदनम् 14052009c उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् 14052010a कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् 14052010c कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि 14052011a अभिसंधाय तान्वीरानुपावृत्तोऽसि केशव 14052011c संबन्धिनः सुदयितान्सततं वृष्णिपुंगव 14052012a कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः 14052012c लोकेषु विहरिष्यन्ति त्वया सह परंतप 14052013a स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् 14052013c कौरवेषु प्रशान्तेषु त्वया नाथेन माधव 14052014a या मे संभावना तात त्वयि नित्यमवर्तत 14052014c अपि सा सफला कृष्ण कृता ते भरतान्प्रति 14052015 वासुदेव उवाच 14052015a कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति 14052015c न चाशक्यन्त संधातुं तेऽधर्मरुचयो मया 14052016a ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः 14052016c न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा 14052016e महर्षे विदितं नूनं सर्वमेतत्तवानघ 14052017a तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च 14052017c ततो यमक्षयं जग्मुः समासाद्येतरेतरम् 14052018a पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः 14052018c धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः 14052019a इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः 14052019c उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने 14052020a यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः 14052020c संबन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् 14052021a न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः 14052021c तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन 14052022a त्वया हि शक्तेन सता मिथ्याचारेण माधव 14052022c उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः 14052023 वासुदेव उवाच 14052023a शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन 14052023c गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव 14052024a श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै 14052024c न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् 14052025a न च ते तपसो नाशमिच्छामि जपतां वर 14052025c तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः 14052026a कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम 14052026c दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् 14053001 उत्तङ्क उवाच 14053001a ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् 14053001c श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन 14053002 वासुदेव उवाच 14053002a तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान् 14053002c तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज 14053003a मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् 14053003c स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः 14053004a तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान् 14053004c गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज 14053005a सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च 14053005c अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् 14053006a ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने 14053006c दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् 14053007a असच्च सदसच्चैव यद्विश्वं सदसतः परम् 14053007c ततः परं नास्ति चैव देवदेवात्सनातनात् 14053008a ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह 14053008c यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे 14053009a होतारमपि हव्यं च विद्धि मां भृगुनन्दन 14053009c अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् 14053010a उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे 14053010c प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः 14053010e स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः 14053011a विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम 14053011c मानसं दयितं विप्र सर्वभूतदयात्मकम् 14053012a तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः 14053012c बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम 14053013a धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च 14053013c तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव 14053014a अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः 14053014c भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च 14053015a अधर्मे वर्तमानानां सर्वेषामहमप्युत 14053015c धर्मस्य सेतुं बध्नामि चलिते चलिते युगे 14053015e तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया 14053016a यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन 14053016c तदाहं देववत्सर्वमाचरामि न संशयः 14053017a यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन 14053017c तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव 14053018a नागयोनौ यदा चैव तदा वर्तामि नागवत् 14053018c यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् 14053019a मानुष्ये वर्तमाने तु कृपणं याचिता मया 14053019c न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् 14053020a भयं च महदुद्दिश्य त्रासिताः कुरवो मया 14053020c क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः 14053021a तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा 14053021c धर्मेण निहता युद्धे गताः स्वर्गं न संशयः 14053022a लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम 14053022c एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 14054001 उत्तङ्क उवाच 14054001a अभिजानामि जगतः कर्तारं त्वां जनार्दन 14054001c नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः 14054002a चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत 14054002c विनिवृत्तश्च मे कोप इति विद्धि परंतप 14054003a यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन 14054003c द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय 14054004 वैशंपायन उवाच 14054004a ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः 14054004c शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः 14054005a स ददर्श महात्मानं विश्वरूपं महाभुजम् 14054005c विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् 14054006 उत्तङ्क उवाच 14054006a विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम् 14054006c पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः 14054007a द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम् 14054007c भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत 14054008a संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् 14054008c पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् 14054009 वैशंपायन उवाच 14054009a तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय 14054009c वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् 14054010a पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते 14054010c यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् 14054011a तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय 14054011c अवश्यमेतत्कर्तव्यममोघं दर्शनं मम 14054012 उत्तङ्क उवाच 14054012a अवश्यकरणीयं वै यद्येतन्मन्यसे विभो 14054012c तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् 14054013 वैशंपायन उवाच 14054013a ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः 14054013c एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ 14054014a ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया 14054014c तृषितः परिचक्राम मरौ सस्मार चाच्युतम् 14054015a ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् 14054015c अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् 14054016a भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् 14054016c तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः 14054017a स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव 14054017c एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह 14054017e कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् 14054018a इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत 14054018c चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् 14054019a पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत् 14054019c न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना 14054020a स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना 14054020c श्वभिः सह महाराज तत्रैवान्तरधीयत 14054021a उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः 14054021c मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना 14054022a अथ तेनैव मार्गेण शङ्खचक्रगदाधरः 14054022c आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् 14054023a न युक्तं तादृशं दातुं त्वया पुरुषसत्तम 14054023c सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो 14054024a इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः 14054024c उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् 14054025a यादृशेनेह रूपेण योग्यं दातुं वृतेन वै 14054025c तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे 14054026a मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः 14054026c उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः 14054027a स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत् 14054027c अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन 14054028a अमृतं देयमित्येव मयोक्तः स शचीपतिः 14054028c स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् 14054029a यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते 14054029c भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने 14054030a यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै 14054030c प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो 14054030e प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव 14054031a स तथा समयं कृत्वा तेन रूपेण वासवः 14054031c उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् 14054031e चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः 14054032a यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् 14054032c तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् 14054033a येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति 14054033c तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः 14054034a रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन 14054034c उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते 14054035a इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह 14054035c अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत 14055001 जनमेजय उवाच 14055001a उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः 14055001c यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे 14055002 वैशंपायन उवाच 14055002a उत्तङ्को महता युक्तस्तपसा जनमेजय 14055002c गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत् 14055003a सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः 14055003c औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत 14055004a गौतमस्य तु शिष्याणां बहूनां जनमेजय 14055004c उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा 14055005a स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा 14055005c सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् 14055006a अथ शिष्यसहस्राणि समनुज्ञाय गौतमः 14055006c उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत 14055007a तं क्रमेण जरा तात प्रतिपेदे महामुनिम् 14055007c न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः 14055008a ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ 14055008c उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् 14055009a स तु भाराभिभूतात्मा काष्ठभारमरिंदम 14055009c निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः 14055010a तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा 14055010c ततः काष्ठैः सह तदा पपात धरणीतले 14055011a ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः 14055011c दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा 14055012a ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा 14055012c जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना 14055012e पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा 14055013a तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः 14055013c न हि तानश्रुपातान्वै शक्ता धारयितुं मही 14055014a गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः 14055014c कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः 14055014e स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः 14055015 उत्तङ्क उवाच 14055015a भवद्गतेन मनसा भवत्प्रियचिकीर्षया 14055015c भवद्भक्तिगतेनेह भवद्भावानुगेन च 14055016a जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे 14055016c शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः 14055017a भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया 14055017c उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः 14055018 गौतम उवाच 14055018a त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव 14055018c व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ 14055019a किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव 14055019c अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् 14055020 उत्तङ्क उवाच 14055020a गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम 14055020c तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो 14055021 गौतम उवाच 14055021a दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते 14055021c तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः 14055022a इत्थं च परितुष्टं मां विजानीहि भृगूद्वह 14055022c युवा षोडशवर्षो हि यदद्य भविता भवान् 14055023a ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज 14055023c एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् 14055024a ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् 14055024c गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् 14055025a किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् 14055025c प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि 14055026a यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् 14055026c तदानयेयं तपसा न हि मेऽत्रास्ति संशयः 14055027 अहल्योवाच 14055027a परितुष्टास्मि ते पुत्र नित्यं भगवता सह 14055027c पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् 14055028 वैशंपायन उवाच 14055028a उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः 14055028c आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव 14055029 अहल्योवाच 14055029a सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले 14055029c ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् 14055030a स तथेति प्रतिश्रुत्य जगाम जनमेजय 14055030c गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा 14055031a स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः 14055031c सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले 14055032a गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते 14055032c इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै 14055033a ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् 14055033c शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति 14055034 अहल्योवाच 14055034a अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे 14055034c भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति 14055035a इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः 14055035c उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह 14056001 वैशंपायन उवाच 14056001a स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् 14056001c दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् 14056002a चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् 14056002c प्रत्युत्थाय महातेजा भयकर्ता यमोपमः 14056003a दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् 14056003c भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम 14056004 उत्तङ्क उवाच 14056004a राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् 14056004c न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः 14056005 राजोवाच 14056005a षष्ठे काले ममाहारो विहितो द्विजसत्तम 14056005c न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै 14056006 उत्तङ्क उवाच 14056006a एवमस्तु महाराज समयः क्रियतां तु मे 14056006c गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् 14056007a संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम 14056007c त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर 14056008a ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः 14056008c दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह 14056008e पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम 14056009a उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम 14056009c समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् 14056010a सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन 14056010c अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा 14056011 सौदास उवाच 14056011a यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः 14056011c यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे 14056012 उत्तङ्क उवाच 14056012a प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ 14056012c सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले 14056013 सौदास उवाच 14056013a पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले 14056013c वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत 14056014 उत्तङ्क उवाच 14056014a अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् 14056014c प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव 14056015 वैशंपायन उवाच 14056015a इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः 14056015c गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम 14056016a सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता 14056016c प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः 14056017 उत्तङ्क उवाच 14056017a क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर 14056017c स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति 14056018 सौदास उवाच 14056018a द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे 14056018c षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै 14056019a उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ 14056019c मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् 14056020a सौदासवचनं श्रुत्वा ततः सा पृथुलोचना 14056020c प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय 14056021a एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ 14056021c अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि 14056022a इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च 14056022c तैस्तैरुपायैः परिहर्तुकामा;श्छिद्रेषु नित्यं परितर्कयन्ति 14056023a निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः 14056023c यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः 14056024a छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ 14056024c देवराक्षसनागानामप्रमत्तेन धार्यते 14056025a स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम 14056025c नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते 14056026a एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः 14056026c विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते 14056027a ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा 14056027c अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः 14056028a एवंविधे ममैते वै कुण्डले परमार्चिते 14056028c त्रिषु लोकेषु विख्याते तदभिज्ञानमानय 14057001 वैशंपायन उवाच 14057001a स मित्रसहमासाद्य त्वभिज्ञानमयाचत 14057001c तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा 14057002 सौदास उवाच 14057002a न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः 14057002c एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले 14057003 वैशंपायन उवाच 14057003a इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् 14057003c श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले 14057004a अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् 14057004c किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव 14057005 सौदास उवाच 14057005a प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह 14057005c विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः 14057006a सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् 14057006c गतिमन्यां न पश्यामि मदयन्तीसहायवान् 14057006e स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम 14057007a न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः 14057007c शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् 14057008a तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले 14057008c यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे 14057009 उत्तङ्क उवाच 14057009a राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् 14057009c प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप 14057010 सौदास उवाच 14057010a ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः 14057010c छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा 14057011 उत्तङ्क उवाच 14057011a प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः 14057011c मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः 14057012a स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव 14057012c स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर 14057013a अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः 14057013c भवत्सकाशमागन्तुं क्षमं मम न वेति वा 14057014 सौदास उवाच 14057014a क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम 14057014c मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन 14057015a एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह 14057015c आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् 14057016 वैशंपायन उवाच 14057016a इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् 14057016c समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् 14057017a गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः 14057017c जवेन महता प्रायाद्गौतमस्याश्रमं प्रति 14057018a यथा तयो रक्षणं च मदयन्त्याभिभाषितम् 14057018c तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् 14057019a स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् 14057019c बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः 14057020a शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम 14057020c यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै 14057021a विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् 14057021c अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले 14057022a ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै 14057022c विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले 14057023a ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह 14057023c पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः 14057024a स दण्डकाष्ठमादाय वल्मीकमखनत्तदा 14057024c क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः 14057025a तस्य वेगमसह्यं तमसहन्ती वसुंधरा 14057025c दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा 14057026a ततः खनत एवाथ विप्रर्षेर्धरणीतलम् 14057026c नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् 14057027a रथेन हरियुक्तेन तं देशमुपजग्मिवान् 14057027c वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् 14057028a स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः 14057028c उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै 14057029a इतो हि नागलोको वै योजनानि सहस्रशः 14057029c न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव 14057030 उत्तङ्क उवाच 14057030a नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया 14057030c प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम 14057031a यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा 14057031c वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह 14057032a ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा 14057032c नागलोकस्य पन्थानमकरोज्जनमेजय 14057033a स तेन मार्गेण तदा नागलोकं विवेश ह 14057033c ददर्श नागलोकं च योजनानि सहस्रशः 14057034a प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः 14057034c उपपन्नं महाभाग शातकुम्भमयैस्तथा 14057035a वापीः स्फटिकसोपाना नदीश्च विमलोदकाः 14057035c ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् 14057036a तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः 14057036c पञ्चयोजनविस्तारमायतं शतयोजनम् 14057037a नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा 14057037c निराशश्चाभवत्तात कुण्डलाहरणे पुनः 14057038a तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः 14057038c ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा 14057039a धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे 14057039c ऐरावतसुतेनेह तवानीते हि कुण्डले 14057040a मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन 14057040c त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा 14057041 उत्तङ्क उवाच 14057041a कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति 14057041c यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् 14057042 अश्व उवाच 14057042a गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् 14057042c त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः 14057043a सततं पूजितो विप्र शुचिना भृगुनन्दन 14057043c तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् 14057044a इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना 14057044c घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया 14057045a ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत 14057045c घनः प्रादुरभूद्धूमो नागलोकभयावहः 14057046a तेन धूमेन सहसा वर्धमानेन भारत 14057046c नागलोके महाराज न प्रज्ञायत किंचन 14057047a हाहाकृतमभूत्सर्वमैरावतनिवेशनम् 14057047c वासुकिप्रमुखानां च नागानां जनमेजय 14057048a न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत 14057048c नीहारसंवृतानीव वनानि गिरयस्तथा 14057049a ते धूमरक्तनयना वह्नितेजोभितापिताः 14057049c आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः 14057050a श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः 14057050c संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि 14057051a सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः 14057051c शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति 14057052a प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च 14057052c प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते 14057053a ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् 14057053c अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् 14057054a स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् 14057054c प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ 14057055a एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय 14057055c परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले 14057056a एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ 14057056c परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि 14058001 जनमेजय उवाच 14058001a उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम 14058001c अत ऊर्ध्वं महाबाहुः किं चकार महायशाः 14058002 वैशंपायन उवाच 14058002a दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह 14058002c द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः 14058003a सरांसि च नदीश्चैव वनानि विविधानि च 14058003c अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् 14058004a वर्तमाने महाराज महे रैवतकस्य च 14058004c उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा 14058005a अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः 14058005c बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ 14058006a काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च 14058006c वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः 14058007a दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः 14058007c गुहानिर्झरदेशेषु दिवाभूतो बभूव ह 14058008a पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः 14058008c पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् 14058008e अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव 14058009a मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत 14058009c गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः 14058010a प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला 14058010c तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा 14058011a विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् 14058011c वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् 14058012a सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह 14058012c दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् 14058012e बभौ परमकल्याणो महस्तस्य महागिरेः 14058013a पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः 14058013c विहारो वृष्णिवीराणां महे रैवतकस्य ह 14058013e स नगो वेश्मसंकीर्णो देवलोक इवाबभौ 14058014a तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ 14058014c शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् 14058015a ततः संपूज्यमानः स विवेश भवनं शुभम् 14058015c गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् 14058016a विवेश च स हृष्टात्मा चिरकालप्रवासकः 14058016c कृत्वा नसुकरं कर्म दानवेष्विव वासवः 14058017a उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा 14058017c अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् 14058018a स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा 14058018c अभ्यवादयत प्रीतः पितरं मातरं तथा 14058019a ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः 14058019c उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः 14058020a स विश्रान्तो महातेजाः कृतपादावसेचनः 14058020c कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् 14059001 वसुदेव उवाच 14059001a श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् 14059001c नराणां वदतां पुत्र कथोद्घातेषु नित्यशः 14059002a त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज 14059002c तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ 14059003a यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् 14059003c भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् 14059004a अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः 14059004c नानावेषाकृतिमतां नानादेशनिवासिनाम् 14059005a इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके 14059005c शशंस कुरुवीराणां संग्रामे निधनं यथा 14059006 वासुदेव उवाच 14059006a अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् 14059006c बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि 14059007a प्राधान्यतस्तु गदतः समासेनैव मे शृणु 14059007c कर्माणि पृथिवीशानां यथावदमरद्युते 14059008a भीष्मः सेनापतिरभूदेकादशचमूपतिः 14059008c कौरव्यः कौरवेयाणां देवानामिव वासवः 14059009a शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः 14059009c बभूव रक्षितो धीमान्धीमता सव्यसाचिना 14059010a तेषां तदभवद्युद्धं दशाहानि महात्मनाम् 14059010c कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् 14059011a ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे 14059011c जघान बहुभिर्बाणैः सह गाण्डीवधन्वना 14059012a अकरोत्स ततः कालं शरतल्पगतो मुनिः 14059012c अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे 14059013a ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः 14059013c प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव 14059014a अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः 14059014c संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः 14059015a धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् 14059015c गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा 14059016a पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः 14059016c पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् 14059017a तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे 14059017c नानादिगागता वीराः प्रायशो निधनं गताः 14059018a दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् 14059018c ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः 14059019a ततः सेनापतिरभूत्कर्णो दौर्योधने बले 14059019c अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे 14059020a तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः 14059020c हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः 14059021a ततः पार्थं समासाद्य पतंग इव पावकम् 14059021c पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे 14059022a हते कर्णे तु कौरव्या निरुत्साहा हतौजसः 14059022c अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् 14059023a हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् 14059023c अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् 14059024a अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः 14059024c तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् 14059025a हते शल्ये तु शकुनिं सहदेवो महामनाः 14059025c आहर्तारं कलेस्तस्य जघानामितविक्रमः 14059026a निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः 14059026c अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः 14059027a तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् 14059027c ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् 14059028a ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् 14059028c उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः 14059029a विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः 14059029c उत्थाय स गदापाणिर्युद्धाय समुपस्थितः 14059030a ततः स निहतो राजा धार्तराष्ट्रो महामृधे 14059030c भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् 14059031a ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि 14059031c निहतं द्रोणपुत्रेण पितुर्वधममृष्यता 14059032a हतपुत्रा हतबला हतमित्रा मया सह 14059032c युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः 14059033a सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत 14059033c युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् 14059034a निहते कौरवेन्द्रे च सानुबन्धे सुयोधने 14059034c विदुरः संजयश्चैव धर्मराजमुपस्थितौ 14059035a एवं तदभवद्युद्धमहान्यष्टादश प्रभो 14059035c यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् 14059036 वैशंपायन उवाच 14059036a शृण्वतां तु महाराज कथां तां रोमहर्षणीम् 14059036c दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा 14060001 वैशंपायन उवाच 14060001a कथयन्नेव तु तदा वासुदेवः प्रतापवान् 14060001c महाभारतयुद्धं तत्कथान्ते पितुरग्रतः 14060002a अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत 14060002c अप्रियं वसुदेवस्य मा भूदिति महामनाः 14060003a मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् 14060003c दुःखशोकाभिसंतप्तो भवेदिति महामतिः 14060004a सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे 14060004c आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि 14060005a तामपश्यन्निपतितां वसुदेवः क्षितौ तदा 14060005c दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः 14060006a ततः स दौहित्रवधाद्दुःखशोकसमन्वितः 14060006c वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् 14060007a ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः 14060007c यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् 14060008a तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो 14060008c सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे 14060009a दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा 14060009c यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते 14060010a किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति 14060010c मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम 14060011a आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः 14060011c कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् 14060012a स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः 14060012c बालभावेन विजयमात्मनोऽकथयत्प्रभुः 14060013a कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः 14060013c धरण्यां निहतः शेते तन्ममाचक्ष्व केशव 14060014a स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् 14060014c स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम 14060015a एवंविधं बहु तदा विलपन्तं सुदुःखितम् 14060015c पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् 14060016a न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि 14060016c न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः 14060017a निहत्य पृथिवीपालान्सहस्रशतसंघशः 14060017c खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः 14060018a एको ह्येकेन सततं युध्यमानो यदि प्रभो 14060018c न स शक्येत संग्रामे निहन्तुमपि वज्रिणा 14060019a समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा 14060019c पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे 14060020a ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः 14060020c दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः 14060021a नूनं च स गतः स्वर्गं जहि शोकं महामते 14060021c न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् 14060022a द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः 14060022c रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् 14060023a स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः 14060023c शस्त्रपूतां हि स गतिं गतः परपुरंजयः 14060024a तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम 14060024c दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह 14060025a द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता 14060025c आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् 14060026a अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः 14060026c भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् 14060027a उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः 14060027c क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह 14060028a ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा 14060028c भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः 14060029a अभिमन्यो कुशलिनो मातुलास्ते महारथाः 14060029c कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् 14060030a आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम 14060030c कस्मादेव विलपतीं नाद्येह प्रतिभाषसे 14060031a एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् 14060031c श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् 14060032a सुभद्रे वासुदेवेन तथा सात्यकिना रणे 14060032c पित्रा च पालितो बालः स हतः कालधर्मणा 14060033a ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि 14060033c पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् 14060034a कुले महति जातासि क्षत्रियाणां महात्मनाम् 14060034c मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे 14060035a उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे 14060035c पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी 14060036a एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह 14060036c विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् 14060037a समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च 14060037c यमौ यमोपमौ चैव ददौ दानान्यनेकशः 14060038a ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह 14060038c समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् 14060039a वैराटि नेह संतापस्त्वया कार्यो यशस्विनि 14060039c भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् 14060040a एवमुक्त्वा ततः कुन्ती विरराम महाद्युते 14060040c तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् 14060041a एवं स निधनं प्राप्तो दौहित्रस्तव माधव 14060041c संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः 14061001 वैशंपायन उवाच 14061001a एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा 14061001c विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् 14061002a तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः 14061002c दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् 14061003a षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः 14061003c विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् 14061004a आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् 14061004c ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् 14061005a सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा 14061005c दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् 14061006a वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः 14061006c अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा 14061006e अतीव दुःखसंतप्ता न शमं चोपलेभिरे 14061007a तथैव पाण्डवा वीरा नगरे नागसाह्वये 14061007c नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः 14061008a सुबहूनि च राजेन्द्र दिवसानि विराटजा 14061008c नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् 14061008e कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत 14061009a आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा 14061009c आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् 14061009e उत्तरां च महातेजाः शोकः संत्यज्यतामयम् 14061010a जनिष्यति महातेजाः पुत्रस्तव यशस्विनि 14061010c प्रभावाद्वासुदेवस्य मम व्याहरणादपि 14061010e पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् 14061011a धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः 14061011c व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत 14061012a पौत्रस्तव महाबाहो जनिष्यति महामनाः 14061012c पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह 14061013a तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन 14061013c विचार्यमत्र न हि ते सत्यमेतद्भविष्यति 14061014a यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन 14061014c पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा 14061015a विबुधानां गतो लोकानक्षयानात्मनिर्जितान् 14061015c न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा 14061016a एवं पितामहेनोक्तो धर्मात्मा स धनंजयः 14061016c त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा 14061017a पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते 14061017c अवर्धत यथाकालं शुक्लपक्षे यथा शशी 14061018a ततः संचोदयामास व्यासो धर्मात्मजं नृपम् 14061018c अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् 14061019a धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः 14061019c वित्तोपनयने तात चकार गमने मतिम् 14062001 जनमेजय उवाच 14062001a श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना 14062001c अश्वमेधं प्रति तदा किं नृपः प्रचकार ह 14062002a रत्नं च यन्मरुत्तेन निहितं पृथिवीतले 14062002c तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम 14062003 वैशंपायन उवाच 14062003a श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः 14062003c भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् 14062003e अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि 14062004a श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना 14062004c कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता 14062005a तपोवृद्धेन महता सुहृदां भूतिमिच्छता 14062005c गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा 14062006a भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता 14062006c संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः 14062007a आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् 14062007c अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः 14062008a इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः 14062008c तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः 14062009a यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि 14062009c तदानयामहे सर्वे कथं वा भीम मन्यसे 14062010a इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह 14062010c भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् 14062011a रोचते मे महाबाहो यदिदं भाषितं त्वया 14062011c व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति 14062012a यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो 14062012c कृतमेव महाराज भवेदिति मतिर्मम 14062013a ते वयं प्रणिपातेन गिरीशस्य महात्मनः 14062013c तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् 14062014a तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् 14062014c प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः 14062015a रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः 14062015c ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे 14062016a श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत 14062016c प्रीतो धर्मात्मजो राजा बभूवातीव भारत 14062016e अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा 14062017a कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् 14062017c सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे 14062018a ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च 14062018c अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् 14062019a मोदकैः पायसेनाथ मांसापूपैस्तथैव च 14062019c आशास्य च महात्मानं प्रययुर्मुदिता भृशम् 14062020a तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ 14062020c प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते 14062021a ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च 14062021c ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः 14062022a समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् 14062022c धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् 14062023a मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् 14062023c संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः 14063001 वैशंपायन उवाच 14063001a ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः 14063001c रथघोषेण महता पूरयन्तो वसुंधराम् 14063002a संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः 14063002c स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः 14063003a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14063003c बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् 14063004a जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 14063004c प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः 14063005a तथैव सैनिका राजन्राजानमनुयान्ति ये 14063005c तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत 14063006a स सरांसि नदीश्चैव वनान्युपवनानि च 14063006c अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत 14063007a तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् 14063007c चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः 14063007e शिवे देशे समे चैव तदा भरतसत्तम 14063008a अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् 14063008c पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् 14063009a प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः 14063009c कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् 14063010a कृत्वा च मध्ये राजानममात्यांश्च यथाविधि 14063010c षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः 14063011a मत्तानां वारणेन्द्राणां निवेशं च यथाविधि 14063011c कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् 14063012a अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे 14063012c यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा 14063013a न नः कालात्ययो वै स्यादिहैव परिलम्बताम् 14063013c इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् 14063014a श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः 14063014c इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः 14063015a अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु 14063015c अम्भोभिरद्येह वसाम राज;न्नुपोष्यतां चापि भवद्भिरद्य 14063016a श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः 14063016c ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः 14063017a ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः 14063017c ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम् 14064001 ब्राह्मणा ऊचुः 14064001a क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः 14064001c कृत्वोपहारं नृपते ततः स्वार्थे यतामहे 14064002 वैशंपायन उवाच 14064002a श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः 14064002c गिरीशस्य यथान्यायमुपहारमुपाहरत् 14064003a आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह 14064003c मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा 14064004a स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप 14064004c मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् 14064005a सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि 14064005c सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः 14064005e किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् 14064006a यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह 14064006c तथान्येषां च यक्षाणां भूताधिपतयश्च ये 14064007a कृसरेण समांसेन निवापैस्तिलसंयुतैः 14064007c शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव 14064008a कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः 14064008c ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति 14064009a पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च 14064009c सुमनोभिर्विचित्राभिरपूपैः कृसरेण च 14064010a शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः 14064010c अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् 14064011a तेषां पुण्याहघोषेण तेजसा समवस्थितः 14064011c प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् 14064012a ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः 14064012c भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् 14064013a बहूनि च विचित्राणि भाजनानि सहस्रशः 14064013c उद्धारयामास तदा धर्मराजो युधिष्ठिरः 14064014a तेषां लक्षणमप्यासीन्महान्करपुटस्तथा 14064014c त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप 14064015a वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते 14064015c षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः 14064016a वारणाश्च महाराज सहस्रशतसंमिताः 14064016c शकटानि रथाश्चैव तावदेव करेणवः 14064016e खराणां पुरुषाणां च परिसंख्या न विद्यते 14064017a एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः 14064017c षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् 14064018a एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः 14064018c महादेवं प्रति ययौ पुरं नागाह्वयं प्रति 14064019a द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् 14064019c गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः 14064020a सा पुराभिमुखी राजञ्जगाम महती चमूः 14064020c कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् 14065001 वैशंपायन उवाच 14065001a एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् 14065001c उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् 14065002a समयं वाजिमेधस्य विदित्वा पुरुषर्षभः 14065002c यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति 14065003a रौक्मिणेयेन सहितो युयुधानेन चैव ह 14065003c चारुदेष्णेन साम्बेन गदेन कृतवर्मणा 14065004a सारणेन च वीरेण निशठेनोल्मुकेन च 14065004c बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा 14065005a द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः 14065005c समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः 14065006a तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः 14065006c प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः 14065007a तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः 14065007c विदुरेण महातेजास्तथैव च युयुत्सुना 14065008a वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय 14065008c जज्ञे तव पिता राजन्परिक्षित्परवीरहा 14065009a स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः 14065009c शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः 14065010a हृष्टानां सिंहनादेन जनानां तत्र निस्वनः 14065010c आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् 14065011a ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा 14065011c युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः 14065012a ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् 14065012c क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः 14065013a पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् 14065013c सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप 14065014a ततः कृष्णं समासाद्य कुन्ती राजसुता तदा 14065014c प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा 14065015a वासुदेव महाबाहो सुप्रजा देवकी त्वया 14065015c त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् 14065016a यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो 14065016c अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव 14065017a त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन 14065017c अहं संजीवयिष्यामि मृतं जातमिति प्रभो 14065018a सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ 14065018c उत्तरां च सुभद्रां च द्रौपदीं मां च माधव 14065019a धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा 14065019c सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि 14065020a अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च 14065020c पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे 14065021a अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च 14065021c प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन 14065022a उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन 14065022c अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः 14065023a अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा 14065023c मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति 14065024a गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति 14065024c अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् 14065025a इत्येतत्प्रणयात्तात सौभद्रः परवीरहा 14065025c कथयामास दुर्धर्षस्तथा चैतन्न संशयः 14065026a तास्त्वां वयं प्रणम्येह याचामो मधुसूदन 14065026c कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् 14065027a एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना 14065027c उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि 14065028a अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः 14065028c स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो 14065029a एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः 14065029c भूमौ निपतितां चैनां सान्त्वयामास भारत 14066001 वैशंपायन उवाच 14066001a उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा 14066001c दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् 14066002a पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः 14066002c परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् 14066003a इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता 14066003c सोत्तरायां निपतिता विजये मयि चैव ह 14066004a सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव 14066004c यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो 14066005a किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः 14066005c भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ 14066006a श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च 14066006c मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः 14066007a अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः 14066007c ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः 14066008a भवितातः परं दुःखं किं नु मन्ये जनार्दन 14066008c अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम 14066009a साहं प्रसादये कृष्ण त्वामद्य शिरसा नता 14066009c पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम 14066010a यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव 14066010c तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन 14066011a अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम 14066011c अहं संजीवयिष्यामि किरीटितनयात्मजम् 14066012a इत्येतद्वचनं श्रुत्वा जानमाना बलं तव 14066012c प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः 14066013a यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् 14066013c सफलं वृष्णिशार्दूल मृतां मामुपधारय 14066014a अभिमन्योः सुतो वीर न संजीवति यद्ययम् 14066014c जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया 14066015a संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् 14066015c सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः 14066016a त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः 14066016c स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम 14066017a इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् 14066017c किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् 14066018a प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते 14066018c कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् 14066019a स्वसेति वा महाबाहो हतपुत्रेति वा पुनः 14066019c प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि 14067001 वैशंपायन उवाच 14067001a एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः 14067001c तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् 14067002a वाक्येन तेन हि तदा तं जनं पुरुषर्षभः 14067002c ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव 14067003a ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव 14067003c अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि 14067004a अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् 14067004c घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज 14067005a शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः 14067005c वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः 14067006a दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा 14067006c ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः 14067006e द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः 14067007a तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव 14067007c हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् 14067008a तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा 14067008c द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् 14067009a अयमायाति ते भद्रे श्वशुरो मधुसूदनः 14067009c पुराणर्षिरचिन्त्यात्मा समीपमपराजितः 14067010a सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह 14067010c सुसंवीताभवद्देवी देववत्कृष्णमीक्षती 14067011a सा तथा दूयमानेन हृदयेन तपस्विनी 14067011c दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् 14067012a पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ 14067012c अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन 14067013a वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये 14067013c द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् 14067014a यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः 14067014c त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् 14067015a अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो 14067015c अहमेव विनष्टा स्यां नेदमेवंगतं भवेत् 14067016a गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् 14067016c कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते 14067017a सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण 14067017c प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि 14067018a अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः 14067018c ते द्रोणपुत्रेण हताः किं नु जीवामि केशव 14067019a आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन 14067019c अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् 14067020a चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ 14067020c विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः 14067021a चपलाक्षः किलातीव प्रियस्ते मधुसूदन 14067021c सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् 14067022a कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा 14067022c यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् 14067023a मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव 14067023c अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति 14067024a तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया 14067024c इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः 14068001 वैशंपायन उवाच 14068001a सैवं विलप्य करुणं सोन्मादेव तपस्विनी 14068001c उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी 14068002a तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् 14068002c चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः 14068003a मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् 14068003c अप्रेक्षणीयमभवदार्तस्वरनिनादितम् 14068004a सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता 14068004c कश्मलाभिहता वीर वैराटी त्वभवत्तदा 14068005a प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ 14068005c अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् 14068006a धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे 14068006c यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् 14068007a पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव 14068007c दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन 14068008a याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह 14068008c मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना 14068009a अथ वा धर्मराज्ञाहमनुज्ञाता महाभुज 14068009c भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् 14068010a अथ वा दुर्मरं तात यदिदं मे सहस्रधा 14068010c पतिपुत्रविहीनाया हृदयं न विदीर्यते 14068011a उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् 14068011c आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे 14068012a आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् 14068012c मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव 14068013a उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः 14068013c पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् 14068014a एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः 14068014c उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत 14068015a उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता 14068015c प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् 14068016a श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः 14068016c उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं संजहार तत् 14068017a प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः 14068017c अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् 14068018a न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति 14068018c एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम् 14068019a नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन 14068019c न च युद्धे परावृत्तस्तथा संजीवतामयम् 14068020a यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः 14068020c अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा 14068021a यथाहं नाभिजानामि विजयेन कदाचन 14068021c विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः 14068022a यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ 14068022c तथा मृतः शिशुरयं जीवतामभिमन्युजः 14068023a यथा कंसश्च केशी च धर्मेण निहतौ मया 14068023c तेन सत्येन बालोऽयं पुनरुज्जीवतामिह 14068024a इत्युक्तो वासुदेवेन स बालो भरतर्षभ 14068024c शनैः शनैर्महाराज प्रास्पन्दत सचेतनः 14069001 वैशंपायन उवाच 14069001a ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् 14069001c तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् 14069002a ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् 14069002c अन्तरिक्षे च वागासीत्साधु केशव साध्विति 14069003a तदस्त्रं ज्वलितं चापि पितामहमगात्तदा 14069003c ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर 14069003e व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् 14069004a बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः 14069004c ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् 14069005a ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् 14069005c स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः 14069006a कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा 14069006c स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः 14069007a तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः 14069007c सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम् 14069007e कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ 14069008a उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् 14069008c अभ्यवादयत प्रीता सह पुत्रेण भारत 14069008e ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः 14069009a तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः 14069009c पितुस्तव महाराज सत्यसंधो जनार्दनः 14069010a परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः 14069010c परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा 14069011a सोऽवर्धत यथाकालं पिता तव नराधिप 14069011c मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत 14069012a मासजातस्तु ते वीर पिता भवति भारत 14069012c अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः 14069013a तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुंगवाः 14069013c अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् 14069014a पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि 14069014c वेश्मानि समलंचक्रुः पौराश्चापि जनाधिप 14069015a देवतायतनानां च पूजा बहुविधास्तथा 14069015c संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया 14069016a राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः 14069016c शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् 14069017a नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः 14069017c आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा 14069018a बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः 14069018c तत्र तत्र विविक्तेषु समन्तादुपशोभितम् 14069019a पताका धूयमानाश्च श्वसता मातरिश्वना 14069019c अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् 14069020a अघोषयत्तदा चापि पुरुषो राजधूर्गतः 14069020c सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः 14070001 वैशंपायन उवाच 14070001a तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः 14070001c वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया 14070002a ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह 14070002c विविशुः सहिता राजन्पुरं वारणसाह्वयम् 14070003a महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च 14070003c द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् 14070004a ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा 14070004c पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः 14070005a ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् 14070005c कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे 14070006a धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् 14070006c कुन्तीं च राजशार्दूल तदा भरतसत्तमाः 14070007a विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च 14070007c पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते 14070008a ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् 14070008c शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत 14070009a तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः 14070009c पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् 14070010a ततः कतिपयाहस्य व्यासः सत्यवतीसुतः 14070010c आजगाम महातेजा नगरं नागसाह्वयम् 14070011a तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः 14070011c सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा 14070012a तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै 14070012c युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् 14070013a भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् 14070013c उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ 14070014a तदनुज्ञातुमिच्छामि भवता मुनिसत्तम 14070014c त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः 14070015 व्यास उवाच 14070015a अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् 14070015c यजस्व वाजिमेधेन विधिवद्दक्षिणावता 14070016a अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् 14070016c तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः 14070017 वैशंपायन उवाच 14070017a इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः 14070017c अश्वमेधस्य कौरव्य चकाराहरणे मतिम् 14070018a समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः 14070018c वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् 14070019a देवकी सुप्रजा देवी त्वया पुरुषसत्तम 14070019c यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत 14070020a त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन 14070020c पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही 14070021a दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः 14070021c त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो 14070021e त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः 14070022 वासुदेव उवाच 14070022a त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम 14070022c त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः 14070023a त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे 14070023c गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः 14070024a यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया 14070024c युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत 14070024e सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ 14070025a भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ 14070025c इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत 14071001 वैशंपायन उवाच 14071001a एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः 14071001c व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् 14071002a यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः 14071002c दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः 14071003 व्यास उवाच 14071003a अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च 14071003c विधानं यद्यथाकालं तत्कर्तारो न संशयः 14071004a चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति 14071004c संभाराः संभ्रियन्तां ते यज्ञार्थं पुरुषर्षभ 14071005a अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः 14071005c मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये 14071006a तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् 14071006c स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् 14071007 वैशंपायन उवाच 14071007a इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः 14071007c चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना 14071007e संभाराश्चैव राजेन्द्र सर्वे संकल्पिताभवन् 14071008a स संभारान्समाहृत्य नृपो धर्मात्मजस्तदा 14071008c न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै 14071009a ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् 14071009c यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे 14071010a स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव 14071010c तत्र योग्यं भवेत्किंचित्तद्रौक्मं क्रियतामिति 14071011a अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् 14071011c सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर 14071012 युधिष्ठिर उवाच 14071012a अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् 14071012c चरिष्यति यथाकामं तत्र वै संविधीयताम् 14071013a पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् 14071013c कः पालयेदिति मुने तद्भवान्वक्तुमर्हति 14071014 वैशंपायन उवाच 14071014a इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् 14071014c भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् 14071015a जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति 14071015c शक्तः स हि महीं जेतुं निवातकवचान्तकः 14071016a तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा 14071016c दिव्यं धनुश्चेषुधी च स एनमनुयास्यति 14071017a स हि धर्मार्थकुशलः सर्वविद्याविशारदः 14071017c यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् 14071018a राजपुत्रो महाबाहुः श्यामो राजीवलोचनः 14071018c अभिमन्योः पिता वीरः स एनमनुयास्यति 14071019a भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः 14071019c समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते 14071020a सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् 14071020c कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः 14071021a तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः 14071021c चकार फल्गुनं चापि संदिदेश हयं प्रति 14071022 युधिष्ठिर उवाच 14071022a एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् 14071022c त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः 14071023a ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः 14071023c तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ 14071024a आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः 14071024c पार्थिवेभ्यो महाबाहो समये गम्यतामिति 14071025a एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् 14071025c भीमं च नकुलं चैव पुरगुप्तौ समादधत् 14071026a कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् 14071026c अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः 14072001 वैशंपायन उवाच 14072001a दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः 14072001c विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् 14072002a कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः 14072002c धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत 14072003a हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना 14072003c उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा 14072004a स राजा धर्मजो राजन्दीक्षितो विबभौ तदा 14072004c हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः 14072005a कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः 14072005c विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे 14072006a तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते 14072006c बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः 14072007a श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः 14072007c विधिवत्पृथिवीपाल धर्मराजस्य शासनात् 14072008a विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् 14072008c तमश्वं पृथिवीपाल मुदा युक्तः ससार ह 14072009a आकुमारं तदा राजन्नागमत्तत्पुरं विभो 14072009c द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् 14072010a तेषामन्योन्यसंमर्दादूष्मेव समजायत 14072010c दिदृक्षूणां हयं तं च तं चैव हयसारिणम् 14072011a ततः शब्दो महाराज दशाशाः प्रतिपूरयन् 14072011c बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम् 14072012a एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् 14072012c यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् 14072013a एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः 14072013c स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत 14072014a अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् 14072014c नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते 14072015a एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः 14072015c स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् 14072015e निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् 14072016a एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ 14072016c शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः 14072017a याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि 14072017c प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः 14072018a ब्राह्मणाश्च महीपाल बहवो वेदपारगाः 14072018c अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च 14072019a पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा 14072019c चचार स महाराज यथादेशं स सत्तम 14072020a तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह 14072020c तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च 14072021a स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम 14072021c ससारोत्तरतः पूर्वं तन्निबोध महीपते 14072022a अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः 14072022c शनैस्तदा परिययौ श्वेताश्वश्च महारथः 14072023a तत्र संकलना नास्ति राज्ञामयुतशस्तदा 14072023c येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः 14072024a किराता विकृता राजन्बहवोऽसिधनुर्धराः 14072024c म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे 14072025a आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः 14072025c समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः 14072026a एवं युद्धानि वृत्तानि तत्र तत्र महीपते 14072026c अर्जुनस्य महीपालैर्नानादेशनिवासिभिः 14072027a यानि तूभयतो राजन्प्रतप्तानि महान्ति च 14072027c तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ 14073001 वैशंपायन उवाच 14073001a त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः 14073001c महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः 14073002a ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम् 14073002c विषयान्ते ततो वीरा दंशिताः पर्यवारयन् 14073003a रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः 14073003c परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः 14073004a ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम् 14073004c वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः 14073005a तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा 14073005c तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् 14073006a अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत 14073006c निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः 14073007a स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः 14073007c हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति 14073008a स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः 14073008c तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते 14073009a ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे 14073009c वितत्य शरजालेन प्रजहास धनंजयः 14073010a ततस्ते रथघोषेण खुरनेमिस्वनेन च 14073010c पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् 14073011a सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् 14073011c शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् 14073012a तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः 14073012c मुमुचुः शरवर्षाणि धनंजयवधैषिणः 14073013a स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् 14073013c चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा 14073014a केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा 14073014c युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना 14073015a तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे 14073015c अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा 14073016a केतुवर्मण्यभिहते धृतवर्मा महारथः 14073016c रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत् 14073017a तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् 14073017c गुडाकेशो महातेजा बालस्य धृतवर्मणः 14073018a न संदधानं ददृशे नाददानं च तं तदा 14073018c किरन्तमेव स शरान्ददृशे पाकशासनिः 14073019a स तु तं पूजयामास धृतवर्माणमाहवे 14073019c मनसा स मुहूर्तं वै रणे समभिहर्षयन् 14073020a तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव 14073020c प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् 14073021a स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा 14073021c धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा 14073022a स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् 14073022c मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले 14073023a धनुषः पततस्तस्य सव्यसाचिकराद्विभो 14073023c इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम 14073024a तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव 14073024c जहास सस्वनं हासं धृतवर्मा महाहवे 14073025a ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् 14073025c धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च 14073026a ततो हलहलाशब्दो दिवस्पृगभवत्तदा 14073026c नानाविधानां भूतानां तत्कर्मातीव शंसताम् 14073027a ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् 14073027c जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् 14073028a अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः 14073028c परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः 14073029a ततो योधाञ्जघानाशु तेषां स दश चाष्ट च 14073029c महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः 14073030a तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः 14073030c शरैराशीविषाकारैर्जघान स्वनवद्धसन् 14073031a ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः 14073031c दिशो विदुद्रुवुः सर्वा धनंजयशरार्दिताः 14073032a त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् 14073032c तव स्म किंकराः सर्वे सर्वे च वशगास्तव 14073033a आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् 14073033c करिष्यामः प्रियं सर्वं तव कौरवनन्दन 14073034a एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा 14073034c जीवितं रक्षत नृपाः शासनं गृह्यतामिति 14074001 वैशंपायन उवाच 14074001a प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः 14074001c भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः 14074002a स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् 14074002c युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः 14074003a सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः 14074003c अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ 14074004a तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा 14074004c गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् 14074005a ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः 14074005c हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् 14074006a पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः 14074006c आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया 14074007a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 14074007c दोधूयता चामरेण श्वेतेन च महारथः 14074008a ततः पार्थं समासाद्य पाण्डवानां महारथम् 14074008c आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे 14074009a स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् 14074009c प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति 14074010a विक्षरन्तं यथा मेघं परवारणवारणम् 14074010c शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम् 14074011a प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः 14074011c तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् 14074012a तमापतन्तं संप्रेक्ष्य क्रुद्धो राजन्धनंजयः 14074012c भूमिष्ठो वारणगतं योधयामास भारत 14074013a वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये 14074013c तोमरानग्निसंकाशाञ्शलभानिव वेगितान् 14074014a अर्जुनस्तानसंप्राप्तान्गाण्डीवप्रेषितैः शरैः 14074014c द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा 14074015a स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः 14074015c इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति 14074016a ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् 14074016c प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति 14074017a स तैर्विद्धो महातेजा वज्रदत्तो महाहवे 14074017c भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः 14074018a ततः स पुनरारुह्य वारणप्रवरं रणे 14074018c अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति 14074019a तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् 14074019c प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान् 14074020a स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ 14074020c हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा 14075001 वैशंपायन उवाच 14075001a एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ 14075001c अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः 14075002a ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः 14075002c जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् 14075003a अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे 14075003c त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि 14075004a त्वया वृद्धो मम पिता भगदत्तः पितुः सखा 14075004c हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय 14075005a इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः 14075005c प्रेषयामास कौरव्य वारणं पाण्डवं प्रति 14075006a संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता 14075006c उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् 14075007a अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् 14075007c समुक्षत महाराज शैलं नील इवाम्बुदः 14075008a स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः 14075008c मुखाडम्बरघोषेण समाद्रवत फल्गुनम् 14075009a स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः 14075009c आससाद द्रुतं राजन्कौरवाणां महारथम् 14075010a तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम् 14075010c गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा 14075011a चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः 14075011c कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत 14075012a ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः 14075012c निवारयामास तदा वेलेव मकरालयम् 14075013a स नागप्रवरो वीर्यादर्जुनेन निवारितः 14075013c तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा 14075014a निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः 14075014c उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः 14075015a अर्जुनस्तु महाराज शरैः शरविघातिभिः 14075015c वारयामास तानस्तांस्तदद्भुतमिवाभवत् 14075016a ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः 14075016c प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् 14075017a तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः 14075017c नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति 14075018a स तेन वारणो राजन्मर्मण्यभिहतो भृशम् 14075018c पपात सहसा भूमौ वज्ररुग्ण इवाचलः 14075019a स पतञ्शुशुभे नागो धनंजयशराहतः 14075019c विशन्निव महाशैलो महीं वज्रप्रपीडितः 14075020a तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः 14075020c तं न भेतव्यमित्याह ततो भूमिगतं नृपम् 14075021a अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः 14075021c राजानस्ते न हन्तव्या धनंजय कथंचन 14075022a सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् 14075022c योधाश्चापि न हन्तव्या धनंजय रणे त्वया 14075023a वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः 14075023c युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् 14075024a इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप 14075024c उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव 14075025a आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् 14075025c तदाश्वमेधो भविता धर्मराजस्य धीमतः 14075026a एवमुक्तः स राजा तु भगदत्तात्मजस्तदा 14075026c तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः 14076001 वैशंपायन उवाच 14076001a सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः 14076001c हतशेषैर्महाराज हतानां च सुतैरपि 14076002a तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् 14076002c प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् 14076003a अश्वं च तं परामृश्य विषयान्ते विषोपमाः 14076003c न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् 14076004a तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च 14076004c बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् 14076005a ततस्ते तु महावीर्या राजानः पर्यवारयन् 14076005c जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि 14076006a ते नामान्यथ गोत्राणि कर्माणि विविधानि च 14076006c कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् 14076007a ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् 14076007c रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् 14076008a तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे 14076008c सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् 14076009a ते तमाजघ्निरे वीरं निवातकवचान्तकम् 14076009c संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च 14076010a ततो रथसहस्रेण हयानामयुतेन च 14076010c कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन् 14076011a संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः 14076011c जयद्रथस्य कौरव्य समरे सव्यसाचिना 14076012a ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् 14076012c तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा 14076013a स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः 14076013c पञ्जरान्तरसंचारी शकुन्त इव भारत 14076014a ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते 14076014c त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः 14076015a ततो ववौ महाराज मारुतो रोमहर्षणः 14076015c राहुरग्रसदादित्यं युगपत्सोममेव च 14076016a उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः 14076016c वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः 14076017a मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः 14076017c सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च 14076018a शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् 14076018c विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे 14076019a रासभारुणसंकाशा धनुष्मन्तः सविद्युतः 14076019c आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् 14076020a एवमासीत्तदा वीरे शरवर्षाभिसंवृते 14076020c लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् 14076021a तस्य तेनावकीर्णस्य शरजालेन सर्वशः 14076021c मोहात्पपात गाण्डीवमावापश्च करादपि 14076022a तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् 14076022c सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे 14076023a ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः 14076023c सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् 14076024a ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च 14076024c ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः 14076025a ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव 14076025c तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित् 14076026a विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः 14076026c यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः 14076027a ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः 14076027c ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः 14076028a ततस्ते सैन्धवा योधाः सर्व एव सराजकाः 14076028c नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः 14076029a तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः 14076029c मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः 14076030a तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली 14076030c अलातचक्रवद्राजञ्शरजालैः समर्पयत् 14076031a तदिन्द्रजालप्रतिमं बाणजालममित्रहा 14076031c व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् 14076032a मेघजालनिभं सैन्यं विदार्य स रविप्रभः 14076032c विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः 14077001 वैशंपायन उवाच 14077001a ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः 14077001c विबभौ युधि दुर्धर्षो हिमवानचलो यथा 14077002a ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः 14077002c विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत 14077003a तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् 14077003c ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा 14077004a युध्यध्वं परया शक्त्या यतध्वं च वधे मम 14077004c कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् 14077005a एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् 14077005c तिष्ठध्वं युद्धमनसो दर्पं विनयितास्मि वः 14077006a एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा 14077006c ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत 14077007a न हन्तव्या रणे तात क्षत्रिया विजिगीषवः 14077007c जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना 14077007e चिन्तयामास च तदा फल्गुनः पुरुषर्षभः 14077008a इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति 14077008c कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् 14077009a न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् 14077009c इति संचिन्त्य स तदा भ्रातुः प्रियहिते रतः 14077009e प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् 14077010a बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् 14077010c यश्च वक्ष्यति संग्रामे तवास्मीति पराजितः 14077011a एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः 14077011c अतोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः 14077012a एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुंगवः 14077012c अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः 14077013a ततः शतसहस्राणि शराणां नतपर्वणाम् 14077013c मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि 14077014a स तानापततः क्रूरानाशीविषविषोपमान् 14077014c चिच्छेद निशितैर्बाणैरन्तरैव धनंजयः 14077015a छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् 14077015c एकैकमेष दशभिर्बिभेद समरे शरैः 14077016a ततः प्रासांश्च शक्तीश्च पुनरेव धनंजये 14077016c जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः 14077017a तेषां किरीटी संकल्पं मोघं चक्रे महामनाः 14077017c सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः 14077018a तथैवापततां तेषां योधानां जयगृद्धिनाम् 14077018c शिरांसि पातयामास भल्लैः संनतपर्वभिः 14077019a तेषां प्रद्रवतां चैव पुनरेव च धावताम् 14077019c निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः 14077020a ते वध्यमानास्तु तदा पार्थेनामिततेजसा 14077020c यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् 14077021a ततस्ते फल्गुनेनाजौ शरैः संनतपर्वभिः 14077021c कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः 14077022a तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा 14077022c दुःशला बालमादाय नप्तारं प्रययौ तदा 14077022e सुरथस्य सुतं वीरं रथेनानागसं तदा 14077023a शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् 14077023c सा धनंजयमासाद्य मुमोचार्तस्वरं तदा 14077023e धनंजयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः 14077024a समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा 14077024c प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् 14077025a एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः 14077025c अभिवादयते वीर तं पश्य पुरुषर्षभ 14077026a इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा 14077026c क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् 14077027a पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता 14077027c पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह 14077028a स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयानघ 14077028c त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् 14077028e पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय 14077029a प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ 14077029c विषादार्तः पपातोर्व्यां ममार च ममात्मजः 14077030a तं तु दृष्ट्वा निपतितं ततस्तस्यात्मजं विभो 14077030c गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी 14077031a इत्युक्त्वार्तस्वरं सा तु मुमोच धृतराष्ट्रजा 14077031c दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् 14077032a स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च 14077032c कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह 14077032e विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् 14077033a अभिमन्योर्यथा जातः परिक्षित्परवीरहा 14077033c तथायं सुरथाज्जातो मम पौत्रो महाभुज 14077034a तमादाय नरव्याघ्र संप्राप्तास्मि तवान्तिकम् 14077034c शमार्थं सर्वयोधानां शृणु चेदं वचो मम 14077035a आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः 14077035c प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि 14077036a एष प्रसाद्य शिरसा मया सार्धमरिंदम 14077036c याचते त्वां महाबाहो शमं गच्छ धनंजय 14077037a बालस्य हतबन्धोश्च पार्थ किंचिदजानतः 14077037c प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः 14077038a तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् 14077038c आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि 14077039a एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः 14077039c संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् 14077039e प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् 14077040a धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् 14077040c यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् 14077041a इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः 14077041c परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति 14077042a दुःशला चापि तान्योधान्निवार्य महतो रणात् 14077042c संपूज्य पार्थं प्रययौ गृहान्प्रति शुभानना 14077043a ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः 14077043c पुनरेवान्वधावत्स तं हयं कामचारिणम् 14077044a ससार यज्ञियं वीरो विधिवत्स विशां पते 14077044c तारामृगमिवाकाशे देवदेवः पिनाकधृक् 14077045a स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् 14077045c विचचार यथाकामं कर्म पार्थस्य वर्धयन् 14077046a क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ 14077046c मणिपूरपतेर्देशमुपायात्सहपाण्डवः 14078001 वैशंपायन उवाच 14078001a श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः 14078001c निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः 14078002a मणिपूरेश्वरं त्वेवमुपयातं धनंजयः 14078002c नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् 14078003a उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा 14078003c प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः 14078004a संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् 14078004c यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक 14078005a धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् 14078005c यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः 14078006a न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता 14078006c यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः 14078007a यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते 14078007c प्रक्रियेयं ततो युक्ता भवेत्तव नराधम 14078008a तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा 14078008c अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् 14078009a सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् 14078009c संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो 14078010a ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा 14078010c उलूपी प्राह वचनं क्षत्रधर्मविशारदा 14078011a उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् 14078011c कुरुष्व वचनं पुत्र धर्मस्ते भविता परः 14078012a युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम 14078012c एवमेष हि ते प्रीतो भविष्यति न संशयः 14078013a एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः 14078013c मनश्चक्रे महातेजा युद्धाय भरतर्षभ 14078014a संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् 14078014c तूणीरशतसंबाधमारुरोह महारथम् 14078015a सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः 14078015c सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् 14078016a परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् 14078016c प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः 14078017a ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् 14078017c ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः 14078018a गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः 14078018c पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे 14078019a ततः स राजा तं वीरं शरव्रातैः सहस्रशः 14078019c अर्दयामास निशितैराशीविषविषोपमैः 14078020a तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् 14078020c देवासुररणप्रख्यमुभयोः प्रीयमाणयोः 14078021a किरीटिनं तु विव्याध शरेण नतपर्वणा 14078021c जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः 14078022a सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः 14078022c विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् 14078023a स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् 14078023c दिव्यं तेजः समाविश्य प्रमीत इव संबभौ 14078024a स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः 14078024c पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते 14078025a साधु साधु महाबाहो वत्स चित्राङ्गदात्मज 14078025c सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक 14078026a विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव 14078026c इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा 14078027a तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् 14078027c नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा 14078028a तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् 14078028c सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् 14078029a हयांश्चास्य महाकायान्महावेगपराक्रमान् 14078029c चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः 14078030a स रथादवतीर्याशु राजा परमकोपनः 14078030c पदातिः पितरं कोपाद्योधयामास पाण्डवम् 14078031a संप्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् 14078031c नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः 14078032a स हन्यमानो विमुखं पितरं बभ्रुवाहनः 14078032c शरैराशीविषाकारैः पुनरेवार्दयद्बली 14078033a ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा 14078033c निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः 14078034a स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः 14078034c विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् 14078035a स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः 14078035c महीं जगाम मोहार्तस्ततो राजन्धनंजयः 14078036a तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे 14078036c सोऽपि मोहं जगामाशु ततश्चित्राङ्गदासुतः 14078037a व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् 14078037c पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः 14078038a भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि 14078038c चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् 14078039a शोकसंतप्तहृदया रुदती सा ततः शुभा 14078039c मणिपूरपतेर्माता ददर्श निहतं पतिम् 14079001 वैशंपायन उवाच 14079001a ततो बहुविधं भीरुर्विलप्य कमलेक्षणा 14079001c मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले 14079002a प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा 14079002c उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् 14079003a उलूपि पश्य भर्तारं शयानं निहतं रणे 14079003c त्वत्कृते मम पुत्रेण बालेन समितिंजयम् 14079004a ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता 14079004c यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे 14079005a किं तु सर्वापराधोऽयं यदि तेऽद्य धनंजयः 14079005c क्षमस्व याच्यमाना मे संजीवय धनंजयम् 14079006a ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे 14079006c यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि 14079007a नाहं शोचामि तनयं निहतं पन्नगात्मजे 14079007c पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् 14079008a इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् 14079008c भर्तारमभिगम्येदमित्युवाच यशस्विनी 14079009a उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय 14079009c अयमश्वो महाबाहो मया ते परिमोक्षितः 14079010a ननु नाम त्वया वीर धर्मराजस्य यज्ञियः 14079010c अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले 14079011a त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन 14079011c स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि 14079012a उलूपि साधु संपश्य भर्तारं निहतं रणे 14079012c पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि 14079013a कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः 14079013c लोहिताक्षो गुडाकेशो विजयः साधु जीवतु 14079014a नापराधोऽस्ति सुभगे नराणां बहुभार्यता 14079014c नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी 14079015a सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह 14079015c सख्यं समभिजानीहि सत्यं संगतमस्तु ते 14079016a पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै 14079016c जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् 14079017a साहं दुःखान्विता भीरु पतिपुत्रविनाकृता 14079017c इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः 14079018a इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी 14079018c ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप 14080001 वैशंपायन उवाच 14080001a तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा 14080001c उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती 14080002a ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः 14080002c मातरं तामथालोक्य रणभूमावथाब्रवीत् 14080003a इतो दुःखतरं किं नु यन्मे माता सुखैधिता 14080003c भूमौ निपतितं वीरमनुशेते मृतं पतिम् 14080004a निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् 14080004c मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत 14080005a अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते 14080005c व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् 14080006a दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते 14080006c यत्र नाहं न मे माता विप्रयुज्येत जीवितात् 14080007a अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि 14080007c व्यपविद्धं हतस्येह मया पुत्रेण पश्यत 14080008a भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि 14080008c शयानं वीरशयने मया पुत्रेण पातितम् 14080009a ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः 14080009c कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः 14080010a व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे 14080010c सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे 14080011a दुश्चरा द्वादश समा हत्वा पितरमद्य वै 14080011c ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा 14080012a शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे 14080012c प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम 14080013a पश्य नागोत्तमसुते भर्तारं निहतं मया 14080013c कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् 14080014a सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् 14080014c न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे 14080015a सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि 14080015c भव प्रीतिमती देवि सत्येनात्मानमालभे 14080016a इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः 14080016c उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् 14080017a शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च 14080017c त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे 14080018a यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः 14080018c अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् 14080019a न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् 14080019c नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः 14080020a वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते 14080020c पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया 14080021a एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः 14080021c पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः 14080022a इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः 14080022c उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः 14081001 वैशंपायन उवाच 14081001a प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा 14081001c पितृशोकसमाविष्टे सह मात्रा परंतप 14081002a उलूपी चिन्तयामास तदा संजीवनं मणिम् 14081002c स चोपातिष्ठत तदा पन्नगानां परायणम् 14081003a तं गृहीत्वा तु कौरव्य नागराजपतेः सुता 14081003c मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् 14081004a उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः 14081004c अजेयः पुरुषैरेष देवैर्वापि सवासवैः 14081005a मया तु मोहिनी नाम मायैषा संप्रयोजिता 14081005c प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः 14081006a जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः 14081006c संग्रामे युध्यतो राजन्नागतः परवीरहा 14081007a तस्मादसि मया पुत्र युद्धार्थं परिचोदितः 14081007c मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो 14081008a ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः 14081008c नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक 14081009a अयं तु मे मणिर्दिव्यः समानीतो विशां पते 14081009c मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा 14081010a एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो 14081010c संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम् 14081011a इत्युक्तः स्थापयामास तस्योरसि मणिं तदा 14081011c पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् 14081012a तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः 14081012c सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः 14081013a तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् 14081013c समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः 14081014a उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो 14081014c दिव्याः सुमनसः पुण्या ववृषे पाकशासनः 14081015a अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः 14081015c साधु साध्विति चाकाशे बभूव सुमहान्स्वनः 14081016a उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः 14081016c बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि 14081017a ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् 14081017c उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः 14081018a किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् 14081018c रणाजिरममित्रघ्न यदि जानासि शंस मे 14081019a जननी च किमर्थं ते रणभूमिमुपागता 14081019c नागेन्द्रदुहिता चेयमुलूपी किमिहागता 14081020a जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् 14081020c स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् 14081021a तमुवाच ततः पृष्टो मणिपूरपतिस्तदा 14081021c प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति 14082001 अर्जुन उवाच 14082001a किमागमनकृत्यं ते कौरव्यकुलनन्दिनि 14082001c मणिपूरपतेर्मातुस्तथैव च रणाजिरे 14082002a कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे 14082002c मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि 14082003a कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने 14082003c अकार्षमहमज्ञानादयं वा बभ्रुवाहनः 14082004a कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी 14082004c चित्राङ्गदा वरारोहा नापराध्यति किंचन 14082005a तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ 14082005c न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः 14082005e न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता 14082006a श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् 14082006c न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये 14082007a त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ 14082007c यत्तच्छृणु महाबाहो निखिलेन धनंजय 14082008a महाभारतयुद्धे यत्त्वया शांतनवो नृपः 14082008c अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता 14082009a न हि भीष्मस्त्वया वीर युध्यमानो निपातितः 14082009c शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया 14082010a तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् 14082010c कर्मणा तेन पापेन पतेथा निरये ध्रुवम् 14082011a एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि 14082011c वसुभिर्वसुधापाल गङ्गया च महामते 14082012a पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया 14082012c गङ्गायास्तीरमागम्य हते शांतनवे नृपे 14082013a आप्लुत्य देवा वसवः समेत्य च महानदीम् 14082013c इदमूचुर्वचो घोरं भागीरथ्या मते तदा 14082014a एष शांतनवो भीष्मो निहतः सव्यसाचिना 14082014c अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि 14082015a तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे 14082015c शापेन योजयामेति तथास्त्विति च साब्रवीत् 14082016a तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया 14082016c अभवं स च तच्छ्रुत्वा विषादमगमत्परम् 14082017a पिता तु मे वसून्गत्वा त्वदर्थं समयाचत 14082017c पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् 14082018a पुनस्तस्य महाभाग मणिपूरेश्वरो युवा 14082018c स एनं रणमध्यस्थं शरैः पातयिता भुवि 14082019a एवं कृते स नागेन्द्र मुक्तशापो भविष्यति 14082019c गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः 14082020a तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः 14082020c न हि त्वां देवराजोऽपि समरेषु पराजयेत् 14082021a आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः 14082021c नात्र दोषो मम मतः कथं वा मन्यसे विभो 14082022a इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् 14082022c सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि 14082023a इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः 14082023c चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा 14082024a युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति 14082024c तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप 14082025a इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः 14082025c उवाच पितरं धीमानिदमस्राविलेक्षणः 14082026a उपयास्यामि धर्मज्ञ भवतः शासनादहम् 14082026c अश्वमेधे महायज्ञे द्विजातिपरिवेषकः 14082027a मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् 14082027c भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा 14082028a उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो 14082028c पुनरश्वानुगमनं कर्तासि जयतां वर 14082029a इत्युक्तः स तु पुत्रेण तदा वानरकेतनः 14082029c स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् 14082030a विदितं ते महाबाहो यथा दीक्षां चराम्यहम् 14082030c न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन 14082031a यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः 14082031c स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम 14082032a स तत्र विधिवत्तेन पूजितः पाकशासनिः 14082032c भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः 14083001 वैशंपायन उवाच 14083001a स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् 14083001c निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् 14083002a अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् 14083002c यदृच्छया समापेदे पुरं राजगृहं तदा 14083003a तमभ्याशगतं राजा जरासंधात्मजात्मजः 14083003c क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह 14083004a ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली 14083004c मेघसंधिः पदातिं तं धनंजयमुपाद्रवत् 14083005a आसाद्य च महातेजा मेघसंधिर्धनंजयम् 14083005c बालभावान्महाराज प्रोवाचेदं न कौशलात् 14083006a किमयं चार्यते वाजी स्त्रीमध्य इव भारत 14083006c हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे 14083007a अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम 14083007c करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा 14083008a इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव 14083008c विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् 14083009a भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् 14083009c प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम 14083010a इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः 14083010c किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् 14083011a ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः 14083011c चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ 14083012a स मोघं तस्य बाणौघं कृत्वा वानरकेतनः 14083012c शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् 14083013a ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च 14083013c अन्येषु च रथाङ्गेषु न शरीरे न सारथौ 14083014a संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह 14083014c मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् 14083015a ततो गाण्डीवभृच्छूरो मागधेन समाहतः 14083015c बभौ वासन्तिक इव पलाशः पुष्पितो महान् 14083016a अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् 14083016c तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने 14083017a सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः 14083017c हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् 14083018a धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह 14083018c हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् 14083019a स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः 14083019c गदामादाय कौन्तेयमभिदुद्राव वेगवान् 14083020a तस्यापतत एवाशु गदां हेमपरिष्कृताम् 14083020c शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः 14083021a सा गदा शकलीभूता विशीर्णमणिबन्धना 14083021c व्याली निर्मुच्यमानेव पपातास्य सहस्रधा 14083022a विरथं तं विधन्वानं गदया परिवर्जितम् 14083022c नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः 14083023a तत एनं विमनसं क्षत्रधर्मे समास्थितम् 14083023c सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः 14083024a पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् 14083024c बह्वेतत्समरे कर्म तव बालस्य पार्थिव 14083025a युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति 14083025c तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे 14083026a इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः 14083026c तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् 14083027a तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् 14083027c आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः 14083028a इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् 14083028c फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः 14083029a ततो यथेष्टमगमत्पुनरेव स केसरी 14083029c ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् 14083030a तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः 14083030c विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः 14084001 वैशंपायन उवाच 14084001a मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः 14084001c दक्षिणां दिशमास्थाय चारयामास तं हयम् 14084002a ततः स पुनरावृत्य हयः कामचरो बली 14084002c आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् 14084003a शरभेणार्चितस्तत्र शिशुपालात्मजेन सः 14084003c युद्धपूर्वेण मानेन पूजया च महाबलः 14084004a तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः 14084004c काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् 14084005a तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः 14084005c पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा 14084006a तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः 14084006c तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् 14084007a तं चापि वशमानीय किरीटी पुरुषर्षभः 14084007c निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् 14084008a एकलव्यसुतश्चैनं युद्धेन जगृहे तदा 14084008c ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम् 14084009a ततस्तमपि कौन्तेयः समरेष्वपराजितः 14084009c जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् 14084010a स तं जित्वा महाराज नैषादिं पाकशासनिः 14084010c अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् 14084011a तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि 14084011c तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः 14084012a तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ 14084012c गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् 14084013a ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् 14084013c आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः 14084014a तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः 14084014c प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् 14084015a ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा 14084015c सहितो वसुदेवेन मातुलेन किरीटिनः 14084016a तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् 14084016c परया भरतश्रेष्ठं पूजया समवस्थितौ 14084016e ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः 14084017a ततः स पश्चिमं देशं समुद्रस्य तदा हयः 14084017c क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ 14084018a तस्मादपि स कौरव्य गान्धारविषयं हयः 14084018c विचचार यथाकामं कौन्तेयानुगतस्तदा 14084019a तत्र गान्धारराजेन युद्धमासीन्महात्मनः 14084019c घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा 14085001 वैशंपायन उवाच 14085001a शकुनेस्तु सुतो वीरो गान्धाराणां महारथः 14085001c प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः 14085001e हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना 14085002a अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् 14085002c अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः 14085003a तानुवाच स धर्मात्मा बीभत्सुरपराजितः 14085003c युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् 14085004a वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः 14085004c परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः 14085005a ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः 14085005c क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः 14085006a ते वध्यमानाः पार्थेन हयमुत्सृज्य संभ्रमात् 14085006c न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् 14085007a वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः 14085007c आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत् 14085008a वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः 14085008c स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् 14085009a तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् 14085009c पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् 14085009e अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः 14085010a इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः 14085010c स शक्रसमकर्माणमवाकिरत सायकैः 14085011a तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा 14085011c अपाहरदसंभ्रान्तो जयद्रथशिरो यथा 14085012a तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते 14085012c इच्छता तेन न हतो राजेत्यपि च ते विदुः 14085013a गान्धारराजपुत्रस्तु पलायनकृतक्षणः 14085013c बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव 14085014a तेषां तु तरसा पार्थस्तत्रैव परिधावताम् 14085014c विजहारोत्तमाङ्गानि भल्लैः संनतपर्वभिः 14085015a उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् 14085015c शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः 14085016a संभ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् 14085016c हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः 14085017a न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः 14085017c रिपवः पात्यमाना वै ये सहेयुर्महाशरान् 14085018a ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा 14085018c जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् 14085019a सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् 14085019c प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् 14085020a तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा 14085020c शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् 14085021a न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता 14085021c प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ 14085022a गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च 14085022c तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव 14085023a मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी 14085023c आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः 14086001 वैशंपायन उवाच 14086001a इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् 14086001c न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् 14086002a तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः 14086002c श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् 14086003a विजयस्य च तत्कर्म गान्धारविषये तदा 14086003c श्रुत्वान्येषु च देशेषु स सुप्रीतोऽभवन्नृपः 14086004a एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् 14086004c इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः 14086005a समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः 14086005c भीमं च नकुलं चैव सहदेवं च कौरवः 14086006a प्रोवाचेदं वचः काले तदा धर्मभृतां वरः 14086006c आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् 14086007a आयाति भीमसेनासौ सहाश्वेन तवानुजः 14086007c यथा मे पुरुषाः प्राहुर्ये धनंजयसारिणः 14086008a उपस्थितश्च कालोऽयमभितो वर्तते हयः 14086008c माघी च पौर्णमासीयं मासः शेषो वृकोदर 14086009a तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः 14086009c वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् 14086010a इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् 14086010c हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् 14086011a ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह 14086011c ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु 14086012a तं सशालचयग्रामं संप्रतोलीविटङ्किनम् 14086012c मापयामास कौरव्यो यज्ञवाटं यथाविधि 14086013a सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् 14086013c कारयामास विधिवन्मणिहेमविभूषितम् 14086014a स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च 14086014c यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् 14086015a अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् 14086015c कारयामास धर्मात्मा तत्र तत्र यथाविधि 14086016a ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् 14086016c कारयामास भीमः स विविधानि ह्यनेकशः 14086017a तथा संप्रेषयामास दूतान्नृपतिशासनात् 14086017c भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् 14086018a ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः 14086018c रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च 14086019a तेषां निविशतां तेषु शिबिरेषु सहस्रशः 14086019c नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् 14086020a तेषामभ्यागतानां स राजा राजीवलोचनः 14086020c व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः 14086021a वाहनानां च विविधाः शालाः शालीक्षुगोरसैः 14086021c उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् 14086022a तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः 14086022c समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः 14086023a ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते 14086023c समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः 14086024a सर्वांश्च ताननुययौ यावदावसथादिति 14086024c स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः 14086025a ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा 14086025c कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् 14086026a तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् 14086026c हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः 14087001 वैशंपायन उवाच 14087001a तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः 14087001c हेतुवादान्बहून्प्राहुः परस्परजिगीषवः 14087002a ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् 14087002c देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन 14087003a ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते 14087003c शय्यासनविहारांश्च सुबहून्रत्नभूषितान् 14087004a घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् 14087004c न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः 14087005a यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् 14087005c उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः 14087006a स्थलजा जलजा ये च पशवः केचन प्रभो 14087006c सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः 14087007a गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च 14087007c औदकानि च सत्त्वानि श्वापदानि वयांसि च 14087008a जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च 14087008c पर्वतानूपवन्यानि भूतानि ददृशुश्च ते 14087009a एवं प्रमुदितं सर्वं पशुगोधनधान्यतः 14087009c यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् 14087009e ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् 14087010a पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् 14087010c दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत 14087011a विननादासकृत्सोऽथ दिवसे दिवसे तदा 14087011c एवं स ववृते यज्ञो धर्मराजस्य धीमतः 14087012a अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः 14087012c दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः 14087013a जम्बूद्वीपो हि सकलो नानाजनपदायुतः 14087013c राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ 14087014a तत्र जातिसहस्राणि पुरुषाणां ततस्ततः 14087014c गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ 14087015a राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः 14087015c पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः 14087016a विविधान्यन्नपानानि पुरुषा येऽनुयायिनः 14087016c तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते 14088001 वैशंपायन उवाच 14088001a समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् 14088001c दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् 14088002a उपयाता नरव्याघ्रा य इमे जगदीश्वराः 14088002c एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः 14088003a इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना 14088003c भीमसेनो महातेजा यमाभ्यां सह भारत 14088004a अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् 14088004c बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः 14088005a युयुधानेन सहितः प्रद्युम्नेन गदेन च 14088005c निशठेनाथ साम्बेन तथैव कृतवर्मणा 14088006a तेषामपि परां पूजां चक्रे भीमो महाभुजः 14088006c विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः 14088007a युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः 14088007c अर्जुनं कथयामास बहुसंग्रामकर्शितम् 14088008a स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम् 14088008c धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः 14088009a आगमद्द्वारकावासी ममाप्तः पुरुषो नृप 14088009c योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम् 14088010a समीपे च महाबाहुमाचष्ट च मम प्रभो 14088010c कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये 14088011a इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः 14088011c दिष्ट्या स कुशली जिष्णुरुपयाति च माधव 14088012a तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः 14088012c तदाख्यातुमिहेच्छामि भवता यदुनन्दन 14088013a इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा 14088013c प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् 14088014a इदमाह महाराज पार्थवाक्यं नरः स माम् 14088014c वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम 14088015a आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति 14088015c तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः 14088016a इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद 14088016c न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् 14088017a कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् 14088017c राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः 14088018a इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् 14088018c धनंजयस्य नृपते तन्मे निगदतः शृणु 14088019a उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः 14088019c पुत्रो मम महातेजा दयितो बभ्रुवाहनः 14088020a तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् 14088020c स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो 14088021a इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः 14088021c अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् 14089001 युधिष्ठिर उवाच 14089001a श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् 14089001c तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो 14089002a बहूनि किल युद्धानि विजयस्य नराधिपैः 14089002c पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् 14089003a मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः 14089003c अतीव विजयो धीमानिति मे दूयते मनः 14089004a संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः 14089004c किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते 14089004e अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते 14089005a अतीव दुःखभागी स सततं कुन्तिनन्दनः 14089005c न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन 14089005e श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि 14089006a इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् 14089006c राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् 14089007a न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये 14089007c ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः 14089008a ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते 14089008c न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः 14089009a इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता 14089009c प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो 14089010a कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत 14089010c प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा 14089010e सख्युः सखा हृषीकेशः साक्षादिव धनंजयः 14089011a तत्र भीमादयस्ते तु कुरवो यादवास्तथा 14089011c रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो 14089012a तथा कथयतामेव तेषामर्जुनसंकथाः 14089012c उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः 14089013a सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् 14089013c उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् 14089014a तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः 14089014c प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा 14089015a ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत 14089015c आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे 14089016a ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः 14089016c अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा 14089017a तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः 14089017c दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः 14089018a कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् 14089018c चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् 14089019a ये व्यतीता महात्मानो राजानः सगरादयः 14089019c तेषामपीदृशं कर्म न किंचिदनुशुश्रुम 14089020a नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः 14089020c यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह 14089021a इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः 14089021c शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् 14089022a ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः 14089022c धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा 14089023a सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः 14089023c भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् 14089024a तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि 14089024c विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः 14089025a एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः 14089025c मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह 14089026a स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः 14089026c प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् 14090001 वैशंपायन उवाच 14090001a स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् 14090001c पितामहीमभ्यवदत्साम्ना परमवल्गुना 14090002a तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च 14090002c पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः 14090002e सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः 14090003a ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च 14090003c द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः 14090004a ऊषतुस्तत्र ते देव्यौ महार्हशयनासने 14090004c सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया 14090005a स च राजा महावीर्यः पूजितो बभ्रुवाहनः 14090005c धृतराष्ट्रं महीपालमुपतस्थे यथाविधि 14090006a युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् 14090006c उपगम्य महातेजा विनयेनाभ्यवादयत् 14090007a स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि 14090007c धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः 14090008a तथैव स महीपालः कृष्णं चक्रगदाधरम् 14090008c प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् 14090009a तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् 14090009c रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् 14090010a धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा 14090010c पृथक्पृथगतीवैनं मानार्हं समपूजयन् 14090011a ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः 14090011c युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् 14090012a अद्य प्रभृति कौन्तेय यजस्व समयो हि ते 14090012c मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः 14090013a अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् 14090013c बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः 14090014a एवमेव महाराज दक्षिणां त्रिगुणां कुरु 14090014c त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् 14090015a त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान् 14090015c ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप 14090016a पवित्रं परमं ह्येतत्पावनानां च पावनम् 14090016c यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन 14090017a इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा 14090017c दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा 14090017e नराधिपः प्रायजत वाजिमेधं महाक्रतुम् 14090018a तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः 14090018c परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः 14090019a न तेषां स्खलितं तत्र नासीदपहुतं तथा 14090019c क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः 14090020a कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः 14090020c चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः 14090021a अभिषूय ततो राजन्सोमं सोमपसत्तमाः 14090021c सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः 14090022a न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह 14090022c क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः 14090023a भोजनं भोजनार्थिभ्यो दापयामास नित्यदा 14090023c भीमसेनो महातेजाः सततं राजशासनात् 14090024a संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः 14090024c दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः 14090025a नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः 14090025c नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः 14090026a ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ 14090026c खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः 14090027a देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ 14090027c श्लेष्मातकमयं चैकं याजकाः समकारयन् 14090028a शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ 14090028c स भीमः कारयामास धर्मराजस्य शासनात् 14090029a ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः 14090029c नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि 14090030a इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् 14090030c शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः 14090031a चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः 14090031c स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः 14090032a ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः 14090032c तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये 14090033a ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये 14090033c सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि 14090034a यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा 14090034c अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः 14090035a स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः 14090035c गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः 14090036a स किंपुरुषगीतैश्च किंनरैरुपशोभितः 14090036c सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः 14090037a तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः 14090037c सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु 14090038a नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः 14090038c विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः 14090039a गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः 14090039c रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ 14091001 वैशंपायन उवाच 14091001a शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः 14091001c तुरगं तं यथाशास्त्रमालभन्त द्विजातयः 14091002a ततः संज्ञाप्य तुरगं विधिवद्याजकर्षभाः 14091002c उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् 14091002e कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् 14091003a उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः 14091003c श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ 14091004a तं वपाधूमगन्धं तु धर्मराजः सहानुजः 14091004c उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा 14091005a शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप 14091005c तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः 14091006a संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः 14091006c व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् 14091007a ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि 14091007c कोटीसहस्रं निष्काणां व्यासाय तु वसुंधराम् 14091008a प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः 14091008c अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 14091009a पृथिवी भवतस्त्वेषा संन्यस्ता राजसत्तम 14091009c निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः 14091010a युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः 14091010c भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् 14091011a अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता 14091011c अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया 14091012a वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् 14091012c चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः 14091013a नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः 14091013c इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः 14091014a इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा 14091014c एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् 14091015a ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत 14091015c तथैव द्विजसंघानां शंसतां विबभौ स्वनः 14091016a द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् 14091016c उवाच मध्ये विप्राणामिदं संपूजयन्मुनिः 14091017a दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् 14091017c हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते 14091018a ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् 14091018c यथाह भगवान्व्यासस्तथा तत्कर्तुमर्हसि 14091019a इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह 14091019c कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः 14091020a न करिष्यति तल्लोके कश्चिदन्यो नराधिपः 14091020c यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता 14091021a प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः 14091021c ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते 14091022a पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः 14091022c धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह 14091023a ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा 14091023c व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् 14091024a यज्ञवाटे तु यत्किंचिद्धिरण्यमपि भूषणम् 14091024c तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः 14091024e युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः 14091025a अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु 14091025c तथा विट्शूद्रसंघाश्च तथान्ये म्लेच्छजातयः 14091025e कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः 14091026a ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् 14091026c तर्पिता वसुना तेन धर्मराज्ञा महात्मना 14091027a स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् 14091027c प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः 14091028a श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा 14091028c चकार पुण्यं लोके तु सुमहान्तं पृथा तदा 14091029a गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह 14091029c सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव 14091030a पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा 14091030c अशोभन्त महाराज ग्रहास्तारागणैरिव 14091031a राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च 14091031c गजानश्वानलंकारान्स्त्रियो वस्त्राणि काञ्चनम् 14091032a तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले 14091032c विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा 14091033a आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् 14091033c प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा 14091034a दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ 14091034c स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् 14091035a राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् 14091035c प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः 14091036a एवं बभूव यज्ञः स धर्मराजस्य धीमतः 14091036c बह्वन्नधनरत्नौघः सुरामैरेयसागरः 14091037a सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः 14091037c रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ 14091038a भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति 14091038c पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते 14091039a मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् 14091039c मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा 14091040a दीयतां भुज्यतां चेति दिवारात्रमवारितम् 14091040c तं महोत्सवसंकाशमतिहृष्टजनाकुलम् 14091040e कथयन्ति स्म पुरुषा नानादेशनिवासिनः 14091041a वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा 14091041c विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् 14092001 जनमेजय उवाच 14092001a पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः 14092001c यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति 14092002 वैशंपायन उवाच 14092002a श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् 14092002c अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो 14092003a तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु 14092003c दीनान्धकृपणे चापि तदा भरतसत्तम 14092004a घुष्यमाणे महादाने दिक्षु सर्वासु भारत 14092004c पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि 14092005a बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ 14092005c वज्राशनिसमं नादममुञ्चत विशां पते 14092006a सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् 14092006c मानुषं वचनं प्राह धृष्टो बिलशयो महान् 14092007a सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः 14092007c उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः 14092008a तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते 14092008c विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः 14092009a ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः 14092009c कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् 14092010a किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् 14092010c कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे 14092011a अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् 14092011c यथागमं यथान्यायं कर्तव्यं च यथाकृतम् 14092012a पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा 14092012c मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् 14092013a तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि 14092013c क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः 14092014a पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः 14092014c अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः 14092015a ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः 14092015c देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः 14092016a यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु 14092016c यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया 14092017a श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च 14092017c समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि 14092018a इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् 14092018c नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः 14092019a यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम् 14092019c सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः 14092019e उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः 14092020a इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः 14092020c शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः 14092021a अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम् 14092021c उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः 14092022a स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः 14092022c यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् 14093001 नकुल उवाच 14093001a हन्त वो वर्तयिष्यामि दानस्य परमं फलम् 14093001c न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः 14093002a धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते 14093002c उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा 14093003a सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः 14093003c वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः 14093004a षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः 14093004c षष्ठे काले कदाचिच्च तस्याहारो न विद्यते 14093004e भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः 14093005a कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे 14093005c नाविद्यत तदा विप्राः संचयस्तान्निबोधत 14093005e क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा 14093006a काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् 14093006c क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते 14093007a उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे 14093007c उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः 14093007e उञ्छमप्राप्तवानेव सार्धं परिजनेन ह 14093008a स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि 14093008c क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः 14093009a अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् 14093009c यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः 14093010a कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि 14093010c कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः 14093011a अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा 14093011c ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् 14093012a तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा 14093012c विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः 14093013a अनसूयवो गतक्रोधाः साधवो गतमत्सराः 14093013c त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः 14093014a सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् 14093014c कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा 14093015a इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ 14093015c शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो 14093015e प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम 14093016a इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः 14093016c भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः 14093017a स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् 14093017c आहारं चिन्तयामास कथं तुष्टो भवेदिति 14093018a तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति 14093018c गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः 14093019a इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः 14093019c क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत 14093020a जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् 14093020c त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् 14093021a अपि कीटपतंगानां मृगाणां चैव शोभने 14093021c स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि 14093022a अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च 14093022c प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् 14093023a इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज 14093023c सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे 14093024a सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः 14093024c स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम 14093025a ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः 14093025c भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा 14093026a पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम 14093026c पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे 14093027a जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् 14093027c उपवासपरिश्रान्तो यदा त्वमपि कर्शितः 14093028a इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् 14093028c द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम 14093029a स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः 14093029c तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् 14093030 पुत्र उवाच 14093030a सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम 14093030c इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् 14093031a भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम 14093031c साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् 14093032a पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् 14093032c श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता 14093033a प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया 14093033c प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् 14093034 पितोवाच 14093034a अपि वर्षसहस्री त्वं बाल एव मतो मम 14093034c उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत 14093035a बालानां क्षुद्बलवती जानाम्येतदहं विभो 14093035c वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक 14093036a जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च 14093036c दीर्घकालं तपस्तप्तं न मे मरणतो भयम् 14093037 पुत्र उवाच 14093037a अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः 14093037c आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना 14093038 पितोवाच 14093038a रूपेण सदृशस्त्वं मे शीलेन च दमेन च 14093038c परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः 14093039a इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः 14093039c प्रहसन्निव विप्राय स तस्मै प्रददौ तदा 14093040a भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह 14093040c उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः 14093041a तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया 14093041c सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् 14093042a संतानात्तव संतानं मम विप्र भविष्यति 14093042c सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे 14093043a तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः 14093043c पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति 14093044a धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च 14093044c तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया 14093045a पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम 14093045c पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते 14093046 श्वशुर उवाच 14093046a वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै 14093046c कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् 14093047a कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः 14093047c कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि 14093048a षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् 14093048c कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् 14093049a बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया 14093049c उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी 14093050 स्नुषोवाच 14093050a गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् 14093050c देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो 14093051a देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः 14093051c तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् 14093052a अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज 14093052c चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि 14093053 श्वशुर उवाच 14093053a अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे 14093053c या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे 14093054a तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् 14093054c गणयित्वा महाभागे त्वं हि धर्मभृतां वरा 14093055a इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये 14093055c ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः 14093056a प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् 14093056c वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः 14093057a शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः 14093057c यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम 14093058a अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः 14093058c गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि 14093059a सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः 14093059c स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः 14093060a ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये 14093060c काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ 14093061a पितृलोकगताः सर्वे तारिताः पितरस्त्वया 14093061c अनागताश्च बहवः सुबहूनि युगानि च 14093062a ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा 14093062c अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज 14093063a श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत 14093063c तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम 14093064a सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा 14093064c कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा 14093065a क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति 14093065c क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह 14093066a बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् 14093066c यदा दानरुचिर्भवति तदा धर्मो न सीदति 14093067a अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च 14093067c धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया 14093068a द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् 14093068c कालः परतरो दानाच्छ्रद्धा चापि ततः परा 14093069a स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते 14093069c स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् 14093070a तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः 14093070c ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः 14093071a सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च 14093071c दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः 14093072a रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः 14093072c शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः 14093073a न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः 14093073c न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति 14093074a गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः 14093074c एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् 14093075a आत्ममांसप्रदानेन शिबिरौशीनरो नृपः 14093075c प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः 14093076a विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् 14093076c न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः 14093077a क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति 14093077c न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते 14093078a न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः 14093078c न चाश्वमेधैर्बहुभिः फलं सममिदं तव 14093079a सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ 14093079c विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् 14093080a सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् 14093080c आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् 14093081a पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते 14093081c सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज 14093082a इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः 14093082c सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ 14093083a तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा 14093083c भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् 14093084a ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च 14093084c दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः 14093084e विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् 14093085a तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह 14093085c शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् 14093085e पश्यतेदं सुविपुलं तपसा तस्य धीमतः 14093086a कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः 14093086c तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः 14093087a यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः 14093087c आशया परया प्राप्तो न चाहं काञ्चनीकृतः 14093088a ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः 14093088c सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा 14093089a सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः 14093089c न हि यज्ञो महानेष सदृशस्तैर्मतो मम 14093090 वैशंपायन उवाच 14093090a इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा 14093090c जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् 14093091a एतत्ते सर्वमाख्यातं मया परपुरंजय 14093091c यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ 14093092a न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन 14093092c ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः 14093093a अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् 14093093c तपो दमश्च सत्यं च दानं चेति समं मतम् 14094001 जनमेजय उवाच 14094001a यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः 14094001c शान्तिव्यवसिता विप्राः शमो दम इति प्रभो 14094002a तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते 14094002c इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् 14094003a यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम 14094003c इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः 14094004a देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः 14094004c देवराज्यं महातेजाः प्राप्तवानखिलं विभुः 14094005a यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः 14094005c सदृशो देवराजेन समृद्ध्या विक्रमेण च 14094006a अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् 14094006c अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः 14094007 वैशंपायन उवाच 14094007a यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ 14094007c गदतः शृणु मे राजन्यथावदिह भारत 14094008a पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः 14094008c ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि 14094009a हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते 14094009c देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु 14094010a सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप 14094010c अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा 14094011a आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ 14094011c महर्षयो महाराज संबभूवुः कृपान्विताः 14094012a ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः 14094012c ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः 14094013a अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः 14094013c न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर 14094014a धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो 14094014c नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते 14094015a आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि 14094015c विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् 14094016a यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः 14094016c एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते 14094017a शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः 14094017c उक्तं न प्रतिजग्राह मानमोहवशानुगः 14094018a तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् 14094018c जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत 14094019a ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः 14094019c ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् 14094020a महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः 14094020c यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि 14094021a तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् 14094021c यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः 14094022a एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् 14094022c उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः 14094023a अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः 14094023c धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते 14094024a धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा 14094024c ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् 14094025a पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः 14094025c रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते 14094026a तेन दत्तानि दानानि पापेन हतबुद्धिना 14094026c तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि 14094027a तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः 14094027c दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः 14094028a अपि संचयबुद्धिर्हि लोभमोहवशंगतः 14094028c उद्वेजयति भूतानि हिंसया पापचेतनः 14094029a एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च 14094029c स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् 14094030a उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः 14094030c दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः 14094031a एष धर्मो महांस्त्यागो दानं भूतदया तथा 14094031c ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा 14094031e सनातनस्य धर्मस्य मूलमेतत्सनातनम् 14094032a श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः 14094032c विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः 14094032e कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः 14094033a एते चान्ये च बहवः सिद्धिं परमिकां गताः 14094033c नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः 14094034a ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः 14094034c दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत 14095001 जनमेजय उवाच 14095001a धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् 14095001c एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् 14095002a ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् 14095002c कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् 14095003a कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् 14095003c एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ 14095004 वैशंपायन उवाच 14095004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 14095004c अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम 14095005a पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् 14095005c प्रविवेश महाराज सर्वभूतहिते रतः 14095006a तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः 14095006c मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः 14095007a परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च 14095007c यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः 14095008a सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः 14095008c दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः 14095009a वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः 14095009c उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः 14095010a यथाशक्त्या भगवता तदन्नं समुपार्जितम् 14095010c तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत् 14095010e तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः 14095011a एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे 14095011c न ववर्ष सहस्राक्षस्तदा भरतसत्तम 14095012a ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः 14095012c कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् 14095013a अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः 14095013c न च वर्षति पर्जन्यः कथमन्नं भविष्यति 14095014a सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् 14095014c न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश 14095015a एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः 14095015c अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् 14095016a इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् 14095016c प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् 14095017a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14095017c चिन्तायज्ञं करिष्यामि विधिरेष सनातनः 14095018a यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 14095018c व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् 14095019a बीजयज्ञो मयायं वै बहुवर्षसमाचितः 14095019c बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति 14095020a नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन 14095020c वर्षिष्यतीह वा देवो न वा देवो भविष्यति 14095021a अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः 14095021c स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः 14095022a यो यदाहारजातश्च स तथैव भविष्यति 14095022c विशेषं चैव कर्तास्मि पुनः पुनरतीव हि 14095023a अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् 14095023c त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् 14095024a दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः 14095024c विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा 14095025a उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते 14095025c सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु 14095025e स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु 14095026a इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः 14095026c ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् 14095026e विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् 14095027a प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् 14095027c स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् 14095028a यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे 14095028c तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे 14095029a न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् 14095029c वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे 14095030a न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् 14095030c धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् 14095031a भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता 14095031c एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो 14095032a प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम 14095032c विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे 14095033 वैशंपायन उवाच 14095033a तथा कथयतामेव देवराजः पुरंदरः 14095033c ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् 14095034a असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः 14095034c निकामवर्षी देवेन्द्रो बभूव जनमेजय 14095035a प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः 14095035c स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् 14095036a ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् 14095036c अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि 14096001 जनमेजय उवाच 14096001a कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै 14096001c प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे 14096002 वैशंपायन उवाच 14096002a एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् 14096002c श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी 14096003a श्राद्धं संकल्पयामास जमदग्निः पुरा किल 14096003c होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् 14096004a तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ 14096004c तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् 14096005a जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते 14096005c इति संचिन्त्य दुर्मेधा धर्षयामास तत्पयः 14096006a तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः 14096006c स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः 14096007a जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः 14096007c लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः 14096008a सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि 14096008c बिभेमि तपसः साधो प्रसादं कुरु मे विभो 14096009 जमदग्निरुवाच 14096009a साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः 14096009c न ममापकृतं तेऽद्य न मन्युर्विद्यते मम 14096010a यानुद्दिश्य तु संकल्पः पयसोऽस्य कृतो मया 14096010c पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् 14096011a इत्युक्तो जातसंत्रासः स तत्रान्तरधीयत 14096011c पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः 14096012a स तान्प्रसादयामास शापस्यान्तो भवेदिति 14096012c तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा 14096013a तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह 14096013c जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् 14096014a धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः 14096014c मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः 14096015a एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः 14096015c पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा