% Mahabharata: Santiparvan % Last updated: Wed Jun 16 2021 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 12001001 वैशंपायन उवाच 12001001a कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः 12001001c विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः 12001002a तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः 12001002c शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् 12001003a कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् 12001003c अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः 12001004a द्वैपायनो नारदश्च देवलश्च महानृषिः 12001004c देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः 12001005a अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः 12001005c गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् 12001006a अभिगम्य महात्मानः पूजिताश्च यथाविधि 12001006c आसनेषु महार्हेषु विविशुस्ते महर्षयः 12001007a प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा 12001007c पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् 12001008a पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् 12001008c आश्वासयन्तो राजानं विप्राः शतसहस्रशः 12001009a नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् 12001009c विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः 12001010a भवतो बाहुवीर्येण प्रसादान्माधवस्य च 12001010c जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर 12001011a दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् 12001011c क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव 12001012a कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप 12001012c कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते 12001013 युधिष्ठिर उवाच 12001013a विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् 12001013c ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च 12001014a इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा 12001014c कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् 12001015a सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् 12001015c जयोऽयमजयाकारो भगवन्प्रतिभाति मे 12001016a किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् 12001016c द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् 12001017a द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा 12001017c अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् 12001018a इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद 12001018c मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः 12001019a योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे 12001019c सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः 12001020a आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः 12001020c अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे 12001021a शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः 12001021c गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः 12001022a तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् 12001022c पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा 12001023a यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत 12001023c स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः 12001024a अजानता मया संख्ये राज्यलुब्धेन घातितः 12001024c तन्मे दहति गात्राणि तूलराशिमिवानलः 12001025a न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः 12001025c नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः 12001026a गता किल पृथा तस्य सकाशमिति नः श्रुतम् 12001026c अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ 12001027a पृथाया न कृतः कामस्तेन चापि महात्मना 12001027c अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् 12001028a न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे 12001028c अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् 12001029a युधिष्ठिरेण संधिं च यदि कुर्यां मते तव 12001029c भीतो रणे श्वेतवाहादिति मां मंस्यते जनः 12001030a सोऽहं निर्जित्य समरे विजयं सहकेशवम् 12001030c संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् 12001031a तमवोचत्किल पृथा पुनः पृथुलवक्षसम् 12001031c चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् 12001032a सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः 12001032c प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् 12001033a पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् 12001033c सकर्णा वा हते पार्थे सार्जुना वा हते मयि 12001034a तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् 12001034c भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि 12001035a तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् 12001035c सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः 12001036a न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने 12001036c अथ शूरो महेष्वासः पार्थेनासौ निपातितः 12001037a अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम 12001037c पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो 12001038a तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः 12001038c कर्णार्जुनसहायोऽहं जयेयमपि वासवम् 12001039a सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः 12001039c सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति 12001040a यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः 12001040c सभायां गदतो द्यूते दुर्योधनहितैषिणः 12001041a तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह 12001041c कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम 12001042a सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह 12001042c कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् 12001043a कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् 12001043c कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि 12001044a श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् 12001044c भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् 12002001 वैशंपायन उवाच 12002001a स एवमुक्तस्तु मुनिर्नारदो वदतां वरः 12002001c कथयामास तत्सर्वं यथा शप्तः स सूतजः 12002002a एवमेतन्महाबाहो यथा वदसि भारत 12002002c न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे 12002003a गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप 12002003c तन्निबोध महाराज यथा वृत्तमिदं पुरा 12002004a क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो 12002004c संघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः 12002005a स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः 12002005c चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव 12002006a स बलं भीमसेनस्य फल्गुनस्य च लाघवम् 12002006c बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा 12002007a सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः 12002007c प्रजानामनुरागं च चिन्तयानो व्यदह्यत 12002008a स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै 12002008c युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः 12002009a विद्याधिकमथालक्ष्य धनुर्वेदे धनंजयम् 12002009c द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् 12002010a ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् 12002010c अर्जुनेन समो युद्धे भवेयमिति मे मतिः 12002011a समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् 12002011c त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः 12002012a द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति 12002012c दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह 12002013a ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः 12002013c क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन 12002014a इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च 12002014c जगाम सहसा रामं महेन्द्रं पर्वतं प्रति 12002015a स तु राममुपागम्य शिरसाभिप्रणम्य च 12002015c ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत 12002016a रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः 12002016c उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् 12002017a तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे 12002017c गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः 12002018a स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि 12002018c प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् 12002019a स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके 12002019c एकः खड्गधनुष्पाणिः परिचक्राम सूतजः 12002020a सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः 12002020c जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया 12002021a तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् 12002021c कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः 12002022a अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव 12002022c मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः 12002023a तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव 12002023c दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते 12002024a येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् 12002024c युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति 12002025a ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः 12002025c पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम 12002026a यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम 12002026c प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति 12002027a ततः प्रसादयामास पुनस्तं द्विजसत्तमम् 12002027c गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् 12002028a नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा 12002028c गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर 12002029a इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः 12002029c राममभ्यागमद्भीतस्तदेव मनसा स्मरन् 12003001 नारद उवाच 12003001a कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च 12003001c तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा 12003002a तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् 12003002c प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने 12003003a विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः 12003003c चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः 12003004a ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् 12003004c कर्णेन सहितो धीमानुपवासेन कर्शितः 12003005a सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः 12003005c कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः 12003006a अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः 12003006c दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् 12003007a स तस्योरुमथासाद्य बिभेद रुधिराशनः 12003007c न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् 12003008a संदश्यमानोऽपि तथा कृमिणा तेन भारत 12003008c गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः 12003009a कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् 12003009c अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् 12003010a यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः 12003010c तदाबुध्यत तेजस्वी संतप्तश्चेदमब्रवीत् 12003011a अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया 12003011c कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम 12003012a तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् 12003012c ददर्श रामस्तं चापि कृमिं सूकरसंनिभम् 12003013a अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् 12003013c रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः 12003014a स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् 12003014c तस्मिन्नेवासृक्संक्लिन्ने तदद्भुतमिवाभवत् 12003015a ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् 12003015c राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः 12003016a स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः 12003016c स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् 12003017a मोक्षितो नरकादस्मि भवता मुनिसत्तम 12003017c भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् 12003018a तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् 12003018c कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् 12003019a सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः 12003019c पुरा देवयुगे तात भृगोस्तुल्यवया इव 12003020a सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् 12003020c महर्षेरभिशापेन कृमिभूतोऽपतं भुवि 12003021a अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः 12003021c मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे 12003022a शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् 12003022c भविता भार्गवे राम इति मामब्रवीद्भृगुः 12003023a सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा 12003023c त्वया साधो समागम्य विमुक्तः पापयोनितः 12003024a एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः 12003024c रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् 12003025a अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् 12003025c क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् 12003026a तमुवाच ततः कर्णः शापभीतः प्रसादयन् 12003026c ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव 12003027a राधेयः कर्ण इति मां प्रवदन्ति जना भुवि 12003027c प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव 12003028a पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः 12003028c अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके 12003029a तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव 12003029c भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् 12003030a यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया 12003030c तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति 12003031a अन्यत्र वधकालात्ते सदृशेन समेयुषः 12003031c अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन 12003032a गच्छेदानीं न ते स्थानमनृतस्येह विद्यते 12003032c न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि 12003033a एवमुक्तस्तु रामेण न्यायेनोपजगाम सः 12003033c दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् 12004001 नारद उवाच 12004001a कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् 12004001c दुर्योधनेन सहितो मुमुदे भरतर्षभ 12004002a ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे 12004002c कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च 12004003a श्रीमद्राजपुरं नाम नगरं तत्र भारत 12004003c राजानः शतशस्तत्र कन्यार्थं समुपागमन् 12004004a श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् 12004004c रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ 12004005a ततः स्वयंवरे तस्मिन्संप्रवृत्ते महोत्सवे 12004005c समापेतुर्नृपतयः कन्यार्थे नृपसत्तम 12004006a शिशुपालो जरासंधो भीष्मको वक्र एव च 12004006c कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः 12004007a सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः 12004007c अशोकः शतधन्वा च भोजो वीरश्च नामतः 12004008a एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः 12004008c म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत 12004009a काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः 12004009c सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः 12004010a ततः समुपविष्टेषु तेषु राजसु भारत 12004010c विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता 12004011a ततः संश्राव्यमाणेषु राज्ञां नामसु भारत 12004011c अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी 12004012a दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् 12004012c प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् 12004013a स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः 12004013c रथमारोप्य तां कन्यामाजुहाव नराधिपान् 12004014a तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान् 12004014c कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ 12004015a ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर 12004015c संनह्यतां तनुत्राणि रथान्योजयतामपि 12004016a तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ 12004016c शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव 12004017a कर्णस्तेषामापततामेकैकेन क्षुरेण ह 12004017c धनूंषि सशरावापान्यपातयत भूतले 12004018a ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् 12004018c कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा 12004019a लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः 12004019c हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् 12004020a ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः 12004020c व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः 12004021a दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा 12004021c हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् 12005001 नारद उवाच 12005001a आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः 12005001c आह्वयद्द्वैरथेनाजौ जरासंधो महीपतिः 12005002a तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः 12005002c युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः 12005003a क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ 12005003c बाहुभिः समसज्जेतामुभावपि बलान्वितौ 12005004a बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः 12005004c बिभेद संधिं देहस्य जरया श्लेषितस्य ह 12005005a स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः 12005005c प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत 12005006a प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ 12005006c अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् 12005007a पालयामास चम्पां तु कर्णः परबलार्दनः 12005007c दुर्योधनस्यानुमते तवापि विदितं तथा 12005008a एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ 12005008c त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले 12005009a स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते 12005009c सहजं कवचं चैव मोहितो देवमायया 12005010a विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा 12005010c निहतो विजयेनाजौ वासुदेवस्य पश्यतः 12005011a ब्राह्मणस्याभिशापेन रामस्य च महात्मनः 12005011c कुन्त्याश्च वरदानेन मायया च शतक्रतोः 12005012a भीष्मावमानात्संख्यायां रथानामर्धकीर्तनात् 12005012c शल्यात्तेजोवधाच्चापि वासुदेवनयेन च 12005013a रुद्रस्य देवराजस्य यमस्य वरुणस्य च 12005013c कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः 12005014a अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना 12005014c हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः 12005015a एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः 12005015c न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः 12006001 वैशंपायन उवाच 12006001a एतावदुक्त्वा देवर्षिर्विरराम स नारदः 12006001c युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः 12006002a तं दीनमनसं वीरमधोवदनमातुरम् 12006002c निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा 12006003a कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना 12006003c अब्रवीन्मधुराभाषा काले वचनमर्थवत् 12006004a युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि 12006004c जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम 12006005a यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव 12006005c भास्करेण च देवेन पित्रा धर्मभृतां वर 12006006a यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता 12006006c तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः 12006007a न चैनमशकद्भानुरहं वा स्नेहकारणैः 12006007c पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया 12006008a ततः कालपरीतः स वैरस्योद्धुक्षणे रतः 12006008c प्रतीपकारी युष्माकमिति चोपेक्षितो मया 12006009a इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः 12006009c उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः 12006010a भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् 12006010c शशाप च महातेजाः सर्वलोकेषु च स्त्रियः 12006010e न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः 12006011a स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा 12006011c स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः 12006012a ततः शोकपरीतात्मा सधूम इव पावकः 12006012c निर्वेदमकरोद्धीमान्राजा संतापपीडितः 12007001 वैशंपायन उवाच 12007001a युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः 12007001c शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् 12007002a आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः 12007002c दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः 12007003a यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् 12007003c ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् 12007004a अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल 12007004c आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः 12007005a धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् 12007005c धिगस्त्वमर्षं येनेमामापदं गमिता वयम् 12007006a साधु क्षमा दमः शौचमवैरोध्यममत्सरः 12007006c अहिंसा सत्यवचनं नित्यानि वनचारिणाम् 12007007a वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः 12007007c इमामवस्थामापन्ना राज्यलेशबुभुक्षया 12007008a त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् 12007008c बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः 12007009a ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् 12007009c संपरित्यज्य जीवामो हीनार्था हतबान्धवाः 12007010a आमिषे गृध्यमानानामशुनां नः शुनामिव 12007010c आमिषं चैव नो नष्टमामिषस्य च भोजिनः 12007011a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 12007011c न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः 12007012a संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः 12007012c मृत्युयानं समारुह्य गता वैवस्वतक्षयम् 12007013a बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् 12007013c तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया 12007014a उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः 12007014c लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति 12007015a यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि 12007015c संभाविता जातबलास्ते दद्युर्यदि नः सुखम् 12007015e इह चामुत्र चैवेति कृपणाः फलहेतुकाः 12007016a तासामयं समारम्भो निवृत्तः केवलोऽफलः 12007016c यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः 12007017a अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च 12007017c पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् 12007018a यदैषामङ्ग पितरौ जातौ काममयाविव 12007018c संजातबलरूपेषु तदैव निहता नृपाः 12007019a संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः 12007019c न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित् 12007020a पाञ्चालानां कुरूणां च हता एव हि येऽहताः 12007020c ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः 12007021a वयमेवास्य लोकस्य विनाशे कारणं स्मृताः 12007021c धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि 12007022a सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः 12007022c मिथ्यावृत्तः स सततमस्मास्वनपकारिषु 12007023a अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् 12007023c न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् 12007024a नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् 12007024c न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः 12007025a ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः 12007025c धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः 12007026a तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् 12007026c अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा 12007026e असंशयं धृतराष्ट्रो यथैवाहं तथा गतः 12007027a अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् 12007027c पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् 12007028a इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः 12007028c अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि 12007029a को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने 12007029c यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ 12007030a आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः 12007030c प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव 12007031a सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः 12007031c दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् 12007031e अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् 12007032a कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् 12007032c राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति 12007033a हताः शूराः कृतं पापं विषयः स्वो विनाशितः 12007033c हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् 12007034a धनंजय कृतं पापं कल्याणेनोपहन्यते 12007034c त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः 12007035a त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा 12007035c प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा 12007036a स धनंजय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः 12007036c वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप 12007037a न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः 12007037c परिग्रहवता तन्मे प्रत्यक्षमरिसूदन 12007038a मया निसृष्टं पापं हि परिग्रहमभीप्सता 12007038c जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः 12007039a स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च 12007039c गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा 12007040a प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् 12007040c न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम 12007041a एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः 12007041c व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत 12008001 वैशंपायन उवाच 12008001a अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी 12008001c अभिनीततरं वाक्यं दृढवादपराक्रमः 12008002a दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः 12008002c स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः 12008003a अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् 12008003c यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् 12008004a शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् 12008004c हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् 12008005a क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः 12008005c किमर्थं च महीपालानवधीः क्रोधमूर्छितः 12008006a यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् 12008006c समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः 12008006e सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः 12008007a कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः 12008007c संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति 12008008a सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः 12008008c कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो 12008009a अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम् 12008009c धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे 12008010a यदीमानि हवींषीह विमथिष्यन्त्यसाधवः 12008010c भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् 12008011a आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत् 12008011c कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह 12008012a अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् 12008012c यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते 12008013a धर्मं संहरते तस्य धनं हरति यस्य यः 12008013c ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि 12008014a अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् 12008014c दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति 12008015a पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते 12008015c विशेषं नाधिगच्छामि पतितस्याधनस्य च 12008016a अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः 12008016c क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः 12008017a अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप 12008017c प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति 12008018a अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः 12008018c व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा 12008019a यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः 12008019c यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः 12008020a अधनेनार्थकामेन नार्थः शक्यो विवित्सता 12008020c अर्थैरर्था निबध्यन्ते गजैरिव महागजाः 12008021a धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः 12008021c अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप 12008022a धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते 12008022c नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम 12008023a नाधनो धर्मकृत्यानि यथावदनुतिष्ठति 12008023c धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा 12008024a यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः 12008024c स वै राजन्कृशो नाम न शरीरकृशः कृशः 12008025a अवेक्षस्व यथान्यायं पश्य देवासुरं यथा 12008025c राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः 12008026a न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् 12008026c एतावानेव वेदेषु निश्चयः कविभिः कृतः 12008027a अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता 12008027c सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः 12008028a द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः 12008028c इति देवा व्यवसिता वेदवादाश्च शाश्वताः 12008029a अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च 12008029c कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः 12008030a न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम् 12008030c एवमेव हि राजानो जयन्ति पृथिवीमिमाम् 12008031a जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने 12008031c राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते 12008032a यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश 12008032c एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति 12008033a आसीदियं दिलीपस्य नृगस्य नहुषस्य च 12008033c अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता 12008034a स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः 12008034c तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् 12008035a येषां राजाश्वमेधेन यजते दक्षिणावता 12008035c उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते 12008036a विश्वरूपो महादेवः सर्वमेधे महामखे 12008036c जुहाव सर्वभूतानि तथैवात्मानमात्मना 12008037a शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम 12008037c महान्दाशरथः पन्था मा राजन्कापथं गमः 12009001 युधिष्ठिर उवाच 12009001a मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि 12009001c धारयित्वापि ते श्रुत्वा रोचतां वचनं मम 12009002a सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः 12009002c गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत 12009003a क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् 12009003c अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु 12009004a हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः 12009004c अरण्ये फलमूलाशी चरिष्यामि मृगैः सह 12009005a जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् 12009005c कृशः परिमिताहारश्चर्मचीरजटाधरः 12009006a शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः 12009006c तपसा विधिदृष्टेन शरीरमुपशोषयन् 12009007a मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः 12009007c मुदितानामरण्येषु वसतां मृगपक्षिणाम् 12009008a आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् 12009008c नानारूपान्वने पश्यन्रमणीयान्वनौकसः 12009009a वानप्रस्थजनस्यापि दर्शनं कुलवासिनः 12009009c नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् 12009010a एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् 12009010c पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् 12009011a एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् 12009011c सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् 12009012a अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ 12009012c चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् 12009013a पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः 12009013c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 12009014a न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः 12009014c निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः 12009015a आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः 12009015c अकुर्वाणः परैः कांचित्संविदं जातु केनचित् 12009016a जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् 12009016c प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति 12009017a न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् 12009017c प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः 12009018a अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् 12009018c न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः 12009019a गमने निरपेक्षश्च पश्चादनवलोकयन् 12009019c ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः 12009020a स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि 12009020c द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् 12009021a अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् 12009021c अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन् 12009022a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 12009022c अतीतपात्रसंचारे काले विगतभिक्षुके 12009023a एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च 12009023c स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् 12009024a न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् 12009024c जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् 12009025a वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः 12009025c नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः 12009026a याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः 12009026c सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः 12009027a तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः 12009027c सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः 12009028a विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः 12009028c न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः 12009029a वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् 12009029c तृष्णया हि महत्पापमज्ञानादस्मि कारितः 12009030a कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः 12009030c कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति 12009031a आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 12009031c प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् 12009032a एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् 12009032c समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् 12009033a जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् 12009033c असारमिममस्वन्तं संसारं त्यजतः सुखम् 12009034a दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु 12009034c को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् 12009035a कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् 12009035c पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते 12009036a तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् 12009036c तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् 12009037a एतया सततं वृत्त्या चरन्नेवंप्रकारया 12009037c देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः 12010001 भीम उवाच 12010001a श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः 12010001c अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी 12010002a आलस्ये कृतचित्तस्य राजधर्मानसूयतः 12010002c विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ 12010003a क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते 12010003c क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे 12010004a यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् 12010004c शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन 12010005a भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् 12010005c न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् 12010006a प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः 12010006c स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् 12010007a आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः 12010007c हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः 12010008a ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः 12010008c तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् 12010009a यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् 12010009c पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् 12010010a यथारुह्य महावृक्षमपहृत्य ततो मधु 12010010c अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् 12010011a यथा महान्तमध्वानमाशया पुरुषः पतन् 12010011c स निराशो निवर्तेत कर्मेदं नस्तथोपमम् 12010012a यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम 12010012c आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् 12010013a यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया 12010013c कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् 12010014a वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः 12010014c त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत 12010015a वयं हि बाहुबलिनः कृतविद्या मनस्विनः 12010015c क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा 12010016a अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये 12010016c कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् 12010017a आपत्काले हि संन्यासः कर्तव्य इति शिष्यते 12010017c जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च 12010018a तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते 12010018c धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः 12010019a कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः 12010019c तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते 12010020a श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् 12010020c वेदवादस्य विज्ञानं सत्याभासमिवानृतम् 12010021a शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना 12010021c धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् 12010022a शक्यं पुनररण्येषु सुखमेकेन जीवितुम् 12010022c अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् 12010023a नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः 12010023c अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः 12010024a यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् 12010024c पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः 12010025a एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः 12010025c अपरिग्रहवन्तश्च सततं चात्मचारिणः 12010026a अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते 12010026c तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः 12010027a औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः 12010027c येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते 12010028a अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् 12010028c तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः 12011001 अर्जुन उवाच 12011001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12011001c तापसैः सह संवादं शक्रस्य भरतर्षभ 12011002a केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः 12011002c अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः 12011003a धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः 12011003c त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत 12011004a तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः 12011004c सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः 12011005a पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् 12011005c संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः 12011006 ऋषय ऊचुः 12011006a अहो बतायं शकुनिर्विघसाशान्प्रशंसति 12011006c अस्मान्नूनमयं शास्ति वयं च विघसाशिनः 12011007 शकुनिरुवाच 12011007a नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् 12011007c उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः 12011008 ऋषय ऊचुः 12011008a इदं श्रेयः परमिति वयमेवाभ्युपास्महे 12011008c शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते 12011009 शकुनिरुवाच 12011009a यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना 12011009c ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः 12011010 ऋषय ऊचुः 12011010a शृणुमस्ते वचस्तात पन्थानो विदितास्तव 12011010c नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः 12011011 शकुनिरुवाच 12011011a चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् 12011011c शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः 12011012a मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते 12011012c जीवतो यो यथाकालं श्मशाननिधनादिति 12011013a कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः 12011013c अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते 12011014a आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते 12011014c मासार्धमासा ऋतव आदित्यशशितारकम् 12011015a ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् 12011015c सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् 12011016a अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः 12011016c मूढानामर्थहीनानां तेषामेनस्तु विद्यते 12011017a देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् 12011017c संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् 12011018a एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् 12011018c तस्मात्तदध्यवसतस्तपस्वि तप उच्यते 12011019a देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् 12011019c संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते 12011020a देवा वै दुष्करं कृत्वा विभूतिं परमां गताः 12011020c तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः 12011021a तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः 12011021c कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् 12011022a एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः 12011022c तस्माद्वनं मध्यमं च लोकेषु तप उच्यते 12011023a दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः 12011023c सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि 12011024a दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च 12011024c अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः 12011025a तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः 12011025c लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः 12011026a त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः 12011026c वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः 12011027a ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् 12011027c उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः 12011028a तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् 12011028c प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम 12012001 वैशंपायन उवाच 12012001a अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् 12012001c राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् 12012002a अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः 12012002c व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता 12012003a विशाखयूपे देवानां सर्वेषामग्नयश्चिताः 12012003c तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् 12012004a अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये 12012004c तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव 12012004e वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् 12012005a न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु 12012005c देवयानेन नाकस्य पृष्ठमाप्नोति भारत 12012006a अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः 12012006c ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप 12012007a वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् 12012007c कृतात्मसु महाराज स वै त्यागी स्मृतो नरः 12012008a अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः 12012008c आत्मत्यागी महाराज स त्यागी तामसः प्रभो 12012009a अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः 12012009c अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः 12012010a क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते 12012010c विप्रो वेदानधीते यः स त्यागी गुरुपूजकः 12012011a आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः 12012011c एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः 12012012a समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत 12012012c अयं पन्था महर्षीणामियं लोकविदां गतिः 12012013a इति यः कुरुते भावं स त्यागी भरतर्षभ 12012013c न यः परित्यज्य गृहान्वनमेति विमूढवत् 12012014a यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः 12012014c अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् 12012015a अभिमानकृतं कर्म नैतत्फलवदुच्यते 12012015c त्यागयुक्तं महाराज सर्वमेव महाफलम् 12012016a शमो दमस्तपो दानं सत्यं शौचमथार्जवम् 12012016c यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः 12012017a पितृदेवातिथिकृते समारम्भोऽत्र शस्यते 12012017c अत्रैव हि महाराज त्रिवर्गः केवलं फलम् 12012018a एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते 12012018c त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् 12012019a असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः 12012019c मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः 12012020a वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः 12012020c पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च 12012021a गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् 12012021c तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा 12012022a तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः 12012022c न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् 12012023a स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे 12012023c अथापरे महायज्ञान्मनसैव वितन्वते 12012024a एवं दानसमाधानं मार्गमातिष्ठतो नृप 12012024c द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः 12012025a स रत्नानि विचित्राणि संभृतानि ततस्ततः 12012025c मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि 12012025e कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप 12012026a राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः 12012026c य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः 12012026e तैर्यजस्व महाराज शक्रो देवपतिर्यथा 12012027a राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् 12012027c अशरण्यः प्रजानां यः स राजा कलिरुच्यते 12012028a अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः 12012028c ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च 12012029a अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः 12012029c वयं ते राजकलयो भविष्यामो विशां पते 12012030a अदातारोऽशरण्याश्च राजकिल्बिषभागिनः 12012030c दुःखानामेव भोक्तारो न सुखानां कदाचन 12012031a अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् 12012031c तीर्थेष्वनभिसंत्यज्य प्रव्रजिष्यसि चेदथ 12012032a छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् 12012032c लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः 12012033a अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् 12012033c परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते 12012034a एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते 12012034c ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् 12012035a निहत्य शत्रूंस्तरसा समृद्धा;न्शक्रो यथा दैत्यबलानि संख्ये 12012035c कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे 12012036a क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय 12012036c नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ 12013001 सहदेव उवाच 12013001a न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत 12013001c शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा 12013002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 12013002c यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः 12013003a शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः 12013003c यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः 12013004a द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 12013004c ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् 12013005a ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ 12013005c अदृश्यमानौ भूतानि योधयेतामसंशयम् 12013006a अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत 12013006c भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते 12013007a अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा 12013007c नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः 12013008a तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः 12013008c पन्था निषेवितः सद्भिः स निषेव्यो विजानता 12013009a लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् 12013009c न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् 12013010a अथ वा वसतो राजन्वने वन्येन जीवतः 12013010c द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते 12013011a बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत 12013011c ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् 12013012a भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः 12013012c दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि 12013013a तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् 12013013c तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम 12014001 वैशंपायन उवाच 12014001a अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे 12014001c भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् 12014002a महाभिजनसंपन्ना श्रीमत्यायतलोचना 12014002c अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा 12014003a आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् 12014003c सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् 12014004a अभिमानवती नित्यं विशेषेण युधिष्ठिरे 12014004c लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी 12014005a आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना 12014005c भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत् 12014006a इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव 12014006c वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे 12014007a नन्दयैतान्महाराज मत्तानिव महाद्विपान् 12014007c उपपन्नेन वाक्येन सततं दुःखभागिनः 12014008a कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः 12014008c भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् 12014009a वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् 12014009c संपूर्णां सर्वकामानामाहवे विजयैषिणः 12014010a विरथांश्च रथान्कृत्वा निहत्य च महागजान् 12014010c संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः 12014011a यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः 12014011c वनवासकृतं दुःखं भविष्यति सुखाय नः 12014012a इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर 12014012c कथमद्य पुनर्वीर विनिहंसि मनांस्युत 12014013a न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते 12014013c न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते 12014014a नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते 12014014c नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत 12014015a मित्रता सर्वभूतेषु दानमध्ययनं तपः 12014015c ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम 12014016a असतां प्रतिषेधश्च सतां च परिपालनम् 12014016c एष राज्ञां परो धर्मः समरे चापलायनम् 12014017a यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये 12014017c निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते 12014018a न श्रुतेन न दानेन न सान्त्वेन न चेज्यया 12014018c त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत 12014019a यत्तद्बलममित्राणां तथा वीरसमुद्यतम् 12014019c हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैर्महत्तरम् 12014020a रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च 12014020c तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम् 12014021a जम्बूद्वीपो महाराज नानाजनपदायुतः 12014021c त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो 12014022a जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप 12014022c अपरेण महामेरोर्दण्डेन मृदितस्त्वया 12014023a क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप 12014023c पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया 12014024a उत्तरेण महामेरोः शाकद्वीपेन संमितः 12014024c भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया 12014025a द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः 12014025c विगाह्य सागरं वीर दण्डेन मृदितास्त्वया 12014026a एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत 12014026c न प्रीयसे महाराज पूज्यमानो द्विजातिभिः 12014027a स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत 12014027c ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव 12014028a अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः 12014028c एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः 12014029a किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः 12014029c समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने 12014030a अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी 12014030c युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे 12014031a हत्वा राजसहस्राणि बहून्याशुपराक्रमः 12014031c तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप 12014032a येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः 12014032c तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः 12014033a यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप 12014033c बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम् 12014034a कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति 12014034c धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च 12014034e भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति 12014035a साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम 12014035c तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् 12014036a एतेषां यतमानानामुत्पद्यन्ते तु संपदः 12014036c त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् 12014037a यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ 12014037c मान्धाता चाम्बरीषश्च तथा राजन्विराजसे 12014038a प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् 12014038c सपर्वतवनद्वीपां मा राजन्विमना भव 12014039a यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च 12014039c पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम 12015001 वैशंपायन उवाच 12015001a याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् 12015001c अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् 12015002a दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 12015002c दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः 12015003a धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप 12015003c कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते 12015004a दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते 12015004c एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् 12015005a राजदण्डभयादेके पापाः पापं न कुर्वते 12015005c यमदण्डभयादेके परलोकभयादपि 12015006a परस्परभयादेके पापाः पापं न कुर्वते 12015006c एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् 12015007a दण्डस्यैव भयादेके न खादन्ति परस्परम् 12015007c अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् 12015008a यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि 12015008c दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः 12015009a वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् 12015009c दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते 12015010a असंमोहाय मर्त्यानामर्थसंरक्षणाय च 12015010c मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते 12015011a यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः 12015011c प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति 12015012a ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः 12015012c दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः 12015013a नाभीतो यजते राजन्नाभीतो दातुमिच्छति 12015013c नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति 12015014a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12015014c नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् 12015015a नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः 12015015c इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 12015016a य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् 12015016c हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः 12015017a हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः 12015017c वसवो मरुतः साध्या विश्वेदेवाश्च भारत 12015018a एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः 12015018c न ब्रह्माणं न धातारं न पूषाणं कथंचन 12015019a मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् 12015019c यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु 12015020a न हि पश्यामि जीवन्तं लोके कंचिदहिंसया 12015020c सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः 12015021a नकुलो मूषकानत्ति बिडालो नकुलं तथा 12015021c बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा 12015022a तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः 12015022c प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् 12015023a विधानं देवविहितं तत्र विद्वान्न मुह्यति 12015023c यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि 12015024a विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः 12015024c विना वधं न कुर्वन्ति तापसाः प्राणयापनम् 12015025a उदके बहवः प्राणाः पृथिव्यां च फलेषु च 12015025c न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् 12015026a सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् 12015026c पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः 12015027a ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः 12015027c वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः 12015028a भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् 12015028c मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च 12015029a दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः 12015029c कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः 12015030a दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः 12015030c शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः 12015031a सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः 12015031c पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; संतर्जिता दण्डभयाज्ज्वलन्ति 12015032a अन्धं तम इवेदं स्यान्न प्रज्ञायेत किंचन 12015032c दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी 12015033a येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः 12015033c तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः 12015034a सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः 12015034c दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते 12015035a चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च 12015035c दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् 12015036a यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च 12015036c अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च 12015037a न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते 12015037c न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् 12015038a विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः 12015038c ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् 12015039a न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः 12015039c विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् 12015040a चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः 12015040c न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् 12015041a न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः 12015041c युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् 12015042a न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् 12015042c तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् 12015043a दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः 12015043c दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः 12015044a न तत्र कूटं पापं वा वञ्चना वापि दृश्यते 12015044c यत्र दण्डः सुविहितश्चरत्यरिविनाशनः 12015045a हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् 12015045c हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् 12015046a यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः 12015046c कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च 12015047a सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः 12015047c संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् 12015048a अर्थे सर्वे समारम्भाः समायत्ता न संशयः 12015048c स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् 12015049a लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् 12015049c अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः 12015050a नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः 12015050c उभयं सर्वकार्येषु दृश्यते साध्वसाधु च 12015051a पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् 12015051c कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च 12015052a एवं पर्याकुले लोके विपथे जर्जरीकृते 12015052c तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर 12015053a यज देहि प्रजा रक्ष धर्मं समनुपालय 12015053c अमित्राञ्जहि कौन्तेय मित्राणि परिपालय 12015054a मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत 12015054c न तत्र किल्बिषं किंचित्कर्तुर्भवति भारत 12015055a आततायी हि यो हन्यादाततायिनमागतम् 12015055c न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति 12015056a अवध्यः सर्वभूतानामन्तरात्मा न संशयः 12015056c अवध्ये चात्मनि कथं वध्यो भवति केनचित् 12015057a यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् 12015057c एवं जीवः शरीराणि तानि तानि प्रपद्यते 12015058a देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते 12015058c एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः 12016001 वैशंपायन उवाच 12016001a अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः 12016001c धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् 12016002a राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि 12016002c उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः 12016003a न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् 12016003c अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप 12016004a भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् 12016004c विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च 12016005a कथं हि राजा लोकस्य सर्वशास्त्रविशारदः 12016005c मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा 12016006a आगतिश्च गतिश्चैव लोकस्य विदिता तव 12016006c आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो 12016007a एवं गते महाराज राज्यं प्रति जनाधिप 12016007c हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु 12016008a द्विविधो जायते व्याधिः शारीरो मानसस्तथा 12016008c परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते 12016009a शारीराज्जायते व्याधिर्मानसो नात्र संशयः 12016009c मानसाज्जायते व्याधिः शारीर इति निश्चयः 12016010a शारीरमानसे दुःखे योऽतीते अनुशोचति 12016010c दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 12016011a शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः 12016011c तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् 12016012a तेषामन्यतमोत्सेके विधानमुपदिष्यते 12016012c उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते 12016013a सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः 12016013c हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 12016014a कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति 12016014c कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति 12016015a स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च 12016015c न दुःखी सुखजातस्य न सुखी दुःखजस्य वा 12016016a स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् 12016016c अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे 12016017a दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् 12016017c मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि 12016018a प्रव्राजनं च नगरादजिनैश्च निवासनम् 12016018c महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि 12016019a जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् 12016019c सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि 12016019e पुनरज्ञातचर्यायां कीचकेन पदा वधम् 12016020a यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम 12016020c मनसैकेन ते युद्धमिदं घोरमुपस्थितम् 12016021a यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः 12016021c आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 12016022a तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे 12016022c अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे 12016023a तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ 12016023c एतज्जित्वा महाराज कृतकृत्यो भविष्यसि 12016024a एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् 12016024c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 12016025a दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि 12016025c द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः 12016026a यजस्व वाजिमेधेन विधिवद्दक्षिणावता 12016026c वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् 12017001 युधिष्ठिर उवाच 12017001a असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता 12017001c बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः 12017002a एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि 12017002c निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव 12017003a य इमामखिलां भूमिं शिष्यादेको महीपतिः 12017003c तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि 12017004a नाह्ना पूरयितुं शक्या न मासेन नरर्षभ 12017004c अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् 12017005a यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति 12017005c अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् 12017005e जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् 12017006a मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि 12017006c अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् 12017007a योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ 12017007c मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय 12017008a एकोदरकृते व्याघ्रः करोति विघसं बहु 12017008c तमन्येऽप्युपजीवन्ति मन्दवेगंचरा मृगाः 12017009a विषयान्प्रतिसंहृत्य संन्यासं कुरुते यतिः 12017009c न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा 12017010a पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा 12017010c अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः 12017011a यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः 12017011c तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः 12017012a संकल्पेषु निरारम्भो निराशो निर्ममो भव 12017012c विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् 12017013a निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् 12017013c परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे 12017014a पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ 12017014c ईजानाः पितृयानेन देवयानेन मोक्षिणः 12017015a तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः 12017015c विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः 12017016a आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् 12017016c ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् 12017017a अपि गाथामिमां गीतां जनकेन वदन्त्युत 12017017c निर्द्वंद्वेन विमुक्तेन मोक्षं समनुपश्यता 12017018a अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन 12017018c मिथिलायां प्रदीप्तायां न मे दह्यति किंचन 12017019a प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् 12017019c जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते 12017020a दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् 12017020c अज्ञातानां च विज्ञानात्संबोधाद्बुद्धिरुच्यते 12017021a यस्तु वाचं विजानाति बहुमानमियात्स वै 12017021c ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् 12017022a यदा भूतपृथग्भावमेकस्थमनुपश्यति 12017022c तत एव च विस्तारं ब्रह्म संपद्यते तदा 12017023a ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः 12017023c नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् 12018001 वैशंपायन उवाच 12018001a तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् 12018001c संतप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः 12018002a कथयन्ति पुरावृत्तमितिहासमिमं जनाः 12018002c विदेहराज्ञः संवादं भार्यया सह भारत 12018003a उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् 12018003c विदेहराजं महिषी दुःखिता प्रत्यभाषत 12018004a धनान्यपत्यं मित्राणि रत्नानि विविधानि च 12018004c पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः 12018005a तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिंचनम् 12018005c धानामुष्टिमुपासीनं निरीहं गतमत्सरम् 12018006a तमुवाच समागम्य भर्तारमकुतोभयम् 12018006c क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः 12018007a कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् 12018007c कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः 12018008a प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव 12018008c यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव 12018009a नैतेनातिथयो राजन्देवर्षिपितरस्तथा 12018009c शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः 12018010a देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव 12018010c सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः 12018011a यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः 12018011c भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि 12018012a श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे 12018012c अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया 12018013a अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते 12018013c त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः 12018014a ताश्च त्वं विफलाः कुर्वन्काँल्लोकान्नु गमिष्यसि 12018014c राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु 12018015a नैव तेऽस्ति परो लोको नापरः पापकर्मणः 12018015c धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् 12018016a स्रजो गन्धानलंकारान्वासांसि विविधानि च 12018016c किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः 12018017a निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् 12018017c आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे 12018018a खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत 12018018c बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् 12018019a य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् 12018019c वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् 12018020a यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः 12018020c यदानेन समं सर्वं किमिदं मम दीयते 12018020e धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति 12018021a का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः 12018021c प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् 12018021e प्रासादं शयनं यानं वासांस्याभरणानि च 12018022a श्रिया निराशैरधनैस्त्यक्तमित्रैरकिंचनैः 12018022c सौखिकैः संभृतानर्थान्यः संत्यजसि किं नु तत् 12018023a योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि 12018023c तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते 12018024a सदैव याचमानेषु सत्सु दम्भविवर्जिषु 12018024c एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् 12018025a जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति 12018025c सदैव याचमानो वै तथा शाम्यति न द्विजः 12018026a सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा 12018026c न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः 12018027a अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च 12018027c अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् 12018028a गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः 12018028c प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते 12018029a त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् 12018029c ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् 12018030a असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः 12018030c समः शत्रौ च मित्रे च स वै मुक्तो महीपते 12018031a परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः 12018031c सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् 12018032a त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये 12018032c त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः 12018033a अनिष्कषाये काषायमीहार्थमिति विद्धि तत् 12018033c धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः 12018034a काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् 12018034c बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः 12018035a अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् 12018035c ददात्यहरहः पूर्वं को नु धर्मतरस्ततः 12018036a तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते 12018036c सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः 12018037a एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः 12018037c आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः 12018038a पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः 12018038c इष्टाँल्लोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः 12019001 युधिष्ठिर उवाच 12019001a वेदाहं तात शास्त्राणि अपराणि पराणि च 12019001c उभयं वेदवचनं कुरु कर्म त्यजेति च 12019002a आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च 12019002c निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि 12019003a त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः 12019003c शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन 12019004a शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः 12019004c तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि 12019005a भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया 12019005c न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन 12019006a युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च 12019006c न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते 12019007a धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया 12019007c धनंजय न मे बुद्धिमभिशङ्कितुमर्हसि 12019008a युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया 12019008c समासविस्तरविदां न तेषां वेत्सि निश्चयम् 12019009a तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् 12019009c परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः 12019010a न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति 12019010c अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः 12019011a तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः 12019011c ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः 12019012a अजातश्मश्रवो धीरास्तथान्ये वनवासिनः 12019012c अनन्ता अधना एव स्वाध्यायेन दिवं गताः 12019013a उत्तरेण तु पन्थानमार्या विषयनिग्रहात् 12019013c अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः 12019014a दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि 12019014c एते क्रियावतां लोका ये श्मशानानि भेजिरे 12019015a अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः 12019015c तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् 12019016a अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः 12019016c अपीह स्यादपीह स्यात्सारासारदिदृक्षया 12019017a वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च 12019017c विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते 12019018a अथैकान्तव्युदासेन शरीरे पञ्चभौतिके 12019018c इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः 12019019a अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा 12019019c कर्महेतुपुरस्कारं भूतेषु परिवर्तते 12019020a कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च 12019020c कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी 12019021a अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते 12019021c कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि 12019022a पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत 12019022c क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि 12019023a भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः 12019023c दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः 12019024a अमृतस्यावमन्तारो वक्तारो जनसंसदि 12019024c चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः 12019025a यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति 12019025c एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् 12019026a तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् 12019026c त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् 12020001 वैशंपायन उवाच 12020001a तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः 12020001c अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् 12020002a यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति 12020002c अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु 12020003a अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता 12020003c तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि 12020004a चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता 12020004c तां क्रमेण महाबाहो यथावज्जय पार्थिव 12020005a तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः 12020005c स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे 12020006a कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत 12020006c वैखानसानां राजेन्द्र वचनं श्रूयते यथा 12020007a ईहते धनहेतोर्यस्तस्यानीहा गरीयसी 12020007c भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् 12020008a कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् 12020008c धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते 12020009a अनर्हते यद्ददाति न ददाति यदर्हते 12020009c अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः 12020010a यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च 12020010c तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः 12020011a यज्ञैरिन्द्रो विविधैरन्नवद्भि;र्देवान्सर्वानभ्ययान्महौजाः 12020011c तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम् 12020012a महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः 12020012c विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः 12020013a आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् 12020013c यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् 12020014a हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः 12020014c ऋद्ध्या शक्रं योऽजयन्मानुषः सं;स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् 12021001 देवस्थान उवाच 12021001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12021001c इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः 12021002a संतोषो वै स्वर्गतमः संतोषः परमं सुखम् 12021002c तुष्टेर्न किंचित्परतः सुसम्यक्परितिष्ठति 12021003a यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः 12021003c तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति 12021004a न बिभेति यदा चायं यदा चास्मान्न बिभ्यति 12021004c कामद्वेषौ च जयति तदात्मानं प्रपश्यति 12021005a यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति 12021005c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12021006a एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा 12021006c तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत 12021007a अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा 12021007c नैकं न चापरं केचिदुभयं च तथापरे 12021008a यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः 12021008c दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् 12021008e केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते 12021009a राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् 12021009c हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः 12021010a एतत्सर्वं समालोक्य बुधानामेष निश्चयः 12021010c अद्रोहेणैव भूतानां यो धर्मः स सतां मतः 12021011a अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा 12021011c प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् 12021012a धनं धर्मप्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत् 12021012c तस्मादेवं प्रयत्नेन कौन्तेय परिपालय 12021013a यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः 12021013c क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् 12021014a असाधुनिग्रहरतः साधूनां प्रग्रहे रतः 12021014c धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् 12021015a पुत्रसंक्रामितश्रीस्तु वने वन्येन वर्तयन् 12021015c विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः 12021016a य एवं वर्तते राजा राजधर्मविनिश्चितः 12021016c तस्यायं च परश्चैव लोकः स्यात्सफलो नृप 12021016e निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् 12021017a एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः 12021017c आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः 12021018a प्रजानां पालने युक्ता दममुत्तममास्थिताः 12021018c गोब्राह्मणार्थं युद्धेन संप्राप्ता गतिमुत्तमाम् 12021019a एवं रुद्राः सवसवस्तथादित्याः परंतप 12021019c साध्या राजर्षिसंघाश्च धर्ममेतं समाश्रिताः 12021019e अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः 12022001 वैशंपायन उवाच 12022001a तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् 12022001c विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् 12022002a क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् 12022002c जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् 12022003a क्षत्रियाणां महाराज संग्रामे निधनं स्मृतम् 12022003c विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर 12022004a ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः 12022004c क्षत्रियाणां च विहितं संग्रामे निधनं विभो 12022005a क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः 12022005c वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे 12022006a ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः 12022006c प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् 12022007a न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर 12022007c क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् 12022008a स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ 12022008c राजा मनीषी निपुणो लोके दृष्टपरावरः 12022009a त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि 12022009c क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् 12022010a जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् 12022010c विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव 12022011a इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् 12022011c ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव 12022012a तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते 12022012c तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् 12022013a स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः 12022013c यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः 12022014a मा त्वमेवंगते किंचित्क्षत्रियर्षभ शोचिथाः 12022014c गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् 12022015a भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ 12022015c दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् 12023001 वैशंपायन उवाच 12023001a एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत 12023001c नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् 12023002a बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर 12023002c शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः 12023003a स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि 12023003c न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते 12023004a गृहस्थं हि सदा देवाः पितर ऋषयस्तथा 12023004c भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते 12023005a वयांसि पशवश्चैव भूतानि च महीपते 12023005c गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही 12023006a सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः 12023006c तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः 12023007a वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् 12023007c पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि 12023008a तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः 12023008c ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः 12023009a ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः 12023009c क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः 12023010a यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति 12023010c दण्डधारणमत्युग्रं प्रजानां परिपालनम् 12023011a वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा 12023011c द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् 12023012a एतानि राज्ञां कर्माणि सुकृतानि विशां पते 12023012c इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् 12023013a तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते 12023013c बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः 12023014a एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः 12023014c अपि गाथामिमां चापि बृहस्पतिरभाषत 12023015a भूमिरेतौ निगिरति सर्पो बिलशयानिव 12023015c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12023016a सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् 12023016c प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा 12024001 युधिष्ठिर उवाच 12024001a भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः 12024001c संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् 12024002 व्यास उवाच 12024002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12024002c शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ 12024003a तयोरावसथावास्तां रमणीयौ पृथक्पृथक् 12024003c नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु 12024004a ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् 12024004c यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् 12024005a सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा 12024005c फलानि शातयामास सम्यक्परिणतान्युत 12024006a तान्युपादाय विस्रब्धो भक्षयामास स द्विजः 12024006c तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् 12024007a भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् 12024007c कुतः फलान्यवाप्तानि हेतुना केन खादसि 12024008a सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च 12024008c इत एव गृहीतानि मयेति प्रहसन्निव 12024009a तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः 12024009c स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् 12024009e गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै 12024010a अदत्तादानमेवेदं कृतं पार्थिवसत्तम 12024010c स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय 12024010e शीघ्रं धारय चौरस्य मम दण्डं नराधिप 12024011a इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् 12024011c अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः 12024012a सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् 12024012c अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः 12024013a तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् 12024013c किमागमनमाचक्ष्व भगवन्कृतमेव तत् 12024014a एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् 12024014c प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि 12024015a अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ 12024015c भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् 12024016 सुद्युम्न उवाच 12024016a प्रमाणं चेन्मतो राजा भवतो दण्डधारणे 12024016c अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ 12024017a स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः 12024017c ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः 12024018 व्यास उवाच 12024018a छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना 12024018c नान्यं वै वरयामास तस्माद्दण्डादृते वरम् 12024019a ततः स पृथिवीपालो लिखितस्य महात्मनः 12024019c करौ प्रच्छेदयामास धृतदण्डो जगाम सः 12024020a स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् 12024020c धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि 12024021 शङ्ख उवाच 12024021a न कुप्ये तव धर्मज्ञ न च दूषयसे मम 12024021c धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता 12024022a स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि 12024022c देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः 12024023 व्यास उवाच 12024023a तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा 12024023c अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे 12024024a प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ 12024024c ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ 12024025a ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया 12024025c मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते 12024026 लिखित उवाच 12024026a किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते 12024026c यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम 12024027 शङ्ख उवाच 12024027a एवमेतन्मया कार्यं नाहं दण्डधरस्तव 12024027c स च पूतो नरपतिस्त्वं चापि पितृभिः सह 12024028 व्यास उवाच 12024028a स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा 12024028c प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा 12024029a एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् 12024029c उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः 12024030a भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम 12024030c दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् 12025001 वैशंपायन उवाच 12025001a पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् 12025001c अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् 12025002a अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् 12025002c मनोरथा महाराज ये तत्रासन्युधिष्ठिर 12025003a तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः 12025003c प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः 12025004a अरण्ये दुःखवसतिरनुभूता तपस्विभिः 12025004c दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे 12025005a धर्ममर्थं च कामं च भ्रातृभिः सह भारत 12025005c अनुभूय ततः पश्चात्प्रस्थातासि विशां पते 12025006a अतिथीनां च पितॄणां देवतानां च भारत 12025006c आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि 12025007a सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन 12025007c ततः पश्चान्महाराज गमिष्यसि परां गतिम् 12025008a भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः 12025008c संप्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि 12025009a विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन 12025009c शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः 12025010a आददानस्य च धनं निग्रहं च युधिष्ठिर 12025010c समानं धर्मकुशलाः स्थापयन्ति नरेश्वर 12025011a देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः 12025011c शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते 12025012a आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति 12025012c प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः 12025013a निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः 12025013c निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः 12025013e कामक्रोधावनादृत्य पितेव समदर्शनः 12025014a दैवेनोपहते राजा कर्मकाले महाद्युते 12025014c प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् 12025015a तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः 12025015c पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् 12025016a शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर 12025016c गोमतो धनिनश्चैव परिपाल्या विशेषतः 12025017a व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः 12025017c गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः 12025018a अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः 12025018c एनसा युज्यते राजा दुर्दान्त इति चोच्यते 12025019a येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे 12025019c तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् 12025020a सुमन्त्रिते सुनीते च विधिवच्चोपपादिते 12025020c पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर 12025021a विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः 12025021c कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् 12025022a अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् 12025022c यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव 12025023a शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः 12025023c असहायस्य धीरस्य निर्जितस्य युधिष्ठिर 12025024a यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् 12025024c कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके 12025025a संत्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः 12025025c अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके 12025026a धनुर्यूपो रशना ज्या शरः स्रु;क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् 12025026c रथो वेदी कामगो युद्धमग्नि;श्चातुर्होत्रं चतुरो वाजिमुख्याः 12025027a हुत्वा तस्मिन्यज्ञवह्नावथारी;न्पापान्मुक्तो राजसिंहस्तरस्वी 12025027c प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके 12025028a राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12025028c सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके 12025029a दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च 12025029c तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके 12025030a विद्वांस्त्यागी श्रद्दधानः कृतज्ञ;स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा 12025030c मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा 12025031a सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा 12025031c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके 12025032a जित्वा संग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् 12025032c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12025033a वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः 12025033c स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा 12026001 वैशंपायन उवाच 12026001a द्वैपायनवचः श्रुत्वा कुपिते च धनंजये 12026001c व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः 12026002a न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः 12026002c प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् 12026003a श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् 12026003c परिदेवयमानानां शान्तिं नोपलभे मुने 12026004a इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः 12026004c युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः 12026005a न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित् 12026005c पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः 12026006a न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले 12026006c मूर्खोऽपि प्राप्नोति कदाचिदर्था;न्कालो हि कार्यं प्रति निर्विशेषः 12026007a नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि 12026007c तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले 12026008a कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति 12026008c कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु 12026009a कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः 12026009c नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति 12026010a नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च 12026010c नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः 12026011a नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः 12026011c नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् 12026012a नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति 12026012c नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली 12026013a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12026013c गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर 12026014a सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः 12026014c कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः 12026015a घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा 12026015c संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते 12026016a हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे 12026016c स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ 12026017a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12026017c अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् 12026018a स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि 12026018c पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि 12026019a आत्मापि चायं न मम सर्वापि पृथिवी मम 12026019c यथा मम तथान्येषामिति पश्यन्न मुह्यति 12026020a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12026020c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 12026021a एवमेतानि कालेन प्रियद्वेष्याणि भागशः 12026021c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12026022a दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते 12026022c तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12026023a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12026023c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12026024a सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च 12026024c तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् 12026025a यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः 12026025c आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् 12026026a सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् 12026026c प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः 12026027a ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् 12026027c ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा 12026028a ये च मूढतमा लोके ये च बुद्धेः परं गताः 12026028c त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते 12026029a इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् 12026029c परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् 12026030a सुखी परस्य यो दुःखे न जातु स सुखी भवेत् 12026030c दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् 12026031a सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च 12026031c पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् 12026032a दीक्षां यज्ञे पालनं युद्धमाहु;र्योगं राष्ट्रे दण्डनीत्या च सम्यक् 12026032c वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् 12026033a रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा 12026033c सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा;प्यूर्ध्वं देहान्मोदते देवलोके 12026034a जित्वा संग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च 12026034c युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके 12026035a सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा 12026035c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके 12026036a यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः 12026036c पौरजानपदामात्याः स राजा राजसत्तमः 12027001 युधिष्ठिर उवाच 12027001a अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च 12027001c धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ 12027002a वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे 12027002c तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे 12027003a न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् 12027003c राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् 12027004a यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् 12027004c स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः 12027005a यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः 12027005c कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् 12027006a जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् 12027006c कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः 12027007a प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः 12027007c घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् 12027008a यः स बाणधनुष्पाणिर्योधयामास भार्गवम् 12027008c बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे 12027009a समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः 12027009c कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे 12027010a येन चोग्रायुधो राजा चक्रवर्ती दुरासदः 12027010c दग्धः शस्त्रप्रतापेन स मया युधि घातितः 12027011a स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् 12027011c न बाणैः पातयामास सोऽर्जुनेन निपातितः 12027012a यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् 12027012c तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम 12027012e येन संवर्धिता बाला येन स्म परिरक्षिताः 12027013a स मया राज्यलुब्धेन पापेन गुरुघातिना 12027013c अल्पकालस्य राज्यस्य कृते मूढेन घातितः 12027014a आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः 12027014c अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति 12027015a तन्मे दहति गात्राणि यन्मां गुरुरभाषत 12027015c सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः 12027015e सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् 12027016a कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया 12027016c सुभृशं राज्यलुब्धेन पापेन गुरुघातिना 12027017a सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे 12027017c अश्वत्थामा हत इति कुञ्जरे विनिपातिते 12027017e कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् 12027018a अघातयं च यत्कर्णं समरेष्वपलायिनम् 12027018c ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः 12027019a अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु 12027019c प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् 12027020a तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् 12027020c कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा 12027021a द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् 12027021c शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव 12027022a सोऽहमागस्करः पापः पृथिवीनाशकारकः 12027022c आसीन एवमेवेदं शोषयिष्ये कलेवरम् 12027023a प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् 12027023c जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् 12027024a न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन 12027024c शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन 12027025a यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः 12027025c सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् 12027026 वैशंपायन उवाच 12027026a तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् 12027026c मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः 12027027a अतिवेलं महाराज न शोकं कर्तुमर्हसि 12027027c पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो 12027028a संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् 12027028c बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च 12027029a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12027029c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12027030a सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् 12027030c भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत 12027031a नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः 12027031c न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् 12027032a यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु 12027032c अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप 12028001 वैशंपायन उवाच 12028001a ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः 12028001c ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् 12028002 व्यास उवाच 12028002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12028002c अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर 12028003a अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः 12028003c संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः 12028004 जनक उवाच 12028004a आगमे यदि वापाये ज्ञातीनां द्रविणस्य च 12028004c नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता 12028005 अश्मोवाच 12028005a उत्पन्नमिममात्मानं नरस्यानन्तरं ततः 12028005c तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च 12028006a तेषामन्यतरापत्तौ यद्यदेवोपसेवते 12028006c तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः 12028007a अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः 12028007c इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति 12028008a स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् 12028008c परिक्षीणः परस्वानामादानं साधु मन्यते 12028009a तमतिक्रान्तमर्यादमाददानमसांप्रतम् 12028009c प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः 12028010a ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः 12028010c परेण ते वर्षशतान्न भविष्यन्ति पार्थिव 12028011a तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् 12028011c सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः 12028012a मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः 12028012c अनिष्टोपनिपातो वा तृतीयं नोपपद्यते 12028013a एवमेतानि दुःखानि तानि तानीह मानवम् 12028013c विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च 12028014a जरामृत्यू ह भूतानि खादितारौ वृकाविव 12028014c बलिनां दुर्बलानां च ह्रस्वानां महतामपि 12028015a न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः 12028015c अपि सागरपर्यन्तां विजित्येमां वसुंधराम् 12028016a सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् 12028016c प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते 12028017a पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप 12028017c अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा 12028018a सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैः 12028018c अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते 12028019a प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च 12028019c प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् 12028020a गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः 12028020c तथैव सुखदुःखानि विधानमनुवर्तते 12028021a आसनं शयनं यानमुत्थानं पानभोजनम् 12028021c नियतं सर्वभूतानां कालेनैव भवन्त्युत 12028022a वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः 12028022c स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः 12028023a कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च 12028023c सौभाग्यमुपभोगश्च भवितव्येन लभ्यते 12028024a सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् 12028024c बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् 12028025a व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् 12028025c रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा 12028026a निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना 12028026c दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः 12028027a दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः 12028027c दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप 12028028a अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः 12028028c समृद्धे च कुले जाता विनश्यन्ति पतंगवत् 12028029a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते 12028029c काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप 12028030a अहमेतत्करोमीति मन्यते कालचोदितः 12028030c यद्यदिष्टमसंतोषाद्दुरात्मा पापमाचरन् 12028031a स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः 12028031c दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः 12028032a इति कालेन सर्वार्थानीप्सितानीप्सितानि च 12028032c स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते 12028033a वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे 12028033c ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा 12028034a शीतमुष्णं तथा वर्षं कालेन परिवर्तते 12028034c एवमेव मनुष्याणां सुखदुःखे नरर्षभ 12028035a नौषधानि न शास्त्राणि न होमा न पुनर्जपाः 12028035c त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् 12028036a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 12028036c समेत्य च व्यतीयातां तद्वद्भूतसमागमः 12028037a ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः 12028037c ये चानाथाः परान्नादाः कालस्तेषु समक्रियः 12028038a मातृपितृसहस्राणि पुत्रदारशतानि च 12028038c संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् 12028039a नैवास्य कश्चिद्भविता नायं भवति कस्यचित् 12028039c पथि संगतमेवेदं दारबन्धुसुहृद्गणैः 12028040a क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः 12028040c कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः 12028040e अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ 12028041a न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः 12028041c आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता 12028042a कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् 12028042c यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् 12028043a संनिमज्जज्जगदिदं गम्भीरे कालसागरे 12028043c जरामृत्युमहाग्राहे न कश्चिदवबुध्यते 12028044a आयुर्वेदमधीयानाः केवलं सपरिग्रहम् 12028044c दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः 12028045a ते पिबन्तः कषायांश्च सर्पींषि विविधानि च 12028045c न मृत्युमतिवर्तन्ते वेलामिव महोदधिः 12028046a रसायनविदश्चैव सुप्रयुक्तरसायनाः 12028046c दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः 12028047a तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः 12028047c दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ 12028048a न ह्यहानि निवर्तन्ते न मासा न पुनः समाः 12028048c जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः 12028049a सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः 12028049c नरोऽवशः समभ्येति सर्वभूतनिषेवितम् 12028050a देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः 12028050c पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः 12028051a नायमत्यन्तसंवासो लभ्यते जातु केनचित् 12028051c अपि स्वेन शरीरेण किमुतान्येन केनचित् 12028052a क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः 12028052c न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च 12028053a न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा 12028053c आगमस्तु सतां चक्षुर्नृपते तमिहाचर 12028054a चरितब्रह्मचर्यो हि प्रजायेत यजेत च 12028054c पितृदेवमहर्षीणामानृण्यायानसूयकः 12028055a स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः 12028055c आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम् 12028056a सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत् 12028056c प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु 12028057 व्यास उवाच 12028057a इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः 12028057c अश्मानमामन्त्र्य विशुद्धबुद्धि;र्ययौ गृहं स्वं प्रति शान्तशोकः 12028058a तथा त्वमप्यच्युत मुञ्च शोक;मुत्तिष्ठ शक्रोपम हर्षमेहि 12028058c क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः 12029001 वैशंपायन उवाच 12029001a अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे 12029001c गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः 12029002a ज्ञातिशोकाभिसंतप्तो धर्मराजः परंतपः 12029002c एष शोकार्णवे मग्नस्तमाश्वासय माधव 12029003a सर्वे स्म ते संशयिताः पुनरेव जनार्दन 12029003c अस्य शोकं महाबाहो प्रणाशयितुमर्हसि 12029004a एवमुक्तस्तु गोविन्दो विजयेन महात्मना 12029004c पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः 12029005a अनतिक्रमणीयो हि धर्मराजस्य केशवः 12029005c बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् 12029006a संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् 12029006c शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् 12029007a शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् 12029007c व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् 12029008a मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् 12029008c न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे 12029009a स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने 12029009c एवं ते क्षत्रिया राजन्ये व्यतीता महारणे 12029010a सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः 12029010c नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः 12029011a सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे 12029011c शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि 12029012a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12029012c सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः 12029013a सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय 12029013c अविमुक्तं चरिष्यामस्तत्र का परिदेवना 12029014a महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु 12029014c गच्छावधानं नृपते ततो दुःखं प्रहास्यसि 12029015a मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् 12029015c श्रुत्वापनय संतापं शृणु विस्तरशश्च मे 12029016a आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि 12029016c यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः 12029016e देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः 12029017a यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् 12029017c शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः 12029017e संवर्तो याजयामास यं पीडार्थं बृहस्पतेः 12029018a यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम 12029018c अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी 12029019a आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः 12029019c मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः 12029020a मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते 12029020c देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः 12029021a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029021c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029022a सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम 12029022c यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम् 12029023a सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप 12029023c हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे 12029024a कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि 12029024c नदीष्वपातयद्राजन्मघवा लोकपूजितः 12029025a हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् 12029025c सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः 12029026a तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले 12029026c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12029027a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029027c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029027e अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः 12029028a अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय 12029028c यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् 12029029a सहस्रं च सहस्राणां कन्या हेमविभूषिताः 12029029c ईजानो वितते यज्ञे दक्षिणामत्यकालयत् 12029030a शतं शतसहस्राणां वृषाणां हेममालिनाम् 12029030c गवां सहस्रानुचरं दक्षिणामत्यकालयत् 12029031a अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ 12029031c अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 12029032a यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः 12029032c देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः 12029033a न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति 12029033c यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु 12029034a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029034c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029035a शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय 12029035c य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् 12029036a महता रथघोषेण पृथिवीमनुनादयन् 12029036c एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः 12029037a यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह 12029037c तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे 12029038a नोद्यन्तारं धुरं तस्य कंचिन्मेने प्रजापतिः 12029038c न भूतं न भविष्यन्तं सर्वराजसु भारत 12029038e अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् 12029039a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029039c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029039e अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः 12029040a भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम 12029040c शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् 12029041a यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु 12029041c सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश 12029042a अश्वमेधसहस्रेण राजसूयशतेन च 12029042c इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा 12029043a भरतस्य महत्कर्म सर्वराजसु पार्थिवाः 12029043c खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् 12029044a परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च 12029044c सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ 12029045a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029045c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029046a रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय 12029046c योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् 12029047a विधवा यस्य विषये नानाथाः काश्चनाभवन् 12029047c सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् 12029048a कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च 12029048c नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति 12029049a प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् 12029049c न व्यालजं भयं चासीद्रामे राज्यं प्रशासति 12029050a आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः 12029050c अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति 12029051a नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् 12029051c धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति 12029052a नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः 12029052c सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति 12029053a स चतुर्दश वर्षाणि वने प्रोष्य महातपाः 12029053c दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् 12029054a श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः 12029054c दश वर्षसहस्राणि रामो राज्यमकारयत् 12029055a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029055c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029056a भगीरथं च राजानं मृतं शुश्रुम सृञ्जय 12029056c यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः 12029057a असुराणां सहस्राणि बहूनि सुरसत्तमः 12029057c अजयद्बाहुवीर्येण भगवान्पाकशासनः 12029058a यः सहस्रं सहस्राणां कन्या हेमविभूषिताः 12029058c ईजानो वितते यज्ञे दक्षिणामत्यकालयत् 12029059a सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः 12029059c रथे रथे शतं नागाः पद्मिनो हेममालिनः 12029060a सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः 12029060c गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् 12029061a उपह्वरे निवसतो यस्याङ्के निषसाद ह 12029061c गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा 12029062a भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् 12029062c त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी 12029063a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029063c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029064a दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय 12029064c यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः 12029065a इमां वै वसुसंपन्नां वसुधां वसुधाधिपः 12029065c ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः 12029066a तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः 12029066c सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् 12029067a यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः 12029067c तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् 12029068a चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये 12029068c ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा 12029069a अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् 12029069c सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् 12029070a एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे 12029070c यत्स्त्रियो हेमसंपन्नाः पथि मत्ताः स्म शेरते 12029071a राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् 12029071c येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः 12029072a त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने 12029072c स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि 12029073a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029073c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029074a मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय 12029074c यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् 12029075a संवृद्धो युवनाश्वस्य जठरे यो महात्मनः 12029075c पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः 12029076a यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् 12029076c अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै 12029077a मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत 12029077c मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः 12029078a ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः 12029078c तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् 12029079a तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत 12029079c स आसीद्द्वादशसमो द्वादशाहेन पार्थिव 12029080a तमियं पृथिवी सर्वा एकाह्ना समपद्यत 12029080c धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि 12029081a य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् 12029081c अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् 12029082a यौवनाश्वो यदाङ्गारं समरे समयोधयत् 12029082c विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे 12029083a यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति 12029083c सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते 12029084a अश्वमेधशतेनेष्ट्वा राजसूयशतेन च 12029084c अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः 12029085a हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् 12029085c अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः 12029086a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029086c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029087a ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय 12029087c य इमां पृथिवीं सर्वां विजित्य सहसागराम् 12029088a शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप 12029088c ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुंधराम् 12029089a इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च 12029089c तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः 12029090a व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् 12029090c व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः 12029091a अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् 12029091c पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् 12029092a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029092c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029093a अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय 12029093c यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम 12029094a यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् 12029094c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 12029095a नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे 12029095c इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः 12029096a शतं राजसहस्राणि शतं राजशतानि च 12029096c सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् 12029097a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029097c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029098a शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय 12029098c यस्य भार्यासहस्राणां शतमासीन्महात्मनः 12029099a सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः 12029099c हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः 12029100a शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः 12029100c कन्यां कन्यां शतं नागा नागं नागं शतं रथाः 12029101a रथं रथं शतं चाश्वा देशजा हेममालिनः 12029101c अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् 12029102a एतद्धनमपर्यन्तमश्वमेधे महामखे 12029102c शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् 12029103a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029103c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029104a गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय 12029104c यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् 12029105a यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः 12029105c ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् 12029106a मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन 12029106c लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् 12029107a दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः 12029107c अयजत्स महातेजाः सहस्रं परिवत्सरान् 12029108a शतं गवां सहस्राणि शतमश्वशतानि च 12029108c उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् 12029109a तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि 12029109c पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ 12029110a सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् 12029110c दक्षिणामददद्राजा वाजिमेधमहामखे 12029111a यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ 12029111c तावतीरेव गाः प्रादादामूर्तरयसो गयः 12029112a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029112c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029113a रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय 12029113c सम्यगाराध्य यः शक्रं वरं लेभे महायशाः 12029114a अन्नं च नो बहु भवेदतिथींश्च लभेमहि 12029114c श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन 12029115a उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् 12029115c ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् 12029116a महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः 12029116c ततश्चर्मण्वतीत्येवं विख्याता सा महानदी 12029117a ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः 12029117c तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः 12029117e सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते 12029118a अन्वाहार्योपकरणं द्रव्योपकरणं च यत् 12029118c घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि 12029118e न तत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः 12029119a साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे 12029119c आलभ्यन्त शतं गावः सहस्राणि च विंशतिः 12029120a तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः 12029120c सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा 12029121a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029121c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029122a सगरं च महात्मानं मृतं शुश्रुम सृञ्जय 12029122c ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् 12029123a षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः 12029123c नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव 12029124a एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा 12029124c योऽश्वमेधसहस्रेण तर्पयामास देवताः 12029125a यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् 12029125c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12029126a द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा 12029126c यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः 12029127a खानयामास यः कोपात्पृथिवीं सागराङ्किताम् 12029127c यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः 12029128a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029128c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029129a राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय 12029129c यमभ्यषिञ्चन्संभूय महारण्ये महर्षयः 12029130a प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः 12029130c क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः 12029131a पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् 12029131c ततो राजेति नामास्य अनुरागादजायत 12029132a अकृष्टपच्या पृथिवी पुटके पुटके मधु 12029132c सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः 12029133a अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः 12029133c यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च 12029134a आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः 12029134c सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् 12029135a हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् 12029135c ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे 12029136a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 12029136c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 12029137a किं वै तूष्णीं ध्यायसि सृञ्जय त्वं; न मे राजन्वाचमिमां शृणोषि 12029137c न चेन्मोघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षोरिव सम्यगुक्तम् 12029138 सृञ्जय उवाच 12029138a शृणोमि ते नारद वाचमेतां; विचित्रार्थां स्रजमिव पुण्यगन्धाम् 12029138c राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शोकनिर्णाशनार्थम् 12029139a न ते मोघं विप्रलप्तं महर्षे; दृष्ट्वैव त्वां नारदाहं विशोकः 12029139c शुश्रूषे ते वचनं ब्रह्मवादि;न्न ते तृप्याम्यमृतस्येव पानात् 12029140a अमोघदर्शिन्मम चेत्प्रसादं; सुताघदग्धस्य विभो प्रकुर्याः 12029140c मृतस्य संजीवनमद्य मे स्या;त्तव प्रसादात्सुतसंगमश्च 12029141 नारद उवाच 12029141a यस्ते पुत्रो दयितोऽयं वियातः; स्वर्णष्ठीवी यमदात्पर्वतस्ते 12029141c पुनस्ते तं पुत्रमहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च 12030001 युधिष्ठिर उवाच 12030001a स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् 12030001c पर्वतेन किमर्थं च दत्तः केन ममार च 12030002a यदा वर्षसहस्रायुस्तदा भवति मानवः 12030002c कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः 12030003a उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् 12030003c तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् 12030004 वासुदेव उवाच 12030004a अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर 12030004c नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ 12030005a मातुलो भागिनेयश्च देवलोकादिहागतौ 12030005c विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू 12030006a हविःपवित्रभोज्येन देवभोज्येन चैव ह 12030006c नारदो मातुलश्चैव भागिनेयश्च पर्वतः 12030007a तावुभौ तपसोपेताववनीतलचारिणौ 12030007c भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् 12030008a प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः 12030008c यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः 12030008e अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् 12030009a तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ 12030009c सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः 12030010a आवां भवति वत्स्यावः कंचित्कालं हिताय ते 12030010c यथावत्पृथिवीपाल आवयोः प्रगुणीभव 12030010e तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह 12030011a ततः कदाचित्तौ राजा महात्मानौ तथागतौ 12030011c अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी 12030012a एकैव मम कन्यैषा युवां परिचरिष्यति 12030012c दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता 12030012e सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा 12030013a परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् 12030013c कन्ये विप्रावुपचर देववत्पितृवच्च ह 12030014a सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी 12030014c यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह 12030015a तस्यास्तथोपचारेण रूपेणाप्रतिमेन च 12030015c नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत 12030016a ववृधे च ततस्तस्य हृदि कामो महात्मनः 12030016c यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः 12030017a न च तं भागिनेयाय पर्वताय महात्मने 12030017c शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् 12030018a तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् 12030018c कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् 12030019a कृत्वा समयमव्यग्रो भवान्वै सहितो मया 12030019c यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः 12030020a अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् 12030020c भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् 12030021a न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा 12030021c सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् 12030022a ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् 12030022c अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः 12030023a शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे 12030023c सुकुमारी च ते भार्या भविष्यति न संशयः 12030024a वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो 12030024c संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् 12030025a स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा 12030025c अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः 12030026a तपसा ब्रह्मचर्येण सत्येन च दमेन च 12030026c युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि 12030027a तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ 12030027c प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ 12030028a पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः 12030028c पूज्यमानो यथान्यायं तेजसा स्वेन भारत 12030029a अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् 12030029c धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् 12030030a सा तु कन्या यथाशापं नारदं तं ददर्श ह 12030030c पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् 12030031a सुकुमारी च देवर्षिं वानरप्रतिमाननम् 12030031c नैवावमन्यत तदा प्रीतिमत्येव चाभवत् 12030032a उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् 12030032c देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला 12030033a ततः कदाचिद्भगवान्पर्वतोऽनुससार ह 12030033c वनं विरहितं किंचित्तत्रापश्यत्स नारदम् 12030034a ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा 12030034c भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो 12030035a तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा 12030035c कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् 12030036a त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि 12030036c इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् 12030036e अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह 12030037a तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् 12030037c निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी 12030038a श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् 12030038c सुकुमारी प्रदुद्राव परपत्यभिशङ्कया 12030039a तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् 12030039c अब्रवीत्तव भर्तैष नात्र कार्या विचारणा 12030040a ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः 12030040c तवैवाभेद्यहृदयो मा ते भूदत्र संशयः 12030041a सानुनीता बहुविधं पर्वतेन महात्मना 12030041c शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता 12030041e पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् 12030042a प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः 12030042c एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम 12031001 वैशंपायन उवाच 12031001a ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत 12031001c भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसंभवम् 12031002a एवमुक्तः स च मुनिर्धर्मराजेन नारदः 12031002c आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति 12031003a एवमेतन्महाराज यथायं केशवोऽब्रवीत् 12031003c कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः 12031004a अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः 12031004c वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् 12031005a तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा 12031005c सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि 12031006a व्यतिक्रान्तासु वर्षासु समये गमनस्य च 12031006c पर्वतो मामुवाचेदं काले वचनमर्थवत् 12031007a आवामस्य नरेन्द्रस्य गृहे परमपूजितौ 12031007c उषितौ समये ब्रह्मंश्चिन्त्यतामत्र सांप्रतम् 12031008a ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् 12031008c सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते 12031009a वरेण छन्द्यतां राजा लभतां यद्यदिच्छति 12031009c आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे 12031010a तत आहूय राजानं सृञ्जयं शुभदर्शनम् 12031010c पर्वतोऽनुमतं वाक्यमुवाच मुनिपुंगवः 12031011a प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसंभृतैः 12031011c आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय 12031012a देवानामविहिंसायां यद्भवेन्मानुषक्षमम् 12031012c तद्गृहाण महाराज पूजार्हो नौ मतो भवान् 12031013 सृञ्जय उवाच 12031013a प्रीतौ भवन्तौ यदि मे कृतमेतावता मम 12031013c एष एव परो लाभो निर्वृत्तो मे महाफलः 12031014 नारद उवाच 12031014a तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत 12031014c वृणीष्व राजन्संकल्पो यस्ते हृदि चिरं स्थितः 12031015 सृञ्जय उवाच 12031015a अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् 12031015c आयुष्मन्तं महाभागं देवराजसमद्युतिम् 12031016 पर्वत उवाच 12031016a भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति 12031016c देवराजाभिभूत्यर्थं संकल्पो ह्येष ते हृदि 12031017a सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति 12031017c रक्ष्यश्च देवराजात्स देवराजसमद्युतिः 12031018 नारद उवाच 12031018a तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः 12031018c प्रसादयामास तदा नैतदेवं भवेदिति 12031019a आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने 12031019c न च तं पर्वतः किंचिदुवाचेन्द्रव्यपेक्षया 12031020a तमहं नृपतिं दीनमब्रुवं पुनरेव तु 12031020c स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः 12031021a अहं ते दयितं पुत्रं प्रेतराजवशं गतम् 12031021c पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते 12031022a एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् 12031022c सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् 12031023a सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये 12031023c जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव 12031024a ववृधे स यथाकालं सरसीव महोत्पलम् 12031024c बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् 12031025a तदद्भुततमं लोके पप्रथे कुरुसत्तम 12031025c बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः 12031026a ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः 12031026c कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा 12031027a चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् 12031027c व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो 12031028a विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति 12031028c सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ 12031029a एवमुक्तस्तु शक्रेण वज्रः परपुरंजयः 12031029c कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत 12031030a सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् 12031030c हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा 12031031a ततो भागीरथीतीरे कदाचिद्वननिर्झरे 12031031c धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत 12031032a पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः 12031032c सहसोत्पतितं व्याघ्रमाससाद महाबलः 12031033a तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः 12031033c व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे 12031034a हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत 12031034c शार्दूलो देवराजस्य माययान्तर्हितस्तदा 12031035a धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् 12031035c अभ्यधावत तं देशं स्वयमेव महीपतिः 12031036a स ददर्श गतासुं तं शयानं पीतशोणितम् 12031036c कुमारं विगतानन्दं निशाकरमिव च्युतम् 12031037a स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् 12031037c पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः 12031038a ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः 12031038c अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः 12031039a ततः स राजा सस्मार मामन्तर्गतमानसः 12031039c तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् 12031040a स मयैतानि वाक्यानि श्रावितः शोकलालसः 12031040c यानि ते यदुवीरेण कथितानि महीपते 12031041a संजीवितश्चापि मया वासवानुमते तदा 12031041c भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा 12031042a अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः 12031042c चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् 12031043a कारयामास राज्यं स पितरि स्वर्गते विभुः 12031043c वर्षाणामेकशतवत्सहस्रं भीमविक्रमः 12031044a तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः 12031044c तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः 12031045a उत्पाद्य च बहून्पुत्रान्कुलसंतानकारिणः 12031045c कालेन महता राजन्कालधर्ममुपेयिवान् 12031046a स त्वं राजेन्द्र संजातं शोकमेतन्निवर्तय 12031046c यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः 12031047a पितृपैतामहं राज्यमास्थाय दुरमुद्वह 12031047c इष्ट्वा पुण्यैर्महायज्ञैरिष्टाँल्लोकानवाप्स्यसि 12032001 वैशंपायन उवाच 12032001a तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम् 12032001c तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् 12032002a प्रजानां पालनं धर्मो राज्ञां राजीवलोचन 12032002c धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् 12032003a अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् 12032003c ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः 12032004a तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ 12032004c तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता 12032005a तथा यः प्रतिहन्त्यस्य शासनं विषये नरः 12032005c स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः 12032006a प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः 12032006c भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन 12032006e पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा 12032007a अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् 12032007c धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा 12032008a ते त्वया धर्महन्तारो निहताः सपदानुगाः 12032008c स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव 12032008e राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः 12032009 युधिष्ठिर उवाच 12032009a न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन 12032009c अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर 12032010a मया ह्यवध्या बहवो घातिता राज्यकारणात् 12032010c तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च 12032011 व्यास उवाच 12032011a ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत 12032011c हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् 12032012a ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव 12032012c कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् 12032013a यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने 12032013c छेत्तुरेव भवेत्पापं परशोर्न कथंचन 12032014a अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् 12032014c दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते 12032015a न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् 12032015c प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय 12032016a अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः 12032016c न परं विद्यते तस्मादेवमन्यच्छुभं कुरु 12032017a न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते 12032017c दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते 12032018a यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् 12032018c एवमप्यशुभं कर्म न भूतं न भविष्यति 12032019a अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः 12032019c अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् 12032020a अथापि लोके कर्माणि समावर्तन्त भारत 12032020c शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः 12032021a एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् 12032021c त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः 12032022a स्वधर्मे वर्तमानस्य सापवादेऽपि भारत 12032022c एवमात्मपरित्यागस्तव राजन्न शोभनः 12032023a विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् 12032023c शरीरवांस्तानि कुर्यादशरीरः पराभवेत् 12032024a तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि 12032024c प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत 12033001 युधिष्ठिर उवाच 12033001a हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा 12033001c श्वशुरा गुरवश्चैव मातुलाः सपितामहाः 12033002a क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा 12033002c वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह 12033003a बहवश्च मनुष्येन्द्रा नानादेशसमागताः 12033003c घातिता राज्यलुब्धेन मयैकेन पितामह 12033004a तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः 12033004c असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन 12033005a दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः 12033005c हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् 12033006a दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् 12033006c कोटिशश्च नरानन्यान्परितप्ये पितामह 12033007a का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति 12033007c विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा 12033008a अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् 12033008c आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले 12033009a अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः 12033009c त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् 12033010a वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः 12033010c व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् 12033011a ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् 12033011c नरके निपतिष्यामो ह्यधःशिरस एव च 12033012a शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम 12033012c आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह 12034001 वैशंपायन उवाच 12034001a युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा 12034001c समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् 12034002a मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर 12034002c स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ 12034003a काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः 12034003c कृतान्तविधिसंयुक्ताः कालेन निधनं गताः 12034004a न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि 12034004c कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् 12034005a न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन 12034005c कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः 12034006a हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ 12034006c यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् 12034007a कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः 12034007c सुखदुःखगुणोदर्कं कालं कालफलप्रदम् 12034008a तेषामपि महाबाहो कर्माणि परिचिन्तय 12034008c विनाशहेतुकारित्वे यैस्ते कालवशं गताः 12034009a आत्मनश्च विजानीहि नियमव्रतशीलताम् 12034009c यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः 12034010a त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे 12034010c कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् 12034011a पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः 12034011c यदृच्छया विनाशं च शोकहर्षावनर्थकौ 12034012a व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव 12034012c तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर 12034013a इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा 12034013c असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः 12034014a तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः 12034014c युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल 12034015a एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् 12034015c जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे 12034016a तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः 12034016c संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः 12034017a शालावृका इति ख्यातास्त्रिषु लोकेषु भारत 12034017c अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः 12034018a धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः 12034018c हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः 12034019a एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् 12034019c कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् 12034020a अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप 12034020c धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता 12034021a तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव 12034021c देवैः पूर्वगतं मार्गमनुयातोऽसि भारत 12034022a न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ 12034022c भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप 12034023a यो हि पापसमारम्भे कार्ये तद्भावभावितः 12034023c कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः 12034024a तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् 12034024c प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः 12034025a त्वं तु शुक्लाभिजातीयः परदोषेण कारितः 12034025c अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे 12034026a अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् 12034026c तमाहर महाराज विपाप्मैवं भविष्यसि 12034027a मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः 12034027c एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः 12034028a पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् 12034028c मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः 12034029a स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम् 12034029c ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् 12034030a सोऽयं त्वमिह संक्रान्तो विक्रमेण वसुंधराम् 12034030c निर्जिताश्च महीपाला विक्रमेण त्वयानघ 12034031a तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः 12034031c भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय 12034032a बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् 12034032c रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुंधराम् 12034033a कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय 12034033c कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति 12034034a एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत 12034034c यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा 12034035a अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ 12034035c स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः 12034036a अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् 12034036c चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः 12035001 युधिष्ठिर उवाच 12035001a कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः 12035001c किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह 12035002 व्यास उवाच 12035002a अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् 12035002c प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् 12035003a सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत 12035003c तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि 12035004a परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः 12035004c दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च 12035005a अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा 12035005c अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः 12035006a ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी 12035006c शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः 12035007a वृथापशुसमालम्भी वनदाहस्य कारकः 12035007c अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा 12035008a यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी 12035008c एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः 12035009a अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे 12035009c लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु 12035010a स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया 12035010c अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् 12035011a शरणागतसंत्यागो भृत्यस्याभरणं तथा 12035011c रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा 12035012a आधानादीनि कर्माणि शक्तिमान्न करोति यः 12035012c अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत 12035013a दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् 12035013c सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः 12035014a पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः 12035014c अप्रजायन्नधर्मेण भवत्याधर्मिको जनः 12035015a उक्तान्येतानि कर्माणि विस्तरेणेतरेण च 12035015c यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः 12035016a एतान्येव तु कर्माणि क्रियमाणानि मानवान् 12035016c येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु 12035017a प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे 12035017c जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् 12035018a अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते 12035018c वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते 12035019a अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् 12035019c न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति 12035020a प्राणात्यये तथाज्ञानादाचरन्मदिरामपि 12035020c अचोदितो धर्मपरः पुनः संस्कारमर्हति 12035021a एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् 12035021c प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति 12035022a गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् 12035022c उद्दालकः श्वेतकेतुं जनयामास शिष्यतः 12035023a स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते 12035023c बहुशः कामकारेण न चेद्यः संप्रवर्तते 12035024a अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति 12035024c स्वयमप्राशिता यश्च न स पापेन लिप्यते 12035025a प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा 12035025c गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च 12035026a नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन 12035026c आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते 12035027a पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा 12035027c भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् 12035028a वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् 12035028c अनुग्रहः पशूणां हि संस्कारो विधिचोदितः 12035029a अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् 12035029c सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् 12035030a स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका 12035030c अपि सा पूयते तेन न तु भर्ता प्रदुष्यते 12035031a तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः 12035031c असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् 12035031e वनदाहो गवामर्थे क्रियमाणो न दूषकः 12035032a उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति 12035032c प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत 12036001 व्यास उवाच 12036001a तपसा कर्मभिश्चैव प्रदानेन च भारत 12036001c पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते 12036002a एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् 12036002c कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः 12036003a अनसूयुरधःशायी कर्म लोके प्रकाशयन् 12036003c पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते 12036004a षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः 12036004c मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते 12036005a संवत्सरेण मासाशी पूयते नात्र संशयः 12036005c तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते 12036006a क्रतुना चाश्वमेधेन पूयते नात्र संशयः 12036006c ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः 12036007a ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः 12036007c ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया 12036008a गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् 12036008c ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च 12036009a कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् 12036009c दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते 12036010a गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये 12036010c साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् 12036011a शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति 12036011c नियतेभ्यो महीपाल स च पापात्प्रमुच्यते 12036012a मनोरथं तु यो दद्यादेकस्मा अपि भारत 12036012c न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते 12036013a सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः 12036013c स पावयत्यथात्मानमिह लोके परत्र च 12036014a मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् 12036014c महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः 12036015a बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः 12036015c समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः 12036016a भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः 12036016c पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः 12036017a गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् 12036017c पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः 12036018a शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् 12036018c कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः 12036019a महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु 12036019c गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् 12036020a अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा 12036020c उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते 12036021a अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् 12036021c खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् 12036022a परदारापहारी च परस्यापहरन्वसु 12036022c संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् 12036023a स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु 12036023c विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् 12036024a कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् 12036024c परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत 12036025a निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन् 12036025c न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते 12036026a भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते 12036026c स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः 12036027a स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता 12036027c रजसा ता विशुध्यन्ते भस्मना भाजनं यथा 12036028a चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते 12036028c पादावकृष्टो राजन्ये तथा धर्मो विधीयते 12036029a तथा वैश्ये च शूद्रे च पादः पादो विधीयते 12036029c विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् 12036030a तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् 12036030c त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः 12036031a अगम्यागमने राजन्प्रायश्चित्तं विधीयते 12036031c आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना 12036032a एष एव तु सर्वेषामकार्याणां विधिर्भवेत् 12036032c ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः 12036033a सावित्रीमप्यधीयानः शुचौ देशे मिताशनः 12036033c अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः 12036034a अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् 12036034c त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् 12036035a स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः 12036035c पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः 12036036a शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः 12036036c अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् 12036037a तस्माद्दानेन तपसा कर्मणा च शुभं फलम् 12036037c वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् 12036038a कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् 12036038c दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् 12036039a अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् 12036039c महापातकवर्जं तु प्रायश्चित्तं विधीयते 12036040a भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च 12036040c अज्ञानज्ञानयो राजन्विहितान्यनुजानते 12036041a जानता तु कृतं पापं गुरु सर्वं भवत्युत 12036041c अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते 12036042a शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् 12036042c आस्तिके श्रद्दधाने तु विधिरेष विधीयते 12036043a नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन 12036043c दम्भदोषप्रधानेषु विधिरेष न दृश्यते 12036044a शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर 12036044c सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना 12036045a स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना 12036045c त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा 12036046a अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि 12036046c मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः 12037001 वैशंपायन उवाच 12037001a एवमुक्तो भगवता धर्मराजो युधिष्ठिरः 12037001c चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् 12037002a किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते 12037002c किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह 12037003 व्यास उवाच 12037003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12037003c सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः 12037004a सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् 12037004c धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् 12037005a कथमन्नं कथं दानं कथमध्ययनं तपः 12037005c कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते 12037006a तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् 12037006c शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः 12037007a अदत्तस्यानुपादानं दानमध्ययनं तपः 12037007c अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् 12037008a य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः 12037008c आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः 12037009a द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् 12037009c अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः 12037010a अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् 12037010c अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च 12037011a एतयोश्चोभयोः स्यातां शुभाशुभतया तथा 12037011c दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह 12037012a अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् 12037012c ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा 12037012e अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते 12037013a क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः 12037013c शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये 12037013e तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति 12037014a जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः 12037014c वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते 12037015a दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः 12037015c यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये 12037016a अरुणा मृत्तिका चैव तथा चैव पिपीलकाः 12037016c श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च 12037017a अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः 12037017c चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये 12037018a भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः 12037018c कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च 12037019a क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः 12037019c येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः 12037020a एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि 12037020c मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः 12037021a प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम् 12037021c अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् 12037022a तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च 12037022c चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा 12037023a गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये 12037023c परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा 12037024a वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् 12037024c सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् 12037025a पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा 12037025c सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः 12037026a पायसं कृसरं मांसमपूपाश्च वृथा कृताः 12037026c अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः 12037027a देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः 12037027c पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति 12037028a यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् 12037028c एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् 12037029a न दद्याद्यशसे दानं न भयान्नोपकारिणे 12037029c न नृत्तगीतशीलेषु हासकेषु च धार्मिकः 12037030a न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके 12037030c न वाग्घीने विवर्णे वा नाङ्गहीने न वामने 12037031a न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः 12037031c अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि 12037032a असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः 12037032c उभयोः स्यादनर्थाय दातुरादातुरेव च 12037033a यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् 12037033c मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः 12037034a काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते 12037034c तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही 12037035a कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः 12037035c आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् 12037036a निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः 12037036c अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि 12037037a न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे 12037037c आप्ताचरितमित्येव धर्म इत्येव वा पुनः 12037038a निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते 12037038c भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा 12037039a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12037039c ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः 12037040a यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला 12037040c शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा 12037041a ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः 12037041c यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ 12037042a देवतानां पितॄणां च हव्यकव्यविनाशनः 12037042c शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति 12037043a एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर 12037043c समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ 12038001 युधिष्ठिर उवाच 12038001a श्रोतुमिच्छामि भगवन्विस्तरेण महामुने 12038001c राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् 12038002a आपत्सु च यथा नीतिर्विधातव्या महीक्षिता 12038002c धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् 12038003a प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता 12038003c कौतूहलानुप्रवणा हर्षं जनयतीव मे 12038004a धर्मचर्या च राज्यं च नित्यमेव विरुध्यते 12038004c येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः 12038005 वैशंपायन उवाच 12038005a तमुवाच महातेजा व्यासो वेदविदां वरः 12038005c नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् 12038006a श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर 12038006c प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् 12038007a स ते सर्वरहस्येषु संशयान्मनसि स्थितान् 12038007c छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् 12038008a जनयामास यं देवी दिव्या त्रिपथगा नदी 12038008c साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् 12038009a बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः 12038009c तोषयित्वोपचारेण राजनीतिमधीतवान् 12038010a उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः 12038010c तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः 12038011a भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् 12038011c प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् 12038012a पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् 12038012c अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा 12038013a मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् 12038013c रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ 12038014a मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि 12038014c तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः 12038015a यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः 12038015c यस्य नाविदितं किंचिज्ज्ञानज्ञेयेषु विद्यते 12038016a स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् 12038016c तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् 12038017a एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः 12038017c उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् 12038018a वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् 12038018c आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः 12038019a घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् 12038019c उपसंप्रष्टुमर्हामि तमहं केन हेतुना 12038020a ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया 12038020c पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः 12038021a नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि 12038021c यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम 12038022a ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः 12038022c पर्जन्यमिव घर्मार्ता आशंसाना उपासते 12038023a हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् 12038023c चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् 12038024a प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् 12038024c नियोगादस्य च गुरोर्व्यासस्यामिततेजसः 12038025a सुहृदां चास्मदादीनां द्रौपद्याश्च परंतप 12038025c कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु 12038026a एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः 12038026c हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः 12038027a सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् 12038027c द्वैपायनेन च तथा देवस्थानेन जिष्णुना 12038028a एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः 12038028c व्यजहान्मानसं दुःखं संतापं च महामनाः 12038029a श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः 12038029c व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः 12038030a स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः 12038030c धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह 12038031a प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः 12038031c अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः 12038032a ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् 12038032c युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः 12038033a मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः 12038033c आरुरोह यथा देवः सोमोऽमृतमयं रथम् 12038034a जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः 12038034c अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् 12038035a ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि 12038035c शुशुभे तारकाराजसितमभ्रमिवाम्बरे 12038036a चामरव्यजने चास्य वीरौ जगृहतुस्तदा 12038036c चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलंकृते 12038037a ते पञ्च रथमास्थाय भ्रातरः समलंकृताः 12038037c भूतानीव समस्तानि राजन्ददृशिरे तदा 12038038a आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः 12038038c अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् 12038039a रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् 12038039c सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् 12038040a नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत 12038040c अग्रतो धर्मराजस्य गान्धारीसहितो ययौ 12038041a कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी 12038041c यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः 12038042a ततो रथाश्च बहुला नागाश्च समलंकृताः 12038042c पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् 12038043a ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः 12038043c स्तूयमानो ययौ राजा नगरं नागसाह्वयम् 12038044a तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि 12038044c आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् 12038045a अभियाने तु पार्थस्य नरैर्नगरवासिभिः 12038045c नगरं राजमार्गश्च यथावत्समलंकृतम् 12038046a पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः 12038046c संवृतो राजमार्गश्च धूपनैश्च सुधूपितः 12038047a अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः 12038047c माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् 12038048a कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः 12038048c कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह 12038049a तथा स्वलंकृतद्वारं नगरं पाण्डुनन्दनः 12038049c स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः 12039001 वैशंपायन उवाच 12039001a प्रवेशने तु पार्थानां जनस्य पुरवासिनः 12039001c दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ 12039002a स राजमार्गः शुशुभे समलंकृतचत्वरः 12039002c यथा चन्द्रोदये राजन्वर्धमानो महोदधिः 12039003a गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च 12039003c प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत 12039004a ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् 12039004c भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ 12039005a धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् 12039005c उपतिष्ठसि कल्याणि महर्षीनिव गौतमी 12039006a तव कर्माण्यमोघानि व्रतचर्या च भामिनि 12039006c इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः 12039007a प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत 12039007c प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् 12039008a तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः 12039008c अलंकृतं शोभमानमुपायाद्राजवेश्म ह 12039009a ततः प्रकृतयः सर्वाः पौरजानपदास्तथा 12039009c ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः 12039010a दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन 12039010c दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च 12039011a भव नस्त्वं महाराज राजेह शरदां शतम् 12039011c प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप 12039012a एवं राजकुलद्वारि मङ्गलैरभिपूजितः 12039012c आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः 12039013a प्रविश्य भवनं राजा देवराजगृहोपमम् 12039013c श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् 12039014a प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च 12039014c पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः 12039015a निश्चक्राम ततः श्रीमान्पुनरेव महायशाः 12039015c ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् 12039016a स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः 12039016c शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा 12039017a तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान् 12039017c धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च 12039018a सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा 12039018c गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः 12039019a ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत 12039019c सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः 12039020a हंसवन्नेदुषां राजन्द्विजानां तत्र भारती 12039020c शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा 12039021a ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः 12039021c जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप 12039022a निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः 12039022c राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् 12039023a तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः 12039023c सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः 12039024a वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः 12039024c परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः 12039025a स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् 12039025c अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् 12039026a इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि 12039026c धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै 12039027a किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम् 12039027c घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् 12039028a इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः 12039028c विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः 12039029a ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः 12039029c व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते 12039030 युधिष्ठिर उवाच 12039030a प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः 12039030c प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ 12039031 वैशंपायन उवाच 12039031a ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते 12039031c ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव 12039032a जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा 12039032c ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः 12039033 ब्राह्मणा ऊचुः 12039033a एष दुर्योधनसखा चार्वाको नाम राक्षसः 12039033c परिव्राजकरूपेण हितं तस्य चिकीर्षति 12039034a न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् 12039034c उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह 12039035 वैशंपायन उवाच 12039035a ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः 12039035c निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् 12039036a स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् 12039036c महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव 12039037a पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् 12039037c राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः 12039038 वासुदेव उवाच 12039038a ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम 12039038c एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः 12039039a पुरा कृतयुगे तात चार्वाको नाम राक्षसः 12039039c तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् 12039040a छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः 12039040c अभयं सर्वभूतेभ्यो वरयामास भारत 12039041a द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् 12039041c अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः 12039042a स तु लब्धवरः पापो देवानमितविक्रमः 12039042c राक्षसस्तापयामास तीव्रकर्मा महाबलः 12039043a ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् 12039043c वधाय रक्षसस्तस्य बलविप्रकृतास्तदा 12039044a तानुवाचाव्ययो देवो विहितं तत्र वै मया 12039044c यथास्य भविता मृत्युरचिरेणैव भारत 12039045a राजा दुर्योधनो नाम सखास्य भविता नृप 12039045c तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते 12039046a तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः 12039046c धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति 12039047a स एष निहतः शेते ब्रह्मदण्डेन राक्षसः 12039047c चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ 12039048a हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव 12039048c स्वर्गताश्च महात्मानो वीराः क्षत्रियपुंगवाः 12039049a स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत 12039049c शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय 12040001 वैशंपायन उवाच 12040001a ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः 12040001c काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने 12040002a तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते 12040002c सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ 12040003a मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ 12040003c निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः 12040004a दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते 12040004c पृथापि सहदेवेन सहास्ते नकुलेन च 12040005a सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः 12040005c निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् 12040006a युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी 12040006c धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् 12040007a तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् 12040007c स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् 12040008a ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् 12040008c ददृशुर्धर्मराजानमादाय बहु मङ्गलम् 12040009a पृथिवीं च सुवर्णं च रत्नानि विविधानि च 12040009c आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् 12040010a काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः 12040010c पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः 12040011a शमीपलाशपुंनागाः समिधो मधुसर्पिषी 12040011c स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः 12040012a दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः 12040012c प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह 12040013a व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने 12040013c दृढपादप्रतिष्ठाने हुताशनसमत्विषि 12040014a उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् 12040014c जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् 12040015a अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् 12040015c धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा 12040016a ततोऽनुवादयामासुः पणवानकदुन्दुभीः 12040016c धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः 12040017a पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः 12040017c ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् 12040017e वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान् 12040018a ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च 12040018c हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् 12040019a युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव 12040019c दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते 12040020a दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः 12040020c त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 12040021a मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः 12040021c क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव 12040022a ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः 12040022c प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत 12041001 वैशंपायन उवाच 12041001a प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् 12041001c श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत 12041002a धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः 12041002c तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः 12041003a अनुग्राह्या वयं नूनं भवतामिति मे मतिः 12041003c यत्रैवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः 12041004a धृतराष्ट्रो महाराजः पिता नो दैवतं परम् 12041004c शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः 12041005a एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् 12041005c अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा 12041006a यदि चाहमनुग्राह्यो भवतां सुहृदां ततः 12041006c धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ 12041007a एष नाथो हि जगतो भवतां च मया सह 12041007c अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च 12041007e एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम 12041008a अनुगम्य च राजानं यथेष्टं गम्यतामिति 12041008c पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः 12041008e यौवराज्येन कौरव्यो भीमसेनमयोजयत् 12041009a मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने 12041009c विदुरं बुद्धिसंपन्नं प्रीतिमान्वै समादिशत् 12041010a कृताकृतपरिज्ञाने तथायव्ययचिन्तने 12041010c संजयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् 12041011a बलस्य परिमाणे च भक्तवेतनयोस्तथा 12041011c नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे 12041012a परचक्रोपरोधे च दृप्तानां चावमर्दने 12041012c युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह 12041013a द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि 12041013c धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः 12041014a सहदेवं समीपस्थं नित्यमेव समादिशत् 12041014c तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते 12041015a यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु 12041015c तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः 12041016a विदुरं संजयं चैव युयुत्सुं च महामतिम् 12041016c अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः 12041017a उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम 12041017c सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् 12041018a पौरजानपदानां च यानि कार्याणि नित्यशः 12041018c राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः 12042001 वैशंपायन उवाच 12042001a ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे 12042001c श्राद्धानि कारयामास तेषां पृथगुदारधीः 12042002a धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् 12042002c सर्वकामगुणोपेतमन्नं गाश्च धनानि च 12042002e रत्नानि च विचित्राणि महार्हाणि महायशाः 12042003a युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः 12042003c धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः 12042004a विराटप्रभृतीनां च सुहृदामुपकारिणाम् 12042004c द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ 12042005a ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् 12042005c धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् 12042006a ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः 12042006c उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् 12042007a सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः 12042007c सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् 12042008a स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् 12042008c कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् 12042009a धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा 12042009c सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् 12042010a याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः 12042010c सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी 12042011a दीनान्धकृपणानां च गृहाच्छादनभोजनैः 12042011c आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः 12042012a स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु 12042012c निःसपत्नः सुखी राजा विजहार युधिष्ठिरः 12043001 वैशंपायन उवाच 12043001a अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः 12043001c दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः 12043002a तव कृष्ण प्रसादेन नयेन च बलेन च 12043002c बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च 12043003a पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया 12043003c नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम 12043004a त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् 12043004c नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः 12043005a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव 12043005c विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम 12043006a अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः 12043006c पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि 12043007a शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे 12043007c त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च 12043008a वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः 12043008c अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः 12043009a वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः 12043009c अच्युतश्च्यावनोऽरीणां संकृतिर्विकृतिर्वृषः 12043010a कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः 12043010c सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः 12043011a सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः 12043011c विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च 12043012a स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः 12043012c यज्ञो ध्रुवः पतंगश्च जयत्सेनस्त्वमुच्यसे 12043013a शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः 12043013c सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा 12043014a गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः 12043014c ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे 12043015a अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च 12043015c हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव 12043016a योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे 12043016c विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे 12043017a एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः 12043017c तमभ्यनन्दद्भारतं पुष्कलाभि;र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः 12044001 वैशंपायन उवाच 12044001a ततो विसर्जयामास सर्वाः प्रकृतयो नृपः 12044001c विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च 12044002a ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम् 12044002c सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा 12044003a शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे 12044003c श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः 12044004a अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः 12044004c भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा 12044005a यथासुखं यथाजोषं जयोऽयमनुभूयताम् 12044005c विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः 12044006a ततो दुर्योधनगृहं प्रासादैरुपशोभितम् 12044006c बहुरत्नसमाकीर्णं दासीदाससमाकुलम् 12044007a धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः 12044007c प्रतिपेदे महाबाहुर्मन्दरं मघवानिव 12044008a यथा दुर्योधनगृहं तथा दुःशासनस्य च 12044008c प्रासादमालासंयुक्तं हेमतोरणभूषितम् 12044009a दासीदाससुसंपूर्णं प्रभूतधनधान्यवत् 12044009c प्रतिपेदे महाबाहुरर्जुनो राजशासनात् 12044010a दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् 12044010c कुबेरभवनप्रख्यं मणिहेमविभूषितम् 12044011a नकुलाय वरार्हाय कर्शिताय महावने 12044011c ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः 12044012a दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् 12044012c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् 12044013a प्रददौ सहदेवाय सततं प्रियकारिणे 12044013c मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा 12044014a युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिः 12044014c सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् 12044015a सह सात्यकिना शौरिरर्जुनस्य निवेशनम् 12044015c विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव 12044016a तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः 12044016c सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् 12045001 जनमेजय उवाच 12045001a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12045001c यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि 12045002a भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः 12045002c ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि 12045003 वैशंपायन उवाच 12045003a शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ 12045003c वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः 12045004a प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः 12045004c चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् 12045005a ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् 12045005c सहस्रनिष्कमेकैकं वाचयामास पाण्डवः 12045006a तथानुजीविनो भृत्यान्संश्रितानतिथीनपि 12045006c कामैः संतर्पयामास कृपणांस्तर्ककानपि 12045007a पुरोहिताय धौम्याय प्रादादयुतशः स गाः 12045007c धनं सुवर्णं रजतं वासांसि विविधानि च 12045008a कृपाय च महाराज गुरुवृत्तिमवर्तत 12045008c विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः 12045009a भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः 12045009c सर्वान्संतोषयामास संश्रितान्ददतां वरः 12045010a लब्धप्रशमनं कृत्वा स राजा राजसत्तम 12045010c युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः 12045011a धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च 12045011c निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः 12045012a तथा सर्वं स नगरं प्रसाद्य जनमेजय 12045012c वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः 12045013a ततो महति पर्यङ्के मणिकाञ्चनभूषिते 12045013c ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् 12045014a जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् 12045014c पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् 12045015a कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् 12045015c उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् 12045015e नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन 12045016a सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम् 12045016c उवाच मधुराभाषः स्मितपूर्वमिदं तदा 12045017a सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर 12045017c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 12045018a तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर 12045018c वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता 12045019a भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम 12045019c जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् 12045020a तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् 12045020c नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत 12046001 युधिष्ठिर उवाच 12046001a किमिदं परमाश्चर्यं ध्यायस्यमितविक्रम 12046001c कच्चिल्लोकत्रयस्यास्य स्वस्ति लोकपरायण 12046002a चतुर्थं ध्यानमार्गं त्वमालम्ब्य पुरुषोत्तम 12046002c अपक्रान्तो यतो देव तेन मे विस्मितं मनः 12046003a निगृहीतो हि वायुस्ते पञ्चकर्मा शरीरगः 12046003c इन्द्रियाणि च सर्वाणि मनसि स्थापितानि ते 12046004a इन्द्रियाणि मनश्चैव बुद्धौ संवेशितानि ते 12046004c सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः 12046005a नेङ्गन्ति तव रोमाणि स्थिरा बुद्धिस्तथा मनः 12046005c स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव 12046006a यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत 12046006c तथासि भगवन्देव निश्चलो दृढनिश्चयः 12046007a यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि 12046007c छिन्धि मे संशयं देव प्रपन्नायाभियाचते 12046008a त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि 12046008c अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम 12046009a त्वत्प्रपन्नाय भक्ताय शिरसा प्रणताय च 12046009c ध्यानस्यास्य यथातत्त्वं ब्रूहि धर्मभृतां वर 12046010 वैशंपायन उवाच 12046010a ततः स्वगोचरे न्यस्य मनो बुद्धीन्द्रियाणि च 12046010c स्मितपूर्वमुवाचेदं भगवान्वासवानुजः 12046011a शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः 12046011c मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः 12046012a यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः 12046012c न सहेद्देवराजोऽपि तमस्मि मनसा गतः 12046013a येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् 12046013c ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः 12046014a त्रयोविंशतिरात्रं यो योधयामास भार्गवम् 12046014c न च रामेण निस्तीर्णस्तमस्मि मनसा गतः 12046015a यं गङ्गा गर्भविधिना धारयामास पार्थिवम् 12046015c वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप 12046016a दिव्यास्त्राणि महातेजा यो धारयति बुद्धिमान् 12046016c साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः 12046017a रामस्य दयितं शिष्यं जामदग्न्यस्य पाण्डव 12046017c आधारं सर्वविद्यानां तमस्मि मनसा गतः 12046018a एकीकृत्येन्द्रियग्रामं मनः संयम्य मेधया 12046018c शरणं मामुपागच्छत्ततो मे तद्गतं मनः 12046019a स हि भूतं च भव्यं च भवच्च पुरुषर्षभ 12046019c वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः 12046020a तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते 12046020c भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी 12046021a तद्युधिष्ठिर गाङ्गेयं भीष्मं भीमपराक्रमम् 12046021c अभिगम्योपसंगृह्य पृच्छ यत्ते मनोगतम् 12046022a चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च 12046022c चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते 12046023a तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरंधरे 12046023c ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदयाम्यहम् 12046024a तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् 12046024c साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह 12046025a यद्भवानाह भीष्मस्य प्रभावं प्रति माधव 12046025c तथा तन्नात्र संदेहो विद्यते मम मानद 12046026a महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः 12046026c श्रुतं मया कथयतां ब्राह्मणानां महात्मनाम् 12046027a भवांश्च कर्ता लोकानां यद्ब्रवीत्यरिसूदन 12046027c तथा तदनभिध्येयं वाक्यं यादवनन्दन 12046028a यतस्त्वनुग्रहकृता बुद्धिस्ते मयि माधव 12046028c त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वयम् 12046029a आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति 12046029c त्वद्दर्शनं महाबाहो तस्मादर्हति कौरवः 12046030a तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च 12046030c दर्शनं तस्य लाभः स्यात्त्वं हि ब्रह्ममयो निधिः 12046031a श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः 12046031c पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति 12046032a सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः 12046032c दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत 12046033a स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् 12046033c मसारगल्वर्कमयैर्विभङ्गै;र्विभूषितं हेमपिनद्धचक्रम् 12046034a दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम् 12046034c नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् 12046035a सुग्रीवसैन्यप्रमुखैर्वराश्वै;र्मनोजवैः काञ्चनभूषिताङ्गैः 12046035c सुयुक्तमावेदयदच्युताय; कृताञ्जलिर्दारुको राजसिंह 12047001 जनमेजय उवाच 12047001a शरतल्पे शयानस्तु भरतानां पितामहः 12047001c कथमुत्सृष्टवान्देहं कं च योगमधारयत् 12047002 वैशंपायन उवाच 12047002a शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः 12047002c भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः 12047003a निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे 12047003c समावेशयदात्मानमात्मन्येव समाहितः 12047004a विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः 12047004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः 12047005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा 12047005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना 12047006a एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः 12047006c श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः 12047007a भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा 12047007c शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः 12047008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् 12047008c योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् 12047009a कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् 12047009c भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् 12047010a आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् 12047010c तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः 12047011a शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् 12047011c युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् 12047012a यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च 12047012c गुणभूतानि भूतेशे सूत्रे मणिगणा इव 12047013a यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति 12047013c सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि 12047014a हरिं सहस्रशिरसं सहस्रचरणेक्षणम् 12047014c प्राहुर्नारायणं देवं यं विश्वस्य परायणम् 12047015a अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् 12047015c गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि 12047016a यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च 12047016c गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु 12047017a चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् 12047017c यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः 12047018a यं देवं देवकी देवी वसुदेवादजीजनत् 12047018c भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः 12047019a यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् 12047019c इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् 12047020a पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु 12047020c क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे 12047021a अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् 12047021c अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् 12047022a यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् 12047022c वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् 12047023a हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् 12047023c एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः 12047024a शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः 12047024c यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः 12047025a महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् 12047025c यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः 12047026a यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे 12047026c यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः 12047027a ऋग्यजुःसामधामानं दशार्धहविराकृतिम् 12047027c यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः 12047028a यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः 12047028c रथंतरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः 12047029a यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः 12047029c हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः 12047030a पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम् 12047030c यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः 12047031a यश्चिनोति सतां सेतुमृतेनामृतयोनिना 12047031c धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः 12047032a यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः 12047032c पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः 12047033a यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः 12047033c क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः 12047034a यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः 12047034c प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः 12047035a यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः 12047035c ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः 12047036a अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः 12047036c शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः 12047037a योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः 12047037c संभक्षयति भूतानि तस्मै घोरात्मने नमः 12047038a संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् 12047038c बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः 12047039a सहस्रशिरसे तस्मै पुरुषायामितात्मने 12047039c चतुःसमुद्रपर्याययोगनिद्रात्मने नमः 12047040a अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् 12047040c पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः 12047041a यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु 12047041c कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः 12047042a युगेष्वावर्तते योंऽशैर्दिनर्त्वयनहायनैः 12047042c सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः 12047043a ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः 12047043c पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः 12047044a यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः 12047044c सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः 12047045a विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः 12047045c प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः 12047046a अन्नपानेन्धनमयो रसप्राणविवर्धनः 12047046c यो धारयति भूतानि तस्मै प्राणात्मने नमः 12047047a परः कालात्परो यज्ञात्परः सदसतोश्च यः 12047047c अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः 12047048a यो मोहयति भूतानि स्नेहरागानुबन्धनैः 12047048c सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः 12047049a आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् 12047049c यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः 12047050a अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे 12047050c अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः 12047051a जटिने दण्डिने नित्यं लम्बोदरशरीरिणे 12047051c कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः 12047052a शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने 12047052c भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः 12047053a पञ्चभूतात्मभूताय भूतादिनिधनात्मने 12047053c अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः 12047054a यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः 12047054c यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः 12047055a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव 12047055c अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः 12047056a नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु 12047056c नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् 12047057a नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय 12047057c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12047058a तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु 12047058c तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् 12047059a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12047059c विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः 12047060a अतसीपुष्पसंकाशं पीतवाससमच्युतम् 12047060c ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् 12047061a यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः 12047061c यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा 12047062a त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे 12047062c यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम 12047063a इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः 12047063c वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः 12047064a एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः 12047064c नम इत्येव कृष्णाय प्रणाममकरोत्तदा 12047065a अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः 12047065c त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः 12047066a तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः 12047066c भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् 12047067a ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् 12047067c भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः 12047068a विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः 12047068c सहसोत्थाय संहृष्टो यानमेवान्वपद्यत 12047069a केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः 12047069c अपरेण महात्मानौ युधिष्ठिरधनंजयौ 12047070a भीमसेनो यमौ चोभौ रथमेकं समास्थितौ 12047070c कृपो युयुत्सुः सूतश्च संजयश्चापरं रथम् 12047071a ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः 12047071c नेमिघोषेण महता कम्पयन्तो वसुंधराम् 12047072a ततो गिरः पुरुषवरस्तवान्विता; द्विजेरिताः पथि सुमनाः स शुश्रुवे 12047072c कृताञ्जलिं प्रणतमथापरं जनं; स केशिहा मुदितमनाभ्यनन्दत 12048001 वैशंपायन उवाच 12048001a ततः स च हृषीकेशः स च राजा युधिष्ठिरः 12048001c कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ह 12048002a रथैस्ते नगराकारैः पताकाध्वजशोभितैः 12048002c ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः 12048003a तेऽवतीर्य कुरुक्षेत्रं केशमज्जास्थिसंकुलम् 12048003c देहन्यासः कृतो यत्र क्षत्रियैस्तैर्महात्मभिः 12048004a गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम् 12048004c नरशीर्षकपालैश्च शङ्खैरिव समाचितम् 12048005a चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् 12048005c आपानभूमिं कालस्य तदा भुक्तोज्झितामिव 12048006a भूतसंघानुचरितं रक्षोगणनिषेवितम् 12048006c पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः 12048007a गच्छन्नेव महाबाहुः सर्वयादवनन्दनः 12048007c युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् 12048008a अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः 12048008c येषु संतर्पयामास पूर्वान्क्षत्रियशोणितैः 12048009a त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः 12048009c इहेदानीं ततो रामः कर्मणो विरराम ह 12048010 युधिष्ठिर उवाच 12048010a त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया तदा 12048010c रामेणेति यदात्थ त्वमत्र मे संशयो महान् 12048011a क्षत्रबीजं यदा दग्धं रामेण यदुपुंगव 12048011c कथं भूयः समुत्पत्तिः क्षत्रस्यामितविक्रम 12048012a महात्मना भगवता रामेण यदुपुंगव 12048012c कथमुत्सादितं क्षत्रं कथं वृद्धिं पुनर्गतम् 12048013a महाभारतयुद्धे हि कोटिशः क्षत्रिया हताः 12048013c तथाभूच्च मही कीर्णा क्षत्रियैर्वदतां वर 12048014a एवं मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन 12048014c आगमो हि परः कृष्ण त्वत्तो नो वासवानुज 12048015 वैशंपायन उवाच 12048015a ततो व्रजन्नेव गदाग्रजः प्रभुः; शशंस तस्मै निखिलेन तत्त्वतः 12048015c युधिष्ठिरायाप्रतिमौजसे तदा; यथाभवत्क्षत्रियसंकुला मही 12049001 वासुदेव उवाच 12049001a शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् 12049001c महर्षीणां कथयतां कारणं तस्य जन्म च 12049002a यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः 12049002c उद्भूता राजवंशेषु ये भूयो भारते हताः 12049003a जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः 12049003c कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः 12049004a उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि 12049004c पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत 12049005a तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः 12049005c समर्थः पुत्रजनने स्वयमेवैत्य भारत 12049006a पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः 12049006c गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः 12049007a तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो 12049007c तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः 12049008a ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन 12049008c पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च 12049009a आहूय चाह तां भार्यामृचीको भार्गवस्तदा 12049009c उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव 12049010a तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः 12049010c अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः 12049011a तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् 12049011c शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति 12049012a इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः 12049012c तपस्यभिरतो धीमाञ्जगामारण्यमेव ह 12049013a एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः 12049013c गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति 12049014a चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा 12049014c भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् 12049015a माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ 12049015c तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह 12049016a अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा 12049016c धारयामास दीप्तेन वपुषा घोरदर्शनम् 12049017a तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः 12049017c अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् 12049018a मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना 12049018c जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः 12049019a जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः 12049019c विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् 12049020a सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा 12049020c पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् 12049021a नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः 12049021c ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने 12049022 ऋचीक उवाच 12049022a नैष संकल्पितः कामो मया भद्रे तथा त्वयि 12049022c उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् 12049023 सत्यवत्युवाच 12049023a इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम 12049023c शमात्मकमृजुं पुत्रं लभेयं जपतां वर 12049024 ऋचीक उवाच 12049024a नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः 12049024c किमुताग्निं समाधाय मन्त्रवच्चरुसाधने 12049025 सत्यवत्युवाच 12049025a काममेवं भवेत्पौत्रो ममेह तव चैव ह 12049025c शमात्मकमृजुं पुत्रं लभेयं जपतां वर 12049026 ऋचीक उवाच 12049026a पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि 12049026c यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति 12049027 वासुदेव उवाच 12049027a ततः सत्यवती पुत्रं जनयामास भार्गवम् 12049027c तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् 12049028a विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः 12049028c प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् 12049029a आर्चीको जनयामास जमदग्निः सुदारुणम् 12049029c सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् 12049029e रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् 12049030a एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली 12049030c अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः 12049031a ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् 12049031c स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च 12049032a तृषितेन स कौरव्य भिक्षितश्चित्रभानुना 12049032c सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये 12049033a ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् 12049033c जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया 12049034a स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः 12049034c ददाह कार्तवीर्यस्य शैलानथ वनानि च 12049035a स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् 12049035c ददाह पवनेनेद्धश्चित्रभानुः सहैहयः 12049036a आपवस्तं ततो रोषाच्छशापार्जुनमच्युत 12049036c दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् 12049037a त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम 12049037c दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन 12049038a अर्जुनस्तु महाराज बली नित्यं शमात्मकः 12049038c ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत 12049039a तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे 12049039c निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा 12049040a जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ 12049040c अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः 12049041a ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः 12049041c तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् 12049041e प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः 12049042a अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा 12049042c गत्वाश्रममसंबुद्धं जमदग्नेर्महात्मनः 12049043a अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप 12049043c समित्कुशार्थं रामस्य निर्गतस्य महात्मनः 12049044a ततः पितृवधामर्षाद्रामः परममन्युमान् 12049044c निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत 12049045a ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् 12049045c विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः 12049046a स हैहयसहस्राणि हत्वा परममन्युमान् 12049046c चकार भार्गवो राजन्महीं शोणितकर्दमाम् 12049047a स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् 12049047c कृपया परयाविष्टो वनमेव जगाम ह 12049048a ततो वर्षसहस्रेषु समतीतेषु केषुचित् 12049048c क्षोभं संप्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः 12049049a विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः 12049049c परावसुर्महाराज क्षिप्त्वाह जनसंसदि 12049050a ये ते ययातिपतने यज्ञे सन्तः समागताः 12049050c प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते 12049051a मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि 12049051c भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः 12049052a स पुनः क्षत्रियशतैः पृथिवीमनुसंतताम् 12049052c परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः 12049053a ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः 12049053c ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् 12049054a स पुनस्ताञ्जघानाशु बालानपि नराधिप 12049054c गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा 12049055a जातं जातं स गर्भं तु पुनरेव जघान ह 12049055c अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः 12049056a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 12049056c दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः 12049057a क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः 12049057c स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् 12049058a गच्छ पारं समुद्रस्य दक्षिणस्य महामुने 12049058c न ते मद्विषये राम वस्तव्यमिह कर्हिचित् 12049059a ततः शूर्पारकं देशं सागरस्तस्य निर्ममे 12049059c संत्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् 12049060a कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् 12049060c कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् 12049061a ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः 12049061c अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ 12049062a अराजके जीवलोके दुर्बला बलवत्तरैः 12049062c बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् 12049063a ततः कालेन पृथिवी प्रविवेश रसातलम् 12049063c अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः 12049064a ऊरुणा धारयामास कश्यपः पृथिवीं ततः 12049064c निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता 12049065a रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा 12049065c प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः 12049066a सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुंगवाः 12049066c हैहयानां कुले जातास्ते संरक्षन्तु मां मुने 12049067a अस्ति पौरवदायादो विडूरथसुतः प्रभो 12049067c ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते 12049068a तथानुकम्पमानेन यज्वनाथामितौजसा 12049068c पराशरेण दायादः सौदासस्याभिरक्षितः 12049069a सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः 12049069c सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः 12049070a शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः 12049070c वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने 12049071a प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः 12049071c वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः 12049072a दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह 12049072c अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः 12049073a बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः 12049073c गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः 12049074a मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः 12049074c मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः 12049075a एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः 12049075c सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला 12049076a एतेषां पितरश्चैव तथैव च पितामहाः 12049076c मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा 12049077a तेषामपचितिश्चैव मया कार्या न संशयः 12049077c न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् 12049078a ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः 12049078c अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् 12049079a तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः 12049079c एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव 12049080 वैशंपायन उवाच 12049080a एवं ब्रुवन्नेव यदुप्रवीरो; युधिष्ठिरं धर्मभृतां वरिष्ठम् 12049080c रथेन तेनाशु ययौ यथार्को; विशन्प्रभाभिर्भगवांस्त्रिलोकम् 12050001 वैशंपायन उवाच 12050001a ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः 12050001c विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् 12050002a अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः 12050002c विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता 12050003a गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः 12050003c गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः 12050004a अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि 12050004c यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत 12050005a तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ 12050005c जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः 12050006a ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् 12050006c स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् 12050007a उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् 12050007c देशे परमधर्मिष्ठे नदीमोघवतीमनु 12050008a दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् 12050008c चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः 12050009a अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः 12050009c एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् 12050010a अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः 12050010c व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे 12050011a तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः 12050011c परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः 12050012a ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् 12050012c किंचिद्दीनमना भीष्ममिति होवाच केशवः 12050013a कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा 12050013c कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर 12050014a शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते 12050014c मानसादपि दुःखाद्धि शारीरं बलवत्तरम् 12050015a वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो 12050015c शंतनोर्धर्मशीलस्य न त्वेतच्छमकारणम् 12050016a सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् 12050016c किं पुनः शरसंघातैश्चितस्य तव भारत 12050017a कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ 12050017c भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत 12050018a यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ 12050018c सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् 12050019a संसारश्चैव भूतानां धर्मस्य च फलोदयः 12050019c विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः 12050020a त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् 12050020c स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् 12050021a ऋते शांतनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव 12050021c सत्यसंधान्महावीर्याच्छूराद्धर्मैकतत्परात् 12050022a मृत्युमावार्य तरसा शरप्रस्तरशायिनः 12050022c निसर्गप्रभवं किंचिन्न च तातानुशुश्रुम 12050023a सत्ये तपसि दाने च यज्ञाधिकरणे तथा 12050023c धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे 12050024a अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् 12050024c महारथं त्वत्सदृशं न कंचिदनुशुश्रुम 12050025a त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् 12050025c शक्त एकरथेनैव विजेतुं नात्र संशयः 12050026a त्वं हि भीष्म महाबाहो वसूनां वासवोपमः 12050026c नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः 12050027a अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम 12050027c त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः 12050028a मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः 12050028c भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् 12050029a त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे 12050029c तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् 12050030a तदस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै 12050030c ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद 12050031a ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत 12050031c चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव 12050032a चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत 12050032c सांख्ये योगे च नियता ये च धर्माः सनातनाः 12050033a चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते 12050033c सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव 12050034a इतिहासपुराणं च कार्त्स्न्येन विदितं तव 12050034c धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् 12050035a ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः 12050035c तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ 12050036a स पाण्डवेयस्य मनःसमुत्थितं; नरेन्द्र शोकं व्यपकर्ष मेधया 12050036c भवद्विधा ह्युत्तमबुद्धिविस्तरा; विमुह्यमानस्य जनस्य शान्तये 12051001 वैशंपायन उवाच 12051001a श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः 12051001c किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् 12051002a नमस्ते भगवन्विष्णो लोकानां निधनोद्भव 12051002c त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः 12051003a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव 12051003c अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः 12051004a नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु 12051004c योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणम् 12051005a मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम 12051005c तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु 12051006a तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् 12051006c सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः 12051007a दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा 12051007c दिशो भुजौ रविश्चक्षुर्वीर्ये शक्रः प्रतिष्ठितः 12051008a अतसीपुष्पसंकाशं पीतवाससमच्युतम् 12051008c वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः 12051009a त्वत्प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे 12051009c यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम 12051010 वासुदेव उवाच 12051010a यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ 12051010c ततो वपुर्मया दिव्यं तव राजन्प्रदर्शितम् 12051011a न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च 12051011c दर्शयाम्यहमात्मानं न चादान्ताय भारत 12051012a भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः 12051012c दमे तपसि सत्ये च दाने च निरतः शुचिः 12051013a अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव 12051013c तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः 12051014a पञ्चाशतं षट्च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य 12051014c ततः शुभैः कर्मफलोदयैस्त्वं; समेष्यसे भीष्म विमुच्य देहम् 12051015a एते हि देवा वसवो विमाना;न्यास्थाय सर्वे ज्वलिताग्निकल्पाः 12051015c अन्तर्हितास्त्वां प्रतिपालयन्ति; काष्ठां प्रपद्यन्तमुदक्पतंगम् 12051016a व्यावृत्तमात्रे भगवत्युदीचीं; सूर्ये दिशं कालवशात्प्रपन्ने 12051016c गन्तासि लोकान्पुरुषप्रवीर; नावर्तते यानुपलभ्य विद्वान् 12051017a अमुं च लोकं त्वयि भीष्म याते; ज्ञानानि नङ्क्ष्यन्त्यखिलेन वीर 12051017c अतः स्म सर्वे त्वयि संनिकर्षं; समागता धर्मविवेचनाय 12051018a तज्ज्ञातिशोकोपहतश्रुताय; सत्याभिसंधाय युधिष्ठिराय 12051018c प्रब्रूहि धर्मार्थसमाधियुक्त;मर्थ्यं वचोऽस्यापनुदास्य शोकम् 12052001 वैशंपायन उवाच 12052001a ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम् 12052001c श्रुत्वा शांतनवो भीष्मः प्रत्युवाच कृताञ्जलिः 12052002a लोकनाथ महाबाहो शिव नारायणाच्युत 12052002c तव वाक्यमभिश्रुत्य हर्षेणास्मि परिप्लुतः 12052003a किं चाहमभिधास्यामि वाक्पते तव संनिधौ 12052003c यदा वाचोगतं सर्वं तव वाचि समाहितम् 12052004a यद्धि किंचित्कृतं लोके कर्तव्यं क्रियते च यत् 12052004c त्वत्तस्तन्निःसृतं देव लोका बुद्धिमया हि ते 12052005a कथयेद्देवलोकं यो देवराजसमीपतः 12052005c धर्मकामार्थशास्त्राणां सोऽर्थान्ब्रूयात्तवाग्रतः 12052006a शराभिघाताद्व्यथितं मनो मे मधुसूदन 12052006c गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति 12052007a न च मे प्रतिभा काचिदस्ति किंचित्प्रभाषितुम् 12052007c पीड्यमानस्य गोविन्द विषानलसमैः शरैः 12052008a बलं मेधाः प्रजरति प्राणाः संत्वरयन्ति च 12052008c मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च 12052009a दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे 12052009c साधु मे त्वं प्रसीदस्व दाशार्हकुलनन्दन 12052010a तत्क्षमस्व महाबाहो न ब्रूयां किंचिदच्युत 12052010c त्वत्संनिधौ च सीदेत वाचस्पतिरपि ब्रुवन् 12052011a न दिशः संप्रजानामि नाकाशं न च मेदिनीम् 12052011c केवलं तव वीर्येण तिष्ठामि मधुसूदन 12052012a स्वयमेव प्रभो तस्माद्धर्मराजस्य यद्धितम् 12052012c तद्ब्रवीह्याशु सर्वेषामागमानां त्वमागमः 12052013a कथं त्वयि स्थिते लोके शाश्वते लोककर्तरि 12052013c प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते 12052014 वासुदेव उवाच 12052014a उपपन्नमिदं वाक्यं कौरवाणां धुरंधरे 12052014c महावीर्ये महासत्त्वे स्थिते सर्वार्थदर्शिनि 12052015a यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति 12052015c गृहाणात्र वरं भीष्म मत्प्रसादकृतं विभो 12052016a न ते ग्लानिर्न ते मूर्छा न दाहो न च ते रुजा 12052016c प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत 12052017a ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ 12052017c न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति 12052018a सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति 12052018c रजस्तमोभ्यां रहितं घनैर्मुक्त इवोडुराट् 12052019a यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि वा 12052019c चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति 12052020a इमं च राजशार्दूल भूतग्रामं चतुर्विधम् 12052020c चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम 12052021a चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा 12052021c भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले 12052022 वैशंपायन उवाच 12052022a ततस्ते व्याससहिताः सर्व एव महर्षयः 12052022c ऋग्यजुःसामसंयुक्तैर्वचोभिः कृष्णमर्चयन् 12052023a ततः सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात् 12052023c पपात यत्र वार्ष्णेयः सगाङ्गेयः सपाण्डवः 12052024a वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः 12052024c न चाहितमनिष्टं वा किंचित्तत्र व्यदृश्यत 12052025a ववौ शिवः सुखो वायुः सर्वगन्धवहः शुचिः 12052025c शान्तायां दिशि शान्ताश्च प्रावदन्मृगपक्षिणः 12052026a ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः 12052026c दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत 12052027a ततो महर्षयः सर्वे समुत्थाय जनार्दनम् 12052027c भीष्ममामन्त्रयां चक्रू राजानं च युधिष्ठिरम् 12052028a ततः प्रणाममकरोत्केशवः पाण्डवस्तथा 12052028c सात्यकिः संजयश्चैव स च शारद्वतः कृपः 12052029a ततस्ते धर्मनिरताः सम्यक्तैरभिपूजिताः 12052029c श्वः समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः 12052030a तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः 12052030c प्रदक्षिणमुपावृत्य रथानारुरुहुः शुभान् 12052031a ततो रथैः काञ्चनदन्तकूबरै;र्महीधराभैः समदैश्च दन्तिभिः 12052031c हयैः सुपर्णैरिव चाशुगामिभिः; पदातिभिश्चात्तशरासनादिभिः 12052032a ययौ रथानां पुरतो हि सा चमू;स्तथैव पश्चादतिमात्रसारिणी 12052032c पुरश्च पश्चाच्च यथा महानदी; पुरर्क्षवन्तं गिरिमेत्य नर्मदा 12052033a ततः पुरस्ताद्भगवान्निशाकरः; समुत्थितस्तामभिहर्षयंश्चमूम् 12052033c दिवाकरापीतरसास्तथौषधीः; पुनः स्वकेनैव गुणेन योजयन् 12052034a ततः पुरं सुरपुरसंनिभद्युति; प्रविश्य ते यदुवृषपाण्डवास्तदा 12052034c यथोचितान्भवनवरान्समाविश;ञ्श्रमान्विता मृगपतयो गुहा इव 12053001 वैशंपायन उवाच 12053001a ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः 12053001c याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत 12053002a स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः 12053002c अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् 12053003a ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः 12053003c अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् 12053004a पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः 12053004c शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः 12053005a वीणापणववेणूनां स्वनश्चातिमनोरमः 12053005c प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः 12053006a तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः 12053006c उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः 12053007a तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः 12053007c जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् 12053008a ततः सहस्रं विप्राणां चतुर्वेदविदां तथा 12053008c गवां सहस्रेणैकैकं वाचयामास माधवः 12053009a मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च 12053009c आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् 12053010a गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् 12053010c अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः 12053011a ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ 12053011c उपगम्य च राजानं युधिष्ठिरमुवाच ह 12053012a युक्तो रथवरो राजन्वासुदेवस्य धीमतः 12053012c समीपमापगेयस्य प्रयास्यति जनार्दनः 12053013a भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते 12053013c यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति 12053014 युधिष्ठिर उवाच 12053014a युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते 12053014c न सैनिकैश्च यातव्यं यास्यामो वयमेव हि 12053015a न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः 12053015c अतः पुरःसराश्चापि निवर्तन्तु धनंजय 12053016a अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति 12053016c ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् 12053017 वैशंपायन उवाच 12053017a तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनंजयः 12053017c युक्तं रथवरं तस्मा आचचक्षे नरर्षभ 12053018a ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि 12053018c भूतानीव समस्तानि ययुः कृष्णनिवेशनम् 12053019a आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु 12053019c शैनेयसहितो धीमान्रथमेवान्वपद्यत 12053020a रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् 12053020c मेघघोषै रथवरैः प्रययुस्ते महारथाः 12053021a मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च 12053021c दारुकश्चोदयामास वासुदेवस्य वाजिनः 12053022a ते हया वासुदेवस्य दारुकेण प्रचोदिताः 12053022c गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा 12053023a ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः 12053023c क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् 12053024a ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः 12053024c आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा 12053025a ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः 12053025c भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च 12053025e ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् 12053026a स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः 12053026c अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः 12053027a शरतल्पे शयानं तमादित्यं पतितं यथा 12053027c ददर्श स महाबाहुर्भयादागतसाध्वसः 12054001 जनमेजय उवाच 12054001a धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि 12054001c देवव्रते महाभागे शरतल्पगतेऽच्युते 12054002a शयाने वीरशयने भीष्मे शंतनुनन्दने 12054002c गाङ्गेये पुरुषव्याघ्रे पाण्डवैः पर्युपस्थिते 12054003a काः कथाः समवर्तन्त तस्मिन्वीरसमागमे 12054003c हतेषु सर्वसैन्येषु तन्मे शंस महामुने 12054004 वैशंपायन उवाच 12054004a शरतल्पगते भीष्मे कौरवाणां धुरंधरे 12054004c आजग्मुरृषयः सिद्धा नारदप्रमुखा नृप 12054005a हतशिष्टाश्च राजानो युधिष्ठिरपुरोगमाः 12054005c धृतराष्ट्रश्च कृष्णश्च भीमार्जुनयमास्तथा 12054006a तेऽभिगम्य महात्मानो भरतानां पितामहम् 12054006c अन्वशोचन्त गाङ्गेयमादित्यं पतितं यथा 12054007a मुहूर्तमिव च ध्यात्वा नारदो देवदर्शनः 12054007c उवाच पाण्डवान्सर्वान्हतशिष्टांश्च पार्थिवान् 12054008a प्राप्तकालं च आचक्षे भीष्मोऽयमनुयुज्यताम् 12054008c अस्तमेति हि गाङ्गेयो भानुमानिव भारत 12054009a अयं प्राणानुत्सिसृक्षुस्तं सर्वेऽभ्येत्य पृच्छत 12054009c कृत्स्नान्हि विविधान्धर्मांश्चातुर्वर्ण्यस्य वेत्त्ययम् 12054010a एष वृद्धः पुरा लोकान्संप्राप्नोति तनुत्यजाम् 12054010c तं शीघ्रमनुयुञ्जध्वं संशयान्मनसि स्थितान् 12054011a एवमुक्ता नारदेन भीष्ममीयुर्नराधिपाः 12054011c प्रष्टुं चाशक्नुवन्तस्ते वीक्षां चक्रुः परस्परम् 12054012a अथोवाच हृषीकेशं पाण्डुपुत्रो युधिष्ठिरः 12054012c नान्यस्त्वद्देवकीपुत्र शक्तः प्रष्टुं पितामहम् 12054013a प्रव्याहारय दुर्धर्ष त्वमग्रे मधुसूदन 12054013c त्वं हि नस्तात सर्वेषां सर्वधर्मविदुत्तमः 12054014a एवमुक्तः पाण्डवेन भगवान्केशवस्तदा 12054014c अभिगम्य दुराधर्षं प्रव्याहारयदच्युतः 12054015 वासुदेव उवाच 12054015a कच्चित्सुखेन रजनी व्युष्टा ते राजसत्तम 12054015c विस्पष्टलक्षणा बुद्धिः कच्चिच्चोपस्थिता तव 12054016a कच्चिज्ज्ञानानि सर्वाणि प्रतिभान्ति च तेऽनघ 12054016c न ग्लायते च हृदयं न च ते व्याकुलं मनः 12054017 भीष्म उवाच 12054017a दाहो मोहः श्रमश्चैव क्लमो ग्लानिस्तथा रुजा 12054017c तव प्रसादाद्गोविन्द सद्यो व्यपगतानघ 12054018a यच्च भूतं भविष्यच्च भवच्च परमद्युते 12054018c तत्सर्वमनुपश्यामि पाणौ फलमिवाहितम् 12054019a वेदोक्ताश्चैव ये धर्मा वेदान्तनिहिताश्च ये 12054019c तान्सर्वान्संप्रपश्यामि वरदानात्तवाच्युत 12054020a शिष्टैश्च धर्मो यः प्रोक्तः स च मे हृदि वर्तते 12054020c देशजातिकुलानां च धर्मज्ञोऽस्मि जनार्दन 12054021a चतुर्ष्वाश्रमधर्मेषु योऽर्थः स च हृदि स्थितः 12054021c राजधर्मांश्च सकलानवगच्छामि केशव 12054022a यत्र यत्र च वक्तव्यं तद्वक्ष्यामि जनार्दन 12054022c तव प्रसादाद्धि शुभा मनो मे बुद्धिराविशत् 12054023a युवेव चास्मि संवृत्तस्त्वदनुध्यानबृंहितः 12054023c वक्तुं श्रेयः समर्थोऽस्मि त्वत्प्रसादाज्जनार्दन 12054024a स्वयं किमर्थं तु भवाञ्श्रेयो न प्राह पाण्डवम् 12054024c किं ते विवक्षितं चात्र तदाशु वद माधव 12054025 वासुदेव उवाच 12054025a यशसः श्रेयसश्चैव मूलं मां विद्धि कौरव 12054025c मत्तः सर्वेऽभिनिर्वृत्ता भावाः सदसदात्मकाः 12054026a शीतांशुश्चन्द्र इत्युक्ते को लोके विस्मयिष्यति 12054026c तथैव यशसा पूर्णे मयि को विस्मयिष्यति 12054027a आधेयं तु मया भूयो यशस्तव महाद्युते 12054027c ततो मे विपुला बुद्धिस्त्वयि भीष्म समाहिता 12054028a यावद्धि पृथिवीपाल पृथिवी स्थास्यते ध्रुवा 12054028c तावत्तवाक्षया कीर्तिर्लोकाननु चरिष्यति 12054029a यच्च त्वं वक्ष्यसे भीष्म पाण्डवायानुपृच्छते 12054029c वेदप्रवादा इव ते स्थास्यन्ति वसुधातले 12054030a यश्चैतेन प्रमाणेन योक्ष्यत्यात्मानमात्मना 12054030c स फलं सर्वपुण्यानां प्रेत्य चानुभविष्यति 12054031a एतस्मात्कारणाद्भीष्म मतिर्दिव्या मया हि ते 12054031c दत्ता यशो विप्रथेत कथं भूयस्तवेति ह 12054032a यावद्धि प्रथते लोके पुरुषस्य यशो भुवि 12054032c तावत्तस्याक्षयं स्थानं भवतीति विनिश्चितम् 12054033a राजानो हतशिष्टास्त्वां राजन्नभित आसते 12054033c धर्माननुयुयुक्षन्तस्तेभ्यः प्रब्रूहि भारत 12054034a भवान्हि वयसा वृद्धः श्रुताचारसमन्वितः 12054034c कुशलो राजधर्माणां पूर्वेषामपराश्च ये 12054035a जन्मप्रभृति ते कश्चिद्वृजिनं न ददर्श ह 12054035c ज्ञातारमनुधर्माणां त्वां विदुः सर्वपार्थिवाः 12054036a तेभ्यः पितेव पुत्रेभ्यो राजन्ब्रूहि परं नयम् 12054036c ऋषयश्च हि देवाश्च त्वया नित्यमुपासिताः 12054037a तस्माद्वक्तव्यमेवेह त्वया पश्याम्यशेषतः 12054037c धर्माञ्शुश्रूषमाणेभ्यः पृष्टेन च सता पुनः 12054038a वक्तव्यं विदुषा चेति धर्ममाहुर्मनीषिणः 12054038c अप्रतिब्रुवतः कष्टो दोषो हि भवति प्रभो 12054039a तस्मात्पुत्रैश्च पौत्रैश्च धर्मान्पृष्टः सनातनान् 12054039c विद्वाञ्जिज्ञासमानैस्त्वं प्रब्रूहि भरतर्षभ 12055001 वैशंपायन उवाच 12055001a अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः 12055001c हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्मनसी मम 12055001e तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः 12055002a युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु 12055002c एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चानघ 12055003a यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि 12055003c अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः 12055004a सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् 12055004c यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः 12055005a धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा 12055005c यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः 12055006a सत्यं दानं तपः शौचं शान्तिर्दाक्ष्यमसंभ्रमः 12055006c यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः 12055007a यो न कामान्न संरम्भान्न भयान्नार्थकारणात् 12055007c कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः 12055008a संबन्धिनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च यः 12055008c संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः 12055009a सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः 12055009c यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः 12055010a इज्याध्ययननित्यश्च धर्मे च निरतः सदा 12055010c शान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः 12055011 वासुदेव उवाच 12055011a लज्जया परयोपेतो धर्मात्मा स युधिष्ठिरः 12055011c अभिशापभयाद्भीतो भवन्तं नोपसर्पति 12055012a लोकस्य कदनं कृत्वा लोकनाथो विशां पते 12055012c अभिशापभयाद्भीतो भवन्तं नोपसर्पति 12055013a पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान् 12055013c अर्घ्यार्हानिषुभिर्हत्वा भवन्तं नोपसर्पति 12055014 भीष्म उवाच 12055014a ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः 12055014c क्षत्रियाणां तथा कृष्ण समरे देहपातनम् 12055015a पितॄन्पितामहान्पुत्रान्गुरून्संबन्धिबान्धवान् 12055015c मिथ्याप्रवृत्तान्यः संख्ये निहन्याद्धर्म एव सः 12055016a समयत्यागिनो लुब्धान्गुरूनपि च केशव 12055016c निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् 12055017a आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना 12055017c धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् 12055018 वैशंपायन उवाच 12055018a एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः 12055018c विनीतवदुपागम्य तस्थौ संदर्शनेऽग्रतः 12055019a अथास्य पादौ जग्राह भीष्मश्चाभिननन्द तम् 12055019c मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा 12055020a तमुवाचाथ गाङ्गेय ऋषभः सर्वधन्विनाम् 12055020c पृच्छ मां तात विस्रब्धं मा भैस्त्वं कुरुसत्तम 12056001 वैशंपायन उवाच 12056001a प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् 12056001c अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः 12056002a राज्यं वै परमो धर्म इति धर्मविदो विदुः 12056002c महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव 12056003a राजधर्मान्विशेषेण कथयस्व पितामह 12056003c सर्वस्य जीवलोकस्य राजधर्माः परायणम् 12056004a त्रिवर्गोऽत्र समासक्तो राजधर्मेषु कौरव 12056004c मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः 12056005a यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा 12056005c नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् 12056006a अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते 12056006c लोकस्य संस्था न भवेत्सर्वं च व्याकुलं भवेत् 12056007a उदयन्हि यथा सूर्यो नाशयत्यासुरं तमः 12056007c राजधर्मास्तथालोक्यामाक्षिपन्त्यशुभां गतिम् 12056008a तदग्रे राजधर्माणामर्थतत्त्वं पितामह 12056008c प्रब्रूहि भरतश्रेष्ठ त्वं हि बुद्धिमतां वरः 12056009a आगमश्च परस्त्वत्तः सर्वेषां नः परंतप 12056009c भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते 12056010 भीष्म उवाच 12056010a नमो धर्माय महते नमः कृष्णाय वेधसे 12056010c ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् 12056011a शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर 12056011c निरुच्यमानान्नियतो यच्चान्यदभिवाञ्छसि 12056012a आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनकाम्यया 12056012c देवतानां द्विजानां च वर्तितव्यं यथाविधि 12056013a दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह 12056013c आनृण्यं याति धर्मस्य लोकेन च स मान्यते 12056014a उत्थाने च सदा पुत्र प्रयतेथा युधिष्ठिर 12056014c न ह्युत्थानमृते दैवं राज्ञामर्थप्रसिद्धये 12056015a साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च 12056015c पौरुषं हि परं मन्ये दैवं निश्चित्यमुच्यते 12056016a विपन्ने च समारम्भे संतापं मा स्म वै कृथाः 12056016c घटते विनयस्तात राज्ञामेष नयः परः 12056017a न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारणम् 12056017c सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति 12056018a ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् 12056018c तथा राज्ञः परं सत्यान्नान्यद्विश्वासकारणम् 12056019a गुणवाञ्शीलवान्दान्तो मृदुर्धर्म्यो जितेन्द्रियः 12056019c सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः 12056020a आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन 12056020c पुनर्नयविचारेण त्रयीसंवरणेन च 12056021a मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः 12056021c तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचर 12056022a अदण्ड्याश्चैव ते नित्यं विप्राः स्युर्ददतां वर 12056022c भूतमेतत्परं लोके ब्राह्मणा नाम भारत 12056023a मनुना चापि राजेन्द्र गीतौ श्लोकौ महात्मना 12056023c धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि 12056024a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 12056024c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12056025a अयो हन्ति यदाश्मानमग्निश्चापोऽभिपद्यते 12056025c ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः 12056026a एतज्ज्ञात्वा महाराज नमस्या एव ते द्विजाः 12056026c भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः 12056027a एवं चैव नरव्याघ्र लोकतन्त्रविघातकाः 12056027c निग्राह्या एव सततं बाहुभ्यां ये स्युरीदृशाः 12056028a श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा 12056028c तौ निबोध महाप्राज्ञ त्वमेकाग्रमना नृप 12056029a उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे 12056029c निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नरेश्वरः 12056030a विनश्यमानं धर्मं हि यो रक्षति स धर्मवित् 12056030c न तेन भ्रूणहा स स्यान्मन्युस्तं मनुमृच्छति 12056031a एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः 12056031c स्वपराद्धानपि हि तान्विषयान्ते समुत्सृजेत् 12056032a अभिशस्तमपि ह्येषां कृपायीत विशां पते 12056032c ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च 12056033a राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् 12056033c विधीयते न शारीरं भयमेषां कदाचन 12056034a दयिताश्च नरास्ते स्युर्नित्यं पुरुषसत्तम 12056034c न कोशः परमो ह्यन्यो राज्ञां पुरुषसंचयात् 12056035a दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः 12056035c सर्वेषु तेषु मन्यन्ते नरदुर्गं सुदुस्तरम् 12056036a तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता 12056036c धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः 12056037a न च क्षान्तेन ते भाव्यं नित्यं पुरुषसत्तम 12056037c अधर्म्यो हि मृदू राजा क्षमावानिव कुञ्जरः 12056038a बार्हस्पत्ये च शास्त्रे वै श्लोका विनियताः पुरा 12056038c अस्मिन्नर्थे महाराज तन्मे निगदतः शृणु 12056039a क्षममाणं नृपं नित्यं नीचः परिभवेज्जनः 12056039c हस्तियन्ता गजस्येव शिर एवारुरुक्षति 12056040a तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वापि भवेन्नृपः 12056040c वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः 12056041a प्रत्यक्षेणानुमानेन तथौपम्योपदेशतः 12056041c परीक्ष्यास्ते महाराज स्वे परे चैव सर्वदा 12056042a व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण 12056042c न चैव न प्रयुञ्जीत सङ्गं तु परिवर्जयेत् 12056043a नित्यं हि व्यसनी लोके परिभूतो भवत्युत 12056043c उद्वेजयति लोकं चाप्यतिद्वेषी महीपतिः 12056044a भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा 12056044c कारणं च महाराज शृणु येनेदमिष्यते 12056045a यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् 12056045c गर्भस्य हितमाधत्ते तथा राज्ञाप्यसंशयम् 12056046a वर्तितव्यं कुरुश्रेष्ठ नित्यं धर्मानुवर्तिना 12056046c स्वं प्रियं समभित्यज्य यद्यल्लोकहितं भवेत् 12056047a न संत्याज्यं च ते धैर्यं कदाचिदपि पाण्डव 12056047c धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते 12056048a परिहासश्च भृत्यैस्ते न नित्यं वदतां वर 12056048c कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु 12056049a अवमन्यन्ति भर्तारं संहर्षादुपजीविनः 12056049c स्वे स्थाने न च तिष्ठन्ति लङ्घयन्ति हि तद्वचः 12056050a प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते 12056050c अयाच्यं चैव याचन्तेऽभोज्यान्याहारयन्ति च 12056051a क्रुध्यन्ति परिदीप्यन्ति भूमिमध्यासतेऽस्य च 12056051c उत्कोचैर्वञ्चनाभिश्च कार्याण्यनुविहन्ति च 12056052a जर्जरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः 12056052c स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च 12056053a वातं च ष्ठीवनं चैव कुर्वते चास्य संनिधौ 12056053c निर्लज्जा नरशार्दूल व्याहरन्ति च तद्वचः 12056054a हयं वा दन्तिनं वापि रथं नृपतिसंमतम् 12056054c अधिरोहन्त्यनादृत्य हर्षुले पार्थिवे मृदौ 12056055a इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् 12056055c इत्येवं सुहृदो नाम ब्रुवन्ति परिषद्गताः 12056056a क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः 12056056c संघर्षशीलाश्च सदा भवन्त्यन्योन्यकारणात् 12056057a विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् 12056057c लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् 12056057e अलंकरणभोज्यं च तथा स्नानानुलेपनम् 12056058a हेलमाना नरव्याघ्र स्वस्थास्तस्योपशृण्वते 12056058c निन्दन्ति स्वानधीकारान्संत्यजन्ति च भारत 12056059a न वृत्त्या परितुष्यन्ति राजदेयं हरन्ति च 12056059c क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा 12056059e अस्मत्प्रणेयो राजेति लोके चैव वदन्त्युत 12056060a एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत 12056060c नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर 12057001 भीष्म उवाच 12057001a नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर 12057001c प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः 12057002a भगवानुशना चाह श्लोकमत्र विशां पते 12057002c तमिहैकमना राजन्गदतस्त्वं निबोध मे 12057003a द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव 12057003c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 12057004a तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि 12057004c संधेयानपि संधत्स्व विरोध्यांश्च विरोधय 12057005a सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत् 12057005c गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः 12057006a मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः 12057006c राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा 12057007a गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 12057007c उत्पथप्रतिपन्नस्य परित्यागो विधीयते 12057008a बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता 12057008c असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा 12057009a असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप 12057009c न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः 12057010a ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः 12057010c मिथ्या विप्रानुपचरन्संत्यक्तो दयितः सुतः 12057011a लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः 12057011c सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् 12057012a न हिंस्यात्परवित्तानि देयं काले च दापयेत् 12057012c विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः 12057013a गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः 12057013c धर्मे चार्थे च कामे च मोक्षे च सततं रतः 12057014a त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति 12057014c वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् 12057015a चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता 12057015c धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः 12057016a न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत् 12057016c षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् 12057017a द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते 12057017c त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः 12057018a कोशस्योपार्जनरतिर्यमवैश्रवणोपमः 12057018c वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः 12057019a अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः 12057019c नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता 12057020a उपासिता च वृद्धानां जिततन्द्रीरलोलुपः 12057020c सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः 12057021a न चाददीत वित्तानि सतां हस्तात्कदाचन 12057021c असद्भ्यस्तु समादद्यात्सद्भ्यः संप्रतिपादयेत् 12057022a स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः 12057022c काले दाता च भोक्ता च शुद्धाचारस्तथैव च 12057023a शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः 12057023c शिष्टाञ्शिष्टाभिसंबन्धान्मानिनो नावमानिनः 12057024a विद्याविदो लोकविदः परलोकान्ववेक्षकान् 12057024c धर्मेषु निरतान्साधूनचलानचलानिव 12057025a सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः 12057025c तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः 12057026a प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा 12057026c एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति 12057027a सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत् 12057027c स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते 12057028a शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः 12057028c न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते 12057029a अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः 12057029c राजा भवति भूतानां विश्वास्यो हिमवानिव 12057030a प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः 12057030c सुदर्शः सर्ववर्णानां नयापनयवित्तथा 12057031a क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः 12057031c अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः 12057032a आरब्धान्येव कार्याणि न पर्यवसितानि च 12057032c यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः 12057033a पुत्रा इव पितुर्गेहे विषये यस्य मानवाः 12057033c निर्भया विचरिष्यन्ति स राजा राजसत्तमः 12057034a अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः 12057034c नयापनयवेत्तारः स राजा राजसत्तमः 12057035a स्वकर्मनिरता यस्य जना विषयवासिनः 12057035c असंघातरता दान्ताः पाल्यमाना यथाविधि 12057036a वश्या नेया विनीताश्च न च संघर्षशीलिनः 12057036c विषये दानरुचयो नरा यस्य स पार्थिवः 12057037a न यस्य कूटकपटं न माया न च मत्सरः 12057037c विषये भूमिपालस्य तस्य धर्मः सनातनः 12057038a यः सत्करोति ज्ञानानि नेयः पौरहिते रतः 12057038c सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति 12057039a यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते 12057039c न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति 12057040a श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना 12057040c आख्याते रामचरिते नृपतिं प्रति भारत 12057041a राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् 12057041c राजन्यसति लोकस्य कुतो भार्या कुतो धनम् 12057042a तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः 12057042c ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् 12057043a प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ 12057043c राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु 12057044a षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे 12057044c अप्रवक्तारमाचार्यमनधीयानमृत्विजम् 12057045a अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् 12057045c ग्रामकामं च गोपालं वनकामं च नापितम् 12058001 भीष्म उवाच 12058001a एतत्ते राजधर्माणां नवनीतं युधिष्ठिर 12058001c बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति 12058002a विशालाक्षश्च भगवान्काव्यश्चैव महातपाः 12058002c सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः 12058003a भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः 12058003c राजशास्त्रप्रणेतारो ब्रह्मण्या ब्रह्मवादिनः 12058004a रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर 12058004c राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु 12058005a चारश्च प्रणिधिश्चैव काले दानममत्सरः 12058005c युक्त्यादानं न चादानमयोगेन युधिष्ठिर 12058006a सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् 12058006c अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् 12058007a साधूनामपरित्यागः कुलीनानां च धारणम् 12058007c निचयश्च निचेयानां सेवा बुद्धिमतामपि 12058008a बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् 12058008c कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् 12058009a पुरगुप्तिरविश्वासः पौरसंघातभेदनम् 12058009c केतनानां च जीर्णानामवेक्षा चैव सीदताम् 12058010a द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः 12058010c अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् 12058011a उपजापश्च भृत्यानामात्मनः परदर्शनात् 12058011c अविश्वासः स्वयं चैव परस्याश्वासनं तथा 12058012a नीतिधर्मानुसरणं नित्यमुत्थानमेव च 12058012c रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् 12058013a उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत 12058013c राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे 12058014a उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः 12058014c उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च 12058015a उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति 12058015c उत्थानधीरं वाग्धीरा रमयन्त उपासते 12058016a उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः 12058016c धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः 12058017a न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा 12058017c अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च 12058018a एकाश्वेनापि संभूतः शत्रुर्दुर्गसमाश्रितः 12058018c तं तं तापयते देशमपि राज्ञः समृद्धिनः 12058019a राज्ञो रहस्यं यद्वाक्यं जयार्थं लोकसंग्रहः 12058019c हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् 12058020a यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते 12058020c दम्भनार्थाय लोकस्य धर्मिष्ठामाचरेत्क्रियाम् 12058021a राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः 12058021c न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् 12058022a राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते 12058022c तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर 12058023a यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः 12058023c सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः 12058024a एष ते राजधर्माणां लेशः समनुवर्णितः 12058024c भूयस्ते यत्र संदेहस्तद्ब्रूहि वदतां वर 12058025 वैशंपायन उवाच 12058025a ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह 12058025c वासुदेवः कृपश्चैव सात्यकिः संजयस्तथा 12058026a साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः 12058026c अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् 12058027a ततो दीनमना भीष्ममुवाच कुरुसत्तमः 12058027c नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् 12058028a श्व इदानीं स्वसंदेहं प्रक्ष्यामि त्वा पितामह 12058028c उपैति सविताप्यस्तं रसमापीय पार्थिवम् 12058029a ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादयः 12058029c प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः 12058030a दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः 12058030c उपास्य संध्यां विधिवत्परंतपा;स्ततः पुरं ते विविशुर्गजाह्वयम् 12059001 वैशंपायन उवाच 12059001a ततः काल्यं समुत्थाय कृतपौर्वाह्णिकक्रियाः 12059001c ययुस्ते नगराकारै रथैः पाण्डवयादवाः 12059002a प्रपद्य च कुरुक्षेत्रं भीष्ममासाद्य चानघम् 12059002c सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् 12059003a व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः 12059003c निषेदुरभितो भीष्मं परिवार्य समन्ततः 12059004a ततो राजा महातेजा धर्मराजो युधिष्ठिरः 12059004c अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्याभिवाद्य च 12059005a य एष राजा-राजेति शब्दश्चरति भारत 12059005c कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह 12059006a तुल्यपाणिशिरोग्रीवस्तुल्यबुद्धीन्द्रियात्मकः 12059006c तुल्यदुःखसुखात्मा च तुल्यपृष्ठभुजोदरः 12059007a तुल्यशुक्रास्थिमज्जश्च तुल्यमांसासृगेव च 12059007c निःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् 12059008a समानजन्ममरणः समः सर्वगुणैर्नृणाम् 12059008c विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति 12059009a कथमेको महीं कृत्स्नां वीरशूरार्यसंकुलाम् 12059009c रक्षत्यपि च लोकोऽस्य प्रसादमभिवाञ्छति 12059010a एकस्य च प्रसादेन कृत्स्नो लोकः प्रसीदति 12059010c व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः 12059011a एतदिच्छाम्यहं सर्वं तत्त्वेन भरतर्षभ 12059011c श्रोतुं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर 12059012a नैतत्कारणमल्पं हि भविष्यति विशां पते 12059012c यदेकस्मिञ्जगत्सर्वं देववद्याति संनतिम् 12059013 भीष्म उवाच 12059013a नियतस्त्वं नरश्रेष्ठ शृणु सर्वमशेषतः 12059013c यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् 12059014a नैव राज्यं न राजासीन्न दण्डो न च दाण्डिकः 12059014c धर्मेणैव प्रजाः सर्वा रक्षन्ति च परस्परम् 12059015a पालयानास्तथान्योन्यं नरा धर्मेण भारत 12059015c खेदं परममाजग्मुस्ततस्तान्मोह आविशत् 12059016a ते मोहवशमापन्ना मानवा मनुजर्षभ 12059016c प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् 12059017a नष्टायां प्रतिपत्तौ तु मोहवश्या नरास्तदा 12059017c लोभस्य वशमापन्नाः सर्वे भारतसत्तम 12059018a अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः 12059018c कामो नामापरस्तत्र समपद्यत वै प्रभो 12059019a तांस्तु कामवशं प्राप्तान्रागो नाम समस्पृशत् 12059019c रक्ताश्च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर 12059020a अगम्यागमनं चैव वाच्यावाच्यं तथैव च 12059020c भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् 12059021a विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह 12059021c नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् 12059022a नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् 12059022c ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः 12059023a प्रपद्य भगवन्तं ते देवा लोकपितामहम् 12059023c ऊचुः प्राञ्जलयः सर्वे दुःखशोकभयार्दिताः 12059024a भगवन्नरलोकस्थं नष्टं ब्रह्म सनातनम् 12059024c लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् 12059025a ब्रह्मणश्च प्रणाशेन धर्मोऽप्यनशदीश्वर 12059025c ततः स्म समतां याता मर्त्यैस्त्रिभुवनेश्वर 12059026a अधो हि वर्षमस्माकं मर्त्यास्तूर्ध्वप्रवर्षिणः 12059026c क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् 12059027a अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह 12059027c त्वत्प्रभावसमुत्थोऽसौ प्रभावो नो विनश्यति 12059028a तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः 12059028c श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः 12059029a ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् 12059029c यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः 12059030a त्रिवर्ग इति विख्यातो गण एष स्वयंभुवा 12059030c चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गणः 12059031a मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्त्वं रजस्तमः 12059031c स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः 12059032a आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च 12059032c सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः 12059033a त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ 12059033c दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः 12059034a अमात्यरक्षाप्रणिधी राजपुत्रस्य रक्षणम् 12059034c चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः 12059035a साम चोपप्रदानं च भेदो दण्डश्च पाण्डव 12059035c उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता 12059036a मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च 12059036c विभ्रंशश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् 12059037a संधिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः 12059037c भयसत्कारवित्ताख्यः कार्त्स्न्येन परिवर्णितः 12059038a यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः 12059038c विजयो धर्मयुक्तश्च तथार्थविजयश्च ह 12059039a आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः 12059039c लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् 12059040a प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः 12059040c प्रकाशोऽष्टविधस्तत्र गुह्यस्तु बहुविस्तरः 12059041a रथा नागा हयाश्चैव पादाताश्चैव पाण्डव 12059041c विष्टिर्नावश्चराश्चैव देशिकाः पथि चाष्टकम् 12059042a अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु 12059042c जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः 12059043a स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः 12059043c अरिर्मित्रमुदासीन इत्येतेऽप्यनुवर्णिताः 12059044a कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह 12059044c आत्मरक्षणमाश्वासः स्पशानां चान्ववेक्षणम् 12059045a कल्पना विविधाश्चापि नृनागरथवाजिनाम् 12059045c व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् 12059046a उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् 12059046c शस्त्राणां पायनज्ञानं तथैव भरतर्षभ 12059047a बलव्यसनमुक्तं च तथैव बलहर्षणम् 12059047c पीडनास्कन्दकालश्च भयकालश्च पाण्डव 12059048a तथा खातविधानं च योगसंचार एव च 12059048c चौराटव्यबलैश्चोग्रैः परराष्ट्रस्य पीडनम् 12059049a अग्निदैर्गरदैश्चैव प्रतिरूपकचारकैः 12059049c श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च 12059050a दूषणेन च नागानामाशङ्काजननेन च 12059050c आरोधनेन भक्तस्य पथश्चोपार्जनेन च 12059051a सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्जसम् 12059051c दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् 12059052a अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् 12059052c अवमर्दः प्रतीघातस्तथैव च बलीयसाम् 12059053a व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् 12059053c शमो व्यायामयोगश्च योगो द्रव्यस्य संचयः 12059054a अभृतानां च भरणं भृतानां चान्ववेक्षणम् 12059054c अर्थकाले प्रदानं च व्यसनेष्वप्रसङ्गिता 12059055a तथा राजगुणाश्चैव सेनापतिगुणाश्च ये 12059055c कारणस्य च कर्तुश्च गुणदोषास्तथैव च 12059056a दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुजीविनाम् 12059056c शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् 12059057a अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् 12059057c प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा 12059058a विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुना 12059058c चतुर्थो व्यसनाघाते तथैवात्रानुवर्णितः 12059059a क्रोधजानि तथोग्राणि कामजानि तथैव च 12059059c दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह 12059060a मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ 12059060c कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा 12059061a वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च 12059061c आत्मनो निग्रहस्त्यागोऽथार्थदूषणमेव च 12059062a यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः 12059062c अवमर्दः प्रतीघातः केतनानां च भञ्जनम् 12059063a चैत्यद्रुमाणामामर्दो रोधःकर्मान्तनाशनम् 12059063c अपस्करोऽथ गमनं तथोपास्या च वर्णिता 12059064a पणवानकशङ्खानां भेरीणां च युधां वर 12059064c उपार्जनं च द्रव्याणां परमर्म च तानि षट् 12059065a लब्धस्य च प्रशमनं सतां चैव हि पूजनम् 12059065c विद्वद्भिरेकीभावश्च प्रातर्होमविधिज्ञता 12059066a मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया 12059066c आहारयोजनं चैव नित्यमास्तिक्यमेव च 12059067a एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः 12059067c उत्सवानां समाजानां क्रियाः केतनजास्तथा 12059068a प्रत्यक्षा च परोक्षा च सर्वाधिकरणेषु च 12059068c वृत्तिर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् 12059069a अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् 12059069c अनुजीविस्वजातिभ्यो गुणेषु परिरक्षणम् 12059070a रक्षणं चैव पौराणां स्वराष्ट्रस्य विवर्धनम् 12059070c मण्डलस्था च या चिन्ता राजन्द्वादशराजिका 12059071a द्वासप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा 12059071c देशजातिकुलानां च धर्माः समनुवर्णिताः 12059072a धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः 12059072c उपायश्चार्थलिप्सा च विविधा भूरिदक्षिणाः 12059073a मूलकर्मक्रिया चात्र माया योगश्च वर्णितः 12059073c दूषणं स्रोतसामत्र वर्णितं च स्थिराम्भसाम् 12059074a यैर्यैरुपायैर्लोकश्च न चलेदार्यवर्त्मनः 12059074c तत्सर्वं राजशार्दूल नीतिशास्त्रेऽनुवर्णितम् 12059075a एतत्कृत्वा शुभं शास्त्रं ततः स भगवान्प्रभुः 12059075c देवानुवाच संहृष्टः सर्वाञ्शक्रपुरोगमान् 12059076a उपकाराय लोकस्य त्रिवर्गस्थापनाय च 12059076c नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता 12059077a दण्डेन सहिता ह्येषा लोकरक्षणकारिका 12059077c निग्रहानुग्रहरता लोकाननु चरिष्यति 12059078a दण्डेन नीयते चेयं दण्डं नयति चाप्युत 12059078c दण्डनीतिरिति प्रोक्ता त्रीँल्लोकाननुवर्तते 12059079a षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु 12059079c महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा 12059080a नयचारश्च विपुलो येन सर्वमिदं ततम् 12059080c आगमश्च पुराणानां महर्षीणां च संभवः 12059081a तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर 12059081c सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च 12059082a चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम् 12059082c इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः 12059083a तपो ज्ञानमहिंसा च सत्यासत्ये नयः परः 12059083c वृद्धोपसेवा दानं च शौचमुत्थानमेव च 12059084a सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् 12059084c भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् 12059085a तस्मिन्पैतामहे शास्त्रे पाण्डवैतदसंशयम् 12059085c धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः 12059086a ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः 12059086c बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः 12059087a युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः 12059087c संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् 12059088a वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत 12059088c दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः 12059089a भगवानपि तच्छास्त्रं संचिक्षेप पुरंदरः 12059089c सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् 12059090a अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः 12059090c संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते 12059091a अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् 12059091c तच्छास्त्रममितप्रज्ञो योगाचार्यो महातपाः 12059092a एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः 12059092c संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासि पाण्डव 12059093a अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् 12059093c एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्यं तं वै समादिश 12059094a ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः 12059094c तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् 12059095a विरजास्तु महाभाग विभुत्वं भुवि नैच्छत 12059095c न्यासायैवाभवद्बुद्धिः प्रणीता तस्य पाण्डव 12059096a कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि पञ्चातिगोऽभवत् 12059096c कर्दमस्तस्य च सुतः सोऽप्यतप्यन्महत्तपः 12059097a प्रजापतेः कर्दमस्य अनङ्गो नाम वै सुतः 12059097c प्रजानां रक्षिता साधुर्दण्डनीतिविशारदः 12059098a अनङ्गपुत्रोऽतिबलो नीतिमानधिगम्य वै 12059098c अभिपेदे महीराज्यमथेन्द्रियवशोऽभवत् 12059099a मृत्योस्तु दुहिता राजन्सुनीथा नाम मानसी 12059099c प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् 12059100a तं प्रजासु विधर्माणं रागद्वेषवशानुगम् 12059100c मन्त्रपूतैः कुशैर्जघ्नुरृषयो ब्रह्मवादिनः 12059101a ममन्थुर्दक्षिणं चोरुमृषयस्तस्य मन्त्रतः 12059101c ततोऽस्य विकृतो जज्ञे ह्रस्वाङ्गः पुरुषो भुवि 12059102a दग्धस्थाणुप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः 12059102c निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः 12059103a तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः 12059103c ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः 12059104a भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः 12059104c ततः पुरुष उत्पन्नो रूपेणेन्द्र इवापरः 12059105a कवची बद्धनिस्त्रिंशः सशरः सशरासनः 12059105c वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः 12059106a तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् 12059106c ततः स प्राञ्जलिर्वैन्यो महर्षींस्तानुवाच ह 12059107a सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी 12059107c अनया किं मया कार्यं तन्मे तत्त्वेन शंसत 12059108a यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् 12059108c तदहं वै करिष्यामि नात्र कार्या विचारणा 12059109a तमूचुरथ देवास्ते ते चैव परमर्षयः 12059109c नियतो यत्र धर्मो वै तमशङ्कः समाचर 12059110a प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु 12059110c कामक्रोधौ च लोभं च मानं चोत्सृज्य दूरतः 12059111a यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः 12059111c निग्राह्यस्ते स बाहुभ्यां शश्वद्धर्ममवेक्षतः 12059112a प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा 12059112c पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् 12059113a यश्चात्र धर्मनीत्युक्तो दण्डनीतिव्यपाश्रयः 12059113c तमशङ्कः करिष्यामि स्ववशो न कदाचन 12059114a अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो 12059114c लोकं च संकरात्कृत्स्नात्त्रातास्मीति परंतप 12059115a वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् 12059115c ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः 12059116a एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः 12059116c पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः 12059117a मन्त्रिणो वालखिल्यास्तु सारस्वत्यो गणो ह्यभूत् 12059117c महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् 12059118a आत्मनाष्टम इत्येव श्रुतिरेषा परा नृषु 12059118c उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ 12059119a समतां वसुधायाश्च स सम्यगुपपादयत् 12059119c वैषम्यं हि परं भूमेरासीदिति ह नः श्रुतम् 12059120a स विष्णुना च देवेन शक्रेण विबुधैः सह 12059120c ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः 12059121a तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण्डव 12059121c सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः 12059122a शक्रश्च धनमक्षय्यं प्रादात्तस्य युधिष्ठिर 12059122c रुक्मं चापि महामेरुः स्वयं कनकपर्वतः 12059123a यक्षराक्षसभर्ता च भगवान्नरवाहनः 12059123c धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् 12059124a हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा 12059124c प्रादुर्बभूवुर्वैन्यस्य चिन्तनादेव पाण्डव 12059124e न जरा न च दुर्भिक्षं नाधयो व्याधयस्तथा 12059125a सरीसृपेभ्यः स्तेनेभ्यो न चान्योन्यात्कदाचन 12059125c भयमुत्पद्यते तत्र तस्य राज्ञोऽभिरक्षणात् 12059126a तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च 12059126c यक्षराक्षसनागैश्चापीप्सितं यस्य यस्य यत् 12059127a तेन धर्मोत्तरश्चायं कृतो लोको महात्मना 12059127c रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते 12059128a ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते 12059128c प्रथिता धनतश्चेयं पृथिवी साधुभिः स्मृता 12059129a स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः 12059129c नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति पार्थिव 12059130a तपसा भगवान्विष्णुराविवेश च भूमिपम् 12059130c देववन्नरदेवानां नमते यज्जगन्नृप 12059131a दण्डनीत्या च सततं रक्षितं तं नरेश्वर 12059131c नाधर्षयत्ततः कश्चिच्चारनित्याच्च दर्शनात् 12059132a आत्मना करणैश्चैव समस्येह महीक्षितः 12059132c को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् 12059133a विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा 12059133c श्रीः संभूता यतो देवी पत्नी धर्मस्य धीमतः 12059134a श्रियः सकाशादर्थश्च जातो धर्मेण पाण्डव 12059134c अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता 12059135a सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् 12059135c पार्थिवो जायते तात दण्डनीतिवशानुगः 12059136a महत्त्वेन च संयुक्तो वैष्णवेन नरो भुवि 12059136c बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति 12059137a स्थापनामथ देवानां न कश्चिदतिवर्तते 12059137c तिष्ठत्येकस्य च वशे तं चेदनुविधीयते 12059138a शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते 12059138c तुल्यस्यैकस्य यस्यायं लोको वचसि तिष्ठति 12059139a यो ह्यस्य मुखमद्राक्षीत्सोम्य सोऽस्य वशानुगः 12059139c सुभगं चार्थवन्तं च रूपवन्तं च पश्यति 12059140a ततो जगति राजेन्द्र सततं शब्दितं बुधैः 12059140c देवाश्च नरदेवाश्च तुल्या इति विशां पते 12059141a एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु 12059141c कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तताम् 12060001 वैशंपायन उवाच 12060001a ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् 12060001c प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः 12060002a के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् 12060002c चतुर्णामाश्रमाणां च राजधर्माश्च के मताः 12060003a केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते 12060003c केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ 12060004a कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा 12060004c ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः 12060005a केषु विश्वसितव्यं स्याद्राज्ञां कस्यांचिदापदि 12060005c कुतो वात्मा दृढो रक्ष्यस्तन्मे ब्रूहि पितामह 12060006 भीष्म उवाच 12060006a नमो धर्माय महते नमः कृष्णाय वेधसे 12060006c ब्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् 12060007a अक्रोधः सत्यवचनं संविभागः क्षमा तथा 12060007c प्रजनः स्वेषु दारेषु शौचमद्रोह एव च 12060008a आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः 12060008c ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् 12060009a दममेव महाराज धर्ममाहुः पुरातनम् 12060009c स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते 12060010a तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि 12060010c अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् 12060011a कुर्वीतापत्यसंतानमथो दद्याद्यजेत च 12060011c संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते 12060012a परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः 12060012c कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते 12060013a क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत 12060013c दद्याद्राजा न याचेत यजेत न तु याजयेत् 12060014a नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् 12060014c नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् 12060015a ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः 12060015c य एवाहवजेतारस्त एषां लोकजित्तमाः 12060016a अविक्षतेन देहेन समराद्यो निवर्तते 12060016c क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः 12060017a वधं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः 12060017c नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात् 12060018a दानमध्ययनं यज्ञो योगः क्षेमो विधीयते 12060018c तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता 12060019a स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः 12060019c धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत् 12060020a परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् 12060020c कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते 12060021a वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत 12060021c दानमध्ययनं यज्ञः शौचेन धनसंचयः 12060022a पितृवत्पालयेद्वैश्यो युक्तः सर्वपशूनिह 12060022c विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् 12060022e रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् 12060023a प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् 12060023c ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः 12060024a तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् 12060024c षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् 12060025a लये च सप्तमो भागस्तथा शृङ्गे कला खुरे 12060025c सस्यस्य सर्वबीजानामेषा सांवत्सरी भृतिः 12060026a न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति 12060026c वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन 12060027a शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत 12060027c प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् 12060028a तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते 12060028c तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् 12060029a शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः 12060029c संचयांश्च न कुर्वीत जातु शूद्रः कथंचन 12060030a पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः 12060030c राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः 12060031a तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् 12060031c अवश्यभरणीयो हि वर्णानां शूद्र उच्यते 12060032a छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च 12060032c यातयामानि देयानि शूद्राय परिचारिणे 12060033a अधार्याणि विशीर्णानि वसनानि द्विजातिभिः 12060033c शूद्रायैव विधेयानि तस्य धर्मधनं हि तत् 12060034a यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् 12060034c कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः 12060034e देयः पिण्डोऽनपेताय भर्तव्यौ वृद्धदुर्बलौ 12060035a शूद्रेण च न हातव्यो भर्ता कस्यांचिदापदि 12060035c अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये 12060035e न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ 12060036a उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्यैव भारत 12060036c स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीयते 12060037a ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् 12060037c पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् 12060038a शूद्रः पैजवनो नाम सहस्राणां शतं ददौ 12060038c ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् 12060039a अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते 12060039c दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् 12060040a दैवतं परमं विप्राः स्वेन स्वेन परस्परम् 12060040c अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः 12060041a संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः 12060041c देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत् 12060041e तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया 12060042a ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः 12060042c अनृग्यजुरसामा तु प्राजापत्य उपद्रवः 12060043a यज्ञो मनीषया तात सर्ववर्णेषु भारत 12060043c नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः 12060043e तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते 12060044a स्वं दैवतं ब्राह्मणाः स्वेन नित्यं; परान्वर्णानयजन्नेवमासीत् 12060044c आरोचिता नः सुमहान्स धर्मः; सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः 12060045a तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः 12060045c एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः 12060046a अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः 12060046c वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् 12060047a उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः 12060047c वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् 12060048a यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् 12060048c बहूनि यज्ञरूपाणि नानाकर्मफलानि च 12060049a तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः 12060049c द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति 12060050a स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः 12060050c यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् 12060051a ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् 12060051c सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः 12060051e न हि यज्ञसमं किंचित्त्रिषु लोकेषु विद्यते 12060052a तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता 12060052c श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता 12061001 भीष्म उवाच 12061001a आश्रमाणां महाबाहो शृणु सत्यपराक्रम 12061001c चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर 12061002a वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम् 12061002c ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् 12061003a जटाकरणसंस्कारं द्विजातित्वमवाप्य च 12061003c आधानादीनि कर्माणि प्राप्य वेदमधीत्य च 12061004a सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः 12061004c वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् 12061005a तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् 12061005c ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् 12061006a एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् 12061006c कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता 12061007a चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते 12061007c भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः 12061008a यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः 12061008c यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः 12061009a निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान् 12061009c विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् 12061010a अधीत्य वेदान्कृतसर्वकृत्यः; संतानमुत्पाद्य सुखानि भुक्त्वा 12061010c समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् 12061011a स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः 12061011c मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान् 12061012a दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः 12061012c अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात् 12061013a अथात्र नारायणगीतमाहु;र्महर्षयस्तात महानुभावाः 12061013c महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध 12061014a सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे 12061014c निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत् 12061015a भरणं पुत्रदाराणां वेदानां पारणं तथा 12061015c सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः 12061016a एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत् 12061016c गृहस्थवृत्तिं प्रविशोध्य सम्य;क्स्वर्गे विशुद्धं फलमाप्नुते सः 12061017a तस्य देहपरित्यागादिष्टाः कामाक्षया मताः 12061017c आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः 12061018a खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर 12061018c एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् 12061019a ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी 12061019c अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा 12061020a शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च 12061020c षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः 12061021a न चरत्यधिकारेण सेवितं द्विषतो न च 12061021c एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते 12062001 युधिष्ठिर उवाच 12062001a शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान् 12062001c ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् 12062002 भीष्म उवाच 12062002a ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो 12062002c वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम 12062003a उक्तानि कर्माणि बहूनि राज;न्स्वर्ग्याणि राजन्यपरायणानि 12062003c नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् 12062004a क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन् 12062004c अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति 12062005a या संज्ञा विहिता लोके दासे शुनि वृके पशौ 12062005c विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव 12062006a षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि 12062006c सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः 12062007a ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च 12062007c निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः 12062008a यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च 12062008c तादृशं तादृशेनैव स गुणं प्रतिपद्यते 12062009a वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च 12062009c वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् 12062010a कालसंचोदितः कालः कालपर्यायनिश्चितः 12062010c उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः 12062011a अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च 12062011c स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः 12063001 भीष्म उवाच 12063001a ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च 12063001c शुश्रूषणं चापि तथार्थहेतो;रकार्यमेतत्परमं द्विजस्य 12063002a सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा 12063002c कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते 12063003a राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया 12063003c कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् 12063004a शूद्रो राजन्भवति ब्रह्मबन्धु;र्दुश्चारित्र्यो यश्च धर्मादपेतः 12063004c वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा 12063005a जपन्वेदानजपंश्चापि राज;न्समः शूद्रैर्दासवच्चापि भोज्यः 12063005c एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये 12063006a निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते 12063006c हव्यं कव्यं यानि चान्यानि राज;न्देयान्यदेयानि भवन्ति तस्मिन् 12063007a तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन् 12063007c तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः 12063008a यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः 12063008c ऋजुर्मृदुरनृशंसः क्षमावा;न्स वै विप्रो नेतरः पापकर्मा 12063009a शूद्रं वैश्यं राजपुत्रं च राजँ;ल्लोकाः सर्वे संश्रिता धर्मकामाः 12063009c तस्माद्वर्णाञ्जातिधर्मेषु सक्ता;न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र 12063010a लोके चेदं सर्वलोकस्य न स्या;च्चातुर्वर्ण्यं वेदवादाश्च न स्युः 12063010c सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः 12063011a यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम् 12063011c कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव 12063012a शुश्रूषाकृतकृत्यस्य कृतसंतानकर्मणः 12063012c अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते 12063013a अल्पान्तरगतस्यापि दशधर्मगतस्य वा 12063013c आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् 12063014a भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः 12063014c तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि 12063015a कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः 12063015c वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् 12063016a वेदानधीत्य धर्मेण राजशास्त्राणि चानघ 12063016c संतानादीनि कर्माणि कृत्वा सोमं निषेव्य च 12063017a पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर 12063017c राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च 12063018a समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः 12063018c संग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु 12063019a स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव 12063019c अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ 12063020a अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि 12063020c देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः 12063021a अन्तकाले च संप्राप्ते य इच्छेदाश्रमान्तरम् 12063021c आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् 12063022a राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया 12063022c अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया 12063023a न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ 12063023c चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् 12063024a बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः 12063024c सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि 12063025a यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि 12063025c एवं धर्मान्राजधर्मेषु सर्वा;न्सर्वावस्थं संप्रलीनान्निबोध 12063026a अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः 12063026c महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः 12063027a सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति 12063027c सर्वत्यागो राजधर्मेषु राजं;स्त्यागे चाहुर्धर्ममग्र्यं पुराणम् 12063028a मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः 12063028c सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे 12063029a सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः 12063029c सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः 12063030a यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय 12063030c एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् 12064001 भीष्म उवाच 12064001a चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव 12064001c लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः 12064002a सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम 12064002c निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः 12064003a अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम् 12064003c प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् 12064004a अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम् 12064004c अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः 12064005a प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम् 12064005c सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् 12064006a धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर 12064006c यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा 12064006e राजधर्मेष्वनुपमा लोक्या सुचरितैरिह 12064007a उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् 12064007c सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा 12064007e जग्मुः सुबहवः शूरा राजानो दण्डनीतये 12064008a एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा 12064008c राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः 12064009a साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च 12064009c सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः 12064010a अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम् 12064010c निर्मर्यादे वर्तमाने दानवैकायने कृते 12064010e बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् 12064011a पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया 12064011c अनादिमध्यनिधनं देवं नारायणं प्रति 12064012a स राजा राजशार्दूल मान्धाता परमेष्ठिनः 12064012c जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः 12064013a दर्शयामास तं विष्णू रूपमास्थाय वासवम् 12064013c स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् 12064014a तस्य पार्थिवसंघस्य तस्य चैव महात्मनः 12064014c संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते 12064015 इन्द्र उवाच 12064015a किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम् 12064015c अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम् 12064016a नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात् 12064016c येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा 12064017a सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम् 12064017c बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम् 12064018 मान्धातोवाच 12064018a असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य 12064018c त्यक्त्वा भोगान्धर्मकामो ह्यरण्य;मिच्छे गन्तुं सत्पथं लोकजुष्टम् 12064019a क्षात्राद्धर्माद्विपुलादप्रमेया;ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च 12064019c धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् 12064020 इन्द्र उवाच 12064020a असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः 12064020c क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः 12064021a शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः 12064021c अस्मिन्धर्मे सर्वधर्माः प्रविष्टा;स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति 12064022a कर्मणा वै पुरा देवा ऋषयश्चामितौजसः 12064022c त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना 12064023a यदि ह्यसौ भगवान्नाहनिष्य;द्रिपून्सर्वान्वसुमानप्रमेयः 12064023c न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः 12064024a इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः 12064024c चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात् 12064025a दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः 12064025c युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति 12064026a आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च 12064026c विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् 12064027a निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम् 12064027c शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति 12064028a पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः 12064028c लोके भूतानि सर्वाणि विचरन्ति न संशयः 12064029a सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम् 12064029c शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् 12065001 इन्द्र उवाच 12065001a एवंवीर्यः सर्वधर्मोपपन्नः; क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः 12065001c पाल्यो युष्माभिर्लोकसिंहैरुदारै;र्विपर्यये स्यादभावः प्रजानाम् 12065002a भुवः संस्कारं राजसंस्कारयोग;मभैक्षचर्यां पालनं च प्रजानाम् 12065002c विद्याद्राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्ममग्र्यम् 12065003a त्यागं श्रेष्ठं मुनयो वै वदन्ति; सर्वश्रेष्ठो यः शरीरं त्यजेत 12065003c नित्यं त्यक्तं राजधर्मेषु सर्वं; प्रत्यक्षं ते भूमिपालाः सदैते 12065004a बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद्वदन्ति 12065004c नित्यं धर्मं क्षत्रियो ब्रह्मचारी; चरेदेको ह्याश्रमं धर्मकामः 12065005a सामान्यार्थे व्यवहारे प्रवृत्ते; प्रियाप्रिये वर्जयन्नेव यत्नात् 12065005c चातुर्वर्ण्यस्थापनात्पालनाच्च; तैस्तैर्योगैर्नियमैरौरसैश्च 12065006a सर्वोद्योगैराश्रमं धर्ममाहुः; क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् 12065006c स्वं स्वं धर्मं ये न चरन्ति वर्णा;स्तांस्तान्धर्मानयथावद्वदन्ति 12065007a निर्मर्यादे नित्यमर्थे विनष्टा;नाहुस्तान्वै पशुभूतान्मनुष्यान् 12065007c यथा नीतिं गमयत्यर्थलोभा;च्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः 12065008a त्रैविद्यानां या गतिर्ब्राह्मणानां; यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् 12065008c एतत्कर्म ब्राह्मणस्याहुरग्र्य;मन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः 12065009a चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव 12065009c ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथंचन 12065010a अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते 12065010c कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः 12065011a यो विकर्मस्थितो विप्रो न स सन्मानमर्हति 12065011c कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः 12065012a एते धर्माः सर्ववर्णाश्च वीरै;रुत्क्रष्टव्याः क्षत्रियैरेष धर्मः 12065012c तस्माज्ज्येष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता मे 12065013 मान्धातोवाच 12065013a यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः 12065013c शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः 12065014a ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः 12065014c ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः 12065015a कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः 12065015c मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः 12065016a एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे 12065016c त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर 12065017 इन्द्र उवाच 12065017a मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः 12065017c आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् 12065018a भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः 12065018c वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते 12065019a पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च 12065019c दानानि च यथाकालं द्विजेषु दद्युरेव ते 12065020a अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् 12065020c भरणं पुत्रदाराणां शौचमद्रोह एव च 12065021a दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता 12065021c पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः 12065022a एतान्येवंप्रकाराणि विहितानि पुरानघ 12065022c सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव 12065023 मान्धातोवाच 12065023a दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः 12065023c लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि 12065024 इन्द्र उवाच 12065024a विनष्टायां दण्डनीतौ राजधर्मे निराकृते 12065024c संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप 12065025a असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा 12065025c आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे 12065026a अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः 12065026c उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः 12065027a यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः 12065027c तदा धर्मो न चलते सद्भूतः शाश्वतः परः 12065028a परलोकगुरुं चैव राजानं योऽवमन्यते 12065028c न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् 12065029a मानुषाणामधिपतिं देवभूतं सनातनम् 12065029c देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् 12065030a प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् 12065030c स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति 12065031a प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् 12065031c स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् 12065032 भीष्म उवाच 12065032a एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः 12065032c जगाम भवनं विष्णुरक्षरं परमं पदम् 12065033a एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ 12065033c कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः 12065034a अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च 12065034c अन्तरा विलयं यान्ति यथा पथि विचक्षुषः 12065035a आदौ प्रवर्तिते चक्रे तथैवादिपरायणे 12065035c वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ 12066001 युधिष्ठिर उवाच 12066001a श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः 12066001c व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह 12066002 भीष्म उवाच 12066002a विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर 12066002c यथा मम महाबाहो विदिताः साधुसंमताः 12066003a यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर 12066003c धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप 12066004a सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ 12066004c साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् 12066005a अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर 12066005c समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् 12066006a वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा 12066006c यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् 12066007a ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर 12066007c समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् 12066008a आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् 12066008c कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् 12066009a पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् 12066009c दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् 12066010a वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् 12066010c तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् 12066011a अजिह्ममशठं मार्गं सेवमानस्य भारत 12066011c सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् 12066012a वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत 12066012c प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् 12066013a सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत 12066013c आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् 12066014a बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर 12066014c अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् 12066015a बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह 12066015c शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् 12066016a चराचराणां भूतानां रक्षामपि च सर्वशः 12066016c यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् 12066017a ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् 12066017c निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः 12066018a साधूनामर्चनीयानां प्रजासु विदितात्मनाम् 12066018c पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् 12066019a आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत 12066019c आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर 12066020a यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् 12066020c आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् 12066021a यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा 12066021c आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर 12066022a स्थानमानं वयोमानं कुलमानं तथैव च 12066022c कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर 12066023a देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च 12066023c पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् 12066024a काले विभूतिं भूतानामुपहारांस्तथैव च 12066024c अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् 12066025a दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते 12066025c सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी 12066026a ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः 12066026c पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः 12066027a धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् 12066027c पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते 12066028a ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर 12066028c ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ 12066029a सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् 12066029c पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे 12066030a आत्मोपमस्तु भूतेषु यो वै भवति मानवः 12066030c न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् 12066031a धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा 12066031c त्यागवाताध्वगा शीघ्रा नौस्त्वा संतारयिष्यति 12066032a यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः 12066032c तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते 12066033a सुप्रसन्नस्तु भावेन योगेन च नराधिप 12066033c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12066034a वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् 12066034c पालने यत्नमातिष्ठ सर्वलोकस्य चानघ 12066035a वने चरति यो धर्ममाश्रमेषु च भारत 12066035c रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः 12066036a एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः 12066036c अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् 12066037a चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव 12066037c धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः 12067001 युधिष्ठिर उवाच 12067001a चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च 12067001c राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह 12067002 भीष्म उवाच 12067002a राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् 12067002c अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च 12067003a अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते 12067003c परस्परं च खादन्ति सर्वथा धिगराजकम् 12067004a इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः 12067004c यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता 12067005a नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् 12067005c नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि 12067006a अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः 12067006c अराजकानि राष्ट्राणि हतराजानि वा पुनः 12067007a प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् 12067007c न हि पापात्पापतरमस्ति किंचिदराजकात् 12067008a स चेत्समनुपश्येत समग्रं कुशलं भवेत् 12067008c बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि 12067009a भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा 12067009c सुदुहा या तु भवति नैव तां क्लेशयन्त्युत 12067010a यदतप्तं प्रणमति न तत्संतापयन्त्युत 12067010c यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि 12067011a एतयोपमया धीरः संनमेत बलीयसे 12067011c इन्द्राय स प्रणमते नमते यो बलीयसे 12067012a तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता 12067012c न धनार्थो न दारार्थस्तेषां येषामराजकम् 12067013a प्रीयते हि हरन्पापः परवित्तमराजके 12067013c यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति 12067014a पापा अपि तदा क्षेमं न लभन्ते कदाचन 12067014c एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे 12067015a अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः 12067015c एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे 12067016a राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः 12067016c शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः 12067017a अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् 12067017c परस्परं भक्षयन्तो मत्स्या इव जले कृशान् 12067018a ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् 12067018c वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः 12067018e यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति 12067019a विश्वासनार्थं वर्णानां सर्वेषामविशेषतः 12067019c तास्तथा समयं कृत्वा समये नावतस्थिरे 12067020a सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् 12067020c अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश 12067021a यं पूजयेम संभूय यश्च नः परिपालयेत् 12067021c ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः 12067022 मनुरुवाच 12067022a बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् 12067022c विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा 12067023 भीष्म उवाच 12067023a तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति 12067023c पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च 12067023e धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् 12067024a मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः 12067024c भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः 12067025a स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् 12067025c सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् 12067026a यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः 12067026c चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति 12067027a तेन धर्मेण महता सुखलब्धेन भावितः 12067027c पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः 12067028a विजयायाशु निर्याहि प्रतपन्रश्मिमानिव 12067028c मानं विधम शत्रूणां धर्मो जयतु नः सदा 12067029a स निर्ययौ महातेजा बलेन महता वृतः 12067029c महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव 12067030a तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः 12067030c अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः 12067031a ततो महीं परिययौ पर्जन्य इव वृष्टिमान् 12067031c शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् 12067032a एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् 12067032c कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् 12067033a नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा 12067033c देवा इव सहस्राक्षं प्रजा राजानमन्तिके 12067034a सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते 12067034c स्वजनेन त्ववज्ञातं परे परिभवन्त्युत 12067035a राज्ञः परैः परिभवः सर्वेषामसुखावहः 12067035c तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च 12067036a भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च 12067036c आसनानि च शय्याश्च सर्वोपकरणानि च 12067037a गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता 12067037c आभाषितश्च मधुरं प्रतिभाषेत मानवान् 12067038a कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः 12067038c ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च 12068001 युधिष्ठिर उवाच 12068001a किमाहुर्दैवतं विप्रा राजानं भरतर्षभ 12068001c मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह 12068002 भीष्म उवाच 12068002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12068002c बृहस्पतिं वसुमना यथा पप्रच्छ भारत 12068003a राजा वसुमना नाम कौसल्यो धीमतां वरः 12068003c महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् 12068004a सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः 12068004c दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् 12068005a विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः 12068005c प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते 12068006a केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च 12068006c कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः 12068007a इति पृष्टो महाराज्ञा कौसल्येनामितौजसा 12068007c राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः 12068008a राजमूलो महाराज धर्मो लोकस्य लक्ष्यते 12068008c प्रजा राजभयादेव न खादन्ति परस्परम् 12068009a राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् 12068009c प्रसादयति धर्मेण प्रसाद्य च विराजते 12068010a यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः 12068010c अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् 12068011a यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः 12068011c विहरेयुर्यथाकाममभिसृत्य पुनः पुनः 12068012a विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् 12068012c अभावमचिरेणैव गच्छेयुर्नात्र संशयः 12068013a एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः 12068013c अन्धे तमसि मज्जेयुरगोपाः पशवो यथा 12068014a हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् 12068014c हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् 12068015a यानं वस्त्रमलंकारान्रत्नानि विविधानि च 12068015c हरेयुः सहसा पापा यदि राजा न पालयेत् 12068016a ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः 12068016c विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् 12068017a मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् 12068017c क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् 12068018a पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु 12068018c अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् 12068019a वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् 12068019c ममत्वं च न विन्देयुर्यदि राजा न पालयेत् 12068020a अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् 12068020c पतेच्च नरकं घोरं यदि राजा न पालयेत् 12068021a न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः 12068021c मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् 12068022a न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः 12068022c न विवाहाः समाजा वा यदि राजा न पालयेत् 12068023a न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः 12068023c घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् 12068024a त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् 12068024c क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् 12068025a न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः 12068025c विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् 12068026a ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः 12068026c विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् 12068027a हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः 12068027c भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् 12068028a न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः 12068028c कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् 12068029a अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः 12068029c दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् 12068030a विवृत्य हि यथाकामं गृहद्वाराणि शेरते 12068030c मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः 12068031a नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् 12068031c यदि राजा मनुष्येषु त्राता भवति धार्मिकः 12068032a स्त्रियश्चापुरुषा मार्गं सर्वालंकारभूषिताः 12068032c निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः 12068033a धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् 12068033c अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः 12068034a यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः 12068034c युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः 12068035a वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा 12068035c तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः 12068036a यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः 12068036c महता बलयोगेन तदा लोकः प्रसीदति 12068037a यस्याभावे च भूतानामभावः स्यात्समन्ततः 12068037c भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् 12068038a तस्य यो वहते भारं सर्वलोकसुखावहम् 12068038c तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् 12068039a यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् 12068039c असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् 12068040a न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः 12068040c महती देवता ह्येषा नररूपेण तिष्ठति 12068041a कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा 12068041c भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः 12068042a यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा 12068042c मिथ्योपचरितो राजा तदा भवति पावकः 12068043a यदा पश्यति चारेण सर्वभूतानि भूमिपः 12068043c क्षेमं च कृत्वा व्रजति तदा भवति भास्करः 12068044a अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् 12068044c सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः 12068045a यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति 12068045c धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा 12068046a यदा तु धनधाराभिस्तर्पयत्युपकारिणः 12068046c आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् 12068047a श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति 12068047c तदा वैश्रवणो राजँल्लोके भवति भूमिपः 12068048a नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा 12068048c धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता 12068049a न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् 12068049c पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् 12068050a कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः 12068050c न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते 12068051a तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् 12068051c मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः 12068052a नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् 12068052c आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् 12068053a महान्तं नरकं घोरमप्रतिष्ठमचेतसः 12068053c पतन्ति चिररात्राय राजवित्तापहारिणः 12068054a राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः 12068054c य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति 12068055a तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः 12068055c मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् 12068056a कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् 12068056c धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः 12068057a दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् 12068057c शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् 12068058a राजा प्रगल्भं पुरुषं करोति; राजा कृशं बृंहयते मनुष्यम् 12068058c राजाभिपन्नस्य कुतः सुखानि; राजाभ्युपेतं सुखिनं करोति 12068059a राजा प्रजानां हृदयं गरीयो; गतिः प्रतिष्ठा सुखमुत्तमं च 12068059c यमाश्रिता लोकमिमं परं च; जयन्ति सम्यक्पुरुषा नरेन्द्रम् 12068060a नराधिपश्चाप्यनुशिष्य मेदिनीं; दमेन सत्येन च सौहृदेन 12068060c महद्भिरिष्ट्वा क्रतुभिर्महायशा;स्त्रिविष्टपे स्थानमुपैति सत्कृतम् 12068061a स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः 12068061c प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् 12069001 युधिष्ठिर उवाच 12069001a पार्थिवेन विशेषेण किं कार्यमवशिष्यते 12069001c कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः 12069002a कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् 12069002c कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत 12069003 भीष्म उवाच 12069003a राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् 12069003c यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा 12069004a आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः 12069004c अजितात्मा नरपतिर्विजयेत कथं रिपून् 12069005a एतावानात्मविजयः पञ्चवर्गविनिग्रहः 12069005c जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् 12069006a न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन 12069006c नगरोपवने चैव पुरोद्यानेषु चैव ह 12069007a संस्थानेषु च सर्वेषु पुरेषु नगरस्य च 12069007c मध्ये च नरशार्दूल तथा राजनिवेशने 12069008a प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् 12069008c पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् 12069009a अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च 12069009c पुत्रेषु च महाराज प्रणिदध्यात्समाहितः 12069010a पुरे जनपदे चैव तथा सामन्तराजसु 12069010c यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते 12069011a चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ 12069011c आपणेषु विहारेषु समवायेषु भिक्षुषु 12069012a आरामेषु तथोद्याने पण्डितानां समागमे 12069012c वेशेषु चत्वरे चैव सभास्वावसथेषु च 12069013a एवं विहन्याच्चारेण परचारं विचक्षणः 12069013c चारेण विहतं सर्वं हतं भवति पाण्डव 12069014a यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना 12069014c अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा 12069015a अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै 12069015c लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः 12069016a गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये 12069016c संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् 12069017a उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः 12069017c पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः 12069018a यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः 12069018c अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् 12069019a यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् 12069019c व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः 12069020a यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी 12069020c पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा 12069021a न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् 12069021c हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् 12069022a राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः 12069022c अमात्यवल्लभानां च विवादांस्तस्य कारयेत् 12069022e वर्जनीयं सदा युद्धं राज्यकामेन धीमता 12069023a उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः 12069023c सान्त्वेनानुप्रदानेन भेदेन च नराधिप 12069023e यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः 12069024a आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन 12069024c षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये 12069025a दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च 12069025c तन्नाददीत सहसा पौराणां रक्षणाय वै 12069026a यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः 12069026c भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते 12069027a सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् 12069027c व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् 12069028a आकरे लवणे शुल्के तरे नागवने तथा 12069028c न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् 12069029a सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् 12069029c नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते 12069030a वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् 12069030c दानशीलश्च सततं यज्ञशीलश्च भारत 12069031a एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः 12069031c क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः 12069032a यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा 12069032c त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् 12069033a घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि 12069033c प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि 12069034a ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् 12069034c धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः 12069035a सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः 12069035c असंभवे प्रवेशस्य दाहयेदग्निना भृशम् 12069036a क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् 12069036c विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै 12069037a नदीषु मार्गेषु सदा संक्रमानवसादयेत् 12069037c जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् 12069038a तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् 12069038c प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते 12069039a दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् 12069039c सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् 12069040a प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा 12069040c चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् 12069041a प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा 12069041c आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः 12069042a कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह 12069042c तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् 12069043a द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा 12069043c आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् 12069044a काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् 12069044c संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः 12069045a तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् 12069045c निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः 12069046a नक्तमेव च भक्तानि पाचयेत नराधिपः 12069046c न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् 12069047a कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः 12069047c गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः 12069048a महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् 12069048c प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै 12069049a भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् 12069049c बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा 12069050a चत्वरेषु च तीर्थेषु सभास्वावसथेषु च 12069050c यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः 12069051a विशालान्राजमार्गांश्च कारयेत नराधिपः 12069051c प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् 12069052a भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः 12069052c अश्वागारान्गजागारान्बलाधिकरणानि च 12069053a परिखाश्चैव कौरव्य प्रतोलीः संकटानि च 12069053c न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर 12069054a अथ संनिचयं कुर्याद्राजा परबलार्दितः 12069054c तैलं मधु घृतं सस्यमौषधानि च सर्वशः 12069055a अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् 12069055c यवसेन्धनदिग्धानां कारयेत च संचयान् 12069056a आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् 12069056c संचयानेवमादीनां कारयेत नराधिपः 12069057a औषधानि च सर्वाणि मूलानि च फलानि च 12069057c चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषतः 12069058a नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा 12069058c शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः 12069059a यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः 12069059c पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् 12069060a कृते कर्मणि राजेन्द्र पूजयेद्धनसंचयैः 12069060c मानेन च यथार्हेण सान्त्वेन विविधेन च 12069061a निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन 12069061c गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् 12069062a राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे 12069062c आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि 12069063a तथा जनपदश्चैव पुरं च कुरुनन्दन 12069063c एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः 12069064a षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा 12069064c यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् 12069065a षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर 12069065c संधायासनमित्येव यात्रासंधानमेव च 12069066a विगृह्यासनमित्येव यात्रां संपरिगृह्य च 12069066c द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च 12069067a त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु 12069067c क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा 12069068a धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः 12069068c धर्मेण हि महीपालश्चिरं पालयते महीम् 12069069a अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् 12069069c यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि 12069070a कृत्वा सर्वाणि कार्याणि सम्यक्संपाल्य मेदिनीम् 12069070c पालयित्वा तथा पौरान्परत्र सुखमेधते 12069071a किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि 12069071c अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः 12070001 युधिष्ठिर उवाच 12070001a दण्डनीतिश्च राजा च समस्तौ तावुभावपि 12070001c कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह 12070002 भीष्म उवाच 12070002a महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः 12070002c शृणु मे शंसतो राजन्यथावदिह भारत 12070003a दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति 12070003c प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति 12070004a चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे 12070004c दण्डनीतिकृते क्षेमे प्रजानामकुतोभये 12070005a सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि 12070005c तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् 12070006a कालो वा कारणं राज्ञो राजा वा कालकारणम् 12070006c इति ते संशयो मा भूद्राजा कालस्य कारणम् 12070007a दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते 12070007c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12070008a भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् 12070008c सर्वेषामेव वर्णानां नाधर्मे रमते मनः 12070009a योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः 12070009c वैदिकानि च कर्माणि भवन्त्यविगुणान्युत 12070010a ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः 12070010c प्रसीदन्ति नराणां च स्वरवर्णमनांसि च 12070011a व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः 12070011c विधवा न भवन्त्यत्र नृशंसो नाभिजायते 12070012a अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा 12070012c त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च 12070013a नाधर्मो विद्यते तत्र धर्म एव तु केवलः 12070013c इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर 12070014a दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते 12070014c चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते 12070015a अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते 12070015c कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा 12070016a अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते 12070016c ततस्तु द्वापरं नाम स कालः संप्रवर्तते 12070017a अशुभस्य तदा अर्धं द्वावंशावनुवर्तते 12070017c कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा 12070018a दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः 12070018c प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः 12070019a कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् 12070019c सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः 12070020a शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया 12070020c योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः 12070021a वैदिकानि च कर्माणि भवन्ति विगुणान्युत 12070021c ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा 12070022a ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत 12070022c व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः 12070023a विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा 12070023c क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति 12070024a रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः 12070024c प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः 12070025a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च 12070025c युगस्य च चतुर्थस्य राजा भवति कारणम् 12070026a कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते 12070026c त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते 12070027a प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते 12070027c कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते 12070028a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः 12070028c प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति 12070029a दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा 12070029c अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् 12070030a लोकस्य सीमन्तकरी मर्यादा लोकभावनी 12070030c सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता 12070031a यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ 12070031c एष एव परो धर्मो यद्राजा दण्डनीतिमान् 12070032a तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् 12070032c एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् 12071001 युधिष्ठिर उवाच 12071001a केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः 12071001c सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् 12071002 भीष्म उवाच 12071002a इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता 12071002c यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् 12071003a चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः 12071003c अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः 12071004a प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः 12071004c दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः 12071005a संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः 12071005c नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया 12071006a अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः 12071006c आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् 12071007a नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् 12071007c विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु 12071008a अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः 12071008c स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् 12071009a अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया 12071009c अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् 12071010a सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् 12071010c सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् 12071011a प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् 12071011c क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु 12071012a एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि 12071012c अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् 12071013a इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते 12071013c अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते 12071014 वैशंपायन उवाच 12071014a इदं वचः शांतनवस्य शुश्रुवा;न्युधिष्ठिरः पाण्डवमुख्यसंवृतः 12071014c तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान् 12072001 युधिष्ठिर उवाच 12072001a कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते 12072001c धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह 12072002 भीष्म उवाच 12072002a समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् 12072002c विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् 12072003a धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् 12072003c अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् 12072004a प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च 12072004c अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः 12072005a धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च 12072005c ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः 12072006a आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत 12072006c अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् 12072007a कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति 12072007c न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः 12072008a मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः 12072008c अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् 12072009a मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः 12072009c प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः 12072010a बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् 12072010c शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् 12072011a दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि 12072011c अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः 12072012a गोपायितारं दातारं धर्मनित्यमतन्द्रितम् 12072012c अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः 12072013a मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् 12072013c धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् 12072014a अपशास्त्रपरो राजा संचयान्नाधिगच्छति 12072014c अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति 12072015a अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः 12072015c करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः 12072016a ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः 12072016c एवं राष्ट्रमयोगेन पीडितं न विवर्धते 12072017a यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः 12072017c एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् 12072018a अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम् 12072018c जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर 12072019a दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता 12072019c नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः 12072020a मालाकारोपमो राजन्भव माङ्गारिकोपमः 12072020c तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् 12072021a परचक्राभियानेन यदि ते स्याद्धनक्षयः 12072021c अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् 12072022a मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः 12072022c अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत 12072023a धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः 12072023c सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् 12072024a एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् 12072024c स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन 12072025a धर्मेण व्यवहारेण प्रजाः पालय पाण्डव 12072025c युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे 12072026a एष एव परो धर्मो यद्राजा रक्षते प्रजाः 12072026c भूतानां हि यथा धर्मे रक्षणं च परा दया 12072027a तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः 12072027c यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् 12072028a यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः 12072028c राजा वर्षसहस्रेण तस्यान्तमधिगच्छति 12072029a यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् 12072029c दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि 12072030a स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः 12072030c क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् 12072031a एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन् 12072031c इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे 12072032a स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव 12072032c असंभवश्च धर्माणामीदृशानामराजसु 12072032e तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् 12072033a स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् 12072033c इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् 12073001 भीष्म उवाच 12073001a य एव तु सतो रक्षेदसतश्च निबर्हयेत् 12073001c स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः 12073002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12073002c पुरूरवस ऐलस्य संवादं मातरिश्वनः 12073003 ऐल उवाच 12073003a कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः 12073003c कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे 12073004 वायुरुवाच 12073004a ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम 12073004c बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते 12073005a वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ 12073005c वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः 12073006a ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत 12073006c ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये 12073007a ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् 12073007c द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये 12073008a वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् 12073008c शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् 12073009 ऐल उवाच 12073009a द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् 12073009c धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे 12073010 वायुरुवाच 12073010a विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् 12073010c ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः 12073011a स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च 12073011c गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः 12073012a पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् 12073012c आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् 12073013a एष ते प्रथमः कल्प आपद्यन्यो भवेदतः 12073013c यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि 12073014a यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् 12073014c श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने 12073015a स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् 12073015c यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया 12073016a ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् 12073016c श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् 12073017a राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् 12073017c शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः 12073018a तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति 12073018c तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः 12073019a एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः 12073019c सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः 12073020a राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः 12073020c चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति 12073021a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12073021c यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके 12073022a इतो दत्तेन जीवन्ति देवताः पितरस्तथा 12073022c राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः 12073023a छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति 12073023c अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति 12073024a शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः 12073024c तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् 12073025a अभयस्यैव यो दाता तस्यैव सुमहत्फलम् 12073025c न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते 12073026a इन्द्रो राजा यमो राजा धर्मो राजा तथैव च 12073026c राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् 12074001 भीष्म उवाच 12074001a राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः 12074001c उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् 12074002a धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः 12074002c राजा चैवंगुणो येषां कुशलं तेषु सर्वशः 12074003a उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् 12074003c यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ 12074004a परस्परस्य सुहृदौ संमतौ समचेतसौ 12074004c ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः 12074005a विमाननात्तयोरेव प्रजा नश्येयुरेव ह 12074005c ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते 12074006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12074006c ऐलकश्यपसंवादं तं निबोध युधिष्ठिर 12074007 ऐल उवाच 12074007a यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म 12074007c अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति 12074008 कश्यप उवाच 12074008a व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह 12074008c अन्वग्बलं दस्यवस्तद्भजन्ते;ऽबल्यं तथा तत्र वियन्ति सन्तः 12074009a नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते 12074009c नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः संत्यजन्ति 12074010a नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते 12074010c अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्संत्यजन्ति 12074011a एतौ हि नित्यसंयुक्तावितरेतरधारणे 12074011c क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः 12074012a उभावेतौ नित्यमभिप्रपन्नौ; संप्रापतुर्महतीं श्रीप्रतिष्ठाम् 12074012c तयोः संधिर्भिद्यते चेत्पुराण;स्ततः सर्वं भवति हि संप्रमूढम् 12074013a नात्र प्लवं लभते पारगामी; महागाधे नौरिव संप्रणुन्ना 12074013c चातुर्वर्ण्यं भवति च संप्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति 12074014a ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति 12074014c अरक्ष्यमाणः सततमश्रु पापं च वर्षति 12074015a अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् 12074015c आश्चर्यशो वर्षति तत्र देव;स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति 12074016a स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम् 12074016c राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य 12074017a पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः 12074017c पापैः पापाः संजनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति 12074018 ऐल उवाच 12074018a कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम् 12074018c एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः 12074019 कश्यप उवाच 12074019a आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति 12074019c वातोत्पातैः सदृशं रुद्रमाहु;र्दावैर्जीमूतैः सदृशं रूपमस्य 12074020 ऐल उवाच 12074020a न वै वातं परिवृनोति कश्चि;न्न जीमूतो वर्षति नैव दावः 12074020c तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च 12074021 कश्यप उवाच 12074021a यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् 12074021c विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः 12074022 ऐल उवाच 12074022a यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात् 12074022c कस्य हेतोः सुकृतं नाम कुर्या;द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् 12074023 कश्यप उवाच 12074023a असंत्यागात्पापकृतामपापां;स्तुल्यो दण्डः स्पृशते मिश्रभावात् 12074023c शुष्केणार्द्रं दह्यते मिश्रभावा;न्न मिश्रः स्यात्पापकृद्भिः कथंचित् 12074024 ऐल उवाच 12074024a साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः 12074024c साध्वसाधून्वातयतीह वायु;रापस्तथा साध्वसाधून्वहन्ति 12074025 कश्यप उवाच 12074025a एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र 12074025c प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् 12074026a पुण्यस्य लोको मधुमान्घृतार्चि;र्हिरण्यज्योतिरमृतस्य नाभिः 12074026c तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् 12074027a पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव 12074027c तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः 12074028a मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति 12074028c एवं ज्ञात्वा कार्य एवेह विद्वा;न्पुरोहितो नैकविद्यो नृपेण 12074029a तं चैवान्वभिषिच्येत तथा धर्मो विधीयते 12074029c अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः 12074030a पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः 12074030c ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् 12074031a तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् 12074031c सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः 12074032a अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि 12074032c ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते 12075001 भीष्म उवाच 12075001a योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते 12075001c योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते 12075002a यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत 12075002c दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते 12075003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12075003c मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च 12075004a मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः 12075004c जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् 12075005a ततो वैश्रवणो राजा रक्षांसि समवासृजत् 12075005c ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः 12075006a स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः 12075006c गर्हयामास विद्वांसं पुरोहितमरिंदमः 12075007a तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः 12075007c रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत 12075008a ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् 12075008c वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् 12075009a त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः 12075009c न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे 12075010a ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः 12075010c आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः 12075011a यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि 12075011c किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे 12075012a मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् 12075012c न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः 12075013a ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा 12075013c पृथग्बलविधानं च तल्लोकं परिरक्षति 12075014a तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् 12075014c अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् 12075015a ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् 12075015c तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप 12075016a ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् 12075016c नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत 12075017a नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव 12075017c प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् 12075018 मुचुकुन्द उवाच 12075018a नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव 12075018c बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये 12075019 भीष्म उवाच 12075019a ततो वैश्रवणो राजा विस्मयं परमं ययौ 12075019c क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम् 12075020a ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुंधराम् 12075020c बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः 12075021a एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते 12075021c जयत्यविजितामुर्वीं यशश्च महदश्नुते 12075022a नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः 12075022c तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् 12076001 युधिष्ठिर उवाच 12076001a यया वृत्त्या महीपालो विवर्धयति मानवान् 12076001c पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह 12076002 भीष्म उवाच 12076002a दानशीलो भवेद्राजा यज्ञशीलश्च भारत 12076002c उपवासतपःशीलः प्रजानां पालने रतः 12076003a सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् 12076003c उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् 12076004a राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते 12076004c यद्यदाचरते राजा तत्प्रजानां हि रोचते 12076005a नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु 12076005c निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् 12076006a यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः 12076006c चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 12076007a यदधीते यद्यजते यद्ददाति यदर्चति 12076007c राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् 12076008a यद्राष्ट्रेऽकुशलं किंचिद्राज्ञोऽरक्षयतः प्रजाः 12076008c चतुर्थं तस्य पापस्य राजा भारत विन्दति 12076009a अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः 12076009c कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि 12076009e तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते 12076010a प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि 12076010c स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता 12076011a सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा 12076011c न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु 12076012a ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् 12076012c तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः 12076013a पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः 12076013c नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् 12076014a न हि कामात्मना राज्ञा सततं शठबुद्धिना 12076014c नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः 12076015 युधिष्ठिर उवाच 12076015a नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् 12076015c धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते 12076016a तदलं मम राज्येन यत्र धर्मो न विद्यते 12076016c वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया 12076017a तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः 12076017c धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः 12076018 भीष्म उवाच 12076018a वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा 12076018c न च शुद्धानृशंस्येन शक्यं महदुपासितुम् 12076019a अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् 12076019c क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते 12076020a राजधर्मानवेक्षस्व पितृपैतामहोचितान् 12076020c नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि 12076021a न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः 12076021c प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्यसि 12076022a न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत 12076022c न चैतां प्राज्ञतां तात यया चरसि मेधया 12076023a शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् 12076023c माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत 12076024a नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते 12076024c पुत्रेष्वाशासते नित्यं पितरो दैवतानि च 12076025a दानमध्ययनं यज्ञः प्रजानां परिपालनम् 12076025c धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः 12076026a काले धुरि नियुक्तानां वहतां भार आहिते 12076026c सीदतामपि कौन्तेय न कीर्तिरवसीदति 12076027a समन्ततो विनियतो वहत्यस्खलितो हि यः 12076027c निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा 12076028a नैकान्तविनिपातेन विचचारेह कश्चन 12076028c धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः 12076029a अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् 12076029c कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः 12076030a यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् 12076030c योगक्षेमस्तदा राजन्कुशलायैव कल्पते 12076031a दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा 12076031c सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः 12076032a यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः 12076032c प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः 12076033 युधिष्ठिर उवाच 12076033a किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा 12076033c किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे 12076034 भीष्म उवाच 12076034a यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् 12076034c स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते 12076035a त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम 12076035c भव राजा जय स्वर्गं सतो रक्षासतो जहि 12076036a अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह 12076036c पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः 12076037a धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् 12076037c वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः 12077001 युधिष्ठिर उवाच 12077001a स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि 12077001c तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह 12077002 भीष्म उवाच 12077002a विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः 12077002c एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः 12077003a ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः 12077003c एते देवसमा राजन्ब्राह्मणानां भवन्त्युत 12077004a ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः 12077004c एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत 12077005a अश्वारोहा गजारोहा रथिनोऽथ पदातयः 12077005c एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत 12077006a जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः 12077006c एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत 12077007a अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः 12077007c तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् 12077008a आह्वायका देवलका नक्षत्रग्रामयाजकाः 12077008c एते ब्राह्मणचण्डाला महापथिकपञ्चमाः 12077009a एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः 12077009c ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च 12077010a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12077010c ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत 12077011a विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथंचन 12077011c नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया 12077012a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12077012c राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः 12077013a अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा 12077013c राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः 12077014a स चेन्नो परिवर्तेत कृतवृत्तिः परंतप 12077014c ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः 12078001 युधिष्ठिर उवाच 12078001a केषां राजा प्रभवति वित्तस्य भरतर्षभ 12078001c कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह 12078002 भीष्म उवाच 12078002a अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् 12078002c ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत 12078003a विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन 12078003c इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः 12078004a यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः 12078004c राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप 12078005a अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा 12078005c तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् 12078006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12078006c गीतं केकयराजेन ह्रियमाणेन रक्षसा 12078007a केकयानामधिपतिं रक्षो जग्राह दारुणम् 12078007c स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् 12078008 राजोवाच 12078008a न मे स्तेनो जनपदे न कदर्यो न मद्यपः 12078008c नानाहिताग्निर्नायज्वा मामकान्तरमाविशः 12078009a न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः 12078009c नानाहिताग्निर्विषये मामकान्तरमाविशः 12078010a नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम 12078010c अधीते नाव्रती कश्चिन्मामकान्तरमाविशः 12078011a अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च 12078011c ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः 12078012a पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः 12078012c ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः 12078013a न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः 12078013c नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः 12078014a ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः 12078014c क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः 12078015a कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया 12078015c अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः 12078016a संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः 12078016c मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः 12078017a त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः 12078017c मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः 12078018a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12078018c संविभक्तास्मि सर्वेषां मामकान्तरमाविशः 12078019a कुलदेशादिधर्माणां प्रथितानां यथाविधि 12078019c अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः 12078020a तपस्विनो मे विषये पूजिताः परिपालिताः 12078020c संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः 12078021a नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् 12078021c स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः 12078022a नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः 12078022c अनृत्विजं हुतं नास्ति मामकान्तरमाविशः 12078023a नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः 12078023c राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः 12078024a वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् 12078024c स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः 12078025a दानेन दिव्यानभिवाञ्छामि लोका;न्सत्येनाथो ब्राह्मणानां च गुप्त्या 12078025c शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः 12078026a न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरः 12078026c न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः 12078027a न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् 12078027c धर्मार्थं युध्यमानस्य मामकान्तरमाविशः 12078028a गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम 12078028c आशासते जना राष्ट्रे मामकान्तरमाविशः 12078029 राक्षस उवाच 12078029a यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे 12078029c तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् 12078030a येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय 12078030c न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् 12078031a येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् 12078031c प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः 12078032 भीष्म उवाच 12078032a तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः 12078032c आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते 12078033a तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः 12078033c नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् 12078034a य एवं वर्तते राजा पौरजानपदेष्विह 12078034c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12079001 युधिष्ठिर उवाच 12079001a व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत 12079001c कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा 12079002 भीष्म उवाच 12079002a अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् 12079002c कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये 12079003 युधिष्ठिर उवाच 12079003a कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते 12079003c ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ 12079004 भीष्म उवाच 12079004a सुरा लवणमित्येव तिलान्केसरिणः पशून् 12079004c ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर 12079005a सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् 12079005c एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् 12079006a अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् 12079006c धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन 12079007a पक्वेनामस्य निमयं न प्रशंसन्ति साधवः 12079007c निमयेत्पक्वमामेन भोजनार्थाय भारत 12079008a वयं सिद्धमशिष्यामो भवान्साधयतामिदम् 12079008c एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन 12079009a अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः 12079009c व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर 12079010a भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु 12079010c रुचिते वर्तते धर्मो न बलात्संप्रवर्तते 12079011a इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः 12079011c ऋषीणामितरेषां च साधु चेदमसंशयम् 12079012 युधिष्ठिर उवाच 12079012a अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः 12079012c व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् 12079013a राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम् 12079013c एतन्मे संशयं ब्रूहि विस्तरेण पितामह 12079014 भीष्म उवाच 12079014a दानेन तपसा यज्ञैरद्रोहेण दमेन च 12079014c ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः 12079015a तेषां ये वेदबलिनस्त उत्थाय समन्ततः 12079015c राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः 12079016a राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् 12079016c तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता 12079017a यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् 12079017c तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु 12079018a उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते 12079018c सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर 12079019 युधिष्ठिर उवाच 12079019a अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति 12079019c कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम् 12079020 भीष्म उवाच 12079020a तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च 12079020c अमायया मायया च नियन्तव्यं तदा भवेत् 12079021a क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः 12079021c ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् 12079022a अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् 12079022c तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति 12079023a यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते 12079023c क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः 12079024a तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर 12079024c समुदीर्णान्यजेयानि तेजांसि च बलानि च 12079025a ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले 12079025c दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः 12079026a ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः 12079026c ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च 12079027a मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते 12079027c ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते 12079028a अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् 12079028c अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम् 12079028e एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः 12079029a तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति 12079029c ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता 12079029e ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत् 12079030a यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत 12079030c दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे 12079031a भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि 12079031c कारणाद्देशकालस्य देशकालः स तादृशः 12079032a मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् 12079032c धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् 12079033a ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति 12079033c आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च 12079034 युधिष्ठिर उवाच 12079034a अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे 12079034c संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली 12079035a ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम 12079035c दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन् 12079036a कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा 12079036c न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः 12079037 भीष्म उवाच 12079037a अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत् 12079037c शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति 12079038a यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् 12079038c अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः 12079039a तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम् 12079039c महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति 12079040a किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया 12079040c वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता 12079041a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 12079041c यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम् 12079042a एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता 12079042c न वर्षति च यो मेघः सर्व एते निरर्थकाः 12079043a नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत् 12079043c स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् 12080001 युधिष्ठिर उवाच 12080001a क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह 12080001c कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर 12080002 भीष्म उवाच 12080002a प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते 12080002c आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च 12080003a ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः 12080003c परस्परस्य सुहृदः संमताः समदर्शिनः 12080004a येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम् 12080004c अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः 12080005a ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः 12080005c अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः 12080006a अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति 12080006c एते महर्त्विजस्तात सर्वे मान्या यथातथम् 12080007 युधिष्ठिर उवाच 12080007a यदिदं वेदवचनं दक्षिणासु विधीयते 12080007c इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते 12080008a नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः 12080008c आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते 12080009a श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः 12080009c मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति 12080010 भीष्म उवाच 12080010a न वेदानां परिभवान्न शाठ्येन न मायया 12080010c कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी 12080011a यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम् 12080011c न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन 12080012a शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत् 12080012c अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि 12080013a सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः 12080013c तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते 12080013e तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते 12080014a इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः 12080014c पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् 12080014e अन्यायवृत्तः पुरुषो न परस्य न चात्मनः 12080015a शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः 12080015c तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् 12080016a तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः 12080016c तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु 12080017a अहिंसा सत्यवचनमानृशंस्यं दमो घृणा 12080017c एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् 12080018a अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 12080018c अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः 12080019a निबोध दशहोतॄणां विधानं पार्थ यादृशम् 12080019c चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् 12080020a सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् 12080020c एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति 12081001 युधिष्ठिर उवाच 12081001a यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् 12081001c पुरुषेणासहायेन किमु राज्यं पितामह 12081002a किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत् 12081002c कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् 12081003 भीष्म उवाच 12081003a चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत 12081003c सहार्थो भजमानश्च सहजः कृत्रिमस्तथा 12081004a धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः 12081004c यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् 12081005a यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत् 12081005c धर्माधर्मेण राजानश्चरन्ति विजिगीषवः 12081006a चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ 12081006c सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः 12081007a न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे 12081007c प्रमादिनं हि राजानं लोकाः परिभवन्त्युत 12081008a असाधुः साधुतामेति साधुर्भवति दारुणः 12081008c अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति 12081009a अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत् 12081009c तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् 12081010a एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः 12081010c अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते 12081011a अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते 12081011c यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति 12081012a तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित् 12081012c एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी 12081013a यं मन्येत ममाभावादिममर्थागमः स्पृशेत् 12081013c नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः 12081014a यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति 12081014c न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः 12081015a तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति 12081015c यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् 12081016a यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत् 12081016c एतदुत्तममित्रस्य निमित्तमभिचक्षते 12081017a यं मन्येत ममाभावादस्याभावो भवेदिति 12081017c तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा 12081018a तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत् 12081018c नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु 12081019a क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम् 12081019c ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः 12081020a व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते 12081020c यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते 12081021a रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः 12081021c कुलीनः शीलसंपन्नः स ते स्यात्प्रत्यनन्तरः 12081022a मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान् 12081022c यो मानितोऽमानितो वा न संदूष्येत्कदाचन 12081023a ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः 12081023c गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः 12081024a स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः 12081024c विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा 12081025a नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम् 12081025c एकार्थादेव भूतानां भेदो भवति सर्वदा 12081026a कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः 12081026c समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः 12081027a यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत् 12081027c दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः 12081028a शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः 12081028c कुलीनः शीलसंपन्नस्तितिक्षुरनसूयकः 12081029a एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः 12081029c पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः 12081030a कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु 12081030c युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च 12081031a एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा 12081031c अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् 12081032a ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा 12081032c उपराजेव राजर्धिं ज्ञातिर्न सहते सदा 12081033a ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः 12081033c नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति 12081034a अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम् 12081034c अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत 12081035a निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम् 12081035c नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन 12081036a आत्मानमेव जानाति निकृतं बान्धवैरपि 12081036c तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते 12081037a नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति 12081037c उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च 12081038a तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा 12081038c कुर्याच्च प्रियमेतेभ्यो नाप्रियं किंचिदाचरेत् 12081039a विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा 12081039c न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते 12081040a तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः 12081040c अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि 12081041a य एवं वर्तते नित्यं ज्ञातिसंबन्धिमण्डले 12081041c मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति 12082001 युधिष्ठिर उवाच 12082001a एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले 12082001c मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते 12082002 भीष्म उवाच 12082002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12082002c वासुदेवस्य संवादं सुरर्षेर्नारदस्य च 12082003 वासुदेव उवाच 12082003a नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम् 12082003c अपण्डितो वापि सुहृत्पण्डितो वापि नात्मवान् 12082004a स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद 12082004c कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे त्रिदिवंगम 12082005a दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् 12082005c अर्धभोक्तास्मि भोगानां वाग्दुरुक्तानि च क्षमे 12082006a अरणीमग्निकामो वा मथ्नाति हृदयं मम 12082006c वाचा दुरुक्तं देवर्षे तन्मे दहति नित्यदा 12082007a बलं संकर्षणे नित्यं सौकुमार्यं पुनर्गदे 12082007c रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद 12082008a अन्ये हि सुमहाभागा बलवन्तो दुरासदाः 12082008c नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः 12082009a यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छ्रमेव तत् 12082009c द्वाभ्यां निवारितो नित्यं वृणोम्येकतरं न च 12082010a स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः 12082010c यस्य वापि न तौ स्यातां किं नु दुःखतरं ततः 12082011a सोऽहं कितवमातेव द्वयोरपि महामुने 12082011c एकस्य जयमाशंसे द्वितीयस्यापराजयम् 12082012a ममैवं क्लिश्यमानस्य नारदोभयतः सदा 12082012c वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा 12082013 नारद उवाच 12082013a आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह 12082013c प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वान्यतः 12082014a सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा 12082014c अक्रूरभोजप्रभवाः सर्वे ह्येते तदन्वयाः 12082015a अर्थहेतोर्हि कामाद्वाद्वारा बीभत्सयापि वा 12082015c आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् 12082016a कृतमूलमिदानीं तज्जातशब्दं सहायवत् 12082016c न शक्यं पुनरादातुं वान्तमन्नमिव त्वया 12082017a बभ्रूग्रसेनयो राज्यं नाप्तुं शक्यं कथंचन 12082017c ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः 12082018a तच्चेत्सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् 12082018c महाक्षयव्ययं वा स्याद्विनाशो वा पुनर्भवेत् 12082019a अनायसेन शस्त्रेण मृदुना हृदयच्छिदा 12082019c जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च 12082020 वासुदेव उवाच 12082020a अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् 12082020c येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च 12082021 नारद उवाच 12082021a शक्त्यान्नदानं सततं तितिक्षा दम आर्जवम् 12082021c यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् 12082022a ज्ञातीनां वक्तुकामानां कटूनि च लघूनि च 12082022c गिरा त्वं हृदयं वाचं शमयस्व मनांसि च 12082023a नामहापुरुषः कश्चिन्नानात्मा नासहायवान् 12082023c महतीं धुरमादत्ते तामुद्यम्योरसा वह 12082024a सर्व एव गुरुं भारमनड्वान्वहते समे 12082024c दुर्गे प्रतीकः सुगवो भारं वहति दुर्वहम् 12082025a भेदाद्विनाशः संघानां संघमुख्योऽसि केशव 12082025c यथा त्वां प्राप्य नोत्सीदेदयं संघस्तथा कुरु 12082026a नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् 12082026c नान्यत्र धनसंत्यागाद्गणः प्राज्ञेऽवतिष्ठते 12082027a धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम् 12082027c ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु 12082028a आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो 12082028c षाड्गुण्यस्य विधानेन यात्रायानविधौ तथा 12082029a माधवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः 12082029c त्वय्यासक्ता महाबाहो लोका लोकेश्वराश्च ये 12082030a उपासते हि त्वद्बुद्धिमृषयश्चापि माधव 12082030c त्वं गुरुः सर्वभूतानां जानीषे त्वं गतागतम् 12082030e त्वामासाद्य यदुश्रेष्ठमेधन्ते ज्ञातिनः सुखम् 12083001 भीष्म उवाच 12083001a एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत 12083001c यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः 12083002a ह्रियमाणममात्येन भृतो वा यदि वाभृतः 12083002c यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर 12083003a श्रोतव्यं तस्य च रहो रक्ष्यश्चामात्यतो भवेत् 12083003c अमात्या ह्युपहन्तारं भूयिष्ठं घ्नन्ति भारत 12083004a राजकोशस्य गोप्तारं राजकोशविलोपकाः 12083004c समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः 12083005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12083005c मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह 12083006a कोसलानामाधिपत्यं संप्राप्ते क्षेमदर्शिनि 12083006c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12083007a स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः 12083007c पूर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः 12083008a अधीये वायसीं विद्यां शंसन्ति मम वायसाः 12083008c अनागतमतीतं च यच्च संप्रति वर्तते 12083009a इति राष्ट्रे परिपतन्बहुशः पुरुषैः सह 12083009c सर्वेषां राजयुक्तानां दुष्कृतं परिपृष्टवान् 12083010a स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः 12083010c राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः 12083011a तमेव काकमादाय राजानं द्रष्टुमागमत् 12083011c सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः 12083012a स स्म कौसल्यमागम्य राजामात्यमलंकृतम् 12083012c प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् 12083013a असौ चासौ च जानीते राजकोशस्त्वया हृतः 12083013c एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् 12083014a तथान्यानपि स प्राह राजकोशहरान्सदा 12083014c न चास्य वचनं किंचिदकृतं श्रूयते क्वचित् 12083015a तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह 12083015c तमतिक्रम्य सुप्तस्य निशि काकमपोथयन् 12083016a वायसं तु विनिर्भिन्नं दृष्ट्वा बाणेन पञ्जरे 12083016c पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् 12083017a राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् 12083017c अनुज्ञातस्त्वया ब्रूयां वचनं त्वत्पुरो हितम् 12083018a मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मना गतः 12083018c अयं तवार्थं हरते यो ब्रूयादक्षमान्वितः 12083019a संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः 12083019c अतिमन्युप्रसक्तो हि प्रसज्य हितकारणम् 12083020a तथाविधस्य सुहृदः क्षन्तव्यं संविजानता 12083020c ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता 12083021a तं राजा प्रत्युवाचेदं यन्मा किंचिद्भवान्वदेत् 12083021c कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् 12083022a ब्राह्मण प्रतिजानीहि प्रब्रूहि यदि चेच्छसि 12083022c करिष्यामि हि ते वाक्यं यद्यन्मां विप्र वक्ष्यसि 12083023 मुनिरुवाच 12083023a ज्ञात्वा नयानपायांश्च भृत्यतस्ते भयानि च 12083023c भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागमम् 12083024a प्रागेवोक्तश्च दोषोऽयमाचार्यैर्नृपसेविनाम् 12083024c अगतीकगतिर्ह्येषा या राज्ञा सह जीविका 12083025a आशीविषैश्च तस्याहुः संगतं यस्य राजभिः 12083025c बहुमित्राश्च राजानो बह्वमित्रास्तथैव च 12083026a तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपसेविनाम् 12083026c अथैषामेकतो राजन्मुहूर्तादेव भीर्भवेत् 12083027a नैकान्तेनाप्रमादो हि कर्तुं शक्यो महीपतौ 12083027c न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता 12083028a प्रमादाद्धि स्खलेद्राजा स्खलिते नास्ति जीवितम् 12083028c अग्निं दीप्तमिवासीदेद्राजानमुपशिक्षितः 12083029a आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् 12083029c यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः 12083030a दुर्व्याहृताच्छङ्कमानो दुष्कृताद्दुरधिष्ठितात् 12083030c दुरासिताद्दुर्व्रजितादिङ्गितादङ्गचेष्टितात् 12083031a देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः 12083031c वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् 12083031e इति राजन्मयः प्राह वर्तते च तथैव तत् 12083032a अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः 12083032c ददात्यस्मद्विधोऽमात्यो बुद्धिसाहाय्यमापदि 12083033a वायसश्चैव मे राजन्नन्तकायाभिसंहितः 12083033c न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः 12083033e हिताहितांस्तु बुध्येथा मा परोक्षमतिर्भव 12083034a ये त्वादानपरा एव वसन्ति भवतो गृहे 12083034c अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् 12083035a ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तरम् 12083035c अन्तरैरभिसंधाय राजन्सिध्यन्ति नान्यथा 12083036a तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् 12083036c तैर्हि मे संधितो बाणः काके निपतितः प्रभो 12083037a छद्मना मम काकश्च गमितो यमसादनम् 12083037c दृष्टं ह्येतन्मया राजंस्तपोदीर्घेण चक्षुषा 12083038a बहुनक्रझषग्राहां तिमिंगिलगणायुताम् 12083038c काकेन बडिशेनेमामतार्षं त्वामहं नदीम् 12083039a स्थाण्वश्मकण्टकवतीं व्याघ्रसिंहगजाकुलाम् 12083039c दुरासदां दुष्प्रवेशां गुहां हैमवतीमिव 12083040a अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते 12083040c राजदुर्गावतरणे नोपायं पण्डिता विदुः 12083041a गहनं भवतो राज्यमन्धकारतमोवृतम् 12083041c नेह विश्वसितुं शक्यं भवतापि कुतो मया 12083042a अतो नायं शुभो वासस्तुल्ये सदसती इह 12083042c वधो ह्येवात्र सुकृते दुष्कृते न च संशयः 12083043a न्यायतो दुष्कृते घातः सुकृते स्यात्कथं वधः 12083043c नेह युक्तं चिरं स्थातुं जवेनातो व्रजेद्बुधः 12083044a सीता नाम नदी राजन्प्लवो यस्यां निमज्जति 12083044c तथोपमामिमां मन्ये वागुरां सर्वघातिनीम् 12083045a मधुप्रपातो हि भवान्भोजनं विषसंयुतम् 12083045c असतामिव ते भावो वर्तते न सतामिव 12083045e आशीविषैः परिवृतः कूपस्त्वमिव पार्थिव 12083046a दुर्गतीर्था बृहत्कूला करीरीवेत्रसंयुता 12083046c नदी मधुरपानीया यथा राजंस्तथा भवान् 12083046e श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि 12083047a यथाश्रित्य महावृक्षं कक्षः संवर्धते महान् 12083047c ततस्तं संवृणोत्येव तमतीत्य च वर्धते 12083048a तेनैवोपेन्धनो नूनं दावो दहति दारुणः 12083048c तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय 12083049a भवतैव कृता राजन्भवता परिपालिताः 12083049c भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् 12083050a उषितं शङ्कमानेन प्रमादं परिरक्षता 12083050c अन्तःसर्प इवागारे वीरपत्न्या इवालये 12083050e शीलं जिज्ञासमानेन राज्ञश्च सहजीविना 12083051a कच्चिज्जितेन्द्रियो राजा कच्चिदभ्यन्तरा जिताः 12083051c कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः 12083052a जिज्ञासुरिह संप्राप्तस्तवाहं राजसत्तम 12083052c तस्य मे रोचसे राजन्क्षुधितस्येव भोजनम् 12083053a अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् 12083053c भवतोऽर्थकृदित्येव मयि दोषो हि तैः कृतः 12083053e विद्यते कारणं नान्यदिति मे नात्र संशयः 12083054a न हि तेषामहं द्रुग्धस्तत्तेषां दोषवद्गतम् 12083054c अरेर्हि दुर्हताद्भेयं भग्नपृष्ठादिवोरगात् 12083055 राजोवाच 12083055a भूयसा परिबर्हेण सत्कारेण च भूयसा 12083055c पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम 12083056a ये त्वां ब्राह्मण नेच्छन्ति न ते वत्स्यन्ति मे गृहे 12083056c भवतैव हि तज्ज्ञेयं यदिदानीमनन्तरम् 12083057a यथा स्याद्दुष्कृतो दण्डो यथा च सुकृतं कृतम् 12083057c तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् 12083058 मुनिरुवाच 12083058a अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु 12083058c ततः कारणमाज्ञाय पुरुषं पुरुषं जहि 12083059a एकदोषा हि बहवो मृद्नीयुरपि कण्टकान् 12083059c मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते 12083060a वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः 12083060c स्वस्ति चेच्छामि भवतः परेषां च यथात्मनः 12083061a राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् 12083061c मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः 12083062a पितुः सखा च भवतः संमतः सत्यसंगरः 12083062c व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते 12083063a सर्वकामान्परित्यज्य तपस्तप्तं तदा मया 12083063c स्नेहात्त्वां प्रब्रवीम्येतन्मा भूयो विभ्रमेदिति 12083064a उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया 12083064c राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि 12083065 भीष्म उवाच 12083065a ततो राजकुले नान्दी संजज्ञे भूयसी पुनः 12083065c पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे 12083066a एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने 12083066c मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः 12083067a हितं तद्वचनं श्रुत्वा कौसल्योऽन्वशिषन्महीम् 12083067c तथा च कृतवान्राजा यथोक्तं तेन भारत 12084001 भीष्म उवाच 12084001a ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः 12084001c शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः 12084002a अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् 12084002c सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु 12084003a एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत 12084003c कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति 12084004a प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा 12084004c आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः 12084005a कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः 12084005c प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः 12084006a दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः 12084006c ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः 12084007a अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् 12084007c यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः 12084008a अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः 12084008c न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः 12084009a अनार्या ये न जानन्ति समयं मन्दचेतसः 12084009c तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् 12084010a नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः 12084010c यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् 12084011a श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते 12084011c कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति 12084012a समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः 12084012c न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् 12084013a अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता 12084013c स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः 12084014a कुलीनः सत्यसंपन्नस्तितिक्षुर्दक्ष आत्मवान् 12084014c शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् 12084015a तस्यैवं वर्तमानस्य पुरुषस्य विजानतः 12084015c अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्यपि 12084016a अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् 12084016c संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः 12084017a संबद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः 12084017c अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः 12084018a योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः 12084018c कर्तव्या भूतिकामेन पुरुषेण बुभूषता 12084019a येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना 12084019c तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः 12084020a परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान् 12084020c पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः 12084021a पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् 12084021c कुलीनान्सत्यसंपन्नानिङ्गितज्ञाननिष्ठुरान् 12084022a देशकालविधानज्ञान्भर्तृकार्यहितैषिणः 12084022c नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः 12084023a हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति 12084023c अवश्यं जनयत्येव सर्वकर्मसु संशयान् 12084024a एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत 12084024c धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् 12084025a तथैवानभिजातोऽपि काममस्तु बहुश्रुतः 12084025c अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु 12084026a यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः 12084026c उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् 12084027a केवलात्पुनराचारात्कर्मणो नोपपद्यते 12084027c परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः 12084028a मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते 12084028c तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् 12084029a व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः 12084029c मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् 12084030a संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति 12084030c वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति 12084031a तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् 12084031c मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः 12084032a यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया 12084032c समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् 12084033a अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः 12084033c राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति 12084034a योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते 12084034c स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति 12084035a अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः 12084035c स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति 12084036a आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः 12084036c सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति 12084037a यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् 12084037c पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति 12084038a कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः 12084038c सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति 12084039a ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः 12084039c सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति 12084040a सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः 12084040c पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति 12084041a संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः 12084041c मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति 12084042a सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे 12084042c तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप 12084043a पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः 12084043c योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति 12084044a तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः 12084044c मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः 12084045a स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च 12084045c मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते 12084046a नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् 12084046c गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः 12084047a मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः 12084047c मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः 12084048a राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते 12084048c स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः 12084049a स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः 12084049c नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः 12084050a तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र 12084050c स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले 12084051a धर्मार्थकामज्ञमुपेत्य पृच्छे;द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् 12084051c निष्ठा कृता तेन यदा सह स्या;त्तं तत्र मार्गं प्रणयेदसक्तम् 12084052a एवं सदा मन्त्रयितव्यमाहु;र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः 12084052c तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासंग्रहणे समर्थम् 12084053a न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च 12084053c न चात्र तिर्यङ्न पुरो न पश्चा;न्नोर्ध्वं न चाधः प्रचरेत कश्चित् 12084054a आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम् 12084054c वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम् 12085001 भीष्म उवाच 12085001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12085001c बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर 12085002 शक्र उवाच 12085002a किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् 12085002c प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् 12085003 बृहस्पतिरुवाच 12085003a सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् 12085003c प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् 12085004a एतदेकपदं शक्र सर्वलोकसुखावहम् 12085004c आचरन्सर्वभूतेषु प्रियो भवति सर्वदा 12085005a यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः 12085005c द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् 12085006a यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते 12085006c स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति 12085007a दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् 12085007c न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् 12085008a अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् 12085008c सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे 12085009a तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह 12085009c फलं च जनयत्येवं न चास्योद्विजते जनः 12085010a सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च 12085010c सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते 12085011 भीष्म उवाच 12085011a इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा 12085011c तथा त्वमपि कौन्तेय सम्यगेतत्समाचर 12086001 युधिष्ठिर उवाच 12086001a कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः 12086001c प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् 12086002 भीष्म उवाच 12086002a व्यवहारेण शुद्धेन प्रजापालनतत्परः 12086002c प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः 12086003 युधिष्ठिर उवाच 12086003a कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः 12086003c एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि 12086004a ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति 12086004c नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः 12086005 भीष्म उवाच 12086005a एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान् 12086005c दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः 12086006a किं तु संक्षेपतः शीलं प्रयत्ने नेह दुर्लभम् 12086006c वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि 12086007a चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन् 12086007c त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके 12086008a अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत् 12086008c पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् 12086009a मतिस्मृतिसमायुक्तं विनीतं समदर्शनम् 12086009c कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् 12086010a विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम् 12086010c अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् 12086011a ततः संप्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत् 12086011c अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा 12086012a न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम् 12086012c कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् 12086013a विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव 12086013c परिस्रवेच्च सततं नौर्विशीर्णेव सागरे 12086014a प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः 12086014c हार्दं भयं संभवति स्वर्गश्चास्य विरुध्यते 12086015a अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः 12086015c धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ 12086016a कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः 12086016c आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः 12086017a बलात्कृतानां बलिभिः कृपणं बहु जल्पताम् 12086017c नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् 12086018a ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत् 12086018c असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः 12086019a अपराधानुरूपं च दण्डं पापेषु पातयेत् 12086019c उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः 12086020a विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः 12086020c सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् 12086021a राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् 12086021c आजीवकस्य स्तेनस्य वर्णसंकरकस्य च 12086022a सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते 12086022c युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः 12086023a कामकारेण दण्डं तु यः कुर्यादविचक्षणः 12086023c स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् 12086024a न परस्य श्रवादेव परेषां दण्डमर्पयेत् 12086024c आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा 12086025a न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि 12086025c दूतस्य हन्ता निरयमाविशेत्सचिवैः सह 12086026a यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः 12086026c यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः 12086027a कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः 12086027c यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः 12086028a एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता 12086028c शिरोरक्षश्च भवति गुणैरेतैः समन्वितः 12086029a धर्मार्थशास्त्रतत्त्वज्ञः संधिविग्रहको भवेत् 12086029c मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता 12086030a कुलीनः सत्यसंपन्नः शक्तोऽमात्यः प्रशंसितः 12086030c एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् 12086031a व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः 12086031c वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् 12086032a विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित् 12086032c पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते 12086033a एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ 12086033c अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते 12087001 युधिष्ठिर उवाच 12087001a कथंविधं पुरं राजा स्वयमावस्तुमर्हति 12087001c कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह 12087002 भीष्म उवाच 12087002a यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना 12087002c न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत 12087003a तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः 12087003c श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः 12087004a षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् 12087004c सर्वसंपत्प्रधानं यद्बाहुल्यं वापि संभवेत् 12087005a धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च 12087005c मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् 12087006a यत्पुरं दुर्गसंपन्नं धान्यायुधसमन्वितम् 12087006c दृढप्राकारपरिखं हस्त्यश्वरथसंकुलम् 12087007a विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः 12087007c धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः 12087008a ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् 12087008c प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् 12087009a सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम् 12087009c शूराढ्यजनसंपन्नं ब्रह्मघोषानुनादितम् 12087010a समाजोत्सवसंपन्नं सदापूजितदैवतम् 12087010c वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् 12087011a तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत् 12087011c पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् 12087012a भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत् 12087012c निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् 12087013a काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान् 12087013c मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च 12087014a शणं सर्जरसं धान्यमायुधानि शरांस्तथा 12087014c चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् 12087015a आशयाश्चोदपानाश्च प्रभूतसलिला वराः 12087015c निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः 12087016a सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः 12087016c महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः 12087017a प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः 12087017c कुलीनाः सत्त्वसंपन्ना युक्ताः सर्वेषु कर्मसु 12087018a पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान् 12087018c नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु 12087019a बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम् 12087019c चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् 12087020a चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः 12087020c अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् 12087021a उदासीनारिमित्राणां सर्वमेव चिकीर्षितम् 12087021c पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा 12087022a ततस्तथा विधातव्यं सर्वमेवाप्रमादतः 12087022c भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता 12087023a यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया 12087023c प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् 12087024a कृपणानाथवृद्धानां विधवानां च योषिताम् 12087024c योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् 12087025a आश्रमेषु यथाकालं चेलभाजनभोजनम् 12087025c सदैवोपहरेद्राजा सत्कृत्यानवमन्य च 12087026a आत्मानं सर्वकार्याणि तापसे राज्यमेव च 12087026c निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा 12087027a सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् 12087027c पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः 12087028a तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि 12087028c तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः 12087029a तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च 12087029c न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् 12087030a अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः 12087030c अटवीष्वपरः कार्यः सामन्तनगरेषु च 12087031a तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् 12087031c परराष्ट्राटवीस्थेषु यथा स्वविषये तथा 12087032a ते कस्यांचिदवस्थायां शरणं शरणार्थिने 12087032c राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः 12087033a एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः 12087033c यादृशं नगरं राजा स्वयमावस्तुमर्हति 12088001 युधिष्ठिर उवाच 12088001a राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च संग्रहम् 12088001c सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12088002 भीष्म उवाच 12088002a राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च संग्रहम् 12088002c हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु 12088003a ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः 12088003c द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् 12088004a ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् 12088004c तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै 12088005a सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने 12088005c ग्रामाणां शतपालाय सर्वमेव निवेदयेत् 12088006a यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् 12088006c दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः 12088007a ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः 12088007c महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम् 12088007e तत्र ह्यनेकमायत्तं राज्ञो भवति भारत 12088008a शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् 12088008c धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः 12088009a तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् 12088009c धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः 12088010a नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः 12088010c उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः 12088010e भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् 12088011a विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् 12088011c योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत्करान् 12088012a उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् 12088012c शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् 12088013a उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर 12088013c यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः 12088014a फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् 12088014c फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तयेत् 12088015a यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ 12088015c समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः 12088016a नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया 12088016c ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः 12088017a प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् 12088017c प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम् 12088018a वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना 12088018c भृतो वत्सो जातबलः पीडां सहति भारत 12088019a न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर 12088019c राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् 12088020a यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः 12088020c संजातमुपजीवन्स लभते सुमहत्फलम् 12088021a आपदर्थं हि निचयान्राजान इह चिन्वते 12088021c राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा 12088022a पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा 12088022c यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि 12088023a बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् 12088023c एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः 12088024a प्रागेव तु करादानमनुभाष्य पुनः पुनः 12088024c संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् 12088025a इयमापत्समुत्पन्ना परचक्रभयं महत् 12088025c अपि नान्ताय कल्पेत वेणोरिव फलागमः 12088026a अरयो मे समुत्थाय बहुभिर्दस्युभिः सह 12088026c इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् 12088027a अस्यामापदि घोरायां संप्राप्ते दारुणे भये 12088027c परित्राणाय भवतां प्रार्थयिष्ये धनानि वः 12088028a प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये 12088028c नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः 12088029a कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि 12088029c अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते 12088030a नन्दामि वः प्रभावेन पुत्राणामिव चोदये 12088030c यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः 12088031a आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव 12088031c न वः प्रियतरं कार्यं धनं कस्यांचिदापदि 12088032a इति वाचा मधुरया श्लक्ष्णया सोपचारया 12088032c स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् 12088033a प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् 12088033c योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत्करान् 12088034a उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः 12088034c तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् 12088035a सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः 12088035c गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च 12088036a अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः 12088036c प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा 12088037a तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः 12088037c दयावानप्रमत्तश्च करान्संप्रणयन्मृदून् 12088038a सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः 12088038c न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर 12089001 युधिष्ठिर उवाच 12089001a यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते 12089001c कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह 12089002 भीष्म उवाच 12089002a यथादेशं यथाकालमपि चैव यथाबलम् 12089002c अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः 12089003a यथा तासां च मन्येत श्रेय आत्मन एव च 12089003c तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् 12089004a मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् 12089004c वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् 12089005a जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप 12089005c व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति 12089006a अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् 12089006c ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् 12089007a दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् 12089007c मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् 12089008a सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः 12089008c उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः 12089009a तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः 12089009c यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः 12089010a ततस्तान्भेदयित्वाथ परस्परविवक्षितान् 12089010c भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः 12089011a न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् 12089011c आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि 12089012a उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता 12089012c अनुपायेन दमयन्प्रकोपयति वाजिनः 12089013a पानागाराणि वेशाश्च वेशप्रापणिकास्तथा 12089013c कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः 12089014a नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः 12089014c एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः 12089015a न केनचिद्याचितव्यः कश्चित्किंचिदनापदि 12089015c इति व्यवस्था भूतानां पुरस्तान्मनुना कृता 12089016a सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह 12089016c सर्व एव त्रयो लोका न भवेयुरसंशयम् 12089017a प्रभुर्नियमने राजा य एतान्न नियच्छति 12089017c भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः 12089017e तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते 12089018a स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः 12089018c कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् 12089019a आपद्येव तु याचेरन्येषां नास्ति परिग्रहः 12089019c दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना 12089020a मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः 12089020c इष्टादातार एवैते नैते भूतस्य भावकाः 12089021a ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः 12089021c ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः 12089022a दण्ड्यास्ते च महाराज धनादानप्रयोजनाः 12089022c प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा 12089023a कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् 12089023c पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः 12089024a नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः 12089024c संशयं लभते किंचित्तेन राजा विगर्ह्यते 12089025a धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः 12089025c वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह 12089026a अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत 12089026c ककुदं सर्वभूतानां धनस्थो नात्र संशयः 12089027a प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च 12089027c तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति 12089028a तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव 12089028c सत्यमार्जवमक्रोधमानृशंस्यं च पालय 12089029a एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे 12089029c सत्यार्जवपरो राजन्मित्रकोशसमन्वितः 12090001 भीष्म उवाच 12090001a वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव 12090001c ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः 12090002a ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः 12090002c न ब्राह्मणोपरोधेन हरेदन्यः कथंचन 12090003a विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः 12090003c परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप 12090004a स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि 12090004c कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति 12090005a असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् 12090005c पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् 12090006a आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् 12090006c निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् 12090007a कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् 12090007c ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत 12090008a तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः 12090008c दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् 12090009a शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप 12090009c युध्यस्व समरे वीरो भूत्वा कौरवनन्दन 12090010a संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः 12090010c ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन 12090011a सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर 12090011c तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः 12090012a अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान् 12090012c परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा 12090013a आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम् 12090013c आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः 12090014a किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम् 12090014c कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् 12090015a गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत् 12090015c सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः 12090015e कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः 12090016a धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् 12090016c राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः 12090017a अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः 12090017c ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः 12090017e सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर 12090018a एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् 12090018c मित्रामित्रमथो मध्यं सर्वभूतेषु भारत 12090019a तुल्यबाहुबलानां च गुणैरपि निषेविनाम् 12090019c कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् 12090020a ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा 12090020c आशीविषा इव क्रुद्धा भुजगा भुजगानिव 12090021a एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर 12090021c भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः 12090022a कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः 12090022c क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः 12090023a कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः 12090023c ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि 12090024a इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा 12090024c मनुष्योरगरक्षांसि वयांसि पशवस्तथा 12090025a एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत 12090025c एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव 12091001 भीष्म उवाच 12091001a यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः 12091001c मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत 12091002a स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः 12091002c तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर 12091003 उतथ्य उवाच 12091003a धर्माय राजा भवति न कामकरणाय तु 12091003c मान्धातरेवं जानीहि राजा लोकस्य रक्षिता 12091004a राजा चरति वै धर्मं देवत्वायैव गच्छति 12091004c न चेद्धर्मं स चरति नरकायैव गच्छति 12091005a धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति 12091005c तं राजा साधु यः शास्ति स राजा पृथिवीपतिः 12091006a राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते 12091006c देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते 12091007a अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते 12091007c तदेव मङ्गलं सर्वं लोकः समनुवर्तते 12091008a उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् 12091008c भयमाहुर्दिवारात्रं यदा पापो न वार्यते 12091009a न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः 12091009c न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते 12091010a वध्यानामिव सर्वेषां मनो भवति विह्वलम् 12091010c मनुष्याणां महाराज यदा पापो न वार्यते 12091011a उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् 12091011c असृजन्सुमहद्भूतमयं धर्मो भविष्यति 12091012a यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते 12091012c यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः 12091013a वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् 12091013c वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् 12091014a धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा 12091014c तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् 12091015a धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः 12091015c अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः 12091016a प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा 12091016c तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् 12091017a तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः 12091017c स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः 12091018a कामक्रोधावनादृत्य धर्ममेवानुपालयेत् 12091018c धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम 12091019a धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा 12091019c ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी 12091020a तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् 12091020c मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि 12091021a ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः 12091021c अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी 12091022a ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् 12091022c अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे 12091023a एतत्फलमसूयाया अभिमानस्य चाभिभो 12091023c तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी 12091024a दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः 12091024c तेन देवासुरा राजन्नीताः सुबहुशो वशम् 12091025a राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव 12091025c राजा भवति तं जित्वा दासस्तेन पराजितः 12091026a स यथा दर्पसहितमधर्मं नानुसेवसे 12091026c तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि 12091027a मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः 12091027c तदभ्यासादुपावर्तादहितानां च सेवनात् 12091028a निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः 12091028c पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् 12091029a एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत् 12091029c अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् 12091030a अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च 12091030c परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः 12091031a कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् 12091031c अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः 12091032a एते चान्ये च जायन्ते यदा राजा प्रमाद्यति 12091032c तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते 12091033a क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् 12091033c अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः 12091034a अशीते विद्यते शीतं शीते शीतं न विद्यते 12091034c अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः 12091035a नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे 12091035c उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः 12091036a अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति 12091036c प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति 12091037a द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे 12091037c कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम् 12091038a ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते 12091038c त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति 12092001 उतथ्य उवाच 12092001a कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः 12092001c संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः 12092002a यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् 12092002c रक्तानि वा शोधयितुं यथा नास्ति तथैव सः 12092003a एवमेव द्विजेन्द्राणां क्षत्रियाणां विशामपि 12092003c शूद्राश्चतुर्णां वर्णानां नानाकर्मस्ववस्थिताः 12092004a कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि 12092004c ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु 12092005a तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् 12092005c शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः 12092006a कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ 12092006c राजवृत्तानि सर्वाणि राजैव युगमुच्यते 12092007a चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च 12092007c सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति 12092008a राजैव कर्ता भूतानां राजैव च विनाशकः 12092008c धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः 12092009a राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा 12092009c समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति 12092010a हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः 12092010c अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव 12092011a दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते 12092011c अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् 12092012a यच्च भूतं स भजते भूता ये च तदन्वयाः 12092012c अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव 12092013a दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च 12092013c अविषह्यतमं मन्ये मा स्म दुर्बलमासदः 12092014a दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् 12092014c मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम् 12092015a न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति 12092015c आमूलं निर्दहत्येव मा स्म दुर्बलमासदः 12092016a अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम् 12092016c बलस्याबलदग्धस्य न किंचिदवशिष्यते 12092017a विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति 12092017c अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम् 12092018a मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् 12092018c मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् 12092019a यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् 12092019c तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् 12092020a यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु 12092020c न हि पापं कृतं कर्म सद्यः फलति गौरिव 12092021a यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति 12092021c महान्दैवकृतस्तत्र दण्डः पतति दारुणः 12092022a युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव 12092022c अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः 12092023a राज्ञो यदा जनपदे बहवो राजपूरुषाः 12092023c अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् 12092024a यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा 12092024c कृपणं याचमानानां तद्राज्ञो वैशसं महत् 12092025a महावृक्षो जायते वर्धते च; तं चैव भूतानि समाश्रयन्ति 12092025c यदा वृक्षश्छिद्यते दह्यते वा; तदाश्रया अनिकेता भवन्ति 12092026a यदा राष्ट्रे धर्ममग्र्यं चरन्ति; संस्कारं वा राजगुणं ब्रुवाणाः 12092026c तैरेवाधर्मश्चरितो धर्ममोहा;त्तूर्णं जह्यात्सुकृतं दुष्कृतं च 12092027a यत्र पापा ज्ञायमानाश्चरन्ति; सतां कलिर्विन्दति तत्र राज्ञः 12092027c यदा राजा शास्ति नरान्नशिष्या;न्न तद्राज्यं वर्धते भूमिपाल 12092028a यश्चामात्यं मानयित्वा यथार्हं; मन्त्रे च युद्धे च नृपो नियुञ्ज्यात् 12092028c प्रवर्धते तस्य राष्ट्रं नृपस्य; भुङ्क्ते महीं चाप्यखिलां चिराय 12092029a अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् 12092029c समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् 12092030a संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते 12092030c निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते 12092031a त्रायते हि यदा सर्वं वाचा कायेन कर्मणा 12092031c पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते 12092032a यदा शारणिकान्राजा पुत्रवत्परिरक्षति 12092032c भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते 12092033a यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः 12092033c कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते 12092034a कृपणानाथवृद्धानां यदाश्रु व्यपमार्ष्टि वै 12092034c हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते 12092035a विवर्धयति मित्राणि तथारींश्चापकर्षति 12092035c संपूजयति साधूंश्च स राज्ञो धर्म उच्यते 12092036a सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति 12092036c पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते 12092037a निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ 12092037c अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् 12092038a यमो राजा धार्मिकाणां मान्धातः परमेश्वरः 12092038c संयच्छन्भवति प्राणान्नसंयच्छंस्तु पापकः 12092039a ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च 12092039c यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते 12092040a यमो यच्छति भूतानि सर्वाण्येवाविशेषतः 12092040c तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः 12092041a सहस्राक्षेण राजा हि सर्व एवोपमीयते 12092041c स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ 12092042a अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् 12092042c भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा 12092043a संग्रहः सर्वभूतानां दानं च मधुरा च वाक् 12092043c पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः 12092044a न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् 12092044c भारो हि सुमहांस्तात राज्यं नाम सुदुष्करम् 12092045a तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् 12092045c न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा 12092046a अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः 12092046c सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणामपि 12092047a ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् 12092047c स्वदेशे परदेशे वा न ते धर्मो विनश्यति 12092048a धर्मश्चार्थश्च कामश्च धर्म एवोत्तरो भवेत् 12092048c अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते 12092049a त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः 12092049c संग्रहश्चैव भूतानां दानं च मधुरा च वाक् 12092050a अप्रमादश्च शौचं च तात भूतिकरं महत् 12092050c एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः 12092051a अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः 12092051c नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् 12092052a एतद्वृत्तं वासवस्य यमस्य वरुणस्य च 12092052c राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय 12092053a तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् 12092053c आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ 12092054a धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत 12092054c देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः 12092055 भीष्म उवाच 12092055a स एवमुक्तो मान्धाता तेनोतथ्येन भारत 12092055c कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् 12092056a भवानपि तथा सम्यङ्मान्धातेव महीपतिः 12092056c धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि 12093001 युधिष्ठिर उवाच 12093001a कथं धर्मे स्थातुमिच्छन्राजा वर्तेत धार्मिकः 12093001c पृच्छामि त्वा कुरुश्रेष्ठ तन्मे ब्रूहि पितामह 12093002 भीष्म उवाच 12093002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12093002c गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता 12093003a राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः 12093003c महर्षिं परिपप्रच्छ वामदेवं यशस्विनम् 12093004a धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम् 12093004c येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः 12093005a तमब्रवीद्वामदेवस्तपस्वी जपतां वरः 12093005c हेमवर्णमुपासीनं ययातिमिव नाहुषम् 12093006a धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् 12093006c धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम् 12093007a अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः 12093007c ऋतां च कुरुते बुद्धिं स धर्मेण विरोचते 12093008a अधर्मदर्शी यो राजा बलादेव प्रवर्तते 12093008c क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ 12093009a असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा 12093009c सहैव परिवारेण क्षिप्रमेवावसीदति 12093010a अर्थानामननुष्ठाता कामचारी विकत्थनः 12093010c अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति 12093011a अथाददानः कल्याणमनसूयुर्जितेन्द्रियः 12093011c वर्धते मतिमान्राजा स्रोतोभिरिव सागरः 12093012a न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः 12093012c बुद्धितो मित्रतश्चापि सततं वसुधाधिपः 12093013a एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता 12093013c एतानि शृण्वँल्लभते यशः कीर्तिं श्रियः प्रजाः 12093014a एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः 12093014c अर्थान्समीक्ष्यारभते स ध्रुवं महदश्नुते 12093015a अदाता ह्यनतिस्नेहो दण्डेनावर्तयन्प्रजाः 12093015c साहसप्रकृती राजा क्षिप्रमेव विनश्यति 12093016a अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् 12093016c अकीर्त्यापि समायुक्तो मृतो नरकमश्नुते 12093017a अथ मानयितुर्दातुः शुक्लस्य रसवेदिनः 12093017c व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः 12093018a यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति 12093018c सुखतन्त्रोऽर्थलाभेषु न चिरं महदश्नुते 12093019a गुरुप्रधानो धर्मेषु स्वयमर्थान्ववेक्षिता 12093019c धर्मप्रधानो लोकेषु सुचिरं महदश्नुते 12094001 वामदेव उवाच 12094001a यत्राधर्मं प्रणयते दुर्बले बलवत्तरः 12094001c तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः 12094002a राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् 12094002c अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति 12094003a यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः 12094003c तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते 12094004a साहसप्रकृतिर्यत्र कुरुते किंचिदुल्बणम् 12094004c अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति 12094005a योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते 12094005c जितानामजितानां च क्षत्रधर्मादपैति सः 12094006a द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे 12094006c यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः 12094007a शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि 12094007c प्रियो भवति भूतानां न च विभ्रश्यते श्रियः 12094008a अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् 12094008c नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् 12094009a मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः 12094009c न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् 12094010a नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् 12094010c न त्वरेत न चासूयेत्तथा संगृह्यते परः 12094011a प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् 12094011c न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् 12094012a यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः 12094012c तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया 12094013a निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये 12094013c भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह 12094014a अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् 12094014c शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि 12094015a एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् 12094015c भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि 12094016a मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् 12094016c अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् 12094017a त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् 12094017c कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः 12094018a रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति 12094018c प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते 12094019a ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् 12094019c सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते 12094020a अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् 12094020c श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः 12094021a दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः 12094021c अबलानभियुञ्जीत न तु ये बलवत्तराः 12094022a विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् 12094022c आहवे निधनं कुर्याद्राजा धर्मपरायणः 12094023a मरणान्तमिदं सर्वं नेह किंचिदनामयम् 12094023c तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् 12094024a रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् 12094024c मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही 12094025a एतानि यस्य गुप्तानि स राजा राजसत्तम 12094025c सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् 12094026a नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् 12094026c एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् 12094027a दातारं संविभक्तारं मार्दवोपगतं शुचिम् 12094027c असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् 12094028a यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते 12094028c आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते 12094029a योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते 12094029c शृणोति प्रतिकूलानि विमना नचिरादिव 12094030a अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते 12094030c जितानामजितानां च क्षत्रधर्मादपैति सः 12094031a मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् 12094031c स वै व्यसनमासाद्य गाधमार्तो न विन्दति 12094032a यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते 12094032c अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके 12094033a अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि 12094033c प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति 12094034a नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत् 12094034c प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि 12094035a के मानुरक्ता राजानः के भयात्समुपाश्रिताः 12094035c मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् 12094036a न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् 12094036c भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः 12094037a अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् 12094037c अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् 12094038a एतां राजोपनिषदं ययातिः स्माह नाहुषः 12094038c मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् 12095001 वामदेव उवाच 12095001a अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः 12095001c जघन्यमाहुर्विजयं यो युद्धेन नराधिप 12095002a न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति 12095002c न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते 12095003a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12095003c संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः 12095004a यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः 12095004c अल्पेनापि स दण्डेन महीं जयति भूमिपः 12095005a पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः 12095005c सधना धान्यवन्तश्च दृढमूलः स पार्थिवः 12095006a प्रभावकालावधिकौ यदा मन्येत चात्मनः 12095006c तदा लिप्सेत मेधावी परभूमिं धनान्युत 12095007a भोगेष्वदयमानस्य भूतेषु च दयावतः 12095007c वर्धते त्वरमाणस्य विषयो रक्षितात्मनः 12095008a तक्षत्यात्मानमेवैष वनं परशुना यथा 12095008c यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते 12095009a न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः 12095009c क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते 12095010a यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः 12095010c यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् 12095011a नैनमन्येऽवजानन्ति नात्मना परितप्यते 12095011c कृत्यशेषेण यो राजा सुखान्यनुबुभूषति 12095012a इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः 12095012c उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते 12095013 भीष्म उवाच 12095013a इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः 12095013c तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः 12096001 युधिष्ठिर उवाच 12096001a अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि 12096001c कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे 12096002 भीष्म उवाच 12096002a ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः 12096002c ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा 12096003a मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ 12096003c ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् 12096004a ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन 12096004c सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप 12096005a अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः 12096005c त्राणायाप्यसमर्थं तं मन्यमानमतीव च 12096006 युधिष्ठिर उवाच 12096006a अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् 12096006c कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह 12096007 भीष्म उवाच 12096007a नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे 12096007c एक एकेन वाच्यश्च विसृजस्व क्षिपामि च 12096008a स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत् 12096008c स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् 12096009a स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् 12096009c अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् 12096010a नाश्वेन रथिनं यायादुदियाद्रथिनं रथी 12096010c व्यसने न प्रहर्तव्यं न भीताय जिताय च 12096011a नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् 12096011c जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः 12096012a साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् 12096012c सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन 12096013a भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः 12096013c चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् 12096013e निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः 12096014a तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत् 12096014c सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् 12096015a यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः 12096015c आत्मानमात्मना हन्ति पापो निकृतिजीवनः 12096016a कर्म चैतदसाधूनामसाधुं साधुना जयेत् 12096016c धर्मेण निधनं श्रेयो न जयः पापकर्मणा 12096017a नाधर्मश्चरितो राजन्सद्यः फलति गौरिव 12096017c मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति 12096018a पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति 12096018c स वर्धमानः स्तेयेन पापः पापे प्रसज्जति 12096019a न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव 12096019c अश्रद्दधानभावाच्च विनाशमुपगच्छति 12096020a स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते 12096020c महादृतिरिवाध्मातः स्वकृतेन विवर्धते 12096021a ततः समूलो ह्रियते नदीकूलादिव द्रुमः 12096021c अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि 12096021e तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः 12097001 भीष्म उवाच 12097001a नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः 12097001c अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः 12097002a अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च 12097002c सादयत्येष राजानं महीं च भरतर्षभ 12097003a विशीर्णकवचं चैव तवास्मीति च वादिनम् 12097003c कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् 12097004a बलेनावजितो यश्च न तं युध्येत भूमिपः 12097004c संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् 12097005a नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता 12097005c एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् 12097006a न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः 12097006c युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् 12097007a राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते 12097007c नान्यो राजानमभ्यसेदराजन्यः कथंचन 12097008a अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा 12097008c शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् 12097008e मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् 12097009a अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः 12097009c अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि 12097010a या तु धर्मविलोपेन मर्यादाभेदनेन च 12097010c तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः 12097010e धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् 12097011a सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् 12097011c सान्त्वेन भोगदानेन स राज्ञां परमो नयः 12097012a भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः 12097012c अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः 12097013a अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि 12097013c संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः 12097014a नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन 12097014c जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः 12097015a अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः 12097015c शुद्धं जीवितमेवापि तादृशो बहु मन्यते 12097016a यस्य स्फीतो जनपदः संपन्नः प्रियराजकः 12097016c संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः 12097017a ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः 12097017c पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते 12097018a एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः 12097018c अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः 12097019a भूमिवर्जं पुरं राजा जित्वा राजानमाहवे 12097019c अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः 12097020a अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च 12097020c आजहार दिवोदासस्ततो विप्रकृतोऽभवत् 12097021a सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ 12097021c अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत 12097022a उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर 12097022c आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते 12097023a सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः 12097023c न मायया न दम्भेन य इच्छेद्भूतिमात्मनः 12098001 युधिष्ठिर उवाच 12098001a क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ 12098001c अभियाने च युद्धे च राजा हन्ति महाजनम् 12098002a अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः 12098002c विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12098003 भीष्म उवाच 12098003a निग्रहेण च पापानां साधूनां प्रग्रहेण च 12098003c यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः 12098004a उपरुन्धन्ति राजानो भूतानि विजयार्थिनः 12098004c त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः 12098005a अपविध्यन्ति पापानि दानयज्ञतपोबलैः 12098005c अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते 12098006a यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा 12098006c हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति 12098007a एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा 12098007c तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः 12098008a यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति 12098008c दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् 12098009a स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः 12098009c अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् 12098010a ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते 12098010c आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः 12098011a अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा 12098011c न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन 12098012a तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे 12098012c तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् 12098013a न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते 12098013c स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते 12098014a यानि दुःखानि सहते व्रणानामभितापने 12098014c न ततोऽस्ति तपो भूय इति धर्मविदो विदुः 12098015a पृष्ठतो भीरवः संख्ये वर्तन्तेऽधमपूरुषाः 12098015c शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् 12098016a यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये 12098016c प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा 12098017a यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् 12098017c युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा 12098018a पुरुषाणां समानानां दृश्यते महदन्तरम् 12098018c संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च 12098019a पतत्यभिमुखः शूरः परान्भीरुः पलायते 12098019c आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् 12098020a मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् 12098020c ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः 12098021a अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः 12098021c त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति 12098022a तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना 12098022c पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः 12098023a अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् 12098023c विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् 12098024a अविक्षतेन देहेन प्रलयं योऽधिगच्छति 12098024c क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः 12098025a न गृहे मरणं तात क्षत्रियाणां प्रशस्यते 12098025c शौटीराणामशौटीरमधर्म्यं कृपणं च तत् 12098026a इदं दुःखमहो कष्टं पापीय इति निष्टनन् 12098026c प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् 12098027a अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति 12098027c वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति 12098028a रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः 12098028c तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति 12098029a शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् 12098029c कृत्यमानानि गात्राणि परैर्नैवावबुध्यते 12098030a स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् 12098030c स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् 12098031a सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः 12098031c प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् 12099001 युधिष्ठिर उवाच 12099001a के लोका युध्यमानानां शूराणामनिवर्तिनाम् 12099001c भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह 12099002 भीष्म उवाच 12099002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12099002c अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर 12099003a अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् 12099003c ददर्श सुरलोकस्थं शक्रेण सचिवं सह 12099004a सर्वतेजोमयं दिव्यं विमानवरमास्थितम् 12099004c उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् 12099005a स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः 12099005c ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् 12099006a सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि 12099006c चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया 12099007a ब्रह्मचर्येण घोरेण आचार्यकुलसेवया 12099007c वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् 12099008a अतिथीनन्नपानेन पितॄंश्च स्वधया तथा 12099008c ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः 12099009a क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि 12099009c उदीक्षमाणः पृतनां जयामि युधि वासव 12099010a देवराज सुदेवोऽयं मम सेनापतिः पुरा 12099010c आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् 12099011a नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः 12099011c तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् 12099012 इन्द्र उवाच 12099012a एतस्य विततस्तात सुदेवस्य बभूव ह 12099012c संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः 12099013a संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् 12099013c युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः 12099014 अम्बरीष उवाच 12099014a कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा 12099014c ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो 12099015 इन्द्र उवाच 12099015a ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा 12099015c हवींषि परमांसानि रुधिरं त्वाज्यमेव च 12099016a सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः 12099016c आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे 12099017a प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः 12099017c ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः 12099018a चापवेगायतस्तीक्ष्णः परकायावदारणः 12099018c ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् 12099019a द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः 12099019c हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे 12099020a ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः 12099020c शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु 12099021a आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुवि 12099021c सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् 12099022a छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे 12099022c सामानि सामगास्तस्य गायन्ति यमसादने 12099023a हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् 12099023c कुञ्जराणां हयानां च वर्मिणां च समुच्चयः 12099023e अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते 12099024a उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः 12099024c स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते 12099025a इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः 12099025c व्याघुष्टतलनादेन वषट्कारेण पार्थिव 12099025e उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः 12099026a ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् 12099026c आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः 12099027a भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे 12099027c भयान्न च निवर्तेत तस्य लोका यथा मम 12099028a नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः 12099028c यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम 12099029a यस्तु नावेक्षते कंचित्सहायं विजये स्थितः 12099029c विगाह्य वाहिनीमध्यं तस्य लोका यथा मम 12099030a यस्य तोमरसंघाटा भेरीमण्डूककच्छपा 12099030c वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा 12099031a असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला 12099031c अश्वनागरथैश्चैव संभिन्नैः कृतसंक्रमा 12099032a पताकाध्वजवानीरा हतवाहनवाहिनी 12099032c शोणितोदा सुसंपूर्णा दुस्तरा पारगैर्नरैः 12099033a हतनागमहानक्रा परलोकवहाशिवा 12099033c ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा 12099034a पुरुषादानुचरिता भीरूणां कश्मलावहा 12099034c नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् 12099035a वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते 12099035c अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम 12099036a पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् 12099036c हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः 12099037a सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् 12099037c शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः 12099038a यदा तूभयतो व्यूहो भवत्याकाशमग्रतः 12099038c सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः 12099039a यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः 12099039c अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः 12099040a यस्य शोणितवेगेन नदी स्यात्समभिप्लुता 12099040c केशमांसास्थिसंकीर्णा स गच्छेत्परमां गतिम् 12099041a यस्तु सेनापतिं हत्वा तद्यानमधिरोहति 12099041c स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः 12099042a नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः 12099042c जीवग्राहं निगृह्णाति तस्य लोका यथा मम 12099043a आहवे निहतं शूरं न शोचेत कदाचन 12099043c अशोच्यो हि हतः शूरः स्वर्गलोके महीयते 12099044a न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् 12099044c हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे 12099045a वराप्सरःसहस्राणि शूरमायोधने हतम् 12099045c त्वरमाणा हि धावन्ति मम भर्ता भवेदिति 12099046a एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः 12099046c चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते 12099047a वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः 12099047c तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् 12099048a अहं वृत्रं बलं पाकं शतमायं विरोचनम् 12099048c दुरावार्यं च नमुचिं नैकमायं च शम्बरम् 12099049a विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः 12099049c प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् 12099050 भीष्म उवाच 12099050a इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च 12099050c योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् 12100001 भीष्म उवाच 12100001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12100001c प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः 12100002a यज्ञोपवीती संग्रामे जनको मैथिलो यथा 12100002c योधानुद्धर्षयामास तन्निबोध युधिष्ठिर 12100003a जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् 12100003c योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च 12100004a अभीतानामिमे लोका भास्वन्तो हन्त पश्यत 12100004c पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः 12100005a इमे पलायमानानां नरकाः प्रत्युपस्थिताः 12100005c अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम् 12100006a तान्दृष्ट्वारीन्विजयतो भूत्वा संत्यागबुद्धयः 12100006c नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः 12100007a त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् 12100007c इत्युक्तास्ते नृपतिना योधाः परपुरंजय 12100008a व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम् 12100008c तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि 12100009a गजानां रथिनो मध्ये रथानामनु सादिनः 12100009c सादिनामन्तरा स्थाप्यं पादातमिह दंशितम् 12100010a य एवं व्यूहते राजा स नित्यं जयते द्विषः 12100010c तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर 12100011a सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः 12100011c क्षोभयेयुरनीकानि सागरं मकरा इव 12100012a हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् 12100012c जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् 12100013a पुनरावर्तमानानां निराशानां च जीविते 12100013c न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत् 12100014a न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात् 12100014c तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् 12100015a चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि 12100015c अपाणयः पाणिमतामन्नं शूरस्य कातराः 12100016a समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति 12100016c अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् 12100017a शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा 12100017c तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति 12100018a न हि शौर्यात्परं किंचित्त्रिषु लोकेषु विद्यते 12100018c शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् 12101001 युधिष्ठिर उवाच 12101001a यथा जयार्थिनः सेनां नयन्ति भरतर्षभ 12101001c ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह 12101002 भीष्म उवाच 12101002a सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे 12101002c साध्वाचारतया केचित्तथैवौपयिका अपि 12101002e उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः 12101003a निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः 12101003c तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् 12101003e कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे 12101004a उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत 12101004c जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् 12101005a अमित्रा एव राजानं भेदेनोपचरन्त्युत 12101005c तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते 12101006a गजानां पार्श्वचर्माणि गोवृषाजगराणि च 12101006c शल्यकङ्कटलोहानि तनुत्राणि मतानि च 12101007a शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः 12101007c नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते 12101008a ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः 12101008c फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः 12101008e अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः 12101009a चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते 12101009c पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा 12101010a नैवातिशीतो नात्युष्णः कालो भवति भारत 12101010c तस्मात्तदा योजयेत परेषां व्यसनेषु वा 12101010e एतेषु योगाः सेनायाः प्रशस्ताः परबाधने 12101011a जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते 12101011c चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः 12101012a नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव 12101012c तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः 12101013a आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते 12101013c परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् 12101014a आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् 12101014c बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः 12101015a उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् 12101015c अथ शत्रुप्रतीघातमापदर्थं परायणम् 12101016a सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव 12101016c अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् 12101017a यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः 12101017c पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर 12101018a अकर्दमामनुदकाममर्यादामलोष्टकाम् 12101018c अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः 12101019a समा निरुदकाकाशा रथभूमिः प्रशस्यते 12101019c नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् 12101020a बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता 12101020c पदातीनां क्षमा भूमिः पर्वतोपवनानि च 12101021a पदातिबहुला सेना दृढा भवति भारत 12101021c रथाश्वबहुला सेना सुदिनेषु प्रशस्यते 12101022a पदातिनागबहुला प्रावृट्काले प्रशस्यते 12101022c गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् 12101023a एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः 12101023c विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् 12101024a प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् 12101024c मोक्षे प्रयाणे चलने पानभोजनकालयोः 12101025a अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् 12101025c सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् 12101025e बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः 12101026a पारंपर्यागते द्वारे ये केचिदनुवर्तिनः 12101026c परिचर्यावरोद्धारो ये च केचन वल्गिनः 12101027a अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च 12101027c समानाशनपानास्ते कार्या द्विगुणवेतनाः 12101028a दशाधिपतयः कार्याः शताधिपतयस्तथा 12101028c तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् 12101029a यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे 12101029c यथा जयार्थं संग्रामे न जह्याम परस्परम् 12101030a इहैव ते निवर्तन्तां ये नः केचन भीरवः 12101030c न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति 12101031a आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे 12101031c द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने 12101032a अमनोज्ञासुखा वाचः पुरुषस्य पलायतः 12101032c प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च 12101033a हित्वा पलायमानस्य सहायान्प्राणसंशये 12101033c अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा 12101034a मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः 12101034c राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह 12101035a अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् 12101035c जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च 12101036a यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः 12101036c तदसह्यतरं दुःखमहं मन्ये वधादपि 12101037a श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च 12101037c सा भीरूणां परान्याति शूरस्तामधिगच्छति 12101038a ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः 12101038c जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् 12101039a एवं संशप्तशपथाः समभित्यक्तजीविताः 12101039c अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः 12101040a अग्रतः पुरुषानीकमसिचर्मवतां भवेत् 12101040c पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा 12101041a परेषां प्रतिघातार्थं पदातीनां च गूहनम् 12101041c अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः 12101042a ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः 12101042c ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः 12101043a अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः 12101043c स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः 12101044a संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् 12101044c सूचीमुखमनीकं स्यादल्पानां बहुभिः सह 12101045a संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् 12101045c प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति 12101046a आगतं नो मित्रबलं प्रहरध्वमभीतवत् 12101046c शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् 12101047a क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् 12101047c भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् 12102001 युधिष्ठिर उवाच 12102001a किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत 12102001c किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप 12102002 भीष्म उवाच 12102002a यथाचरितमेवात्र शस्त्रपत्रं विधीयते 12102002c आचारादेव पुरुषस्तथा कर्मसु वर्तते 12102003a गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः 12102003c आभीरवः सुबलिनस्तद्बलं सर्वपारगम् 12102004a सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः 12102004c प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः 12102005a तथा यवनकाम्बोजा मथुरामभितश्च ये 12102005c एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः 12102006a सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः 12102006c प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु 12102007a सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः 12102007c पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः 12102008a मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे 12102008c प्रवादिनः सुचण्डाश्च क्रोधिनः किंनरीस्वनाः 12102009a मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः 12102009c जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः 12102010a बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः 12102010c शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः 12102011a गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च 12102011c तुरंगगतिनिर्घोषास्ते नराः पारयिष्णवः 12102012a सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः 12102012c प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च 12102013a गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः 12102013c नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः 12102014a जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च 12102014c वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसंतताः 12102015a प्रविशन्त्यतिवेगेन संपरायेऽभ्युपस्थिते 12102015c वारणा इव संमत्तास्ते भवन्ति दुरासदाः 12102016a दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः 12102016c उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः 12102017a उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव 12102017c पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव 12102018a उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः 12102018c अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः 12102019a त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः 12102019c पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते 12102020a अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः 12102020c एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः 12103001 युधिष्ठिर उवाच 12103001a जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ 12103001c पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् 12103002 भीष्म उवाच 12103002a जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ 12103002c पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः 12103003a दैवं पूर्वं विकुरुते मानुषे कालचोदिते 12103003c तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा 12103004a प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः 12103004c मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि 12103005a उदीर्णमनसो योधा वाहनानि च भारत 12103005c यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् 12103006a अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च 12103006c अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः 12103007a गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः 12103007c आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा 12103008a प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः 12103008c पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः 12103009a गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र 12103009c युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः 12103010a इष्टा मृगाः पृष्ठतो वामतश्च; संप्रस्थितानां च गमिष्यतां च 12103010c जिघांसतां दक्षिणाः सिद्धिमाहु;र्ये त्वग्रतस्ते प्रतिषेधयन्ति 12103011a मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः 12103011c हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः 12103012a शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम् 12103012c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून् 12103013a शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च 12103013c येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः 12103014a शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः 12103014c धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् 12103015a इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः 12103015c पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति 12103016a संभृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर 12103016c साम्नैवावर्तने पूर्वं प्रयतेथास्ततो युधि 12103017a जघन्य एष विजयो यद्युद्धं नाम भारत 12103017c यादृच्छिको युधि जयो दैवो वेति विचारणम् 12103018a अपामिव महावेगस्त्रस्ता मृगगणा इव 12103018c दुर्निवार्यतमा चैव प्रभग्ना महती चमूः 12103019a भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् 12103019c उदारसारा महती रुरुसंघोपमा चमूः 12103020a परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः 12103020c अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् 12103021a अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः 12103021c कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् 12103022a संनिपातो न गन्तव्यः शक्ये सति कथंचन 12103022c सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते 12103023a संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते 12103023c वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति 12103024a अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ 12103024c तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च 12103025a विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः 12103025c शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् 12103026a तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः 12103026c संपीड्यमाना हि परे योगमायान्ति सर्वशः 12103027a अन्तराणां च भेदार्थं चारानभ्यवचारयेत् 12103027c यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते 12103028a न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा 12103028c यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् 12103029a क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा 12103029c क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् 12103030a विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते 12103030c महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः 12103031a मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः 12103031c असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः 12103032a नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् 12103032c अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् 12103033a द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर 12103033c मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् 12103034a प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत 12103034c प्रहृत्य च कृपायेत शोचन्निव रुदन्निव 12103035a न मे प्रियं यत्स हतः संप्राहैवं पुरो वचः 12103035c न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः 12103036a अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति 12103036c सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः 12103037a कृतं ममाप्रियं तेन येनायं निहतो मृधे 12103037c इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः 12103038a हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः 12103038c क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् 12103039a एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् 12103039c प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः 12103040a विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत 12103040c विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः 12103041a तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया 12103041c सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति 12104001 युधिष्ठिर उवाच 12104001a कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव 12104001c अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह 12104002 भीष्म उवाच 12104002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12104002c बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर 12104003a बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः 12104003c उपसंगम्य पप्रच्छ वासवः परवीरहा 12104004a अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः 12104004c असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः 12104005a सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् 12104005c किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी 12104006a ततो धर्मार्थकामानां कुशलः प्रतिभानवान् 12104006c राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् 12104007a न जातु कलहेनेच्छेन्नियन्तुमपकारिणः 12104007c बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा 12104007e न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता 12104008a क्रोधं बलममर्षं च नियम्यात्मजमात्मनि 12104008c अमित्रमुपसेवेत विश्वस्तवदविश्वसन् 12104009a प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् 12104009c विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् 12104010a यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः 12104010c तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः 12104010e वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर 12104011a न नित्यं परिभूयारीन्सुखं स्वपिति वासव 12104011c जागर्त्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः 12104012a न संनिपातः कर्तव्यः सामान्ये विजये सति 12104012c विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो 12104013a संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः 12104013c उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः 12104014a अथास्य प्रहरेत्काले किंचिद्विचलिते पदे 12104014c दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः 12104015a आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् 12104015c बलानि दूषयेदस्य जानंश्चैव प्रमाणतः 12104016a भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा 12104016c न त्वेव चेलसंसर्गं रचयेदरिभिः सह 12104017a दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् 12104017c कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः 12104018a न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः 12104018c न यः शल्यं घट्टयति नवं च कुरुते व्रणम् 12104019a प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः 12104019c हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति 12104020a यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् 12104020c दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा 12104021a और्जस्थ्यं विजयेदेवं संगृह्णन्साधुसंमतान् 12104021c कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् 12104022a विहाय कामं क्रोधं च तथाहंकारमेव च 12104022c युक्तो विवरमन्विच्छेदहितानां पुरंदर 12104023a मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम 12104023c मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् 12104024a निहत्यैतानि चत्वारि मायां प्रतिविधाय च 12104024c ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् 12104025a यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् 12104025c यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि 12104026a अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् 12104026c ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् 12104027a भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च 12104027c काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा 12104028a प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः 12104028c युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः 12104029a प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् 12104029c अमित्रमुपसेवेत न तु जातु विशङ्कयेत् 12104030a स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् 12104030c न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः 12104031a न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम 12104031c यथा विविधवृत्तानामैश्वर्यममराधिप 12104032a तथा विविधशीलानामपि संभव उच्यते 12104032c यतेत योगमास्थाय मित्रामित्रानवारयन् 12104033a मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः 12104033c मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव 12104034a यथा वप्रे वेगवति सर्वतःसंप्लुतोदके 12104034c नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः 12104035a न बहूनभियुञ्जीत यौगपद्येन शात्रवान् 12104035c साम्ना दानेन भेदेन दण्डेन च पुरंदर 12104036a एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् 12104036c न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः 12104037a यदा स्यान्महती सेना हयनागरथाकुला 12104037c पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी 12104038a यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः 12104038c तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् 12104039a न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा 12104039c न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर्विचारणा 12104040a मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात् 12104040c आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः 12104041a पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन् 12104041c पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन 12104042a प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान् 12104042c दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति 12104043a तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभिः 12104043c सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व 12104044 इन्द्र उवाच 12104044a कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम 12104044c कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे 12104045 बृहस्पतिरुवाच 12104045a परोक्षमगुणानाह सद्गुणानभ्यसूयति 12104045c परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः 12104046a तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम् 12104046c विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् 12104047a करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते 12104047c अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते 12104048a पृथगेत्य समश्नाति नेदमद्य यथाविधि 12104048c आसने शयने याने भावा लक्ष्या विशेषतः 12104049a आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् 12104049c विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् 12104050a एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप 12104050c पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः 12104051a इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम 12104051c निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर 12104052 भीष्म उवाच 12104052a स तद्वचः शत्रुनिबर्हणे रत;स्तथा चकारावितथं बृहस्पतेः 12104052c चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः 12105001 युधिष्ठिर उवाच 12105001a धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः 12105001c च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् 12105002 भीष्म उवाच 12105002a अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते 12105002c तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर 12105003a क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा 12105003c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 12105003e तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः 12105004a अर्थेषु भागी पुरुष ईहमानः पुनः पुनः 12105004c अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति 12105005a अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् 12105005c क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम 12105006a व्याधिना चाभिपन्नस्य मानसेनेतरेण वा 12105006c बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् 12105007a निर्विद्य हि नरः कामान्नियम्य सुखमेधते 12105007c त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु 12105008a सुखमर्थाश्रयं येषामनुशोचामि तानहम् 12105008c मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः 12105009a दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये 12105009c वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः 12105010a इमामवस्थां संप्राप्तं दीनमार्तं श्रियश्च्युतम् 12105010c यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् 12105011a कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता 12105011c मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः 12105012a पुरस्तादेव ते बुद्धिरियं कार्या विजानतः 12105012c अनित्यं सर्वमेवेदमहं च मम चास्ति यत् 12105013a यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् 12105013c एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः 12105014a यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति 12105014c एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे 12105015a यच्च पूर्वे समाहारे यच्च पूर्वतरे परे 12105015c सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत् 12105016a भूत्वा च न भवत्येतदभूत्वा च भवत्यपि 12105016c शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः 12105017a क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः 12105017c न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च 12105018a आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि 12105018c बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि 12105019a अहं च त्वं च नृपते शत्रवः सुहृदश्च ते 12105019c अवश्यं न भविष्यामः सर्वं च न भविष्यति 12105020a ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः 12105020c अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् 12105021a अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः 12105021c नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः 12105022a अनागतं यन्न ममेति विद्या;दतिक्रान्तं यन्न ममेति विद्यात् 12105022c दिष्टं बलीय इति मन्यमाना;स्ते पण्डितास्तत्सतां स्थानमाहुः 12105023a अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते 12105023c बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः 12105024a न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः 12105024c किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः 12105025 राजपुत्र उवाच 12105025a यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये 12105025c ह्रियते सर्वमेवेदं कालेन महता द्विज 12105026a तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन 12105026c फलमेतत्प्रपश्यामि यथालब्धेन वर्तये 12105027 मुनिरुवाच 12105027a अनागतमतीतं च यथा तथ्यविनिश्चयात् 12105027c नानुशोचसि कौसल्य सर्वार्थेषु तथा भव 12105028a अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन 12105028c प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् 12105029a यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे 12105029c कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि 12105030a पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः 12105030c धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते 12105031a अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् 12105031c एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते 12105032a ईर्ष्यातिच्छेदसंपन्ना राजन्पुरुषमानिनः 12105032c कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप 12105033a सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा 12105033c अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः 12105033e अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् 12105034a श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः 12105034c त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत 12105035a बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च 12105035c तथान्ये संत्यजन्त्येनं मत्वा परमदुर्लभम् 12105036a त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे 12105036c अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् 12105037a तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज 12105037c अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः 12105038a अर्थायैव हि केषांचिद्धननाशो भवत्युत 12105038c अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते 12105039a रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते 12105039c तथा तस्येहमानस्य समारम्भो विनश्यति 12105040a कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति 12105040c तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः 12105041a धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः 12105041c परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् 12105042a जीवितं संत्यजन्त्येके धनलोभपरा नराः 12105042c न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते 12105043a पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् 12105043c अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः 12105044a संचये च विनाशान्ते मरणान्ते च जीविते 12105044c संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः 12105045a धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् 12105045c अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसंज्वरेत् 12105046a अन्येषामपि नश्यन्ति सुहृदश्च धनानि च 12105046c पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः 12105046e नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् 12105047a प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च 12105047c प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसंभवे 12105047e प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति 12105048a अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः 12105048c ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति 12105049a न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि 12105049c नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् 12105050a अपि मूलफलाजीवो रमस्वैको महावने 12105050c वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः 12105051a सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना 12105051c यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति 12105052a महाह्रदः संक्षुभित आत्मनैव प्रसीदति 12105052c एतदेवंगतस्याहं सुखं पश्यामि केवलम् 12105053a असंभवे श्रियो राजन्हीनस्य सचिवादिभिः 12105053c दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् 12106001 मुनिरुवाच 12106001a अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि 12106001c ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये 12106002a तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि 12106002c शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः 12106003a आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि 12106003c राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् 12106003e यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते 12106004 राजपुत्र उवाच 12106004a ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो 12106004c अमोघमिदमद्यास्तु त्वया सह समागतम् 12106005 मुनिरुवाच 12106005a हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा 12106005c प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः 12106006a तमुत्तमेन शौचेन कर्मणा चाभिराधय 12106006c दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः 12106007a प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि 12106007c ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् 12106008a वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः 12106008c अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः 12106009a तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः 12106009c प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् 12106010a ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् 12106010c अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय 12106010e परैर्वा संविदं कृत्वा बलमप्यस्य घातय 12106011a अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च 12106011c शय्यासनानि यानानि महार्हाणि गृहाणि च 12106012a पक्षिणो मृगजातानि रसा गन्धाः फलानि च 12106012c तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः 12106013a यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति 12106013c न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता 12106014a वसस्व परमामित्रविषये प्राज्ञसंमते 12106014c भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः 12106015a आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय 12106015c नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् 12106016a उद्यानानि महार्हाणि शयनान्यासनानि च 12106016c प्रतिभोगसुखेनैव कोशमस्य विरेचय 12106017a यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् 12106017c ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव 12106018a असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् 12106018c त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः 12106018e कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति 12106019a उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च 12106019c बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः 12106020a निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय 12106020c असंशयं दैवपरः क्षिप्रमेव विनश्यति 12106021a याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् 12106021c ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् 12106022a त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय 12106022c अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् 12106023a सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना 12106023c नागानश्वान्मनुष्यांश्च कृतकैरुपघातय 12106024a एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः 12106024c शक्या विषहता कर्तुं नक्लीबेन नृपात्मज 12107001 राजपुत्र उवाच 12107001a न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् 12107001c नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् 12107002a पुरस्तादेव भगवन्मयैतदपवर्जितम् 12107002c येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् 12107003a आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः 12107003c नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते 12107004 मुनिरुवाच 12107004a उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे 12107004c प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन 12107005a उभयोरेव वामर्थे यतिष्ये तव तस्य च 12107005c संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् 12107006a त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् 12107006c अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् 12107007a यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः 12107007c आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् 12107008a आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः 12107008c यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् 12107009 भीष्म उवाच 12107009a तत आहूय वैदेहं मुनिर्वचनमब्रवीत् 12107009c अयं राजकुले जातो विदिताभ्यन्तरो मम 12107010a आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव 12107010c नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः 12107011a तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि 12107011c न राज्यमनमात्येन शक्यं शास्तुममित्रहन् 12107012a अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च 12107012c ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् 12107012e धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी 12107013a कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः 12107013c सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः 12107013e संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् 12107014a यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् 12107014c जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे 12107015a त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः 12107015c अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः 12107016a स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम् 12107016c न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि 12107017a नैव नित्यं जयस्तात नैव नित्यं पराजयः 12107017c तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः 12107018a आत्मन्येव हि संदृश्यावुभौ जयपराजयौ 12107018c निःशेषकारिणां तात निःशेषकरणाद्भयम् 12107019a इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् 12107019c अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च 12107020a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः 12107020c श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् 12107021a तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा 12107021c एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा 12107022a ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत् 12107022c धर्मतो नीतितश्चैव बलेन च जितो मया 12107023a सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम 12107023c आत्मानमनवज्ञाय जितवद्वर्ततां भवान् 12107024a नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् 12107024c नावमन्ये जयामीति जितवद्वर्ततां भवान् 12107025a यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् 12107025c ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् 12107026a वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा 12107026c पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् 12107027a ददौ दुहितरं चास्मै रत्नानि विविधानि च 12107027c एष राज्ञां परो धर्मः सह्यौ जयपराजयौ 12108001 युधिष्ठिर उवाच 12108001a ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप 12108001c धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च 12108002a राज्ञां वृत्तं च कोशश्च कोशसंजननं महत् 12108002c अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् 12108003a षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च 12108003c दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् 12108004a समहीनाधिकानां च यथावल्लक्षणोच्चयः 12108004c मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता 12108005a क्षीणसंग्रहवृत्तिश्च यथावत्संप्रकीर्तिता 12108005c लघुनादेशरूपेण ग्रन्थयोगेन भारत 12108006a विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते 12108006c गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर 12108007a यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत 12108007c अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च 12108008a भेदमूलो विनाशो हि गणानामुपलभ्यते 12108008c मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः 12108009a एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप 12108009c यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव 12108010 भीष्म उवाच 12108010a गणानां च कुलानां च राज्ञां च भरतर्षभ 12108010c वैरसंदीपनावेतौ लोभामर्षौ जनाधिप 12108011a लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् 12108011c तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ 12108012a चारमन्त्रबलादानैः सामदानविभेदनैः 12108012c क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् 12108013a तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः 12108013c भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् 12108014a भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः 12108014c तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा 12108015a अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात् 12108015c बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु 12108016a ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् 12108016c विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः 12108017a धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः 12108017c यथावत्संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः 12108018a पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः 12108018c विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः 12108019a चारमन्त्रविधानेषु कोशसंनिचयेषु च 12108019c नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः 12108020a प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् 12108020c मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप 12108021a द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः 12108021c कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते 12108022a क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः 12108022c नयन्त्यरिवशं सद्यो गणान्भरतसत्तम 12108023a तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः 12108023c लोकयात्रा समायत्ता भूयसी तेषु पार्थिव 12108024a मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन 12108024c न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत 12108025a गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः 12108025c पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा 12108025e अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च 12108026a तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् 12108026c निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः 12108027a कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः 12108027c गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम् 12108028a आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् 12108028c अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति 12108029a अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् 12108029c अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् 12108030a जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा 12108030c न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः 12108031a भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः 12108031c तस्मात्संघातमेवाहुर्गणानां शरणं महत् 12109001 युधिष्ठिर उवाच 12109001a महानयं धर्मपथो बहुशाखश्च भारत 12109001c किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् 12109002a किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् 12109002c यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् 12109003 भीष्म उवाच 12109003a मातापित्रोर्गुरूणां च पूजा बहुमता मम 12109003c अत्र युक्तो नरो लोकान्यशश्च महदश्नुते 12109004a यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः 12109004c धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर 12109005a न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् 12109005c यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः 12109006a एत एव त्रयो लोका एत एवाश्रमास्त्रयः 12109006c एत एव त्रयो वेदा एत एव त्रयोऽग्नयः 12109007a पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः 12109007c गुरुराहवनीयस्तु साग्नित्रेता गरीयसी 12109008a त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि 12109008c पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् 12109008e ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि 12109009a सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत 12109009c यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् 12109010a नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् 12109010c नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् 12109010e कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप 12109011a सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः 12109011c अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः 12109012a नैवायं न परो लोकस्तस्य चैव परंतप 12109012c अमानिता नित्यमेव यस्यैते गुरवस्त्रयः 12109013a न चास्मिन्न परे लोके यशस्तस्य प्रकाशते 12109013c न चान्यदपि कल्याणं पारत्रं समुदाहृतम् 12109014a तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् 12109014c तदासीन्मे शतगुणं सहस्रगुणमेव च 12109014e तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर 12109015a दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते 12109015c दशाचार्यानुपाध्याय उपाध्यायान्पिता दश 12109016a पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि 12109016c गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः 12109016e गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः 12109017a उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः 12109017c शरीरमेतौ सृजतः पिता माता च भारत 12109017e आचार्यशिष्टा या जातिः सा दिव्या साजरामरा 12109018a अवध्या हि सदा माता पिता चाप्यपकारिणौ 12109018c न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम् 12109018e धर्माय यतमानानां विदुर्देवाः सहर्षिभिः 12109019a य आवृणोत्यवितथेन कर्णा;वृतं ब्रुवन्नमृतं संप्रयच्छन् 12109019c तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् 12109020a विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा 12109020c यथैव ते गुरुभिर्भावनीया;स्तथा तेषां गुरवोऽप्यर्चनीयाः 12109021a तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः 12109021c गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता 12109022a येन प्रीताश्च पितरस्तेन प्रीतः पितामहः 12109022c प्रीणाति मातरं येन पृथिवी तेन पूजिता 12109023a येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् 12109023c मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः 12109023e ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह 12109024a न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् 12109024c न च माता न च पिता तादृशो यादृशो गुरुः 12109025a न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् 12109025c गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः 12109026a उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा 12109026c तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके 12109027a मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च 12109027c चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः 12109028a एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके 12109028c एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम् 12110001 युधिष्ठिर उवाच 12110001a कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत 12110001c विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 12110002a सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः 12110002c तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः 12110003a किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् 12110003c कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् 12110004 भीष्म उवाच 12110004a सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 12110004c यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत 12110005a भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् 12110005c यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् 12110006a तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् 12110006c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 12110007a अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः 12110007c सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव 12110008a किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् 12110008c सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः 12110009a तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः 12110009c दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति 12110010a प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् 12110010c यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः 12110011a धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः 12110011c यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः 12110012a श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः 12110012c न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते 12110013a येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् 12110013c तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः 12110014a अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन 12110014c अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् 12110015a श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् 12110015c यः पापैः सह संबन्धान्मुच्यते शपथादिति 12110016a न च तेभ्यो धनं देयं शक्ये सति कथंचन 12110016c पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् 12110017a स्वशरीरोपरोधेन वरमादातुमिच्छतः 12110017c सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् 12110017e अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः 12110018a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 12110018c अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् 12110018e परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः 12110019a प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः 12110019c यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः 12110020a शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् 12110020c सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः 12110021a धनमित्येव पापानां सर्वेषामिह निश्चयः 12110021c येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः 12110022a च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते 12110022c धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् 12110023a अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः 12110023c न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः 12110024a तथागतं च यो हन्यान्नासौ पापेन लिप्यते 12110024c स्वकर्मणा हतं हन्ति हत एव स हन्यते 12110024e तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु 12110025a यथा काकश्च गृध्रश्च तथैवोपधिजीविनः 12110025c ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु 12110026a यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः 12110026c मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः 12111001 युधिष्ठिर उवाच 12111001a क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः 12111001c दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह 12111002 भीष्म उवाच 12111002a आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः 12111002c वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते 12111003a ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता 12111003c विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते 12111004a वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः 12111004c नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते 12111005a मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः 12111005c वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते 12111006a स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ 12111006c अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते 12111007a ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः 12111007c विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते 12111008a आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् 12111008c धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते 12111009a ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा 12111009c निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते 12111010a ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते 12111010c प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते 12111011a अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते 12111011c तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते 12111012a कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः 12111012c येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते 12111013a ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः 12111013c विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते 12111014a ये च संशान्तरजसः संशान्ततमसश्च ये 12111014c सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते 12111015a येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् 12111015c येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते 12111016a परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः 12111016c ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते 12111017a सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते 12111017c ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते 12111018a ये न मानितमिच्छन्ति मानयन्ति च ये परम् 12111018c मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते 12111019a ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः 12111019c सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते 12111020a ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च 12111020c न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते 12111021a मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः 12111021c जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते 12111022a यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् 12111022c वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते 12111023a ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् 12111023c भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते 12111024a य एष रक्तपद्माक्षः पीतवासा महाभुजः 12111024c सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः 12111025a य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् 12111025c इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः 12111026a स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ 12111026c राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः 12111027a य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् 12111027c ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा 12111028a दुर्गातितरणं ये च पठन्ति श्रावयन्ति च 12111028c पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते 12111029a इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ 12111029c संतरेद्येन दुर्गाणि परत्रेह च मानवः 12112001 युधिष्ठिर उवाच 12112001a असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः 12112001c ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् 12112002 भीष्म उवाच 12112002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12112002c व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर 12112003a पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः 12112003c परहिंसारुचिः क्रूरो बभूव पुरुषाधमः 12112004a स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् 12112004c गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा 12112005a संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः 12112005c न भक्षयति मांसानि परैरुपहृतान्यपि 12112006a अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः 12112006c चकार च यथाकाममाहारं पतितैः फलैः 12112007a श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् 12112007c जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् 12112008a तस्य शौचममृष्यन्तः सर्वे ते सहजातयः 12112008c चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः 12112009a वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि 12112009c इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः 12112010a तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् 12112010c भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते 12112011a इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः 12112011c मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः 12112012a अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् 12112012c प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः 12112013a श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् 12112013c आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् 12112014a आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे 12112014c किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् 12112015a भवन्तः सर्वलोभेन केवलं भक्षणे रताः 12112015c अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः 12112016a अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् 12112016c इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये 12112017a तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः 12112017c कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् 12112018a सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह 12112018c व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः 12112019a तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे 12112019c मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति 12112020a अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः 12112020c गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः 12112021a सदृशं मृगराजैतत्तव वाक्यं मदन्तरे 12112021c यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् 12112022a न शक्यमनमात्येन महत्त्वमनुशासितुम् 12112022c दुष्टामात्येन वा वीर शरीरपरिपन्थिना 12112023a सहायाननुरक्तांस्तु यतेतानुपसंहितान् 12112023c परस्परमसंघुष्टान्विजिगीषूनलोलुपान् 12112024a तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः 12112024c पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् 12112025a न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप 12112025c न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् 12112026a न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः 12112026c ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे 12112027a संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् 12112027c कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः 12112028a दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः 12112028c कृती चामोघकर्तासि भाव्यैश्च समलंकृतः 12112029a किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता 12112029c सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः 12112030a राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् 12112030c वनचर्या च निःसङ्गा निर्भया निरवग्रहा 12112031a नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि 12112031c न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् 12112032a पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् 12112032c विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः 12112033a अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः 12112033c उपघातैर्यथा भृत्या दूषिता निधनं गताः 12112034a यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते 12112034c समयं कृतमिच्छामि वर्तितव्यं यथा मयि 12112035a मदीया माननीयास्ते श्रोतव्यं च हितं वचः 12112035c कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा 12112036a न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् 12112036c नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि 12112037a एक एकेन संगम्य रहो ब्रूयां हितं तव 12112037c न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते 12112038a मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया 12112038c मदीयानां च कुपितो मा त्वं दण्डं निपातयेः 12112039a एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः 12112039c प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः 12112040a तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि 12112040c प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः 12112041a मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च 12112041c दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः 12112042a अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः 12112042c अशक्ताः किंचिदादातुं द्रव्यं गोमायुयन्त्रिताः 12112043a व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते 12112043c धनेन महता चैव बुद्धिरस्य विलोभ्यते 12112044a न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह 12112044c अथास्य समयं कृत्वा विनाशाय स्थिताः परे 12112045a ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् 12112045c अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि 12112046a यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् 12112046c तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् 12112047a समयोऽयं कृतस्तेन साचिव्यमुपगच्छता 12112047c नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता 12112048a भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते 12112048c मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत 12112049a कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् 12112049c सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना 12112050a सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् 12112050c बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् 12112051a छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः 12112051c सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते 12112052a इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते 12112052c श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः 12112053a वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः 12112053c धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः 12112053e कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् 12112054a मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः 12112054c आज्ञापयामास तदा गोमायुर्वध्यतामिति 12112055a शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः 12112055c मृगराजं हितैर्वाक्यैः संबोधयितुमागमत् 12112056a पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् 12112056c कर्मसंघर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः 12112057a नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका 12112057c शुचेरपि हि युक्तस्य दोष एव निपात्यते 12112058a लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः 12112058c मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः 12112058e अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः 12112059a बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः 12112059c कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि 12112060a शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव 12112060c नेच्छते दीयमानं च साधु तावद्विमृश्यताम् 12112061a असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शिनः 12112061c दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् 12112062a तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव 12112062c न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः 12112063a तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् 12112063c परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते 12112064a न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् 12112064c श्लाघनीया च वर्या च लोके प्रभवतां क्षमा 12112065a स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः 12112065c दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् 12112066a दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् 12112066c स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति 12112067a तस्मादथारिसंघाताद्गोमायोः कश्चिदागतः 12112067c धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् 12112068a ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः 12112068c परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः 12112069a अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् 12112069c तेनामर्षेण संतप्तः प्रायमासितुमैच्छत 12112070a शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः 12112070c अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् 12112071a तं स गोमायुरालोक्य स्नेहादागतसंभ्रमम् 12112071c बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा 12112072a पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः 12112072c परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि 12112073a स्वसंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः 12112073c स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः 12112074a परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः 12112074c हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः 12112075a संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः 12112075c अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः 12112076a अवमानेन युक्तस्य स्थापितस्य च मे पुनः 12112076c कथं यास्यसि विश्वासमहमेष्यामि वा पुनः 12112077a समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च 12112077c कृतं च समयं भित्त्वा त्वयाहमवमानितः 12112078a प्रथमं यः समाख्यातः शीलवानिति संसदि 12112078c न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता 12112079a एवं चावमतस्येह विश्वासं किं प्रयास्यसि 12112079c त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति 12112080a शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः 12112080c अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् 12112081a दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते 12112081c भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते 12112082a कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः 12112082c कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः 12112083a सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् 12112083c समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते 12112084a अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् 12112084c शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् 12112085a एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् 12112085c प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् 12112086a अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् 12112086c गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ 12113001 युधिष्ठिर उवाच 12113001a किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् 12113001c तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर 12113002 भीष्म उवाच 12113002a हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् 12113002c यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् 12113003a न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः 12113003c उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर 12113004a जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः 12113004c तपः सुमहदातिष्ठदरण्ये संशितव्रतः 12113005a तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः 12113005c वरेण छन्दयामास ततश्चैनं पितामहः 12113006 उष्ट्र उवाच 12113006a भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् 12113006c योजनानां शतं साग्रं या गच्छेच्चरितुं विभो 12113007 भीष्म उवाच 12113007a एवमस्त्विति चोक्तः स वरदेन महात्मना 12113007c प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् 12113008a स चकार तदालस्यं वरदानात्स दुर्मतिः 12113008c न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः 12113009a स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् 12113009c चचाराश्रान्तहृदयो वातश्चागात्ततो महान् 12113010a स गुहायां शिरोग्रीवं निधाय पशुरात्मनः 12113010c आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् 12113011a अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः 12113011c सदारस्तां गुहामाशु प्रविवेश जलार्दितः 12113012a स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः 12113012c अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ 12113013a यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः 12113013c तदा संकोचने यत्नमकरोद्भृशदुःखितः 12113014a यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः 12113014c तावत्तेन सदारेण जम्बुकेन स भक्षितः 12113015a स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा 12113015c विगते वातवर्षे च निश्चक्राम गुहामुखात् 12113016a एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा 12113016c आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम् 12113017a त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः 12113017c वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् 12113018a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 12113018c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 12113019a राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च 12113019c गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ 12113020a परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर 12113020c सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् 12113021a इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव 12113021c मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वमत्र युक्तः प्रचरस्व राजन् 12114001 युधिष्ठिर उवाच 12114001a राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ 12114001c अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः 12114002 भीष्म उवाच 12114002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12114002c सरितां चैव संवादं सागरस्य च भारत 12114003a सुरारिनिलयः शश्वत्सागरः सरितां पतिः 12114003c पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः 12114004a समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान् 12114004c युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम् 12114005a अकायश्चाल्पसारश्च वेतसः कूलजश्च वः 12114005c अवज्ञाय नशक्यो वा किंचिद्वा तेन वः कृतम् 12114006a तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् 12114006c यथा कूलानि चेमानि भित्त्वा नानीयते वशम् 12114007a ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् 12114007c हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् 12114008a तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः 12114008c ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः 12114009a वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः 12114009c स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति 12114010a कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः 12114010c अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः 12114011a मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च 12114011c ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् 12114012a यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने 12114012c पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति 12114013a सारासारं बलं वीर्यमात्मनो द्विषतश्च यः 12114013c जानन्विचरति प्राज्ञो न स याति पराभवम् 12114014a एवमेव यदा विद्वान्मन्येतातिबलं रिपुम् 12114014c संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् 12115001 युधिष्ठिर उवाच 12115001a विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत 12115001c आक्रुश्यमानः सदसि कथं कुर्यादरिंदम 12115002 भीष्म उवाच 12115002a श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते 12115002c सदा सुचेताः सहते नरस्येहाल्पचेतसः 12115003a अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति 12115003c दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै 12115004a टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम् 12115004c लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते 12115005a इति स श्लाघते नित्यं तेन पापेन कर्मणा 12115005c इदमुक्तो मया कश्चित्संमतो जनसंसदि 12115005e स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति 12115006a श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः 12115006c उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः 12115007a यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा 12115007c प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति 12115007e वने काक इवाबुद्धिर्वाशमानो निरर्थकम् 12115008a यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः 12115008c वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः 12115009a निषेकं विपरीतं स आचष्टे वृत्तचेष्टया 12115009c मयूर इव कौपीनं नृत्यन्संदर्शयन्निव 12115010a यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किंचन 12115010c वाचं तेन न संदध्याच्छुचिः संक्लिष्टकर्मणा 12115011a प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः 12115011c स मानवः श्ववल्लोके नष्टलोकपरायणः 12115012a तादृग्जनशतस्यापि यद्ददाति जुहोति च 12115012c परोक्षेणापवादेन तन्नाशयति स क्षणात् 12115013a तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् 12115013c वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा 12115014a परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने 12115014c प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम् 12115015a तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति 12115015c भस्मकूट इवाबुद्धिः खरो रजसि मज्जति 12115016a मनुष्यशालावृकमप्रशान्तं; जनापवादे सततं निविष्टम् 12115016c मातङ्गमुन्मत्तमिवोन्नदन्तं; त्यजेत तं श्वानमिवातिरौद्रम् 12115017a अधीरजुष्टे पथि वर्तमानं; दमादपेतं विनयाच्च पापम् 12115017c अरिव्रतं नित्यमभूतिकामं; धिगस्तु तं पापमतिं मनुष्यम् 12115018a प्रत्युच्यमानस्तु हि भूय एभि;र्निशाम्य मा भूस्त्वमथार्तरूपः 12115018c उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये 12115019a क्रुद्धो दशार्धेन हि ताडयेद्वा; स पांसुभिर्वापकिरेत्तुषैर्वा 12115019c विवृत्य दन्तांश्च विभीषयेद्वा; सिद्धं हि मूर्खे कुपिते नृशंसे 12115020a विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान्नरः 12115020c पठेदिदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किंचिदप्रियम् 12116001 युधिष्ठिर उवाच 12116001a पितामह महाप्राज्ञ संशयो मे महानयम् 12116001c स च्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः 12116002a पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् 12116002c कथितो वाक्यसंचारस्ततो विज्ञापयामि ते 12116003a यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् 12116003c आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् 12116004a पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् 12116004c अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे 12116005a अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः 12116005c असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः 12116006a यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः 12116006c इन्द्रियाणामनीशत्वादसज्जनबुभूषकः 12116007a तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः 12116007c न च भृत्यफलैरर्थैः स राजा संप्रयुज्यते 12116008a एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान् 12116008c बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति 12116009a शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः 12116009c क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा 12116010a त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् 12116010c अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् 12116011a कीदृषाः संनिकर्षस्था भृत्याः स्युर्वा गुणान्विताः 12116011c कीदृशैः किंकुलीनैर्वा सह यात्रा विधीयते 12116012a न ह्येको भृत्यरहितो राजा भवति रक्षिता 12116012c राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति 12116013a न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत 12116013c असहायवता तात नैवार्थाः केचिदप्युत 12116013e लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ 12116014 भीष्म उवाच 12116014a यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः 12116014c हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते 12116015a मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः 12116015c नृपतेर्मतिदाः सन्ति संबन्धज्ञानकोविदाः 12116016a अनागतविधातारः कालज्ञानविशारदाः 12116016c अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते 12116017a समदुःखसुखा यस्य सहायाः सत्यकारिणः 12116017c अर्थचिन्तापरा यस्य स राज्यफलमश्नुते 12116018a यस्य नार्तो जनपदः संनिकर्षगतः सदा 12116018c अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत् 12116019a कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः 12116019c आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः 12116020a कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः 12116020c पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत् 12116021a व्यवहारश्च नगरे यस्य कर्मफलोदयः 12116021c दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् 12116022a संगृहीतमनुष्यश्च यो राजा राजधर्मवित् 12116022c षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते 12117001 भीष्म उवाच 12117001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12117001c निदर्शनकरं लोके सज्जनाचरितं सदा 12117002a अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने 12117002c जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः 12117003a वने महति कस्मिंश्चिदमनुष्यनिषेविते 12117003c ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः 12117004a दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः 12117004c उपवासविशुद्धात्मा सततं सत्पथे स्थितः 12117005a तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः 12117005c सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः 12117006a सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः 12117006c द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः 12117007a ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः 12117007c तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः 12117008a दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् 12117008c ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् 12117009a भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः 12117009c फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा 12117010a तस्यर्षेरुपविष्टस्य पादमूले महामुनेः 12117010c मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् 12117011a ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः 12117011c श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः 12117012a लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः 12117012c व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् 12117013a तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप 12117013c प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते 12117014a श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति 12117014c त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने 12117015 मुनिरुवाच 12117015a न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन 12117015c एष श्वरूपरहितो द्वीपी भवसि पुत्रक 12117016 भीष्म उवाच 12117016a ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः 12117016c चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः 12117017a ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः 12117017c द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः 12117018a व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् 12117018c द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् 12117019a ततः संवासजं स्नेहमृषिणा कुर्वता सदा 12117019c स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः 12117019e ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते 12117020a स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः 12117020c न मूलफलभोगेषु स्पृहामप्यकरोत्तदा 12117021a यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः 12117021c तथैव स महाराज व्याघ्रः समभवत्तदा 12117022a व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः 12117022c नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः 12117023a प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः 12117023c सुविषाणो महाकायो मेघगम्भीरनिस्वनः 12117024a तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम् 12117024c व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ 12117025a ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः 12117025c महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः 12117026a ततः कमलषण्डानि शल्लकीगहनानि च 12117026c व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः 12117027a कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा 12117027c ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् 12117028a अथाजगाम तं देशं केसरी केसरारुणः 12117028c गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः 12117029a तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः 12117029c ऋषिं शरणमापेदे वेपमानो भयातुरः 12117030a ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा 12117030c वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् 12117031a दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः 12117031c स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी 12117032a न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः 12117032c व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा 12117033a कदाचित्कालयोगेन सर्वप्राणिविहिंसकः 12117033c बलवान्क्षतजाहारो नानासत्त्वभयंकरः 12117034a अष्टपादूर्ध्वचरणः शरभो वनगोचरः 12117034c तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् 12117035a तं मुनिः शरभं चक्रे बलोत्कटमरिंदम 12117035c ततः स शरभो वन्यो मुनेः शरभमग्रतः 12117035e दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात् 12117036a स एवं शरभस्थाने न्यस्तो वै मुनिना तदा 12117036c मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् 12117037a ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् 12117037c दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः 12117038a शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः 12117038c फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः 12117039a ततो रुधिरतर्षेण बलिना शरभोऽन्वितः 12117039c इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः 12117040a ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा 12117040c विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् 12117041a श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः 12117041c व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् 12117042a सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः 12117042c मया स्नेहपरीतेन न विमृष्टः कुलान्वयः 12117043a यस्मादेवमपापं मां पाप हिंसितुमिच्छसि 12117043c तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि 12117044a ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः 12117044c ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान् 12118001 भीष्म उवाच 12118001a स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् 12118001c ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः 12118002a एवं राज्ञा मतिमता विदित्वा शीलशौचताम् 12118002c आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् 12118003a अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम् 12118003c भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः 12118004a नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति 12118004c अकुलीननराकीर्णो न राजा सुखमेधते 12118005a कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा 12118005c न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि 12118006a अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् 12118006c दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् 12118007a कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् 12118007c सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा 12118008a कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् 12118008c अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् 12118009a सचिवं देशकालज्ञं सर्वसंग्रहणे रतम् 12118009c सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् 12118010a युक्ताचारं स्वविषये संधिविग्रहकोविदम् 12118010c राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् 12118011a खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् 12118011c इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् 12118012a हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम् 12118012c प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् 12118013a चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् 12118013c नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् 12118014a अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च 12118014c धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् 12118015a सचिवं यः प्रकुरुते न चैनमवमन्यते 12118015c तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव 12118016a एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः 12118016c एष्टव्यो धर्मपरमः प्रजापालनतत्परः 12118017a धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् 12118017c शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः 12118018a मेधावी धारणायुक्तो यथान्यायोपपादकः 12118018c दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये 12118019a दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः 12118019c आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः 12118020a नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः 12118020c कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः 12118021a संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा 12118021c दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः 12118022a युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः 12118022c चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा 12118023a राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् 12118023c योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः 12118024a अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः 12118024c न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता 12118025a योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः 12118025c धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः 12118026a अर्थमानविवृद्धाश्च रथचर्याविशारदाः 12118026c इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही 12118027a सर्वसंग्रहणे युक्तो नृपो भवति यः सदा 12118027c उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः 12118028a शक्या अश्वसहस्रेण वीरारोहेण भारत 12118028c संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा 12119001 भीष्म उवाच 12119001a एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः 12119001c नियोजयति कृत्येषु स राज्यफलमश्नुते 12119002a न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः 12119002c आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते 12119003a स्वजातिकुलसंपन्नाः स्वेषु कर्मस्ववस्थिताः 12119003c प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा 12119004a अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति 12119004c स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते 12119005a शरभः शरभस्थाने सिंहः सिंह इवोर्जितः 12119005c व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा 12119006a कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि 12119006c प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा 12119007a यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः 12119007c भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः 12119008a न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः 12119008c नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा 12119009a साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः 12119009c अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः 12119010a न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः 12119010c स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः 12119011a सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् 12119011c असिंहः सिंहसहितः सिंहवल्लभते फलम् 12119012a यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः 12119012c न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः 12119013a एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः 12119013c कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम् 12119014a नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः 12119014c संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर 12119015a बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः 12119015c ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् 12119016a कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः 12119016c कोशमूला हि राजानः कोशमूलकरो भव 12119017a कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितम् 12119017c सदास्तु सत्सु संन्यस्तं धनधान्यपरो भव 12119018a नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः 12119018c वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते 12119019a ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसंवृतः 12119019c पौरकार्यहितान्वेषी भव कौरवनन्दन 12119020a एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया 12119020c श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि 12120001 युधिष्ठिर उवाच 12120001a राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत 12120001c पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः 12120002a तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम् 12120002c प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ 12120003 भीष्म उवाच 12120003a रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् 12120003c तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते 12120004a यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः 12120004c तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् 12120005a तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च 12120005c मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति 12120006a यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत् 12120006c बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति 12120007a नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी 12120007c श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः 12120008a आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव 12120008c शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् 12120009a अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् 12120009c नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः 12120009e लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् 12120010a मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् 12120010c जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः 12120011a दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् 12120011c काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् 12120012a उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् 12120012c श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् 12120013a प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने 12120013c मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् 12120013e न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना 12120014a चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् 12120014c पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः 12120015a हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् 12120015c नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् 12120016a सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् 12120016c सर्वतश्चाददेत्प्रज्ञां पतंगान्गहनेष्विव 12120016e एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् 12120017a आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः 12120017c आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् 12120017e बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् 12120018a परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् 12120018c आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् 12120018e सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः 12120019a निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा 12120019c संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः 12120019e स्वभावमेष्यते तप्तं कृष्णायसमिवोदके 12120020a अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः 12120020c आगमैरुपदिष्टानि स्वस्य चैव परस्य च 12120021a क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् 12120021c स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः 12120022a अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु 12120022c सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता 12120023a धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् 12120023c ममायमिति राजा यः स पर्वत इवाचलः 12120024a व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् 12120024c धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये 12120025a कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः 12120025c मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् 12120026a अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् 12120026c स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः 12120027a एतेनैव प्रकारेण कृत्यानामागतिं गतिम् 12120027c युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः 12120028a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 12120028c आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा 12120029a व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः 12120029c गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् 12120030a नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् 12120030c चारांश्च नचरान्विद्यात्तथा बुद्ध्या न संज्वरेत् 12120031a कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् 12120031c अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् 12120032a यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः 12120032c तथा द्रव्यमुपादाय राजा कुर्वीत संचयम् 12120033a यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः 12120033c संचयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् 12120034a नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान् 12120034c बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् 12120035a धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या; धैर्यं शौर्यं देशकालोऽप्रमादः 12120035c स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्यष्ट समिन्धनानि 12120036a अग्निस्तोको वर्धते ह्याज्यसिक्तो; बीजं चैकं बहुसाहस्रमेति 12120036c क्षयोदयौ विपुलौ संनिशाम्य; तस्मादल्पं नावमन्येत विद्वान् 12120037a बालोऽबालः स्थविरो वा रिपुर्यः; सदा प्रमत्तं पुरुषं निहन्यात् 12120037c कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः 12120038a हरेत्कीर्तिं धर्ममस्योपरुन्ध्या;दर्थे दीर्घं वीर्यमस्योपहन्यात् 12120038c रिपुर्द्वेष्टा दुर्बलो वा बली वा; तस्माच्छत्रौ नैव हेडेद्यतात्मा 12120039a क्षयं शत्रोः संचयं पालनं चा;प्युभौ चार्थौ सहितौ धर्मकामौ 12120039c अतश्चान्यन्मतिमान्संदधीत; तस्माद्राजा बुद्धिमन्तं श्रयेत 12120040a बुद्धिर्दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम् 12120040c शत्रुर्बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् 12120041a सर्वान्कामान्कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः 12120041c यथात्मानं प्रार्थयतेऽर्थमानैः; श्रेयःपात्रं पूरयते ह्यनल्पम् 12120042a तस्माद्राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतोऽभ्याददीत 12120042c दीर्घं कालमपि संपीड्यमानो; विद्युत्संपातमिव मानोर्जितः स्यात् 12120043a विद्या तपो वा विपुलं धनं वा; सर्वमेतद्व्यवसायेन शक्यम् 12120043c ब्रह्म यत्तं निवसति देहवत्सु; तस्माद्विद्याद्व्यवसायं प्रभूतम् 12120044a यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर्यत्र सरस्वती च 12120044c वसन्ति भूतानि च यत्र नित्यं; तस्माद्विद्वान्नावमन्येत देहम् 12120045a लुब्धं हन्यात्संप्रदानेन नित्यं; लुब्धस्तृप्तिं परवित्तस्य नैति 12120045c सर्वो लुब्धः कर्मगुणोपभोगे; योऽर्थैर्हीनो धर्मकामौ जहाति 12120046a धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम् 12120046c लुब्धे दोषाः संभवन्तीह सर्वे; तस्माद्राजा न प्रगृह्णीत लुब्धान् 12120047a संदर्शने सत्पुरुषं जघन्यमपि चोदयेत् 12120047c आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् 12120048a धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव 12120048c आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसंग्रहे 12120049a विधिप्रवृत्तान्नरदेवधर्मा;नुक्तान्समासेन निबोध बुद्ध्या 12120049c इमान्विदध्याद्व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः 12120050a अनीतिजं यद्यविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते 12120050c न विद्यते तस्य गतिर्महीपते;र्न विद्यते राष्ट्रजमुत्तमं सुखम् 12120051a धनैर्विशिष्टान्मतिशीलपूजिता;न्गुणोपपन्नान्युधि दृष्टविक्रमान् 12120051c गुणेषु दृष्टानचिरादिहात्मवा;न्सतोऽभिसंधाय निहन्ति शात्रवान् 12120052a पश्येदुपायान्विविधैः क्रियापथै;र्न चानुपायेन मतिं निवेशयेत् 12120052c श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते 12120053a प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः 12120053c यदेव मित्रं गुरुभारमावहे;त्तदेव सुस्निग्धमुदाहरेद्बुधः 12120054a एतान्मयोक्तांस्तव राजधर्मा;न्नृणां च गुप्तौ मतिमादधत्स्व 12120054c अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः 12121001 युधिष्ठिर उवाच 12121001a अयं पितामहेनोक्तो राजधर्मः सनातनः 12121001c ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् 12121002a देवतानामृषीणां च पितॄणां च महात्मनाम् 12121002c यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः 12121003a सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् 12121003c सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो 12121004a इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् 12121004c दृश्यते लोकमासक्तं ससुरासुरमानुषम् 12121005a एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ 12121005c को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः 12121006a किमात्मकः कथंभूतः कतिमूर्तिः कथंप्रभुः 12121006c जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः 12121007a कश्च पूर्वापरमिदं जागर्ति परिपालयन् 12121007c कश्च विज्ञायते पूर्वं कोऽपरो दण्डसंज्ञितः 12121007e किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते 12121008 भीष्म उवाच 12121008a शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः 12121008c यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः 12121009a धर्मस्याख्या महाराज व्यवहार इतीष्यते 12121009c तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः 12121009e इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते 12121010a अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः 12121010c सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना 12121010e प्रजा रक्षति यः सम्यग्धर्म एव स केवलः 12121011a अथोक्तमेतद्वचनं प्रागेव मनुना पुरा 12121011c जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् 12121012a प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः 12121012c व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते 12121013a दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते 12121013c दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः 12121014a नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः 12121014c अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् 12121015a जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः 12121015c एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः 12121016a असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः 12121016c मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः 12121017a सर्वप्रहरणीयानि सन्ति यानीह कानिचित् 12121017c दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् 12121018a भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा 12121018c घातयन्नभिधावंश्च दण्ड एव चरत्युत 12121019a असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः 12121019c श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः 12121020a शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः 12121020c धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः 12121021a असङ्गो रुद्रतनयो मनुज्येष्ठः शिवंकरः 12121021c नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर 12121022a दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः 12121022c शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते 12121023a यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती 12121023c दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः 12121024a अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले 12121024c दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ 12121025a कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः 12121025c अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः 12121026a दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये 12121026c हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् 12121027a अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् 12121027c मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ 12121028a अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ 12121028c विनयश्च विसर्गश्च कालाकालौ च भारत 12121029a अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च 12121029c क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ 12121030a तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा 12121030c विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले 12121031a असूया चानसूया च धर्माधर्मौ तथैव च 12121031c अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह 12121032a तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता 12121032c एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता 12121033a न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् 12121033c भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर 12121034a दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः 12121034c राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् 12121035a व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर 12121035c सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते 12121036a धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च 12121036c बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः 12121037a प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत 12121037c अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः 12121038a प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः 12121038c तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च 12121039a एवंप्रयोजनश्चैव दण्डः क्षत्रियतां गतः 12121039c रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः 12121040a ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः 12121040c भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः 12121041a अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च 12121041c बले नयश्च संयुक्तः सदा पञ्चविधात्मकः 12121042a कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च 12121042c आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर 12121043a हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च 12121043c दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् 12121044a अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः 12121044c अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये 12121045a भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः 12121045c कोशो मित्राणि धान्यं च सर्वोपकरणानि च 12121046a सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः 12121046c राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च 12121047a ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि 12121047c दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् 12121047e राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः 12121048a ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च 12121048c भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः 12121048e तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः 12121049a व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते 12121049c मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः 12121050a उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः 12121050c ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च 12121051a दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः 12121051c व्यवहारः स्मृतो यश्च स वेदविषयात्मकः 12121052a यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः 12121052c धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः 12121053a व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर 12121053c त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः 12121054a यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः 12121054c व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः 12121054e यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः 12121055a ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः 12121055c लोकानां स हि सर्वेषां ससुरासुररक्षसाम् 12121055e समनुष्योरगवतां कर्ता चैव स भूतकृत् 12121056a ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः 12121056c तस्मादिदमवोचाम व्यवहारनिदर्शनम् 12121057a माता पिता च भ्राता च भार्या चाथ पुरोहितः 12121057c नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति 12122001 भीष्म उवाच 12122001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12122001c अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः 12122002a स राजा धर्मनित्यः सन्सह पत्न्या महातपाः 12122002c मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् 12122003a तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते 12122003c यत्र मुञ्जवटे रामो जटाहरणमादिशत् 12122004a तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः 12122004c मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः 12122005a स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः 12122005c ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् 12122006a तं कदाचिददीनात्मा सखा शक्रस्य मानितः 12122006c अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः 12122007a सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् 12122007c दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत 12122008a वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् 12122008c अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा 12122009a सद्भिराचरितं पूर्वं यथावदनुयायिनम् 12122009c अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते 12122010a सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् 12122010c वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन 12122011a बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया 12122011c तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप 12122012a तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् 12122012c किं वापि पूर्वं जागर्ति किं वा परममुच्यते 12122013a कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः 12122013c ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् 12122014 वसुहोम उवाच 12122014a शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः 12122014c प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः 12122015a ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः 12122015c ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् 12122016a स गर्भं शिरसा देवो वर्षपूगानधारयत् 12122016c पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् 12122017a स क्षुपो नाम संभूतः प्रजापतिररिंदम 12122017c ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः 12122018a तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ 12122018c हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् 12122019a तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत् 12122019c नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते 12122020a पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् 12122020c गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् 12122021a परस्परं विलुम्पन्ते सारमेया इवामिषम् 12122021c अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत 12122022a ततः पितामहो विष्णुं भगवन्तं सनातनम् 12122022c संपूज्य वरदं देवं महादेवमथाब्रवीत् 12122023a अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् 12122023c संकरो न भवेदत्र यथा वै तद्विधीयताम् 12122024a ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः 12122024c आत्मानमात्मना दण्डमसृजद्देवसत्तमः 12122025a तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् 12122025c असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता 12122026a भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः 12122026c तस्य तस्य निकायस्य चकारैकैकमीशरम् 12122027a देवानामीश्वरं चक्रे देवं दशशतेक्षणम् 12122027c यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् 12122028a धनानां रक्षसां चापि कुबेरमपि चेश्वरम् 12122028c पर्वतानां पतिं मेरुं सरितां च महोदधिम् 12122029a अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् 12122029c मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् 12122030a रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः 12122030c महात्मानं महादेवं विशालाक्षं सनातनम् 12122031a वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् 12122031c तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् 12122032a वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् 12122032c कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् 12122033a कालं सर्वेशमकरोत्संहारविनयात्मकम् 12122033c मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च 12122034a ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः 12122034c सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः 12122035a तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ 12122035c प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि 12122036a महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि 12122036c दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ 12122037a विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः 12122037c प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ 12122038a भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् 12122038c ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च 12122039a क्षुपस्तु मनवे प्रादादादित्यतनयाय च 12122039c पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् 12122039e तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् 12122040a विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया 12122040c दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया 12122041a व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् 12122041c शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् 12122042a आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् 12122042c इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः 12122043a अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः 12122043c प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः 12122044a धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः 12122044c व्यवसायात्ततस्तेजो जागर्ति परिपालयन् 12122045a ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः 12122045c पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा 12122046a जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि 12122046c वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः 12122047a ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः 12122047c पितामहान्महादेवो जागर्ति भगवाञ्शिवः 12122048a विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः 12122048c ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः 12122049a देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय 12122049c ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः 12122049e स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् 12122050a प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च 12122050c सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः 12122051a जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत 12122051c ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः 12122052a देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः 12122052c कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः 12122053a इत्येष दण्डो विख्यात आदौ मध्ये तथावरे 12122053c भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् 12122054 भीष्म उवाच 12122054a इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः 12122054c श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः 12122055a इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ 12122055c नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत 12123001 युधिष्ठिर उवाच 12123001a तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् 12123001c लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता 12123002a धर्मार्थकामाः किंमूलास्त्रयाणां प्रभवश्च कः 12123002c अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् 12123003 भीष्म उवाच 12123003a यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये 12123003c कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा 12123004a धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते 12123004c संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः 12123005a विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये 12123005c मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते 12123006a धर्मः शरीरसंगुप्तिर्धर्मार्थं चार्थ इष्यते 12123006c कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः 12123007a संनिकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् 12123007c विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् 12123008a श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् 12123008c बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया 12123009a अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् 12123009c संप्रमोदमलः कामो भूयः स्वगुणवर्तितः 12123010a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12123010c कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः 12123011a कामन्दमृषिमासीनमभिवाद्य नराधिपः 12123011c अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् 12123012a यः पापं कुरुते राजा काममोहबलात्कृतः 12123012c प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् 12123013a अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह 12123013c तं चापि प्रथितं लोके कथं राजा निवर्तयेत् 12123014 कामन्द उवाच 12123014a यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते 12123014c स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति 12123015a प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः 12123015c तस्मान्नास्तिकता चैव दुराचारश्च जायते 12123016a दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति 12123016c तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 12123017a तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः 12123017c ततः संक्षयमाप्नोति तथा वध्यत्वमेति च 12123018a अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् 12123018c जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् 12123019a अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् 12123019c सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च 12123020a महामना भवेद्धर्मे विवहेच्च महाकुले 12123020c ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः 12123021a जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः 12123021c धर्मान्वितान्संप्रविशेद्बहिः कृत्वैव दुष्कृतीन् 12123022a प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा 12123022c इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् 12123023a अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् 12123023c पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः 12123024a गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु 12123024c गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि 12124001 युधिष्ठिर उवाच 12124001a इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि 12124001c धर्मस्य शीलमेवादौ ततो मे संशयो महान् 12124002a यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर 12124002c श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते 12124003a कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत 12124003c किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर 12124004 भीष्म उवाच 12124004a पुरा दुर्योधनेनेह धृतराष्ट्राय मानद 12124004c आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् 12124005a इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह 12124005c सभायां चावहसनं तत्सर्वं शृणु भारत 12124006a भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् 12124006c दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् 12124007a श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा 12124007c अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः 12124008a किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः 12124008c श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि 12124009a यथा त्वं महदैश्वर्यं प्राप्तः परपुरंजय 12124009c किंकरा भ्रातरः सर्वे मित्राः संबन्धिनस्तथा 12124010a आच्छादयसि प्रावारानश्नासि पिशितोदनम् 12124010c आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक 12124011 दुर्योधन उवाच 12124011a दश तानि सहस्राणि स्नातकानां महात्मनाम् 12124011c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 12124012a दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् 12124012c अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च 12124013a दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् 12124013c अमित्राणां सुमहतीमनुशोचामि मानद 12124014 धृतराष्ट्र उवाच 12124014a यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे 12124014c विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक 12124015a शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः 12124015c न हि किंचिदसाध्यं वै लोके शीलवतां भवेत् 12124016a एकरात्रेण मान्धाता त्र्यहेण जनमेजयः 12124016c सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् 12124017a एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः 12124017c अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् 12124018a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12124018c नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत 12124019a प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः 12124019c शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् 12124020a ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः 12124020c उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् 12124021a ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् 12124021c कथयामास भगवान्देवेन्द्राय कुरूद्वह 12124022a एतावच्छ्रेय इत्येव बृहस्पतिरभाषत 12124022c इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति 12124023 बृहस्पतिरुवाच 12124023a विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः 12124023c तत्रागमय भद्रं ते भूय एव पुरंदर 12124024 धृतराष्ट्र उवाच 12124024a आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः 12124024c ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः 12124025a तेनापि समनुज्ञातो भार्गवेण महात्मना 12124025c श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः 12124026a भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः 12124026c ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् 12124027a स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः 12124027c सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् 12124028a प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ 12124028c त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते 12124029a ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् 12124029c ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् 12124030a ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने 12124030c तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा 12124031a ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् 12124031c चकार सर्वभावेन यद्वत्स मनसेच्छति 12124032a पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम 12124032c त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे 12124033 प्रह्राद उवाच 12124033a नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन 12124033c कव्यानि वदतां तात संयच्छामि वहामि च 12124034a ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 12124034c ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् 12124035a धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् 12124035c समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः 12124036a सोऽहं वागग्रपिष्टानां रसानामवलेहिता 12124036c स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः 12124037a एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् 12124037c यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते 12124038 धृतराष्ट्र उवाच 12124038a एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् 12124038c शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् 12124039a यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम 12124039c वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः 12124040a कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः 12124040c प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत 12124041 ब्राह्मण उवाच 12124041a यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् 12124041c भवतः शीलमिच्छामि प्राप्तुमेष वरो मम 12124042 धृतराष्ट्र उवाच 12124042a ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् 12124042c वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत 12124043a एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा 12124043c उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् 12124044a दत्ते वरे गते विप्रे चिन्तासीन्महती ततः 12124044c प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् 12124045a तस्य चिन्तयतस्तात छायाभूतं महाद्युते 12124045c तेजो विग्रहवत्तात शरीरमजहात्तदा 12124046a तमपृच्छन्महाकायं प्रह्रादः को भवानिति 12124046c प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया 12124047a तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् 12124047c योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः 12124047e इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो 12124048a तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः 12124048c शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् 12124049a धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः 12124049c तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् 12124050a ततोऽपरो महाराज प्रज्वलन्निव तेजसा 12124050c शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः 12124051a को भवानिति पृष्टश्च तमाह स महाद्युतिः 12124051c सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह 12124052a तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः 12124052c निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना 12124052e वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् 12124053a तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ 12124053c पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः 12124053e इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप 12124054a ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ 12124054c तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् 12124055a उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे 12124055c त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् 12124056a ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः 12124056c अपृच्छत च तां भूयः क्व यासि कमलालये 12124057a त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी 12124057c कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् 12124058 श्रीरुवाच 12124058a स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः 12124058c त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो 12124059a शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः 12124059c तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो 12124060a धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् 12124060c शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः 12124061 भीष्म उवाच 12124061a एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर 12124061c दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् 12124062a शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन 12124062c प्राप्यते च यथा शीलं तमुपायं वदस्व मे 12124063 धृतराष्ट्र उवाच 12124063a सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना 12124063c संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप 12124064a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12124064c अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते 12124065a यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् 12124065c अपत्रपेत वा येन न तत्कुर्यात्कथंचन 12124066a तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि 12124066c एतच्छीलं समासेन कथितं कुरुसत्तम 12124067a यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् 12124067c न भुञ्जते चिरं तात समूलाश्च पतन्ति ते 12124068a एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक 12124068c यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् 12124069 भीष्म उवाच 12124069a एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप 12124069c एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् 12125001 युधिष्ठिर उवाच 12125001a शीलं प्रधानं पुरुषे कथितं ते पितामह 12125001c कथमाशा समुत्पन्ना या च सा तद्वदस्व मे 12125002a संशयो मे महानेष समुत्पन्नः पितामह 12125002c छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय 12125003a पितामहाशा महती ममासीद्धि सुयोधने 12125003c प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो 12125004a सर्वस्याशा सुमहती पुरुषस्योपजायते 12125004c तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् 12125005a सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना 12125005c धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम 12125006a आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् 12125006c आकाशादपि वा राजन्नप्रमेयैव वा पुनः 12125007a एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा 12125007c दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः 12125008 भीष्म उवाच 12125008a अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् 12125008c इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च 12125009a सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः 12125009c ससार स मृगं विद्ध्वा बाणेन नतपर्वणा 12125010a स मृगो बाणमादाय ययावमितविक्रमः 12125010c स च राजा बली तूर्णं ससार मृगमन्तिकात् 12125011a ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः 12125011c मुहूर्तमेव राजेन्द्र समेन स पथागमत् 12125012a ततः स राजा तारुण्यादौरसेन बलेन च 12125012c ससार बाणासनभृत्सखड्गो हंसवत्तदा 12125013a तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च 12125013c अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् 12125014a स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् 12125014c पुनरभ्येति जवनो जवेन महता ततः 12125015a स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः 12125015c प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् 12125016a पुनश्च जवमास्थाय जवनो मृगयूथपः 12125016c अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् 12125017a तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः 12125017c समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् 12125018a ततो गव्यूतिमात्रेण मृगयूथपयूथपः 12125018c तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव 12125019a तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः 12125019c प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् 12125020a प्रविश्य तु महारण्यं तापसानामथाश्रमम् 12125020c आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः 12125021a तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा 12125021c समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि 12125022a ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् 12125022c केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् 12125023a पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर 12125023c एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद 12125023e कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः 12125024a ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ 12125024c आचख्यौ तद्यथान्यायं परिचर्यां च भारत 12125025a हैहयानां कुले जातः सुमित्रो मित्रनन्दनः 12125025c चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः 12125025e बलेन महता गुप्तः सामात्यः सावरोधनः 12125026a मृगस्तु विद्धो बाणेन मया सरति शल्यवान् 12125026c तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया 12125026e भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः 12125027a किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः 12125027c भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः 12125028a न राजलक्षणत्यागो न पुरस्य तपोधनाः 12125028c दुःखं करोति तत्तीव्रं यथाशा विहता मम 12125029a हिमवान्वा महाशैलः समुद्रो वा महोदधिः 12125029c महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा 12125029e आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः 12125030a भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः 12125030c भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् 12125031a आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा 12125031c किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः 12125031e एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् 12125032a यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् 12125032c न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः 12125033a भवत्तपोविघातो वा येन स्याद्विरमे ततः 12125033c यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः 12125034a एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः 12125034c भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः 12126001 भीष्म उवाच 12126001a ततस्तेषां समस्तानामृषीणामृषिसत्तमः 12126001c ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् 12126002a पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो 12126002c समासादितवान्दिव्यं नरनारायणाश्रमम् 12126003a यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा 12126003c यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् 12126004a तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा 12126004c पितॄणां देवतानां च ततोऽऽश्रममियां तदा 12126005a रेमाते यत्र तौ नित्यं नरनारायणावृषी 12126005c अदूरादाश्रमं कंचिद्वासार्थमगमं ततः 12126006a ततश्चीराजिनधरं कृशमुच्चमतीव च 12126006c अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् 12126007a अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् 12126007c कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् 12126008a शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् 12126008c ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः 12126009a शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च 12126009c तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम 12126010a दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः 12126010c पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः 12126011a निवेद्य नाम गोत्रं च पितरं च नरर्षभ 12126011c प्रदिष्टे चासने तेन शनैरहमुपाविशम् 12126012a ततः स कथयामास कथा धर्मार्थसंहिताः 12126012c ऋषिमध्ये महाराज तत्र धर्मभृतां वरः 12126013a तस्मिंस्तु कथयत्येव राजा राजीवलोचनः 12126013c उपायाज्जवनैरश्वैः सबलः सावरोधनः 12126014a स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः 12126014c भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः 12126015a इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः 12126015c एवमाशाकृतो राजंश्चरन्वनमिदं पुरा 12126016a दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः 12126016c एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा 12126017a दुर्लभः स मया द्रष्टुमाशा च महती मम 12126017c तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः 12126018a एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः 12126018c अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् 12126019a तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः 12126019c उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् 12126020a दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् 12126020c ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि 12126021a महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः 12126021c बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः 12126022a अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च 12126022c निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत 12126023a एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् 12126023c श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम 12126024a अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः 12126024c आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् 12126025a ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् 12126025c उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् 12126026a अपृच्छंश्चैव ते तत्र राजानमपराजितम् 12126026c प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् 12126027 राजोवाच 12126027a वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः 12126027c भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः 12126028a एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ 12126028c न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् 12126029 ऋषभ उवाच 12126029a एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः 12126029c तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् 12126030a स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः 12126030c आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः 12126031a प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन 12126031c अन्येषां चैव वर्णानामिति कृत्वा धियं तदा 12126032a आशा हि पुरुषं बालं लालापयति तस्थुषी 12126032c तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः 12126033 राजोवाच 12126033a आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् 12126033c ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् 12126034 ऋषभ उवाच 12126034a ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् 12126034c राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः 12126035a कृशत्वे न समं राजन्नाशाया विद्यते नृप 12126035c तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया 12126036 राजोवाच 12126036a कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव 12126036c दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज 12126037a संशयस्तु महाप्राज्ञ संजातो हृदये मम 12126037c तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः 12126038a त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् 12126038c यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् 12126039 कृशतनुरुवाच 12126039a दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् 12126039c सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते 12126040a संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः 12126040c सक्ता या सर्वभूतेषु साशा कृशतरी मया 12126041a एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा 12126041c प्रवृत्तिं यो न जानाति साशा कृशतरी मया 12126042a प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता 12126042c तथा नरेन्द्र धनिनामाशा कृशतरी मया 12126043 ऋषभ उवाच 12126043a एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः 12126043c संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे 12126044 राजोवाच 12126044a प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम् 12126044c वृणीष्व च वरं विप्र यमिच्छसि यथाविधि 12126045 ऋषभ उवाच 12126045a अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः 12126045c सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा 12126046a ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः 12126046c पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च 12126047a तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् 12126047c आत्मानं दर्शयामास धर्मं धर्मभृतां वरः 12126048a संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् 12126048c विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् 12126049a एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् 12126049c आशामपनयस्वाशु ततः कृशतरीमिमाम् 12126050 भीष्म उवाच 12126050a स तत्रोक्तो महाराज ऋषभेण महात्मना 12126050c सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा 12126051a एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम 12126051c स्थिरो भव यथा राजन्हिमवानचलोत्तमः 12126052a त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह 12126052c श्रुत्वा मम महाराज न संतप्तुमिहार्हसि 12127001 युधिष्ठिर उवाच 12127001a नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि 12127001c तस्मात्कथय भूयस्त्वं धर्ममेव पितामह 12127002 भीष्म उवाच 12127002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12127002c गौतमस्य च संवादं यमस्य च महात्मनः 12127003a पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् 12127003c उवास गौतमो यत्र कालं तदपि मे शृणु 12127004a षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः 12127004c तमुग्रतपसं युक्तं तपसा भावितं मुनिम् 12127005a उपयातो नरव्याघ्र लोकपालो यमस्तदा 12127005c तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् 12127006a स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा 12127006c प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः 12127007a तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् 12127007c न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् 12127008 गौतम उवाच 12127008a मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् 12127008c कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् 12127009 यम उवाच 12127009a तपःशौचवता नित्यं सत्यधर्मरतेन च 12127009c मातापित्रोरहरहः पूजनं कार्यमञ्जसा 12127010a अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः 12127010c तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् 12128001 युधिष्ठिर उवाच 12128001a मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः 12128001c राज्ञः संक्षीणकोशस्य बलहीनस्य भारत 12128002a दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः 12128002c राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः 12128003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12128003c असंविहितराष्ट्रस्य देशकालावजानतः 12128004a अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् 12128004c जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् 12128005 भीष्म उवाच 12128005a गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ 12128005c अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर 12128006a धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ 12128006c श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् 12128007a कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः 12128007c तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया 12128008a उपायं धर्मबहुलं यात्रार्थं शृणु भारत 12128008c नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् 12128008e दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः 12128009a अनुगम्य गतीनां च सर्वासामेव निश्चयम् 12128009c यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते 12128009e तथा तथा विजानाति विज्ञानं चास्य रोचते 12128010a अविज्ञानादयोगश्च पुरुषस्योपजायते 12128010c अविज्ञानादयोगो हि योगो भूतिकरः पुनः 12128011a अशङ्कमानो वचनमनसूयुरिदं शृणु 12128011c राज्ञः कोशक्षयादेव जायते बलसंक्षयः 12128012a कोशं संजनयेद्राजा निर्जलेभ्यो यथा जलम् 12128012c कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम् 12128013a उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः 12128013c अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत 12128014a प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी 12128014c धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति 12128015a यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते 12128015c तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः 12128016a अधर्मो जायते यस्मिन्निति वै कवयो विदुः 12128016c अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे 12128017a यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा 12128017c तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् 12128018a सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः 12128018c सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः 12128019a तत्र धर्मविदां तात निश्चयो धर्मनैपुणे 12128019c उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः 12128020a क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति 12128020c अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत 12128021a यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् 12128021c अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः 12128022a पीडितस्य किमद्वारमुत्पथो निधृतस्य वा 12128022c अद्वारतः प्रद्रवति यदा भवति पीडितः 12128023a तस्य कोशबलज्यान्या सर्वलोकपराभवः 12128023c भैक्षचर्या न विहिता न च विट्शूद्रजीविका 12128024a स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः 12128024c वहतः प्रथमं कल्पमनुकल्पेन जीवनम् 12128025a आपद्गतेन धर्माणामन्यायेनोपजीवनम् 12128025c अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये 12128026a क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा 12128026c आददीत विशिष्टेभ्यो नावसीदेत्कथंचन 12128027a हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः 12128027c तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना 12128028a अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् 12128028c अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः 12128029a न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् 12128029c विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता 12128030a परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि 12128030c नित्यमेवेह कर्तव्या एष धर्मः सनातनः 12128031a राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति 12128031c राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् 12128032a कोशं दण्डं बलं मित्रं यदन्यदपि संचितम् 12128032c न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा 12128033a बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः 12128033c अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् 12128034a धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 12128034c अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः 12128035a राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् 12128035c तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः 12128036a नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् 12128036c तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति 12128037a अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु 12128037c एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति 12128038a अर्थार्थमन्यद्भवति विपरीतमथापरम् 12128038c अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् 12128038e एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम् 12128039a यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः 12128039c यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् 12128040a उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् 12128040c यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः 12128041a द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि 12128041c ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् 12128042a एवं कोशस्य महतो ये नराः परिपन्थिनः 12128042c तानहत्वा न पश्यामि सिद्धिमत्र परंतप 12128043a धनेन जयते लोकावुभौ परमिमं तथा 12128043c सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा 12128044a सर्वोपायैराददीत धनं यज्ञप्रयोजनम् 12128044c न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत 12128045a नैतौ संभवतो राजन्कथंचिदपि भारत 12128045c न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् 12128046a यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन 12128046c ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः 12128047a न च राज्यसमो धर्मः कश्चिदस्ति परंतप 12128047c धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा 12128048a दानेन कर्मणा चान्ये तपसान्ये तपस्विनः 12128048c बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसंचयान् 12128049a अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् 12128049c सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् 12128049e कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् 12129001 युधिष्ठिर उवाच 12129001a क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु 12129001c विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च 12129002a परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत 12129002c असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः 12129003a परचक्राभियातस्य दुर्बलस्य बलीयसा 12129003c आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते 12129004 भीष्म उवाच 12129004a बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः 12129004c जवेन संधिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् 12129005a अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः 12129005c आत्मनः संनिरोधेन संधिं तेनाभियोजयेत् 12129006a अपास्य राजधानीं वा तरेदन्येन वापदम् 12129006c तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् 12129007a यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः 12129007c कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित् 12129008a अवरोधाज्जुगुप्सेत का सपत्नधने दया 12129008c न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन 12129009 युधिष्ठिर उवाच 12129009a आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते 12129009c क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते 12129010 भीष्म उवाच 12129010a क्षिप्रं वा संधिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः 12129010c पदापनयनं क्षिप्रमेतावत्सांपरायिकम् 12129011a अनुरक्तेन पुष्टेन हृष्टेन जगतीपते 12129011c अल्पेनापि हि सैन्येन महीं जयति पार्थिवः 12129012a हतो वा दिवमारोहेद्विजयी क्षितिमावसेत् 12129012c युद्धे तु संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम् 12129013a सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च 12129013c विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ 12129014a अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत् 12129014c विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् 12130001 युधिष्ठिर उवाच 12130001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12130001c सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने 12130002a केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते 12130002c असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह 12130003 भीष्म उवाच 12130003a विज्ञानबलमास्थाय जीवितव्यं तथागते 12130003c सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन 12130004a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12130004c आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविदेव सः 12130005a सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् 12130005c अदत्तमप्याददीत दातुर्वित्तं ममेति वा 12130006a विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि 12130006c वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति 12130007a येषां बलकृता वृत्तिर्नैषामन्याभिरोचते 12130007c तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर 12130008a यदेव प्रकृतं शास्त्रमविशेषेण विन्दति 12130008c तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् 12130009a ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् 12130009c न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् 12130010a एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् 12130010c तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा 12130011a बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् 12130011c न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा 12130012a न वाच्यः परिवादो वै न श्रोतव्यः कथंचन 12130012c कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः 12130013a न वै सतां वृत्तमेतत्परिवादो न पैशुनम् 12130013c गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर 12130014a यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ 12130014c धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः 12130014e यथा यथास्य वहतः सहायाः स्युस्तथापरे 12130015a आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् 12130015c अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः 12130015e मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् 12130016a आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् 12130016c न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित् 12130017a देवा अपि विकर्मस्थं यातयन्ति नराधमम् 12130017c व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते 12130018a सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः 12130018c हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति 12130019a यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् 12130019c अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् 12130020a यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् 12130020c कक्षे रुधिरपातेन तथा धर्मपदं नयेत् 12130021a एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत 12130021c राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर 12131001 भीष्म उवाच 12131001a स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः 12131001c कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते 12131002a तस्मात्संजनयेत्कोशं संहृत्य परिपालयेत् 12131002c परिपाल्यानुगृह्णीयादेष धर्मः सनातनः 12131003a न कोशः शुद्धशौचेन न नृशंसेन जायते 12131003c पदं मध्यममास्थाय कोशसंग्रहणं चरेत् 12131004a अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् 12131004c अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् 12131005a उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा 12131005c तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् 12131006a हीनकोशं हि राजानमवजानन्ति मानवाः 12131006c न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च 12131007a श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् 12131007c सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः 12131008a ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः 12131008c शालावृका इवाजस्रं जिघांसूनिव विन्दति 12131008e ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम 12131009a उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् 12131009c अप्यपर्वणि भज्येत न नमेतेह कस्यचित् 12131010a अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह 12131010c न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् 12131010e दस्यूनां सुलभा सेना रौद्रकर्मसु भारत 12131011a एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः 12131011c दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः 12131012a स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् 12131012c अल्पाप्यथेह मर्यादा लोके भवति पूजिता 12131013a नायं लोकोऽस्ति न पर इति व्यवसितो जनः 12131013c नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि 12131014a यथा सद्भिः परादानमहिंसा दस्युभिस्तथा 12131014c अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु 12131015a अयुध्यमानस्य वधो दारामर्शः कृतघ्नता 12131015c ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा 12131015e स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् 12131016a स एष एव भवति दस्युरेतानि वर्जयन् 12131016c अभिसंदधते ये न विनाशायास्य भारत 12131016e नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः 12131017a तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः 12131017c न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् 12131018a सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः 12131018c निःशेषकारिणो नित्यमशेषकरणाद्भयम् 12132001 भीष्म उवाच 12132001a अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः 12132001c प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः 12132001e तत्र न व्यवधातव्यं परोक्षा धर्मयापना 12132002a अधर्मो धर्म इत्येतद्यथा वृकपदं तथा 12132002c धर्माधर्मफले जातु न ददर्शेह कश्चन 12132003a बुभूषेद्बलवानेव सर्वं बलवतो वशे 12132003c श्रियं बलममात्यांश्च बलवानिह विन्दति 12132004a यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् 12132004c बह्वपथ्यं बलवति न किंचित्त्रायते भयात् 12132005a उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् 12132005c अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते 12132006a बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः 12132006c धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते 12132007a अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता 12132007c वश्यो बलवतां धर्मः सुखं भोगवतामिव 12132007e नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि 12132008a दुराचारः क्षीणबलः परिमाणं नियच्छति 12132008c अथ तस्मादुद्विजते सर्वो लोको वृकादिव 12132009a अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् 12132009c जीवितं यदवक्षिप्तं यथैव मरणं तथा 12132010a यदेनमाहुः पापेन चारित्रेण विनिक्षतम् 12132010c स भृशं तप्यतेऽनेन वाक्शल्येन परिक्षतः 12132011a अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे 12132011c त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् 12132012a प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा 12132012c महामनाश्चैव भवेद्विवहेच्च महाकुले 12132013a इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान् 12132013c जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः 12132014a ब्रह्मक्षत्रं संप्रविशेद्बहु कृत्वा सुदुष्करम् 12132014c उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् 12132015a अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् 12132015c सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् 12132015e लोके च लभते पूजां परत्र च महत्फलम् 12133001 भीष्म उवाच 12133001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12133001c यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति 12133002a प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् 12133002c रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः 12133003a निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः 12133003c कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् 12133004a अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता 12133004c विधिज्ञो मृगजातीनां निपानानां च कोविदः 12133005a सर्वकाननदेशज्ञः पारियात्रचरः सदा 12133005c धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः 12133006a अप्यनेकशताः सेना एक एव जिगाय सः 12133006c स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् 12133007a मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि 12133007c सत्कृत्य भोजयामास सम्यक्परिचचार च 12133008a आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् 12133008c अपि तेभ्यो मृगान्हत्वा निनाय च महावने 12133009a ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया 12133009c तेषामासज्य गेहेषु काल्य एव स गच्छति 12133010a तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे 12133010c निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् 12133011 दस्यव ऊचुः 12133011a मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध 12133011c ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः 12133012a यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा 12133012c पालयास्मान्यथान्यायं यथा माता यथा पिता 12133013 कापव्य उवाच 12133013a मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् 12133013c नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः 12133014a सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता 12133014c नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः 12133015a सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः 12133015c पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा 12133016a सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति 12133016c कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् 12133017a यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम् 12133017c न तस्य त्रिषु लोकेषु त्राता भवति कश्चन 12133018a यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् 12133018c सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः 12133019a इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः 12133019c ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति 12133020a शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः 12133020c ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः 12133021a ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन 12133021c तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा 12133022a ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः 12133022c अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः 12133023 भीष्म उवाच 12133023a तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् 12133023c वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् 12133024a कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् 12133024c साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् 12133025a इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् 12133025c नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन 12133026a भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन 12133026c न सतो नासतो राजन्स ह्यरण्येषु गोपतिः 12134001 भीष्म उवाच 12134001a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12134001c येन मार्गेण राजानः कोशं संजनयन्ति च 12134002a न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् 12134002c दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति 12134003a इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत 12134003c धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते 12134004a तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा 12134004c अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत 12134005a यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति 12134005c आनन्तिकां तां धनितामाहुर्वेदविदो जनाः 12134006a हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः 12134006c न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः 12134007a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 12134007c आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः 12134008a औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा 12134008c अनिष्टतः संभवन्ति तथायज्ञः प्रतायते 12134009a यथैव दंशमशकं यथा चाण्डपिपीलिकम् 12134009c सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते 12134010a यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् 12134010c तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च 12135001 भीष्म उवाच 12135001a अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् 12135001c दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये 12135002a नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः 12135002c प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः 12135003a अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः 12135003c दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् 12135004a कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः 12135004c निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः 12135005a प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे 12135005c अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा 12135006a इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् 12135006c शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति 12135007a अनागतमनर्थं हि सुनयैर्यः प्रबाधते 12135007c न स संशयमाप्नोति रोचतां वां व्रजामहे 12135008a दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते 12135008c न तु कार्या त्वरा यावदिति मे निश्चिता मतिः 12135009a अथ संप्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् 12135009c प्राप्ते काले न मे किंचिन्न्यायतः परिहास्यते 12135010a एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः 12135010c जगाम स्रोतसैकेन गम्भीरसलिलाशयम् 12135011a ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् 12135011c बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः 12135012a विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये 12135012c अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः 12135013a उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः 12135013c प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् 12135014a ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः 12135014c सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति 12135015a ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले 12135015c त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं संप्रतिपत्तिमान् 12135016a दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः 12135016c मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः 12135017a एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते 12135017c स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः 12135018a आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् 12135018c स संशयमवाप्नोति यथा संप्रतिपत्तिमान् 12135019a अनागतविधानं तु यो नरः कुरुते क्षमम् 12135019c श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ 12135020a कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः 12135020c पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च 12135021a पृथिवी देश इत्युक्तः कालः स च न दृश्यते 12135021c अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा 12135022a एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः 12135022c प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् 12135023a परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् 12135023c देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात् 12136001 युधिष्ठिर उवाच 12136001a सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ 12136001c अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी 12136002a तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम 12136002c यथा राजन्न मुह्येत शत्रुभिः परिवारितः 12136003a धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद 12136003c पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि 12136004a शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः 12136004c एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि 12136005a विषमस्थं हि राजानं शत्रवः परिपन्थिनः 12136005c बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः 12136006a सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः 12136006c एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् 12136007a कथं मित्रमरिं चैव विन्देत भरतर्षभ 12136007c चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे 12136008a प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते 12136008c कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् 12136009a विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत् 12136009c कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति 12136010a एतद्वै सर्वकृत्यानां परं कृत्यं परंतप 12136010c नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः 12136011a ऋते शांतनवाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात् 12136011c तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे 12136012 भीष्म उवाच 12136012a त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः 12136012c शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत 12136013a अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति 12136013c सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः 12136014a तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् 12136014c देशं कालं च विज्ञाय कार्याकार्यविनिश्चये 12136015a संधातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः 12136015c अमित्रैरपि संधेयं प्राणा रक्ष्याश्च भारत 12136016a यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः 12136016c न सोऽर्थमाप्नुयात्किंचित्फलान्यपि च भारत 12136017a यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते 12136017c अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् 12136018a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12136018c मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च 12136019a वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् 12136019c लताजालपरिच्छन्नो नानाद्विजगणायुतः 12136020a स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः 12136020c वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः 12136021a तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् 12136021c वसति स्म महाप्राज्ञः पलितो नाम मूषकः 12136022a शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः 12136022c लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः 12136023a तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः 12136023c अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ 12136024a तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः 12136024c गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् 12136025a तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः 12136025c कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत 12136026a तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि 12136026c तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः 12136027a तेनानुचरता तस्मिन्वने विश्वस्तचारिणा 12136027c भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् 12136028a स तमुन्माथमारुह्य तदामिषमभक्षयत् 12136028c तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् 12136029a आमिषे तु प्रसक्तः स कदाचिदवलोकयन् 12136029c अपश्यदपरं घोरमात्मनः शत्रुमागतम् 12136030a शरप्रसूनसंकाशं महीविवरशायिनम् 12136030c नकुलं हरिकं नाम चपलं ताम्रलोचनम् 12136031a तेन मूषकगन्धेन त्वरमाणमुपागतम् 12136031c भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् 12136032a शाखागतमरिं चान्यदपश्यत्कोटरालयम् 12136032c उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् 12136033a गतस्य विषयं तस्य नकुलोलूकयोस्तदा 12136033c अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् 12136034a आपद्यस्यां सुकष्टायां मरणे समुपस्थिते 12136034c समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा 12136035a स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः 12136035c अभवद्भयसंतप्तश्चक्रे चेमां परां गतिम् 12136036a आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् 12136036c समन्तसंशया चेयमस्मानापदुपस्थिता 12136037a गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् 12136037c उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् 12136038a न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति 12136038c करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् 12136039a न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः 12136039c संभ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च 12136040a न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम् 12136040c विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया 12136041a जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः 12136041c तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै 12136042a क्षत्रविद्यां समाश्रित्य हितमस्योपधारये 12136042c येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये 12136043a अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः 12136043c मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते 12136044a कदाचिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह 12136044c बलिना संनिविष्टस्य शत्रोरपि परिग्रहः 12136044e कार्य इत्याहुराचार्या विषमे जीवितार्थिना 12136045a श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् 12136045c मम ह्यमित्रे मार्जारे जीवितं संप्रतिष्ठितम् 12136046a हन्तैनं संप्रवक्ष्यामि हेतुमात्माभिरक्षणे 12136046c अपीदानीमयं शत्रुः संगत्या पण्डितो भवेत् 12136047a ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् 12136047c सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् 12136048a सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि 12136048c जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ 12136049a न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा 12136049c अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते 12136050a अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् 12136050c येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया 12136051a मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः 12136051c आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ 12136052a इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् 12136052c न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम् 12136053a कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते 12136053c नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे 12136054a सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः 12136054c सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् 12136055a न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया 12136055c अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि 12136056a त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः 12136056c चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते 12136057a यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् 12136057c न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ 12136058a तस्माद्विवर्धतां प्रीतिः सत्या संगतिरस्तु नौ 12136058c कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः 12136059a अर्थयुक्तिमिमां तावद्यथाभूतां निशामय 12136059c तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् 12136060a कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् 12136060c स तारयति तत्काष्ठं स च काष्ठेन तार्यते 12136061a ईदृशो नौ समायोगो भविष्यति सुनिस्तरः 12136061c अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि 12136062a एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम् 12136062c हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत 12136063a अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः 12136063c हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् 12136064a बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्णयन् 12136064c तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् 12136065a ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः 12136065c मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् 12136066a नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि 12136066c श्रेयश्च यदि जानीषे क्रियतां मा विचारय 12136067a अहं हि दृढमापन्नस्त्वमापन्नतरो मया 12136067c द्वयोरापन्नयोः संधिः क्रियतां मा विचारय 12136068a विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः 12136068c मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् 12136069a न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा 12136069c निदेशवशवर्ती च भवन्तं शरणं गतः 12136070a इत्येवमुक्तः पलितो मार्जारं वशमागतम् 12136070c वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् 12136071a उदारं यद्भवानाह नैतच्चित्रं भवद्विधे 12136071c विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम 12136072a अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् 12136072c त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे 12136073a उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् 12136073c अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे 12136074a तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् 12136074c हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् 12136075a स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः 12136075c सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि 12136076a क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा 12136076c तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् 12136077a यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव 12136077c तदाज्ञापय कर्ताहं संधिरेवास्तु नौ सखे 12136078a अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः 12136078c सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च 12136079a मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते 12136079c प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् 12136080a ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा 12136080c प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह 12136081a एवमाश्वासितो विद्वान्मार्जारेण स मूषकः 12136081c मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् 12136082a लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् 12136082c तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् 12136083a लीनस्तु तस्य गात्रेषु पलितो देशकालवित् 12136083c चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः 12136084a अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् 12136084c छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः 12136085a तमत्वरन्तं पलितं पाशानां छेदने तदा 12136085c संचोदयितुमारेभे मार्जारो मूषकं तदा 12136086a किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे 12136086c छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः 12136087a इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् 12136087c मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः 12136088a तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः 12136088c वयमेवात्र कालज्ञा न कालः परिहास्यते 12136089a अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते 12136089c तदेव काल आरब्धं महतेऽर्थाय कल्पते 12136090a अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् 12136090c तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे 12136091a यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् 12136091c ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये 12136092a तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि 12136092c न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति 12136093a ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश 12136093c अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति 12136094a एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् 12136094c वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः 12136095a अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन् 12136095c उवाच लोमशो वाक्यं मूषकं चिरकारिणम् 12136096a न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः 12136096c यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया 12136097a तथैव त्वरमाणेन त्वया कार्यं हितं मम 12136097c यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् 12136098a अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि 12136098c पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम 12136099a यच्च किंचिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् 12136099c न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे 12136100a तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः 12136100c उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा 12136101a श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः 12136101c ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः 12136102a यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् 12136102c सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव 12136103a कृत्वा बलवता संधिमात्मानं यो न रक्षति 12136103c अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते 12136104a न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् 12136104c अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव 12136105a न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते 12136105c तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् 12136106a तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः 12136106c मम न ग्रहणे शक्तः पलायनपरायणः 12136107a छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः 12136107c छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश 12136108a तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः 12136108c क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् 12136109a ततः प्रभातसमये विकृतः कृष्णपिङ्गलः 12136109c स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः 12136110a शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः 12136110c परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत 12136111a तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः 12136111c उवाच पलितं भीतः किमिदानीं करिष्यसि 12136112a अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम् 12136112c क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा 12136113a बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ 12136113c अशक्यौ सुनयात्तस्मात्संप्रधर्षयितुं बलात् 12136114a कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ 12136114c उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् 12136115a ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः 12136115c विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् 12136116a स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा 12136116c बिलं विवेश पलितः शाखां भेजे च लोमशः 12136117a उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः 12136117c विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् 12136117e जगाम च स्वभवनं चण्डालो भरतर्षभ 12136118a ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् 12136118c बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् 12136119a अकृत्वा संविदं कांचित्सहसाहमुपप्लुतः 12136119c कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे 12136120a गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् 12136120c मित्रोपभोगसमये किं त्वं नैवोपसर्पसि 12136121a कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति 12136121c न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः 12136122a तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे 12136122c स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि 12136123a यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः 12136123c सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् 12136124a अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् 12136124c जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् 12136125a ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च 12136125c अर्थानां चैव सर्वेषामनुशास्ता च मे भव 12136126a अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् 12136126c न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे 12136127a बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् 12136127c त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह 12136128a एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः 12136128c उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः 12136129a यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् 12136129c ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् 12136130a वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः 12136130c एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम् 12136131a शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः 12136131c सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः 12136132a नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते 12136132c सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा 12136133a यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति 12136133c स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः 12136134a नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् 12136134c अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा 12136135a मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये 12136135c शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः 12136136a यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु 12136136c अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् 12136137a अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् 12136137c मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः 12136138a न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् 12136138c विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 12136139a अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा 12136139c मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः 12136140a पुत्रं हि मातापितरु त्यजतः पतितं प्रियम् 12136140c लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् 12136141a तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् 12136141c कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् 12136142a अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः 12136142c पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् 12136143a आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति 12136143c तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् 12136144a ब्रवीति मधुरं कंचित्प्रियो मे ह भवानिति 12136144c तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु 12136145a कारणात्प्रियतामेति द्वेष्यो भवति कारणात् 12136145c अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः 12136146a सख्यं सोदरयोर्भ्रात्रोर्दंपत्योर्वा परस्परम् 12136146c कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह 12136147a यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे 12136147c स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः 12136148a प्रियो भवति दानेन प्रियवादेन चापरः 12136148c मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः 12136149a उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे 12136149c प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते 12136150a किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः 12136150c अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् 12136151a कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते 12136151c स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते 12136152a न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते 12136152c अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव 12136153a तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे 12136153c अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे 12136154a अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम् 12136154c पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् 12136155a आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा 12136155c सा गता सह तेनैव कालयुक्तेन हेतुना 12136156a त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः 12136156c तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता 12136157a सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः 12136157c प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे 12136158a त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् 12136158c अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः 12136159a त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् 12136159c न तेऽस्त्यन्यन्मया कृत्यं किंचिदन्यत्र भक्षणात् 12136160a अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली 12136160c नावयोर्विद्यते संधिर्नियुक्ते विषमे बले 12136161a संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् 12136161c भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् 12136162a भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा 12136162c शास्त्रज्ञमभिसंधाय नूनं भक्षयिताद्य माम् 12136163a जानामि क्षुधितं हि त्वामाहारसमयश्च ते 12136163c स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः 12136164a यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि 12136164c शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् 12136165a त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये 12136165c कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि 12136166a नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे 12136166c शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि 12136167a शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च 12136167c भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् 12136168a स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे 12136168c नाहं त्वया समेष्यामि निर्वृतो भव लोमश 12136169a बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते 12136169c प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा 12136170a यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते 12136170c कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन 12136171a आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा 12136171c अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना 12136172a ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् 12136172c दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् 12136173a न त्वात्मनः संप्रदानं धनरत्नवदिष्यते 12136173c आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि 12136174a आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् 12136174c आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः 12136175a शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः 12136175c तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया 12136176a इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः 12136176c मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् 12136177a संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः 12136177c उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः 12136178a न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि 12136178c प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् 12136179a धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः 12136179c मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः 12136180a तन्मामेवंगते साधो न यावयितुमर्हसि 12136180c त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः 12136181a धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु 12136181c मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि 12136182a इति संस्तूयमानो हि मार्जारेण स मूषकः 12136182c मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् 12136183a साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे 12136183c संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया 12136184a न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे 12136184c अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते 12136185a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12136185c समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् 12136186a तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः 12136186c द्रव्याणि संततिश्चैव सर्वं भवति जीवतः 12136187a संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः 12136187c नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः 12136188a वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि 12136188c विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः 12136189a त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा 12136189c रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् 12136190a स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः 12136190c स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः 12136191a ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः 12136191c विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह 12136192a एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः 12136192c एकेन बहवोऽमित्राः पलितेनाभिसंधिताः 12136193a अरिणापि समर्थेन संधिं कुर्वीत पण्डितः 12136193c मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् 12136194a इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः 12136194c विस्तरेण महीपाल संक्षेपेण पुनः शृणु 12136195a अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् 12136195c अन्योन्यमभिसंधातुमभूच्चैव तयोर्मतिः 12136196a तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात् 12136196c अभिसंधीयते प्राज्ञः प्रमादादपि चाबुधैः 12136197a तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् 12136197c न ह्यप्रमत्तश्चलति चलितो वा विनश्यति 12136198a कालेन रिपुणा संधिः काले मित्रेण विग्रहः 12136198c कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर 12136199a एवं मत्वा महाराज शास्त्रार्थमभिगम्य च 12136199c अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् 12136200a भीतवत्संविधिः कार्यः प्रतिसंधिस्तथैव च 12136200c भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा 12136201a न भयं विद्यते राजन्भीतस्यानागते भये 12136201c अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् 12136202a न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथंचन 12136202c अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु 12136203a तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् 12136203c कार्याणां गुरुतां बुद्ध्वा नानृतं किंचिदाचरेत् 12136204a एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर 12136204c श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर 12136205a उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा 12136205c संधिविग्रहकालं च मोक्षोपायं तथापदि 12136206a शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा 12136206c समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् 12136207a अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर 12136207c अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः 12136208a ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव 12136208c ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत 12136209a एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो 12136209c पूजिताः शुभकर्माणः पूर्वजित्या नराधिप 12136210a राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे 12136210c कुलस्य संततिं चैव यथान्यायं यथाक्रमम् 12136211a द्वयोरिमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम् 12136211c तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले 12137001 युधिष्ठिर उवाच 12137001a उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु 12137001c कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् 12137002a विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् 12137002c कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव 12137003a एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति 12137003c अविश्वासकथामेतामुपश्रुत्य पितामह 12137004 भीष्म उवाच 12137004a शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने 12137004c पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव 12137005a काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी 12137005c पूजनी नाम शकुनी दीर्घकालं सहोषिता 12137006a रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः 12137006c सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा 12137007a अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् 12137007c समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत 12137008a समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् 12137008c पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह 12137009a फलमेकं सुतायादाद्राजपुत्राय चापरम् 12137009c अमृतास्वादसदृशं बलतेजोविवर्धनम् 12137009e तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् 12137010a धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा 12137010c शून्ये तु तमुपादाय पक्षिणं समजातकम् 12137010e हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् 12137011a अथ सा शकुनी राजन्नागमत्फलहारिका 12137011c अपश्यन्निहतं पुत्रं तेन बालेन भूतले 12137012a बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् 12137012c पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत् 12137013a क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् 12137013c कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च 12137014a क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु 12137014c अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् 12137015a अहमस्य करोम्यद्य सदृशीं वैरयातनाम् 12137015c कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः 12137016a सहसंजातवृद्धस्य तथैव सहभोजिनः 12137016c शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् 12137017a इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा 12137017c भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् 12137018a इच्छयैव कृतं पापं सद्य एवोपसर्पति 12137018c कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् 12137019a पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते 12137019c निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु 12137020 ब्रह्मदत्त उवाच 12137020a अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया 12137020c उभयं तत्समीभूतं वस पूजनि मा गमः 12137021 पूजन्युवाच 12137021a सकृत्कृतापराधस्य तत्रैव परिलम्बतः 12137021c न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् 12137022a सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् 12137022c क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति 12137023a अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति 12137023c पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति 12137024a सर्वेषां कृतवैराणामविश्वासः सुखावहः 12137024c एकान्ततो न विश्वासः कार्यो विश्वासघातकः 12137025a न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् 12137025c कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् 12137026a माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः 12137026c भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता 12137027a अन्योन्यकृतवैराणां न संधिरुपपद्यते 12137027c स च हेतुरतिक्रान्तो यदर्थमहमावसम् 12137028a पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः 12137028c चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् 12137029a पूर्वं संमानना यत्र पश्चाच्चैव विमानना 12137029c जह्यात्तं सत्त्ववान्वासं संमानितविमानितः 12137030a उषितास्मि तवागारे दीर्घकालमहिंसिता 12137030c तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् 12137031 ब्रह्मदत्त उवाच 12137031a यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् 12137031c अनृणस्तेन भवति वस पूजनि मा गमः 12137032 पूजन्युवाच 12137032a न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः 12137032c हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च 12137033 ब्रह्मदत्त उवाच 12137033a कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः 12137033c वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः 12137034 पूजन्युवाच 12137034a नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् 12137034c विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् 12137035a तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि 12137035c साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः 12137036 ब्रह्मदत्त उवाच 12137036a संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि 12137036c अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा 12137037a अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् 12137037c नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् 12137038 पूजन्युवाच 12137038a वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः 12137038c स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् 12137039a तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः 12137039c प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् 12137040a कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि 12137040c छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु 12137041a न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः 12137041c वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे 12137042a न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् 12137042c शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् 12137043a सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः 12137043c नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् 12137044a नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् 12137044c विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् 12137045 ब्रह्मदत्त उवाच 12137045a कालेन क्रियते कार्यं तथैव विविधाः क्रियाः 12137045c कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति 12137046a तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह 12137046c कार्यते चैव कालेन तन्निमित्तं हि जीवति 12137047a बध्यन्ते युगपत्केचिदेकैकस्य न चापरे 12137047c कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम् 12137048a नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे 12137048c कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् 12137049a एवं वसेह सस्नेहा यथाकालमहिंसिता 12137049c यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि 12137050 पूजन्युवाच 12137050a यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् 12137050c कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते 12137051a कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे 12137051c यदि कालेन निर्याणं सुखदुःखे भवाभवौ 12137052a भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे 12137052c यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् 12137053a प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः 12137053c यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु 12137054a तव पुत्रो ममापत्यं हतवान्हिंसितो मया 12137054c अनन्तरं त्वया चाहं बन्धनीया महीपते 12137055a अहं हि पुत्रशोकेन कृतपापा तवात्मजे 12137055c तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु 12137056a भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः 12137056c तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः 12137057a वधबन्धभयादेके मोक्षतन्त्रमुपागताः 12137057c मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः 12137058a सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः 12137058c दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् 12137059a दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः 12137059c दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् 12137060a वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा 12137060c दुःखं सुखेन सततं जनाद्विपरिवर्तते 12137061a न दुःखं परदुःखे वै केचिदाहुरबुद्धयः 12137061c यो दुःखं नाभिजानाति स जल्पति महाजने 12137062a यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् 12137062c रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे 12137063a यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् 12137063c न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम 12137064a आवयोः कृतमन्योन्यं तत्र संधिर्न विद्यते 12137064c स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति 12137065a वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति 12137065c मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते 12137066a निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः 12137066c उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा 12137067a ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा 12137067c ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा 12137068a न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् 12137068c आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् 12137069a उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः 12137069c अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि 12137070a सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् 12137070c अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते 12137071 ब्रह्मदत्त उवाच 12137071a नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन 12137071c भयादेकतरान्नित्यं मृतकल्पा भवन्ति च 12137072 पूजन्युवाच 12137072a यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति 12137072c क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः 12137073a नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते 12137073c तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् 12137074a दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते 12137074c आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् 12137075a यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः 12137075c हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः 12137076a यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् 12137076c आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते 12137077a पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् 12137077c परिणाममविज्ञाय तदन्तं तस्य जीवितम् 12137078a दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् 12137078c उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते 12137079a कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु 12137079c ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः 12137080a तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः 12137080c सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः 12137081a विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् 12137081c मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः 12137082a निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः 12137082c एतान्युपचितान्याहुः सर्वत्र लभते पुमान् 12137083a सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते 12137083c न विभीषयते कंचिद्भीषितो न बिभेति च 12137084a नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते 12137084c दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति 12137085a गृहस्नेहावबद्धानां नराणामल्पमेधसाम् 12137085c कुस्त्री खादति मांसानि माघमा सेगवामिव 12137086a गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे 12137086c इत्येवमवसीदन्ति नरा बुद्धिविपर्यये 12137087a उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् 12137087c अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः 12137088a तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे 12137088c कृतमेतदनाहार्यं तव पुत्रेण पार्थिव 12137089a कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् 12137089c कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् 12137090a कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः 12137090c कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते 12137091a कुमित्रे संगतं नास्ति नित्यमस्थिरसौहृदे 12137091c अवमानः कुसंबन्धे भवत्यर्थविपर्यये 12137092a सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः 12137092c तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते 12137093a यत्र नास्ति बलात्कारः स राजा तीव्रशासनः 12137093c न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति 12137094a भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः 12137094c एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ 12137095a अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् 12137095c राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् 12137096a बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् 12137096c न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः 12137097a दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत् 12137097c स सर्वलोकादुपलभ्य पाप;मधर्मबुद्धिर्निरयं प्रयाति 12137098a दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा 12137098c स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् 12137099a पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः 12137099c सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः 12137100a पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः 12137100c तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः 12137101a संभावयति मातेव दीनमभ्यवपद्यते 12137101c दहत्यग्निरिवानिष्टान्यमयन्भवते यमः 12137102a इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः 12137102c गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् 12137103a यस्तु रञ्जयते राजा पौरजानपदान्गुणैः 12137103c न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् 12137104a स्वयं समुपजानन्हि पौरजानपदक्रियाः 12137104c स सुखं मोदते भूप इह लोके परत्र च 12137105a नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः 12137105c अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् 12137106a प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् 12137106c स सर्वयज्ञफलभाग्राजा लोके महीयते 12137107a बलिना विग्रहो राजन्न कथंचित्प्रशस्यते 12137107c बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् 12137108 भीष्म उवाच 12137108a सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् 12137108c राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् 12137109a एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् 12137109c मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि 12138001 युधिष्ठिर उवाच 12138001a युगक्षयात्परिक्षीणे धर्मे लोके च भारत 12138001c दस्युभिः पीड्यमाने च कथं स्थेयं पितामह 12138002 भीष्म उवाच 12138002a हन्त ते कथयिष्यामि नीतिमापत्सु भारत 12138002c उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः 12138003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12138003c भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च 12138004a राजा शत्रुंतपो नाम सौवीराणां महारथः 12138004c कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम् 12138005a अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते 12138005c वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् 12138006a तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः 12138006c उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् 12138007a नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः 12138007c अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः 12138008a नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः 12138008c तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् 12138009a एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः 12138009c तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते 12138010a छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः 12138010c कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ 12138011a मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः 12138011c ततः सहायान्पक्षं च सर्वमेवानुसारयेत् 12138012a सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् 12138012c आपदां पदकालेषु कुर्वीत न विचारयेत् 12138013a वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः 12138013c श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् 12138014a सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् 12138014c अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः 12138015a शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् 12138015c नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव 12138016a यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् 12138016c अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् 12138017a अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् 12138017c अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता 12138018a वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः 12138018c अथैनमागते काले भिन्द्याद्घटमिवाश्मनि 12138019a मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् 12138019c न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् 12138020a नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् 12138020c अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते 12138020e तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् 12138021a कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः 12138021c व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् 12138022a उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् 12138022c कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् 12138023a नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः 12138023c न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः 12138024a नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु 12138024c गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः 12138025a बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् 12138025c वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् 12138026a पानमक्षास्तथा नार्यो मृगया गीतवादितम् 12138026c एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् 12138027a कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् 12138027c अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् 12138028a देशं कालं समासाद्य विक्रमेत विचक्षणः 12138028c देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् 12138029a कालाकालौ संप्रधार्य बलाबलमथात्मनः 12138029c परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् 12138030a दण्डेनोपनतं शत्रुं यो राजा न नियच्छति 12138030c स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा 12138031a सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः 12138031c आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् 12138032a आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् 12138032c विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः 12138033a भीतवत्संविधातव्यं यावद्भयमनागतम् 12138033c आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् 12138034a न संशयमनारुह्य नरो भद्राणि पश्यति 12138034c संशयं पुनरारुह्य यदि जीवति पश्यति 12138035a अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् 12138035c पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत् 12138036a प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् 12138036c अनागतसुखाशा च नैष बुद्धिमतां नयः 12138037a योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् 12138037c स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते 12138038a कर्मणा येन तेनेह मृदुना दारुणेन वा 12138038c उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् 12138039a ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् 12138039c आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः 12138040a चारः सुविहितः कार्य आत्मनोऽथ परस्य च 12138040c पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् 12138041a उद्यानेषु विहारेषु प्रपास्वावसथेषु च 12138041c पानागारेषु वेशेषु तीर्थेषु च सभासु च 12138042a धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः 12138042c समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि 12138043a न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् 12138043c विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् 12138044a विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना 12138044c अथास्य प्रहरेत्काले किंचिद्विचलिते पदे 12138045a अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् 12138045c भयं हि शङ्किताज्जातं समूलमपि कृन्तति 12138046a अवधानेन मौनेन काषायेण जटाजिनैः 12138046c विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः 12138047a पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् 12138047c अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः 12138048a गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 12138048c उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् 12138049a प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्यचित् 12138049c प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः 12138050a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 12138050c नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् 12138051a नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते 12138051c सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा 12138052a अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि 12138052c दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् 12138053a संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता 12138053c निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता 12138054a प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् 12138054c अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा 12138055a निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया 12138055c आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता 12138056a न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् 12138056c अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् 12138056e दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते 12138057a त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च 12138057c अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् 12138058a ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च 12138058c पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः 12138059a वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः 12138059c आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः 12138060a नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् 12138060c कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् 12138061a वधेन च मनुष्याणां मार्गाणां दूषणेन च 12138061c आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् 12138062a गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः 12138062c अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् 12138063a श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च 12138063c अमात्यान्परिरक्षेत भेदसंघातयोरपि 12138064a मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च 12138064c तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् 12138065a मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् 12138065c नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु 12138066a काले मृदुर्यो भवति काले भवति दारुणः 12138066c स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति 12138067a पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् 12138067c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 12138068a न तत्तरेद्यस्य न पारमुत्तरे;न्न तद्धरेद्यत्पुनराहरेत्परः 12138068c न तत्खनेद्यस्य न मूलमुत्खने;न्न तं हन्याद्यस्य शिरो न पातयेत् 12138069a इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत् 12138069c परप्रयुक्तं तु कथं निशामये;दतो मयोक्तं भवतो हितार्थिना 12138070a यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः 12138070c तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः 12139001 युधिष्ठिर उवाच 12139001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 12139001c अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते 12139002a मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये 12139002c राजभिः पीडिते लोके चोरैर्वापि विशां पते 12139003a सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च 12139003c कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत 12139004a अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव 12139004c निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् 12139005a संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते 12139005c अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते 12139006a सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने 12139006c केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते 12139007a अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप 12139007c कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह 12139008a कथं च राजा वर्तेत लोके कलुषतां गते 12139008c कथमर्थाच्च धर्माच्च न हीयेत परंतप 12139009 भीष्म उवाच 12139009a राजमूला महाराज योगक्षेमसुवृष्टयः 12139009c प्रजासु व्याधयश्चैव मरणं च भयानि च 12139010a कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ 12139010c राजमूलानि सर्वाणि मम नास्त्यत्र संशयः 12139011a तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके 12139011c विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् 12139012a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12139012c विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे 12139013a त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात् 12139013c अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी 12139014a प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते 12139014c त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने 12139015a न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः 12139015c जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः 12139016a नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः 12139016c नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् 12139017a सरांसि सरितश्चैव कूपाः प्रस्रवणानि च 12139017c हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् 12139018a उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा 12139018c निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला 12139019a उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा 12139019c निवृत्तपूगसमया संप्रनष्टमहोत्सवा 12139020a अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला 12139020c शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना 12139021a क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः 12139021c परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना 12139022a गतदैवतसंकल्पा वृद्धबालविनाकृता 12139022c गोजाविमहिषैर्हीना परस्परहराहरा 12139023a हतविप्रा हतारक्षा प्रनष्टौषधिसंचया 12139023c श्यावभूतनरप्राया बभूव वसुधा तदा 12139024a तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर 12139024c बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् 12139025a ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः 12139025c आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः 12139026a विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः 12139026c क्षुधा परिगतो धीमान्समन्तात्पर्यधावत 12139027a स कदाचित्परिपतञ्श्वपचानां निवेशनम् 12139027c हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् 12139028a विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् 12139028c वराहखरभग्नास्थिकपालघटसंकुलम् 12139029a मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् 12139029c सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् 12139030a उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् 12139030c लोहघण्टापरिष्कारं श्वयूथपरिवारितम् 12139031a तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः 12139031c आहारान्वेषणे युक्तः परं यत्नं समास्थितः 12139032a न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः 12139032c मांसमन्नं मूलफलमन्यद्वा तत्र किंचन 12139033a अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः 12139033c पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे 12139034a चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् 12139034c कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम 12139035a स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः 12139035c चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च 12139036a स चिन्तयामास तदा स्तेयं कार्यमितो मया 12139036c न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे 12139037a आपत्सु विहितं स्तेयं विशिष्टसमहीनतः 12139037c परं परं भवेत्पूर्वमस्तेयमिति निश्चयः 12139038a हीनादादेयमादौ स्यात्समानात्तदनन्तरम् 12139038c असंभवादाददीत विशिष्टादपि धार्मिकात् 12139039a सोऽहमन्तावसानानां हरमाणः परिग्रहात् 12139039c न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् 12139040a एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः 12139040c तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत 12139041a स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे 12139041c शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् 12139042a स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः 12139042c परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः 12139043a कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे 12139043c जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः 12139044a विश्वामित्रोऽहमित्येव सहसा तमुवाच सः 12139044c सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा 12139045a चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः 12139045c शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः 12139046a स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः 12139046c उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् 12139047a विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् 12139047c क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् 12139048a अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा 12139048c स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् 12139049a अटन्भैक्षं न विन्दामि यदा युष्माकमालये 12139049c तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् 12139050a तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः 12139050c क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् 12139051a अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः 12139051c यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः 12139052a तमुवाच स चण्डालो महर्षे शृणु मे वचः 12139052c श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे 12139053a मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः 12139053c तस्याप्यधम उद्देशः शरीरस्योरुजाघनी 12139054a नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् 12139054c चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः 12139055a साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे 12139055c न मांसलोभात्तपसो नाशस्ते स्यान्महामुने 12139056a जानतोऽविहितो मार्गो न कार्यो धर्मसंकरः 12139056c मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः 12139057a विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ 12139057c क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः 12139058a निराहारस्य सुमहान्मम कालोऽभिधावतः 12139058c न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे 12139059a येन तेन विशेषेण कर्मणा येन केनचित् 12139059c अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् 12139060a ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः 12139060c ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा 12139061a यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया 12139061c जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् 12139062a सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् 12139062c व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् 12139063a जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च 12139063c तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः 12139064 श्वपच उवाच 12139064a नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नायुर्दीर्घं नामृतस्येव तृप्तिम् 12139064c भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् 12139065 विश्वामित्र उवाच 12139065a न दुर्भिक्षे सुलभं मांसमन्य;च्छ्वपाक नान्नं न च मेऽस्ति वित्तम् 12139065c क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये 12139066 श्वपच उवाच 12139066a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज 12139066c यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः 12139067 विश्वामित्र उवाच 12139067a अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै 12139067c अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् 12139068 श्वपच उवाच 12139068a भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि 12139068c न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् 12139069 विश्वामित्र उवाच 12139069a शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये 12139069c परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् 12139070 श्वपच उवाच 12139070a असता यत्समाचीर्णं न स धर्मः सनातनः 12139070c नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः 12139071 विश्वामित्र उवाच 12139071a न पातकं नावमतमृषिः सन्कर्तुमर्हसि 12139071c समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी 12139072 श्वपच उवाच 12139072a यद्ब्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम् 12139072c स वै धर्मो यत्र न पापमस्ति; सर्वैरुपायैर्हि स रक्षितव्यः 12139073 विश्वामित्र उवाच 12139073a मित्रं च मे ब्राह्मणश्चायमात्मा; प्रियश्च मे पूज्यतमश्च लोके 12139073c तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न बिभ्ये 12139074 श्वपच उवाच 12139074a कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र 12139074c सर्वान्कामान्प्राप्नुवन्तीह विद्व;न्प्रियस्व कामं सहितः क्षुधा वै 12139075 विश्वामित्र उवाच 12139075a स्थाने तावत्संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः 12139075c अहं पुनर्वर्त इत्याशयात्मा; मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् 12139076a बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः 12139076c यद्यप्येनः संशयादाचरामि; नाहं भविष्यामि यथा त्वमेव 12139077 श्वपच उवाच 12139077a पतनीयमिदं दुःखमिति मे वर्तते मतिः 12139077c दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे 12139078 विश्वामित्र उवाच 12139078a पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि 12139078c न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः 12139079 श्वपच उवाच 12139079a सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज 12139079c तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः 12139080 विश्वामित्र उवाच 12139080a सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर 12139080c जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् 12139081 श्वपच उवाच 12139081a नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रियमाणं स्वमन्नम् 12139081c उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् 12139082 विश्वामित्र उवाच 12139082a अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम् 12139082c प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतयोर्गुरु तद्वै ब्रवीहि 12139083 श्वपच उवाच 12139083a आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम् 12139083c यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम् 12139084 विश्वामित्र उवाच 12139084a उपादाने खादने वास्य दोषः; कार्यो न्यायैर्नित्यमत्रापवादः 12139084c यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद्गरीयः 12139085 श्वपच उवाच 12139085a यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः 12139085c तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ 12139086 विश्वामित्र उवाच 12139086a न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः 12139086c अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति 12139087 श्वपच उवाच 12139087a अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं बाधते साधुवृत्तम् 12139087c स्थानं पुनर्यो लभते निषङ्गा;त्तेनापि दण्डः सहितव्य एव 12139088 भीष्म उवाच 12139088a एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा 12139088c विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् 12139089a ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः 12139089c सदारस्तामुपाकृत्य वने यातो महामुनिः 12139090a एतस्मिन्नेव काले तु प्रववर्षाथ वासवः 12139090c संजीवयन्प्रजाः सर्वा जनयामास चौषधीः 12139091a विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः 12139091c कालेन महता सिद्धिमवाप परमाद्भुताम् 12139092a एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः 12139092c सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् 12139093a एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् 12139093c जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति 12139094a तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये 12139094c बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना 12140001 युधिष्ठिर उवाच 12140001a यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् 12140001c अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये 12140002a संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः 12140002c उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् 12140003 भीष्म उवाच 12140003a नैतच्छुद्धागमादेव तव धर्मानुशासनम् 12140003c प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु 12140004a बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः 12140004c नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते 12140005a बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा 12140005c जयो भवति कौरव्य तदा तद्विद्धि मे वचः 12140006a बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः 12140006c धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः 12140007a नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते 12140007c दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता 12140008a अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति 12140008c बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत 12140009a पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव 12140009c जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा 12140010a सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे 12140010c तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् 12140011a परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः 12140011c वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते 12140012a आजिजीविषवो विद्यां यशस्कामाः समन्ततः 12140012c ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः 12140013a अपक्वमतयो मन्दा न जानन्ति यथातथम् 12140013c सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः 12140014a परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः 12140014c विज्ञानमथ विद्यानां न सम्यगिति वर्तते 12140015a निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये 12140015c वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव 12140015e तान्विद्यावणिजो विद्धि राक्षसानिव भारत 12140016a व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते 12140016c न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् 12140017a इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् 12140017c न त्वेव वचनं किंचिदनिमित्तादिहोच्यते 12140018a स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे 12140018c लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः 12140019a समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः 12140019c अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत 12140020a शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् 12140020c आगतागमया बुद्ध्या वचनेन प्रशस्यते 12140021a अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते 12140021c अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् 12140022a दैतेयानुशनाः प्राह संशयच्छेदने पुरा 12140022c ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् 12140023a तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि 12140023c अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात् 12140024a उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे 12140024c अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् 12140024e यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते 12140025a अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् 12140025c तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति 12140026a यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः 12140026c एषैव खलु मर्यादा यामयं परिवर्जयेत् 12140027a तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत 12140027c अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव 12140028a यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव 12140028c विहरन्ति परस्वानि स वै क्षत्रियपांसनः 12140029a कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् 12140029c प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् 12140030a विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः 12140030c उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् 12140031a नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते 12140031c उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव 12140032a कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम् 12140032c उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै 12140033a अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् 12140033c इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ 12140034 युधिष्ठिर उवाच 12140034a अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत् 12140034c पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह 12140035 भीष्म उवाच 12140035a ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः 12140035c श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् 12140036a या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा 12140036c क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप 12140037a तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः 12140037c प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम् 12141001 युधिष्ठिर उवाच 12141001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12141001c शरणं पालयानस्य यो धर्मस्तं वदस्व मे 12141002 भीष्म उवाच 12141002a महान्धर्मो महाराज शरणागतपालने 12141002c अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम 12141003a नृगप्रभृतयो राजन्राजानः शरणागतान् 12141003c परिपाल्य महाराज संसिद्धिं परमां गताः 12141004a श्रूयते हि कपोतेन शत्रुः शरणमागतः 12141004c पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः 12141005 युधिष्ठिर उवाच 12141005a कथं कपोतेन पुरा शत्रुः शरणमागतः 12141005c स्वमांसैर्भोजितः कां च गतिं लेभे स भारत 12141006 भीष्म उवाच 12141006a शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् 12141006c नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह 12141007a इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः 12141007c भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ 12141008a तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् 12141008c इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप 12141009a धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् 12141009c शृणुष्वावहितो राजन्गदतो मे महाभुज 12141010a कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः 12141010c चचार पृथिवीं पापो घोरः शकुनिलुब्धकः 12141011a काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः 12141011c यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः 12141012a नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः 12141012c स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा 12141013a स वै क्षारकमादाय द्विजान्हत्वा वने सदा 12141013c चकार विक्रयं तेषां पतंगानां नराधिप 12141014a एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः 12141014c अगमत्सुमहान्कालो न चाधर्ममबुध्यत 12141015a तस्य भार्यासहायस्य रममाणस्य शाश्वतम् 12141015c दैवयोगविमूढस्य नान्या वृत्तिररोचत 12141016a ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः 12141016c पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः 12141017a मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् 12141017c संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः 12141018a वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः 12141018c क्षणेन पूरयामास सलिलेन वसुंधराम् 12141019a ततो धाराकुले लोके संभ्रमन्नष्टचेतनः 12141019c शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना 12141020a नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा 12141020c पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै 12141021a पक्षिणो वातवेगेन हता लीनास्तदाभवन् 12141021c मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे 12141022a महता वातवर्षेण त्रासितास्ते वनौकसः 12141022c भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने 12141023a स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् 12141023c सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् 12141024a ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह 12141024c मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः 12141025a दिशोऽवलोकयामास वेलां चैव दुरात्मवान् 12141025c दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो 12141025e कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा 12141026a सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् 12141026c शरणं यामि यान्यस्मिन्दैवतानीह भारत 12141027a स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले 12141027c दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा 12142001 भीष्म उवाच 12142001a अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः 12142001c दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः 12142002a तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत 12142002c प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत 12142003a वातवर्षं महच्चासीन्न चागच्छति मे प्रिया 12142003c किं नु तत्कारणं येन साद्यापि न निवर्तते 12142004a अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने 12142004c तया विरहितं हीदं शून्यमद्य गृहं मम 12142005a यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा 12142005c अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे 12142006a पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी 12142006c सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी 12142007a अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता 12142007c यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि 12142008a भार्या हि परमो नाथः पुरुषस्येह पठ्यते 12142008c असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी 12142009a तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च 12142009c नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् 12142010a नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः 12142010c नास्ति भार्यासमो लोके सहायो धर्मसाधनः 12142011a एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै 12142011c गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् 12142012a न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति 12142012c अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः 12142013a इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा 12142013c कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् 12142014a हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा 12142014c शरणागतसंत्राता भव कान्त विशेषतः 12142015a एष शाकुनिकः शेते तव वासं समाश्रितः 12142015c शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय 12142016a यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् 12142016c शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् 12142017a यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः 12142017c सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् 12142018a यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते 12142018c स प्रेत्य लभते लोकानक्षयानिति शुश्रुम 12142019a स त्वं संतानवानद्य पुत्रवानपि च द्विज 12142019c तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै 12142019e पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा 12142020a इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी 12142020c अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत 12142021a स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् 12142021c हर्षेण महता युक्तो बाष्पव्याकुललोचनः 12142022a तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा 12142022c पूजयामास यत्नेन स पक्षी पक्षिजीविनम् 12142023a उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् 12142023c संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् 12142024a तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि 12142024c प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः 12142025a शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः 12142025c पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः 12142026a पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी 12142026c तस्य नायं न च परो लोको भवति धर्मतः 12142027a तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि 12142027c तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः 12142028a तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् 12142028c बाधते खलु मा शीतं हिमत्राणं विधीयताम् 12142029a एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले 12142029c यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ 12142030a स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् 12142030c ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् 12142031a सुसंदीप्तं महत्कृत्वा तमाह शरणागतम् 12142031c प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः 12142032a स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् 12142032c अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् 12142033a दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् 12142033c तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः 12142034a न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् 12142034c उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः 12142035a संचयो नास्ति चास्माकं मुनीनामिव कानने 12142035c इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् 12142036a कथं नु खलु कर्तव्यमिति चिन्तापरः सदा 12142036c बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः 12142037a मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम् 12142037c उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय 12142038a इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् 12142038c हर्षेण महता युक्तः कपोतः पुनरब्रवीत् 12142039a देवानां च मुनीनां च पितॄणां च महात्मनाम् 12142039c श्रुतपूर्वो मया धर्मो महानतिथिपूजने 12142040a कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते 12142040c निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने 12142041a ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव 12142041c तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते 12142042a अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् 12142042c चिन्तयामास मनसा किमिदं नु कृतं मया 12142043a अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा 12142043c अधर्मः सुमहान्घोरो भविष्यति न संशयः 12142044a एवं बहुविधं भूरि विललाप स लुब्धकः 12142044c गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् 12143001 भीष्म उवाच 12143001a ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः 12143001c कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह 12143002a किमीदृशं नृशंसेन मया कृतमबुद्धिना 12143002c भविष्यति हि मे नित्यं पातकं हृदि जीवतः 12143003a स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह 12143003c धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् 12143003e शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः 12143004a नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः 12143004c दत्तः स्वमांसं ददता कपोतेन महात्मना 12143005a सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च 12143005c उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा 12143006a अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् 12143006c यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा 12143007a क्षुत्पिपासातपसहः कृशो धमनिसंततः 12143007c उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् 12143008a अहो देहप्रदानेन दर्शितातिथिपूजना 12143008c तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः 12143008e दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे 12143009a एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः 12143009c महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः 12143010a ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा 12143010c तांश्च बद्धा कपोतान्स संप्रमुच्योत्ससर्ज ह 12144001 भीष्म उवाच 12144001a ततो गते शाकुनिके कपोती प्राह दुःखिता 12144001c संस्मृत्य भर्तारमथो रुदती शोकमूर्छिता 12144002a नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे 12144002c सर्वा वै विधवा नारी बहुपुत्रापि खेचर 12144002e शोच्या भवति बन्धूनां पतिहीना मनस्विनी 12144003a लालिताहं त्वया नित्यं बहुमानाच्च सान्त्विता 12144003c वचनैर्मधुरैः स्निग्धैरसकृत्सुमनोहरैः 12144004a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 12144004c द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय 12144005a आकाशगमने चैव सुखिताहं त्वया सुखम् 12144005c विहृतास्मि त्वया कान्त तन्मे नाद्यास्ति किंचन 12144006a मितं ददाति हि पिता मितं माता मितं सुतः 12144006c अमितस्य तु दातारं भर्तारं का न पूजयेत् 12144007a नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम् 12144007c विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः 12144008a न कार्यमिह मे नाथ जीवितेन त्वया विना 12144008c पतिहीनापि का नारी सती जीवितुमुत्सहेत् 12144009a एवं विलप्य बहुधा करुणं सा सुदुःखिता 12144009c पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् 12144010a ततश्चित्राम्बरधरं भर्तारं सान्वपश्यत 12144010c विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः 12144011a चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् 12144011c विमानशतकोटीभिरावृतं पुण्यकीर्तिभिः 12144012a ततः स्वर्गगतः पक्षी भार्यया सह संगतः 12144012c कर्मणा पूजितस्तेन रेमे तत्र स भार्यया 12145001 भीष्म उवाच 12145001a विमानस्थौ तु तौ राजँल्लुब्धको वै ददर्श ह 12145001c दृष्ट्वा तौ दंपती दुःखादचिन्तयत सद्गतिम् 12145002a कीदृशेनेह तपसा गच्छेयं परमां गतिम् 12145002c इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे 12145003a महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः 12145003c निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया 12145004a ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम् 12145004c नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् 12145004e पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः 12145005a उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः 12145005c उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् 12145006a महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह 12145006c प्रविशन्नेव च वनं निगृहीतः स कण्टकैः 12145007a स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः 12145007c बभ्राम तस्मिन्विजने नानामृगसमाकुले 12145008a ततो द्रुमाणां महतां पवनेन वने तदा 12145008c उदतिष्ठत संघर्षात्सुमहान्हव्यवाहनः 12145009a तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम् 12145009c ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः 12145010a सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः 12145010c ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् 12145011a ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा 12145011c अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा 12145012a ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः 12145012c जगाम परमां सिद्धिं तदा भरतसत्तम 12145013a ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः 12145013c यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् 12145014a एवं खलु कपोतश्च कपोती च पतिव्रता 12145014c लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा 12145015a यापि चैवंविधा नारी भर्तारमनुवर्तते 12145015c विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता 12145016a एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः 12145016c कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा 12145017a यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् 12145017c नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः 12145018a युधिष्ठिर महानेष धर्मो धर्मभृतां वर 12145018c गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः 12145018e निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम् 12146001 युधिष्ठिर उवाच 12146001a अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम 12146001c मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे 12146002 भीष्म उवाच 12146002a अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् 12146002c इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् 12146003a आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः 12146003c अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम् 12146004a तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः 12146004c जगाम स वनं राजा दह्यमानो दिवानिशम् 12146005a स प्रजाभिः परित्यक्तश्चकार कुशलं महत् 12146005c अतिवेलं तपस्तेपे दह्यमानः स मन्युना 12146006a तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम् 12146006c दह्यमानः पापकृत्या जगाम जनमेजयः 12146007a वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् 12146007c समासाद्योपजग्राह पादयोः परिपीडयन् 12146008a ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा 12146008c कर्ता पापस्य महतो भ्रूणहा किमिहागतः 12146009a किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथंचन 12146009c गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम् 12146010a रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् 12146010c अशिवः शिवसंकाशो मृतो जीवन्निवाटसि 12146011a अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन् 12146011c प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी 12146012a मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि 12146012c पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे 12146013a बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् 12146013c तपसा देवतेज्याभिर्वन्दनेन तितिक्षया 12146014a पितृवंशमिमं पश्य त्वत्कृते नरकं गतम् 12146014c निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः 12146015a यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम् 12146015c तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः 12146016a इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि 12146016c अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा 12146017a अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः 12146017c ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि 12146018a यदिदं मन्यसे राजन्नायमस्ति परः कुतः 12146018c प्रतिस्मारयितारस्त्वां यमदूता यमक्षये 12147001 भीष्म उवाच 12147001a एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः 12147001c गर्ह्यं भवान्गर्हयति निन्द्यं निन्दति मा भवान् 12147002a धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादये 12147002c सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः 12147003a स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः 12147003c प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि 12147004a तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् 12147004c सर्वमन्यून्विनीय त्वमभि मा वद शौनक 12147005a महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः 12147005c अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् 12147006a न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति 12147006c श्रुतीरलभमानानां संविदं वेदनिश्चयात् 12147007a निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम् 12147007c भूयश्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव 12147008a अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशबरा इव 12147008c न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन 12147009a अविज्ञायैव मे प्रज्ञां बालस्येव सुपण्डितः 12147009c ब्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक 12147010 शौनक उवाच 12147010a किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम् 12147010c इति वै पण्डितो भूत्वा भूतानां नोपतप्यति 12147011a प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् 12147011c जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति 12147012a न चोपलभते तत्र न च कार्याणि पश्यति 12147012c निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु 12147013a विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे 12147013c कुरुष्वेह महाशान्तिं ब्रह्मा शरणमस्तु ते 12147014a तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम् 12147014c अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि 12147015 जनमेजय उवाच 12147015a अनुतप्ये च पापेन न चाधर्मं चराम्यहम् 12147015c बुभूषुं भजमानं च प्रतिवाञ्छामि शौनक 12147016 शौनक उवाच 12147016a छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप 12147016c सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर 12147017a न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये 12147017c तां मे देवा गिरं सत्यां शृण्वन्तु ब्राह्मणैः सह 12147018a सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वये 12147018c क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् 12147019a वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः 12147019c वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशम् 12147020a केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् 12147020c जानीहि मे कृतं तात ब्राह्मणान्प्रति भारत 12147021a यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु 12147021c प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप 12147022 जनमेजय उवाच 12147022a नैव वाचा न मनसा न पुनर्जातु कर्मणा 12147022c द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे 12148001 शौनक उवाच 12148001a तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे 12148001c श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे 12148001e पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् 12148002a अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव 12148002c कृत्स्ने नूनं सदसती इति लोको व्यवस्यति 12148002e यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि 12148003a हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः 12148003c इत्येतदपि भूतानामद्भुतं जनमेजय 12148004a यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः 12148004c अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते 12148005a एतदेव हि कार्पण्यं समग्रमसमीक्षितम् 12148005c तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः 12148006a यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते 12148006c पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः 12148007a तदेव राज्ञां परमं पवित्रं जनमेजय 12148007c तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि 12148008a पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् 12148008c अपि ह्युदाहरन्तीमा गाथा गीता ययातिना 12148009a यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः 12148009c यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् 12148010a पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् 12148010c यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् 12148011a महासरः पुष्कराणि प्रभासोत्तरमानसे 12148011c कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः 12148012a सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः 12148012c स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः 12148013a त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत् 12148013c अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः 12148014a यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् 12148014c न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् 12148015a एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् 12148015c त्यजतां जीवितं प्रायो विवृते पुण्यपातके 12148016a यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते 12148016c बलेन संविभागैश्च जय स्वर्गं पुनीष्व च 12148017a यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः 12148017c ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् 12148018a यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय 12148018c अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा 12148019a आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः 12148019c घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम् 12148020a हिमाग्निघोरसदृशो राजा भवति कश्चन 12148020c लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप 12148021a न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः 12148021c न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु 12148022a विकर्मणा तप्यमानः पादात्पापस्य मुच्यते 12148022c नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते 12148022e चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते 12148023a कल्याणमनुमन्तव्यं पुरुषेण बुभूषता 12148023c ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12148023e ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते 12148024a तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते 12148024c संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते 12148024e त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते 12148025a यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः 12148025c प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते 12148026a अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् 12148026c यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत् 12148027a क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा 12148027c अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् 12148028a बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन् 12148028c धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके 12148029a उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात् 12148029c आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः 12148030 बृहस्पतिरुवाच 12148030a कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम् 12148030c स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या 12148031a पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः 12148031c चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः 12148032a छिद्राणि वसनस्येव साधुना विवृणोति यः 12148032c यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते 12148033a यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति 12148033c कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति 12148034 भीष्म उवाच 12148034a एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम् 12148034c याजयामास विधिवद्वाजिमेधेन शौनकः 12148035a ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया 12148035c विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः 12149001 भीष्म उवाच 12149001a शृणु पार्थ यथावृत्तमितिहासं पुरातनम् 12149001c गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा 12149002a दुःखिताः केचिदादाय बालमप्राप्तयौवनम् 12149002c कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः 12149003a बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः 12149003c अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा 12149004a तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् 12149004c एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् 12149005a इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि 12149005c समानीतानि कालेन किं ते वै जात्वबान्धवाः 12149006a संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् 12149006c संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते 12149007a गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् 12149007c तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः 12149008a अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले 12149008c कङ्कालबहुले घोरे सर्वप्राणिभयंकरे 12149009a न पुनर्जीवितः कश्चित्कालधर्ममुपागतः 12149009c प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी 12149010a सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता 12149010c कृतान्तविहिते मार्गे को मृतं जीवयिष्यति 12149011a कर्मान्तविहिते लोके चास्तं गच्छति भास्करे 12149011c गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै 12149012a ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप 12149012c बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले 12149013a विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम् 12149013c निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः 12149014a ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः 12149014c गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः 12149015a आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् 12149015c बहुरूपो मुहूर्तश्च जीवेतापि कदाचन 12149016a यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः 12149016c श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः 12149017a न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि 12149017c यस्य भाषितमात्रेण प्रसादमुपगच्छथ 12149018a न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् 12149018c न येषां धारयित्वा तान्कश्चिदस्ति फलागमः 12149019a चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् 12149019c परलोकगतिस्थानां मुनियज्ञक्रिया इव 12149020a तेषां पुत्राभिरामाणामिह लोके परत्र च 12149020c न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च 12149021a अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति 12149021c न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् 12149022a मानुषाणां कुतः स्नेहो येषां शोको भविष्यति 12149022c इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ 12149023a चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत 12149023c एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः 12149024a क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च 12149024c बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते 12149025a सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति 12149025c तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् 12149026a त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम् 12149026c यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् 12149027 भीष्म उवाच 12149027a जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः 12149027c न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः 12149028 गृध्र उवाच 12149028a अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा 12149028c क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ 12149029a पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् 12149029c कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ 12149030a तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् 12149030c तपसा लभ्यते सर्वं विलापः किं करिष्यति 12149031a अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः 12149031c येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम् 12149032a धनं गाश्च सुवर्णं च मणिरत्नमथापि च 12149032c अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते 12149033a यथाकृता च भूतेषु प्राप्यते सुखदुःखता 12149033c गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च 12149034a न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा 12149034c मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते 12149035a धर्मं चरत यत्नेन तथाधर्मान्निवर्तत 12149035c वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च 12149036a शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत 12149036c त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत 12149037a यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् 12149037c तत्कर्तैव समश्नाति बान्धवानां किमत्र हि 12149038a इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् 12149038c स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः 12149039a प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा 12149039c सर्वः कालवशं याति शुभाशुभसमन्वितः 12149040a किं करिष्यथ शोचित्वा मृतं किमनुशोचथ 12149040c सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः 12149041a यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि 12149041c सर्वानाविशते मृत्युरेवंभूतमिदं जगत् 12149042 जम्बुक उवाच 12149042a अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा 12149042c पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् 12149043a समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः 12149043c यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम् 12149044a अहो पुत्रवियोगेन मृतशून्योपसेवनात् 12149044c क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव 12149045a अद्य शोकं विजानामि मानुषाणां महीतले 12149045c स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् 12149046a यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति 12149046c दैवं पुरुषकारश्च कृतान्तेनोपपद्यते 12149047a अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् 12149047c प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः 12149048a आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम् 12149048c पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ 12149049a अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते 12149049c ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ 12149050 गृध्र उवाच 12149050a अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः 12149050c न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् 12149051a मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः 12149051c विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे 12149052a अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि 12149052c जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते 12149053a इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा 12149053c दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा 12149054a अनिष्टानां सहस्राणि तथेष्टानां शतानि च 12149054c उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः 12149055a त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः 12149055c अन्यदेहविषक्तो हि शावं काष्ठमुपासते 12149056a भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ 12149056c निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः 12149057a न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते 12149057c तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै 12149058a मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः 12149058c मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् 12149059a प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना 12149059c वचनं श्राविता रूक्षं मानुषाः संनिवर्तत 12149060 जम्बुक उवाच 12149060a इमं कनकवर्णाभं भूषणैः समलंकृतम् 12149060c गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् 12149061a न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै 12149061c मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् 12149062a श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः 12149062c जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् 12149063a तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः 12149063c श्वोऽभूते धर्मनित्येन मृतः संजीवितः पुनः 12149064a तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा 12149064c कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह 12149065 भीष्म उवाच 12149065a इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः 12149065c अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् 12149066 गृध्र उवाच 12149066a अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः 12149066c धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः 12149067a तपसापि हि संयुक्तो न काले नोपहन्यते 12149067c सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् 12149068a बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः 12149068c दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले 12149069a अलं निर्बन्धमागम्य शोकस्य परिवारणम् 12149069c अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् 12149070a नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् 12149070c मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते 12149071a न वै मूर्तिप्रदानेन न जम्बुकशतैरपि 12149071c शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि 12149072a अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा 12149072c वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः 12149073a न च बाष्पविमोक्षेण न चाश्वासकृतेन वै 12149073c न दीर्घरुदितेनेह पुनर्जीवो भविष्यति 12149074a अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः 12149074c धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि 12149075a अप्रियं परुषं चापि परद्रोहं परस्त्रियम् 12149075c अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् 12149076a सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् 12149076c अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत 12149077a मातरं पितरं चैव बान्धवान्सुहृदस्तथा 12149077c जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः 12149078a यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन 12149078c तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ 12149079 भीष्म उवाच 12149079a इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः 12149079c दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान् 12149080 जम्बुक उवाच 12149080a दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः 12149080c इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् 12149081a बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् 12149081c इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् 12149082a न मे मानुषलोकोऽयं मुहूर्तमपि रोचते 12149082c अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः 12149083a प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा 12149083c कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च 12149083e श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः 12149084a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12149084c सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् 12149085a इमं क्षितितले न्यस्य बालं रूपसमन्वितम् 12149085c कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ 12149086a रूपयौवनसंपन्नं द्योतमानमिव श्रिया 12149086c जीवन्तमेनं पश्यामि मनसा नात्र संशयः 12149087a विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः 12149087c पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् 12149088a दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम् 12149088c त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् 12149089 भीष्म उवाच 12149089a तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना 12149089c श्मशानवासिना नित्यं रात्रिं मृगयता तदा 12149090a ततो मध्यस्थतां नीता वचनैरमृतोपमैः 12149090c जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः 12149091 गृध्र उवाच 12149091a अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः 12149091c दारुणः काननोद्देशः कौशिकैरभिनादितः 12149092a भीमः सुघोरश्च तथा नीलमेघसमप्रभः 12149092c अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत 12149093a भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः 12149093c तावदेनं परित्यज्य प्रेतकार्याण्युपासत 12149094a नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः 12149094c मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति 12149095a चिताधूमेन नीलेन संरज्यन्ते च पादपाः 12149095c श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः 12149096a सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः 12149096c युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः 12149097a दूराच्चायं वनोद्देशो भयमत्र भविष्यति 12149097c त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः 12149098a यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च 12149098c श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ 12149099 जम्बुक उवाच 12149099a स्थीयतां नेह भेतव्यं यावत्तपति भास्करः 12149099c तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत 12149100a स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत 12149100c स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः 12149101a यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च 12149101c गृह्णीत मोहितात्मानः सुतो वो न भविष्यति 12149102 भीष्म उवाच 12149102a गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः 12149102c मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ 12149103a स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च 12149103c क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः 12149104a तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः 12149104c वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च 12149105a शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा 12149105c स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् 12149106a तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः 12149106c बान्धवानां स्थितानां च उपातिष्ठत शंकरः 12149107a ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत् 12149107c ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः 12149108a एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम् 12149108c पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि 12149109a एवमुक्तः स भगवान्वारिपूर्णेन पाणिना 12149109c जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै 12149110a तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम् 12149110c वरं पिनाकी भगवान्सर्वभूतहिते रतः 12149111a ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः 12149111c कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो 12149112a अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च 12149112c देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते 12149113a पश्य देवस्य संयोगं बान्धवानां च निश्चयम् 12149113c कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम् 12149114a पश्य चाल्पेन कालेन निश्चयान्वेषणेन च 12149114c प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् 12149115a ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः 12149115c बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै 12149116a ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम् 12149116c विविशुः पुत्रमादाय नगरं हृष्टमानसाः 12149116e एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता 12149117a धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम् 12149117c श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते 12150001 भीष्म उवाच 12150001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12150001c संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च 12150002a हिमवन्तं समासाद्य महानासीद्वनस्पतिः 12150002c वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान् 12150003a तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः 12150003c विश्रमन्ति महाबाहो तथान्या मृगजातयः 12150004a नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः 12150004c शुकशारिकसंघुष्टः फलवान्पुष्पवानपि 12150005a सार्थिका वणिजश्चापि तापसाश्च वनौकसः 12150005c वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे 12150006a तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः 12150006c अभिगम्याब्रवीदेनं नारदो भरतर्षभ 12150007a अहो नु रमणीयस्त्वमहो चासि मनोरमः 12150007c प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले 12150008a सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः 12150008c वसन्ति तव संहृष्टा मनोहरतरास्तथा 12150009a तव शाखा महाशाख स्कन्धं च विपुलं तथा 12150009c न वै प्रभग्नान्पश्यामि मारुतेन कथंचन 12150010a किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत् 12150010c त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् 12150011a विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि 12150011c पर्वतानां च शिखराण्याचालयति वेगवान् 12150012a शोषयत्येव पातालं विवान्गन्धवहः शुचिः 12150012c ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह 12150013a त्वां संरक्षेत पवनः सखित्वेन न संशयः 12150013c तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि 12150014a इदं च रमणीयं ते प्रतिभाति वनस्पते 12150014c यदिमे विहगास्तात रमन्ते मुदितास्त्वयि 12150015a एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः 12150015c पुष्पसंमोदने काले वाशतां सुमनोहरम् 12150016a तथेमे मुदिता नागाः स्वयूथकुलशोभिनः 12150016c घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले 12150017a तथैव मृगजातीभिरन्याभिरुपशोभसे 12150017c तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम 12150018a ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि 12150018c त्रिविष्टपसमं मन्ये तवायतनमेव ह 12150019a बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः 12150019c पालयत्येव सततं भीमः सर्वत्रगोऽनिलः 12150020a न्यग्भावं परमं वायोः शल्मले त्वमुपागतः 12150020c तवाहमस्मीति सदा येन रक्षति मारुतः 12150021a न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम् 12150021c यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः 12150022a त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा 12150022c वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् 12150023 शल्मलिरुवाच 12150023a न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत् 12150023c परमेष्ठी तथा नैव येन रक्षति मानिलः 12150024a मम तेजोबलं वायोर्भीममपि हि नारद 12150024c कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः 12150025a आगच्छन्परमो वायुर्मया विष्टम्भितो बलात् 12150025c रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन 12150026a स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः 12150026c तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् 12150027 नारद उवाच 12150027a शल्मले विपरीतं ते दर्शनं नात्र संशयः 12150027c न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् 12150028a इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः 12150028c न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते 12150029a यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि 12150029c सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः 12150030a एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः 12150030c असम्यगायतो भूयश्चेष्टते विकृतो नृषु 12150031a स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम् 12150031c न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् 12150032a असारश्चासि दुर्बुद्धे केवलं बहु भाषसे 12150032c क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले 12150033a मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति 12150033c ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु 12150034a चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः 12150034c वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः 12150035a तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः 12150035c ते हि जानन्ति वायोश्च बलमात्मन एव च 12150036a तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः 12150036c त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् 12151001 भीष्म उवाच 12151001a एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः 12151001c नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् 12151002a हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान् 12151002c बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते 12151003a बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः 12151003c न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो 12151004a जानामि त्वामहं वायो सर्वप्राणभृतां वरम् 12151004c वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा 12151005a एवं तु वचनं श्रुत्वा नारदस्य समीरणः 12151005c शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् 12151006a शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम् 12151006c अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् 12151007a नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम 12151007c पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः 12151008a तस्य विश्रमणादेव प्रसादो यः कृतस्तव 12151008c रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम 12151009a यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा 12151009c दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे 12151010a एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव 12151010c पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना 12151011a मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि 12151011c न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः 12151012a इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः 12151012c दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् 12151013a अथ निश्चित्य मनसा शल्मलिर्वातकारितम् 12151013c पश्यमानस्तदात्मानमसमं मातरिश्वनः 12151014a नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा 12151014c असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः 12151015a मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत् 12151015c अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः 12151016a किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः 12151016c तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् 12151017a यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने 12151017c अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः 12151018a तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः 12151018c समीरयेत संक्रुद्धो यथा जानाम्यहं तथा 12151019a ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा 12151019c शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् 12151020a स परित्यज्य शाखाश्च पत्राणि कुसुमानि च 12151020c प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः 12151021a ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् 12151021c आजगामाथ तं देशं स्थितो यत्र स शल्मलिः 12151022a तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः 12151022c उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम् 12151023a अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा 12151023c आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् 12151024a हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान् 12151024c आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः 12151025a एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा 12151025c अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् 12151026a एवं यो राजशार्दूल दुर्बलः सन्बलीयसा 12151026c वैरमासज्जते बालस्तप्यते शल्मलिर्यथा 12151027a तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः 12151027c शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा 12151028a न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु 12151028c शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् 12151029a वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना 12151029c बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः 12151030a न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप 12151030c तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् 12151031a तस्मात्क्षमेत बालाय जडाय बधिराय च 12151031c बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् 12151032a अक्षौहिण्यो दशैका च सप्त चैव महाद्युते 12151032c बलेन न समा राजन्नर्जुनस्य महात्मनः 12151033a हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना 12151033c चरता बलमास्थाय पाकशासनिना मृधे 12151034a उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत 12151034c विस्तरेण महाराज किं भूयः प्रब्रवीमि ते 12152001 युधिष्ठिर उवाच 12152001a पापस्य यदधिष्ठानं यतः पापं प्रवर्तते 12152001c एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ 12152002 भीष्म उवाच 12152002a पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप 12152002c एको लोभो महाग्राहो लोभात्पापं प्रवर्तते 12152003a अतः पापमधर्मश्च तथा दुःखमनुत्तमम् 12152003c निकृत्या मूलमेतद्धि येन पापकृतो जनाः 12152004a लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते 12152004c लोभान्मोहश्च माया च मानस्तम्भः परासुता 12152005a अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः 12152005c अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते 12152006a अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः 12152006c कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा 12152007a सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् 12152007c सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता 12152007e हरणं परवित्तानां परदाराभिमर्शनम् 12152008a वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च 12152008c उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः 12152009a ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः 12152009c रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः 12152010a कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता 12152010c साहसानां च सर्वेषामकार्याणां क्रियास्तथा 12152011a जातौ बाल्येऽथ कौमारे यौवने चापि मानवः 12152011c न संत्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः 12152012a यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह 12152012c नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः 12152012e न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति 12152013a यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः 12152013c ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा 12152013e स लोभः सह मोहेन विजेतव्यो जितात्मना 12152014a दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा 12152014c भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् 12152015a सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः 12152015c छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः 12152016a द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः 12152016c अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव 12152016e धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् 12152017a कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः 12152017c सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः 12152018a धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः 12152018c या या विक्रियते संस्था ततः साभिप्रपद्यते 12152019a दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता 12152019c तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु 12152019e एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान् 12152020a शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् 12152020c येषु वृत्तिभयं नास्ति परलोकभयं न च 12152021a नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च 12152021c शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः 12152022a सुखं दुःखं परं येषां सत्यं येषां परायणम् 12152022c दातारो न गृहीतारो दयावन्तस्तथैव च 12152023a पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च 12152023c सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः 12152024a सर्वभूतहिताश्चैव सर्वदेयाश्च भारत 12152024c न ते चालयितुं शक्या धर्मव्यापारपारगाः 12152025a न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् 12152025c न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः 12152026a ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता 12152026c कामक्रोधव्यपेता ये निर्ममा निरहंकृताः 12152026e सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च 12152027a न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर 12152027c अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा 12152028a न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते 12152028c न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः 12152029a येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः 12152029c तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः 12152030a ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च 12152030c निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः 12152031a लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च 12152031c समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वमवस्थितानाम् 12152032a सुखप्रियैस्तान्सुमहाप्रतापा;न्यत्तोऽप्रमत्तश्च समर्थयेथाः 12152032c दैवात्सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव 12153001 युधिष्ठिर उवाच 12153001a अनर्थानामधिष्ठानमुक्तो लोभः पितामह 12153001c अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः 12153002 भीष्म उवाच 12153002a करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् 12153002c प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् 12153003a अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् 12153003c अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति 12153004 युधिष्ठिर उवाच 12153004a अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ 12153004c मूलं योगं गतिं कालं कारणं हेतुमेव च 12153005a श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव 12153005c अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते 12153006 भीष्म उवाच 12153006a रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता 12153006c कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च 12153007a इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता 12153007c अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः 12153008a एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि 12153008c विस्तरेण महाबाहो शृणु तच्च विशां पते 12153009a उभावेतौ समफलौ समदोषौ च भारत 12153009c अज्ञानं चातिलोभश्चाप्येकं जानीहि पार्थिव 12153010a लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते 12153010c स्थाने स्थानं क्षये क्षैण्यमुपैति विविधां गतिम् 12153011a मूलं लोभस्य महतः कालात्मगतिरेव च 12153011c छिन्नेऽच्छिन्ने तथा लोभे कारणं काल एव हि 12153012a तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च 12153012c सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् 12153013a जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् 12153013c लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः 12153014a प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना 12153014c त्यक्त्वा लोभं सुखं लोके प्रेत्य चानुचरिष्यसि 12154001 युधिष्ठिर उवाच 12154001a स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह 12154001c धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते 12154002a बहुधादर्शने लोके श्रेयो यदिह मन्यसे 12154002c अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह 12154003a महानयं धर्मपथो बहुशाखश्च भारत 12154003c किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् 12154004a धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः 12154004c यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः 12154005 भीष्म उवाच 12154005a हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे 12154005c पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि 12154006a धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः 12154006c स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् 12154007a दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः 12154007c ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः 12154008a नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते 12154008c दमो दानं तथा यज्ञानधीतं चातिवर्तते 12154009a दमस्तेजो वर्धयति पवित्रं च दमः परम् 12154009c विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् 12154010a दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम 12154010c दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् 12154011a प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् 12154011c दमेन हि समायुक्तो महान्तं धर्ममश्नुते 12154012a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12154012c सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति 12154013a अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते 12154013c अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् 12154014a आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् 12154014c तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12154015a क्षमा धृतिरहिंसा च समता सत्यमार्जवम् 12154015c इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् 12154016a अकार्पण्यमसंरम्भः संतोषः प्रियवादिता 12154016c अविवित्सानसूया चाप्येषां समुदयो दमः 12154017a गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् 12154017c जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् 12154018a कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् 12154018c मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते 12154019a अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः 12154019c समुद्रकल्पः स नरो न कदाचन पूर्यते 12154020a अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् 12154020c पूर्वसंबन्धिसंयोगान्नैतद्दान्तो निषेवते 12154021a सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः 12154021c निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते 12154022a मैत्रोऽथ शीलसंपन्नः सुसहायपरश्च यः 12154022c मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् 12154023a सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः 12154023c प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते 12154024a कर्म यच्छुभमेवेह सद्भिराचरितं च यत् 12154024c तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते 12154025a निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः 12154025c कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते 12154026a अभयं यस्य भूतेभ्यो भूतानामभयं यतः 12154026c तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन 12154027a अवाचिनोति कर्माणि न च संप्रचिनोति ह 12154027c समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् 12154028a शकुनीनामिवाकाशे जले वारिचरस्य वा 12154028c यथा गतिर्न दृश्येत तथा तस्य न संशयः 12154029a गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते 12154029c लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः 12154030a संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः 12154030c संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह 12154031a कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः 12154031c प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते 12154032a यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् 12154032c गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते 12154033a ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः 12154033c नावृत्तिभयमस्तीह परलोके भयं कुतः 12154034a एक एव दमे दोषो द्वितीयो नोपपद्यते 12154034c यदेनं क्षमया युक्तमशक्तं मन्यते जनः 12154035a एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः 12154035c क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना 12154036a दान्तस्य किमरण्येन तथादान्तस्य भारत 12154036c यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः 12154037 वैशंपायन उवाच 12154037a एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः 12154037c अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत 12154038a पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् 12154038c तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह 12155001 भीष्म उवाच 12155001a सर्वमेतत्तपोमूलं कवयः परिचक्षते 12155001c न ह्यतप्ततपा मूढः क्रियाफलमवाप्यते 12155002a प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः 12155002c तथैव वेदानृषयस्तपसा प्रतिपेदिरे 12155003a तपसो ह्यानुपूर्व्येण फलमूलानिलाशनाः 12155003c त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः 12155004a औषधान्यगदादीनि तिस्रो विद्याश्च संस्कृताः 12155004c तपसैव हि सिध्यन्ति तपोमूलं हि साधनम् 12155005a यद्दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम् 12155005c सर्वं तत्तपसा शक्यं तपो हि दुरतिक्रमम् 12155006a सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः 12155006c तपसैव सुतप्तेन नरः पापाद्विमुच्यते 12155007a तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः 12155007c निवृत्त्या वर्तमानस्य तपो नानशनात्परम् 12155008a अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः 12155008c एतेभ्यो हि महाराज तपो नानशनात्परम् 12155009a न दुष्करतरं दानान्नातिमातरमाश्रमः 12155009c त्रैविद्येभ्यः परं नास्ति संन्यासः परमं तपः 12155010a इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये 12155010c तस्मादर्थे च धर्मे च तपो नानशनात्परम् 12155011a ऋषयः पितरो देवा मनुष्या मृगसत्तमाः 12155011c यानि चान्यानि भूतानि स्थावराणि चराणि च 12155012a तपःपरायणाः सर्वे सिध्यन्ति तपसा च ते 12155012c इत्येवं तपसा देवा महत्त्वं चाप्यवाप्नुवन् 12155013a इमानीष्टविभागानि फलानि तपसा सदा 12155013c तपसा शक्यते प्राप्तुं देवत्वमपि निश्चयात् 12156001 युधिष्ठिर उवाच 12156001a सत्यं धर्मे प्रशंसन्ति विप्रर्षिपितृदेवताः 12156001c सत्यमिच्छाम्यहं श्रोतुं तन्मे ब्रूहि पितामह 12156002a सत्यं किंलक्षणं राजन्कथं वा तदवाप्यते 12156002c सत्यं प्राप्य भवेत्किं च कथं चैव तदुच्यते 12156003 भीष्म उवाच 12156003a चातुर्वर्ण्यस्य धर्माणां संकरो न प्रशस्यते 12156003c अविकारितमं सत्यं सर्ववर्णेषु भारत 12156004a सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः 12156004c सत्यमेव नमस्येत सत्यं हि परमा गतिः 12156005a सत्यं धर्मस्तपो योगः सत्यं ब्रह्म सनातनम् 12156005c सत्यं यज्ञः परः प्रोक्तः सत्ये सर्वं प्रतिष्ठितम् 12156006a आचारानिह सत्यस्य यथावदनुपूर्वशः 12156006c लक्षणं च प्रवक्ष्यामि सत्यस्येह यथाक्रमम् 12156007a प्राप्यते हि यथा सत्यं तच्च श्रोतुं त्वमर्हसि 12156007c सत्यं त्रयोदशविधं सर्वलोकेषु भारत 12156008a सत्यं च समता चैव दमश्चैव न संशयः 12156008c अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता 12156009a त्यागो ध्यानमथार्यत्वं धृतिश्च सततं स्थिरा 12156009c अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश 12156010a सत्यं नामाव्ययं नित्यमविकारि तथैव च 12156010c सर्वधर्माविरुद्धं च योगेनैतदवाप्यते 12156011a आत्मनीष्टे तथानिष्टे रिपौ च समता तथा 12156011c इच्छाद्वेषक्षयं प्राप्य कामक्रोधक्षयं तथा 12156012a दमो नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यमेव च 12156012c अभयं क्रोधशमनं ज्ञानेनैतदवाप्यते 12156013a अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमम् 12156013c अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् 12156014a अक्षमायाः क्षमायाश्च प्रियाणीहाप्रियाणि च 12156014c क्षमते सर्वतः साधुः साध्वाप्नोति च सत्यवान् 12156015a कल्याणं कुरुते गाढं ह्रीमान्न श्लाघते क्वचित् 12156015c प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते 12156016a धर्मार्थहेतोः क्षमते तितिक्षा क्षान्तिरुच्यते 12156016c लोकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते 12156017a त्यागः स्नेहस्य यस्त्यागो विषयाणां तथैव च 12156017c रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा 12156018a आर्यता नाम भूतानां यः करोति प्रयत्नतः 12156018c शुभं कर्म निराकारो वीतरागत्वमेव च 12156019a धृतिर्नाम सुखे दुःखे यथा नाप्नोति विक्रियाम् 12156019c तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः 12156020a सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च 12156020c वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः 12156021a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 12156021c अनुग्रहश्च दानं च सतां धर्मः सनातनः 12156022a एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः 12156022c भजन्ते सत्यमेवेह बृंहयन्ति च भारत 12156023a नान्तः शक्यो गुणानां हि वक्तुं सत्यस्य भारत 12156023c अतः सत्यं प्रशंसन्ति विप्राः सपितृदेवताः 12156024a नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् 12156024c स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् 12156025a उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः 12156025c व्रताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः 12156026a अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 12156026c अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते 12157001 युधिष्ठिर उवाच 12157001a यतः प्रभवति क्रोधः कामश्च भरतर्षभ 12157001c शोकमोहौ विवित्सा च परासुत्वं तथा मदः 12157002a लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा 12157002c एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद 12157003 भीष्म उवाच 12157003a त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः 12157003c उपासते महाराज समस्ताः पुरुषानिह 12157004a एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि 12157004c वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् 12157005a एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते 12157005c इति मर्त्यो विजानीयात्सततं भरतर्षभ 12157006a एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम 12157006c हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु 12157007a लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते 12157007c क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते 12157008a संकल्पाज्जायते कामः सेव्यमानो विवर्धते 12157008c अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम् 12157009a विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः 12157009c विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते 12157010a प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः 12157010c यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति 12157011a परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते 12157011c दयया सर्वभूतानां निर्वेदात्सा निवर्तते 12157012a सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते 12157012c एतत्तु क्षीयते तात साधूनामुपसेवनात् 12157013a कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् 12157013c एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति 12157014a ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत 12157014c इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति 12157015a विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः 12157015c कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति 12157016a प्रतिकर्तुमशक्याय बलस्थायापकारिणे 12157016c असूया जायते तीव्रा कारुण्याद्विनिवर्तते 12157017a कृपणान्सततं दृष्ट्वा ततः संजायते कृपा 12157017c धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा 12157018a एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश 12157018c एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश 12157018e त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् 12158001 युधिष्ठिर उवाच 12158001a आनृशंस्यं विजानामि दर्शनेन सतां सदा 12158001c नृशंसान्न विजानामि तेषां कर्म च भारत 12158002a कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः 12158002c तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् 12158003a नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत 12158003c तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् 12158004 भीष्म उवाच 12158004a स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा 12158004c आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः 12158005a दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः 12158005c असंभोगी च मानी च तथा सङ्गी विकत्थनः 12158006a सर्वातिशङ्की परुषो बालिशः कृपणस्तथा 12158006c वर्गप्रशंसी सततमाश्रमद्वेषसंकरी 12158007a हिंसाविहारी सततमविशेषगुणागुणः 12158007c बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् 12158008a धर्मशीलं गुणोपेतं पाप इत्यवगच्छति 12158008c आत्मशीलानुमानेन न विश्वसिति कस्यचित् 12158009a परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत् 12158009c समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् 12158010a तथोपकारिणं चैव मन्यते वञ्चितं परम् 12158010c दत्त्वापि च धनं काले संतपत्युपकारिणे 12158011a भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम् 12158011c प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः 12158012a ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते 12158012c स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते 12158013a एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः 12158013c सदा विवर्जनीयो वै पुरुषेण बुभूषता 12159001 भीष्म उवाच 12159001a कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः 12159001c आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा 12159002a एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः 12159002c अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः 12159003a अन्यत्र दक्षिणा या तु देया भरतसत्तम 12159003c अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते 12159004a सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत् 12159004c ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः 12159005a यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये 12159005c अधिकं वापि विद्येत स सोमं पातुमर्हति 12159006a यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः 12159006c ब्राह्मणस्य विशेषेण धार्मिके सति राजनि 12159007a यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः 12159007c कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत् 12159008a आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः 12159008c न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः 12159009a योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः 12159009c तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् 12159010a अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो 12159010c तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः 12159011a तथैव सप्तमे भक्ते भक्तानि षडनश्नता 12159011c अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः 12159011e खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते 12159012a आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा 12159012c न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् 12159013a क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा 12159013c श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् 12159013e अथैनं परिरक्षेत पिता पुत्रमिवौरसम् 12159014a इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये 12159014c अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् 12159015a विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः 12159015c आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः 12159016a प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते 12159016c न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् 12159017a न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः 12159017c अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् 12159018a तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् 12159018c मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते 12159018e तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् 12159019a क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः 12159019c धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः 12159020a न वै कन्या न युवतिर्नामन्त्रो न च बालिशः 12159020c परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा 12159020e नरके निपतन्त्येते जुह्वानाः स च यस्य तत् 12159021a प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् 12159021c अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः 12159022a पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः 12159022c अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन 12159023a प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः 12159023c इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति 12159024a उदक्या ह्यासते ये च ये च केचिदनग्नयः 12159024c कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः 12159025a उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः 12159025c उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति 12159026a अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम् 12159026c अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः 12159026e तथा स शुध्यते राजञ्शृणु चात्र वचो मम 12159027a यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः 12159027c स्थानासनाभ्यां विचरन्व्रती सं;स्त्रिभिर्वर्षैः शमयेदात्मपापम् 12159028a न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले 12159028c न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि 12159029a श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत् 12159029c सुवर्णमपि चामेध्यादाददीतेति धारणा 12159030a स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् 12159030c अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः 12159031a गोब्राह्मणहितार्थं च वर्णानां संकरेषु च 12159031c गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः 12159032a सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा 12159032c अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा 12159033a सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम् 12159033c विहरन्मद्यपानं चाप्यगम्यागमनं तथा 12159034a पतितैः संप्रयोगाच्च ब्राह्मणैर्योनितस्तथा 12159034c अचिरेण महाराज तादृशो वै भवत्युत 12159035a संवत्सरेण पतति पतितेन सहाचरन् 12159035c याजनाध्यापनाद्यौनान्न तु यानासनाशनात् 12159036a एतानि च ततोऽन्यानि निर्देश्यानीति धारणा 12159036c निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् 12159037a अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते 12159037c त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम् 12159038a अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः 12159038c प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम् 12159039a अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम् 12159039c ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम् 12159039e अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् 12159040a त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती 12159040c यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम् 12159041a ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत् 12159041c वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति 12159042a सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत् 12159042c तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत् 12159043a शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् 12159043c तावतीः स समा राजन्नरके परिवर्तते 12159044a भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः 12159044c आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति 12159045a सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते 12159045c तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति 12159045e लोकांश्च लभते विप्रो नान्यथा लभते हि सः 12159046a गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः 12159046c सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति 12159047a अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम् 12159047c नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः 12159048a ब्राह्मणार्थेऽपि वा प्राणान्संत्यजेत्तेन शुध्यति 12159048c अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः 12159048e अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते 12159049a तथैव द्वादश समाः कपाली ब्रह्महा भवेत् 12159049c ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः 12159050a एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् 12159050c एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति 12159050e द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत् 12159051a सुरापो नियताहारो ब्रह्मचारी क्षमाचरः 12159051c ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम् 12159051e ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात् 12159052a वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः 12159052c शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः 12159053a श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत् 12159053c मार्जारचाषमण्डूकान्काकं भासं च मूषकम् 12159054a उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात् 12159054c प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः 12159055a तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत् 12159055c त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते 12159056a काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् 12159056c स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः 12159056e एवमेव निराचान्तो यश्चाग्नीनपविध्यति 12159057a त्यजत्यकारणे यश्च पितरं मातरं तथा 12159057c पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः 12159058a ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम् 12159058c भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः 12159058e यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम् 12159059a श्रेयांसं शयने हित्वा या पापीयांसमृच्छति 12159059c श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते 12159060a पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे 12159060c अप्यादधीत दारूणि तत्र दह्येत पापकृत् 12159061a एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे 12159061c संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत् 12159062a द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः 12159062c कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः 12159063a परिवित्तिः परिवेत्ता यया च परिविद्यते 12159063c पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः 12159064a चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् 12159064c चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये 12159065a परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम् 12159065c ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम् 12159065e एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः 12159066a अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति 12159066c अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः 12159067a परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् 12159067c चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन् 12159068a तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति 12159068c चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति 12159069a भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम् 12159069c दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत् 12159069e अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते 12159070a श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च 12159070c मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति 12159071a ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः 12159071c अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत् 12159071e त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् 12159072a एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम् 12159072c ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते 12160001 वैशंपायन उवाच 12160001a कथान्तरमथासाद्य खड्गयुद्धविशारदः 12160001c नकुलः शरतल्पस्थमिदमाह पितामहम् 12160002a धनुः प्रहरणं श्रेष्ठमिति वादः पितामह 12160002c मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः 12160003a विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु 12160003c खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् 12160004a शरासनधरांश्चैव गदाशक्तिधरांस्तथा 12160004c एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् 12160005a अत्र मे संशयश्चैव कौतूहलमतीव च 12160005c किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव 12160006a कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा 12160006c पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह 12160007a तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः 12160007c सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् 12160008a ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् 12160008c शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते 12160009a उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः 12160009c शरतल्पगतो भीष्मो नकुलाय महात्मने 12160010a तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि 12160010c प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः 12160011a सलिलैकार्णवं तात पुरा सर्वमभूदिदम् 12160011c निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् 12160012a तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् 12160012c निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः 12160013a सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् 12160013c आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् 12160014a नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा 12160014c संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् 12160015a ततः शरीरं लोकस्थं स्थापयित्वा पितामहः 12160015c जनयामास भगवान्पुत्रानुत्तमतेजसः 12160016a मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् 12160016c वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् 12160017a प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् 12160017c ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे 12160018a ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा 12160018c गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च 12160019a पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः 12160019c नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः 12160020a औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः 12160020c जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् 12160021a भूतसर्गमिमं कृत्वा सर्वलोकपितामहः 12160021c शाश्वतं वेदपठितं धर्मं च युयुजे पुनः 12160022a तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः 12160022c आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः 12160023a भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः 12160023c वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ 12160024a ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा 12160024c घृताचाः सोमवायव्या वैखानसमरीचिपाः 12160025a अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः 12160025c वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने 12160026a दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् 12160026c धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः 12160027a हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः 12160027c शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः 12160028a एते चान्ये च बहवः सगणा दैत्यदानवाः 12160028c धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः 12160029a सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् 12160029c इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः 12160030a न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत 12160030c त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः 12160030e न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः 12160031a अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः 12160031c तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके 12160032a शतयोजनविस्तारे मणिमुक्ताचयाचिते 12160032c तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने 12160032e तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये 12160033a ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः 12160033c विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् 12160034a ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः 12160034c मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः 12160035a काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् 12160035c वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् 12160036a तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् 12160036c तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् 12160037a चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् 12160037c विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः 12160038a नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् 12160038c प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च 12160039a तस्मिन्नुत्पतमाने च प्रचचाल वसुंधरा 12160039c तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः 12160040a पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः 12160040c अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ 12160040e मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा 12160041a ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् 12160041c महर्षिसुरगन्धर्वानुवाचेदं पितामहः 12160042a मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् 12160042c रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् 12160043a ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः 12160043c विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः 12160044a ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे 12160044c ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् 12160045a ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः 12160045c प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह 12160046a चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् 12160046c ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् 12160046e विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् 12160047a बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् 12160047c नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् 12160047e शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले 12160048a ततो देवो महादेवः शूलपाणिर्भगाक्षिहा 12160048c संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् 12160049a त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् 12160049c चचार विविधान्मार्गान्महाबलपराक्रमः 12160049e विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया 12160050a तस्य नादं विनदतो महाहासं च मुञ्चतः 12160050c बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत 12160051a तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः 12160051c निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः 12160052a अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः 12160052c घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः 12160053a ततस्तद्दानवानीकं संप्रणेतारमच्युतम् 12160053c रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च 12160054a चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् 12160054c तमेकमसुराः सर्वे सहस्रमिति मेनिरे 12160055a छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि 12160055c अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः 12160056a असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः 12160056c संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः 12160057a अपरे दानवा भग्ना रुद्रघातावपीडिताः 12160057c अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे 12160058a भूमिं केचित्प्रविविशुः पर्वतानपरे तथा 12160058c अपरे जग्मुराकाशमपरेऽम्भः समाविशन् 12160059a तस्मिन्महति संवृत्ते समरे भृशदारुणे 12160059c बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा 12160060a दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः 12160060c समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः 12160061a रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा 12160061c रक्तार्द्रवसना श्यामा नारीव मदविह्वला 12160062a स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् 12160062c रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः 12160063a ततो महर्षयः सर्वे सर्वे देवगणास्तथा 12160063c जयेनाद्भुतकल्पेन देवदेवमथार्चयन् 12160064a ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् 12160064c असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे 12160065a विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम् 12160065c महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु 12160066a महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक 12160066c मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् 12160067a ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः 12160067c असिना धर्मगर्भेण पालयस्व प्रजा इति 12160068a धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् 12160068c विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया 12160069a दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा 12160069c व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् 12160070a असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत् 12160070c असेरेव प्रमाणानि परिमाणव्यतिक्रमात् 12160071a अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः 12160071c मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् 12160072a क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः 12160072c आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि 12160073a ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् 12160073c आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः 12160074a भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् 12160074c तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा 12160075a ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः 12160075c धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् 12160076a मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः 12160076c रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः 12160077a इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् 12160077c हरिणाश्वादसिं लेभे शुनकः शुनकादपि 12160078a उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः 12160078c यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः 12160079a प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि 12160079c रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः 12160079e ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् 12160080a कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् 12160080c रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः 12160081a असेरष्टौ च नामानि रहस्यानि निबोध मे 12160081c पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् 12160082a असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः 12160082c श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च 12160083a अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत 12160083c महेश्वरप्रणीतश्च पुराणे निश्चयं गतः 12160084a पृथुस्तूत्पादयामास धनुराद्यमरिंदम 12160084c तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता 12160085a तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि 12160085c असेश्च पूजा कर्तव्या सदा युद्धविशारदैः 12160086a इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः 12160086c असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ 12160087a सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् 12160087c लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते 12161001 वैशंपायन उवाच 12161001a इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः 12161001c पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान् 12161002a धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता 12161002c तेषां गरीयान्कतमो मध्यमः को लघुश्च कः 12161003a कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै 12161003c संतुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ 12161004a ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् 12161004c जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् 12161005a बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा 12161005c भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः 12161006a एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः 12161006c एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् 12161007a धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः 12161007c धर्मेण देवा दिविगा धर्मे चार्थः समाहितः 12161008a धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते 12161008c कामो यवीयानिति च प्रवदन्ति मनीषिणः 12161008e तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना 12161009a समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः 12161009c पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः 12161010a कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते 12161010c कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च 12161011a अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः 12161011c न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः 12161012a विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम् 12161012c कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः 12161013a अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः 12161013c अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः 12161014a उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः 12161014c ब्रह्माणमिव भूतानि सततं पर्युपासते 12161015a जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः 12161015c मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् 12161016a काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः 12161016c विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः 12161017a अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः 12161017c कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः 12161018a आस्तिका नास्तिकाश्चैव नियताः संयमे परे 12161018c अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता 12161019a भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् 12161019c एतन्मतिमतां श्रेष्ठ मतं मम यथातथम् 12161019e अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः 12161020a ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् 12161020c नकुलः सहदेवश्च वाक्यं जगदतुः परम् 12161021a आसीनश्च शयानश्च विचरन्नपि च स्थितः 12161021c अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि 12161022a अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये 12161022c इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः 12161023a योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः 12161023c मध्विवामृतसंयुक्तं तस्मादेतौ मताविह 12161024a अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः 12161024c तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः 12161025a तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना 12161025c विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि 12161026a धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम् 12161026c ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् 12161027a विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ 12161027c भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे 12161028a नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति 12161028c नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते 12161029a कामेन युक्ता ऋषयस्तपस्येव समाहिताः 12161029c पलाशफलमूलाशा वायुभक्षाः सुसंयताः 12161030a वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः 12161030c श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे 12161031a वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा 12161031c दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु 12161032a समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः 12161032c कामो हि विविधाकारः सर्वं कामेन संततम् 12161033a नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम् 12161033c एतत्सारं महाराज धर्मार्थावत्र संश्रितौ 12161034a नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः 12161034c श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः 12161035a श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः 12161035c पुष्पतो मध्विव रसः कामात्संजायते सुखम् 12161036a सुचारुवेषाभिरलंकृताभि;र्मदोत्कटाभिः प्रियवादिनीभिः 12161036c रमस्व योषाभिरुपेत्य कामं; कामो हि राजंस्तरसाभिपाती 12161037a बुद्धिर्ममैषा परिषत्स्थितस्य; मा भूद्विचारस्तव धर्मपुत्र 12161037c स्यात्संहितं सद्भिरफल्गुसारं; समेत्य वाक्यं परमानृशंस्यम् 12161038a धर्मार्थकामाः सममेव सेव्या; यस्त्वेकसेवी स नरो जघन्यः 12161038c द्वयोस्तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस्त्रिवर्गे 12161039a प्राज्ञः सुहृच्चन्दनसारलिप्तो; विचित्रमाल्याभरणैरुपेतः 12161039c ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान्विरराम भीमः 12161040a ततो मुहूर्तादथ धर्मराजो; वाक्यानि तेषामनुचिन्त्य सम्यक् 12161040c उवाच वाचावितथं स्मयन्वै; बहुश्रुतो धर्मभृतां वरिष्ठः 12161041a निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः 12161041c विज्ञातुकामस्य ममेह वाक्य;मुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे 12161041e इह त्ववश्यं गदतो ममापि; वाक्यं निबोधध्वमनन्यभावाः 12161042a यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे 12161042c विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः 12161043a भूतानि जातीमरणान्वितानि; जराविकारैश्च समन्वितानि 12161043c भूयश्च तैस्तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः 12161044a स्नेहे नबद्धस्य न सन्ति तानी;त्येवं स्वयंभूर्भगवानुवाच 12161044c बुधाश्च निर्वाणपरा वदन्ति; तस्मान्न कुर्यात्प्रियमप्रियं च 12161045a एतत्प्रधानं न तु कामकारो; यथा नियुक्तोऽस्मि तथा चरामि 12161045c भूतानि सर्वाणि विधिर्नियुङ्क्ते; विधिर्बलीयानिति वित्त सर्वे 12161046a न कर्मणाप्नोत्यनवाप्यमर्थं; यद्भावि सर्वं भवतीति वित्त 12161046c त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं; तस्मादिदं लोकहिताय गुह्यम् 12161047a ततस्तदग्र्यं वचनं मनोनुगं; समस्तमाज्ञाय ततोऽतिहेतुमत् 12161047c तदा प्रणेदुश्च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुरञ्जलीन् 12161048a सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम् 12161048c निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुरेव ते 12161048e पुनश्च पप्रच्छ सरिद्वरासुतं; ततः परं धर्ममहीनसत्त्वः 12162001 युधिष्ठिर उवाच 12162001a पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन 12162001c प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि 12162002a कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत् 12162002c आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे 12162003a न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः 12162003c तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम 12162004a दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् 12162004c एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि 12162005 भीष्म उवाच 12162005a संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः 12162005c वदतो मे निबोध त्वं निखिलेन युधिष्ठिर 12162006a लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च 12162006c क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः 12162007a दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः 12162007c व्यसने यः परित्यागी दुरात्मा निरपत्रपः 12162008a सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः 12162008c संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् 12162009a असत्यो लोकविद्विष्टः समये चानवस्थितः 12162009c पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः 12162010a दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा 12162010c मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः 12162011a वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः 12162011c अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ 12162012a अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते 12162012c सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी 12162013a अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च 12162013c कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप 12162014a शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः 12162014c न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् 12162015a पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा 12162015c परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः 12162016a कृतघ्नश्चाधमो लोके न संधेयः कथंचन 12162016c छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु 12162017a कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः 12162017c मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः 12162018a माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः 12162018c व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः 12162019a रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः 12162019c दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह 12162020a यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो 12162020c नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः 12162021a विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः 12162021c आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः 12162021e न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् 12162022a दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ 12162022c न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः 12162023a लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः 12162023c ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः 12162023e संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा 12162024a ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः 12162024c तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव 12162025a शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः 12162025c क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः 12162026a ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ 12162026c तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः 12162026e त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः 12162027 युधिष्ठिर उवाच 12162027a विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव 12162027c मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद 12162028 भीष्म उवाच 12162028a हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् 12162028c उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप 12162029a ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः 12162029c ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया 12162030a तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् 12162030c ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत् 12162031a तस्य क्षयमुपागम्य ततो भिक्षामयाचत 12162031c प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् 12162032a प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम् 12162032c नारीं चापि वयोपेतां भर्त्रा विरहितां तदा 12162033a एतत्संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा 12162033c तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः 12162034a कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत् 12162034c तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये 12162034e बाणवेध्ये परं यत्नमकरोच्चैव गौतमः 12162035a वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे 12162035c जघान गौतमो राजन्यथा दस्युगणस्तथा 12162036a हिंसापरो घृणाहीनः सदा प्राणिवधे रतः 12162036c गौतमः संनिकर्षेण दस्युभिः समतामियात् 12162037a तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा 12162037c अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् 12162038a ततः कदाचिदपरो द्विजस्तं देशमागमत् 12162038c जटी चीराजिनधरः स्वाध्यायपरमः शुचिः 12162039a विनीतो नियताहारो ब्रह्मण्यो वेदपारगः 12162039c सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् 12162039e तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् 12162040a स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः 12162040c ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् 12162041a ततः स गौतमगृहं प्रविवेश द्विजोत्तमः 12162041c गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ 12162042a वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम् 12162042c रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् 12162043a तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् 12162043c अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च 12162044a किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः 12162044c मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् 12162045a पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् 12162045c येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः 12162046a अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् 12162046c अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज 12162047a एवमुक्तः स सुहृदा तदा तेन हितैषिणा 12162047c प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् 12162048a अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम् 12162048c वृत्त्यर्थमिह संप्राप्तं विद्धि मां द्विजसत्तम 12162049a त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज 12162049c आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् 12163001 भीष्म उवाच 12163001a तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे 12163001c निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत 12163002a सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि 12163002c स तेन सार्थेन सह प्रययौ सागरं प्रति 12163003a स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे 12163003c मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् 12163004a स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा 12163004c कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् 12163005a स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः 12163005c एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा 12163006a स पन्थानमथासाद्य समुद्राभिसरं तदा 12163006c आससाद वनं रम्यं महत्पुष्पितपादपम् 12163007a सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम् 12163007c नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् 12163008a शालतालधवाश्वत्थत्वचागुरुवनैस्तथा 12163008c चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् 12163008e गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु 12163009a समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै 12163009c मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः 12163009e भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् 12163010a स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै 12163010c शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः 12163011a ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते 12163011c देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे 12163012a श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् 12163012c शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम् 12163013a तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा 12163013c दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् 12163014a तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम् 12163014c मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् 12163014e तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् 12163015a तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः 12163015c पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः 12163015e ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप 12163016a स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना 12163016c सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् 12163017a ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते 12163017c आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः 12163018a नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा 12163018c बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः 12163019a राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि 12163019c देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः 12163020a मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः 12163020c भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् 12163021a तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत् 12163021c क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत 12163022 राजधर्मोवाच 12163022a स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् 12163022c अस्तं च सविता यातः संध्येयं समुपस्थिता 12163023a मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः 12163023c पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा 12164001 भीष्म उवाच 12164001a गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा 12164001c कौतूहलान्वितो राजन्राजधर्माणमैक्षत 12164002 राजधर्मोवाच 12164002a भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे 12164002c अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ 12164003 भीष्म उवाच 12164003a तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा 12164003c शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् 12164004a भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान् 12164004c ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् 12164005a वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान् 12164005c स गौतमायातिथये न्यवेदयत काश्यपः 12164006a भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः 12164006c क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् 12164007a ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत 12164007c सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत् 12164008a तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् 12164008c गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् 12164009a अथोपविष्टं शयने गौतमं बकराट्तदा 12164009c पप्रच्छ काश्यपो वाग्मी किमागमनकारणम् 12164010a ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते 12164010c समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत 12164011a तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि 12164011c कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् 12164012a चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा 12164012c पारंपर्यं तथा दैवं कर्म मित्रमिति प्रभो 12164013a प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि 12164013c सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् 12164014a ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम् 12164014c गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि 12164015a इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् 12164015c विरूपाक्ष इति ख्यातः सखा मम महाबलः 12164016a तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः 12164016c कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः 12164017a इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः 12164017c फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः 12164018a चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च 12164018c तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ 12164019a ततो मेरुव्रजं नाम नगरं शैलतोरणम् 12164019c शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा 12164020a विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः 12164020c प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः 12164021a ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर 12164021c गौतमो नगरद्वाराच्छीघ्रमानीयतामिति 12164022a ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः 12164022c गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् 12164023a ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम् 12164023c त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति 12164024a राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः 12164024c स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् 12164025a ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः 12164025c गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः 12164026a तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् 12164026c दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा 12165001 भीष्म उवाच 12165001a ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् 12165001c पूजितो राक्षसेन्द्रेण निषसादासनोत्तमे 12165002a पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् 12165002c न तत्र व्याजहारान्यद्गोत्रमात्रादृते द्विजः 12165003a ब्रह्मवर्चसहीनस्य स्वाध्यायविरतस्य च 12165003c गोत्रमात्रविदो राजा निवासं समपृच्छत 12165004a क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते 12165004c तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् 12165005 गौतम उवाच 12165005a मध्यदेशप्रसूतोऽहं वासो मे शबरालये 12165005c शूद्रा पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते 12165006 भीष्म उवाच 12165006a ततो राजा विममृशे कथं कार्यमिदं भवेत् 12165006c कथं वा सुकृतं मे स्यादिति बुद्ध्यान्वचिन्तयत् 12165007a अयं वै जननाद्विप्रः सुहृत्तस्य महात्मनः 12165007c संप्रेषितश्च तेनायं काश्यपेन ममान्तिकम् 12165008a तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा 12165008c भ्राता मे बान्धवश्चासौ सखा च हृदयंगमः 12165009a कार्त्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः 12165009c तत्रायमपि भोक्ता वै देयमस्मै च मे धनम् 12165010a ततः सहस्रं विप्राणां विदुषां समलंकृतम् 12165010c स्नातानामनुसंप्राप्तमहतक्षौमवाससाम् 12165011a तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशां पते 12165011c यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा 12165012a बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् 12165012c भूमौ वरकुथास्तीर्णाः प्रेष्यैर्भरतसत्तम 12165013a तासु ते पूजिता राज्ञा निषण्णा द्विजसत्तमाः 12165013c व्यराजन्त महाराज नक्षत्रपतयो यथा 12165014a ततो जाम्बूनदाः पात्रीर्वज्राङ्का विमलाः शुभाः 12165014c वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृताप्लुताः 12165015a तस्य नित्यं तथाषाढ्यां माघ्यां च बहवो द्विजाः 12165015c ईप्सितं भोजनवरं लभन्ते सत्कृतं सदा 12165016a विशेषतस्तु कार्त्तिक्यां द्विजेभ्यः संप्रयच्छति 12165016c शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः 12165017a सुवर्णं रजतं चैव मणीनथ च मौक्तिकम् 12165017c वज्रान्महाधनांश्चैव वैडूर्याजिनराङ्कवान् 12165018a रत्नराशीन्विनिक्षिप्य दक्षिणार्थे स भारत 12165018c ततः प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः 12165019a गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः 12165019c येषु येषु च भाण्डेषु भुक्तं वो द्विजसत्तमाः 12165019e तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत 12165020a इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि 12165020c यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणर्षभाः 12165021a ततो महार्हैस्ते सर्वे रत्नैरभ्यर्चिताः शुभैः 12165021c ब्राह्मणा मृष्टवसनाः सुप्रीताः स्म तदाभवन् 12165022a ततस्तान्राक्षसेन्द्रश्च द्विजानाह पुनर्वचः 12165022c नानादिगागतान्राजन्राक्षसान्प्रतिषिध्य वै 12165023a अध्यैकदिवसं विप्रा न वोऽस्तीह भयं क्वचित् 12165023c राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् 12165024a ततः प्रदुद्रुवुः सर्वे विप्रसंघाः समन्ततः 12165024c गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः 12165025a कृच्छ्रात्समुद्वहन्वीर न्यग्रोधं समुपागमत् 12165025c न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च ह 12165026a ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः 12165026c स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः 12165027a तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत्खगः 12165027c पूजां चाप्यकरोद्धीमान्भोजनं चाप्यकल्पयत् 12165028a स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा 12165028c हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया 12165028e गृहीतो लोभमोहाद्वै दूरं च गमनं मम 12165029a न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम 12165029c किं कृत्वा धारयेयं वै प्राणानित्यभ्यचिन्तयत् 12165030a ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन 12165030c कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् 12165031a अयं बकपतिः पार्श्वे मांसराशिः स्थितो मम 12165031c इमं हत्वा गृहीत्वा च यास्येऽहं समभिद्रुतम् 12166001 भीष्म उवाच 12166001a अथ तत्र महार्चिष्माननलो वातसारथिः 12166001c तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् 12166002a स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट्तदा 12166002c कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरत् 12166003a ततोऽलातेन दीप्तेन विश्वस्तं निजघान तम् 12166003c निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् 12166004a स तं विपक्षरोमाणं कृत्वाग्नावपचत्तदा 12166004c तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः 12166005a ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् 12166005c न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् 12166006a स पूर्वसंध्यां ब्रह्माणं वन्दितुं याति सर्वदा 12166006c मां चादृष्ट्वा कदाचित्स न गच्छति गृहान्खगः 12166007a उभे द्विरात्रं संध्ये वै नाभ्यगात्स ममालयम् 12166007c तस्मान्न शुध्यते भावो मम स ज्ञायतां सुहृत् 12166008a स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः 12166008c तं गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः 12166009a दुराचारस्तु दुर्बुद्धिरिङ्गितैर्लक्षितो मया 12166009c निष्क्रियो दारुणाकारः कृष्णो दस्युरिवाधमः 12166010a गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम 12166010c पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् 12166010e ज्ञायतां स विशुद्धात्मा यदि जीवति माचिरम् 12166011a स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ 12166011c न्यग्रोधं तत्र चापश्यत्कङ्कालं राजधर्मणः 12166012a स रुदन्नगमत्पुत्रो राक्षसेन्द्रस्य धीमतः 12166012c त्वरमाणः परं शक्त्या गौतमग्रहणाय वै 12166013a ततोऽविदूरे जगृहुर्गौतमं राक्षसास्तदा 12166013c राजधर्मशरीरं च पक्षास्थिचरणोज्झितम् 12166014a तमादायाथ रक्षांसि द्रुतं मेरुव्रजं ययुः 12166014c राज्ञश्च दर्शयामासुः शरीरं राजधर्मणः 12166014e कृतघ्नं पुरुषं तं च गौतमं पापचेतसम् 12166015a रुरोद राजा तं दृष्ट्वा सामात्यः सपुरोहितः 12166015c आर्तनादश्च सुमहानभूत्तस्य निवेशने 12166016a सस्त्रीकुमारं च पुरं बभूवास्वस्थमानसम् 12166016c अथाब्रवीन्नृपः पुत्रं पापोऽयं वध्यतामिति 12166017a अस्य मांसैरिमे सर्वे विहरन्तु यथेष्टतः 12166017c पापाचारः पापकर्मा पापात्मा पापनिश्चयः 12166017e हन्तव्योऽयं मम मतिर्भवद्भिरिति राक्षसाः 12166018a इत्युक्ता राक्षसेन्द्रेण राक्षसा घोरविक्रमाः 12166018c नैच्छन्त तं भक्षयितुं पापकर्मायमित्युत 12166019a दस्यूनां दीयतामेष साध्वद्य पुरुषाधमः 12166019c इत्यूचुस्तं महाराज राक्षसेन्द्रं निशाचराः 12166020a शिरोभिश्च गता भूमिमूचू रक्षोगणाधिपम् 12166020c न दातुमर्हसि त्वं नो भक्षणायास्य किल्बिषम् 12166021a एवमस्त्विति तानाह राक्षसेन्द्रो निशाचरान् 12166021c दस्यूनां दीयतामेष कृतघ्नोऽद्यैव राक्षसाः 12166022a इत्युक्ते तस्य ते दासाः शूलमुद्गरपाणयः 12166022c छित्त्वा तं खण्डशः पापं दस्युभ्यः प्रददुस्तदा 12166023a दस्यवश्चापि नैच्छन्त तमत्तुं पापकारिणम् 12166023c क्रव्यादा अपि राजेन्द्र कृतघ्नं नोपभुञ्जते 12166024a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12166024c निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः 12166025a मित्रद्रोही नृशंसश्च कृतघ्नश्च नराधमः 12166025c क्रव्यादैः कृमिभिश्चान्यैर्न भुज्यन्ते हि तादृशाः 12167001 भीष्म उवाच 12167001a ततश्चितां बकपतेः कारयामास राक्षसः 12167001c रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम् 12167002a तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान् 12167002c प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह 12167003a तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा 12167003c उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी 12167004a तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ 12167004c सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः 12167005a ततः संजीवितस्तेन बकराजस्तदानघ 12167005c उत्पत्य च समेयाय विरूपाक्षं बकाधिपः 12167006a ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा 12167006c प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत 12167007a श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम् 12167007c यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः 12167008a यदा बकपती राजन्ब्रह्माणं नोपसर्पति 12167008c ततो रोषादिदं प्राह बकेन्द्राय पितामहः 12167009a यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः 12167009c तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति 12167010a तदायं तस्य वचनान्निहतो गौतमेन वै 12167010c तेनैवामृतसिक्तश्च पुनः संजीवितो बकः 12167011a राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम् 12167011c यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर 12167011e सखायं मे सुदयितं गौतमं जीवयेत्युत 12167012a तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ 12167012c संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा 12167013a सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः 12167013c संपरिष्वज्य सुहृदं प्रीत्या परमया युतः 12167014a अथ तं पापकर्माणं राजधर्मा बकाधिपः 12167014c विसर्जयित्वा सधनं प्रविवेश स्वमालयम् 12167015a यथोचितं च स बको ययौ ब्रह्मसदस्तदा 12167015c ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत् 12167016a गौतमश्चापि संप्राप्य पुनस्तं शबरालयम् 12167016c शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः 12167017a शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा 12167017c कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान् 12167017e निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो 12167018a एतत्प्राह पुरा सर्वं नारदो मम भारत 12167018c संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ 12167018e मयापि भवते सर्वं यथावदुपवर्णितम् 12167019a कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् 12167019c अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः 12167020a मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः 12167020c मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते 12167021a कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ 12167021c मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम् 12167021e सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः 12167022a परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः 12167022c मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः 12167023a एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव 12167023c मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि 12167024 वैशंपायन उवाच 12167024a एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना 12167024c युधिष्ठिरः प्रीतमना बभूव जनमेजय 12168001 युधिष्ठिर उवाच 12168001a धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः 12168001c धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव 12168002 भीष्म उवाच 12168002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः 12168002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12168003a यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् 12168003c स तमेवाभिजानाति नान्यं भरतसत्तम 12168004a यथा यथा च पर्येति लोकतन्त्रमसारवत् 12168004c तथा तथा विरागोऽत्र जायते नात्र संशयः 12168005a एवं व्यवसिते लोके बहुदोषे युधिष्ठिर 12168005c आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः 12168006 युधिष्ठिर उवाच 12168006a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12168006c यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह 12168007 भीष्म उवाच 12168007a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 12168007c अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् 12168008a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12168008c यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः 12168009a पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् 12168009c विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् 12168010a किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि 12168010c यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् 12168011a त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते 12168011c सर्वे तत्र गमिष्यामो यत एवागता वयम् 12168012 सेनजिदुवाच 12168012a का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन 12168012c किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि 12168013 ब्राह्मण उवाच 12168013a पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः 12168013c आत्मापि चायं न मम सर्वा वा पृथिवी मम 12168014a यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा 12168014c एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे 12168015a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 12168015c समेत्य च व्यपेयातां तद्वद्भूतसमागमः 12168016a एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा 12168016c तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् 12168017a अदर्शनादापतितः पुनश्चादर्शनं गतः 12168017c न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि 12168018a तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 12168018c सुखात्संजायते दुःखमेवमेतत्पुनः पुनः 12168018e सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 12168019a सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् 12168019c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 12168020a नालं सुखाय सुहृदो नालं दुःखाय शत्रवः 12168020c न च प्रज्ञालमर्थानां न सुखानामलं धनम् 12168021a न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये 12168021c लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः 12168022a बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् 12168022c दुर्बलं बलवन्तं च भागिनं भजते सुखम् 12168023a धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च 12168023c पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः 12168024a ये च मूढतमा लोके ये च बुद्धेः परं गताः 12168024c ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः 12168025a अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे 12168025c अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः 12168026a ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः 12168026c तान्नैवार्था न चानर्था व्यथयन्ति कदाचन 12168027a अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् 12168027c तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च 12168028a नित्यप्रमुदिता मूढा दिवि देवगणा इव 12168028c अवलेपेन महता परिदृब्धा विचेतसः 12168029a सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् 12168029c भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे 12168030a सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् 12168030c प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः 12168031a शोकस्थानसहस्राणि हर्षस्थानशतानि च 12168031c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 12168032a बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम् 12168032c दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् 12168033a एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः 12168033c उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति 12168034a यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा 12168034c आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् 12168035a यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते 12168035c कामानुसारी पुरुषः कामाननु विनश्यति 12168036a यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 12168036c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12168037a पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् 12168037c प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् 12168038a एवमेव किलैतानि प्रियाण्येवाप्रियाणि च 12168038c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 12168039a तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः 12168039c सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः 12168039e वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः 12168040a यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः 12168040c तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति 12168041a किंचिदेव ममत्वेन यदा भवति कल्पितम् 12168041c तदेव परितापार्थं सर्वं संपद्यते तदा 12168042a न बिभेति यदा चायं यदा चास्मान्न बिभ्यति 12168042c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12168043a उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये 12168043c प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि 12168044a यदा न कुरुते धीरः सर्वभूतेषु पापकम् 12168044c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12168045a या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 12168045c योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 12168046a अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव 12168046c यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् 12168047a संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता 12168047c अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा 12168048 पिङ्गलोवाच 12168048a उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् 12168048c अन्तिके रमणं सन्तं नैनमध्यगमं पुरा 12168049a एकस्थूणं नवद्वारमपिधास्याम्यगारकम् 12168049c का हि कान्तमिहायान्तमयं कान्तेति मंस्यते 12168050a अकामाः कामरूपेण धूर्ता नरकरूपिणः 12168050c न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि 12168051a अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा 12168051c संबुद्धाहं निराकारा नाहमद्याजितेन्द्रिया 12168052a सुखं निराशः स्वपिति नैराश्यं परमं सुखम् 12168052c आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला 12168053 भीष्म उवाच 12168053a एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः 12168053c पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् 12169001 युधिष्ठिर उवाच 12169001a अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे 12169001c किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह 12169002 भीष्म उवाच 12169002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12169002c पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर 12169003a द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै 12169003c बभूव पुत्रो मेधावी मेधावी नाम नामतः 12169004a सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् 12169004c मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः 12169005a धीरः किं स्वित्तात कुर्यात्प्रजान;न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् 12169005c पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम् 12169006 पितोवाच 12169006a वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम् 12169006c अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत् 12169007 पुत्र उवाच 12169007a एवमभ्याहते लोके समन्तात्परिवारिते 12169007c अमोघासु पतन्तीषु किं धीर इव भाषसे 12169008 पितोवाच 12169008a कथमभ्याहतो लोकः केन वा परिवारितः 12169008c अमोघाः काः पतन्तीह किं नु भीषयसीव माम् 12169009 पुत्र उवाच 12169009a मृत्युनाभ्याहतो लोको जरया परिवारितः 12169009c अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे 12169010a यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह 12169010c सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् 12169011a रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा 12169011c गाधोदके मत्स्य इव सुखं विन्देत कस्तदा 12169011e तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः 12169012a अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् 12169012c शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् 12169012e वृकीवोरणमासाद्य मृत्युरादाय गच्छति 12169013a अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् 12169013c अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति 12169014a श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12169014c न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् 12169014e को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते 12169015a युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् 12169015c कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् 12169016a मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः 12169016c कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति 12169017a तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् 12169017c सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति 12169018a संचिन्वानकमेवैकं कामानामवितृप्तकम् 12169018c व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति 12169019a इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् 12169019c एवमीहासुखासक्तं कृतान्तः कुरुते वशे 12169020a कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम् 12169020c क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति 12169021a मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् 12169021c अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि 12169022a जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् 12169022c अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः 12169023a मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः 12169023c देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः 12169024a निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 12169024c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12169025a न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः 12169025c जीवितार्थापनयनैः कर्मभिर्न स बध्यते 12169026a न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते 12169026c ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम् 12169027a तस्मात्सत्यव्रताचारः सत्ययोगपरायणः 12169027c सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् 12169028a अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् 12169028c मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् 12169029a सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः 12169029c समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् 12169030a शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः 12169030c वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने 12169031a पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति 12169031c अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् 12169032a यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा 12169032c तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् 12169033a नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम् 12169033c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12169034a आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा 12169034c आत्मन्येव भविष्यामि न मां तारयति प्रजा 12169035a नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च 12169035c शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः 12169036a किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि 12169036c आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च 12169037 भीष्म उवाच 12169037a पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप 12169037c तथा त्वमपि वर्तस्व सत्यधर्मपरायणः 12170001 युधिष्ठिर उवाच 12170001a धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः 12170001c सुखदुःखागमस्तेषां कः कथं वा पितामह 12170002 भीष्म उवाच 12170002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12170002c शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह 12170003a अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः 12170003c क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया 12170004a उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् 12170004c विविधान्युपवर्तन्ते दुःखानि च सुखानि च 12170005a तयोरेकतरे मार्गे यद्येनमभिसंनयेत् 12170005c न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत् 12170006a न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे 12170006c अकामात्मापि हि सदा धुरमुद्यम्य चैव हि 12170007a अकिंचनः परिपतन्सुखमास्वादयिष्यसि 12170007c अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि 12170008a आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम् 12170008c अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम् 12170009a अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः 12170009c अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये 12170010a आकिंचन्यं च राज्यं च तुलया समतोलयम् 12170010c अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् 12170011a आकिंचन्ये च राज्ये च विशेषः सुमहानयम् 12170011c नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा 12170012a नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः 12170012c प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः 12170013a तं वै सदा कामचरमनुपस्तीर्णशायिनम् 12170013c बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः 12170014a धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः 12170014c तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः 12170015a निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता 12170015c कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् 12170016a श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् 12170016c सा तस्य चित्तं हरति शारदाभ्रमिवानिलः 12170017a अथैनं रूपमानश्च धनमानश्च विन्दति 12170017c अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः 12170017e इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते 12170018a स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान् 12170018c परिक्षीणः परस्वानामादानं साधु मन्यते 12170019a तमतिक्रान्तमर्यादमाददानं ततस्ततः 12170019c प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः 12170020a एवमेतानि दुःखानि तानि तानीह मानवम् 12170020c विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च 12170021a तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् 12170021c लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह 12170022a नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् 12170022c नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव 12170023a इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् 12170023c शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः 12171001 युधिष्ठिर उवाच 12171001a ईहमानः समारम्भान्यदि नासादयेद्धनम् 12171001c धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् 12171002 भीष्म उवाच 12171002a सर्वसाम्यमनायासः सत्यवाक्यं च भारत 12171002c निर्वेदश्चाविवित्सा च यस्य स्यात्स सुखी नरः 12171003a एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये 12171003c एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् 12171004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12171004c निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर 12171005a ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः 12171005c केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम् 12171006a सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ 12171006c आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् 12171007a तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः 12171007c उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः 12171008a ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना 12171008c म्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् 12171009a न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् 12171009c युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता 12171010a कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः 12171010c इमं पश्यत संगत्या मम दैवमुपप्लवम् 12171011a उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति 12171011c उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः 12171012a मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम 12171012c शुद्धं हि दैवमेवेदमतो नैवास्ति पौरुषम् 12171013a यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् 12171013c अन्विष्यमाणं तदपि दैवमेवावतिष्ठते 12171014a तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता 12171014c सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने 12171015a अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता 12171015c प्रतिष्ठता महारण्यं जनकस्य निवेशनात् 12171016a यः कामान्प्राप्नुयात्सर्वान्यश्चैनान्केवलांस्त्यजेत् 12171016c प्रापणात्सर्वकामानां परित्यागो विशिष्यते 12171017a नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन 12171017c शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते 12171018a निवर्तस्व विवित्साभ्यः शाम्य निर्विद्य मामक 12171018c असकृच्चासि निकृतो न च निर्विद्यसे तनो 12171019a यदि नाहं विनाश्यस्ते यद्येवं रमसे मया 12171019c मा मां योजय लोभेन वृथा त्वं वित्तकामुक 12171020a संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः 12171020c कदा विमोक्ष्यसे मूढ धनेहां धनकामुक 12171021a अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव 12171021c किं नैव जातु पुरुषः परेषां प्रेष्यतामियात् 12171022a न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् 12171022c त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि 12171023a नूनं ते हृदयं काम वज्रसारमयं दृधम् 12171023c यदनर्थशताविष्टं शतधा न विदीर्यते 12171024a त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव 12171024c तवाहं सुखमन्विच्छन्नात्मन्युपलभे सुखम् 12171025a काम जानामि ते मूलं संकल्पात्किल जायसे 12171025c न त्वां संकल्पयिष्यामि समूलो न भविष्यसि 12171026a ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी 12171026c लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा 12171027a परेत्य यो न लभते ततो दुःखतरं नु किम् 12171027c न च तुष्यति लब्धेन भूय एव च मार्गति 12171028a अनुतर्षुल एवार्थः स्वादु गाङ्गमिवोदकम् 12171028c मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि संत्यज 12171029a य इमं मामकं देहं भूतग्रामः समाश्रितः 12171029c स यात्वितो यथाकामं वसतां वा यथासुखम् 12171030a न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु 12171030c तस्मादुत्सृज्य सर्वान्वः सत्यमेवाश्रयाम्यहम् 12171031a सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः 12171031c योगे बुद्धिं श्रुते सत्त्वं मनो ब्रह्मणि धारयन् 12171032a विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः 12171032c यथा मा त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि 12171033a त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते 12171033c तृष्णाशोकश्रमाणां हि त्वं काम प्रभवः सदा 12171034a धननाशोऽधिकं दुःखं मन्ये सर्वमहत्तरम् 12171034c ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् 12171035a अवज्ञानसहस्रैस्तु दोषाः कष्टतराधने 12171035c धने सुखकला या च सापि दुःखैर्विधीयते 12171036a धनमस्येति पुरुषं पुरा निघ्नन्ति दस्यवः 12171036c क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च 12171037a मन्दलोलुपता दुःखमिति बुद्धं चिरान्मया 12171037c यद्यदालम्बसे काम तत्तदेवानुरुध्यसे 12171038a अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः 12171038c नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् 12171039a पातालमिव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि 12171039c नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया 12171040a निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया 12171040c निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये 12171041a अतिक्लेशान्सहामीह नाहं बुध्याम्यबुद्धिमान् 12171041c निकृतो धननाशेन शये सर्वाङ्गविज्वरः 12171042a परित्यजामि काम त्वां हित्वा सर्वमनोगतीः 12171042c न त्वं मया पुनः काम नस्योतेनेव रंस्यसे 12171043a क्षमिष्येऽक्षममाणानां न हिंसिष्ये च हिंसितः 12171043c द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् 12171044a तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् 12171044c न सकामं करिष्यामि त्वामहं शत्रुमात्मनः 12171045a निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् 12171045c सर्वभूतदयां चैव विद्धि मां शरणागतम् 12171046a तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च 12171046c त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि सांप्रतम् 12171047a प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च 12171047c नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् 12171048a यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते 12171048c कामस्य वशगो नित्यं दुःखमेव प्रपद्यते 12171049a कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः 12171049c कामक्रोधोद्भवं दुःखमह्रीररतिरेव च 12171050a एष ब्रह्मप्रविष्टोऽहं ग्रीष्मे शीतमिव ह्रदम् 12171050c शाम्यामि परिनिर्वामि सुखमासे च केवलम् 12171051a यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 12171051c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12171052a आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् 12171052c प्राप्यावध्यं ब्रह्मपुरं राजेव स्यामहं सुखी 12171053a एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः 12171053c सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् 12171054a दम्यनाशकृते मङ्किरमरत्वं किलागमत् 12171054c अच्छिनत्काममूलं स तेन प्राप महत्सुखम् 12171055a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12171055c गीतं विदेहराजेन जनकेन प्रशाम्यता 12171056a अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन 12171056c मिथिलायां प्रदीप्तायां न मे दह्यति किंचन 12171057a अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् 12171057c निर्वेदं प्रति विन्यस्तं प्रतिबोध युधिष्ठिर 12171058a बोध्यं दान्तमृषिं राजा नहुषः पर्यपृच्छत 12171058c निर्वेदाच्छान्तिमापन्नं शान्तं प्रज्ञानतर्पितम् 12171059a उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे 12171059c कां बुद्धिं समनुध्याय शान्तश्चरसि निर्वृतः 12171060 बोध्य उवाच 12171060a उपदेशेन वर्तामि नानुशास्मीह कंचन 12171060c लक्षणं तस्य वक्ष्येऽहं तत्स्वयं प्रविमृश्यताम् 12171061a पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने 12171061c इषुकारः कुमारी च षडेते गुरवो मम 12172001 युधिष्ठिर उवाच 12172001a केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् 12172001c किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् 12172002 भीष्म उवाच 12172002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12172002c प्रह्रादस्य च संवादं मुनेराजगरस्य च 12172003a चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् 12172003c पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः 12172004a स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः 12172004c सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् 12172005a नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि 12172005c नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे 12172006a स्रोतसा ह्रियमाणासु प्रजास्वविमना इव 12172006c धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे 12172007a नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे 12172007c इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् 12172008a का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने 12172008c क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे 12172009a अनुयुक्तः स मेधावी लोकधर्मविधानवित् 12172009c उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया 12172010a पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः 12172010c ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे 12172011a स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः 12172011c स्वभावनिरताः सर्वाः परितप्ये न केनचित् 12172012a पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान् 12172012c संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः 12172013a अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः 12172013c उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते 12172014a जलजानामपि ह्यन्तं पर्यायेणोपलक्षये 12172014c महतामपि कायानां सूक्ष्माणां च महोदधौ 12172015a जङ्गमस्थावराणां च भूतानामसुराधिप 12172015c पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः 12172016a अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् 12172016c उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि 12172017a दिवि संचरमाणानि ह्रस्वानि च महान्ति च 12172017c ज्योतींषि च यथाकालं पतमानानि लक्षये 12172018a इति भूतानि संपश्यन्ननुषक्तानि मृत्युना 12172018c सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे 12172019a सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया 12172019c शये पुनरभुञ्जानो दिवसानि बहून्यपि 12172020a आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु 12172020c पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते 12172021a कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे 12172021c भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः 12172022a शये कदाचित्पर्यङ्के भूमावपि पुनः शये 12172022c प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते 12172023a धारयामि च चीराणि शाणीं क्षौमाजिनानि च 12172023c महार्हाणि च वासांसि धारयाम्यहमेकदा 12172024a न संनिपतितं धर्म्यमुपभोगं यदृच्छया 12172024c प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् 12172025a अचलमनिधनं शिवं विशोकं; शुचिमतुलं विदुषां मते निविष्टम् 12172025c अनभिमतमसेवितं च मूढै;र्व्रतमिदमाजगरं शुचिश्चरामि 12172026a अचलितमतिरच्युतः स्वधर्मा;त्परिमितसंसरणः परावरज्ञः 12172026c विगतभयकषायलोभमोहो; व्रतमिदमाजगरं शुचिश्चरामि 12172027a अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम् 12172027c हृदयसुखमसेवितं कदर्यै;र्व्रतमिदमाजगरं शुचिश्चरामि 12172028a इदमिदमिति तृष्णयाभिभूतं; जनमनवाप्तधनं विषीदमानम् 12172028c निपुणमनुनिशाम्य तत्त्वबुद्ध्या; व्रतमिदमाजगरं शुचिश्चरामि 12172029a बहुविधमनुदृश्य चार्थहेतोः; कृपणमिहार्यमनार्यमाश्रयन्तम् 12172029c उपशमरुचिरात्मवान्प्रशान्तो; व्रतमिदमाजगरं शुचिश्चरामि 12172030a सुखमसुखमनर्थमर्थलाभं; रतिमरतिं मरणं च जीवितं च 12172030c विधिनियतमवेक्ष्य तत्त्वतोऽहं; व्रतमिदमाजगरं शुचिश्चरामि 12172031a अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः 12172031c उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि 12172032a अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः 12172032c अपगतफलसंचयः प्रहृष्टो; व्रतमिदमाजगरं शुचिश्चरामि 12172033a अभिगतमसुखार्थमीहनार्थै;रुपगतबुद्धिरवेक्ष्य चात्मसंस्थः 12172033c तृषितमनियतं मनो नियन्तुं; व्रतमिदमाजगरं शुचिश्चरामि 12172034a न हृदयमनुरुध्यते मनो वा; प्रियसुखदुर्लभतामनित्यतां च 12172034c तदुभयमुपलक्षयन्निवाहं; व्रतमिदमाजगरं शुचिश्चरामि 12172035a बहु कथितमिदं हि बुद्धिमद्भिः; कविभिरभिप्रथयद्भिरात्मकीर्तिम् 12172035c इदमिदमिति तत्र तत्र तत्त;त्स्वपरमतैर्गहनं प्रतर्कयद्भिः 12172036a तदहमनुनिशाम्य विप्रयातं; पृथगभिपन्नमिहाबुधैर्मनुष्यैः 12172036c अनवसितमनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः 12172037 भीष्म उवाच 12172037a अजगरचरितं व्रतं महात्मा; य इह नरोऽनुचरेद्विनीतरागः 12172037c अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेदिमं विहारम् 12173001 युधिष्ठिर उवाच 12173001a बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह 12173001c नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे 12173002 भीष्म उवाच 12173002a प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः 12173002c प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् 12173003a प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये 12173003c प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् 12173004a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12173004c इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर 12173005a वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् 12173005c रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् 12173006a आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् 12173006c मरिष्याम्यधनस्येह जीवितार्थो न विद्यते 12173007a तथा मुमूर्षुमासीनमकूजन्तमचेतसम् 12173007c इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् 12173008a मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः 12173008c मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति 12173009a मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप 12173009c सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि 12173010a सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः 12173010c संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे 12173011a अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः 12173011c पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै 12173012a न पाणिलाभादधिको लाभः कश्चन विद्यते 12173012c अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे 12173013a अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली 12173013c उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च 12173014a हिमवर्षातपानां च परित्राणानि कुर्वते 12173014c चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते 12173015a अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च 12173015c उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते 12173016a ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः 12173016c सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने 12173017a दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः 12173017c न सर्पो न च मण्डूको न चान्यः पापयोनिजः 12173018a एतावतापि लाभेन तोष्टुमर्हसि काश्यप 12173018c किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः 12173019a इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे 12173019c नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम 12173020a अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् 12173020c नेतः पापीयसीं योनिं पतेयमपरामिति 12173021a मध्ये वै पापयोनीनां सार्गाली यामहं गतः 12173021c पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः 12173022a जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः 12173022c नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् 12173023a मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् 12173023c राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि 12173024a भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् 12173024c देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति 12173025a न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति 12173025c संप्रज्वलति सा भूयः समिद्भिरिव पावकः 12173026a अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि 12173026c सुखदुःखे तथा चोभे तत्र का परिदेवना 12173027a परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् 12173027c मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे 12173028a न खल्वप्यरसज्ञस्य कामः क्वचन जायते 12173028c संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते 12173029a न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् 12173029c ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् 12173030a यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप 12173030c येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च 12173031a अप्राशनमसंस्पर्शमसंदर्शनमेव च 12173031c पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः 12173032a पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः 12173032c मनुष्या मानुषैरेव दासत्वमुपपादिताः 12173033a वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः 12173033c ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च 12173034a अपरे बाहुबलिनः कृतविद्या मनस्विनः 12173034c जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते 12173035a उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् 12173035c स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा 12173036a न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति 12173036c असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् 12173037a दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः 12173037c सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप 12173038a यदि ब्राह्मण देहस्ते निरातङ्को निरामयः 12173038c अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः 12173039a न केनचित्प्रवादेन सत्येनैवापहारिणा 12173039c धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि 12173040a यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः 12173040c वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि 12173041a स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय 12173041c सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् 12173042a ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् 12173042c कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् 12173043a इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः 12173043c उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः 12173044a नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः 12173044c संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् 12173045a अहमासं पण्डितको हैतुको वेदनिन्दकः 12173045c आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् 12173046a हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् 12173046c आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् 12173047a नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः 12173047c तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज 12173048a अपि जातु तथा तत्स्यादहोरात्रशतैरपि 12173048c यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः 12173049a संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः 12173049c ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा 12173050a ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह 12173050c अहो बतासि कुशलो बुद्धिमानिति विस्मितः 12173051a समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा 12173051c ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् 12173052a ततः संपूजयामास काश्यपो हरिवाहनम् 12173052c अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् 12174001 युधिष्ठिर उवाच 12174001a यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च 12174001c गुरूणां चापि शुश्रूषा तन्मे ब्रूहि पितामह 12174002 भीष्म उवाच 12174002a आत्मनानर्थयुक्तेन पापे निविशते मनः 12174002c स कर्म कलुषं कृत्वा क्लेशे महति धीयते 12174003a दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् 12174003c मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः 12174004a उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् 12174004c श्रद्दधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः 12174005a व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च 12174005c हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् 12174006a प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः 12174006c क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् 12174007a पुलाका इव धान्येषु पुत्तिका इव पक्षिषु 12174007c तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् 12174008a सुशीघ्रमपि धावन्तं विधानमनुधावति 12174008c शेते सह शयानेन येन येन यथा कृतम् 12174009a उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति 12174009c करोति कुर्वतः कर्म छायेवानुविधीयते 12174010a येन येन यथा यद्यत्पुरा कर्म समाचितम् 12174010c तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना 12174011a स्वकर्मफलविक्षिप्तं विधानपरिरक्षितम् 12174011c भूतग्राममिमं कालः समन्तात्परिकर्षति 12174012a अचोद्यमानानि यथा पुष्पाणि च फलानि च 12174012c स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 12174013a संमानश्चावमानश्च लाभालाभौ क्षयोदयौ 12174013c प्रवृत्ता विनिवर्तन्ते विधानान्ते पुनः पुनः 12174014a आत्मना विहितं दुःखमात्मना विहितं सुखम् 12174014c गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् 12174015a बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् 12174015c तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि 12174016a यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 12174016c तथा पूर्वकृतं कर्म कर्तारमनुगच्छति 12174017a समुन्नमग्रतो वस्त्रं पश्चाच्छुध्यति कर्मणा 12174017c उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् 12174018a दीर्घकालेन तपसा सेवितेन तपोवने 12174018c धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः 12174019a शकुनीनामिवाकाशे मत्स्यानामिव चोदके 12174019c पदं यथा न दृश्येत तथा ज्ञानविदां गतिः 12174020a अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः 12174020c पेशलं चानुरूपं च कर्तव्यं हितमात्मनः 12175001 युधिष्ठिर उवाच 12175001a कुतः सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम् 12175001c प्रलये च कमभ्येति तन्मे ब्रूहि पितामह 12175002a ससागरः सगगनः सशैलः सबलाहकः 12175002c सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः 12175003a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12175003c शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् 12175004a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12175004c अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् 12175005 भीष्म उवाच 12175005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12175005c भृगुणाभिहितं श्रेष्ठं भरद्वाजाय पृच्छते 12175006a कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा 12175006c भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत 12175007a ससागरः सगगनः सशैलः सबलाहकः 12175007c सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः 12175008a कथं सृष्टानि भूतानि कथं वर्णविभक्तयः 12175008c शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् 12175009a कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः 12175009c परलोकमिमं चापि सर्वं शंसतु नो भवान् 12175010a एवं स भगवान्पृष्टो भरद्वाजेन संशयम् 12175010c महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् 12175011a मानसो नाम विख्यातः श्रुतपूर्वो महर्षिभिः 12175011c अनादिनिधनो देवस्तथाभेद्योऽजरामरः 12175012a अव्यक्त इति विख्यातः शाश्वतोऽथाक्षरोऽव्ययः 12175012c यतः सृष्टानि भूतानि जायन्ते च म्रियन्ति च 12175013a सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः 12175013c आकाशमिति विख्यातं सर्वभूतधरः प्रभुः 12175014a आकाशादभवद्वारि सलिलादग्निमारुतौ 12175014c अग्निमारुतसंयोगात्ततः समभवन्मही 12175015a ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयंभुवा 12175015c तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः 12175016a अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् 12175016c ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः 12175017a शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी 12175017c समुद्रास्तस्य रुधिरमाकाशमुदरं तथा 12175018a पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः 12175018c अग्नीषोमौ तु चन्द्रार्कौ नयने तस्य विश्रुते 12175019a नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ दिशो भुजौ 12175019c दुर्विज्ञेयो ह्यनन्तत्वात्सिद्धैरपि न संशयः 12175020a स एव भगवान्विष्णुरनन्त इति विश्रुतः 12175020c सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः 12175021a अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै 12175021c यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया 12175022 भरद्वाज उवाच 12175022a गगनस्य दिशां चैव भूतलस्यानिलस्य च 12175022c कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थतः 12175023 भृगुरुवाच 12175023a अनन्तमेतदाकाशं सिद्धचारणसेवितम् 12175023c रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते 12175024a ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः 12175024c तत्र देवाः स्वयं दीप्ता भास्वराश्चाग्निवर्चसः 12175025a ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः 12175025c दुर्गमत्वादनन्तत्वादिति मे विद्धि मानद 12175026a उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः 12175026c निरुद्धमेतदाकाशमप्रमेयं सुरैरपि 12175027a पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् 12175027c तमसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च 12175028a रसातलान्ते सलिलं जलान्ते पन्नगाधिपः 12175028c तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् 12175029a एवमन्तं भगवतः प्रमाणं सलिलस्य च 12175029c अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि 12175030a अग्निमारुततोयानां वर्णाः क्षितितलस्य च 12175030c आकाशसदृशा ह्येते भिद्यन्ते तत्त्वदर्शनात् 12175031a पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च 12175031c त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा 12175031e अदृश्याय त्वगम्याय कः प्रमाणमुदाहरेत् 12175032a सिद्धानां देवतानां च यदा परिमिता गतिः 12175032c तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् 12175032e नामधेयानुरूपस्य मानसस्य महात्मनः 12175033a यदा तु दिव्यं तद्रूपं ह्रसते वर्धते पुनः 12175033c कोऽन्यस्तद्वेदितुं शक्तो योऽपि स्यात्तद्विधोऽपरः 12175034a ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः 12175034c ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः 12175035 भरद्वाज उवाच 12175035a पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम् 12175035c ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे 12175036 भृगुरुवाच 12175036a मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता 12175036c तस्यासनविधानार्थं पृथिवी पद्ममुच्यते 12175037a कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः 12175037c तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः 12176001 भरद्वाज उवाच 12176001a प्रजाविसर्गं विविधं कथं स सृजते प्रभुः 12176001c मेरुमध्ये स्थितो ब्रह्मा तद्ब्रूहि द्विजसत्तम 12176002 भृगुरुवाच 12176002a प्रजाविसर्गं विविधं मानसो मनसासृजत् 12176002c संधुक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् 12176003a यत्प्राणाः सर्वभूतानां वर्धन्ते येन च प्रजाः 12176003c परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् 12176004a पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे 12176004c सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे पुनः 12176005 भरद्वाज उवाच 12176005a कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ 12176005c कथं च मेदिनी सृष्टेत्यत्र मे संशयो महान् 12176006 भृगुरुवाच 12176006a ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे 12176006c लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् 12176007a तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः 12176007c त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः 12176008a तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत् 12176008c दिव्या सरस्वती तत्र संबभूव नभस्तलात् 12176009a पुरा स्तिमितनिःशब्दमाकाशमचलोपमम् 12176009c नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ 12176010a ततः सलिलमुत्पन्नं तमसीवापरं तमः 12176010c तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः 12176011a यथा भाजनमच्छिद्रं निःशब्दमिव लक्ष्यते 12176011c तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः 12176012a तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे 12176012c भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् 12176013a स एष चरते वायुरर्णवोत्पीडसंभवः 12176013c आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति 12176014a तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः 12176014c प्रादुर्भवत्यूर्ध्वशिखः कृत्वा वितिमिरं नभः 12176015a अग्निः पवनसंयुक्तः खात्समुत्पतते जलम् 12176015c सोऽग्निर्मारुतसंयोगाद्घनत्वमुपपद्यते 12176016a तस्याकाशे निपतितः स्नेहस्तिष्ठति योऽपरः 12176016c स संघातत्वमापन्नो भूमित्वमुपगच्छति 12176017a रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा 12176017c भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते 12177001 भरद्वाज उवाच 12177001a एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा 12177001c आवृता यैरिमे लोका महाभूताभिसंज्ञितैः 12177002a यदासृजत्सहस्राणि भूतानां स महामतिः 12177002c पञ्चानामेव भूतत्वं कथं समुपपद्यते 12177003 भृगुरुवाच 12177003a अमितानां महाशब्दो यान्ति भूतानि संभवम् 12177003c ततस्तेषां महाभूतशब्दोऽयमुपपद्यते 12177004a चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः 12177004c पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् 12177005a इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् 12177005c श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः 12177006 भरद्वाज उवाच 12177006a पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः 12177006c स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः 12177007a अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः 12177007c वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः 12177008a न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः 12177008c न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः 12177009a अद्रवत्वादनग्नित्वादभौमत्वादवायुतः 12177009c आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् 12177010 भृगुरुवाच 12177010a घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः 12177010c तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते 12177011a ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च 12177011c म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते 12177012a वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते 12177012c श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः 12177013a वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति 12177013c न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः 12177014a पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि 12177014c अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः 12177015a पादैः सलिलपानं च व्याधीनामपि दर्शनम् 12177015c व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे 12177016a वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् 12177016c तथा पवनसंयुक्तः पादैः पिबति पादपः 12177017a ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् 12177017c जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते 12177018a तेन तज्जलमादत्तं जरयत्यग्निमारुतौ 12177018c आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते 12177019a जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः 12177019c प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते 12177020a त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् 12177020c इत्येतदिह संख्यातं शरीरे पृथिवीमयम् 12177021a तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च 12177021c अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः 12177022a श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च 12177022c आकाशात्प्राणिनामेते शरीरे पञ्च धातवः 12177023a श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च 12177023c इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा 12177024a प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा 12177024c गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः 12177025a उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते 12177025c इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् 12177026a भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् 12177026c ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना 12177027a तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् 12177027c इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च 12177028a निर्हारी संहतः स्निग्धो रूक्षो विशद एव च 12177028c एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः 12177029a शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः 12177029c रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु 12177030a रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः 12177030c मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा 12177030e एष षड्विधविस्तारो रसो वारिमयः स्मृतः 12177031a शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते 12177031c ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् 12177032a ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान् 12177032c शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा 12177032e एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः 12177033a शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते 12177033c वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः 12177034a कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः 12177034c उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च 12177034e एवं द्वादशविस्तारो वायव्यो गुण उच्यते 12177035a तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् 12177035c तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् 12177036a षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा 12177036c धैवतश्चापि विज्ञेयस्तथा चापि निषादकः 12177037a एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः 12177037c त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु 12177038a आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह 12177038c अव्याहतैश्चेतयते न वेत्ति विषमागतैः 12177039a आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः 12177039c आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु 12178001 भरद्वाज उवाच 12178001a पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् 12178001c अवकाशविशेषेण कथं वर्तयतेऽनिलः 12178002 भृगुरुवाच 12178002a वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ 12178002c प्राणिनामनिलो देहान्यथा चेष्टयते बली 12178003a श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् 12178003c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 12178004a स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 12178004c मनो बुद्धिरहंकारो भूतानि विषयाश्च सः 12178005a एवं त्विह स सर्वत्र प्राणेन परिपाल्यते 12178005c पृष्ठतश्च समानेन स्वां स्वां गतिमुपाश्रितः 12178006a वस्तिमूलं गुदं चैव पावकं च समाश्रितः 12178006c वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते 12178007a प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते 12178007c उदान इति तं प्राहुरध्यात्मविदुषो जनाः 12178008a संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः 12178008c शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते 12178009a धातुष्वग्निस्तु विततः समानेन समीरितः 12178009c रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठति 12178010a अपानप्राणयोर्मध्ये प्राणापानसमाहितः 12178010c समन्वितः स्वधिष्ठानः सम्यक्पचति पावकः 12178011a आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसंज्ञितम् 12178011c स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् 12178012a प्राणानां संनिपाताच्च संनिपातः प्रजायते 12178012c ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् 12178013a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 12178013c स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् 12178014a पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयः स्थितः 12178014c नाभिमध्ये शरीरस्य सर्वे प्राणाः समाहिताः 12178015a प्रसृता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा 12178015c वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः 12178016a एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् 12178016c जितक्लमासना धीरा मूर्धन्यात्मानमादधुः 12178017a एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् 12178017c तस्मिन्स्थितो नित्यमग्निः स्थाल्यामिव समाहितः 12179001 भरद्वाज उवाच 12179001a यदि प्राणायते वायुर्वायुरेव विचेष्टते 12179001c श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः 12179002a यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि 12179002c अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः 12179003a जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते 12179003c वायुरेव जहात्येनमूष्मभावश्च नश्यति 12179004a यदि वातोपमो जीवः संश्लेषो यदि वायुना 12179004c वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः 12179005a श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति 12179005c महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् 12179006a कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने 12179006c प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा 12179007a पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः 12179007c येषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः 12179008a नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् 12179008c नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् 12179009a व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते 12179009c पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा 12179010a तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति 12179010c किं वेदयति वा जीवः किं शृणोति ब्रवीति वा 12179011a एषा गौः परलोकस्थं तारयिष्यति मामिति 12179011c यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति 12179012a गौश्च प्रतिग्रहीता च दाता चैव समं यदा 12179012c इहैव विलयं यान्ति कुतस्तेषां समागमः 12179013a विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा 12179013c अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः 12179014a छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति 12179014c बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति 12179015a बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते 12179015c मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते 12180001 भृगुरुवाच 12180001a न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च 12180001c याति देहान्तरं प्राणी शरीरं तु विशीर्यते 12180002a न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति 12180002c यथा समित्सु दग्धासु न प्रणश्यति पावकः 12180003 भरद्वाज उवाच 12180003a अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते 12180003c इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते 12180004a नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् 12180004c गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते 12180005 भृगुरुवाच 12180005a समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते 12180005c आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः 12180006a तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः 12180006c न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः 12180007a प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् 12180007c वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् 12180008a तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम् 12180008c पतितं याति भूमित्वमयनं तस्य हि क्षितिः 12180009a जङ्गमानां हि सर्वेषां स्थावराणां तथैव च 12180009c आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति 12180009e तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् 12180010a यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः 12180010c अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः 12180011 भरद्वाज उवाच 12180011a यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु 12180011c जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ 12180012a पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते 12180012c शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् 12180013a मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये 12180013c भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते 12180014a यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् 12180014c शारीरे मानसे दुःखे कस्तां वेदयते रुजम् 12180015a शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् 12180015c महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः 12180016a सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा 12180016c मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति 12180017a न पश्यति न च ब्रूते न शृणोति न जिघ्रति 12180017c न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः 12180018a हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः 12180018c इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः 12180019 भृगुरुवाच 12180019a न पञ्चसाधारणमत्र किंचि;च्छरीरमेको वहतेऽन्तरात्मा 12180019c स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये 12180020a पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा 12180020c स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः 12180021a यदा न रूपं न स्पर्शो नोष्मभावश्च पावके 12180021c तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति 12180022a अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् 12180022c तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् 12180023a आत्मानं तं विजानीहि सर्वलोकहितात्मकम् 12180023c तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे 12180024a क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् 12180024c तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् 12180025a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12180025c ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त 12180026a न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः 12180026c जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 12180027a एवं सर्वेषु भूतेषु गूढश्चरति संवृतः 12180027c दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12180028a तं पूर्वापररात्रेषु युञ्जानः सततं बुधः 12180028c लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि 12180029a चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् 12180029c प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते 12180030a मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते 12180030c सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये 12181001 भृगुरुवाच 12181001a असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः 12181001c आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् 12181002a ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् 12181002c आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः 12181003a देवदानवगन्धर्वदैत्यासुरमहोरगाः 12181003c यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा 12181004a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम 12181004c ये चान्ये भूतसंघानां संघास्तांश्चापि निर्ममे 12181005a ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः 12181005c वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा 12181006 भरद्वाज उवाच 12181006a चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते 12181006c सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः 12181007a कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः 12181007c सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते 12181008a स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् 12181008c तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते 12181009a जङ्गमानामसंख्येयाः स्थावराणां च जातयः 12181009c तेषां विविधवर्णानां कुतो वर्णविनिश्चयः 12181010 भृगुरुवाच 12181010a न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् 12181010c ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् 12181011a कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः 12181011c त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः 12181012a गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः 12181012c स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः 12181013a हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः 12181013c कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः 12181014a इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः 12181014c धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते 12181015a वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती 12181015c विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः 12181016a ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति 12181016c ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा 12181017a ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः 12181017c तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः 12181018a पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः 12181018c प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः 12181019a प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः 12181019c ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः 12181020a आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया 12181020c सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा 12182001 भरद्वाज उवाच 12182001a ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम 12182001c वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर 12182002 भृगुरुवाच 12182002a जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः 12182002c वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः 12182003a शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः 12182003c नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते 12182004a सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा 12182004c तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः 12182005a क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः 12182005c दानादानरतिर्यश्च स वै क्षत्रिय उच्यते 12182006a कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः 12182006c वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः 12182007a सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः 12182007c त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः 12182008a शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते 12182008c न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः 12182009a सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः 12182009c एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः 12182010a नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 12182010c विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः 12182011a यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह 12182011c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 12182012a अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् 12182012c अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः 12182013a परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः 12182013c अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम् 12182014a तपोनित्येन दान्तेन मुनिना संयतात्मना 12182014c अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 12182015a इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः 12182015c अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 12182016a मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् 12182016c निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत् 12182016e सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति 12182017a शौचेन सततं युक्तस्तथाचारसमन्वितः 12182017c सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् 12183001 भृगुरुवाच 12183001a सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः 12183001c सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति 12183002a अनृतं तमसो रूपं तमसा नीयते ह्यधः 12183002c तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् 12183003a स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च 12183003c सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः 12183004a तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् 12183004c धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा 12183005A तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति 12183005B तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति 12183006A अत्रोच्यते 12183006a शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः 12183006c लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः 12183007a तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः 12183007c सुखं ह्यनित्यं भूतानामिह लोके परत्र च 12183008a राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते 12183008c तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् 12183009A तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च 12183009B इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते 12183009C न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति 12183009D स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना 12183010 भरद्वाज उवाच 12183010A यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः 12183010B न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति 12183010C श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति 12183010D ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति 12183010E अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् 12183010F तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि 12183010G भगवता तूक्तं सुखानां परमाः स्त्रिय इति 12183010H लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति 12183010I अत्रोच्यताम् 12183011 भृगुरुवाच 12183011A अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् 12183011B क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति 12183011C विविधव्याधिगणोपतापैरवकीर्यन्ते 12183011D वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते 12183011E चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते 12183011F बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति 12183012A यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद 12183012B न चैते दोषाः स्वर्गे प्रादुर्भवन्ति 12183012C तत्र भवति खलु 12183013a सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा 12183013c क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् 12183014a नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् 12183014c नरके दुःखमेवाहुः समं तु परमं पदम् 12183015a पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः 12183015c पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः 12183016a इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा 12183016c प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः 12184001 भरद्वाज उवाच 12184001a दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च 12184001c तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च 12184002 भृगुरुवाच 12184002a हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा 12184002c दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् 12184003a दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च 12184003c सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति 12184004a असत्सु दीयते यत्तु तद्दानमिह भुज्यते 12184004c यादृशं दीयते दानं तादृशं फलमाप्यते 12184005 भरद्वाज उवाच 12184005a किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् 12184005c धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति 12184006 भृगुरुवाच 12184006a स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः 12184006c तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति 12184007 भरद्वाज उवाच 12184007a यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा 12184007c तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि 12184008 भृगुरुवाच 12184008A पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः 12184008B तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति 12184008C सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् 12184009A भवति चात्र श्लोकः 12184009a गुरुं यस्तु समाराध्य द्विजो वेदमवाप्नुयात् 12184009c तस्य स्वर्गफलावाप्तिः सिध्यते चास्य मानसम् 12184010A गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति 12184010B तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः 12184010C समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते 12184010D धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् 12184010E तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति 12184010F गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते 12184011A वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति 12184011B तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति 12184012A भवति चात्र श्लोकः 12184012a अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते 12184012c स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति 12184013A अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः 12184013B अपत्योत्पादनेन प्रजापतिरिति 12184014A श्लोकौ चात्र भवतः 12184014a वत्सलाः सर्वभूतानां वाच्याः श्रोत्रसुखा गिरः 12184014c परिवादोपघातौ च पारुष्यं चात्र गर्हितम् 12184015a अवज्ञानमहंकारो दम्भश्चैव विगर्हितः 12184015c अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः 12184016A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां विविधानामुपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिरिति 12184017a त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे 12184017c स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् 12184018a उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः 12184018c त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः 12185001 भृगुरुवाच 12185001A वानप्रस्थाः खलु ऋषिधर्ममनुसरन्तः पुण्यानि तीर्थानि नदीप्रस्रवणानि सुविविक्तेष्वरण्येषु मृगमहिषवराहसृमरगजाकीर्णेषु तपस्यन्तोऽनुसंचरन्ति 12185001B त्यक्तग्राम्यवस्त्राहारोपभोगा वन्यौषधिमूलफलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नहोमबलिकालानुष्ठायिनः समित्कुशकुसुमोपहारहोमार्जनलब्धविश्रामाः शीतोष्णपवननिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्याविहितधर्मानुष्ठानहृतमांसशोणितास्त्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहन्ति 12185002a यस्त्वेतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् 12185002c स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् 12185003A परिव्राजकानां पुनराचारस्तद्यथा 12185003B विमुच्याग्निधनकलत्रपरिबर्हसङ्गानात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनेषु तुल्यवृत्तयः स्थावरजरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्मनःकर्मभिरनभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यनुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामैकरात्रिकाः 12185003C प्रविश्य च प्राणधारणमात्रार्थं द्विजातीनां भवनान्यसंकीर्णकर्मणामुपतिष्ठेयुः पात्रपतितायाचितभैक्षाः कामक्रोधदर्पमोहलोभकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति 12185004A भवति चात्र श्लोकः 12185004a अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः 12185004c न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् 12185005a कृत्वाग्निहोत्रं स्वशरीरसंस्थं; शारीरमग्निं स्वमुखे जुहोति 12185005c यो भैक्षचर्योपगतैर्हविर्भि;श्चिताग्निनां स व्यतियाति लोकान् 12185006a मोक्षाश्रमं यः कुरुते यथोक्तं; शुचिः सुसंकल्पितबुद्धियुक्तः 12185006c अनिन्धनं ज्योतिरिव प्रशान्तं; स ब्रह्मलोकं श्रयते द्विजातिः 12185007 भरद्वाज उवाच 12185007a अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते 12185007c तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति 12185008 भृगुरुवाच 12185008a उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते 12185008c पुण्यः क्षेम्यश्च काम्यश्च स वरो लोक उच्यते 12185009a तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः 12185009c लोभमोहपरित्यक्ता मानवा निरुपद्रवाः 12185010a स स्वर्गसदृशो देशस्तत्र ह्युक्ताः शुभा गुणाः 12185010c काले मृत्युः प्रभवति स्पृशन्ति व्याधयो न च 12185011a न लोभः परदारेषु स्वदारनिरतो जनः 12185011c न चान्योन्यवधस्तत्र द्रव्येषु न च विस्मयः 12185011e परोक्षधर्मो नैवास्ति संदेहो नापि जायते 12185012a कृतस्य तु फलं तत्र प्रत्यक्षमुपलभ्यते 12185012c शय्यायानासनोपेताः प्रासादभवनाश्रयाः 12185012e सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः 12185013a प्राणधारणमात्रं तु केषांचिदुपपद्यते 12185013c श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् 12185014a इह धर्मपराः केचित्केचिन्नैकृतिका नराः 12185014c सुखिता दुःखिताः केचिन्निर्धना धनिनोऽपरे 12185015a इह श्रमो भयं मोहः क्षुधा तीव्रा च जायते 12185015c लोभश्चार्थकृतो नॄणां येन मुह्यन्ति पण्डिताः 12185016a इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः 12185016c यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते 12185017a सोपधं निकृतिः स्तेयं परिवादोऽभ्यसूयता 12185017c परोपघातो हिंसा च पैशुन्यमनृतं तथा 12185018a एतानासेवते यस्तु तपस्तस्य प्रहीयते 12185018c यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्याभिवर्धते 12185019a कर्मभूमिरियं लोक इह कृत्वा शुभाशुभम् 12185019c शुभैः शुभमवाप्नोति कृत्वाशुभमतोऽन्यथा 12185020a इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा 12185020c इष्ट्वेष्टतपसः पूता ब्रह्मलोकमुपाश्रिताः 12185021a उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः 12185021c इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः 12185022a असत्कर्माणि कुर्वन्तस्तिर्यग्योनिषु चापरे 12185022c क्षीणायुषस्तथैवान्ये नश्यन्ति पृथिवीतले 12185023a अन्योन्यभक्षणे सक्ता लोभमोहसमन्विताः 12185023c इहैव परिवर्तन्ते न ते यान्त्युत्तरां दिशम् 12185024a ये गुरूनुपसेवन्ते नियता ब्रह्मचारिणः 12185024c पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः 12185025a इत्युक्तोऽयं मया धर्मः संक्षेपाद्ब्रह्मनिर्मितः 12185025c धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् 12185026 भीष्म उवाच 12185026a इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् 12185026c भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् 12185027a एष ते प्रभवो राजञ्जगतः संप्रकीर्तितः 12185027c निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि 12186001 युधिष्ठिर उवाच 12186001a आचारस्य विधिं तात प्रोच्यमानं त्वयानघ 12186001c श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः 12186002 भीष्म उवाच 12186002a दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः 12186002c असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः 12186003a पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः 12186003c राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः 12186004a शौचमावश्यकं कृत्वा देवतानां च तर्पणम् 12186004c धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् 12186005a सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये 12186005c सायं प्रातर्जपन्संध्यां तिष्ठेत्पूर्वां तथापराम् 12186006a पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः 12186006c न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् 12186007a नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि 12186007c देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् 12186008a शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् 12186008c ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् 12186009a अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च 12186009c सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते 12186010a सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् 12186010c नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् 12186011a होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् 12186011c अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् 12186012a अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् 12186012c उपासीत जनः सत्यं सत्यं सन्त उपासते 12186013a यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् 12186013c न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् 12186014a स्वदेशे परदेशे वा अतिथिं नोपवासयेत् 12186014c काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् 12186015a गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् 12186015c गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया 12186016a नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् 12186016c मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् 12186017a तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः 12186017c सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च 12186018a दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् 12186018c सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् 12186019a देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे 12186019c स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् 12186020a पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः 12186020c बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् 12186021a संपन्नं भोजने नित्यं पानीये तर्पणं तथा 12186021c सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा 12186022a श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने 12186022c व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् 12186023a प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् 12186023c सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् 12186024a त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् 12186024c अवराणां समानानामुभयेषां न दुष्यति 12186025a हृदयं पापवृत्तानां पापमाख्याति वैकृतम् 12186025c ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने 12186026a ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः 12186026c नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः 12186027a पापेन हि कृतं पापं पापमेवानुवर्तते 12186027c धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते 12186028a पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः 12186028c राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म 12186029a आशया संचितं द्रव्यं यत्काले नेह भुज्यते 12186029c तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते 12186030a मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः 12186030c तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् 12186031a एक एव चरेद्धर्मं नास्ति धर्मे सहायता 12186031c केवलं विधिमासाद्य सहायः किं करिष्यति 12186032a देवा योनिर्मनुष्याणां देवानाममृतं दिवि 12186032c प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते 12187001 युधिष्ठिर उवाच 12187001a अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते 12187001c यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह 12187002 भीष्म उवाच 12187002a अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि 12187002c तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् 12187003a यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति 12187003c फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् 12187004a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12187004c महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ 12187005a ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः 12187005c महाभूतानि भूतेषु सागरस्योर्मयो यथा 12187006a प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः 12187006c तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः 12187007a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12187007c अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति 12187008a शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् 12187008c वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् 12187009a रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते 12187009c रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः 12187010a घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः 12187010c महाभूतानि पञ्चैव षष्ठं तु मन उच्यते 12187011a इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत 12187011c सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः 12187012a चक्षुरालोकनायैव संशयं कुरुते मनः 12187012c बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः 12187013a ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति 12187013c एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् 12187014a पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः 12187014c तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान् 12187015a एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् 12187015c समवेक्ष्य शनैश्चैव लभते शममुत्तमम् 12187016a गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि 12187016c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12187017a इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् 12187017c प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा 12187018a येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते 12187018c जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया 12187019a त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् 12187019c येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः 12187020a अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा 12187020c पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति 12187021a पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते 12187021c कदाचिल्लभते प्रीतिं कदाचिदनुशोचति 12187022a न सुखेन न दुःखेन कदाचिदपि वर्तते 12187022c एवं नराणां मनसि त्रिषु भावेष्ववस्थिता 12187023a सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते 12187023c सरितां सागरो भर्ता महावेलामिवोर्मिमान् 12187024a अतिभावगता बुद्धिर्भावे मनसि वर्तते 12187024c प्रवर्तमानं हि रजस्तद्भावमनुवर्तते 12187025a इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा 12187025c प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः 12187026a ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु 12187026c इति बुद्धिगतिः सर्वा व्याख्याता तव भारत 12187027a इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता 12187027c सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा 12187028a त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते 12187028c सात्त्विकी राजसी चैव तामसी चेति भारत 12187029a सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः 12187029c तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ 12187030a तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् 12187030c वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा 12187031a अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः 12187031c प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् 12187032a अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् 12187032c अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् 12187033a प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता 12187033c कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः 12187034a अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा 12187034c लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः 12187035a अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता 12187035c कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः 12187036a दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12187036c मनः सुनियतं यस्य स सुखी प्रेत्य चेह च 12187037a सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः 12187037c सृजते तु गुणानेक एको न सृजते गुणान् 12187038a मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा 12187038c अन्योन्यमन्यौ च यथा संप्रयोगस्तथा तयोः 12187039a पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12187039c यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ 12187040a न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः 12187040c परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा 12187041a इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः 12187041c निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् 12187042a सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति 12187042c संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः 12187043a आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन 12187043c सत्त्वं मनः संसृजति न गुणान्वै कदाचन 12187044a रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति 12187044c तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव 12187045a त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः 12187045c सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् 12187046a यथा वारिचरः पक्षी लिप्यमानो न लिप्यते 12187046c एवमेव कृतप्रज्ञो भूतेषु परिवर्तते 12187047a एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः 12187047c अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः 12187048a स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् 12187048c ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः 12187049a प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते 12187049c प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति 12187050a एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे 12187050c उभयं संप्रधार्यैतदध्यवस्येद्यथामति 12187051a इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् 12187051c विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः 12187052a मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः 12187052c अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा 12187053a महानदीं हि पारज्ञस्तप्यते न तरन्यथा 12187053c एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् 12187054a एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् 12187054c अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः 12187055a त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते 12187055c अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः 12187056a न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः 12187056c तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः 12187057a एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् 12187057c विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः 12187058a न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत् 12187058c न हि गतिरधिकास्ति कस्यचि;त्सति हि गुणे प्रवदन्त्यतुल्यताम् 12187059a यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् 12187059c नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः 12187060a लोक आतुरजनान्विराविण;स्तत्तदेव बहु पश्य शोचतः 12187060c तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा 12188001 भीष्म उवाच 12188001a हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् 12188001c यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः 12188002a यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः 12188002c महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः 12188003a नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः 12188003c जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः 12188004a निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः 12188004c असङ्गीन्यविवादीनि मनःशान्तिकराणि च 12188005a तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः 12188005c पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः 12188006a शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् 12188006c रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा 12188007a घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् 12188007c पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् 12188008a ततो मनसि संसज्य पञ्चवर्गं विचक्षणः 12188008c समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः 12188009a विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् 12188009c पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम् 12188010a इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् 12188010c एष ध्यानपथः पूर्वो मया समनुवर्णितः 12188011a तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् 12188011c स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा 12188012a जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः 12188012c एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि 12188013a समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति 12188013c पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् 12188014a अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः 12188014c समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् 12188015a विचारश्च वितर्कश्च विवेकश्चोपजायते 12188015c मुनेः समादधानस्य प्रथमं ध्यानमादितः 12188016a मनसा क्लिश्यमानस्तु समाधानं च कारयेत् 12188016c न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् 12188017a पांसुभस्मकरीषाणां यथा वै राशयश्चिताः 12188017c सहसा वारिणा सिक्ता न यान्ति परिभावनाम् 12188018a किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् 12188018c क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् 12188019a एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत् 12188019c संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति 12188020a स्वयमेव मनश्चैव पञ्चवर्गश्च भारत 12188020c पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति 12188021a न तत्पुरुषकारेण न च दैवेन केनचित् 12188021c सुखमेष्यति तत्तस्य यदेवं संयतात्मनः 12188022a सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि 12188022c गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् 12189001 युधिष्ठिर उवाच 12189001a चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च 12189001c नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः 12189002a श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते 12189002c संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति 12189003a जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत 12189003c किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः 12189004a जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ 12189004c जापका इति किं चैतत्सांख्ययोगक्रियाविधिः 12189005a किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते 12189005c एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः 12189006 भीष्म उवाच 12189006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12189006c यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च 12189007a संन्यास एव वेदान्ते वर्तते जपनं प्रति 12189007c वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ 12189007e मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ 12189008a यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते 12189008c मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः 12189009a सत्यमग्निपरीचारो विविक्तानां च सेवनम् 12189009c ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् 12189010a विषयप्रतिसंहारो मितजल्पस्तथा शमः 12189010c एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु 12189011a यथा निवर्तते कर्म जपतो ब्रह्मचारिणः 12189011c एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् 12189011e त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम् 12189012a कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी 12189012c चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा 12189013a विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् 12189013c साम्यमुत्पाद्य मनसो मनस्येव मनो दधत् 12189014a तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् 12189014c संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः 12189015a ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् 12189015c शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् 12189016a अरागमोहो निर्द्वंद्वो न शोचति न सज्जते 12189016c न कर्ताकरणीयानां न कार्याणामिति स्थितिः 12189017a न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित् 12189017c न चात्मग्रहणे युक्तो नावमानी न चाक्रियः 12189018a ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः 12189018c ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् 12189019a स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी 12189019c निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् 12189020a अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् 12189020c उत्क्रामति च मार्गस्थो नैव क्वचन जायते 12189021a आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः 12189021c अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते 12190001 युधिष्ठिर उवाच 12190001a गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह 12190001c एकैवैषा गतिस्तेषामुत यान्त्यपरामपि 12190002 भीष्म उवाच 12190002a शृणुष्वावहितो राजञ्जापकानां गतिं विभो 12190002c यथा गच्छन्ति निरयमनेकं पुरुषर्षभ 12190003a यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः 12190003c एकदेशक्रियश्चात्र निरयं स निगच्छति 12190004a अवज्ञानेन कुरुते न तुष्यति न शोचति 12190004c ईदृशो जापको याति निरयं नात्र संशयः 12190005a अहंकारकृतश्चैव सर्वे निरयगामिनः 12190005c परावमानी पुरुषो भविता निरयोपगः 12190006a अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः 12190006c यत्राभिध्यां स कुरुते तं वै निरयमृच्छति 12190007a अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते 12190007c स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते 12190008a रागेण जापको जप्यं कुरुते तत्र मोहितः 12190008c यत्रास्य रागः पतति तत्र तत्रोपजायते 12190009a दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति 12190009c चलामेव गतिं याति निरयं वाधिगच्छति 12190010a अकृतप्रज्ञको बालो मोहं गच्छति जापकः 12190010c स मोहान्निरयं याति तत्र गत्वानुशोचति 12190011a दृढग्राही करोमीति जप्यं जपति जापकः 12190011c न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति 12190012 युधिष्ठिर उवाच 12190012a अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् 12190012c सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् 12190013 भीष्म उवाच 12190013a दुष्प्रज्ञानेन निरया बहवः समुदाहृताः 12190013c प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः 12191001 युधिष्ठिर उवाच 12191001a कीदृशो जापको याति निरयं वर्णयस्व मे 12191001c कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति 12191002 भीष्म उवाच 12191002a धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः 12191002c धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ 12191003a अमूनि यानि स्थानानि देवानां परमात्मनाम् 12191003c नानासंस्थानवर्णानि नानारूपफलानि च 12191004a दिव्यानि कामचारीणि विमानानि सभास्तथा 12191004c आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः 12191005a चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः 12191005c मरुतां विश्वदेवानां साध्यानामश्विनोरपि 12191006a रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् 12191006c एते वै निरयास्तात स्थानस्य परमात्मनः 12191007a अभयं चानिमित्तं च न च क्लेशभयावृतम् 12191007c द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च 12191008a चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम् 12191008c अप्रहर्षमनानन्दमशोकं विगतक्लमम् 12191009a कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः 12191009c स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः 12191010a आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति 12191010c ईदृशं परमं स्थानं निरयास्ते च तादृशाः 12191011a एते ते निरयाः प्रोक्ताः सर्व एव यथातथम् 12191011c तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः 12192001 युधिष्ठिर उवाच 12192001a कालमृत्युयमानां च ब्राह्मणस्य च सत्तम 12192001c विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति 12192002 भीष्म उवाच 12192002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12192002c इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च 12192003a कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे 12192003c यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् 12192004a ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः 12192004c षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः 12192005a तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च 12192005c वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः 12192006a सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् 12192006c तस्य वर्षसहस्रं तु नियमेन तथा गतम् 12192007a स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल 12192007c जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत् 12192008a तस्यानुकम्पया देवी प्रीता समभवत्तदा 12192008c वेदमाता ततस्तस्य तज्जप्यं समपूजयत् 12192009a समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा 12192009c पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् 12192010a दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम 12192010c यदि वापि प्रसन्नासि जप्ये मे रमतां मनः 12192011 सावित्र्युवाच 12192011a किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते 12192011c प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति 12192012 भीष्म उवाच 12192012a इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् 12192012c जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः 12192013a मनसश्च समाधिर्मे वर्धेताहरहः शुभे 12192013c तत्तथेति ततो देवी मधुरं प्रत्यभाषत 12192014a इदं चैवापरं प्राह देवी तत्प्रियकाम्यया 12192014c निरयं नैव यातासि यत्र याता द्विजर्षभाः 12192015a यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् 12192015c साधये भविता चैतद्यत्त्वयाहमिहार्थिता 12192016a नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति 12192016c कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् 12192016e भविता च विवादोऽत्र तव तेषां च धर्मतः 12192017a एवमुक्त्वा भगवती जगाम भवनं स्वकम् 12192017c ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा 12192018a समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः 12192018c साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् 12192019 धर्म उवाच 12192019a द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः 12192019c जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु 12192020a जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः 12192020c देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि 12192021a प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् 12192021c त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि 12192022 ब्राह्मण उवाच 12192022a कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् 12192022c बहुदुःखसुखं देहं नोत्सृजेयमहं विभो 12192023 धर्म उवाच 12192023a अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव 12192023c स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ 12192024 ब्राह्मण उवाच 12192024a न रोचये स्वर्गवासं विना देहादहं विभो 12192024c गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना 12192025 धर्म उवाच 12192025a अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव 12192025c गच्छ लोकानरजसो यत्र गत्वा न शोचसि 12192026 ब्राह्मण उवाच 12192026a रमे जपन्महाभाग कृतं लोकैः सनातनैः 12192026c सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो 12192027 धर्म उवाच 12192027a यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज 12192027c एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः 12192028 भीष्म उवाच 12192028a अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो 12192028c ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् 12192029a तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च 12192029c फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे 12192030a यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् 12192030c कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः 12192031a मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् 12192031c कालेन चोदितं विप्र त्वामितो नेतुमद्य वै 12192032 ब्राह्मण उवाच 12192032a स्वागतं सूर्यपुत्राय कालाय च महात्मने 12192032c मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः 12192033 भीष्म उवाच 12192033a अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे 12192033c अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः 12192034a तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः 12192034c इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो 12192035a सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च 12192035c कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः 12192036a तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च 12192036c अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् 12192037a स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि 12192037c स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे 12192038 राजोवाच 12192038a राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः 12192038c ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे 12192039 ब्राह्मण उवाच 12192039a द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः 12192039c प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् 12192040a तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप 12192040c अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते 12192040e ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् 12192041 राजोवाच 12192041a क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् 12192041c प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम 12192042 ब्राह्मण उवाच 12192042a तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप 12192042c अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर 12192043 राजोवाच 12192043a स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् 12192043c याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज 12192044 ब्राह्मण उवाच 12192044a युद्धं मम सदा वाणी याचतीति विकत्थसे 12192044c न च युद्धं मया सार्धं किमर्थं याचसे पुनः 12192045 राजोवाच 12192045a वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः 12192045c वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह 12192046 ब्राह्मण उवाच 12192046a सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् 12192046c ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् 12192047 राजोवाच 12192047a यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया 12192047c फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि 12192048 ब्राह्मण उवाच 12192048a परमं गृह्यतां तस्य फलं यज्जपितं मया 12192048c अर्धं त्वमविचारेण फलं तस्य समाप्नुहि 12192049a अथ वा सर्वमेवेह जप्यकं मामकं फलम् 12192049c राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि 12192050 राजोवाच 12192050a कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया 12192050c स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद 12192051 ब्राह्मण उवाच 12192051a फलप्राप्तिं न जानामि दत्तं यज्जपितं मया 12192051c अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः 12192052 राजोवाच 12192052a अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति 12192052c प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् 12192053 ब्राह्मण उवाच 12192053a नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया 12192053c वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि 12192054a नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन 12192054c जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् 12192055a ददस्वेति त्वया चोक्तं ददामीति तथा मया 12192055c न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव 12192056a अथैवं वदतो मेऽद्य वचनं न करिष्यसि 12192056c महानधर्मो भविता तव राजन्मृषाकृतः 12192057a न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम 12192057c तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते 12192058a संश्रुतं च मया पूर्वं ददानीत्यविचारितम् 12192058c तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् 12192059a इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः 12192059c तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च 12192060a नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् 12192060c कुत एवावरान्राजन्मृषावादपरायणः 12192061a न यज्ञाध्ययने दानं नियमास्तारयन्ति हि 12192061c तथा सत्यं परे लोके यथा वै पुरुषर्षभ 12192062a तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः 12192062c समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते 12192063a सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः 12192063c सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् 12192064a सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् 12192064c सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् 12192065a सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः 12192065c व्रतचर्यास्तथा सत्यमोंकारः सत्यमेव च 12192066a प्राणिनां जननं सत्यं सत्यं संततिरेव च 12192066c सत्येन वायुरभ्येति सत्येन तपते रविः 12192067a सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः 12192067c सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती 12192068a तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् 12192068c समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् 12192069a यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते 12192069c किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि 12192070a सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः 12192070c कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् 12192071a यदि जप्यफलं दत्तं मया नेषिष्यसे नृप 12192071c स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि 12192072a संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति 12192072c उभावानृतिकावेतौ न मृषा कर्तुमर्हसि 12192073 राजोवाच 12192073a योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज 12192073c दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् 12192074 ब्राह्मण उवाच 12192074a न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् 12192074c इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् 12192075 धर्म उवाच 12192075a अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् 12192075c द्विजो दानफलैर्युक्तो राजा सत्यफलेन च 12192076 स्वर्ग उवाच 12192076a स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् 12192076c अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् 12192077 राजोवाच 12192077a कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् 12192077c विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् 12192078 ब्राह्मण उवाच 12192078a बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः 12192078c निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् 12192079a निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् 12192079c स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप 12192079e तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् 12192080 राजोवाच 12192080a यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् 12192080c आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह 12192081a द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः 12192081c यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ 12192082a मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि 12192082c प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः 12192083 भीष्म उवाच 12192083a ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ 12192083c गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः 12192084a न मे धारयसीत्येको धारयामीति चापरः 12192084c इहास्ति नौ विवादोऽयमयं राजानुशासकः 12192085a सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् 12192085c अनृतं वदसीह त्वमृणं ते धारयाम्यहम् 12192086a तावुभौ भृशसंतप्तौ राजानमिदमूचतुः 12192086c परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ 12192087 विरूप उवाच 12192087a धारयामि नरव्याघ्र विकृतस्येह गोः फलम् 12192087c ददतश्च न गृह्णाति विकृतो मे महीपते 12192088 विकृत उवाच 12192088a न मे धारयते किंचिद्विरूपोऽयं नराधिप 12192088c मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप 12192089 राजोवाच 12192089a विरूप किं धारयते भवानस्य वदस्व मे 12192089c श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः 12192090 विरूप उवाच 12192090a शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् 12192090c विकृतस्यास्य राजर्षे निखिलेन नरर्षभ 12192091a अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ 12192091c धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने 12192092a तस्याश्चायं मया राजन्फलमभ्येत्य याचितः 12192092c विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना 12192093a ततो मे सुकृतं कर्म कृतमात्मविशुद्धये 12192093c गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने 12192094a ते चोञ्छवृत्तये राजन्मया समपवर्जिते 12192094c यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो 12192095a इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् 12192095c एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् 12192096a एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप 12192096c कुरु धर्ममधर्मं वा विनये नौ समाधय 12192097a यदि नेच्छति मे दानं यथा दत्तमनेन वै 12192097c भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः 12192098 राजोवाच 12192098a दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै 12192098c यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् 12192099 विकृत उवाच 12192099a दीयतामित्यनेनोक्तं ददानीति तथा मया 12192099c नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति 12192100 राजोवाच 12192100a ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे 12192100c दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः 12192101 विकृत उवाच 12192101a मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः 12192101c काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो 12192102 विरूप उवाच 12192102a दीयमानं यदि मया नेषिष्यसि कथंचन 12192102c नियंस्यति त्वा नृपतिरयं धर्मानुशासकः 12192103 विकृत उवाच 12192103a स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् 12192103c गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते 12192104 ब्राह्मण उवाच 12192104a श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः 12192104c प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् 12192105 राजोवाच 12192105a प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा 12192105c जापकस्य दृढीकारः कथमेतद्भविष्यति 12192106a यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् 12192106c कथं न लिप्येयमहं दोषेण महताद्य वै 12192107 भीष्म उवाच 12192107a तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः 12192107c नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा 12192108a स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः 12192108c विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् 12192109 ब्राह्मण उवाच 12192109a गृहाण धारयेऽहं ते याचितं ते श्रुतं मया 12192109c न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः 12192110 राजोवाच 12192110a धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः 12192110c इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति 12192111a एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः 12192111c यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् 12192112 ब्राह्मण उवाच 12192112a संहितां जपता यावान्मया कश्चिद्गुणः कृतः 12192112c तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे 12192113 राजोवाच 12192113a जलमेतन्निपतितं मम पाणौ द्विजोत्तम 12192113c सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् 12192114 विरूप उवाच 12192114a कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् 12192114c समेति च यदुक्तं ते समा लोकास्तवास्य च 12192115a नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता 12192115c कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् 12192116a सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव 12192116c गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि 12192117 भीष्म उवाच 12192117a जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता 12192117c गतिः स्थानं च लोकाश्च जापकेन यथा जिताः 12192118a प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् 12192118c अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा 12192119a स तैजसेन भावेन यदि तत्राश्नुते रतिम् 12192119c गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः 12192120a एवं सोमे तथा वायौ भूम्याकाशशरीरगः 12192120c सरागस्तत्र वसति गुणांस्तेषां समाचरन् 12192121a अथ तत्र विरागी स गच्छति त्वथ संशयम् 12192121c परमव्ययमिच्छन्स तमेवाविशते पुनः 12192122a अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् 12192122c ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः 12192123a ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् 12192123c अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते 12192124a चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः 12192124c पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते 12192125a अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति 12192125c यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते 12192126a अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् 12192126c निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी 12192127a एवमेषा महाराज जापकस्य गतिर्यथा 12192127c एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 12193001 युधिष्ठिर उवाच 12193001a किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते 12193001c ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह 12193002a अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया 12193002c संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः 12193003 भीष्म उवाच 12193003a तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो 12193003c यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः 12193004a पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः 12193004c सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्वचः 12193005a फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम् 12193005c भवता चाभ्यनुज्ञातो जपेयं भूय एव हि 12193006a वरश्च मम पूर्वं हि देव्या दत्तो महाबल 12193006c श्रद्धा ते जपतो नित्यं भवितेति विशां पते 12193007 राजोवाच 12193007a यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव 12193007c गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि 12193008 ब्राह्मण उवाच 12193008a कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह 12193008c सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः 12193009 भीष्म उवाच 12193009a व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः 12193009c सह देवैरुपययौ लोकपालैस्तथैव च 12193010a साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च 12193010c नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च 12193011a तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती 12193011c नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः 12193012a गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः 12193012c नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः 12193012e विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् 12193013a अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो 12193013c पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् 12193013e ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः 12193014a अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् 12193014c संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप 12193015a अथ तौ सहितौ राजन्नन्योन्येन विधानतः 12193015c विषयप्रतिसंहारमुभावेव प्रचक्रतुः 12193016a प्राणापानौ तथोदानं समानं व्यानमेव च 12193016c एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः 12193017a उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ 12193017c कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ 12193018a निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ 12193018c जितासनौ तथाधाय मूर्धन्यात्मानमेव च 12193019a तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः 12193019c ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा 12193020a हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत् 12193020c तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा 12193021a ततः स्वागतमित्याह तत्तेजः स पितामहः 12193021c प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते 12193022a भूयश्चैवापरं प्राह वचनं मधुरं स्म सः 12193022c जापकैस्तुल्यफलता योगानां नात्र संशयः 12193023a योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम् 12193023c जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम् 12193024a उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः 12193024c अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः 12193025a राजाप्येतेन विधिना भगवन्तं पितामहम् 12193025c यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा 12193026a स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन् 12193026c जापकार्थमयं यत्नस्तदर्थं वयमागताः 12193027a कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ 12193027c योगजापकयोर्दृष्टं फलं सुमहदद्य वै 12193027e सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम् 12193028 ब्रह्मोवाच 12193028a महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् 12193028c तावप्येतेन विधिना गच्छेतां मत्सलोकताम् 12193029a यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः 12193029c विधिनानेन देहान्ते मम लोकानवाप्नुयात् 12193029e गम्यतां साधयिष्यामि यथास्थानानि सिद्धये 12193030 भीष्म उवाच 12193030a इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत 12193030c आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम् 12193031a ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै 12193031c पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः 12193032a एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता 12193032c यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि 12194001 युधिष्ठिर उवाच 12194001a किं फलं ज्ञानयोगस्य वेदानां नियमस्य च 12194001c भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह 12194002 भीष्म उवाच 12194002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12194002c मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः 12194003a प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः 12194003c बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य 12194004a यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः 12194004c यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत् 12194005a यदर्थशास्त्रागममन्त्रविद्भि;र्यज्ञैरनेकैर्वरगोप्रदानैः 12194005c फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत् 12194006a मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च 12194006c दिवौकसश्चैव यतः प्रसूता;स्तदुच्यतां मे भगवन्पुराणम् 12194007a ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः 12194007c न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम् 12194008a ऋक्सामसंघांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम् 12194008c अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि 12194009a स मे भवाञ्शंसतु सर्वमेत;ज्ज्ञाने फलं कर्मणि वा यदस्ति 12194009c यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति 12194010 मनुरुवाच 12194010a यद्यत्प्रियं यस्य सुखं तदाहु;स्तदेव दुःखं प्रवदन्त्यनिष्टम् 12194010c इष्टं च मे स्यादितरच्च न स्या;देतत्कृते कर्मविधिः प्रवृत्तः 12194010e इष्टं त्वनिष्टं च न मां भजेते;त्येतत्कृते ज्ञानविधिः प्रवृत्तः 12194011a कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत 12194011c नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति 12194011e परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम् 12194012a प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ 12194012c दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति 12194013a स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा 12194013c ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम् 12194014a सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति 12194014c अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम् 12194015a कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च 12194015c अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति 12194016a गुणात्मकं कर्म वदन्ति वेदा;स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म 12194016c विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी 12194017a शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव 12194017c नरो नसंस्थानगतः प्रभुः स्या;देतत्फलं सिध्यति कर्मलोके 12194018a यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत् 12194018c शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम् 12194019a वाचा तु यत्कर्म करोति किंचि;द्वाचैव सर्वं समुपाश्नुते तत् 12194019c मनस्तु यत्कर्म करोति किंचि;न्मनःस्थ एवायमुपाश्नुते तत् 12194020a यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः 12194020c तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति 12194021a मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म 12194021c शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी 12194022a यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत् 12194022c यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत् 12194023a रसैर्वियुक्तं विविधैश्च गन्धै;रशब्दमस्पर्शमरूपवच्च 12194023c अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम् 12194024a न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न 12194024c पश्यन्ति यद्ब्रह्मविदो मनुष्या;स्तदक्षरं न क्षरतीति विद्धि 12195001 मनुरुवाच 12195001a अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् 12195001c जलात्प्रसूता जगती जगत्यां जायते जगत् 12195002a इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम् 12195002c खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति 12195003a नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम् 12195003c न शब्दवन्नापि च गन्धवत्त;न्न रूपवत्तत्परमस्वभावम् 12195004a स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान् 12195004c रूपाणि चक्षुर्न च तत्परं य;द्गृह्णन्त्यनध्यात्मविदो मनुष्याः 12195005a निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात् 12195005c स्पर्शात्तनुं रूपगुणात्तु चक्षु;स्ततः परं पश्यति स्वं स्वभावम् 12195006a यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम् 12195006c यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः 12195007a यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके 12195007c यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत् 12195008a यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात् 12195008c एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम् 12195009a यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन् 12195009c तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव 12195010a यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः 12195010c तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः 12195011a यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः 12195011c गच्छन्ति चायान्ति च तन्यमाना;स्तद्वच्छरीराणि शरीरिणां तु 12195012a यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे 12195012c तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत् 12195013a तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात् 12195013c तद्वत्सुबुद्धिः सममिन्द्रियत्वा;द्बुधः परं पश्यति स्वं स्वभावम् 12195014a यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत् 12195014c श्रोत्रादियुक्तः सुमनाः सुबुद्धि;र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् 12195015a उत्पत्तिवृद्धिक्षयसंनिपातै;र्न युज्यतेऽसौ परमः शरीरी 12195015c अनेन लिङ्गेन तु लिङ्गमन्य;द्गच्छत्यदृष्टः प्रतिसंधियोगात् 12195016a न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किंचित् 12195016c न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान् 12195017a यथा प्रदीपे ज्वलतोऽनलस्य; संतापजं रूपमुपैति किंचित् 12195017c न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य 12195018a यथा मनुष्यः परिमुच्य काय;मदृश्यमन्यद्विशते शरीरम् 12195018c विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम् 12195019a खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी 12195019c नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते 12195020a श्रोत्रं खतो घ्राणमथो पृथिव्या;स्तेजोमयं रूपमथो विपाकः 12195020c जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च 12195021a महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु 12195021c सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम् 12195022a शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे 12195022c मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम् 12195023a चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति 12195023c स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति 12196001 मनुरुवाच 12196001a यदिन्द्रियैस्तूपकृतान्पुरस्ता;त्प्राप्तान्गुणान्संस्मरते चिराय 12196001c तेष्विन्द्रियेषूपहतेषु पश्चा;त्स बुद्धिरूपः परमः स्वभावः 12196002a यथेन्द्रियार्थान्युगपत्समस्ता;न्नावेक्षते कृत्स्नमतुल्यकालम् 12196002c यथाबलं संचरते स विद्वां;स्तस्मात्स एकः परमः शरीरी 12196003a रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान् 12196003c तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम् 12196004a न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् 12196004c न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति 12196005a श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना 12196005c सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति 12196006a यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा 12196006c न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता 12196007a तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ 12196007c अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता 12196008a पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति 12196008c एवमस्ति न वेत्येतन्न च तन्न परायणम् 12196009a रूपवन्तमरूपत्वादुदयास्तमये बुधाः 12196009c धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् 12196010a तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः 12196010c प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् 12196011a न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति 12196011c सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः 12196012a मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा 12196012c गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते 12196013a अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् 12196013c तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति 12196014a नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि 12196014c तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति 12196015a यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते 12196015c न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् 12196016a क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते 12196016c तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते 12196017a यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः 12196017c तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः 12196018a जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते 12196018c सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः 12196019a उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते 12196019c चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् 12196020a नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः 12196020c विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् 12196021a यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते 12196021c तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते 12196022a यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते 12196022c तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते 12196023a यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः 12196023c तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः 12197001 मनुरुवाच 12197001a यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् 12197001c ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ 12197002a यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा 12197002c तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति 12197003a स एव लुलिते तस्मिन्यथा रूपं न पश्यति 12197003c तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति 12197004a अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः 12197004c दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः 12197005a अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते 12197005c अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते 12197006a तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् 12197006c निवर्तते तथा तर्षः पापमन्तं गतं यथा 12197007a विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात् 12197007c मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते 12197008a ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः 12197008c अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि 12197009a प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी 12197009c तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना 12197010a इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः 12197010c बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् 12197011a अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः 12197011c मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति 12197012a यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा 12197012c विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते 12197013a उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् 12197013c स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति 12197014a अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः 12197014c प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति 12197015a प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः 12197015c प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् 12197016a विषया विनिवर्तन्ते निराहारस्य देहिनः 12197016c रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते 12197017a बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते 12197017c तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् 12197018a अस्पर्शनमशृण्वानमनास्वादमदर्शनम् 12197018c अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् 12197019a मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् 12197019c मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् 12197020a इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः 12197020c न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति 12198001 मनुरुवाच 12198001a ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः 12198001c प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते 12198002a यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते 12198002c तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना 12198003a सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते 12198003c अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् 12198004a यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् 12198004c तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा 12198005a मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम् 12198005c न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम् 12198006a सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः 12198006c मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते 12198007a यथा महान्ति भूतानि निवर्तन्ते गुणक्षये 12198007c तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते 12198008a यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी 12198008c व्यवसायगुणोपेता तदा संपद्यते मनः 12198009a गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः 12198009c तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते 12198010a अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् 12198010c यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् 12198011a तपसा चानुमानेन गुणैर्जात्या श्रुतेन च 12198011c निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना 12198012a गुणहीनो हि तं मार्गं बहिः समनुवर्तते 12198012c गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् 12198013a नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते 12198013c गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने 12198014a यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः 12198014c तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम् 12198015a एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः 12198015c निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च 12198016a पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च 12198016c अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः 12198017a एकस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते 12198017c द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति 12198018a धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः 12198018c रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् 12199001 मनुरुवाच 12199001a यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह 12199001c अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् 12199002a तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः 12199002c मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा 12199003a तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु 12199003c तद्वत्कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः 12199004a येन येन शरीरेण यद्यत्कर्म करोत्ययम् 12199004c तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 12199005a यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी 12199005c तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी 12199006a ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता 12199006c अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम् 12199007a फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा 12199007c ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् 12199008a ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा 12199008c क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् 12199009a महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः 12199009c अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः 12199010a पृथिवीरूपतो रूपमपामिह महत्तरम् 12199010c अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् 12199011a पवनाच्च महद्व्योम तस्मात्परतरं मनः 12199011c मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः 12199012a कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् 12199012c नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते 12199013a अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः 12199013c अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते 12199014a तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् 12199014c तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः 12199015a गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् 12199015c निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते 12199016a ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः 12199016c जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः 12199017a न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् 12199017c न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् 12199018a ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते 12199018c अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः 12199019a अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् 12199019c अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम् 12199020a अदृष्टतोऽनुपायाच्चाप्यभिसंधेश्च कर्मणः 12199020c न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम् 12199021a विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् 12199021c मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते 12199022a गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः 12199022c परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः 12199023a गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् 12199023c अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह 12199024a सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः 12199024c मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् 12199025a ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः 12199025c मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते 12199026a बुद्धिप्रहीणो मनसासमृद्ध;स्तथा निराशीर्गुणतामुपैति 12199026c परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम् 12199027a गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम् 12199027c अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरमेति 12199028a अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले 12199028c तैरेवायं चेन्द्रियैर्वर्धमानै;र्ग्लायद्भिर्वा वर्तते कर्मरूपः 12199029a सर्वैरयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात् 12199029c नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन 12199030a पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि 12199030c परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम् 12199031a दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः 12199031c तथा ह्यसौ मुनिरिह निर्विशेषवा;न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् 12199032a अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानमव्ययम् 12199032c सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते 12200001 युधिष्ठिर उवाच 12200001a पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् 12200001c कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् 12200002a नारायणं हृषीकेशं गोविन्दमपराजितम् 12200002c तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् 12200003 भीष्म उवाच 12200003a श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः 12200003c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 12200004a असितो देवलस्तात वाल्मीकिश्च महातपाः 12200004c मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् 12200005a केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः 12200005c पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः 12200006a किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः 12200006c माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर 12200007a यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः 12200007c अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् 12200008a महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः 12200008c वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् 12200009a स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः 12200009c अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः 12200010a सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे 12200010c सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् 12200011a आश्रयं सर्वभूतानां मनसेति विशुश्रुम 12200011c स धारयति भूतात्मा उभे भूतभविष्यती 12200012a ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि 12200012c भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत 12200013a स तत्र भगवान्देवः पुष्करे भासयन्दिशः 12200013c ब्रह्मा समभवत्तात सर्वभूतपितामहः 12200014a तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि 12200014c तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः 12200015a तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् 12200015c ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः 12200016a तस्य तात वधात्सर्वे देवदानवमानवाः 12200016c मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् 12200017a ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान् 12200017c मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 12200018a मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् 12200018c मानसं जनयामास तैजसं ब्रह्मसत्तमम् 12200019a अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् 12200019c सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः 12200020a तस्य पूर्वमजायन्त दश तिस्रश्च भारत 12200020c प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः 12200021a सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः 12200021c मारीचः कश्यपस्तात सर्वासामभवत्पतिः 12200022a उत्पाद्य तु महाभागस्तासामवरजा दश 12200022c ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः 12200023a धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः 12200023c विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत 12200024a अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः 12200024c सोमस्तासां महाभागः सर्वासामभवत्पतिः 12200025a इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् 12200025c गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् 12200026a आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् 12200026c तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः 12200027a तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत 12200027c दानवाश्च पराभूता दैतेयी चासुरी प्रजा 12200028a विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः 12200028c दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत 12200029a अहोरात्रं च कालं च यथर्तु मधुसूदनः 12200029c पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् 12200030a बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् 12200030c पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा 12200031a ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर 12200031c ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः 12200032a बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् 12200032c पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ 12200033a स एवं चतुरो वर्णान्समुत्पाद्य महायशाः 12200033c अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः 12200034a यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् 12200034c तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् 12200035a न चैषां मैथुनो धर्मो बभूव भरतर्षभ 12200035c संकल्पादेव चैतेषामपत्यमुदपद्यत 12200036a तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा 12200036c न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप 12200037a द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप 12200037c तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः 12200038a एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः 12200038c निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि 12200039a दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः 12200039c उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह 12200040a उत्तरापथजन्मानः कीर्तयिष्यामि तानपि 12200040c यौनकाम्बोजगान्धाराः किराता बर्बरैः सह 12200041a एते पापकृतस्तात चरन्ति पृथिवीमिमाम् 12200041c श्वकाकबलगृध्राणां सधर्माणो नराधिप 12200042a नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् 12200042c त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ 12200043a ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके 12200043c राजानः समसज्जन्त समासाद्येतरेतरम् 12200044a एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः 12200044c देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् 12200045a नारदोऽप्यथ कृष्णस्य परं मेने नराधिप 12200045c शाश्वतत्वं महाबाहो यथावद्भरतर्षभ 12200046a एवमेष महाबाहुः केशवः सत्यविक्रमः 12200046c अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः 12201001 युधिष्ठिर उवाच 12201001a के पूर्वमासन्पतयः प्रजानां भरतर्षभ 12201001c के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः 12201002 भीष्म उवाच 12201002a श्रूयतां भरतश्रेष्ठ यन्मा त्वं परिपृच्छसि 12201002c प्रजानां पतयो ये स्म दिक्षु प्रत्येकशः स्मृताः 12201003a एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः 12201003c ब्रह्मणः सप्त पुत्रा वै महात्मानः स्वयंभुवः 12201004a मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12201004c वसिष्ठश्च महाभागः सदृशा वै स्वयंभुवा 12201005a सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः 12201005c अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् 12201006a अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः 12201006c प्राचीनबर्हिर्भगवांस्तस्मात्प्राचेतसो दश 12201007a दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः 12201007c तस्य द्वे नामनी लोके दक्षः क इति चोच्यते 12201008a मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी श्रुते 12201008c अरिष्टनेमिरित्येकं कश्यपेत्यपरं विदुः 12201009a अङ्गश्चैवौरसः श्रीमान्राजा भौमश्च वीर्यवान् 12201009c सहस्रं यश्च दिव्यानां युगानां पर्युपासिता 12201010a अर्यमा चैव भगवान्ये चान्ये तनया विभो 12201010c एते प्रदेशाः कथिता भुवनानां प्रभावनाः 12201011a शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत 12201011c एकैकस्यां सहस्रं तु तनयानामभूत्तदा 12201012a एवं शतसहस्राणां शतं तस्य महात्मनः 12201012c पुत्राणां न च ते कंचिदिच्छन्त्यन्यं प्रजापतिम् 12201013a प्रजामाचक्षते विप्राः पौराणीं शाशबिन्दवीम् 12201013c स वृष्णिवंशप्रभवो महान्वंशः प्रजापतेः 12201014a एते प्रजानां पतयः समुद्दिष्टा यशस्विनः 12201014c अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् 12201015a भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा 12201015c सविता चैव धाता च विवस्वांश्च महाबलः 12201016a पूषा त्वष्टा तथैवेन्द्रो द्वादशो विष्णुरुच्यते 12201016c त एते द्वादशादित्याः कश्यपस्यात्मसंभवाः 12201017a नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि 12201017c मार्ताण्डस्यात्मजावेतावष्टमस्य प्रजापतेः 12201018a त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः 12201018c अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः 12201019a हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः 12201019c सावित्रश्च जयन्तश्च पिनाकी चापराजितः 12201019e पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः 12201020a एत एवंविधा देवा मनोरेव प्रजापतेः 12201020c ते च पूर्वे सुराश्चेति द्विविधाः पितरः स्मृताः 12201021a शीलरूपरतास्त्वन्ये तथान्ये सिद्धसाध्ययोः 12201021c ऋभवो मरुतश्चैव देवानां चोदिता गणाः 12201022a एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ 12201022c आदित्याः क्षत्रियास्तेषां विशस्तु मरुतस्तथा 12201023a अश्विनौ तु मतौ शूद्रौ तपस्युग्रे समाहितौ 12201023c स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः 12201023e इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् 12201024a एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् 12201024c स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते 12201025a यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू 12201025c औशिजश्चैव कक्षीवान्नलश्चाङ्गिरसः सुताः 12201026a ऋषेर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा 12201026c त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा 12201027a उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् 12201027c प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः 12201028a मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् 12201028c एते ब्रह्मर्षयो नित्यमाश्रिता दक्षिणां दिशम् 12201029a रुषद्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् 12201029c एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 12201030a अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः 12201030c एते नव महात्मानः पश्चिमामाश्रिता दिशम् 12201031a आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः 12201031c गौतमः सभरद्वाजो विश्वामित्रोऽथ कौशिकः 12201032a तथैव पुत्रो भगवानृचीकस्य महात्मनः 12201032c जमदग्निश्च सप्तैते उदीचीं दिशमाश्रिताः 12201033a एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः 12201033c साक्षिभूता महात्मानो भुवनानां प्रभावनाः 12201034a एवमेते महात्मानः स्थिताः प्रत्येकशो दिशः 12201034c एतेषां कीर्तनं कृत्वा सर्वपापैः प्रमुच्यते 12201035a यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः 12201035c मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान्व्रजेत् 12202001 युधिष्ठिर उवाच 12202001a पितामह महाप्राज्ञ युधि सत्यपराक्रम 12202001c श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम् 12202002a यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम् 12202002c तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ 12202003a तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः 12202003c केन कार्यविसर्गेण तन्मे ब्रूहि पितामह 12202004 भीष्म उवाच 12202004a पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः 12202004c तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः 12202005a ततस्ते मधुपर्केण पूजां चक्रुरथो मयि 12202005c प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम् 12202006a कथैषा कथिता तत्र कश्यपेन महर्षिणा 12202006c मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु 12202007a पुरा दानवमुख्या हि क्रोधलोभसमन्विताः 12202007c बलेन मत्ताः शतशो नरकाद्या महासुराः 12202008a तथैव चान्ये बहवो दानवा युद्धदुर्मदाः 12202008c न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम् 12202009a दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा 12202009c न शर्म लेभिरे राजन्विशमानास्ततस्ततः 12202010a पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः 12202010c दानवैरभिसंकीर्णां घोररूपैर्महाबलैः 12202010e भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम् 12202011a अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन् 12202011c कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम् 12202012a स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया 12202012c ते वरेणाभिसंमत्ता बलेन च मदेन च 12202013a नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम् 12202013c वराहरूपिणं देवमधृष्यममरैरपि 12202014a एष वेगेन गत्वा हि यत्र ते दानवाधमाः 12202014c अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः 12202014e शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः 12202015a ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः 12202015c अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति 12202016a दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम् 12202016c प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः 12202017a सर्वे च समभिद्रुत्य वराहं जगृहुः समम् 12202017c संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः 12202018a दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः 12202018c नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो 12202019a ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा 12202019c संशयं गतमात्मानं मेनिरे च सहस्रशः 12202020a ततो देवादिदेवः स योगात्मा योगसारथिः 12202020c योगमास्थाय भगवांस्तदा भरतसत्तम 12202021a विननाद महानादं क्षोभयन्दैत्यदानवान् 12202021c संनादिता येन लोकाः सर्वाश्चैव दिशो दश 12202022a तेन संनादशब्देन लोकाः संक्षोभमागमन् 12202022c संभ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः 12202023a निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा 12202023c स्थावरं जङ्गमं चैव तेन नादेन मोहितम् 12202024a ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः 12202024c पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः 12202025a रसातलगतांश्चैव वराहस्त्रिदशद्विषः 12202025c खुरैः संदारयामास मांसमेदोस्थिसंचयम् 12202026a नादेन तेन महता सनातन इति स्मृतः 12202026c पद्मनाभो महायोगी भूताचार्यः स भूतराट् 12202027a ततो देवगणाः सर्वे पितामहमुपाब्रुवन् 12202027c नादोऽयं कीदृशो देव नैनं विद्म वयं विभो 12202027e कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत् 12202028a एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः 12202028c उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः 12202029 पितामह उवाच 12202029a निहत्य दानवपतीन्महावर्ष्मा महाबलः 12202029c एष देवो महायोगी भूतात्मा भूतभावनः 12202030a सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः 12202030c स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः 12202031a कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः 12202031c समायातः स्वमात्मानं महाभागो महाद्युतिः 12202031e पद्मनाभो महायोगी भूतात्मा भूतभावनः 12202032a न संतापो न भीः कार्या शोको वा सुरसत्तमाः 12202032c विधिरेष प्रभावश्च कालः संक्षयकारकः 12202032e लोकान्धारयतानेन नादो मुक्तो महात्मना 12202033a स एव हि महाभागः सर्वलोकनमस्कृतः 12202033c अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः 12203001 युधिष्ठिर उवाच 12203001a योगं मे परमं तात मोक्षस्य वद भारत 12203001c तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर 12203002 भीष्म उवाच 12203002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12203002c संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह 12203003a कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् 12203003c शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः 12203003e चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् 12203004a उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम 12203004c संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि 12203005a कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् 12203005c कथं च सर्वभूतेषु समेषु द्विजसत्तम 12203005e सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः 12203006a वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् 12203006c एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि 12203007 गुरुरुवाच 12203007a शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् 12203007c अध्यात्मं सर्वभूतानामागमानां च यद्वसु 12203008a वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् 12203008c सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् 12203009a पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः 12203009c सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् 12203009e तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे 12203010a ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा 12203010c माहात्म्यं देवदेवस्य विष्णोरमिततेजसः 12203010e अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् 12203011a कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् 12203011c त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते 12203012a यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् 12203012c वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् 12203013a पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् 12203013c नागासुरमनुष्यांश्च सृजते परमोऽव्ययः 12203014a तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् 12203014c प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः 12203015a यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये 12203015c दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु 12203016a अथ यद्यद्यदा भावि कालयोगाद्युगादिषु 12203016c तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् 12203017a युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः 12203017c लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा 12203018a वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः 12203018c भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् 12203019a गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् 12203019c देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् 12203020a न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः 12203020c हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते 12203021a अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः 12203021c एकस्तद्वेद भगवान्धाता नारायणः प्रभुः 12203022a नारायणादृषिगणास्तथा मुख्याः सुरासुराः 12203022c राजर्षयः पुराणाश्च परमं दुःखभेषजम् 12203023a पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा 12203023c हेतुयुक्तमतः सर्वं जगत्संपरिवर्तते 12203024a दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः 12203024c प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते 12203025a अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते 12203025c आकाशं चाप्यहंकाराद्वायुराकाशसंभवः 12203026a वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता 12203026c मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् 12203027a ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि 12203027c विषयाः पञ्च चैकं च विकारे षोडशं मनः 12203028a श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि 12203028c पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि 12203029a शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च 12203029c विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः 12203030a रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च 12203030c इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा 12203031a विद्यात्तु षोडशैतानि दैवतानि विभागशः 12203031c देहेषु ज्ञानकर्तारमुपासीनमुपासते 12203032a तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः 12203032c श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा 12203032e स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा 12203033a मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा 12203033c सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् 12203034a एते भावा जगत्सर्वं वहन्ति सचराचरम् 12203034c श्रिता विरजसं देवं यमाहुः परमं पदम् 12203035a नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् 12203035c व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते 12203036a अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् 12203036c व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः 12203037a यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् 12203037c ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु 12203038a सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति 12203038c कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् 12203039a अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते 12203039c तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते 12203040a नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः 12203040c संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् 12203041a स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः 12203041c देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते 12203042a कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते 12203042c कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा 12203043a स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते 12203043c तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् 12204001 गुरुरुवाच 12204001a चतुर्विधानि भूतानि स्थावराणि चराणि च 12204001c अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च 12204001e अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः 12204002a यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः 12204002c निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा 12204003a अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ 12204003c स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् 12204004a तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः 12204004c अचेतनाश्चेतयितुः कारणादभिसंहिताः 12204005a न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः 12204005c नान्यदासीदृते जीवमासेदुर्न तु संहितम् 12204006a सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् 12204006c अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् 12204007a तत्कारणैर्हि संयुक्तं कार्यसंग्रहकारकम् 12204007c येनैतद्वर्तते चक्रमनादिनिधनं महत् 12204008a अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् 12204008c क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् 12204009a स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् 12204009c तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः 12204010a कर्म तत्कुरुते तर्षादहंकारपरिग्रहम् 12204010c कार्यकारणसंयोगे स हेतुरुपपादितः 12204011a नात्येति कारणं कार्यं न कार्यं कारणं तथा 12204011c कार्याणां तूपकरणे कालो भवति हेतुमान् 12204012a हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् 12204012c अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा 12204013a सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः 12204013c क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा 12204013e न च तैः स्पृश्यते भावो न ते तेन महात्मना 12204014a सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत् 12204014c तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः 12204014e अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः 12204015a संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः 12204015c तथा वार्तां समीक्षेत कृतलक्षणसंमिताम् 12204016a बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः 12204016c ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संबध्यते पुनः 12205001 गुरुरुवाच 12205001a प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते 12205001c तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते 12205002a दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः 12205002c प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम् 12205003a सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् 12205003c इयं सा बुद्धिरन्येयं यया याति परां गतिम् 12205004a शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् 12205004c कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः 12205005a नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् 12205005c कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् 12205006a लोहयुक्तं यथा हेम विपक्वं न विराजते 12205006c तथापक्वकषायाख्यं विज्ञानं न प्रकाशते 12205007a यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् 12205007c धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति 12205008a शब्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत् 12205008c क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम् 12205009a पञ्चभूतात्मके देहे सत्त्वराजसतामसे 12205009c कमभिष्टुवते चायं कं वा क्रोशति किं वदेत् 12205010a स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः 12205010c नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् 12205011a मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते 12205011c पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते 12205012a मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः 12205012c धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा 12205013a यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् 12205013c श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् 12205014a तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः 12205014c यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा 12205015a सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च 12205015c क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च 12205016a भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् 12205016c शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च 12205017a सत्त्वेन रजसा चैव तमसा चैव मोहिताः 12205017c चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् 12205018a तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान् 12205018c अज्ञानप्रभवं नित्यमहंकारं परित्यजेत् 12205019a महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः 12205019c त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम् 12205020a यथेह नियतं कालो दर्शयत्यार्तवान्गुणान् 12205020c तद्वद्भूतेष्वहंकारं विद्याद्भूतप्रवर्तकम् 12205021a संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम् 12205021c प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् 12205021e सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् 12205022a प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः 12205022c एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् 12205023a कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः 12205023c विषादशोकावरतिर्मानदर्पावनार्यता 12205024a दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् 12205024c विमृशेदात्मसंस्थानामेकैकमनुसंततम् 12205025 शिष्य उवाच 12205025a के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः 12205025c के पुनः पुनरायान्ति के मोहादफला इव 12205026a केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः 12205026c एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो 12205027 गुरुरुवाच 12205027a दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते 12205027c विनाशयति संभूतमयस्मयमयो यथा 12205027e तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः 12205028a राजसं तामसं चैव शुद्धात्माकर्मसंभवम् 12205028c तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम् 12205029a तस्मादात्मवता वर्ज्यं रजश्च तम एव च 12205029c रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् 12205030a अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम् 12205030c हेतुः स एवानादाने शुद्धधर्मानुपालने 12205031a रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात् 12205031c अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते 12205032a तमसा लोभयुक्तानि क्रोधजानि च सेवते 12205032c हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः 12205033a सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः 12205033c स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः 12206001 गुरुरुवाच 12206001a रजसा साध्यते मोहस्तमसा च नरर्षभ 12206001c क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः 12206002a परमं परमात्मानं देवमक्षयमव्ययम् 12206002c विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् 12206003a तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः 12206003c मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै 12206004a कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः 12206004c मानदर्पादहंकारमहंकारात्ततः क्रियाः 12206005a क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम् 12206005c सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः 12206006a जन्मतो गर्भवासं तु शुक्रशोणितसंभवम् 12206006c पुरीषमूत्रविक्लेदशोणितप्रभवाविलम् 12206007a तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् 12206007c संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः 12206008a प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः 12206008c तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः 12206009a कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् 12206009c रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी 12206010a तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः 12206010c स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् 12206010e स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत् 12206011a शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः 12206011c स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् 12206012a रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम् 12206012c ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहंकारलक्षणम् 12206013a तद्बीजं देहिनामाहुस्तद्बीजं जीवसंज्ञितम् 12206013c कर्मणा कालयुक्तेन संसारपरिवर्तकम् 12206014a रमत्ययं यथा स्वप्ने मनसा देहवानिव 12206014c कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते 12206015a कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् 12206015c जायते तदहंकाराद्रागयुक्तेन चेतसा 12206016a शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः 12206016c रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया 12206017a स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः 12206017c व्यानोदानौ समानश्च पञ्चधा देहयापना 12206018a संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः 12206018c दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः 12206019a दुःखं विद्यादुपादानादभिमानाच्च वर्धते 12206019c त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते 12206020a इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ 12206020c परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा 12206021a ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् 12206021c ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति 12207001 गुरुरुवाच 12207001a अत्रोपायं प्रवक्ष्यामि यथावच्छास्त्रचक्षुषा 12207001c तद्विज्ञानाच्चरन्प्राज्ञः प्राप्नुयात्परमां गतिम् 12207002a सर्वेषामेव भूतानां पुरुषः श्रेष्ठ उच्यते 12207002c पुरुषेभ्यो द्विजानाहुर्द्विजेभ्यो मन्त्रवादिनः 12207003a सर्वभूतविशिष्टास्ते सर्वज्ञाः सर्वदर्शिनः 12207003c ब्राह्मणा वेदतत्त्वज्ञास्तत्त्वार्थगतिनिश्चयाः 12207004a नेत्रहीनो यथा ह्येकः कृच्छ्राणि लभतेऽध्वनि 12207004c ज्ञानहीनस्तथा लोके तस्माज्ज्ञानविदोऽधिकाः 12207005a तांस्तानुपासते धर्मान्धर्मकामा यथागमम् 12207005c न त्वेषामर्थसामान्यमन्तरेण गुणानिमान् 12207006a वाग्देहमनसां शौचं क्षमा सत्यं धृतिः स्मृतिः 12207006c सर्वधर्मेषु धर्मज्ञा ज्ञापयन्ति गुणानिमान् 12207007a यदिदं ब्रह्मणो रूपं ब्रह्मचर्यमिति स्मृतम् 12207007c परं तत्सर्वभूतेभ्यस्तेन यान्ति परां गतिम् 12207008a लिङ्गसंयोगहीनं यच्छरीरस्पर्शवर्जितम् 12207008c श्रोत्रेण श्रवणं चैव चक्षुषा चैव दर्शनम् 12207009a जिह्वया रसनं यच्च तदेव परिवर्जितम् 12207009c बुद्ध्या च व्यवसायेन ब्रह्मचर्यमकल्मषम् 12207010a सम्यग्वृत्तिर्ब्रह्मलोकं प्राप्नुयान्मध्यमः सुरान् 12207010c द्विजाग्र्यो जायते विद्वान्कन्यसीं वृत्तिमास्थितः 12207011a सुदुष्करं ब्रह्मचर्यमुपायं तत्र मे शृणु 12207011c संप्रवृत्तमुदीर्णं च निगृह्णीयाद्द्विजो मनः 12207012a योषितां न कथाः श्राव्या न निरीक्ष्या निरम्बराः 12207012c कदाचिद्दर्शनादासां दुर्बलानाविशेद्रजः 12207013a रागोत्पत्तौ चरेत्कृच्छ्रमह्नस्त्रिः प्रविशेदपः 12207013c मग्नः स्वप्ने च मनसा त्रिर्जपेदघमर्षणम् 12207014a पाप्मानं निर्दहेदेवमन्तर्भूतं रजोमयम् 12207014c ज्ञानयुक्तेन मनसा संततेन विचक्षणः 12207015a कुणपामेध्यसंयुक्तं यद्वदच्छिद्रबन्धनम् 12207015c तद्वद्देहगतं विद्यादात्मानं देहबन्धनम् 12207016a वातपित्तकफान्रक्तं त्वङ्मांसं स्नायुमस्थि च 12207016c मज्जां चैव सिराजालैस्तर्पयन्ति रसा नृणाम् 12207017a दश विद्याद्धमन्योऽत्र पञ्चेन्द्रियगुणावहाः 12207017c याभिः सूक्ष्माः प्रतायन्ते धमन्योऽन्याः सहस्रशः 12207018a एवमेताः सिरानद्यो रसोदा देहसागरम् 12207018c तर्पयन्ति यथाकालमापगा इव सागरम् 12207019a मध्ये च हृदयस्यैका सिरा त्वत्र मनोवहा 12207019c शुक्रं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति 12207020a सर्वगात्रप्रतायिन्यस्तस्या ह्यनुगताः सिराः 12207020c नेत्रयोः प्रतिपद्यन्ते वहन्त्यस्तैजसं गुणम् 12207021a पयस्यन्तर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः 12207021c शुक्रं निर्मथ्यते तद्वद्देहसंकल्पजैः खजैः 12207022a स्वप्नेऽप्येवं यथाभ्येति मनःसंकल्पजं रजः 12207022c शुक्रमस्पर्शजं देहात्सृजन्त्यस्य मनोवहा 12207023a महर्षिर्भगवानत्रिर्वेद तच्छुक्रसंभवम् 12207023c त्रिबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते 12207024a ये वै शुक्रगतिं विद्युर्भूतसंकरकारिकाम् 12207024c विरागा दग्धदोषास्ते नाप्नुयुर्देहसंभवम् 12207025a गुणानां साम्यमागम्य मनसैव मनोवहम् 12207025c देहकर्म नुदन्प्राणानन्तकाले विमुच्यते 12207026a भविता मनसो ज्ञानं मन एव प्रतायते 12207026c ज्योतिष्मद्विरजो दिव्यमत्र सिद्धं महात्मनाम् 12207027a तस्मात्तदविघाताय कर्म कुर्यादकल्मषम् 12207027c रजस्तमश्च हित्वेह न तिर्यग्गतिमाप्नुयात् 12207028a तरुणाधिगतं ज्ञानं जरादुर्बलतां गतम् 12207028c परिपक्वबुद्धिः कालेन आदत्ते मानसं बलम् 12207029a सुदुर्गमिव पन्थानमतीत्य गुणबन्धनम् 12207029c यदा पश्येत्तदा दोषानतीत्यामृतमश्नुते 12208001 गुरुरुवाच 12208001a दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः 12208001c ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् 12208002a जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः 12208002c दृष्ट्वेमं संततं लोकं घटेन्मोक्षाय बुद्धिमान् 12208003a वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः 12208003c प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् 12208004a अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया 12208004c अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् 12208005a यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते 12208005c तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः 12208006a अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् 12208006c क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् 12208007a यश्चैनं परमं धर्मं सर्वभूतसुखावहम् 12208007c दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् 12208008a तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् 12208008c नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् 12208009a अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते 12208009c विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता 12208009e सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् 12208010a कल्कापेतामपरुषामनृशंसामपैशुनाम् 12208010c ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा 12208011a वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि 12208011c बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् 12208011e रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते 12208012a स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते 12208012c तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः 12208013a प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः 12208013c प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा 12208014a तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम् 12208014c तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् 12208015a निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः 12208015c विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः 12208016a ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् 12208016c निष्प्रचारेण मनसा परं तदधिगच्छति 12208017a धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् 12208017c मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः 12208018a निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनो वशे 12208018c देवतास्ताः प्रकाशन्ते हृष्टा यान्ति तमीश्वरम् 12208019a ताभिः संसक्तमनसो ब्रह्मवत्संप्रकाशते 12208019c एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते 12208020a अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् 12208020c येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् 12208021a कणपिण्याककुल्माषशाकयावकसक्तवः 12208021c तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् 12208022a आहारं नियतं चैव देशे काले च सात्त्विकम् 12208022c तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् 12208023a प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् 12208023c ज्ञानेन्धितं ततो ज्ञानमर्कवत्संप्रकाशते 12208024a ज्ञानाधिष्ठानमज्ञानं त्रीँल्लोकानधितिष्ठति 12208024c विज्ञानानुगतं ज्ञानमज्ञानादपकृष्यते 12208025a पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम् 12208025c स तयोरपवर्गज्ञो वीतरागो विमुच्यते 12208026a वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् 12208026c अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् 12209001 गुरुरुवाच 12209001a निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा 12209001c निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता 12209002a स्वप्ने हि रजसा देही तमसा चाभिभूयते 12209002c देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः 12209003a ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम् 12209003c विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा 12209004a अत्राह को न्वयं भावः स्वप्ने विषयवानिव 12209004c प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव 12209005a अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः 12209005c तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः 12209006a इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः 12209006c मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम् 12209007a कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्यपि 12209007c यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम् 12209008a संसाराणामसंख्यानां कामात्मा तदवाप्नुयात् 12209008c मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः 12209009a गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम् 12209009c तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा 12209010a ततस्तमुपवर्तन्ते गुणा राजसतामसाः 12209010c सात्त्विको वा यथायोगमानन्तर्यफलोदयः 12209011a ततः पश्यत्यसंबद्धान्वातपित्तकफोत्तरान् 12209011c रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम् 12209012a प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम् 12209012c तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते 12209013a व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः 12209013c मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम् 12209014a यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् 12209014c सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः 12209015a लिप्सेत मनसा यश्च संकल्पादैश्वरं गुणम् 12209015c आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः 12209016a एवं हि तपसा युक्तमर्कवत्तमसः परम् 12209016c त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम् 12209017a तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः 12209017c एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् 12209018a सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः 12209018c सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ 12209019a ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम् 12209019c ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् 12209020a हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा 12209020c प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् 12210001 गुरुरुवाच 12210001a न स वेद परं धर्मं यो न वेद चतुष्टयम् 12210001c व्यक्ताव्यक्ते च यत्तत्त्वं संप्राप्तं परमर्षिणा 12210002a व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् 12210002c प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् 12210003a अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् 12210003c निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् 12210004a प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् 12210004c प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः 12210005a तां गतिं परमामेति निवृत्तिपरमो मुनिः 12210005c ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः 12210006a तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ 12210006c अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् 12210007a तं विशेषमवेक्षेत विशेषेण विचक्षणः 12210007c अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि 12210008a उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ 12210008c सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् 12210009a प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया 12210009c विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् 12210010a प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् 12210010c अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ 12210011a संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया 12210011c करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते 12210011e कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति 12210012a उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः 12210012c संवृतोऽयं तथा देही सत्त्वराजसतामसैः 12210013a तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् 12210013c यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति 12210014a श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः 12210014c शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः 12210015a त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता 12210015c सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि 12210016a प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः 12210016c रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् 12210017a ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते 12210017c वाङ्मनोनियमः साम्यं मानसं तप उच्यते 12210018a विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते 12210018c आहारनियमेनास्य पाप्मा नश्यति राजसः 12210019a वैमनस्यं च विषये यान्त्यस्य करणानि च 12210019c तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् 12210020a अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः 12210020c एवं युक्तेन मनसा ज्ञानं तदुपपद्यते 12210021a रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् 12210021c कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः 12210021e आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते 12210022a हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा 12210022c परप्रत्ययसर्गे तु नियतं नातिवर्तते 12210023a भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् 12210023c धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तमानसाः 12210023e स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते 12210024a यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते 12210024c देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः 12210024e युक्तो धारणया कश्चित्सत्तां केचिदुपासते 12210025a अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् 12210025c अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः 12210026a सर्व एते महात्मानो गच्छन्ति परमां गतिम् 12210026c सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा 12210027a देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् 12210027c अन्तरिक्षादन्यतरं धारणासक्तमानसम् 12210028a मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः 12210028c ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् 12210029a कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् 12210029c ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम् 12210030a भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम् 12210030c भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः 12210031a ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः 12210031c प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् 12210032a एतावदेतद्विज्ञानमेतदस्ति च नास्ति च 12210032c तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते 12210033a बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे 12210033c तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा 12210034a सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः 12210034c तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते 12210035a विकारं प्रकृतिं चैव पुरुषं च सनातनम् 12210035c यो यथावद्विजानाति स वितृष्णो विमुच्यते 12210036a प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् 12210036c भूतानामनुकम्पार्थं जगाद जगतो हितम् 12211001 युधिष्ठिर उवाच 12211001a केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः 12211001c जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान् 12211002 भीष्म उवाच 12211002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12211002c येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम् 12211003a जनको जनदेवस्तु मिथिलायां जनाधिपः 12211003c और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने 12211004a तस्य स्म शतमाचार्या वसन्ति सततं गृहे 12211004c दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः 12211005a स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये 12211005c आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति 12211006a तत्र पञ्चशिखो नाम कापिलेयो महामुनिः 12211006c परिधावन्महीं कृत्स्नां जगाम मिथिलामपि 12211007a सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये 12211007c सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः 12211008a ऋषीणामाहुरेकं यं कामादवसितं नृषु 12211008c शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् 12211009a यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् 12211009c स मन्ये तेन रूपेण विस्मापयति हि स्वयम् 12211010a आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् 12211010c पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् 12211011a तं समासीनमागम्य मण्डलं कापिलं महत् 12211011c पुरुषावस्थमव्यक्तं परमार्थं निबोधयत् 12211012a इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः 12211012c क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः 12211013a यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते 12211013c आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् 12211014a तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः 12211014c ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी 12211015a तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ 12211015c ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् 12211016a एतन्मे भगवानाह कापिलेयाय संभवम् 12211016c तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् 12211017a सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् 12211017c उपेत्य शतमाचार्यान्मोहयामास हेतुभिः 12211018a जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् 12211018c उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् 12211019a तस्मै परमकल्याय प्रणताय च धर्मतः 12211019c अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते 12211020a जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् 12211020c कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् 12211021a यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः 12211021c तदनाश्वासिकं मोघं विनाशि चलमध्रुवम् 12211022a दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके 12211022c आगमात्परमस्तीति ब्रुवन्नपि पराजितः 12211023a अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः 12211023c आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् 12211024a अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते 12211024c अजरोऽयममृत्युश्च राजासौ मन्यते तथा 12211025a अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे 12211025c किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् 12211026a प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि 12211026c प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन 12211027a यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा 12211027c अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः 12211028a रेतो वटकणीकायां घृतपाकाधिवासनम् 12211028c जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् 12211029a प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् 12211029c मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः 12211030a न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः 12211030c अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते 12211031a अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् 12211031c कारणं लोभमोहौ तु दोषाणां च निषेवणम् 12211032a अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् 12211032c तृष्णासंजननं स्नेह एष तेषां पुनर्भवः 12211033a तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि 12211033c अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसंक्षयम् 12211034a यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः 12211034c कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः 12211035a एवं सति च का प्रीतिर्दानविद्यातपोबलैः 12211035c यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते 12211036a यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् 12211036c सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः 12211037a तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् 12211037c पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते 12211038a ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये 12211038c यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः 12211039a जरया हि परीतस्य मृत्युना वा विनाशिना 12211039c दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति 12211040a इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च 12211040c आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च 12211041a लोकयात्राविधानं च दानधर्मफलागमः 12211041c यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः 12211042a इति सम्यङ्मनस्येते बहवः सन्ति हेतवः 12211042c एतदस्तीदमस्तीति न किंचित्प्रतिपद्यते 12211043a तेषां विमृशतामेवं तत्तत्समभिधावताम् 12211043c क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् 12211044a एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः 12211044c आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा 12211045a अर्थांस्तथात्यन्तसुखावहांश्च; लिप्सन्त एते बहवो विशुल्काः 12211045c महत्तरं दुःखमभिप्रपन्ना; हित्वामिषं मृत्युवशं प्रयान्ति 12211046a विनाशिनो ह्यध्रुवजीवितस्य; किं बन्धुभिर्मित्रपरिग्रहैश्च 12211046c विहाय यो गच्छति सर्वमेव; क्षणेन गत्वा न निवर्तते च 12211047a भूव्योमतोयानलवायवो हि; सदा शरीरं परिपालयन्ति 12211047c इतीदमालक्ष्य कुतो रतिर्भवे;द्विनाशिनो ह्यस्य न शर्म विद्यते 12211048a इदमनुपधि वाक्यमच्छलं; परमनिरामयमात्मसाक्षिकम् 12211048c नरपतिरभिवीक्ष्य विस्मितः; पुनरनुयोक्तुमिदं प्रचक्रमे 12212001 भीष्म उवाच 12212001a जनको जनदेवस्तु ज्ञापितः परमर्षिणा 12212001c पुनरेवानुपप्रच्छ सांपराये भवाभवौ 12212002a भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् 12212002c एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति 12212003a सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम 12212003c अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति 12212004a असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु 12212004c कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः 12212005a तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् 12212005c पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् 12212006a उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते 12212006c अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् 12212006e वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु 12212007a धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः 12212007c ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः 12212008a आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् 12212008c एष पञ्चसमाहारः शरीरमिति नैकधा 12212008e ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः 12212009a इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः 12212009c प्राणापानौ विकारश्च धातवश्चात्र निःसृताः 12212010a श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च 12212010c इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः 12212011a तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा 12212011c सुखदुःखेति यामाहुरदुःखेत्यसुखेति च 12212012a शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ 12212012c एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये 12212013a तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः 12212013c तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् 12212014a इमं गुणसमाहारमात्मभावेन पश्यतः 12212014c असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति 12212015a अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि 12212015c वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः 12212016a तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् 12212016c शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति 12212017a त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् 12212017c नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः 12212018a द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि 12212018c सुखत्यागे तपोयोगः सर्वत्यागे समापना 12212019a तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः 12212019c विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् 12212020a पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि 12212020c मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु 12212021a हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् 12212021c प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् 12212022a वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः 12212022c एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः 12212023a कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे 12212023c तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः 12212024a एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये 12212024c येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः 12212025a सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः 12212025c त्रिविधा वेदना येषु प्रसूता सर्वसाधना 12212026a प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता 12212026c अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः 12212027a अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा 12212027c लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः 12212028a अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता 12212028c कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः 12212029a तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् 12212029c वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा 12212030a यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः 12212030c प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् 12212031a अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् 12212031c अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् 12212032a तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः 12212032c नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा 12212033a एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 12212033c स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् 12212034a स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति 12212034c चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् 12212035a तेषामयुगपद्भाव उच्छेदो नास्ति तामसः 12212035c आस्थितो युगपद्भावे व्यवहारः स लौकिकः 12212036a इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् 12212036c चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः 12212037a यत्तमोपहतं चित्तमाशु संचारमध्रुवम् 12212037c करोत्युपरमं काले तदाहुस्तामसं सुखम् 12212038a यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति 12212038c अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् 12212039a एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः 12212039c कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते 12212040a एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः 12212040c स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते 12212041a एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् 12212041c स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः 12212042a यथार्णवगता नद्यो व्यक्तीर्जहति नाम च 12212042c न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः 12212043a एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् 12212043c प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः 12212044a इमां तु यो वेद विमोक्षबुद्धि;मात्मानमन्विच्छति चाप्रमत्तः 12212044c न लिप्यते कर्मफलैरनिष्टैः; पत्रं बिसस्येव जलेन सिक्तम् 12212045a दृढैश्च पाशैर्बहुभिर्विमुक्तः; प्रजानिमित्तैरपि दैवतैश्च 12212045c यदा ह्यसौ सुखदुःखे जहाति; मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः 12212045e श्रुतिप्रमाणागममङ्गलैश्च; शेते जरामृत्युभयादतीतः 12212046a क्षीणे च पुण्ये विगते च पापे; ततोनिमित्ते च फले विनष्टे 12212046c अलेपमाकाशमलिङ्गमेव;मास्थाय पश्यन्ति महद्ध्यसक्ताः 12212047a यथोर्णनाभिः परिवर्तमान;स्तन्तुक्षये तिष्ठति पात्यमानः 12212047c तथा विमुक्तः प्रजहाति दुःखं; विध्वंसते लोष्ट इवाद्रिमर्च्छन् 12212048a यथा रुरुः शृङ्गमथो पुराणं; हित्वा त्वचं वाप्युरगो यथावत् 12212048c विहाय गच्छत्यनवेक्षमाण;स्तथा विमुक्तो विजहाति दुःखम् 12212049a द्रुमं यथा वाप्युदके पतन्त;मुत्सृज्य पक्षी प्रपतत्यसक्तः 12212049c तथा ह्यसौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिमेत्यलिङ्गः 12212050a अपि च भवति मैथिलेन गीतं; नगरमुपाहितमग्निनाभिवीक्ष्य 12212050c न खलु मम तुषोऽपि दह्यतेऽत्र; स्वयमिदमाह किल स्म भूमिपालः 12212051a इदममृतपदं विदेहराजः; स्वयमिह पञ्चशिखेन भाष्यमाणः 12212051c निखिलमभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशोकः 12212052a इमं हि यः पठति विमोक्षनिश्चयं; न हीयते सततमवेक्षते तथा 12212052c उपद्रवान्नानुभवत्यदुःखितः; प्रमुच्यते कपिलमिवैत्य मैथिलः 12213001 युधिष्ठिर उवाच 12213001a किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते 12213001c किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत 12213002 भीष्म उवाच 12213002a दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः 12213002c सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः 12213003a नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते 12213003c क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम् 12213004a दमस्तेजो वर्धयति पवित्रं दम उच्यते 12213004c विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत् 12213005a सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते 12213005c सुखं लोके विपर्येति मनश्चास्य प्रसीदति 12213006a तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति 12213006c अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति 12213007a क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् 12213007c तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा 12213008a आश्रमेषु च सर्वेषु दम एव विशिष्यते 12213008c यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते 12213009a तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः 12213009c अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता 12213010a अक्रोध आर्जवं नित्यं नातिवादो न मानिता 12213010c गुरुपूजानसूया च दया भूतेष्वपैशुनम् 12213011a जनवादमृषावादस्तुतिनिन्दाविवर्जनम् 12213011c साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु 12213012a अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः 12213012c सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान्बुधः 12213012e प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति 12213013a सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम् 12213013c महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति 12213014a अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः 12213014c नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान् 12213015a न हृष्यति महत्यर्थे व्यसने च न शोचति 12213015c स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते 12213016a कर्मभिः श्रुतसंपन्नः सद्भिराचरितैः शुभैः 12213016c सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम् 12213017a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 12213017c सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् 12213018a कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः 12213018c विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः 12213018e कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् 12214001 युधिष्ठिर उवाच 12214001a द्विजातयो व्रतोपेता यदिदं भुञ्जते हविः 12214001c अन्नं ब्राह्मणकामाय कथमेतत्पितामह 12214002 भीष्म उवाच 12214002a अवेदोक्तव्रतोपेता भुञ्जानाः कार्यकारिणः 12214002c वेदोक्तेषु च भुञ्जाना व्रतलुप्ता युधिष्ठिर 12214003 युधिष्ठिर उवाच 12214003a यदिदं तप इत्याहुरुपवासं पृथग्जनाः 12214003c एतत्तपो महाराज उताहो किं तपो भवेत् 12214004 भीष्म उवाच 12214004a मासपक्षोपवासेन मन्यन्ते यत्तपो जनाः 12214004c आत्मतन्त्रोपघातः स न तपस्तत्सतां मतम् 12214004e त्यागश्च सन्नतिश्चैव शिष्यते तप उत्तमम् 12214005a सदोपवासी च भवेद्ब्रह्मचारी सदैव च 12214005c मुनिश्च स्यात्सदा विप्रो दैवतं च सदा भजेत् 12214006a कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत 12214006c अमांसाशी सदा च स्यात्पवित्रं च सदा जपेत् 12214007a अमृताशी सदा च स्यान्न च स्याद्विषभोजनः 12214007c विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः 12214008 युधिष्ठिर उवाच 12214008a कथं सदोपवासी स्याद्ब्रह्मचारी कथं भवेत् 12214008c विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः 12214009 भीष्म उवाच 12214009a अन्तरा प्रातराशं च सायमाशं तथैव च 12214009c सदोपवासी च भवेद्यो न भुङ्क्ते कथंचन 12214010a भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः 12214010c ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः 12214011a अभक्षयन्वृथामांसममांसाशी भवत्युत 12214011c दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन् 12214012a भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु सदा स ह 12214012c अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर 12214013a अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः 12214013c अभोजनेन तेनास्य जितः स्वर्गो भवत्युत 12214014a देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह 12214014c अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् 12214015a तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह 12214015c उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः 12214016a देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते 12214016c रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा 12215001 युधिष्ठिर उवाच 12215001a यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाशुभम् 12215001c पुरुषं योजयत्येव फलयोगेन भारत 12215002a कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः 12215002c एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह 12215003 भीष्म उवाच 12215003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12215003c प्रह्रादस्य च संवादमिन्द्रस्य च युधिष्ठिर 12215004a असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् 12215004c अस्तम्भमनहंकारं सत्त्वस्थं समये रतम् 12215005a तुल्यनिन्दास्तुतिं दान्तं शून्यागारनिवेशनम् 12215005c चराचराणां भूतानां विदितप्रभवाप्ययम् 12215006a अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च 12215006c काञ्चने वाथ लोष्टे वा उभयोः समदर्शनम् 12215007a आत्मनिःश्रेयसज्ञाने धीरं निश्चितनिश्चयम् 12215007c परावरज्ञं भूतानां सर्वज्ञं समदर्शनम् 12215008a शक्रः प्रह्रादमासीनमेकान्ते संयतेन्द्रियम् 12215008c बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् 12215009a यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु 12215009c भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे 12215010a अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह 12215010c आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे 12215011a बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः 12215011c श्रिया विहीनः प्रह्राद शोचितव्ये न शोचसि 12215012a प्रज्ञालाभात्तु दैतेय उताहो धृतिमत्तया 12215012c प्रह्राद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः 12215013a इति संचोदितस्तेन धीरो निश्चितनिश्चयः 12215013c उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् 12215014a प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते 12215014c तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः 12215015a स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च 12215015c सर्वे भावास्तथाभावाः पुरुषार्थो न विद्यते 12215016a पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः 12215016c स्वयं तु कुर्वतस्तस्य जातु मानो भवेदिह 12215017a यस्तु कर्तारमात्मानं मन्यते साध्वसाधुनोः 12215017c तस्य दोषवती प्रज्ञा स्वमूर्त्यज्ञेति मे मतिः 12215018a यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् 12215018c आरम्भास्तस्य सिध्येरन्न च जातु पराभवेत् 12215019a अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च 12215019c लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः 12215020a अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृत्तिमेव च 12215020c अप्रयत्नेन पश्यामः केषांचित्तत्स्वभावतः 12215021a प्रतिरूपधराः केचिद्दृश्यन्ते बुद्धिसत्तमाः 12215021c विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमम् 12215022a स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा 12215022c शुभाशुभास्तदा तत्र तस्य किं मानकारणम् 12215023a स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः 12215023c आत्मप्रतिष्ठिता प्रज्ञा मम नास्ति ततोऽन्यथा 12215024a कर्मजं त्विह मन्येऽहं फलयोगं शुभाशुभम् 12215024c कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु 12215025a यथा वेदयते कश्चिदोदनं वायसो वदन् 12215025c एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् 12215026a विकारानेव यो वेद न वेद प्रकृतिं पराम् 12215026c तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः 12215027a स्वभावभाविनो भावान्सर्वानेवेह निश्चये 12215027c बुध्यमानस्य दर्पो वा मानो वा किं करिष्यति 12215028a वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् 12215028c तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 12215029a निर्ममो निरहंकारो निरीहो मुक्तबन्धनः 12215029c स्वस्थोऽव्यपेतः पश्यामि भूतानां प्रभवाप्ययौ 12215030a कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः 12215030c नायासो विद्यते शक्र पश्यतो लोकविद्यया 12215031a प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे 12215031c द्वेष्टारं न च पश्यामि यो ममाद्य ममायते 12215032a नोर्ध्वं नावाङ्न तिर्यक्च न क्वचिच्छक्र कामये 12215032c न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते 12215033 शक्र उवाच 12215033a येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते 12215033c प्रब्रूहि तमुपायं मे सम्यक्प्रह्राद पृच्छते 12215034 प्रह्राद उवाच 12215034a आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया 12215034c वृद्धशुश्रूषया शक्र पुरुषो लभते महत् 12215035a स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः 12215035c स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यसि 12215036 भीष्म उवाच 12215036a इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् 12215036c प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् 12215037a स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः 12215037c असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् 12216001 युधिष्ठिर उवाच 12216001a यया बुद्ध्या महीपालो भ्रष्टश्रीर्विचरेन्महीम् 12216001c कालदण्डविनिष्पिष्टस्तन्मे ब्रूहि पितामह 12216002 भीष्म उवाच 12216002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12216002c वासवस्य च संवादं बलेर्वैरोचनस्य च 12216003a पितामहमुपागत्य प्रणिपत्य कृताञ्जलिः 12216003c सर्वानेवासुराञ्जित्वा बलिं पप्रच्छ वासवः 12216004a यस्य स्म ददतो वित्तं न कदाचन हीयते 12216004c तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 12216005a स एव ह्यस्तमयते स स्म विद्योतते दिशः 12216005c स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः 12216005e तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 12216006a स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः 12216006c सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत 12216006e तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् 12216007 ब्रह्मोवाच 12216007a नैतत्ते साधु मघवन्यदेतदनुपृच्छसि 12216007c पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् 12216008a उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः 12216008c वरिष्ठो भविता जन्तुः शून्यागारे शचीपते 12216009 शक्र उवाच 12216009a यदि स्म बलिना ब्रह्मञ्शून्यागारे समेयिवान् 12216009c हन्यामेनं न वा हन्यां तद्ब्रह्मन्ननुशाधि माम् 12216010 ब्रह्मोवाच 12216010a मा स्म शक्र बलिं हिंसीर्न बलिर्वधमर्हति 12216010c न्यायांस्तु शक्र प्रष्टव्यस्त्वया वासव काम्यया 12216011 भीष्म उवाच 12216011a एवमुक्तो भगवता महेन्द्रः पृथिवीं तदा 12216011c चचारैरावतस्कन्धमधिरुह्य श्रिया वृतः 12216012a ततो ददर्श स बलिं खरवेषेण संवृतम् 12216012c यथाख्यातं भगवता शून्यागारकृतालयम् 12216013 शक्र उवाच 12216013a खरयोनिमनुप्राप्तस्तुषभक्षोऽसि दानव 12216013c इयं ते योनिरधमा शोचस्याहो न शोचसि 12216014a अदृष्टं बत पश्यामि द्विषतां वशमागतम् 12216014c श्रिया विहीनं मित्रैश्च भ्रष्टवीर्यपराक्रमम् 12216015a यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः 12216015c लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् 12216016a त्वन्मुखाश्चैव दैतेया व्यतिष्ठंस्तव शासने 12216016c अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह 12216016e इदं च तेऽद्य व्यसनं शोचस्याहो न शोचसि 12216017a यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन् 12216017c ज्ञातिभ्यो विभजन्वित्तं तदासीत्ते मनः कथम् 12216018a यत्ते सहस्रसमिता ननृतुर्देवयोषितः 12216018c बहूनि वर्षपूगानि विहारे दीप्यतः श्रिया 12216019a सर्वाः पुष्करमालिन्यः सर्वाः काञ्चनसप्रभाः 12216019c कथमद्य तदा चैव मनस्ते दानवेश्वर 12216020a छत्रं तवासीत्सुमहत्सौवर्णं मणिभूषितम् 12216020c ननृतुर्यत्र गन्धर्वाः षट्सहस्राणि सप्तधा 12216021a यूपस्तवासीत्सुमहान्यजतः सर्वकाञ्चनः 12216021c यत्राददः सहस्राणामयुतानि गवां दश 12216022a यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः 12216022c शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि 12216023a न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च 12216023c ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप 12216024 बलिरुवाच 12216024a न त्वं पश्यसि भृङ्गारं न छत्रं व्यजनं न च 12216024c ब्रह्मदत्तां च मे मालां न त्वं द्रक्ष्यसि वासव 12216025a गुहायां निहितानि त्वं मम रत्नानि पृच्छसि 12216025c यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि 12216026a न त्वेतदनुरूपं ते यशसो वा कुलस्य वा 12216026c समृद्धार्थोऽसमृद्धार्थं यन्मां कत्थितुमिच्छसि 12216027a न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु 12216027c कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः 12216028a त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे 12216028c यदाहमिव भावी त्वं तदा नैवं वदिष्यसि 12217001 भीष्म उवाच 12217001a पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् 12217001c निःश्वसन्तं यथा नागं प्रव्याहाराय भारत 12217002a यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः 12217002c लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् 12217003a दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले 12217003c ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि 12217004a प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् 12217004c विनिपातमिमं चाद्य शोचस्याहो न शोचसि 12217005 बलिरुवाच 12217005a अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः 12217005c तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 12217006a अन्तवन्त इमे देहा भूतानाममराधिप 12217006c तेन शक्र न शोचामि नापराधादिदं मम 12217007a जीवितं च शरीरं च प्रेत्य वै सह जायते 12217007c उभे सह विवर्धेते उभे सह विनश्यतः 12217008a तदीदृशमिदं भावमवशः प्राप्य केवलम् 12217008c यद्येवमभिजानामि का व्यथा मे विजानतः 12217009a भूतानां निधनं निष्ठा स्रोतसामिव सागरः 12217009c नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् 12217010a ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः 12217010c ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति 12217011a बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् 12217011c विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति 12217012a ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः 12217012c कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः 12217013a अर्थसिद्धिमनर्थं च जीवितं मरणं तथा 12217013c सुखदुःखफलं चैव न द्वेष्मि न च कामये 12217014a हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन 12217014c उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः 12217015a हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते 12217015c अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् 12217016a को हि लोकस्य कुरुते विनाशप्रभवावुभौ 12217016c कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः 12217017a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12217017c एतद्योनीनि भूतानि तत्र का परिदेवना 12217018a महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः 12217018c दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः 12217019a सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा 12217019c तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः 12217020a दग्धमेवानुदहति हतमेवानुहन्ति च 12217020c नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः 12217021a नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते 12217021c नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् 12217022a यदि मे पश्यतः कालो भूतानि न विनाशयेत् 12217022c स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते 12217023a तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे 12217023c बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे 12217024a इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः 12217024c विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे 12217025a कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति 12217025c कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् 12217026a पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर 12217026c अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् 12217027a त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः 12217027c प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन 12217028a कौमारमेव ते चित्तं तथैवाद्य यथा पुरा 12217028c समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् 12217029a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः 12217029c आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव 12217030a नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः 12217030c इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः 12217031a नाहं तदनुशोचामि नात्मभ्रंशं शचीपते 12217031c एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे 12217032a दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् 12217032c दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा 12217033a दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते 12217033c सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा 12217034a कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते 12217034c अलक्षणा विरूपा च सुभगा शक्र दृश्यते 12217035a नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् 12217035c यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् 12217036a न कर्म तव नान्येषां कुतो मम शतक्रतो 12217036c ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् 12217037a पश्यामि त्वा विराजन्तं देवराजमवस्थितम् 12217037c श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि 12217038a एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् 12217038c पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना 12217039a न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः 12217039c कालः स्थापयते सर्वं कालः पचति वै तथा 12217040a मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् 12217040c गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति 12217041a द्वादशानां हि भवतामादित्यानां महात्मनाम् 12217041c तेजांस्येकेन सर्वेषां देवराज हृतानि मे 12217042a अहमेवोद्वहाम्यापो विसृजामि च वासव 12217042c तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च 12217043a संरक्षामि विलुम्पामि ददाम्यहमथाददे 12217043c संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः 12217044a तदद्य विनिवृत्तं मे प्रभुत्वममराधिप 12217044c कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे 12217045a नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते 12217045c पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया 12217046a मासार्धमासवेश्मानमहोरात्राभिसंवृतम् 12217046c ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः 12217047a आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया 12217047c अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा 12217048a गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा 12217048c अनादिनिधनं चाहुरक्षरं परमेव च 12217049a सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् 12217049c मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः 12217050a भूतानां तु विपर्यासं मन्यते गतवानिति 12217050c न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः 12217051a गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि 12217051c यो धावता न हातव्यस्तिष्ठन्नपि न हीयते 12217051e तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा 12217052a आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् 12217052c ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा 12217053a पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे 12217053c मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा 12217053e तं कालमवजानीहि यस्य सर्वमिदं वशे 12217054a बहूनीन्द्रसहस्राणि समतीतानि वासव 12217054c बलवीर्योपपन्नानि यथैव त्वं शचीपते 12217055a त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् 12217055c प्राप्ते काले महावीर्यः कालः संशमयिष्यति 12217056a य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव 12217056c मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् 12217057a यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् 12217057c स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति 12217058a स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् 12217058c मां च लोला परित्यज्य त्वामगाद्विबुधाधिप 12217059a मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि 12217059c त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति 12218001 भीष्म उवाच 12218001a शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः 12218001c स्वरूपिणीं शरीराद्धि तदा निष्क्रामतीं श्रियम् 12218002a तां दीप्तां प्रभया दृष्ट्वा भगवान्पाकशासनः 12218002c विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः 12218003a बले केयमपक्रान्ता रोचमाना शिखण्डिनी 12218003c त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा 12218004 बलिरुवाच 12218004a न हीमामासुरीं वेद्मि न दैवीं न च मानुषीम् 12218004c त्वमेवैनां पृच्छ मा वा यथेष्टं कुरु वासव 12218005 शक्र उवाच 12218005a का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी 12218005c अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते 12218006a का त्वं तिष्ठसि मायेव दीप्यमाना स्वतेजसा 12218006c हित्वा दैत्येश्वरं सुभ्रु तन्ममाचक्ष्व तत्त्वतः 12218007 श्रीरुवाच 12218007a न मा विरोचनो वेद न मा वैरोचनो बलिः 12218007c आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः 12218008a भूतिर्लक्ष्मीति मामाहुः श्रीरित्येवं च वासव 12218008c त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः 12218009 शक्र उवाच 12218009a किमिदं त्वं मम कृते उताहो बलिनः कृते 12218009c दुःसहे विजहास्येनं चिरसंवासिनी सती 12218010 श्रीरुवाच 12218010a न धाता न विधाता मां विदधाति कथंचन 12218010c कालस्तु शक्र पर्यायान्मैनं शक्रावमन्यथाः 12218011 शक्र उवाच 12218011a कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि 12218011c कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते 12218012 श्रीरुवाच 12218012a सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि 12218012c पराक्रमे च धर्मे च पराचीनस्ततो बलिः 12218013a ब्रह्मण्योऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः 12218013c अभ्यसूयद्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्घृतम् 12218014a यज्ञशीलः पुरा भूत्वा मामेव यजतेत्ययम् 12218014c प्रोवाच लोकान्मूढात्मा कालेनोपनिपीडितः 12218015a अपाकृता ततः शक्र त्वयि वत्स्यामि वासव 12218015c अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च 12218016 शक्र उवाच 12218016a अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् 12218016c यस्त्वामेको विषहितुं शक्नुयात्कमलालये 12218017 श्रीरुवाच 12218017a नैव देवो न गन्धर्वो नासुरो न च राक्षसः 12218017c यो मामेको विषहितुं शक्तः कश्चित्पुरंदर 12218018 शक्र उवाच 12218018a तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे 12218018c तत्करिष्यामि ते वाक्यमृतं त्वं वक्तुमर्हसि 12218019 श्रीरुवाच 12218019a स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् 12218019c विधिना वेददृष्टेन चतुर्धा विभजस्व माम् 12218020 शक्र उवाच 12218020a अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम् 12218020c न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके 12218021a भूमिरेव मनुष्येषु धारणी भूतभाविनी 12218021c सा ते पादं तितिक्षेत समर्था हीति मे मतिः 12218022 श्रीरुवाच 12218022a एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः 12218022c द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु 12218023 शक्र उवाच 12218023a आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः 12218023c तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् 12218024 श्रीरुवाच 12218024a एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः 12218024c तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु 12218025 शक्र उवाच 12218025a यस्मिन्देवाश्च यज्ञाश्च यस्मिन्वेदाः प्रतिष्ठिताः 12218025c तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति 12218026 श्रीरुवाच 12218026a एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः 12218026c चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु 12218027 शक्र उवाच 12218027a ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः 12218027c ते ते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् 12218028 श्रीरुवाच 12218028a एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः 12218028c एवं विनिहितां शक्र भूतेषु परिधत्स्व माम् 12218029 शक्र उवाच 12218029a भूतानामिह वै यस्त्वा मया विनिहितां सतीम् 12218029c उपहन्यात्स मे द्विष्यात्तथा शृण्वन्तु मे वचः 12218030 भीष्म उवाच 12218030a ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् 12218030c यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् 12218031a पश्चिमां तावदेवापि तथोदीचीं दिवाकरः 12218031c तथा मध्यंदिने सूर्यो अस्तमेति यदा तदा 12218031e पुनर्देवासुरं युद्धं भावि जेतास्मि वस्तदा 12218032a सर्वाँल्लोकान्यदादित्य एकस्थस्तापयिष्यति 12218032c तदा देवासुरे युद्धे जेताहं त्वां शतक्रतो 12218033 शक्र उवाच 12218033a ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवानिति 12218033c तेन तेऽहं बले वज्रं न विमुञ्चामि मूर्धनि 12218034a यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर 12218034c आदित्यो नावतपिता कदाचिन्मध्यतः स्थितः 12218035a स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा 12218035c अजस्रं परियात्येष सत्येनावतपन्प्रजाः 12218036a अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा 12218036c येन संयाति लोकेषु शीतोष्णे विसृजन्रविः 12218037 भीष्म उवाच 12218037a एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत 12218037c जगाम दक्षिणामाशामुदीचीं तु पुरंदरः 12218038a इत्येतद्बलिना गीतमनहंकारसंज्ञितम् 12218038c वाक्यं श्रुत्वा सहस्राक्षः खमेवारुरुहे तदा 12219001 भीष्म उवाच 12219001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12219001c शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर 12219002a श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् 12219002c भवाभवज्ञं भूतानामित्युवाच पुरंदरः 12219003a बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः 12219003c श्रिया विहीनो नमुचे शोचस्याहो न शोचसि 12219004 नमुचिरुवाच 12219004a अनवाप्यं च शोकेन शरीरं चोपतप्यते 12219004c अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता 12219005a तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् 12219005c संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर 12219006a विनीय खलु तद्दुःखमागतं वैमनस्यजम् 12219006c ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता 12219007a यथा यथा हि पुरुषः कल्याणे कुरुते मनः 12219007c तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः 12219008a एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता 12219008c तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि 12219009a भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि 12219009c आशाः सुशर्म्याः सुहृदां सुकुर्व;न्यथा नियुक्तोऽस्मि तथा वहामि 12219010a यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा 12219010c भवितव्यं यथा यच्च भवत्येव तथा तथा 12219011a यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः 12219011c तत्र तत्रैव वसति न यत्र स्वयमिच्छति 12219012a भावो योऽयमनुप्राप्तो भवितव्यमिदं मम 12219012c इति यस्य सदा भावो न स मुह्येत्कदाचन 12219013a पर्यायैर्हन्यमानानामभियोक्ता न विद्यते 12219013c दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते 12219014a ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च 12219014c कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न संभ्रमन्ति 12219015a न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति 12219015c न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः 12219016a यमर्थसिद्धिः परमा न हर्षये;त्तथैव काले व्यसनं न मोहयेत् 12219016c सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः 12219017a यां यामवस्थां पुरुषोऽधिगच्छे;त्तस्यां रमेतापरितप्यमानः 12219017c एवं प्रवृद्धं प्रणुदेन्मनोजं; संतापमायासकरं शरीरात् 12219018a तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम् 12219018c धर्मतत्त्वमवगाह्य बुद्धिमा;न्योऽभ्युपैति स पुमान्धुरंधरः 12219019a प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले 12219019c स्थानाच्च्युतश्चेन्न मुमोह गौतम;स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः 12219020a न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा 12219020c अलभ्यं लभते मर्त्यस्तत्र का परिदेवना 12219021a यदेवमनुजातस्य धातारो विदधुः पुरा 12219021c तदेवानुभविष्यामि किं मे मृत्युः करिष्यति 12219022a लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति 12219022c प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च 12219023a एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः 12219023c कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः 12220001 युधिष्ठिर उवाच 12220001a मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि 12220001c बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः 12220002a त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ 12220002c एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि 12220003 भीष्म उवाच 12220003a पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च 12220003c मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप 12220004a धैर्येण युक्तस्य सतः शरीरं न विशीर्यते 12220004c आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम् 12220005a यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः 12220005c तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु 12220006a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12220006c बलिवासवसंवादं पुनरेव युधिष्ठिर 12220007a वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये 12220007c विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ 12220008a इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते 12220008c समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि 12220009a रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः 12220009c गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः 12220010a चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् 12220010c आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ 12220011a स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे 12220011c बलिं वैरोचनिं वज्री ददर्शोपससर्प च 12220012a तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् 12220012c सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे 12220013a दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् 12220013c अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः 12220014a दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया 12220014c तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम् 12220015a शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात् 12220015c वैरोचने किमाश्रित्य शोचितव्ये न शोचसि 12220016a श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान् 12220016c हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि 12220017a ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे 12220017c तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि 12220018a बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः 12220018c हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि 12220019a भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम् 12220019c त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत् 12220020a एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् 12220020c श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् 12220021a निगृहीते मयि भृशं शक्र किं कत्थितेन ते 12220021c वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर 12220022a अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः 12220022c कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति 12220023a यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् 12220023c हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः 12220024a अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः 12220024c एकः प्राप्नोति विजयमेकश्चैव पराभवम् 12220025a मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव 12220025c ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् 12220026a नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् 12220026c यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् 12220027a अहमासं यथाद्य त्वं भविता त्वं यथा वयम् 12220027c मावमंस्था मया कर्म दुष्कृतं कृतमित्युत 12220028a सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति 12220028c पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा 12220029a कालः काले नयति मां त्वां च कालो नयत्ययम् 12220029c तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् 12220030a न मातृपितृशुश्रूषा न च दैवतपूजनम् 12220030c नान्यो गुणसमाचारः पुरुषस्य सुखावहः 12220031a न विद्या न तपो दानं न मित्राणि न बान्धवाः 12220031c शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् 12220032a नागामिनमनर्थं हि प्रतिघातशतैरपि 12220032c शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः 12220033a पर्यायैर्हन्यमानानां परित्राता न विद्यते 12220033c इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते 12220034a यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन 12220034c यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः 12220035a कालेन त्वाहमजयं कालेनाहं जितस्त्वया 12220035c गन्ता गतिमतां कालः कालः कलयति प्रजाः 12220036a इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे 12220036c केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा 12220037a कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः 12220037c कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे 12220038a नित्यं कालपरीतस्य मम वा मद्विधस्य वा 12220038c बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति 12220039a अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः 12220039c ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम् 12220040a त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया 12220040c काले परिणते कालः कालयिष्यति मामिव 12220041a बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे 12220041c अभ्यतीतानि कालेन कालो हि दुरतिक्रमः 12220042a इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे 12220042c सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम् 12220043a न चेदमचलं स्थानमनन्तं वापि कस्यचित् 12220043c त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे 12220044a अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम् 12220044c ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि 12220045a नेयं तव न चास्माकं न चान्येषां स्थिरा मता 12220045c अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता 12220046a कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला 12220046c गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति 12220047a राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे 12220047c त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर 12220048a सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा 12220048c तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही 12220049a पृथुरैलो मयो भौमो नरकः शम्बरस्तथा 12220049c अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः 12220050a प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः 12220050c ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः 12220051a सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः 12220051c बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः 12220052a रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः 12220052c विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः 12220053a हिरण्यकशिपुश्चैव कैटभश्चैव दानवः 12220053c दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह 12220054a एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये 12220054c दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम 12220055a बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः 12220055c कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः 12220056a सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः 12220056c सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः 12220057a अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः 12220057c सर्वे संहननोपेताः सर्वे परिघबाहवः 12220058a सर्वे मायाशतधराः सर्वे ते कामचारिणः 12220058c सर्वे समरमासाद्य न श्रूयन्ते पराजिताः 12220059a सर्वे सत्यव्रतपराः सर्वे कामविहारिणः 12220059c सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः 12220060a सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे 12220060c न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम् 12220061a सर्वे यथार्थदातारः सर्वे विगतमत्सराः 12220061c सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे 12220062a सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः 12220062c ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः 12220063a त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः 12220063c न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः 12220064a मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम् 12220064c एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि 12220065a शोककाले शुचो मा त्वं हर्षकाले च मा हृषः 12220065c अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय 12220066a मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम् 12220066c क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति 12220067a त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह 12220067c संयते मयि नूनं त्वमात्मानं बहु मन्यसे 12220068a कालः प्रथममायान्मां पश्चात्त्वामनुधावति 12220068c तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि 12220069a को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे 12220069c कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव 12220070a यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति 12220070c यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः 12220071a अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि 12220071c सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात् 12220072a किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम् 12220072c कालः कर्ता विकर्ता च सर्वमन्यदकारणम् 12220073a नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ 12220073c विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत् 12220074a त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव 12220074c विकत्थसे मां किं बद्धं कालेन निरपत्रप 12220075a त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम 12220075c समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम् 12220076a आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह 12220076c मया विनिर्जिताः सर्वे मरुतश्च शचीपते 12220077a त्वमेव शक्र जानासि देवासुरसमागमे 12220077c समेता विबुधा भग्नास्तरसा समरे मया 12220078a पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः 12220078c सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया 12220079a किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः 12220079c न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना 12220080a न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः 12220080c तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया 12220081a त्वं मा परिणते काले परीतं कालवह्निना 12220081c नियतं कालपाशेन बद्धं शक्र विकत्थसे 12220082a अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः 12220082c बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा 12220083a लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ 12220083c वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते 12220084a नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः 12220084c सोऽयं पचति कालो मां वृक्षे फलमिवागतम् 12220085a यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते 12220085c पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते 12220086a न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति 12220086c तेन शक्र न शोचामि नास्ति शोके सहायता 12220087a यदा हि शोचतां शोको व्यसनं नापकर्षति 12220087c सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः 12220088a एवमुक्तः सहस्राक्षो भगवान्पाकशासनः 12220088c प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः 12220089a सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान् 12220089c कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः 12220090a सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी 12220090c ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम 12220091a को हि विश्वासमर्थेषु शरीरे वा शरीरभृत् 12220091c कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत् 12220092a अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम् 12220092c कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे 12220093a न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित् 12220093c सूक्ष्माणां महतां चैव भूतानां परिपच्यताम् 12220094a अनीशस्याप्रमत्तस्य भूतानि पचतः सदा 12220094c अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते 12220095a अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु 12220095c प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित् 12220096a पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः 12220096c कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः 12220097a अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान् 12220097c संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा 12220098a इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम् 12220098c कालो हरति संप्राप्तो नदीवेग इवोडुपम् 12220099a इदानीं तावदेवासौ मया दृष्टः कथं मृतः 12220099c इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम् 12220100a नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च 12220100c अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः 12220100e उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च 12220101a सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी 12220101c अहमासं पुरा चेति मनसापि न बुध्यसे 12220102a कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा 12220102c अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे 12220103a ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च 12220103c स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति 12220104a भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः 12220104c कालं पश्यति सुव्यक्तं पाणावामलकं यथा 12220105a कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः 12220105c वैरोचने कृतात्मासि स्पृहणीयो विजानताम् 12220106a सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया 12220106c विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे 12220107a रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् 12220107c निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे 12220108a सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् 12220108c दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः 12220109a नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने 12220109c आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि 12220110a मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् 12220110c प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर 12220111a यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते 12220111c पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु 12220112a ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् 12220112c शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः 12220113a वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा 12220113c संकरं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः 12220114a चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति 12220114c एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते 12220115a अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय 12220115c सुखी भव निराबाधः स्वस्थचेता निरामयः 12220116a तमेवमुक्त्वा भगवाञ्शतक्रतुः; प्रतिप्रयातो गजराजवाहनः 12220116c विजित्य सर्वानसुरान्सुराधिपो; ननन्द हर्षेण बभूव चैकराट् 12220117a महर्षयस्तुष्टुवुरञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम् 12220117c हिमापहो हव्यमुदावहंस्त्वरं;स्तथामृतं चार्पितमीश्वराय ह 12220118a द्विजोत्तमैः सर्वगतैरभिष्टुतो; विदीप्ततेजा गतमन्युरीश्वरः 12220118c प्रशान्तचेता मुदितः स्वमालयं; त्रिविष्टपं प्राप्य मुमोद वासवः 12221001 युधिष्ठिर उवाच 12221001a पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः 12221001c पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह 12221002 भीष्म उवाच 12221002a मन एव मनुष्यस्य पूर्वरूपाणि शंसति 12221002c भविष्यतश्च भद्रं ते तथैव नभविष्यतः 12221003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12221003c श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर 12221004a महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ 12221004c सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः 12221005a ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः 12221005c विचचार यथाकामं त्रिषु लोकेषु नारदः 12221006a कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि 12221006c ध्रुवद्वारभवां गङ्गां जगामावततार च 12221007a सहस्रनयनश्चापि वज्री शम्बरपाकहा 12221007c तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह 12221008a तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः 12221008c नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् 12221009a पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः 12221009c चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ 12221009e पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ 12221010a अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम् 12221010c पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः 12221011a अभितस्तूदयन्तं तमर्कमर्कमिवापरम् 12221011c आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् 12221012a तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत 12221012c तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् 12221012e भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् 12221013a दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम् 12221013c बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् 12221014a नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम् 12221014c श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् 12221015a सावरुह्य विमानाग्रादङ्गनानामनुत्तमा 12221015c अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् 12221016a नारदानुगतः साक्षान्मघवांस्तामुपागमत् 12221016c कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना 12221017a चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित् 12221017c देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह 12221018a का त्वं केन च कार्येण संप्राप्ता चारुहासिनि 12221018c कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे 12221019 श्रीरुवाच 12221019a पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः 12221019c ममात्मभावमिच्छन्तो यतन्ते परमात्मना 12221020a साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते 12221020c भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी 12221021a अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन 12221021c अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः 12221022a अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च 12221022c अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः 12221023a राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च 12221023c निवासे धर्मशीलानां विषयेषु पुरेषु च 12221024a जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि 12221024c निवसामि मनुष्येन्द्रे सदैव बलसूदन 12221025a धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि 12221025c प्रश्रिते दानशीले च सदैव निवसाम्यहम् 12221026a असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना 12221026c विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् 12221027 शक्र उवाच 12221027a कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने 12221027c दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् 12221028 श्रीरुवाच 12221028a स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च 12221028c स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् 12221029a दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम् 12221029c विप्राणामतिथीनां च तेषां नित्यमवर्तत 12221030a सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः 12221030c गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः 12221031a श्रद्दधाना जितक्रोधा दानशीलानसूयकाः 12221031c भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः 12221032a अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन 12221032c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12221033a दातारः संगृहीतार आर्याः करुणवेदिनः 12221033c महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः 12221034a संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः 12221034c यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः 12221035a नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः 12221035c उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः 12221036a नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः 12221036c रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् 12221037a काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः 12221037c मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् 12221038a सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम् 12221038c अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा 12221039a कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् 12221039c दायं च संविभागं च नित्यमेवानुमोदताम् 12221040a विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम् 12221040c हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते 12221041a धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम् 12221041c अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः 12221042a पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन् 12221042c अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः 12221043a नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम् 12221043c सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति 12221044a नैवाकाशे न पशुषु नायोनौ न च पर्वसु 12221044c इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन 12221045a नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा 12221045c उत्साहश्चानहंकारः परमं सौहृदं क्षमा 12221046a सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा 12221046c मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो 12221047a निद्रा तन्द्रीरसंप्रीतिरसूया चानवेक्षिता 12221047c अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् 12221048a साहमेवंगुणेष्वेव दानवेष्ववसं पुरा 12221048c प्रजासर्गमुपादाय नैकं युगविपर्ययम् 12221049a ततः कालविपर्यासे तेषां गुणविपर्ययात् 12221049c अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् 12221050a सभासदां ते वृद्धानां सत्याः कथयतां कथाः 12221050c प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः 12221051a यूनः सहसमासीनान्वृद्धानभिगतान्सतः 12221051c नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् 12221052a वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः 12221052c अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः 12221053a तथा धर्मादपेतेन कर्मणा गर्हितेन ये 12221053c महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा 12221054a उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत् 12221054c पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् 12221055a मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् 12221055c गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् 12221056a भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते 12221056c अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् 12221057a न शौचमनुरुध्यन्त तेषां सूदजनास्तथा 12221057c मनसा कर्मणा वाचा भक्तमासीदनावृतम् 12221058a विप्रकीर्णानि धान्यानि काकमूषकभोजनम् 12221058c अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् 12221059a कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् 12221059c द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी 12221060a प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते 12221060c नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च 12221061a बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन् 12221061c तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः 12221062a पायसं कृसरं मांसमपूपानथ शष्कुलीः 12221062c अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् 12221063a उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः 12221063c अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे 12221064a अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह 12221064c आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् 12221064e संकराश्चाप्यवर्तन्त न च शौचमवर्तत 12221065a ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये 12221065c निरन्तरविशेषास्ते बहुमानावमानयोः 12221066a हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम् 12221066c असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् 12221067a स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः 12221067c क्रीडारतिविहारेषु परां मुदमवाप्नुवन् 12221068a प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् 12221068c नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः संभवेष्वपि 12221069a मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् 12221069c वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु 12221070a परस्वादानरुचयो विपण्यव्यवहारिणः 12221070c अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः 12221071a अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे 12221071c अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः 12221072a पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव 12221072c अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् 12221073a तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः 12221073c कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत 12221074a प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः 12221074c शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह 12221075a श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत 12221075c अन्वशासच्च भर्तारं समाहूयाभिजल्पती 12221076a प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता 12221076c व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् 12221077a अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् 12221077c दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि 12221078a कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः 12221078c अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः 12221079a तेष्वेवमादीनाचारानाचरत्सु विपर्यये 12221079c नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः 12221080a तां मां स्वयमनुप्राप्तामभिनन्द शचीपते 12221080c त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः 12221081a यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः 12221081c सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा 12221082a आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा 12221082c अष्टमी वृत्तिरेतासां पुरोगा पाकशासन 12221083a ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता 12221083c त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु 12221084 भीष्म उवाच 12221084a इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः 12221084c नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः 12221085a ततोऽनलसखो वायुः प्रववौ देववेश्मसु 12221085c इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः 12221086a शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः 12221086c लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः 12221087a ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा 12221087c रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ 12221088a अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन् 12221088c श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् 12221089a ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः 12221089c अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे 12221090a यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन 12221090c अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये 12221091a क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः 12221091c नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः 12221092a न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि 12221092c रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित् 12221093a इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः 12221093c पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते 12221094a त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम् 12221094c तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि 12222001 युधिष्ठिर उवाच 12222001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12222001c प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 12222002 भीष्म उवाच 12222002a मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः 12222002c प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 12222003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12222003c जैगीषव्यस्य संवादमसितस्य च भारत 12222004a जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् 12222004c अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् 12222005a न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि 12222005c का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् 12222006a इति तेनानुयुक्तः स तमुवाच महातपाः 12222006c महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि 12222007a या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम् 12222007c तां तेऽहं संप्रवक्ष्यामि यन्मां पृच्छसि वै द्विज 12222008a निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल 12222008c निह्नुवन्ति च ये तेषां समयं सुकृतं च ये 12222009a उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम् 12222009c प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः 12222010a नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते 12222010c न चातीतानि शोचन्ति न चैनान्प्रतिजानते 12222011a संप्राप्तानां च पूज्यानां कामादर्थेषु देवल 12222011c यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः 12222012a पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः 12222012c मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् 12222013a अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन 12222013c न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 12222014a निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये 12222014c न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन 12222015a सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः 12222015c न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् 12222015e विमुच्य हृदयग्रन्थींश्चङ्क्रम्यन्ते यथासुखम् 12222016a न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः 12222016c अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् 12222017a य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा 12222017c धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम 12222017e ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च 12222018a आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् 12222018c निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना 12222019a यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः 12222019c न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः 12222020a अमृतस्येव संतृप्येदवमानस्य तत्त्ववित् 12222020c विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः 12222021a अवज्ञातः सुखं शेते इह चामुत्र चोभयोः 12222021c विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते 12222022a परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः 12222022c एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः 12222023a सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः 12222023c प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 12222024a नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः 12222024c पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् 12223001 युधिष्ठिर उवाच 12223001a प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता 12223001c गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः 12223002 भीष्म उवाच 12223002a अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ 12223002c उग्रसेनस्य संवादं नारदे केशवस्य च 12223003 उग्रसेन उवाच 12223003a पश्य संकल्पते लोको नारदस्य प्रकीर्तने 12223003c मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः 12223004 वासुदेव उवाच 12223004a कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः 12223004c नारदस्य गुणान्साधून्संक्षेपेण नराधिप 12223005a न चारित्रनिमित्तोऽस्याहंकारो देहपातनः 12223005c अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः 12223006a तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः 12223006c कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः 12223007a अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः 12223007c ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः 12223008a तेजसा यशसा बुद्ध्या नयेन विनयेन च 12223008c जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः 12223009a सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः 12223009c सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः 12223010a कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते 12223010c न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः 12223011a वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते 12223011c तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः 12223012a समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन 12223012c मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः 12223013a बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः 12223013c अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः 12223014a नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः 12223014c दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः 12223015a दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान् 12223015c वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः 12223016a असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते 12223016c अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः 12223017a समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित् 12223017c अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः 12223018a लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन् 12223018c संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः 12223019a नासूयत्यागमं कंचित्स्वं तपो नोपजीवति 12223019c अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः 12223020a कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः 12223020c नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः 12223021a सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः 12223021c अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः 12223022a न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि 12223022c स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः 12223023a तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् 12223023c कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति 12224001 युधिष्ठिर उवाच 12224001a आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव 12224001c ध्यानं कर्म च कालं च तथैवायुर्युगे युगे 12224002a लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम् 12224002c सर्गश्च निधनं चैव कुत एतत्प्रवर्तते 12224003a यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर 12224003c एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे 12224004a पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम् 12224004c भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा 12224005a जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता 12224005c ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति 12224006 भीष्म उवाच 12224006a अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 12224006c जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते 12224007a अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा 12224007c अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् 12224008a कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः 12224008c पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम् 12224009a भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् 12224009c ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति 12224010a तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते 12224010c अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित् 12224011a अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् 12224011c अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत 12224012a काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम् 12224012c त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात् 12224013a त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च संख्या मुनिभिः प्रणीता 12224013c मासः स्मृतो रात्र्यहनी च त्रिंश;त्संवत्सरो द्वादशमास उक्तः 12224013e संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणमुत्तरं च 12224014a अहोरात्रे विभजते सूर्यो मानुषलौकिके 12224014c रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः 12224015a पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः 12224015c कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी 12224016a दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः 12224016c अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् 12224017a ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके 12224017c तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे 12224018a तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः 12224018c कृते त्रेतायुगे चैव द्वापरे च कलौ तथा 12224019a चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् 12224019c तस्य तावच्छती संध्या संध्यांशश्च तथाविधः 12224020a इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु 12224020c एकापायेन संयान्ति सहस्राणि शतानि च 12224021a एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान् 12224021c एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम् 12224022a चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे 12224022c नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते 12224023a इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते 12224023c चौरिकानृतमायाभिरधर्मश्चोपचीयते 12224024a अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः 12224024c कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः 12224025a वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम् 12224025c आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम् 12224026a अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे 12224026c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12224027a तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् 12224027c द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे 12224028a एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः 12224028c सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते 12224029a रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः 12224029c प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते 12224030a सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः 12224030c रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः 12224031a प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये 12224031c सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः 12224032a ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत् 12224032c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12224033a अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत् 12224033c अग्र एव महाभूतमाशु व्यक्तात्मकं मनः 12224034a अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान् 12224034c दूरगं बहुधागामि प्रार्थनासंशयात्मकम् 12224035a मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया 12224035c आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः 12224036a आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः 12224036c बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः 12224037a वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम् 12224037c रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते 12224038a ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः 12224038c अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते 12224039a गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् 12224039c तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम् 12224040a उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात् 12224040c पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम् 12224041a एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक् 12224041c नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः 12224042a ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः 12224042c शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते 12224043a श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् 12224043c तदाविशन्ति भूतानि महान्ति सह कर्मणा 12224044a सर्वभूतानि चादाय तपसश्चरणाय च 12224044c आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् 12224045a स वै सृजति भूतानि स एव पुरुषः परः 12224045c अजो जनयते ब्रह्मा देवर्षिपितृमानवान् 12224046a लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् 12224046c नरकिंनररक्षांसि वयःपशुमृगोरगान् 12224046e अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् 12224047a तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे 12224047c तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः 12224048a हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते 12224048c अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते 12224049a महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु 12224049c विनियोगं च भूतानां धातैव विदधात्युत 12224050a केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः 12224050c दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः 12224051a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12224051c त्रय एतेऽपृथग्भूता नविवेकं तु केचन 12224052a एवमेतच्च नैवं च यद्भूतं सृजते जगत् 12224052c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12224053a तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः 12224053c तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति 12224054a तपसा तदवाप्नोति यद्भूतं सृजते जगत् 12224054c स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः 12224055a ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम् 12224055c अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा 12224056a ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः 12224056c शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः 12224057a नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः 12224057c आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः 12224058a यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः 12224058c तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते 12224059a कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः 12224059c आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् 12224060a द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12224060c शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12224061a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा 12224061c परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः 12224062a त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे 12224062c द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा 12224063a अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च 12224063c काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च 12224064a त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः 12224064c संयन्तारः स्थावराणां जङ्गमानां च सर्वशः 12224065a त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च 12224065c संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे 12224066a दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः 12224066c उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः 12224067a कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते 12224067c आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः 12224068a अधर्मव्रतसंयोगं यथाधर्मं युगे युगे 12224068c विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम् 12224069a यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि 12224069c सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे 12224070a यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये 12224070c दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु 12224071a विहितं कालनानात्वमनादिनिधनं तथा 12224071c कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः 12224072a दधाति प्रभवे स्थानं भूतानां संयमो यमः 12224072c स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः 12224073a सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् 12224073c प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि 12224074a प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि 12224074c यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः 12224075a दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा 12224075c सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् 12225001 व्यास उवाच 12225001a पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च 12225001c तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च 12225002a ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा 12225002c अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् 12225003a भूमेरपि गुणं गन्धमाप आददते यदा 12225003c आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते 12225004a आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः 12225004c सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च 12225005a अपामपि गुणांस्तात ज्योतिराददते यदा 12225005c आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च 12225006a यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः 12225006c सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः 12225007a ज्योतिषोऽपि गुणं रूपं वायुराददते यदा 12225007c प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् 12225008a ततस्तु मूलमासाद्य वायुः संभवमात्मनः 12225008c अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश 12225009a वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा 12225009c प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् 12225010a आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः 12225010c मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसंचरः 12225011a तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः 12225011c मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते 12225012a तं तु कालेन महता संकल्पः कुरुते वशे 12225012c चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम् 12225013a कालो गिरति विज्ञानं कालो बलमिति श्रुतिः 12225013c बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे 12225014a आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि 12225014c तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् 12225014e एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः 12225015a यथावत्कीर्तितं सम्यगेवमेतदसंशयम् 12225015c बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः 12225016a एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः 12225016c युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च 12226001 व्यास उवाच 12226001a भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया 12226001c ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते 12226002a जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् 12226002c क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे 12226003a अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः 12226003c गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् 12226004a आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् 12226004c आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि 12226005a प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः 12226005c वने गुरुसकाशे वा यतिधर्मेण वा पुनः 12226006a गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते 12226006c तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति 12226007a प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः 12226007c अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः 12226008a यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत् 12226008c यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे 12226009a तपसा वा सुमहता विद्यानां पारणेन वा 12226009c इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः 12226010a यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी 12226010c तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते 12226011a अध्यापयेदधीयीत याजयेत यजेत च 12226011c न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन 12226012a याज्यतः शिष्यतो वापि कन्यया वा धनं महत् 12226012c यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन 12226013a गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात् 12226013c देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् 12226014a अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् 12226014c द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि 12226015a अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन 12226015c उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः 12226016a अनुनीय तथा काव्यः सत्यसंधो महाव्रतः 12226016c स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः 12226017a रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने 12226017c अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते 12226018a आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम् 12226018c दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः 12226019a शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् 12226019c ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः 12226020a प्रतर्दनः काशिपतिः प्रदाय नयने स्वके 12226020c ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते 12226021a दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत् 12226021c छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम् 12226022a सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् 12226022c उपदिश्य महातेजा गतो लोकाननुत्तमान् 12226023a अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् 12226023c अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् 12226024a सावित्री कुण्डले दिव्ये शरीरं जनमेजयः 12226024c ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् 12226025a सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः 12226025c रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः 12226026a निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् 12226026c ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम् 12226027a अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् 12226027c वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः 12226028a करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा 12226028c कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह 12226029a ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः 12226029c निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् 12226030a राजा मित्रसहश्चापि वसिष्ठाय महात्मने 12226030c मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः 12226031a सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः 12226031c ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् 12226032a सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम् 12226032c मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः 12226033a नाम्ना च द्युतिमान्नाम शाल्वराजः प्रतापवान् 12226033c दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् 12226034a मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् 12226034c हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् 12226035a लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः 12226035c ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत 12226036a दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् 12226036c सवत्सानां महातेजा गतो लोकाननुत्तमान् 12226037a एते चान्ये च बहवो दानेन तपसा च ह 12226037c महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः 12226038a तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी 12226038c दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् 12227001 व्यास उवाच 12227001a त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः 12227001c ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा 12227002a वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये 12227002c सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ 12227003a एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् 12227003c असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः 12227004a सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः 12227004c स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः 12227005a तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः 12227005c पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च 12227006a धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् 12227006c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12227007a दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः 12227007c एतैर्वर्धयते तेजः पाप्मानं चापकर्षति 12227008a धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः 12227008c कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 12227009a अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च 12227009c वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम् 12227010a एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 12227010c ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति 12227011a पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् 12227011c मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् 12227012a काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम् 12227012c महता विधिदृष्टेन बलेनाप्रतिघातिना 12227012e स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् 12227013a कालोदकेन महता वर्षावर्तेन संततम् 12227013c मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च 12227014a निमेषोन्मेषफेनेन अहोरात्रजवेन च 12227014c कामग्राहेण घोरेण वेदयज्ञप्लवेन च 12227015a धर्मद्वीपेन भूतानां चार्थकामरवेण च 12227015c ऋतसोपानतीरेण विहिंसातरुवाहिना 12227016a युगह्रदौघमध्येन ब्रह्मप्रायभवेन च 12227016c धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् 12227017a एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः 12227017c प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः 12227018a उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः 12227018c दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति 12227019a संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः 12227019c अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति 12227020a अप्लवो हि महादोषमुह्यमानोऽधिगच्छति 12227020c कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः 12227021a तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः 12227021c एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् 12227022a त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत् 12227022c तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा 12227023a संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः 12227023c प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च 12227024a वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः 12227024c पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च 12227025a सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत् 12227025c असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम् 12227026a श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः 12227026c स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः 12227027a क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः 12227027c धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम् 12227028a धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् 12227028c वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति 12227029a एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 12227029c ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति 12227030a अधर्मं धर्मकामो हि करोतीहाविचक्षणः 12227030c धर्मं चाधर्मसंकाशं शोचन्निव करोति सः 12227031a धर्मं करोमीति करोत्यधर्म;मधर्मकामश्च करोति धर्मम् 12227031c उभे बालः कर्मणी न प्रजान;न्स जायते म्रियते चापि देही 12228001 व्यास उवाच 12228001a अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा 12228001c उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् 12228002a प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः 12228002c नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन 12228003a छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश 12228003c दशकर्मसुखानर्थानुपायापायनिर्भयः 12228004a चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च 12228004c यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् 12228004e ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः 12228005a एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः 12228005c यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः 12228006a यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः 12228006c यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता 12228007a तरत्येव महादुर्गं जरामरणसागरम् 12228007c एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः 12228007e अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते 12228008a धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः 12228008c अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः 12228009a चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् 12228009c दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः 12228010a प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः 12228010c क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः 12228011a त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः 12228011c जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते 12228012a अथ संत्वरमाणस्य रथमेतं युयुक्षतः 12228012c अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् 12228013a सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते 12228013c पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः 12228014a क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः 12228014c ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः 12228015a अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते 12228015c विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः 12228016a अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः 12228016c निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् 12228017a शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः 12228017c तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत 12228018a अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् 12228018c जलरूपमिवाकाशे तत्रैवात्मनि पश्यति 12228019a अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते 12228019c तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते 12228019e ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते 12228020a अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः 12228020c अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै 12228021a एतेष्वपि हि जातेषु फलजातानि मे शृणु 12228021c जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते 12228022a प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः 12228022c अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा 12228023a पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः 12228023c आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति 12228024a वर्णतो गृह्यते चापि कामात्पिबति चाशयान् 12228024c न चास्य तेजसा रूपं दृश्यते शाम्यते तथा 12228025a अहंकारस्य विजितेः पञ्चैते स्युर्वशानुगाः 12228025c षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ 12228026a निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते 12228026c तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते 12228027a यतो निःसरते लोको भवति व्यक्तसंज्ञकः 12228027c तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे 12228027e तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे 12228028a पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् 12228028c योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु 12228029a प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् 12228029c जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् 12228030a विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् 12228030c द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ 12228031a चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते 12228031c व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् 12228031e सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् 12228032a द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः 12228032c विषयात्प्रतिसंहारः सांख्यानां सिद्धिलक्षणम् 12228033a निर्ममश्चानहंकारो निर्द्वंद्वश्छिन्नसंशयः 12228033c नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः 12228034a आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् 12228034c वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः 12228035a समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते 12228035c नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः 12228036a अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः 12228036c नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः 12228036e अहिंस्रः सर्वभूतानामीदृक्सांख्यो विमुच्यते 12228037a अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे 12228037c योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते 12228038a इत्येषा भावजा बुद्धिः कथिता ते न संशयः 12228038c एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति 12229001 व्यास उवाच 12229001a अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः 12229001c उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् 12229002 शुक उवाच 12229002a किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् 12229002c प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि 12229003 व्यास उवाच 12229003a यस्तु पश्येत्स्वभावेन विना भावमचेतनः 12229003c पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः 12229004a येषां चैकान्तभावेन स्वभावः कारणं मतम् 12229004c पूत्वा तृणबुसीकां वै ते लभन्ते न किंचन 12229005a ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः 12229005c स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते 12229006a स्वभावो हि विनाशाय मोहकर्ममनोभवः 12229006c निरुक्तमेतयोरेतत्स्वभावपरभावयोः 12229007a कृष्यादीनि हि कर्माणि सस्यसंहरणानि च 12229007c प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च 12229008a आक्रीडानां गृहाणां च गदानामगदस्य च 12229008c प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः 12229009a प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति 12229009c राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः 12229010a पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते 12229010c विद्यया तात सृष्टानां विद्यैव परमा गतिः 12229011a भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् 12229011c जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत् 12229012a स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत् 12229012c उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः 12229013a आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च 12229013c बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि 12229014a द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च 12229014c पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते 12229015a पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च 12229015c मध्यमानि विशिष्टानि जातिधर्मोपधारणात् 12229016a मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च 12229016c धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् 12229017a धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च 12229017c वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः 12229018a वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च 12229018c प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् 12229019a विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः 12229019c सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः 12229020a प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च 12229020c आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् 12229021a धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् 12229021c स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः 12229022a धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः 12229022c शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् 12229023a अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् 12229023c जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः 12229024a तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् 12229024c तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन 12229025a आदिं ते निधनं चैव कर्म चातीत्य सर्वशः 12229025c चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः 12230001 व्यास उवाच 12230001a एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते 12230001c ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति 12230002a तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये 12230002c किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः 12230003a तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति 12230003c उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु 12230004a पौरुषं कारणं केचिदाहुः कर्मसु मानवाः 12230004c दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः 12230005a पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः 12230005c त्रयमेतत्पृथग्भूतमविवेकं तु केचन 12230006a एवमेतन्न चाप्येवमुभे चापि न चाप्युभे 12230006c कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः 12230007a त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः 12230007c तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे 12230008a अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च 12230008c कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते 12230009a तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः 12230009c तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति 12230010a तपसा तदवाप्नोति यद्भूत्वा सृजते जगत् 12230010c तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः 12230011a तदुक्तं वेदवादेषु गहनं वेददर्शिभिः 12230011c वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते 12230012a आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः 12230012c परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः 12230013a परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् 12230013c कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते 12230014a त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा 12230014c संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे 12230015a द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा 12230015c दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः 12230016a उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः 12230016c गवां भूमेश्च ये चापामोषधीनां च ये रसाः 12230017a अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः 12230017c विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च 12230018a यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति 12230018c सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे 12230019a विसृतं कालनानात्वमनादिनिधनं च यत् 12230019c कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च 12230020a धातेदं प्रभवस्थानं भूतानां संयमो यमः 12230020c स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः 12230021a सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम् 12230021c एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 12231001 भीष्म उवाच 12231001a इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् 12231001c मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे 12231002 शुक उवाच 12231002a प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः 12231002c अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति 12231003a तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया 12231003c सांख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे 12231004a मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते 12231004c येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि 12231005 व्यास उवाच 12231005a नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् 12231005c नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन 12231006a महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः 12231006c भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु 12231007a भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते 12231007c प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् 12231008a क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति 12231008c कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती 12231009a कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी 12231009c दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये 12231010a शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् 12231010c इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत 12231011a इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः 12231011c मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः 12231012a इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः 12231012c नियमे च विसर्गे च भूतात्मा मनसस्तथा 12231013a इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः 12231013c प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् 12231014a आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना 12231014c सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन 12231015a एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः 12231015c मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि 12231016a न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः 12231016c मनसा संप्रदीप्तेन महानात्मा प्रकाशते 12231017a अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् 12231017c अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् 12231018a अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् 12231018c योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे 12231019a विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि 12231019c शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 12231020a स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च 12231020c वसत्येको महानात्मा येन सर्वमिदं ततम् 12231021a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12231021c यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा 12231022a यावानात्मनि वेदात्मा तावानात्मा परात्मनि 12231022c य एवं सततं वेद सोऽमृतत्वाय कल्पते 12231023a सर्वभूतात्मभूतस्य सर्वभूतहितस्य च 12231023c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12231024a शकुनीनामिवाकाशे जले वारिचरस्य वा 12231024c यथा गतिर्न दृश्येत तथैव सुमहात्मनः 12231025a कालः पचति भूतानि सर्वाण्येवात्मनात्मनि 12231025c यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन 12231026a न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः 12231026c न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन 12231027a सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किंचन 12231027c यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः 12231028a नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः 12231028c तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः 12231029a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12231029c सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति 12231030a तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् 12231030c तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते 12231031a अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः 12231031c क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् 12231032a नवद्वारं पुरं गत्वा हंसो हि नियतो वशी 12231032c ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च 12231033a हानिभङ्गविकल्पानां नवानां संश्रयेण च 12231033c शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः 12231034a हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् 12231034c तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी 12232001 व्यास उवाच 12232001a पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः 12232001c सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया 12232002a योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु 12232002c एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः 12232002e आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् 12232003a तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना 12232003c आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा 12232004a योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः 12232004c कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12232005a क्रोधं शमेन जयति कामं संकल्पवर्जनात् 12232005c सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति 12232006a धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 12232006c चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा 12232007a अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् 12232007c एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः 12232008a अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च 12232008c वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् 12232009a ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः 12232009c एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् 12232010a ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा 12232010c शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः 12232011a एतैर्विवर्धते तेजः पाप्मानं चापकर्षति 12232011c सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते 12232012a समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् 12232012c धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः 12232012e कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 12232013a मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः 12232013c प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना 12232014a जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् 12232014c ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् 12232015a मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा 12232015c ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् 12232016a तत एतानि संयम्य मनसि स्थापयेद्यतिः 12232016c तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् 12232017a पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः 12232017c यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि 12232017e प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते 12232018a विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् 12232018c वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना 12232018e सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते 12232019a तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12232019c धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः 12232020a एवं परिमितं कालमाचरन्संशितव्रतः 12232020c आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् 12232021a प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने 12232021c अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः 12232022a प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः 12232022c तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् 12232023a कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः 12232023c गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् 12232024a संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव 12232024c एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः 12232025a येनोपायेन शक्येत संनियन्तुं चलं मनः 12232025c तं तं युक्तो निषेवेत न चैव विचलेत्ततः 12232026a शून्या गिरिगुहाश्चैव देवतायतनानि च 12232026c शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् 12232027a नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा 12232027c उपेक्षको यताहारो लब्धालब्धे समो भवेत् 12232028a यश्चैनमभिनन्देत यश्चैनमपवादयेत् 12232028c समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् 12232029a न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् 12232029c समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः 12232030a एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः 12232030c षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते 12232031a वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः 12232031c एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः 12232032a अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी 12232032c तावप्येतेन मार्गेण गच्छेतां परमां गतिम् 12232033a अजं पुराणमजरं सनातनं; यदिन्द्रियैरुपलभते नरोऽचलः 12232033c अणोरणीयो महतो महत्तरं; तदात्मना पश्यति युक्त आत्मवान् 12232034a इदं महर्षेर्वचनं महात्मनो; यथावदुक्तं मनसानुदृश्य च 12232034c अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां; प्रयान्ति यां भूतगतिं मनीषिणः 12233001 शुक उवाच 12233001a यदिदं वेदवचनं कुरु कर्म त्यजेति च 12233001c कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा 12233002a एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे 12233002c एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः 12233003 भीष्म उवाच 12233003a इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् 12233003c कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ 12233004a यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा 12233004c शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम् 12233005a अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् 12233005c तस्य पक्षस्य सदृशमिदं मम भवेदथ 12233006a द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः 12233006c प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः 12233007a कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते 12233007c तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः 12233008a कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः 12233008c विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः 12233009a कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः 12233009c तेन ते देहजालानि रमयन्त उपासते 12233010a ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः 12233010c न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव 12233011a कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ 12233011c विद्यया तदवाप्नोति यत्र गत्वा न शोचति 12233012a यत्र गत्वा न म्रियते यत्र गत्वा न जायते 12233012c न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते 12233013a यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम् 12233013c अव्याहतमनायासममृतं चावियोगि च 12233014a द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा 12233014c समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः 12233015a विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः 12233015c विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् 12233016a तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते 12233016c नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे 12233017a एकादशविकारात्मा कलासंभारसंभृतः 12233017c मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम् 12233018a देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे 12233018c क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम् 12233019a तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् 12233019c जीवमात्मगुणं विद्यादात्मानं परमात्मनः 12233020a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 12233020c ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त 12234001 शुक उवाच 12234001a क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च 12234001c बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् 12234002a भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् 12234002c यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् 12234003a वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च 12234003c कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि 12234004a लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् 12234004c कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः 12234005 व्यास उवाच 12234005a यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् 12234005c एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः 12234006a ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः 12234006c आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि 12234007a वने मूलफलाशी च तप्यन्सुविपुलं तपः 12234007c पुण्यायतनचारी च भूतानामविहिंसकः 12234008a विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये 12234008c काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे 12234009a निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे 12234009c अरण्ये विचरैकाकी येन केनचिदाशितः 12234010 शुक उवाच 12234010a यदिदं वेदवचनं लोकवादे विरुध्यते 12234010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12234011a इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे 12234011c कर्मणामविरोधेन कथमेतत्प्रवर्तते 12234012 भीष्म उवाच 12234012a इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् 12234012c ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः 12234013a गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः 12234013c यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् 12234014a एको य आश्रमानेताननुतिष्ठेद्यथाविधि 12234014c अकामद्वेषसंयुक्तः स परत्र महीयते 12234015a चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता 12234015c एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते 12234016a आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः 12234016c गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः 12234017a कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता 12234017c दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् 12234018a जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि 12234018c यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः 12234019a कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः 12234019c किंकरः सर्वकारी च सर्वकर्मसु कोविदः 12234020a शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः 12234020c चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः 12234021a नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् 12234021c न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च 12234022a उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् 12234022c दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् 12234023a अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति 12234023c इदं करिष्ये भगवन्निदं चापि कृतं मया 12234024a इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् 12234024c कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः 12234025a यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते 12234025c सेवेत तान्समावृत्त इति धर्मेषु निश्चयः 12234026a ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः 12234026c तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः 12234027a स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् 12234027c आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा 12234028a वेदव्रतोपवासेन चतुर्थे चायुषो गते 12234028c गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि 12234029a धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः 12234029c द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् 12235001 व्यास उवाच 12235001a द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् 12235001c धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः 12235002a गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः 12235002c कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम् 12235003a अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् 12235003c तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः 12235004a षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते 12235004c द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः 12235004e गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते 12235005a नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् 12235005c प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति 12235006a न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः 12235006c न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् 12235007a नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः 12235007c तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा 12235008a वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः 12235008c स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः 12235008e तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते 12235009a न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च 12235009c अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः 12235010a संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते 12235010c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 12235011a विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः 12235011c अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् 12235011e भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् 12235012a स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः 12235012c ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः 12235013a वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः 12235013c मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया 12235014a दुहित्रा दासवर्गेण विवादं न समाचरेत् 12235014c एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते 12235015a एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः 12235015c आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः 12235016a अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः 12235016c जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः 12235017a संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ 12235017c वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः 12235018a भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः 12235018c छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् 12235019a तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः 12235019c गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः 12235020a न चार्थबद्धः कर्माणि धर्मं वा कंचिदाचरेत् 12235020c गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् 12235021a परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् 12235021c ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता 12235022a कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा 12235022c यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते 12235023a दश पूर्वान्दश परान्पुनाति च पितामहान् 12235023c गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः 12235024a स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम् 12235024c यतेन्द्रियाणामथ वा गतिरेषा विधीयते 12235025a स्वर्गलोको गृहस्थानामुदारमनसां हितः 12235025c स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः 12235026a स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् 12235026c ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते 12235026e द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते 12235027a अतः परं परममुदारमाश्रमं; तृतीयमाहुस्त्यजतां कलेवरम् 12235027c वनौकसां गृहपतिनामनुत्तमं; शृणुष्वैतत्क्लिष्टशरीरकारिणाम् 12236001 भीष्म उवाच 12236001a प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् 12236001c तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर 12236002a क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् 12236002c संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् 12236003a श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् 12236003c प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् 12236004 व्यास उवाच 12236004a गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः 12236004c अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् 12236005a तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् 12236005c तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः 12236006a नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् 12236006c तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः 12236007a अकृष्टं वै व्रीहियवं नीवारं विघसानि च 12236007c हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु 12236008a वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः 12236008c सद्यःप्रक्षालकाः केचित्केचिन्मासिकसंचयाः 12236009a वार्षिकं संचयं केचित्केचिद्द्वादशवार्षिकम् 12236009c कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये 12236010a अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः 12236010c ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः 12236011a भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि 12236011c स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते 12236012a दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे 12236012c शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् 12236013a कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् 12236013c मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः 12236014a वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः 12236014c एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् 12236015a चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः 12236015c वानप्रस्थो गृहस्थश्च ततोऽन्यः संप्रवर्तते 12236016a अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः 12236016c अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः 12236017a सांकृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः 12236017c अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः 12236018a शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः 12236018c एवंधर्मसु विद्वांसस्ततः स्वर्गमुपागमन् 12236019a तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः 12236019c ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् 12236020a अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः 12236020c वैखानसा वालखिल्याः सिकताश्च तथापरे 12236021a कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः 12236021c गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः 12236021e अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः 12236022a जरया च परिद्यूनो व्याधिना च प्रपीडितः 12236022c चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् 12236022e सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् 12236023a आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः 12236023c आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् 12236024a सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा 12236024c सदैव याजिनां यज्ञादात्मनीज्या निवर्तते 12236025a त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् 12236025c प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् 12236026a केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः 12236026c आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः 12236027a अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः 12236027c लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते 12236028a सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते 12236028c अरोषमोहो गतसंधिविग्रहो; भवेदुदासीनवदात्मविन्नरः 12236029a यमेषु चैवात्मगतेषु न व्यथे;त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः 12236029c भवेद्यथेष्टा गतिरात्मयाजिनो; न संशयो धर्मपरे जितेन्द्रिये 12236030a ततः परं श्रेष्ठमतीव सद्गुणै;रधिष्ठितं त्रीनधिवृत्तमुत्तमम् 12236030c चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम् 12237001 शुक उवाच 12237001a वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा 12237001c योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् 12237002 व्यास उवाच 12237002a प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् 12237002c यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु 12237003a कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु 12237003c प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् 12237004a तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा 12237004c एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् 12237005a एकश्चरति यः पश्यन्न जहाति न हीयते 12237005c अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् 12237006a अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः 12237006c लघ्वाशी नियताहारः सकृदन्ननिषेविता 12237007a कपालं वृक्षमूलानि कुचेलमसहायता 12237007c उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् 12237008a यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव 12237008c न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् 12237009a नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् 12237009c ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन 12237010a यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् 12237010c तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः 12237011a येन पूर्णमिवाकाशं भवत्येकेन सर्वदा 12237011c शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः 12237012a येन केनचिदाच्छन्नो येन केनचिदाशितः 12237012c यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः 12237013a अहेरिव गणाद्भीतः सौहित्यान्नरकादिव 12237013c कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः 12237014a न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः 12237014c सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः 12237015a नाभिनन्देत मरणं नाभिनन्देत जीवितम् 12237015c कालमेव प्रतीक्षेत निदेशं भृतको यथा 12237016a अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा 12237016c निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् 12237017a अभयं सर्वभूतेभ्यो भूतानामभयं यतः 12237017c तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन 12237018a यथा नागपदेऽन्यानि पदानि पदगामिनाम् 12237018c सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे 12237019a एवं सर्वमहिंसायां धर्मार्थमपिधीयते 12237019c अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते 12237020a अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः 12237020c शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् 12237021a एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः 12237021c न मृत्युरतिगो भावः स मृत्युमधिगच्छति 12237022a विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् 12237022c अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः 12237023a जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च 12237023c अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः 12237024a निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् 12237024c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12237025a सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति 12237025c तेषां भयोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः 12237026a दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्यधितिष्ठतीह 12237026c तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः 12237027a उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा 12237027c तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे 12237028a प्रादेशमात्रे हृदि निश्रितं य;त्तस्मिन्प्राणानात्मयाजी जुहोति 12237028c तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु 12237029a दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च 12237029c ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति 12237030a वेदांश्च वेद्यं च विधिं च कृत्स्न;मथो निरुक्तं परमार्थतां च 12237030c सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम् 12237031a भूमावसक्तं दिवि चाप्रमेयं; हिरण्मयं योऽण्डजमण्डमध्ये 12237031c पतत्रिणं पक्षिणमन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः 12237032a आवर्तमानमजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व 12237032c यस्येदमास्ये परियाति विश्वं; तत्कालचक्रं निहितं गुहायाम् 12237033a यः संप्रसादं जगतः शरीरं; सर्वान्स लोकानधिगच्छतीह 12237033c तस्मिन्हुतं तर्पयतीह देवां;स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य 12237034a तेजोमयो नित्यतनुः पुराणो; लोकाननन्तानभयानुपैति 12237034c भूतानि यस्मान्न त्रसन्ते कदाचि;त्स भूतेभ्यो न त्रसते कदाचित् 12237035a अगर्हणीयो न च गर्हतेऽन्या;न्स वै विप्रः परमात्मानमीक्षेत् 12237035c विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च योऽर्थमृच्छति 12237036a अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः 12237036c अपेतनिन्दास्तुतिरप्रियाप्रिय;श्चरन्नुदासीनवदेष भिक्षुकः 12238001 व्यास उवाच 12238001a प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः 12238001c ते चैनं न प्रजानन्ति स तु जानाति तानपि 12238002a तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः 12238002c सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः 12238003a इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः 12238003c मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः 12238004a महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् 12238004c अमृतान्न परं किंचित्सा काष्ठा सा परा गतिः 12238005a एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते 12238005c दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 12238006a अन्तरात्मनि संलीय मनःषष्ठानि मेधया 12238006c इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन् 12238007a ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः 12238007c अनीश्वरः प्रशान्तात्मा ततोऽर्छत्यमृतं पदम् 12238008a इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः 12238008c आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते 12238009a हित्वा तु सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् 12238009c सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् 12238010a चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम् 12238010c प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते 12238011a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12238011c निवाते वा यथा दीपो दीप्यमानो न कम्पते 12238012a एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना 12238012c सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि 12238013a रहस्यं सर्ववेदानामनैतिह्यमनागमम् 12238013c आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् 12238014a धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु 12238014c दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम् 12238015a नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च 12238015c तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् 12238015e स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् 12238016a तदिदं नाप्रशान्ताय नादान्तायातपस्विने 12238016c नावेदविदुषे वाच्यं तथा नानुगताय च 12238017a नासूयकायानृजवे न चानिर्दिष्टकारिणे 12238017c न तर्कशास्त्रदग्धाय तथैव पिशुनाय च 12238018a श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने 12238018c इदं प्रियाय पुत्राय शिष्यायानुगताय च 12238018e रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन 12238019a यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः 12238019c इदमेव ततः श्रेय इति मन्येत तत्त्ववित् 12238020a अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् 12238020c यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते 12238020e तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि 12239001 शुक उवाच 12239001a अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे 12239001c यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम 12239002 व्यास उवाच 12239002a अध्यात्मं यदिदं तात पुरुषस्येह विद्यते 12239002c तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु 12239003a भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च 12239003c महाभूतानि भूतानां सागरस्योर्मयो यथा 12239004a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12239004c तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते 12239005a इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् 12239005c सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा 12239006a महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् 12239006c अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति 12239007 शुक उवाच 12239007a अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् 12239007c इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् 12239008 व्यास उवाच 12239008a एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् 12239008c शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् 12239009a शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् 12239009c प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः 12239010a रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते 12239010c रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् 12239011a घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः 12239011c एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः 12239012a वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते 12239012c आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः 12239013a मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः 12239013c न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः 12239014a इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते 12239014c सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् 12239015a चक्षुरालोचनायैव संशयं कुरुते मनः 12239015c बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते 12239016a रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः 12239016c समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् 12239017a यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति 12239017c एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति 12239018a यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति 12239018c एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा 12239019a गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि 12239019c मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः 12239020a तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् 12239020c प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् 12239021a यत्तु संतापसंयुक्तं काये मनसि वा भवेत् 12239021c रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् 12239022a यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् 12239022c अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् 12239023a प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता 12239023c अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः 12239024a अभिमानो मृषावादो लोभो मोहस्तथाक्षमा 12239024c लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः 12239025a तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता 12239025c कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः 12240001 व्यास उवाच 12240001a मनः प्रसृजते भावं बुद्धिरध्यवसायिनी 12240001c हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना 12240002a इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः 12240002c मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः 12240003a बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका 12240003c यदा विकुरुते भावं तदा भवति सा मनः 12240004a इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु 12240004c शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते 12240005a पश्यन्ती भवते दृष्टी रसती रसनं भवेत् 12240005c जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् 12240006a इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति 12240006c तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते 12240007a कदाचिल्लभते प्रीतिं कदाचिदपि शोचते 12240007c न सुखेन न दुःखेन कदाचिदिह युज्यते 12240008a सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते 12240008c सरितां सागरो भर्ता महावेलामिवोर्मिमान् 12240009a यदा प्रार्थयते किंचित्तदा भवति सा मनः 12240009c अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् 12240009e इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः 12240010a सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते 12240010c अविभागगता बुद्धिर्भावे मनसि वर्तते 12240010e प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते 12240011a ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु 12240011c अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव 12240012a प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः 12240012c निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया 12240013a एवंस्वभावमेवेदमिति विद्वान्न मुह्यति 12240013c अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः 12240014a न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः 12240014c प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः 12240015a तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति 12240015c तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् 12240015e सर्वेषामेव भूतानां तमस्यपगते यथा 12240016a यथा वारिचरः पक्षी न लिप्यति जले चरन् 12240016c एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् 12240016e असज्जमानः सर्वेषु न कथंचन लिप्यते 12240017a त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि 12240017c सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः 12240018a सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न 12240018c न गुणा विदुरात्मानं गुणान्वेद स सर्वदा 12240019a परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् 12240019c सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः 12240020a सृजते तु गुणानेक एको न सृजते गुणान् 12240020c पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा 12240021a यथा मत्स्योऽद्भिरन्यः सन्संप्रयुक्तौ तथैव तौ 12240021c मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह 12240022a इषीका वा यथा मुञ्जे पृथक्च सह चैव च 12240022c तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ 12241001 व्यास उवाच 12241001a सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति 12241001c गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः 12241002a स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् 12241002c ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् 12241003a प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते 12241003c एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे 12241004a उभयं संप्रधार्यैतदध्यवस्येद्यथामति 12241004c अनेनैव विधानेन भवेद्गर्भशयो महान् 12241005a अनादिनिधनं नित्यमासाद्य विचरेन्नरः 12241005c अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः 12241006a इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् 12241006c अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः 12241007a तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः 12241007c अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा 12241008a न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् 12241008c एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः 12241009a एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् 12241009c समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम् 12241010a एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः 12241010c आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् 12241011a एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् 12241011c विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः 12241012a न भवति विदुषां महद्भयं; यदविदुषां सुमहद्भयं भवेत् 12241012c न हि गतिरधिकास्ति कस्यचि;द्भवति हि या विदुषः सनातनी 12241013a लोकमातुरमसूयते जन;स्तत्तदेव च निरीक्ष्य शोचते 12241013c तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं कृताकृतम् 12241014a यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम् 12241014c न प्रियं तदुभयं न चाप्रियं; तस्य तज्जनयतीह कुर्वतः 12242001 शुक उवाच 12242001a यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन 12242001c यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे 12242002 व्यास उवाच 12242002a धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम् 12242002c विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु 12242003a इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः 12242003c सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् 12242004a मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः 12242004c तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते 12242005a तानि सर्वाणि संधाय मनःषष्ठानि मेधया 12242005c आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् 12242006a गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि 12242006c तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम् 12242007a सर्वात्मानं महात्मानं विधूममिव पावकम् 12242007c तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः 12242008a यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः 12242008c आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् 12242009a एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम् 12242009c अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति 12242010a ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना 12242010c दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित् 12242011a विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः 12242011c परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः 12242012a सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् 12242012c पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् 12242013a लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् 12242013c सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् 12242014a अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः 12242014c प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् 12242015a संसारसागरगमां योनिपातालदुस्तराम् 12242015c आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् 12242016a यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः 12242016c तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः 12242017a उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि 12242017c संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः 12242018a भूमिष्ठानीव भूतानि पर्वतस्थो निशामय 12242018c अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा 12242018e ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ 12242019a एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः 12242019c धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः 12242020a आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् 12242020c प्रयताय प्रवक्तव्यं हितायानुगताय च 12242021a आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् 12242021c अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा 12242022a नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् 12242022c अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् 12242023a नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् 12242023c अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते 12242024a यथा मतानि सर्वाणि न चैतानि यथा तथा 12242024c कथितानि मया पुत्र भवन्ति न भवन्ति च 12242025a तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन 12242025c पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत् 12243001 व्यास उवाच 12243001a गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालंकारांश्चाप्नुयात्तस्य तस्य 12243001c मानं च कीर्तिं च यशश्च नेच्छे;त्स वै प्रचारः पश्यतो ब्राह्मणस्य 12243002a सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् 12243002c ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः 12243003a ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् 12243003c नाकामो म्रियते जातु न तेन न च ब्राह्मणः 12243004a इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् 12243004c नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन 12243005a यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 12243005c यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12243006a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12243006c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12243007a कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् 12243007c कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते 12243008a कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः 12243008c विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते 12243009a आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत् 12243009c स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही 12243010a वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः 12243010c दमस्योपनिषद्दानं दानस्योपनिषत्तपः 12243011a तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् 12243011c सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः 12243012a क्लेदनं शोकमनसोः संतापं तृष्णया सह 12243012c सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम् 12243013a विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः 12243013c षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति 12243014a षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः 12243014c ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः 12243015a अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् 12243015c अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते 12243016a निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः 12243016c यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा 12243017a येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् 12243017c येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् 12243018a संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् 12243018c यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते 12243019a समाहितं परे तत्त्वे क्षीणकाममवस्थितम् 12243019c सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा 12243020a सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः 12243020c सुखेनापोह्यते दुःखं भास्करेण तमो यथा 12243021a तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् 12243021c ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः 12243022a स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते 12243022c इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते 12243023a कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् 12243023c पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम् 12244001 व्यास उवाच 12244001a द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः 12244001c वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् 12244002a आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी 12244002c भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु 12244003a अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् 12244003c तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित् 12244004a चरणं मारुतात्मेति प्राणापानौ च तन्मयौ 12244004c स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् 12244005a ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् 12244005c तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम् 12244006a प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते 12244006c रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः 12244007a संघातः पार्थिवो धातुरस्थिदन्तनखानि च 12244007c श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च 12244008a इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते 12244008c गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः 12244009a उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः 12244009c पञ्चानां भूतसंघानां संततिं मुनयो विदुः 12244010a मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता 12244010c एकादशोऽन्तरात्मा च सर्वतः पर उच्यते 12244011a व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् 12244011c कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः 12244012a एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम् 12244012c पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते 12245001 व्यास उवाच 12245001a शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् 12245001c कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः 12245002a यथा मरीच्यः सहिताश्चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः 12245002c देहैर्विमुक्ता विचरन्ति लोकां;स्तथैव सत्त्वान्यतिमानुषाणि 12245003a प्रतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते 12245003c सत्त्ववांस्तु तथा सत्त्वं प्रतिरूपं प्रपश्यति 12245004a तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः 12245004c स्वेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः 12245005a स्वपतां जाग्रतां चैव सर्वेषामात्मचिन्तितम् 12245005c प्रधानद्वैधयुक्तानां जहतां कर्मजं रजः 12245006a यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि 12245006c वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् 12245007a तेषां नित्यं सदानित्यो भूतात्मा सततं गुणैः 12245007c सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः 12245008a मनोबुद्धिपराभूतः स्वदेहपरदेहवित् 12245008c स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः 12245009a तत्रापि लभते दुःखं तत्रापि लभते सुखम् 12245009c क्रोधलोभौ तु तत्रापि कृत्वा व्यसनमर्छति 12245010a प्रीणितश्चापि भवति महतोऽर्थानवाप्य च 12245010c करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति 12245011a तमेवमतितेजोंशं भूतात्मानं हृदि स्थितम् 12245011c तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु 12245012a शास्त्रयोगपरा भूत्वा स्वमात्मानं परीप्सवः 12245012c अनुच्छ्वासान्यमूर्तीनि यानि वज्रोपमान्यपि 12245013a पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु 12245013c समाधौ योगमेवैतच्छाण्डिल्यः शममब्रवीत् 12245014a विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् 12245014c प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति 12246001 व्यास उवाच 12246001a हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः 12246001c क्रोधमानमहास्कन्धो विवित्सापरिमोचनः 12246002a तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् 12246002c सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान् 12246003a संमोहचिन्ताविटपः शोकशाखो भयंकरः 12246003c मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः 12246004a उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः 12246004c आयासैः संयतः पाशैः फलानि परिवेष्टयन् 12246005a यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति 12246005c गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः 12246006a संरोहत्यकृतप्रज्ञः संतापेन हि पादपम् 12246006c स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम् 12246007a तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात् 12246007c त्यागाप्रमादाकृतिना साम्येन परमासिना 12246008a एवं यो वेद कामस्य केवलं परिकर्षणम् 12246008c वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते 12246009a शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते 12246009c तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् 12246010a इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः 12246010c तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा 12246011a यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः 12246011c अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः 12246012a तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते 12246012c पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः 12246013a यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति 12246013c यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति 12246014a पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम् 12246014c तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते 12246015a तन्मनः कुरुते सख्यं रजसा सह संगतम् 12246015c तं चादाय जनं पौरं रजसे संप्रयच्छति 12247001 भीष्म उवाच 12247001a भूतानां गुणसंख्यानं भूयः पुत्र निशामय 12247001c द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ 12247002a दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे 12247002c ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् 12247003a भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता 12247003c गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः 12247004a अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता 12247004c जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा 12247005a अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम् 12247005c शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता 12247006a वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता 12247006c बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः 12247007a आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च 12247007c अनाश्रयमनालम्बमव्यक्तमविकारिता 12247008a अप्रतीघातता चैव भूतत्वं विकृतानि च 12247008c गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः 12247009a चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा 12247009c सदसच्चाशुता चैव मनसो नव वै गुणाः 12247010a इष्टानिष्टविकल्पश्च व्यवसायः समाधिता 12247010c संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः 12247011 युधिष्ठिर उवाच 12247011a कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः 12247011c एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह 12247012 भीष्म उवाच 12247012a आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः 12247012c भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति 12247013a तत्पुत्र चिन्ताकलितं यदुक्त;मनागतं वै तव संप्रतीह 12247013c भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तबुद्धिः 12248001 युधिष्ठिर उवाच 12248001a य इमे पृथिवीपालाः शेरते पृथिवीतले 12248001c पृतनामध्य एते हि गतसत्त्वा महाबलाः 12248002a एकैकशो भीमबला नागायुतबलास्तथा 12248002c एते हि निहताः संख्ये तुल्यतेजोबलैर्नरैः 12248003a नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा 12248003c विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः 12248004a अथ चेमे महाप्राज्ञ शेरते हि गतासवः 12248004c मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु 12248005a इमे मृता नृपतयः प्रायशो भीमविक्रमाः 12248005c तत्र मे संशयो जातः कुतः संज्ञा मृता इति 12248006a कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः 12248006c हरत्यमरसंकाश तन्मे ब्रूहि पितामह 12248007 भीष्म उवाच 12248007a पुरा कृतयुगे तात राजासीदविकम्पकः 12248007c स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः 12248008a तत्र पुत्रो हरिर्नाम नारायणसमो बले 12248008c स शत्रुभिर्हतः संख्ये सबलः सपदानुगः 12248009a स राजा शत्रुवशगः पुत्रशोकसमन्वितः 12248009c यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् 12248010a स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः 12248010c शत्रुभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा 12248011a तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः 12248011c आख्यानमिदमाचष्ट पुत्रशोकापहं तदा 12248012a राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम् 12248012c यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप 12248013a प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः 12248013c अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः 12248014a न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत 12248014c निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप 12248015a तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते 12248015c चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् 12248016a तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत 12248016c तेन सर्वा दिशो राजन्ददाह स पितामहः 12248017a ततो दिवं भुवं खं च जगच्च सचराचरम् 12248017c ददाह पावको राजन्भगवत्कोपसंभवः 12248018a तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च 12248018c महता कोपवेगेन कुपिते प्रपितामहे 12248019a ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः 12248019c जगाद शरणं देवो ब्रह्माणं परवीरहा 12248020a तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया 12248020c अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् 12248021a करवाण्यद्य कं कामं वरार्होऽसि मतो मम 12248021c कर्ता ह्यस्मि प्रियं शंभो तव यद्धृदि वर्तते 12249001 स्थाणुरुवाच 12249001a प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो 12249001c विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह 12249002a तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः 12249002c ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो 12249003 प्रजापतिरुवाच 12249003a न कुप्ये न च मे कामो न भवेरन्प्रजा इति 12249003c लाघवार्थं धरण्यास्तु ततः संहार इष्यते 12249004a इयं हि मां सदा देवी भारार्ता समचोदयत् 12249004c संहारार्थं महादेव भारेणाप्सु निमज्जति 12249005a यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् 12249005c संहारमासां वृद्धानां ततो मां क्रोध आविशत् 12249006 स्थाणुरुवाच 12249006a संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर 12249006c मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः 12249007a पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् 12249007c स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् 12249008a तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् 12249008c प्रसीद भगवन्साधो वर एष वृतो मया 12249009a नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन 12249009c तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा 12249010a उपायमन्यं संपश्य प्रजानां हितकाम्यया 12249010c यथेमे जन्तवः सर्वे निवर्तेरन्परंतप 12249011a अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः 12249011c अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर 12249012a त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम् 12249012c प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः 12249013 नारद उवाच 12249013a श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः 12249013c तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना 12249014a ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः 12249014c प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः 12249015a उपसंहरतस्तस्य तमग्निं रोषजं तदा 12249015c प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः 12249016a कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा 12249016c दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता 12249017a सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् 12249017c ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ 12249018a तामाहूय तदा देवो लोकानामादिरीश्वरः 12249018c मृत्यो इति महीपाल जहि चेमाः प्रजा इति 12249019a त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च 12249019c तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः 12249020a अविशेषेण चैव त्वं प्रजाः संहर भामिनि 12249020c मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि 12249021a एवमुक्ता तु सा देवी मृत्युः कमलमालिनी 12249021c प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि 12249022a पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः 12249022c मानवानां हितार्थाय ययाचे पुनरेव च 12250001 नारद उवाच 12250001a विनीय दुःखमबला सा त्वतीवायतेक्षणा 12250001c उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा 12250002a त्वया सृष्टा कथं नारी मादृशी वदतां वर 12250002c रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी 12250003a बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे 12250003c त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा 12250004a बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः 12250004c प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे 12250005a प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि 12250005c अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् 12250006a कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः 12250006c तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता 12250007a यमस्य भवने देव यात्यन्ते पापकर्मिणः 12250007c प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो 12250008a एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह 12250008c इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर 12250009 पितामह उवाच 12250009a मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना 12250009c गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय 12250010a एतदेवमवश्यं हि भविता नैतदन्यथा 12250010c क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे 12250011 नारद उवाच 12250011a एवमुक्ता महाबाहो मृत्युः परपुरंजय 12250011c न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी 12250012a पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी 12250012c तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः 12250013a प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् 12250013c स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत 12250014a निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते 12250014c सा कन्यापजगामास्य समीपादिति नः श्रुतम् 12250015a अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा 12250015c त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् 12250016a सा तत्र परमं देवी तपोऽचरत दुश्चरम् 12250016c समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च 12250017a तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् 12250017c पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् 12250018a कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा 12250018c तथैवैकपदे तात पुनरन्यानि सप्त सा 12250019a तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद 12250019c भूयः पद्मायुतं तात मृगैः सह चचार सा 12250020a पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् 12250020c अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव 12250021a ततो जगाम सा कन्या कौशिकीं भरतर्षभ 12250021c तत्र वायुजलाहारा चचार नियमं पुनः 12250022a ततो ययौ महाभागा गङ्गां मेरुं च केवलम् 12250022c तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया 12250023a ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे 12250023c तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः 12250023e तस्थौ पितामहं चैव तोषयामास यत्नतः 12250024a ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः 12250024c किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम 12250025a ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् 12250025c न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये 12250026a तामधर्मभयत्रस्तां पुनरेव च याचतीम् 12250026c तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः 12250027a अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे 12250027c मया ह्युक्तं मृषा भद्रे भविता नेह किंचन 12250028a धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते 12250028c अहं च विबुधाश्चैव त्वद्धिते निरताः सदा 12250029a इममन्यं च ते कामं ददामि मनसेप्सितम् 12250029c न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः 12250030a पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि 12250030c स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् 12250031a सैवमुक्ता महाराज कृताञ्जलिरुवाच ह 12250031c पुनरेव महात्मानं नेति देवेशमव्ययम् 12250032a तामब्रवीत्तदा देवो मृत्यो संहर मानवान् 12250032c अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे 12250033a यानश्रुबिन्दून्पतितानपश्यं; ये पाणिभ्यां धारितास्ते पुरस्तात् 12250033c ते व्याधयो मानवान्घोररूपाः; प्राप्ते काले पीडयिष्यन्ति मृत्यो 12250034a सर्वेषां त्वं प्राणिनामन्तकाले; कामक्रोधौ सहितौ योजयेथाः 12250034c एवं धर्मस्त्वामुपैष्यत्यमेयो; न चाधर्मं लप्स्यसे तुल्यवृत्तिः 12250035a एवं धर्मं पालयिष्यस्यथोक्तं; न चात्मानं मज्जयिष्यस्यधर्मे 12250035c तस्मात्कामं रोचयाभ्यागतं त्वं; संयोज्याथो संहरस्वेह जन्तून् 12250036a सा वै तदा मृत्युसंज्ञापदेशा;च्छापाद्भीता बाढमित्यब्रवीत्तम् 12250036c अथो प्राणान्प्राणिनामन्तकाले; कामक्रोधौ प्राप्य निर्मोह्य हन्ति 12250037a मृत्योर्ये ते व्याधयश्चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम् 12250037c सर्वेषां वै प्राणिनां प्राणनान्ते; तस्माच्छोकं मा कृथा बुध्य बुद्ध्या 12250038a सर्वे देवाः प्राणिनां प्राणनान्ते; गत्वा वृत्ताः संनिवृत्तास्तथैव 12250038c एवं सर्वे मानवाः प्राणनान्ते; गत्वावृत्ता देववद्राजसिंह 12250039a वायुर्भीमो भीमनादो महौजाः; सर्वेषां च प्राणिनां प्राणभूतः 12250039c नानावृत्तिर्देहिनां देहभेदे; तस्माद्वायुर्देवदेवो विशिष्टः 12250040a सर्वे देवा मर्त्यसंज्ञाविशिष्टाः; सर्वे मर्त्या देवसंज्ञाविशिष्टाः 12250040c तस्मात्पुत्रं मा शुचो राजसिंह; पुत्रः स्वर्गं प्राप्य ते मोदते ह 12250041a एवं मृत्युर्देवसृष्टा प्रजानां; प्राप्ते काले संहरन्ती यथावत् 12250041c तस्याश्चैव व्याधयस्तेऽश्रुपाताः; प्राप्ते काले संहरन्तीह जन्तून् 12251001 युधिष्ठिर उवाच 12251001a इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः 12251001c कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह 12251002a धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् 12251002c उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह 12251003 भीष्म उवाच 12251003a सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् 12251003c चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् 12251004a अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे 12251004c लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः 12251004e उभयत्र सुखोदर्क इह चैव परत्र च 12251005a अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति 12251005c न च पापकृतः पापान्मुच्यन्ते केचिदापदि 12251006a अपापवादी भवति यदा भवति धर्मवित् 12251006c धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे 12251007a यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः 12251007c रमते निर्हरन्स्तेनः परवित्तमराजके 12251008a यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति 12251008c तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः 12251009a अभीतः शुचिरभ्येति राजद्वारमशङ्कितः 12251009c न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति 12251010a सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 12251010c सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् 12251011a अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् 12251011c अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः 12251011e ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् 12251012a न हर्तव्यं परधनमिति धर्मः सनातनः 12251012c मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् 12251012e यदा नियतिदौर्बल्यमथैषामेव रोचते 12251013a न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा 12251013c तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन 12251014a असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः 12251014c न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् 12251015a सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् 12251015c बहुधाचरितं पापमन्यत्रैवानुपश्यति 12251016a मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा 12251016c न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति 12251017a दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः 12251017c तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् 12251018a यदा नियतिकार्पण्यमथैषामेव रोचते 12251018c न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा 12251019a यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः 12251019c न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः 12251020a योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति 12251020c यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः 12251021a जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् 12251021c यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् 12251022a अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान् 12251022c एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम् 12251023a यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत् 12251023c अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना 12251024a सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः 12251024c पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर 12251025a लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा 12251025c सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् 12251026a धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम 12251026c तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन 12252001 युधिष्ठिर उवाच 12252001a सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् 12252001c प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः 12252002a भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया 12252002c इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव 12252003a इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च 12252003c न धर्मः परिपाठेन शक्यो भारत वेदितुम् 12252004a अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः 12252004c आपदस्तु कथं शक्याः परिपाठेन वेदितुम् 12252005a सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः 12252005c साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् 12252006a दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् 12252006c धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् 12252007a पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः 12252007c वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम् 12252008a अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे 12252008c अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 12252009a आम्नायवचनं सत्यमित्ययं लोकसंग्रहः 12252009c आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः 12252010a ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते 12252010c प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 12252011a धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 12252011c या या विक्रियते संस्था ततः सापि प्रणश्यति 12252012a विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा 12252012c अणीयान्क्षुरधाराया गरीयान्पर्वतादपि 12252013a गन्धर्वनगराकारः प्रथमं संप्रदृश्यते 12252013c अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् 12252014a निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत 12252014c स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते 12252015a कामादन्ये क्षयादन्ये कारणैरपरैस्तथा 12252015c असन्तो हि वृथाचारं भजन्ते बहवोऽपरे 12252016a धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु 12252016c अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत 12252017a महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः 12252017c न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते 12252018a तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः 12252018c दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया 12252019a येनैवान्यः प्रभवति सोऽपरानपि बाधते 12252019c आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् 12252020a चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः 12252020c तेनाचारेण पूर्वेण संस्था भवति शाश्वती 12253001 भीष्म उवाच 12253001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12253001c तुलाधारस्य वाक्यानि धर्मे जाजलिना सह 12253002a वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः 12253002c सागरोद्देशमागम्य तपस्तेपे महातपाः 12253003a नियतो नियताहारश्चीराजिनजटाधरः 12253003c मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः 12253004a स कदाचिन्महातेजा जलवासो महीपते 12253004c चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः 12253005a स चिन्तयामास मुनिर्जलमध्ये कदाचन 12253005c विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् 12253006a न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे 12253006c अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै 12253007a स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः 12253007c अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि 12253008a तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः 12253008c सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम 12253009a इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः 12253009c पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् 12253010a इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् 12253010c अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम 12253011a इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा 12253011c वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः 12253012 युधिष्ठिर उवाच 12253012a किं कृतं सुकृतं कर्म तात जाजलिना पुरा 12253012c येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि 12253013 भीष्म उवाच 12253013a अतीव तपसा युक्तो घोरेण स बभूव ह 12253013c नद्युपस्पर्शनरतः सायं प्रातर्महातपाः 12253014a अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः 12253014c वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया 12253015a सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत 12253015c वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः 12253016a वातातपसहो ग्रीष्मे न च धर्ममविन्दत 12253016c दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् 12253017a ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः 12253017c अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः 12253018a अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो 12253018c अरण्यगमनान्नित्यं मलिनो मलसंयुताः 12253019a स कदाचिन्निराहारो वायुभक्षो महातपाः 12253019c तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् 12253020a तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत 12253020c कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः 12253021a स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती 12253021c कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः 12253022a यदा स न चलत्येव स्थाणुभूतो महातपाः 12253022c ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा 12253023a अतीतास्वथ वर्षासु शरत्काल उपस्थिते 12253023c प्राजापत्येन विधिना विश्वासात्काममोहितौ 12253024a तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ 12253024c तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः 12253025a बुद्ध्वा च स महातेजा न चचालैव जाजलिः 12253025c धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् 12253026a अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि 12253026c आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो 12253027a अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः 12253027c व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः 12253028a स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः 12253028c तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः 12253029a ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः 12253029c बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् 12253030a ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः 12253030c बभूव परमप्रीतस्तदा मतिमतां वरः 12253031a तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् 12253031c शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह 12253032a जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् 12253032c सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः 12253033a कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् 12253033c त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः 12253034a अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप 12253034c उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः 12253035a कदाचिद्दिवसान्पञ्च समुत्पत्य विहंगमाः 12253035c षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः 12253036a क्रमेण च पुनः सर्वे दिवसानि बहून्यपि 12253036c नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा 12253037a कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः 12253037c नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः 12253038a ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः 12253038c सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् 12253039a स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः 12253039c संभावितात्मा संभाव्य भृशं प्रीतस्तदाभवन् 12253040a स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् 12253040c उदयन्तमथादित्यमभ्यगच्छन्महातपाः 12253041a संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः 12253041c आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै 12253042a अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः 12253042c धर्मेण न समस्त्वं वै तुलाधारस्य जाजले 12253043a वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः 12253043c सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज 12253044a सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया 12253044c पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः 12253045a कालेन महतागच्छत्स तु वाराणसीं पुरीम् 12253045c विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः 12253046a सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः 12253046c समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् 12253047 तुलाधार उवाच 12253047a आयानेवासि विदितो मम ब्रह्मन्न संशयः 12253047c ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम 12253048a सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् 12253048c न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन 12253049a ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः 12253049c क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया 12253050a जातपक्षा यदा ते च गताश्चारीमितस्ततः 12253050c मन्यमानस्ततो धर्मं चटकप्रभवं द्विज 12253050e खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम 12253051a अमर्षवशमापन्नस्ततः प्राप्तो भवानिह 12253051c करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम 12254001 भीष्म उवाच 12254001a इत्युक्तः स तदा तेन तुलाधारेण धीमता 12254001c प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः 12254002a विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज 12254002c वनस्पतीनोषधीश्च तेषां मूलफलानि च 12254003a अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम् 12254003c एतदाचक्ष्व मे सर्वं निखिलेन महामते 12254004a एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना 12254004c उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् 12254004e जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप 12254005a वेदाहं जाजले धर्मं सरहस्यं सनातनम् 12254005c सर्वभूतहितं मैत्रं पुराणं यं जना विदुः 12254006a अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः 12254006c या वृत्तिः स परो धर्मस्तेन जीवामि जाजले 12254007a परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् 12254007c अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा 12254008a रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून् 12254008c क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया 12254009a सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः 12254009c कर्मणा मनसा वाचा स धर्मं वेद जाजले 12254010a नाहं परेषां कर्माणि प्रशंसामि शपामि वा 12254010c आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम् 12254011a नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये 12254011c समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् 12254012a इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः 12254012c तुला मे सर्वभूतेषु समा तिष्ठति जाजले 12254013a इति मां त्वं विजानीहि सर्वलोकस्य जाजले 12254013c समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् 12254014a यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा 12254014c देवैरपिहितद्वाराः सोपमा पश्यतो मम 12254015a यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति 12254015c तथार्थकामभोगेषु ममापि विगता स्पृहा 12254016a यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 12254016c यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः 12254017a यदा न कुरुते भावं सर्वभूतेषु पापकम् 12254017c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12254018a न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन 12254018c योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् 12254019a यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव 12254019c वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् 12254020a यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् 12254020c अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् 12254021a प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः 12254021c तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते 12254022a आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् 12254022c एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा 12254023a नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया 12254023c यदृच्छयैव काष्ठेन संधिं गच्छेत केनचित् 12254024a तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः 12254024c तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया 12254024e एवमेवायमाचारः प्रादुर्भूतो यतस्ततः 12254025a यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन 12254025c अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने 12254026a यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव 12254026c क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः 12254027a सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा 12254027c ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत 12254027e कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः 12254028a तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा 12254028c प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते 12254029a लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् 12254029c स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् 12254029e न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन 12254030a यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन 12254030c सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने 12254031a यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 12254031c न स धर्ममवाप्नोति इह लोके परत्र च 12254032a सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः 12254032c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12254033a दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् 12254033c ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले 12254034a स एव सुभगो भूत्वा पुनर्भवति दुर्भगः 12254034c व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा 12254035a अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले 12254035c भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् 12254036a सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः 12254036c उपलभ्यान्तरा चान्यानाचारानवबुध्यते 12254037a ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् 12254037c वहन्ति महतो भारान्बध्नन्ति दमयन्ति च 12254038a हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे 12254038c मानुषा मानुषानेव दासभोगेन भुञ्जते 12254039a वधबन्धविरोधेन कारयन्ति दिवानिशम् 12254039c आत्मना चापि जानासि यद्दुःखं वधताडने 12254040a पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् 12254040c आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः 12254041a तानि जीवानि विक्रीय का मृतेषु विचारणा 12254041c का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा 12254042a अदंशमशके देशे सुखं संवर्धितान्पशून् 12254042c तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः 12254042e बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् 12254043a वाहसंपीडिता धुर्याः सीदन्त्यविधिनापरे 12254043c न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा 12254044a कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा 12254044c भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् 12254044e तथैवानडुहो युक्तान्समवेक्षस्व जाजले 12254045a अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति 12254045c महच्चकाराकुशलं पृषध्रो गालभन्निव 12254046a ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् 12254046c गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् 12254046e अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् 12254047a शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् 12254047c ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले 12254047e भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः 12254048a इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः 12254048c ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् 12254049a ईदृशानशिवान्घोरानाचारानिह जाजले 12254049c केवलाचरितत्वात्तु निपुणान्नावबुध्यसे 12254050a कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत् 12254050c यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले 12254051a समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये 12254051c एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः 12254052a उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते 12254052c सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः 12255001 जाजलिरुवाच 12255001a यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया 12255001c स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते 12255002a कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि 12255002c पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज 12255003a यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि 12255003c न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम् 12255004 तुलाधार उवाच 12255004a वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः 12255004c न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः 12255005a नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः 12255005c स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः 12255006a लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम् 12255006c वेदवादानविज्ञाय सत्याभासमिवानृतम् 12255007a इदं देयमिदं देयमिति नान्तं चिकीर्षति 12255007c अतः स्तैन्यं प्रभवति विकर्माणि च जाजले 12255007e तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः 12255008a नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा 12255008c पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् 12255009a इष्टापूर्तादसाधूनां विषमा जायते प्रजा 12255009c लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः 12255010a यजमानो यथात्मानमृत्विजश्च तथा प्रजाः 12255010c यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् 12255011a अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति 12255011c आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः 12255012a तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे 12255012c अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् 12255012e न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किंचन 12255013a शङ्कमानाः फलं यज्ञे ये यजेरन्कथंचन 12255013c जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः 12255014a स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा 12255014c प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः 12255014e पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम 12255015a कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् 12255015c ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः 12255016a विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम 12255016c सर्वभूतोपघातश्च फलभावे च संयमः 12255017a सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः 12255017c उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः 12255018a क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः 12255018c ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि 12255019a अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् 12255019c तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले 12255020a यथा सर्वरसैस्तृप्तो नाभिनन्दति किंचन 12255020c तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया 12255021a धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा 12255021c अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः 12255022a ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः 12255022c अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् 12255023a यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च 12255023c ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः 12255024a नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः 12255024c सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया 12255025a वनस्पतीनोषधीश्च फलमूलं च ते विदुः 12255025c न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः 12255026a स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः 12255026c परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया 12255027a प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै 12255027c इति मे वर्तते बुद्धिः समा सर्वत्र जाजले 12255028a प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ 12255028c तेन ते देवयानेन पथा यान्ति महामुने 12255029a आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् 12255029c उभौ तौ देवयानेन गच्छतो जाजले पथा 12255030a स्वयं चैषामनडुहो युज्यन्ति च वहन्ति च 12255030c स्वयमुस्राश्च दुह्यन्ते मनःसंकल्पसिद्धिभिः 12255031a स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः 12255031c यस्तथाभावितात्मा स्यात्स गामालब्धुमर्हति 12255032a ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः 12255032c बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते 12255033a निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् 12255033c अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 12255034a नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च 12255034c ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले 12255034e इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् 12255035 जाजलिरुवाच 12255035a न वै मुनीनां शृणुमः स्म तत्त्वं; पृच्छामि त्वा वाणिज कष्टमेतत् 12255035c पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तमृषयः स्थापयन्ति 12255036a अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् 12255036c अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम् 12255036e शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते 12255037 तुलाधार उवाच 12255037a उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित् 12255037c आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः 12255037e वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् 12255038a पत्नीं चानेन विधिना प्रकरोति नियोजयन् 12255038c पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते 12255039a सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः 12255039c जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव 12255040a एतानीदृशकान्धर्मानाचरन्निह जाजले 12255040c कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् 12255041 भीष्म उवाच 12255041a एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति 12255041c उपपत्त्या हि संपन्नान्नित्यं सद्भिर्निषेवितान् 12256001 तुलाधार उवाच 12256001a सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः 12256001c प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा 12256002a एते शकुन्ता बहवः समन्ताद्विचरन्ति हि 12256002c तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः 12256003a आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः 12256003c पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः 12256004a संभावयन्ति पितरं त्वया संभाविताः खगाः 12256004c असंशयं पिता च त्वं पुत्रानाह्वय जाजले 12256005 भीष्म उवाच 12256005a ततो जाजलिना तेन समाहूताः पतत्रिणः 12256005c वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल 12256006a अहिंसादिकृतं कर्म इह चैव परत्र च 12256006c स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम् 12256007a श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति 12256007c अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 12256008a शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः 12256008c देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि 12256009a श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः 12256009c मीमांसित्वोभयं देवाः सममन्नमकल्पयन् 12256010a प्रजापतिस्तानुवाच विषमं कृतमित्युत 12256010c श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् 12256010e भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः 12256011a अश्रद्दधान एवैको देवानां नार्हते हविः 12256011c तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः 12256012a अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी 12256012c जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् 12256013a ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह 12256013c निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः 12256014a किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना 12256014c श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः 12256015a इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः 12256015c वयं जिज्ञासमानास्त्वा संप्राप्ता धर्मदर्शनात् 12256016a स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् 12256016c श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः 12256016e स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले 12256017a एवं बहुमतार्थं च तुलाधारेण भाषितम् 12256017c सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः 12256018a तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः 12256018c तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत 12256019a ततोऽचिरेण कालेन तुलाधारः स एव च 12256019c दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् 12256019e स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् 12256020a समानां श्रद्दधानानां संयतानां सुचेतसाम् 12256020c कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते 12256021a श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप 12256021c सावित्री प्रसवित्री च जीवविश्वासिनी तथा 12256022a वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत 12256022c यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि 12257001 भीष्म उवाच 12257001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12257001c प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना 12257002a छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् 12257002c गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः 12257003a स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् 12257003c हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता 12257004a अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः 12257004c संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता 12257005a सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् 12257005c कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः 12257006a तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता 12257006c अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता 12257007a उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः 12257007c आचार इत्यनाचाराः कृपणाः फलहेतवः 12257008a यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः 12257008c वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते 12257009a मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् 12257009c धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् 12257010a कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् 12257010c विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः 12257010e पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् 12257011a यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः 12257011c यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् 12257011e महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् 12257012 युधिष्ठिर उवाच 12257012a शरीरमापदश्चापि विवदन्त्यविहिंसतः 12257012c कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति 12257013 भीष्म उवाच 12257013a यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा 12257013c तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् 12258001 युधिष्ठिर उवाच 12258001a कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा 12258001c सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः 12258002 भीष्म उवाच 12258002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12258002c चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले 12258003a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12258003c चिरकारी हि मेधावी नापराध्यति कर्मसु 12258004a चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः 12258004c चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते 12258005a चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् 12258005c चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते 12258006a अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते 12258006c बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना 12258007a व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् 12258007c पित्रोक्तः कुपितेनाथ जहीमां जननीमिति 12258008a स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः 12258008c विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् 12258009a पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् 12258009c कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् 12258010a पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् 12258010c अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् 12258011a स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् 12258011c पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् 12258012a अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् 12258012c युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् 12258013a पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति 12258013c शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च 12258014a सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः 12258014c विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम् 12258015a जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि 12258015c पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये 12258016a गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः 12258016c पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः 12258017a प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता 12258017c शरीरादीनि देयानि पिता त्वेकः प्रयच्छति 12258018a तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन 12258018c पातकान्यपि पूयन्ते पितुर्वचनकारिणः 12258019a भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने 12258019c भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा 12258020a पिता स्वर्गः पिता धर्मः पिता परमकं तपः 12258020c पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः 12258021a आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता 12258021c निष्कृतिः सर्वपापानां पिता यदभिनन्दति 12258022a मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते 12258022c क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति 12258023a एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् 12258023c पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् 12258024a यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः 12258024c अस्य मे जननी हेतुः पावकस्य यथारणिः 12258024e माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः 12258025a न च शोचति नाप्येनं स्थाविर्यमपकर्षति 12258025c श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते 12258026a पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः 12258026c अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् 12258027a समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा 12258027c रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः 12258028a तदा स वृद्धो भवति यदा भवति दुःखितः 12258028c तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते 12258029a नास्ति मातृसमा छाया नास्ति मातृसमा गतिः 12258029c नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा 12258030a कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता 12258030c अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः 12258031a शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् 12258031c चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः 12258032a दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल 12258032c तं माता वा पिता वेद भूतार्थो मातरि स्थितः 12258033a माता जानाति यद्गोत्रं माता जानाति यस्य सः 12258033c मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः 12258034a पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च 12258034c यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् 12258035a भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः 12258035c गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः 12258036a एवं स्त्री नापराध्नोति नर एवापराध्यति 12258036c व्युच्चरंश्च महादोषं नर एवापराध्यति 12258037a स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् 12258037c तस्यात्मना तु सदृशमात्मानं परमं ददौ 12258037e सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः 12258038a यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये 12258038c तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः 12258039a यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् 12258039c अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः 12258040a देवतानां समावायमेकस्थं पितरं विदुः 12258040c मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् 12258041a एवं विमृशतस्तस्य चिरकारितया बहु 12258041c दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता 12258042a मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः 12258042c विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् 12258043a सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन् 12258043c श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः 12258044a आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः 12258044c अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः 12258045a समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः 12258045c अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः 12258046a परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च 12258046c अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः 12258047a एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः 12258047c अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति 12258048a ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः 12258048c ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे 12258049a हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् 12258049c भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति 12258050a अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः 12258050c यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् 12258051a चिरकारिक भद्रं ते भद्रं ते चिरकारिक 12258051c यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः 12258052a त्राहि मां मातरं चैव तपो यच्चार्जितं मया 12258052c आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः 12258053a सहजं चिरकारित्वं चिरप्राज्ञतया तव 12258053c सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः 12258054a चिरमाशंसितो मात्रा चिरं गर्भेण धारितः 12258054c सफलं चिरकारित्वं कुरु त्वं चिरकारिक 12258055a चिरायते च संतापाच्चिरं स्वपिति वारितः 12258055c आवयोश्चिरसंतापादवेक्ष्य चिरकारिक 12258056a एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा 12258056c चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके 12258057a चिरकारी तु पितरं दृष्ट्वा परमदुःखितः 12258057c शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे 12258058a गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि 12258058c पत्नीं चैव निराकारां परामभ्यगमन्मुदम् 12258059a न हि सा तेन संभेदं पत्नी नीता महात्मना 12258059c विजने चाश्रमस्थेन पुत्रश्चापि समाहितः 12258060a हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते 12258060c विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु 12258061a बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् 12258061c शस्त्रग्रहणचापल्यं संवृणोति भयादिति 12258062a ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि 12258062c चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः 12258063a एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः 12258063c अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् 12258064a चिरकारिक भद्रं ते चिरकारी चिरं भव 12258064c चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः 12258065a गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः 12258065c चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् 12258066a चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् 12258066c चिरेण हि कृतं मित्रं चिरं धारणमर्हति 12258067a रागे दर्पे च माने च द्रोहे पापे च कर्मणि 12258067c अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते 12258068a बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च 12258068c अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते 12258069a एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत 12258069c कर्मणा तेन कौरव्य चिरकारितया तया 12258070a एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः 12258070c चिरेण निश्चयं कृत्वा चिरं न परितप्यते 12258071a चिरं धारयते रोषं चिरं कर्म नियच्छति 12258071c पश्चात्तापकरं कर्म न किंचिदुपपद्यते 12258072a चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् 12258072c चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् 12258073a चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च 12258073c चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् 12258074a ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् 12258074c चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते 12258075a उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः 12258075c समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा 12259001 युधिष्ठिर उवाच 12259001a कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् 12259001c पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह 12259002 भीष्म उवाच 12259002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12259002c द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह 12259003a अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् 12259003c वधाय नीयमानेषु पितुरेवानुशासनात् 12259004a अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् 12259004c वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति 12259005 द्युमत्सेन उवाच 12259005a अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् 12259005c दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् 12259006a ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे 12259006c लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः 12259007 सत्यवानुवाच 12259007a सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः 12259007c धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति 12259008a यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः 12259008c अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् 12259009a तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः 12259009c असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि 12259010a दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः 12259010c भार्या माता पिता पुत्रो हन्यते पुरुषे हते 12259010e परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् 12259011a असाधुश्चैव पुरुषो लभते शीलमेकदा 12259011c साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा 12259012a न मूलघातः कर्तव्यो नैष धर्मः सनातनः 12259012c अपि खल्ववधेनैव प्रायश्चित्तं विधीयते 12259013a उद्वेजनेन बन्धेन विरूपकरणेन च 12259013c वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा 12259014a यदा पुरोहितं वा ते पर्येयुः शरणैषिणः 12259014c करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः 12259015a तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् 12259015c बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् 12259016a गरीयांसो गरीयांसमपराधे पुनः पुनः 12259016c तथा विसर्गमर्हन्ति न यथा प्रथमे तथा 12259017 द्युमत्सेन उवाच 12259017a यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः 12259017c स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते 12259018a अहन्यमानेषु पुनः सर्वमेव पराभवेत् 12259018c पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः 12259019a मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः 12259019c पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् 12259020a आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते 12259020c वधेनापि न शक्यन्ते नियन्तुमपरे जनाः 12259021a नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः 12259021c न गन्धर्वपितॄणां च कः कस्येह न कश्चन 12259022a पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् 12259022c तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु 12259023 सत्यवानुवाच 12259023a तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया 12259023c कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु 12259024 द्युमत्सेन उवाच 12259024a राजानो लोकयात्रार्थं तप्यन्ते परमं तपः 12259024c अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च 12259025a वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् 12259025c सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः 12259026a श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते 12259026c सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः 12259027a आत्मानमसमाधाय समाधित्सति यः परान् 12259027c विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् 12259028a यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् 12259028c सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते 12259029a आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता 12259029c दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् 12259030a यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति 12259030c वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् 12259030e इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् 12259031a इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः 12259031c आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च 12259032a एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् 12259032c पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा 12259032e द्वापरे तु द्विपादेन पादेन त्वपरे युगे 12259033a तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह 12259033c भवेत्कालविशेषेण कला धर्मस्य षोडशी 12259034a अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् 12259034c आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् 12259035a सत्याय हि यथा नेह जह्याद्धर्मफलं महत् 12259035c भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् 12260001 युधिष्ठिर उवाच 12260001a अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः 12260001c यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह 12260002a गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः 12260002c अदूरसंप्रस्थितयोः किं स्विच्छ्रेयः पितामह 12260003 भीष्म उवाच 12260003a उभौ धर्मौ महाभागावुभौ परमदुश्चरौ 12260003c उभौ महाफलौ तात सद्भिराचरितावुभौ 12260004a अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः 12260004c शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् 12260005a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12260005c कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर 12260006a आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् 12260006c नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् 12260007a तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः 12260007c ज्ञानवान्नियताहारो ददर्श कपिलस्तदा 12260008a स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् 12260008c स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् 12260009a तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् 12260009c हंहो वेदा यदि मता धर्माः केनापरे मताः 12260010a तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः 12260010c सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः 12260011a तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः 12260011c का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः 12260012 कपिल उवाच 12260012a नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् 12260012c पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् 12260013a गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति 12260013c गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः 12260014a देवयाना हि पन्थानश्चत्वारः शाश्वता मताः 12260014c तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् 12260015a एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् 12260015c नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः 12260016a अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः 12260016c एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् 12260017a यद्यत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम् 12260017c ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि 12260018 स्यूमरश्मिरुवाच 12260018a स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः 12260018c फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते 12260019a अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये 12260019c ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः 12260020a तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते 12260020c पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः 12260021a एतानि सह यज्ञेन प्रजापतिरकल्पयत् 12260021c तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः 12260022a ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च 12260022c यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम् 12260023a एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा 12260023c को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः 12260024a पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह 12260024c स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् 12260025a ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि 12260025c हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश 12260026a ऋचो यजूंषि सामानि यजमानश्च षोडशः 12260026c अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते 12260026e अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः 12260027a आज्येन पयसा दध्ना शकृतामिक्षया त्वचा 12260027c वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम् 12260027e एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते 12260028a यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः 12260028c संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत 12260029a यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः 12260029c एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः 12260030a न हिनस्ति ह्यारभते नाभिद्रुह्यति किंचन 12260030c यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया 12260031a यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः 12260031c विधिना विधियुक्तानि तारयन्ति परस्परम् 12260032a आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः 12260032c तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् 12260033a ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च 12260033c अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा 12260034a ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् 12260034c यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि 12260035a न तस्य त्रिषु लोकेषु परलोकभयं विदुः 12260035c इति वेदा वदन्तीह सिद्धाश्च परमर्षयः 12260036a ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः 12260036c यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः 12260037a अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज 12260037c यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः 12260038a तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन् 12260038c यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् 12260039a नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः 12260039c वेदवादविदश्चैव प्रमाणमुभयं तदा 12261001 कपिल उवाच 12261001a एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः 12261001c नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः 12261002a निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः 12261002c विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः 12261003a अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः 12261003c ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः 12261004a विशोका नष्टरजसस्तेषां लोकाः सनातनाः 12261004c तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् 12261005 स्यूमरश्मिरुवाच 12261005a यद्येषा परमा निष्ठा यद्येषा परमा गतिः 12261005c गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते 12261006a यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः 12261006c एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः 12261007a गृहस्थ एव यजते गृहस्थस्तप्यते तपः 12261007c गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते 12261008a प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने 12261008c प्रजनं चाप्युतान्यत्र न कथंचन विद्यते 12261009a यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज 12261009c ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते 12261009e कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति 12261010a अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः 12261010c निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः 12261010e श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः 12261011a त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा 12261011c ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते 12261012a प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु 12261012c अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् 12261013a दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् 12261013c दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् 12261014a अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः 12261014c मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् 12261015a एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् 12261015c ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु 12261016a श्रिया विहीनैरलसैः पण्डितैरपलापितम् 12261016c वेदवादापरिज्ञानं सत्याभासमिवानृतम् 12261017a न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः 12261017c ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; संतर्पितस्तर्पयते च कामैः 12261018a न वेदानां परिभवान्न शाठ्येन न मायया 12261018c महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति 12261019 कपिल उवाच 12261019a दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् 12261019c चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः 12261020a अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः 12261020c ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः 12261021a सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 12261021c देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 12261022a चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा 12261022c बाहुभ्यां वाच उदरादुपस्था;त्तेषां द्वारं द्वारपालो बुभूषेत् 12261023a नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत् 12261023c क्रुद्धो न चैव प्रहरेत धीमां;स्तथास्य तत्पाणिपादं सुगुप्तम् 12261024a नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात् 12261024c सत्यव्रतो मितभाषोऽप्रमत्त;स्तथास्य वाग्द्वारमथो सुगुप्तम् 12261025a नानाशनः स्यान्न महाशनः स्या;दलोलुपः साधुभिरागतः स्यात् 12261025c यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः 12261026a न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत 12261026c भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत 12261027a द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः 12261027c उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः 12261028a मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत 12261028c किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना 12261029a अनुत्तरीयवसनमनुपस्तीर्णशायिनम् 12261029c बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः 12261030a द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः 12261030c परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः 12261031a येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या 12261031c गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः 12261032a अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः 12261032c सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः 12261033a नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् 12261033c अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् 12261034a फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च 12261034c विगुणानि च पश्यन्ति तथानैकान्तिकानि च 12261035a गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः 12261035c अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि 12261036 स्यूमरश्मिरुवाच 12261036a यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा 12261036c तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे 12261037 कपिल उवाच 12261037a प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः 12261037c प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते 12261038 स्यूमरश्मिरुवाच 12261038a स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः 12261038c श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया 12261038e इमं च संशयं घोरं भगवान्प्रब्रवीतु मे 12261039a प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः 12261039c किमत्र प्रत्यक्षतमं भवन्तो यदुपासते 12261039e अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् 12261040a आगमो वेदवादस्तु तर्कशास्त्राणि चागमः 12261040c यथागममुपासीत आगमस्तत्र सिध्यति 12261040e सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् 12261041a नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना 12261041c ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति 12261041e एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः 12261042a नैव त्यागी न संतुष्टो नाशोको न निरामयः 12261042c न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन 12261043a भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् 12261043c इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु 12261044a एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु 12261044c एकमालम्बमानानां निर्णये किं निरामयम् 12261045 कपिल उवाच 12261045a यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु 12261045c यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् 12261046a सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते 12261046c ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः 12261047a भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः 12261047c ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते 12261048a शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः 12261048c कामद्वेषाभिभूतत्वादहंकारवशं गताः 12261049a याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः 12261049c ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः 12261050a वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते 12261050c तेषां तमःशरीराणां तम एव परायणम् 12261051a यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः 12261051c तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः 12261051e नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः 12261052a एतद्बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम् 12261052c परां गतिमभीप्सन्तो यतयः संयमे रताः 12261053 स्यूमरश्मिरुवाच 12261053a सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् 12261053c न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः 12261054a यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः 12261054c यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः 12261055a न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः 12261055c यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः 12261056a शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः 12261056c शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे 12261056e अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः 12261057a शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः 12261057c पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् 12261057e वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् 12261058a इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् 12261058c दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् 12261059a यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् 12261059c धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः 12261060a नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया 12261060c एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा 12261061a तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः 12261061c यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् 12262001 कपिल उवाच 12262001a वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः 12262001c द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 12262001e शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 12262002a शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् 12262002c कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः 12262003a आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते 12262003c निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् 12262004a धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः 12262004c उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः 12262004e धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् 12262005a अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः 12262005c मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः 12262006a अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः 12262006c ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः 12262007a आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु 12262007c राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि 12262008a समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः 12262008c प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे 12262009a पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः 12262009c चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः 12262010a संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् 12262010c तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन 12262011a सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः 12262011c न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः 12262012a य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह 12262012c अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते 12262012e दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः 12262013a यत एवंविधा विप्राः पुराणा यज्ञवाहनाः 12262013c त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः 12262013e यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः 12262014a तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् 12262014c आगमाश्च यथाकालं संकल्पाश्च यथाव्रतम् 12262015a अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् 12262015c ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु 12262015e सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः 12262016a तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् 12262016c स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् 12262017a तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् 12262017c अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम् 12262018a निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः 12262018c सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः 12262019a धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः 12262019c तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् 12262020a गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः 12262020c गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः 12262021a धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः 12262021c आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः 12262022a अत एवंविधा विप्राः पुराणा धर्मचारिणः 12262022c त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः 12262023a नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः 12262023c आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम् 12262024a यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः 12262024c न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः 12262025a एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् 12262025c कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् 12262026a एवं पक्वकषायाणामानन्त्येन श्रुतेन च 12262026c सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः 12262027a तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् 12262027c चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः 12262028a स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः 12262028c संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते 12262029a अपवर्गगतिर्नित्यो यतिधर्मः सनातनः 12262029c साधारणः केवलो वा यथाबलमुपास्यते 12262030a गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति 12262030c ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः 12262031 स्यूमरश्मिरुवाच 12262031a ये भुञ्जते ये ददते यजन्तेऽधीयते च ये 12262031c मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः 12262032a एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः 12262032c एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः 12262033 कपिल उवाच 12262033a परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये 12262033c न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि 12262034 स्यूमरश्मिरुवाच 12262034a भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः 12262034c आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते 12262035a एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते 12262035c तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे 12262036 कपिल उवाच 12262036a शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः 12262036c पक्वे कषाये वमनै रसज्ञाने न तिष्ठति 12262037a आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् 12262037c अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा 12262038a पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् 12262038c तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् 12262039a यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः 12262039c गतिं गच्छन्ति संतुष्टास्तामाहुः परमां गतिम् 12262040a वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति 12262040c एवं वेदविदित्याहुरतोऽन्यो वातरेटकः 12262041a सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् 12262041c वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च 12262042a एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च 12262042c एतदन्तं च मध्यं च सच्चासच्च विजानतः 12262043a समस्तत्याग इत्येव शम इत्येव निष्ठितः 12262043c संतोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् 12262044a ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं स्थावरं च 12262044c सर्वं सुखं यच्छिवमुत्तमं च; ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च 12262045a तेजः क्षमा शान्तिरनामयं शुभं; तथाविधं व्योम सनातनं ध्रुवम् 12262045c एतैः शब्दैर्गम्यते बुद्धिनेत्रै;स्तस्मै नमो ब्रह्मणे ब्राह्मणाय 12263001 युधिष्ठिर उवाच 12263001a धर्ममर्थं च कामं च वेदाः शंसन्ति भारत 12263001c कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह 12263002 भीष्म उवाच 12263002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12263002c कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा 12263003a अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत 12263003c यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् 12263004a स निश्चयमथो कृत्वा पूजयामास देवताः 12263004c भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः 12263005a ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् 12263005c यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् 12263006a अथ सौम्येन वपुषा देवानुचरमन्तिके 12263006c प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् 12263007a दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत 12263007c अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् 12263008a संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः 12263008c एष मे दास्यति धनं प्रभूतं शीघ्रमेव च 12263009a ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि 12263009c बलिभिर्विविधैश्चापि पूजयामास तं द्विजः 12263010a ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा 12263010c तस्योपकारे नियतामिमां वाचमुवाच ह 12263011a ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 12263011c निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 12263012a आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः 12263012c पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् 12263013a ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा 12263013c अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा 12263014a शमेन तपसा चैव भक्त्या च निरुपस्कृतः 12263014c शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत 12263015a मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् 12263015c अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर 12263016a तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च 12263016c शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च 12263017a पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः 12263017c निष्पत्य पतितो भूमौ देवानां भरतर्षभ 12263018a ततस्तु देववचनान्मणिभद्रो महायशाः 12263018c उवाच पतितं भूमौ कुण्डधार किमिष्यते 12263019 कुण्डधार उवाच 12263019a यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम 12263019c अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम् 12263020 भीष्म उवाच 12263020a ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् 12263020c देवानामेव वचनात्कुण्डधारं महाद्युतिम् 12263021a उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव 12263021c यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव 12263021e देवानां शासनात्तावदसंख्येयं ददाम्यहम् 12263022a विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् 12263022c तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः 12263023 कुण्डधार उवाच 12263023a नाहं धनानि याचामि ब्राह्मणाय धनप्रद 12263023c अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् 12263024a पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम् 12263024c भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः 12263025a धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु 12263025c धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः 12263026 मणिभद्र उवाच 12263026a यदा धर्मफलं राज्यं सुखानि विविधानि च 12263026c फलान्येवायमश्नातु कायक्लेशविवर्जितः 12263027 भीष्म उवाच 12263027a ततस्तदेव बहुशः कुण्डधारो महायशाः 12263027c अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः 12263028 मणिभद्र उवाच 12263028a प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च 12263028c भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः 12263029 भीष्म उवाच 12263029a ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर 12263029c ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् 12263030a ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः 12263030c पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः 12263031 ब्राह्मण उवाच 12263031a अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् 12263031c गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् 12263032 भीष्म उवाच 12263032a निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः 12263032c वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा 12263033a देवतातिथिशेषेण फलमूलाशनो द्विजः 12263033c धर्मे चापि महाराज रतिरस्याभ्यजायत 12263034a त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः 12263034c पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः 12263035a वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् 12263035c न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् 12263036a धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः 12263036c कालेन महता तस्य दिव्या दृष्टिरजायत 12263037a तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् 12263037c तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम 12263038a ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः 12263038c भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत 12263039a यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् 12263039c स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम 12263040a तस्य साक्षात्कुण्डधारो दर्शयामास भारत 12263040c ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः 12263041a समागम्य स तेनाथ पूजां चक्रे यथाविधि 12263041c ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप 12263042a ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् 12263042c पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा 12263043a ततो राज्ञां सहस्राणि मग्नानि निरये तदा 12263043c दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा 12263044 कुण्डधार उवाच 12263044a मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः 12263044c कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् 12263045a पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः 12263045c स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः 12263046 भीष्म उवाच 12263046a ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् 12263046c निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् 12263047 कुण्डधार उवाच 12263047a एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् 12263047c तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः 12263048a न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः 12263048c एष शक्तोऽसि तपसा राज्यं दातुं धनानि च 12263049 भीष्म उवाच 12263049a ततः पपात शिरसा ब्राह्मणस्तोयधारिणे 12263049c उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः 12263050a कामलोभानुबन्धेन पुरा ते यदसूयितम् 12263050c मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि 12263051a क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् 12263051c संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत 12263052a ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह 12263052c कुण्डधारप्रसादेन तपसा योजितः पुरा 12263053a विहायसा च गमनं तथा संकल्पितार्थता 12263053c धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः 12263054a देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः 12263054c धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः 12263055a सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः 12263055c धने सुखकला काचिद्धर्मे तु परमं सुखम् 12264001 युधिष्ठिर उवाच 12264001a बहूनां यज्ञतपसामेकार्थानां पितामह 12264001c धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः 12264002 भीष्म उवाच 12264002a अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् 12264002c उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह 12264003a राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः 12264003c उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे 12264004a श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला 12264004c तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् 12264005a उपगम्य वने पृथ्वीं सर्वभूतविहिंसया 12264005c अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परंतप 12264006a तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी 12264006c यज्ञपत्नीत्वमानीता सत्येनानुविधीयते 12264006e सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी 12264007a मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम् 12264007c अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः 12264008a शुक्रस्य पुनराजातिरपध्यानादधर्मवित् 12264008c तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः 12264008e वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम् 12264009a यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः 12264009c मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः 12264010a ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत् 12264010c निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् 12264011a एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम् 12264011c किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् 12264012a सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः 12264012c सत्येन संपरिष्वज्य संदिष्टो गम्यतामिति 12264013a ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत 12264013c साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् 12264014a पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा 12264014c विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् 12264015a ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा 12264015c मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् 12264016a स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने 12264016c तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः 12264017a तस्य तेन तु भावेन मृगहिंसात्मनस्तदा 12264017c तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया 12264018a ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् 12264018c समाधानं च भार्याया लेभे स तपसा परम् 12264019a अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता 12264019c सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् 12265001 युधिष्ठिर उवाच 12265001a कथं भवति पापात्मा कथं धर्मं करोति वा 12265001c केन निर्वेदमादत्ते मोक्षं वा केन गच्छति 12265002 भीष्म उवाच 12265002a विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि 12265002c शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः 12265003a विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते 12265003c प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ 12265004a ततस्तदर्थं यतते कर्म चारभते पुनः 12265004c इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति 12265005a ततो रागः प्रभवति द्वेषश्च तदनन्तरम् 12265005c ततो लोभः प्रभवति मोहश्च तदनन्तरम् 12265006a लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च 12265006c न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च 12265007a व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते 12265007c व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन 12265008a तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति 12265008c सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत 12265009a उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम् 12265009c अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः 12265010a पापं चिन्तयते चैव प्रब्रवीति करोति च 12265010c तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः 12265011a एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः 12265011c स नेह सुखमाप्नोति कुत एव परत्र वै 12265012a एवं भवति पापात्मा धर्मात्मानं तु मे शृणु 12265012c यथा कुशलधर्मा स कुशलं प्रतिपद्यते 12265013a य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति 12265013c कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते 12265014a तस्य साधुसमाचारादभ्यासाच्चैव वर्धते 12265014c प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति 12265015a सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः 12265015c तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै 12265016a धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् 12265016c स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति 12265017a शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत 12265017c प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः 12265018a स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर 12265018c अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा 12265019a प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति 12265019c विरज्यते तदा कामान्न च धर्मं विमुञ्चति 12265020a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 12265020c ततो मोक्षाय यतते नानुपायादुपायतः 12265021a शनैर्निर्वेदमादत्ते पापं कर्म जहाति च 12265021c धर्मात्मा चैव भवति मोक्षं च लभते परम् 12265022a एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 12265022c पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत 12265023a तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर 12265023c धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती 12266001 युधिष्ठिर उवाच 12266001a मोक्षः पितामहेनोक्त उपायान्नानुपायतः 12266001c तमुपायं यथान्यायं श्रोतुमिच्छामि भारत 12266002 भीष्म उवाच 12266002a त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् 12266002c यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ 12266003a करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ 12266003c एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् 12266004a पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् 12266004c एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु 12266005a क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् 12266005c सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति 12266006a अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् 12266006c इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् 12266007a भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् 12266007c निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् 12266008a उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् 12266008c लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् 12266009a अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया 12266009c आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् 12266010a अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः 12266010c कारुण्येनात्मनो मानं तृष्णां च परितोषतः 12266011a उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् 12266011c मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् 12266012a यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा 12266012c ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः 12266013a तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा 12266013c योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः 12266014a कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 12266014c परित्यज्य निषेवेत तथेमान्योगसाधनान् 12266015a ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा 12266015c शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः 12266016a एतैर्विवर्धते तेजः पाप्मानमपहन्ति च 12266016c सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते 12266017a धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः 12266017c कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 12266018a अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् 12266018c अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः 12266019a एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः 12266019c तथा वाक्कायमनसां नियमः कामतोऽन्यथा 12267001 भीष्म उवाच 12267001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12267001c नारदस्य च संवादं देवलस्यासितस्य च 12267002a आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः 12267002c नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् 12267003a कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् 12267003c प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे 12267004 असित उवाच 12267004a येभ्यः सृजति भूतानि कालो भावप्रचोदितः 12267004c महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः 12267005a तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः 12267005c एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् 12267006a विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् 12267006c महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः 12267007a आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ 12267007c असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् 12267008a नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् 12267008c वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः 12267009a पञ्चैव तानि कालश्च भावाभावौ च केवलौ 12267009c अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ 12267010a अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि 12267010c विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा 12267011a तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् 12267011c सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् 12267012a चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी 12267012c इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः 12267013a दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा 12267013c उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा 12267014a रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः 12267014c इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः 12267015a रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् 12267015c इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते 12267016a चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः 12267016c मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः 12267017a पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् 12267017c विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति 12267017e इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति 12267018a चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम् 12267018c अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः 12267019a पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् 12267019c इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि 12267020a जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते 12267020c गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ 12267021a पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी 12267021c विसर्गे च पुरीषस्य विसर्गे चाभिकामिके 12267022a बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् 12267022c ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया 12267023a इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा 12267023c भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः 12267024a इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि 12267024c सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् 12267025a सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः 12267025c कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा 12267026a आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः 12267026c सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः 12267027a जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः 12267027c भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः 12267028a इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः 12267028c तेषामष्टादशो देही यः शरीरे स शाश्वतः 12267029a अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् 12267029c संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते 12267030a अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम् 12267030c एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् 12267030e ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः 12267031a महान्संधारयत्येतच्छरीरं वायुना सह 12267031c तस्यास्य भावयुक्तस्य निमित्तं देहभेदने 12267032a यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा 12267032c पुण्यपापविनाशान्ते पुण्यपापसमीरितम् 12267032e देहं विशति कालेन ततोऽयं कर्मसंभवम् 12267033a हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः 12267033c कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् 12267034a तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः 12267034c कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः 12267035a न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते 12267035c भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् 12267036a नैव संजायते जन्तुर्न च जातु विपद्यते 12267036c याति देहमयं भुक्त्वा कदाचित्परमां गतिम् 12267037a पुण्यपापमयं देहं क्षपयन्कर्मसंचयात् 12267037c क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति 12267038a पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते 12267038c तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् 12268001 युधिष्ठिर उवाच 12268001a भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा 12268001c अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः 12268002a येयमर्थोद्भवा तृष्णा कथमेतां पितामह 12268002c निवर्तयेम पापं हि तृष्णया कारिता वयम् 12268003 भीष्म उवाच 12268003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12268003c गीतं विदेहराजेन माण्डव्यायानुपृच्छते 12268004a सुसुखं बत जीवामि यस्य मे नास्ति किंचन 12268004c मिथिलायां प्रदीप्तायां न मे दह्यति किंचन 12268005a अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् 12268005c असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् 12268006a यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 12268006c तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 12268007a यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते 12268007c तथैव तृष्णा वित्तेन वर्धमानेन वर्धते 12268008a किंचिदेव ममत्वेन यदा भवति कल्पितम् 12268008c तदेव परितापाय नाशे संपद्यते पुनः 12268009a न कामाननुरुध्येत दुःखं कामेषु वै रतिः 12268009c प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् 12268010a विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् 12268010c कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह 12268011a उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये 12268011c भयाभये च संत्यज्य संप्रशान्तो निरामयः 12268012a या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 12268012c योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 12268013a चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् 12268013c धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् 12268014a राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः 12268014c पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः 12269001 युधिष्ठिर उवाच 12269001a किंशीलः किंसमाचारः किंविद्यः किंपरायणः 12269001c प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 12269002 भीष्म उवाच 12269002a मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः 12269002c प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् 12269003a स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः 12269003c समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् 12269004a न चक्षुषा न मनसा न वाचा दूषयेदपि 12269004c न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् 12269005a न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् 12269005c नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् 12269006a अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन 12269006c क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् 12269007a प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् 12269007c भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः 12269008a अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् 12269008c मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः 12269009a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 12269009c अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः 12269010a अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः 12269010c अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् 12269011a लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः 12269011c अभिपूजितलाभं हि जुगुप्सेतैव तादृशः 12269012a न चान्नदोषान्निन्देत न गुणानभिपूजयेत् 12269012c शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् 12269013a शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् 12269013c अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् 12269014a अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः 12269014c सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि 12269015a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् 12269015c एतान्वेगान्विनयेद्वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात् 12269016a मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः 12269016c एतत्पवित्रं परमं परिव्राजक आश्रमे 12269017a महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः 12269017c अपूर्वचारकः सौम्यो अनिकेतः समाहितः 12269018a वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् 12269018c अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् 12269019a विजानतां मोक्ष एष श्रमः स्यादविजानताम् 12269019c मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् 12269020a अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् 12269020c लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते 12270001 युधिष्ठिर उवाच 12270001a धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत 12270001c न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह 12270002a लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम 12270002c प्राप्य जातिं मनुष्येषु देवैरपि पितामह 12270003a कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् 12270003c दुःखमेतच्छरीराणां धारणं कुरुसत्तम 12270004a विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः 12270004c इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह 12270005a न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः 12270005c कदा वयं भविष्यामो राज्यं हित्वा परंतप 12270006 भीष्म उवाच 12270006a नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम् 12270006c पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम् 12270007a न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः 12270007c उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ 12270008a ईशोऽयं सततं देही नृपते पुण्यपापयोः 12270008c तत एव समुत्थेन तमसा रुध्यतेऽपि च 12270009a यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः 12270009c अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः 12270010a तथा कर्मफलैर्देही रञ्जितस्तमसावृतः 12270010c विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते 12270011a ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः 12270011c व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् 12270012a अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः 12270012c त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसंघाः 12270013a अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप 12270013c यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् 12270014a निर्जितेनासहायेन हृतराज्येन भारत 12270014c अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् 12270015a भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् 12270015c कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव 12270016 वृत्र उवाच 12270016a सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम् 12270016c न शोचामि न हृष्यामि भूतानामागतिं गतिम् 12270017a कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः 12270017c परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः 12270018a क्षपयित्वा तु तं कालं गणितं कालचोदिताः 12270018c सावशेषेण कालेन संभवन्ति पुनः पुनः 12270019a तिर्यग्योनिसहस्राणि गत्वा नरकमेव च 12270019c निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः 12270020a एवं संसरमाणानि जीवान्यहमदृष्टवान् 12270020c यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् 12270021a तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च 12270021c सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च 12270022a कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते 12270022c गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा 12270023 भीष्म उवाच 12270023a कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् 12270023c तं भाषमाणं भगवानुशना प्रत्यभाषत 12270023e भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे 12270024 वृत्र उवाच 12270024a प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् 12270024c मया यज्जयलुब्धेन पुरा तप्तं महत्तपः 12270025a गन्धानादाय भूतानां रसांश्च विविधानपि 12270025c अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा 12270026a ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा 12270026c अजेयः सर्वभूतानामासं नित्यमपेतभीः 12270027a ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः 12270027c धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् 12270028a युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना 12270028c ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः 12270029a वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः 12270029c मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः 12270030a नूनं तु तस्य तपसः सावशेषं ममास्ति वै 12270030c यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् 12270031a ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् 12270031c निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् 12270032a कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः 12270032c किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः 12270033a केन वा कर्मणा शक्यमथ ज्ञानेन केन वा 12270033c ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि 12270034a इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह 12270034c मयोच्यमानं पुरुषर्षभ त्व;मनन्यचित्तः सह सोदरीयैः 12271001 उशनोवाच 12271001a नमस्तस्मै भगवते देवाय प्रभविष्णवे 12271001c यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् 12271002a मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम 12271002c तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् 12271003 भीष्म उवाच 12271003a तयोः संवदतोरेवमाजगाम महामुनिः 12271003c सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै 12271004a स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा 12271004c निषसादासने राजन्महार्हे मुनिपुंगवः 12271005a तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् 12271005c ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् 12271006a सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् 12271006c विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते 12271007a शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् 12271007c विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप 12271008a सृजत्येष महाबाहो भूतग्रामं चराचरम् 12271008c एष चाक्षिपते काले काले विसृजते पुनः 12271008e अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत 12271009a नैष दानवता शक्यस्तपसा नैव चेज्यया 12271009c संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते 12271010a बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः 12271010c निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते 12271011a यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् 12271011c बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह 12271012a तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा 12271012c यत्नेन महता चैवाप्येकजातौ विशुध्यते 12271013a लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः 12271013c बहु यत्नेन महता दोषनिर्हरणं तथा 12271014a यथा चाल्पेन माल्येन वासितं तिलसर्षपम् 12271014c न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् 12271015a तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः 12271015c विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति 12271016a एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु 12271016c बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै 12271017a कर्मणा स्वेन रक्तानि विरक्तानि च दानव 12271017c यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु 12271018a यथा च संप्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो 12271018c तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु 12271019a अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः 12271019c स वै सृजति भूतानि स्थावराणि चराणि च 12271020a एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च 12271020c एकादशविकारात्मा जगत्पिबति रश्मिभिः 12271021a पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च 12271021c बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च 12271022a तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् 12271022c बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते 12271023a भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम 12271023c नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव 12271024a रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् 12271024c सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः 12271025a अकर्मणः फलं चैव स एव परमव्ययः 12271025c छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती 12271026a बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः 12271026c स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः 12271027a श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः 12271027c पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः 12271028a मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा 12271028c ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् 12271028e एकस्य विद्धि देवस्य सर्वं जगदिदं वशे 12271029a नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् 12271029c जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते 12271030a संहारविक्षेपसहस्रकोटी;स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये 12271030c प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य 12271031a वाप्यः पुनर्योजनविस्तृतास्ताः; क्रोशं च गम्भीरतयावगाढाः 12271031c आयामतः पञ्चशताश्च सर्वाः; प्रत्येकशो योजनतः प्रवृद्धाः 12271032a वाप्या जलं क्षिप्यति वालकोट्या; त्वह्ना सकृच्चाप्यथ न द्वितीयम् 12271032c तासां क्षये विद्धि कृतं विसर्गं; संहारमेकं च तथा प्रजानाम् 12271033a षड्जीववर्णाः परमं प्रमाणं; कृष्णो धूम्रो नीलमथास्य मध्यम् 12271033c रक्तं पुनः सह्यतरं सुखं तु; हारिद्रवर्णं सुसुखं च शुक्लम् 12271034a परं तु शुक्लं विमलं विशोकं; गतक्लमं सिध्यति दानवेन्द्र 12271034c गत्वा तु योनिप्रभवानि दैत्य; सहस्रशः सिद्धिमुपैति जीवः 12271035a गतिं च यां दर्शनमाह देवो; गत्वा शुभं दर्शनमेव चाह 12271035c गतिः पुनर्वर्णकृता प्रजानां; वर्णस्तथा कालकृतोऽसुरेन्द्र 12271036a शतं सहस्राणि चतुर्दशेह; परा गतिर्जीवगुणस्य दैत्य 12271036c आरोहणं तत्कृतमेव विद्धि; स्थानं तथा निःसरणं च तेषाम् 12271037a कृष्णस्य वर्णस्य गतिर्निकृष्टा; स मज्जते नरके पच्यमानः 12271037c स्थानं तथा दुर्गतिभिस्तु तस्य; प्रजाविसर्गान्सुबहून्वदन्ति 12271038a शतं सहस्राणि ततश्चरित्वा; प्राप्नोति वर्णं हरितं तु पश्चात् 12271038c स चैव तस्मिन्निवसत्यनीशो; युगक्षये तमसा संवृतात्मा 12271039a स वै यदा सत्त्वगुणेन युक्त;स्तमो व्यपोहन्घटते स्वबुद्ध्या 12271039c स लोहितं वर्णमुपैति नीलो; मनुष्यलोके परिवर्तते च 12271040a स तत्र संहारविसर्गमेव; स्वकर्मजैर्बन्धनैः क्लिश्यमानः 12271040c ततः स हारिद्रमुपैति वर्णं; संहारविक्षेपशते व्यतीते 12271041a हारिद्रवर्णस्तु प्रजाविसर्गा;न्सहस्रशस्तिष्ठति संचरन्वै 12271041c अविप्रमुक्तो निरये च दैत्य; ततः सहस्राणि दशापराणि 12271042a गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव 12271042c विमुक्तमेनं निरयाच्च विद्धि; सर्वेषु चान्येषु च संभवेषु 12271043a स देवलोके विहरत्यभीक्ष्णं; ततश्च्युतो मानुषतामुपैति 12271043c संहारविक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्नमृतत्वमेति 12271044a सोऽस्मादथ भ्रश्यति कालयोगा;त्कृष्णे तले तिष्ठति सर्वकष्टे 12271044c यथा त्वयं सिध्यति जीवलोक;स्तत्तेऽभिधास्याम्यसुरप्रवीर 12271045a दैवानि स व्यूहशतानि सप्त; रक्तो हरिद्रोऽथ तथैव शुक्लः 12271045c संश्रित्य संधावति शुक्लमेत;मष्टापरानर्च्यतमान्स लोकान् 12271046a अष्टौ च षष्टिं च शतानि यानि; मनोविरुद्धानि महाद्युतीनाम् 12271046c शुक्लस्य वर्णस्य परा गतिर्या; त्रीण्येव रुद्धानि महानुभाव 12271047a संहारविक्षेपमनिष्टमेकं; चत्वारि चान्यानि वसत्यनीशः 12271047c षष्ठस्य वर्णस्य परा गतिर्या; सिद्धा विशिष्टस्य गतक्लमस्य 12271048a सप्तोत्तरं तेषु वसत्यनीशः; संहारविक्षेपशतं सशेषम् 12271048c तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति 12271049a तस्मादुपावृत्य ततः क्रमेण; सोऽग्रे स्म संतिष्ठति भूतसर्गम् 12271049c स सप्तकृत्वश्च परैति लोका;न्संहारविक्षेपकृतप्रवासः 12271050a सप्तैव संहारमुपप्लवानि; संभाव्य संतिष्ठति सिद्धलोके 12271050c ततोऽव्ययं स्थानमनन्तमेति; देवस्य विष्णोरथ ब्रह्मणश्च 12271050e शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव 12271051a संहारकाले परिदग्धकाया; ब्रह्माणमायान्ति सदा प्रजा हि 12271051c चेष्टात्मनो देवगणाश्च सर्वे; ये ब्रह्मलोकादमराः स्म तेऽपि 12271052a प्रजाविसर्गं तु सशेषकालं; स्थानानि स्वान्येव सरन्ति जीवाः 12271052c निःशेषाणां तत्पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः 12271053a ये तु च्युताः सिद्धलोकात्क्रमेण; तेषां गतिं यान्ति तथानुपूर्व्या 12271053c जीवाः परे तद्बलवेषरूपा; विधिं स्वकं यान्ति विपर्ययेण 12271054a स यावदेवास्ति सशेषभुक्ते; प्रजाश्च देव्यौ च तथैव शुक्ले 12271054c तावत्तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रियरूपमेतत् 12271055a शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन् 12271055c ततोऽव्ययं स्थानमुपैति ब्रह्म; दुष्प्रापमभ्येति स शाश्वतं वै 12271055e इत्येतदाख्यातमहीनसत्त्व; नारायणस्येह बलं मया ते 12271056 वृत्र उवाच 12271056a एवं गते मे न विषादोऽस्ति कश्चि;त्सम्यक्च पश्यामि वचस्तवैतत् 12271056c श्रुत्वा च ते वाचमदीनसत्त्व; विकल्मषोऽस्म्यद्य तथा विपाप्मा 12271057a प्रवृत्तमेतद्भगवन्महर्षे; महाद्युतेश्चक्रमनन्तवीर्यम् 12271057c विष्णोरनन्तस्य सनातनं त;त्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः 12271057e स वै महात्मा पुरुषोत्तमो वै; तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् 12271058 भीष्म उवाच 12271058a एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् 12271058c योजयित्वा तथात्मानं परं स्थानमवाप्तवान् 12271059 युधिष्ठिर उवाच 12271059a अयं स भगवान्देवः पितामह जनार्दनः 12271059c सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा 12271060 भीष्म उवाच 12271060a मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा 12271060c तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः 12271061a तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् 12271061c तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् 12271062a अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते 12271062c स शेते भगवानप्सु योऽसावतिबलः प्रभुः 12271062e तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् 12271063a सर्वाण्यशून्यानि करोत्यनन्तः; सनत्कुमारः संचरते च लोकान् 12271063c स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत्सर्वमिदं विचित्रम् 12271064 युधिष्ठिर उवाच 12271064a वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः 12271064c शुभा तस्मात्स सुखितो न शोचति पितामह 12271065a शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ 12271065c तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह 12271066a हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव 12271066c तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः 12271067a वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे 12271067c कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ 12271068 भीष्म उवाच 12271068a शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः 12271068c विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ 12271069a प्रजाविसर्गं च सुखेन काले; प्रत्येत्य देवेषु सुखानि भुक्त्वा 12271069c सुखेन संयास्यथ सिद्धसंख्यां; मा वो भयं भूद्विमलाः स्थ सर्वे 12272001 युधिष्ठिर उवाच 12272001a अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः 12272001c यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी 12272002a दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः 12272002c कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ 12272003a भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत 12272003c भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् 12272004a कथं विनिहतो वृत्रः शक्रेण भरतर्षभ 12272004c धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये 12272005a एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ 12272005c वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः 12272006a यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह 12272006c विस्तरेण महाबाहो परं कौतूहलं हि मे 12272007 भीष्म उवाच 12272007a रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा 12272007c ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् 12272008a योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम 12272008c शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु 12272009a तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् 12272009c वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे 12272010a शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत 12272010c भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् 12272011a ततो नादः समभवद्वादित्राणां च निस्वनः 12272011c देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते 12272012a अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् 12272012c न संभ्रमो न भीः काचिदास्था वा समजायत 12272013a ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् 12272013c शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः 12272014a असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः 12272014c शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः 12272015a अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च 12272015c देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् 12272016a पितामहपुरोगाश्च सर्वे देवगणास्तथा 12272016c ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् 12272017a विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ 12272017c गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् 12272018a ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः 12272018c अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् 12272019a ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः 12272019c अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे 12272020a वृत्रश्च कुरुशार्दूल महामायो महाबलः 12272020c मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः 12272021a तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः 12272021c रथंतरेण तं तत्र वसिष्ठः समबोधयत् 12272022 वसिष्ठ उवाच 12272022a देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण 12272022c त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि 12272023a एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः 12272023c सोमश्च भगवान्देवः सर्वे च परमर्षयः 12272024a मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा 12272024c आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर 12272025a एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः 12272025c निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर 12272026a एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः 12272026c स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै 12272027 भीष्म उवाच 12272027a एवं संबोध्यमानस्य वसिष्ठेन महात्मना 12272027c अतीव वासवस्यासीद्बलमुत्तमतेजसः 12272028a ततो बुद्धिमुपागम्य भगवान्पाकशासनः 12272028c योगेन महता युक्तस्तां मायां व्यपकर्षत 12272029a ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः 12272029c दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् 12272029e ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया 12272030a ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः 12272030c समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा 12272031a विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः 12272031c ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः 12272032a ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् 12272032c वसिष्ठश्च महातेजाः सर्वे च परमर्षयः 12272033a ते समासाद्य वरदं वासवं लोकपूजितम् 12272033c ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो 12272034 महेश्वर उवाच 12272034a एष वृत्रो महाञ्शक्र बलेन महता वृतः 12272034c विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः 12272035a तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् 12272035c जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर 12272036a अनेन हि तपस्तप्तं बलार्थममराधिप 12272036c षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ 12272037a महत्त्वं योगिनां चैव महामायत्वमेव च 12272037c महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर 12272038a एतद्वै मामकं तेजः समाविशति वासव 12272038c वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् 12272039 शक्र उवाच 12272039a भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् 12272039c वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ 12272040 भीष्म उवाच 12272040a आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे 12272040c देवतानामृषीणां च हर्षान्नादो महानभूत् 12272041a ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः 12272041c मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः 12272042a असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् 12272042c प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत 12272043a तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा 12272043c स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि 12272044a रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः 12272044c ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् 12273001 भीष्म उवाच 12273001a वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः 12273001c अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु 12273002a ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् 12273002c गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् 12273002e रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप 12273003a शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा 12273003c निष्पपात महाघोरा स्मृतिः सा तस्य भारत 12273003e उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे 12273004a गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः 12273004c वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः 12273005a ततस्तं रथमास्थाय देवाप्यायितमाहवे 12273005c वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत 12273006a अमानुषमथो नादं स मुमोच महासुरः 12273006c व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः 12273006e अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् 12273007a स वज्रः सुमहातेजाः कालाग्निसदृशोपमः 12273007c क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् 12273008a ततो नादः समभवत्पुनरेव समन्ततः 12273008c वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ 12273009a वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः 12273009c वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् 12273010a अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता 12273010c ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा 12273011a करालदशना भीमा विकृता कृष्णपिङ्गला 12273011c प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत 12273012a कपालमालिनी चैव कृशा च भरतर्षभ 12273012c रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी 12273013a साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा 12273013c वज्रिणं मृगयामास तदा भरतसत्तम 12273014a कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन 12273014c स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया 12273015a बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् 12273015c कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा 12273016a स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये 12273016c नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून् 12273017a अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया 12273017c तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत 12273018a तस्या व्यपोहने शक्रः परं यत्नं चकार ह 12273018c न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् 12273019a गृहीत एव तु तया देवेन्द्रो भरतर्षभ 12273019c पितामहमुपागम्य शिरसा प्रत्यपूजयत् 12273020a ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया 12273020c ब्रह्मा संचिन्तयामास तदा भरतसत्तम 12273021a तामुवाच महाबाहो ब्रह्महत्यां पितामहः 12273021c स्वरेण मधुरेणाथ सान्त्वयन्निव भारत 12273022a मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि 12273022c ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि 12273023 ब्रह्महत्योवाच 12273023a त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि 12273023c कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे 12273024a त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना 12273024c स्थापना वै सुमहती त्वया देव प्रवर्तिता 12273025a प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो 12273025c शक्रादपगमिष्यामि निवासं तु विधत्स्व मे 12273026 भीष्म उवाच 12273026a तथेति तां प्राह तदा ब्रह्महत्यां पितामहः 12273026c उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत 12273027a ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना 12273027c ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत् 12273028a प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम 12273028c यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति 12273029 ब्रह्मोवाच 12273029a बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् 12273029c शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे 12273030 अग्निरुवाच 12273030a मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो 12273030c एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित 12273031 ब्रह्मोवाच 12273031a यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् 12273031c बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः 12273032a तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12273032c ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः 12273033 भीष्म उवाच 12273033a इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् 12273033c पितामहस्य भगवांस्तथा च तदभूत्प्रभो 12273034a ततो वृक्षौषधितृणं समाहूय पितामहः 12273034c इममर्थं महाराज वक्तुं समुपचक्रमे 12273035a ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् 12273035c व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् 12273036a अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह 12273036c स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि 12273037a वयमग्निं तथा शीतं वर्षं च पवनेरितम् 12273037c सहामः सततं देव तथा छेदनभेदनम् 12273038a ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् 12273038c ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् 12273039 ब्रह्मोवाच 12273039a पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम् 12273039c करिष्यति नरो मोहात्तमेषानुगमिष्यति 12273040 भीष्म उवाच 12273040a ततो वृक्षौषधितृणमेवमुक्तं महात्मना 12273040c ब्रह्माणमभिसंपूज्य जगामाशु यथागतम् 12273041a आहूयाप्सरसो देवस्ततो लोकपितामहः 12273041c वाचा मधुरया प्राह सान्त्वयन्निव भारत 12273042a इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः 12273042c चतुर्थमस्या भागं हि मयोक्ताः संप्रतीच्छत 12273043 अप्सरस ऊचुः 12273043a ग्रहणे कृतबुद्धीनां देवेश तव शासनात् 12273043c मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह 12273044 ब्रह्मोवाच 12273044a रजस्वलासु नारीषु यो वै मैथुनमाचरेत् 12273044c तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः 12273045 भीष्म उवाच 12273045a तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः 12273045c स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ 12273046a ततस्त्रिलोककृद्देवः पुनरेव महातपाः 12273046c अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन् 12273047a तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् 12273047c इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् 12273048a इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम 12273048c शासनात्तव देवेश समाज्ञापय नो विभो 12273049 ब्रह्मोवाच 12273049a इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया 12273049c ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत 12273050 आप ऊचुः 12273050a एवं भवतु लोकेश यथा वदसि नः प्रभो 12273050c मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि 12273051a त्वं हि देवेश सर्वस्य जगतः परमो गुरुः 12273051c कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् 12273052 ब्रह्मोवाच 12273052a अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः 12273052c श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति 12273053a तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति 12273053c तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः 12273054 भीष्म उवाच 12273054a ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर 12273054c यथानिसृष्टं तं देशमगच्छद्देवशासनात् 12273055a एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप 12273055c पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् 12273056a श्रूयते हि महाराज संप्राप्ता वासवेन वै 12273056c ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान् 12273057a समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः 12273057c प्रहर्षमतुलं लेभे वासवः पृथिवीपते 12273058a वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे 12273058c द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः 12273059a सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु 12273059c इमे हि भूतले देवाः प्रथिताः कुरुनन्दन 12273060a एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः 12273060c उपायपूर्वं निहतो वृत्रोऽथामिततेजसा 12273061a एवं त्वमपि कौरव्य पृथिव्यामपराजितः 12273061c भविष्यसि यथा देवः शतक्रतुरमित्रहा 12273062a ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु 12273062c विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् 12273063a इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् 12273063c कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि 12274001 युधिष्ठिर उवाच 12274001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 12274001c अस्ति वृत्रवधादेव विवक्षा मम जायते 12274002a ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप 12274002c निहतो वासवेनेह वज्रेणेति ममानघ 12274003a कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः 12274003c ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो 12274004 भीष्म उवाच 12274004a शृणु राजञ्ज्वरस्येह संभवं लोकविश्रुतम् 12274004c विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत 12274005a पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् 12274005c ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् 12274005e अप्रमेयमनाधृष्यं सर्वलोकेषु भारत 12274006a तत्र देवो गिरितटे हेमधातुविभूषिते 12274006c पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह 12274007a शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ 12274007c तथा देवा महात्मानो वसवश्च महौजसः 12274008a तथैव च महात्मानावश्विनौ भिषजां वरौ 12274008c तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः 12274009a यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः 12274009c अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे 12274010a विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ 12274010c अप्सरोगणसंघाश्च समाजग्मुरनेकशः 12274011a ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः 12274011c सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः 12274012a तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः 12274012c महादेवं पशुपतिं पर्युपासन्त भारत 12274013a भूतानि च महाराज नानारूपधराण्यथ 12274013c राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः 12274014a बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः 12274014c देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः 12274015a नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः 12274015c प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा 12274016a गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा 12274016c पर्युपासत तं देवं रूपिणी कुरुनन्दन 12274017a एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः 12274017c देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत 12274018a कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः 12274018c पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत 12274019a ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः 12274019c गमनाय समागम्य बुद्धिमापेदिरे तदा 12274020a ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः 12274020c देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः 12274021a प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा 12274021c उवाच वचनं साध्वी देवं पशुपतिं पतिम् 12274022a भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः 12274022c ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् 12274023 महेश्वर उवाच 12274023a दक्षो नाम महाभागे प्रजानां पतिरुत्तमः 12274023c हयमेधेन यजते तत्र यान्ति दिवौकसः 12274024 उमा उवाच 12274024a यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि 12274024c केन वा प्रतिषेधेन गमनं ते न विद्यते 12274025 महेश्वर उवाच 12274025a सुरैरेव महाभागे सर्वमेतदनुष्ठितम् 12274025c यज्ञेषु सर्वेषु मम न भाग उपकल्पितः 12274026a पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि 12274026c न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः 12274027 उमा उवाच 12274027a भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः 12274027c अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया 12274028a अनेन ते महाभाग प्रतिषेधेन भागतः 12274028c अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ 12274029 भीष्म उवाच 12274029a एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् 12274029c तूष्णींभूताभवद्राजन्दह्यमानेन चेतसा 12274030a अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् 12274030c स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् 12274031a ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः 12274031c तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा 12274031e सहसा घातयामास देवदेवः पिनाकधृक् 12274032a केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे 12274032c रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् 12274033a केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः 12274033c आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् 12274034a ततः स यज्ञो नृपते वध्यमानः समन्ततः 12274034c आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा 12274035a तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः 12274035c धनुरादाय बाणं च तदान्वसरत प्रभुः 12274036a ततस्तस्य सुरेशस्य क्रोधादमिततेजसः 12274036c ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह 12274037a तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि 12274037c प्रादुर्बभूव सुमहानग्निः कालानलोपमः 12274038a तत्र चाजायत तदा पुरुषः पुरुषर्षभ 12274038c ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः 12274039a ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च 12274039c करालः कृष्णवर्णश्च रक्तवासास्तथैव च 12274040a तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः 12274040c देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश 12274041a तेन तस्मिन्विचरता पुरुषेण विशां पते 12274041c पृथिवी व्यचलद्राजन्नतीव भरतर्षभ 12274042a हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे 12274042c पितामहो महादेवं दर्शयन्प्रत्यभाषत 12274043a भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो 12274043c क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया 12274044a इमा हि देवताः सर्वा ऋषयश्च परंतप 12274044c तव क्रोधान्महादेव न शान्तिमुपलेभिरे 12274045a यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम 12274045c ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति 12274046a एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो 12274046c समर्था सकला पृथ्वी बहुधा सृज्यतामयम् 12274047a इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते 12274047c भगवन्तं तथेत्याह ब्रह्माणममितौजसम् 12274048a परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् 12274048c अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः 12274049a ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा 12274049c शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक 12274050a शीर्षाभितापो नागानां पर्वतानां शिलाजतुः 12274050c अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च 12274051a खोरकः सौरभेयाणामूषरं पृथिवीतले 12274051c पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् 12274052a रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् 12274052c नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना 12274053a अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् 12274053c शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः 12274054a शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते 12274054c मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः 12274054e मरणे जन्मनि तथा मध्ये चाविशते नरम् 12274055a एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः 12274055c नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः 12274056a अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः 12274056c व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् 12274057a प्रविश्य वज्रो वृत्रं तु दारयामास भारत 12274057c दारितश्च स वज्रेण महायोगी महासुरः 12274057e जगाम परमं स्थानं विष्णोरमिततेजसः 12274058a विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा 12274058c तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् 12274059a इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया 12274059c विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते 12274060a इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः 12274060c विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान् 12275001 युधिष्ठिर उवाच 12275001a शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा 12275001c उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह 12275002 भीष्म उवाच 12275002a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 12275002c नारदस्य च संवादं समङ्गस्य च भारत 12275003 नारद उवाच 12275003a उरसेव प्रणमसे बाहुभ्यां तरसीव च 12275003c संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे 12275004a उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये 12275004c नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे 12275005 समङ्ग उवाच 12275005a भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद 12275005c तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् 12275006a उपक्रमानहं वेद पुनरेव फलोदयान् 12275006c लोके फलानि चित्राणि ततो न विमना ह्यहम् 12275007a अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद 12275007c अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः 12275008a विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः 12275008c बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय 12275009a सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा 12275009c शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः 12275010a यदा न शोचेमहि किं नु न स्या;द्धर्मेण वा नारद कर्मणा वा 12275010c कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति 12275011a यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः 12275011c मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य 12275012a मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः 12275012c न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव 12275013a भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात् 12275013c इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा 12275014a समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम् 12275014c न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत् 12275015a न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम् 12275015c दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम् 12275016a नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् 12275016c धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् 12275017a प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः 12275017c उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम् 12275018a एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः 12275018c पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् 12275019a अर्थकामौ परित्यज्य विशोको विगतज्वरः 12275019c तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम् 12275020a न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन 12275020c पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम् 12275021a एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् 12275021c तेन नारद संप्राप्तो न मां शोकः प्रबाधते 12276001 युधिष्ठिर उवाच 12276001a अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः 12276001c अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह 12276002 भीष्म उवाच 12276002a गुरुपूजा च सततं वृद्धानां पर्युपासनम् 12276002c श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते 12276003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12276003c गालवस्य च संवादं देवर्षेर्नारदस्य च 12276004a वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् 12276004c श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत् 12276005a यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु 12276005c भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम् 12276006a भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति 12276006c अमूढश्चिरमूढानां लोकतत्त्वमजानताम् 12276007a ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः 12276007c यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति 12276008a भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः 12276008c इदं श्रेय इदं श्रेय इति नानाप्रधाविताः 12276009a तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः 12276009c स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे 12276010a शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा 12276010c शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् 12276011a एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम् 12276011c ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः 12276012 नारद उवाच 12276012a आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक् 12276012c तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव 12276013a तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः 12276013c नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् 12276013e नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् 12276014a ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् 12276014c यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् 12276015a अनुग्रहं च मित्राणाममित्राणां च निग्रहम् 12276015c संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः 12276016a निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता 12276016c सद्भिश्च समुदाचारः श्रेय एतदसंशयम् 12276017a मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् 12276017c वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् 12276018a देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि 12276018c असंत्यागश्च भृत्यानां श्रेय एतदसंशयम् 12276019a सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् 12276019c यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् 12276020a अहंकारस्य च त्यागः प्रणयस्य च निग्रहः 12276020c संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते 12276021a धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च 12276021c विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम् 12276022a शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् 12276022c नात्यर्थमुपसेवेत श्रेयसोऽर्थी परंतप 12276023a नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम् 12276023c अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् 12276024a कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया 12276024c स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् 12276025a निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः 12276025c दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् 12276026a अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् 12276026c गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः 12276027a अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् 12276027c विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः 12276028a अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः 12276028c तथैवाव्याहरन्भाति विमलो भानुरम्बरे 12276029a एवमादीनि चान्यानि परित्यक्तानि मेधया 12276029c ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च 12276030a न लोके दीप्यते मूर्खः केवलात्मप्रशंसया 12276030c अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते 12276031a असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति 12276031c दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् 12276032a मूढानामवलिप्तानामसारं भाषितं बहु 12276032c दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् 12276033a एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् 12276033c प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् 12276034a नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः 12276034c ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् 12276035a ततो वासं परीक्षेत धर्मनित्येषु साधुषु 12276035c मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च 12276036a चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् 12276036c न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन 12276037a निरारम्भोऽप्ययमिह यथालब्धोपजीवनः 12276037c पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् 12276038a अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा 12276038c तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः 12276039a अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः 12276039c भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् 12276040a यत्रागमयमानानामसत्कारेण पृच्छताम् 12276040c प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् 12276041a शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता 12276041c यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत् 12276042a आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् 12276042c आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः 12276043a यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः 12276043c प्रदीप्तमिव शैलान्तं कस्तं देशं न संत्यजेत् 12276044a यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः 12276044c चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु 12276045a धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः 12276045c न ताननुवसेज्जातु ते हि पापकृतो जनाः 12276046a कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः 12276046c व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव 12276047a येन खट्वां समारूढः कर्मणानुशयी भवेत् 12276047c आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः 12276048a यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः 12276048c कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् 12276049a श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः 12276049c याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् 12276050a स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः 12276050c अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् 12276051a अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् 12276051c त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् 12276052a प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः 12276052c स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् 12276053a दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु 12276053c चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु 12276054a उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु 12276054c अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् 12276055a यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता 12276055c अपास्य कामान्कामेशो वसेत्तत्राविचारयन् 12276056a तथाशीला हि राजानः सर्वान्विषयवासिनः 12276056c श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते 12276057a पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् 12276057c न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः 12276058a एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः 12276058c तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति 12277001 युधिष्ठिर उवाच 12277001a कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः 12277001c नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते 12277002 भीष्म उवाच 12277002a अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 12277002c अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते 12277003 सगर उवाच 12277003a किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते 12277003c कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् 12277004 भीष्म उवाच 12277004a एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः 12277004c विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् 12277005a सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति 12277005c प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः 12277006a सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् 12277006c स्नेहपाशसितो मूढो न स मोक्षाय कल्पते 12277007a स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम 12277007c सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता 12277008a संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च 12277008c समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् 12277009a भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् 12277009c ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च 12277010a सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् 12277010c इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि 12277011a कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् 12277011c उपपत्त्योपलब्धेषु लाभेषु च समो भव 12277012a एष तावत्समासेन तव संकीर्तितो मया 12277012c मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु 12277013a मुक्ता वीतभया लोके चरन्ति सुखिनो नराः 12277013c सक्तभावा विनश्यन्ति नरास्तत्र न संशयः 12277014a आहारसंचयाश्चैव तथा कीटपिपीलिकाः 12277014c असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः 12277015a स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना 12277015c इमे मया विनाभूता भविष्यन्ति कथं त्विति 12277016a स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते 12277016c सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति 12277017a भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् 12277017c स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा 12277018a धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् 12277018c लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः 12277019a स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा 12277019c को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः 12277020a स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः 12277020c कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना 12277021a जीवन्तमपि चैवैनं भरणे रक्षणे तथा 12277021c असमाप्ते परित्यज्य पश्चादपि मरिष्यसि 12277022a यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन 12277022c सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना 12277023a मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः 12277023c स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः 12277024a एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः 12277024c मोक्षे निवेशय मनो भूयश्चाप्युपधारय 12277025a क्षुत्पिपासादयो भावा जिता यस्येह देहिनः 12277025c क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः 12277026a द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः 12277026c न प्रमाद्यति संमोहात्सततं मुक्त एव सः 12277027a दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा 12277027c भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते 12277028a आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः 12277028c यः पश्यति सदा युक्तो यथावन्मुक्त एव सः 12277029a संभवं च विनाशं च भूतानां चेष्टितं तथा 12277029c यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः 12277030a प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु 12277030c प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते 12277031a मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् 12277031c अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते 12277032a यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते 12277032c यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः 12277033a अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति 12277033c न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः 12277034a पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः 12277034c शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः 12277035a क्षौमं च कुशचीरं च कौशेयं वल्कलानि च 12277035c आविकं चर्म च समं यस्य स्यान्मुक्त एव सः 12277036a पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति 12277036c तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः 12277037a सुखदुःखे समे यस्य लाभालाभौ जयाजयौ 12277037c इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः 12277038a रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा 12277038c शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते 12277039a वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च 12277039c कुब्जभावं च जरया यः पश्यति स मुच्यते 12277040a पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा 12277040c बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते 12277041a गतानृषींस्तथा देवानसुरांश्च तथा गतान् 12277041c लोकादस्मात्परं लोकं यः पश्यति स मुच्यते 12277042a प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः 12277042c ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते 12277043a अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा 12277043c दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते 12277044a अपत्यानां च वैगुण्यं जनं विगुणमेव च 12277044c पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् 12277045a शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः 12277045c असारमिव मानुष्यं सर्वथा मुक्त एव सः 12277046a एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् 12277046c गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा 12277047a तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः 12277047c मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः 12278001 युधिष्ठिर उवाच 12278001a तिष्ठते मे सदा तात कौतूहलमिदं हृदि 12278001c तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह 12278002a कथं देवर्षिरुशना सदा काव्यो महामतिः 12278002c असुराणां प्रियकरः सुराणामप्रिये रतः 12278003a वर्धयामास तेजश्च किमर्थममितौजसाम् 12278003c नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः 12278004a कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः 12278004c ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे 12278005a न याति च स तेजस्वी मध्येन नभसः कथम् 12278005c एतदिच्छामि विज्ञातुं निखिलेन पितामह 12278006 भीष्म उवाच 12278006a शृणु राजन्नवहितः सर्वमेतद्यथातथम् 12278006c यथामति यथा चैतच्छ्रुतपूर्वं मयानघ 12278007a एष भार्गवदायादो मुनिः सत्यो दृढव्रतः 12278007c असुराणां प्रियकरो निमित्ते करुणात्मके 12278008a इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च 12278008c प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः 12278009a तस्यात्मानमथाविश्य योगसिद्धो महामुनिः 12278009c रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु 12278010a हृते धने ततः शर्म न लेभे धनदस्तथा 12278010c आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् 12278011a निवेदयामास तदा शिवायामिततेजसे 12278011c देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे 12278012 कुबेर उवाच 12278012a योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु 12278012c योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः 12278013 भीष्म उवाच 12278013a एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः 12278013c संरक्तनयनो राजञ्शूलमादाय तस्थिवान् 12278014a क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् 12278014c उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् 12278015a स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः 12278015c गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः 12278016a संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् 12278016c उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत 12278017a विज्ञातरूपः स तदा तपःसिद्धेन धन्विना 12278017c ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् 12278018a आनतेनाथ शूलेन पाणिनामिततेजसा 12278018c पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः 12278019a पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः 12278019c आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः 12278020a स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः 12278020c व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः 12278021 युधिष्ठिर उवाच 12278021a किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः 12278021c जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः 12278022 भीष्म उवाच 12278022a पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः 12278022c वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च 12278023a उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् 12278023c ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत 12278024a तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् 12278024c तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः 12278025a तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः 12278025c महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा 12278026a स तेनाढ्यो महायोगी तपसा च धनेन च 12278026c व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् 12278027a ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् 12278027c उशना तु समुद्विग्नो निलिल्ये जठरे ततः 12278028a तुष्टाव च महायोगी देवं तत्रस्थ एव च 12278028c निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत 12278029a उशना तु तदोवाच जठरस्थो महामुनिः 12278029c प्रसादं मे कुरुष्वेति पुनः पुनररिंदम 12278030a तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् 12278030c इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः 12278031a अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः 12278031c पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा 12278032a स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् 12278032c कार्येण तेन नभसो नागच्छत च मध्यतः 12278033a निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा 12278033c भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः 12278034a न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् 12278034c पुत्रत्वमगमद्देव्या वारिते शंकरे च सः 12278035 देव्युवाच 12278035a हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः 12278035c न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति 12278036 भीष्म उवाच 12278036a ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् 12278036c गच्छत्वेष यथाकाममिति राजन्पुनः पुनः 12278037a ततः प्रणम्य वरदं देवं देवीमुमां तथा 12278037c उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः 12278038a एतत्ते कथितं तात भार्गवस्य महात्मनः 12278038c चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि 12279001 युधिष्ठिर उवाच 12279001a अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे 12279001c न तृप्याम्यमृतस्येव वचसस्ते पितामह 12279002a किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम 12279002c श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद 12279003 भीष्म उवाच 12279003a अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः 12279003c पराशरं महात्मानं पप्रच्छ जनको नृपः 12279004a किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च 12279004c यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे 12279005a ततः स तपसा युक्तः सर्वधर्मविधानवित् 12279005c नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् 12279006a धर्म एव कृतः श्रेयानिह लोके परत्र च 12279006c तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः 12279007a प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते 12279007c धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम 12279007e तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते 12279008a चतुर्विधा हि लोकस्य यात्रा तात विधीयते 12279008c मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते 12279009a सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः 12279009c दशार्धप्रविभक्तानां भूतानां बहुधा गतिः 12279010a सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते 12279010c तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः 12279011a नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते 12279011c सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः 12279012a दैवं तात न पश्यामि नास्ति दैवस्य साधनम् 12279012c स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः 12279013a प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः 12279013c ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् 12279014a लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः 12279014c शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् 12279015a चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 12279015c कुरुते यादृशं कर्म तादृशं प्रतिपद्यते 12279016a निरन्तरं च मिश्रं च फलते कर्म पार्थिव 12279016c कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते 12279017a कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति 12279017c मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते 12279018a ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते 12279018c सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप 12279019a दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता 12279019c ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः 12279020a दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् 12279020c नित्यं मनःसमाधाने प्रयतेत विचक्षणः 12279021a नायं परस्य सुकृतं दुष्कृतं वापि सेवते 12279021c करोति यादृशं कर्म तादृशं प्रतिपद्यते 12279022a सुखदुःखे समाधाय पुमानन्येन गच्छति 12279022c अन्येनैव जनः सर्वः संगतो यश्च पार्थिव 12279023a परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः 12279023c यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति 12279024a भीरू राजन्यो ब्राह्मणः सर्वभक्षो; वैश्योऽनीहावान्हीनवर्णोऽलसश्च 12279024c विद्वांश्चाशीलो वृत्तहीनः कुलीनः; सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा 12279025a रागी मुक्तः पचमानोऽऽत्महेतो;र्मूर्खो वक्ता नृपहीनं च राष्ट्रम् 12279025c एते सर्वे शोच्यतां यान्ति राज;न्यश्चायुक्तः स्नेहहीनः प्रजासु 12280001 पराशर उवाच 12280001a मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः 12280001c रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान् 12280002a सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते 12280002c द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् 12280003a आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते 12280003c उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा 12280004a वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति 12280004c न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते 12280005a वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा 12280005c दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा 12280006a अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् 12280006c पापं हि कर्म फलति पापमेव स्वयं कृतम् 12280006e तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् 12280007a पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् 12280007c न तत्सेवेत मेधावी शुचिः कुसलिलं यथा 12280008a किंकष्टमनुपश्यामि फलं पापस्य कर्मणः 12280008c प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते 12280009a प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते 12280009c तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते 12280010a विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् 12280010c प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे 12280011a स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति 12280011c प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् 12280012a अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति 12280012c ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः 12280013a तथा कामकृतं चास्य विहिंसैवापकर्षति 12280013c इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः 12280014a अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् 12280014c गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् 12280015a यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् 12280015c बुद्धियुक्तानि तानीह कृतानि मनसा सह 12280016a भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् 12280016c अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा 12280017a कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा 12280017c नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् 12280018a संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः 12280018c करोति यः शुभं कर्म स वै भद्राणि पश्यति 12280019a नवे कपाले सलिलं संन्यस्तं हीयते यथा 12280019c नवेतरे तथाभावं प्राप्नोति सुखभावितम् 12280020a सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते 12280020c वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा 12280021a एवं कर्माणि यानीह बुद्धियुक्तानि भूपते 12280021c नसमानीह हीनानि तानि पुण्यतमान्यपि 12280022a राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम् 12280022c अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम् 12280023a दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत् 12280023c गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र 12281001 पराशर उवाच 12281001a कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति 12281001c प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना 12281002a गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् 12281002c सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् 12281003a विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ 12281003c तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः 12281004a न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् 12281004c संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः 12281005a न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् 12281005c शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् 12281006a अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा 12281006c शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् 12281007a रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना 12281007c फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ 12281008a तैरेव फलपत्रैश्च स माठरमतोषयत् 12281008c तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः 12281009a देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा 12281009c ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् 12281010a स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा 12281010c पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च 12281011a वाचः शेषावहार्येण पालनेनात्मनोऽपि च 12281011c यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः 12281012a प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः 12281012c सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः 12281013a विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् 12281013c ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः 12281014a गतः शुक्रत्वमुशना देवदेवप्रसादनात् 12281014c देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः 12281015a असितो देवलश्चैव तथा नारदपर्वतौ 12281015c कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान् 12281016a वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च 12281016c भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः 12281017a एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः 12281017c लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः 12281018a अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह 12281018c न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् 12281019a येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् 12281019c धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया 12281020a आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः 12281020c वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो 12281021a स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते 12281021c श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् 12281022a अग्निरात्मा च माता च पिता जनयिता तथा 12281022c गुरुश्च नरशार्दूल परिचर्या यथातथम् 12281023a मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान्क्लीबः पश्यति प्रीतियोगात् 12281023c दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः 12282001 पराशर उवाच 12282001a वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना 12282001c प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा 12282002a वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा 12282002c न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् 12282003a सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः 12282003c नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः 12282004a यथोदयगिरौ द्रव्यं संनिकर्षेण दीप्यते 12282004c तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते 12282005a यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् 12282005c तादृशं कुरुते रूपमेतदेवमवैहि मे 12282006a तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन 12282006c अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् 12282007a सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः 12282007c यश्चिनोति शुभान्येव स भद्राणीह पश्यति 12282008a धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् 12282008c न तत्सेवेत मेधावी न तद्धितमिहोच्यते 12282009a यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता 12282009c स शब्दमात्रफलभाग्राजा भवति तस्करः 12282010a स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम् 12282010c धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् 12282011a तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् 12282011c रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः 12282012a अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः 12282012c शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति 12282013a अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः 12282013c सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः 12282014a तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते 12282014c अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः 12282015a यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः 12282015c अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते 12282016a प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः 12282016c न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः 12282017a सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप 12282017c यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् 12282018a अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् 12282018c याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः 12282019a अवज्ञया दीयते यत्तथैवाश्रद्धयापि च 12282019c तदाहुरधमं दानं मुनयः सत्यवादिनः 12282020a अतिक्रमे मज्जमानो विविधेन नरः सदा 12282020c तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् 12282021a दमेन शोभते विप्रः क्षत्रियो विजयेन तु 12282021c धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते 12283001 पराशर उवाच 12283001a प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः 12283001c वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः 12283001e स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः 12283002a नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते 12283002c क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः 12283002e शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः 12283003a वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् 12283003c शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते 12283004a रङ्गावतरणं चैव तथा रूपोपजीवनम् 12283004c मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः 12283005a अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् 12283005c कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः 12283006a संसिद्धः पुरुषो लोके यदाचरति पापकम् 12283006c मदेनाभिप्लुतमनास्तच्च नग्राह्यमुच्यते 12283007a श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः 12283007c दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः 12283008a धर्म एव सदा नॄणामिह राजन्प्रशस्यते 12283008c धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि 12283009a तं धर्ममसुरास्तात नामृष्यन्त जनाधिप 12283009c विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः 12283010a तेषां दर्पः समभवत्प्रजानां धर्मनाशनः 12283010c दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत 12283011a ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् 12283011c ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत 12283012a ततो मोहपरीतास्ते नापश्यन्त यथा पुरा 12283012c परस्परावमर्देन वर्तयन्ति यथासुखम् 12283013a तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् 12283013c ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह 12283014a एतस्मिन्नेव काले तु देवा देववरं शिवम् 12283014c अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् 12283015a तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ 12283015c तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा 12283016a तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः 12283016c देवतानां भयकरः स हतः शूलपाणिना 12283017a तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः 12283017c प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा 12283018a ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् 12283018c सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे 12283019a सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः 12283019c राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् 12283020a महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये 12283020c तेषामथासुरो भावो हृदयान्नापसर्पति 12283021a तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः 12283021c आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः 12283022a प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च 12283022c भजन्ते तानि चाद्यापि ये बालिशतमा नराः 12283023a तस्मादहं ब्रवीमि त्वां राजन्संचिन्त्य शास्त्रतः 12283023c संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् 12283024a न संकरेण द्रविणं विचिन्वीत विचक्षणः 12283024c धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते 12283025a स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः 12283025c प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय 12283026a इष्टानिष्टसमायोगो वैरं सौहार्दमेव च 12283026c अथ जातिसहस्राणि बहूनि परिवर्तते 12283027a तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन 12283027c निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते 12283028a मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः 12283028c न तथान्येषु भूतेषु मनुष्यरहितेष्विह 12283029a धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा 12283029c आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् 12283030a यदा व्यपेतहृल्लेखं मनो भवति तस्य वै 12283030c नानृतं चैव भवति तदा कल्याणमृच्छति 12284001 पराशर उवाच 12284001a एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः 12284001c तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु 12284002a प्रायेण हि गृहस्थस्य ममत्वं नाम जायते 12284002c सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः 12284003a गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च 12284003c दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै 12284004a एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः 12284004c रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः 12284005a रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् 12284005c मोहजाता रतिर्नाम समुपैति नराधिप 12284006a कृतार्थो भोगतो भूत्वा स वै रतिपरायणः 12284006c लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति 12284007a ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् 12284007c पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति 12284008a स जानन्नपि चाकार्यमर्थार्थं सेवते नरः 12284008c बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते 12284009a ततो मानेन संपन्नो रक्षन्नात्मपराजयम् 12284009c करोति येन भोगी स्यामिति तस्माद्विनश्यति 12284010a तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् 12284010c अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् 12284011a स्नेहायतननाशाच्च धननाशाच्च पार्थिव 12284011c आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति 12284012a निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम् 12284012c शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति 12284013a दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् 12284013c यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति 12284014a तपः सर्वगतं तात हीनस्यापि विधीयते 12284014c जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् 12284015a प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः 12284015c क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव 12284016a आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः 12284016c विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः 12284017a यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः 12284017c संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः 12284018a ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा 12284018c ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा 12284019a मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः 12284019c महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् 12284020a कौशिकानि च वस्त्राणि शुभान्याभरणानि च 12284020c वाहनासनयानानि सर्वं तत्तपसः फलम् 12284021a मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः 12284021c वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् 12284022a शयनानि च मुख्यानि भोज्यानि विविधानि च 12284022c अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् 12284023a नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप 12284023c उपभोगपरित्यागः फलान्यकृतकर्मणाम् 12284024a सुखितो दुःखितो वापि नरो लोभं परित्यजेत् 12284024c अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम 12284025a असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः 12284025c ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता 12284026a नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति 12284026c तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् 12284027a यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते 12284027c कृताकृतस्य तपसः फलं पश्यस्व यादृशम् 12284028a नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते 12284028c प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः 12284029a अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् 12284029c फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् 12284030a धर्मे तपसि दाने च विचिकित्सास्य जायते 12284030c स कृत्वा पापकान्येव निरयं प्रतिपद्यते 12284031a सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम 12284031c स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः 12284032a इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता 12284032c रसने दर्शने घ्राणे श्रवणे च विशां पते 12284033a ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः 12284033c बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् 12284034a ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः 12284034c धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते 12284035a अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा 12284035c प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः 12284036a मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् 12284036c धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् 12284037a क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् 12284037c तेषां नान्यदृते लोके तपसः कर्म विद्यते 12284038a सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् 12284038c दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप 12284039a यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् 12284039c एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् 12285001 जनक उवाच 12285001a वर्णो विशेषवर्णानां महर्षे केन जायते 12285001c एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर 12285002a यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः 12285002c कथं ब्राह्मणतो जातो विशेषग्रहणं गतः 12285003 पराशर उवाच 12285003a एवमेतन्महाराज येन जातः स एव सः 12285003c तपसस्त्वपकर्षेण जातिग्रहणतां गतः 12285004a सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः 12285004c अतोऽन्यतरतो हीनादवरो नाम जायते 12285005a वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे 12285005c सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः 12285006a मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः 12285006c ऊरुजा धनिनो राजन्पादजाः परिचारकाः 12285007a चतुर्णामेव वर्णानामागमः पुरुषर्षभ 12285007c अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः 12285008a क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा 12285008c श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः 12285009a आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप 12285009c एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् 12285010 जनक उवाच 12285010a ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् 12285010c बहूनीह हि लोके वै गोत्राणि मुनिसत्तम 12285011a यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः 12285011c शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे 12285012 पराशर उवाच 12285012a राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना 12285012c महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् 12285013a उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह 12285013c स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः 12285014a पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः 12285014c वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः 12285015a यवक्रीतश्च नृपते द्रोणश्च वदतां वरः 12285015c आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च 12285016a एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् 12285016c प्रतिष्ठिता वेदविदो दमे तपसि चैव हि 12285017a मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव 12285017c अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च 12285018a कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव 12285018c नामधेयानि तपसा तानि च ग्रहणं सताम् 12285019 जनक उवाच 12285019a विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम 12285019c तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि 12285020 पराशर उवाच 12285020a प्रतिग्रहो याजनं च तथैवाध्यापनं नृप 12285020c विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना 12285021a कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि 12285021c द्विजानां परिचर्या च शूद्रकर्म नराधिप 12285022a विशेषधर्मा नृपते वर्णानां परिकीर्तिताः 12285022c धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे 12285023a आनृशंस्यमहिंसा चाप्रमादः संविभागिता 12285023c श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च 12285024a स्वेषु दारेषु संतोषः शौचं नित्यानसूयता 12285024c आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप 12285025a ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः 12285025c अत्र तेषामधीकारो धर्मेषु द्विपदां वर 12285026a विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः 12285026c उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु 12285027a न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा 12285027c श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधनं कृतम् 12285028a वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः 12285028c अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम् 12285029a सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः 12285029c मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः 12285030a यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः 12285030c तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते 12285031 जनक उवाच 12285031a किं कर्म दूषयत्येनमथ जातिर्महामुने 12285031c संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि 12285032 पराशर उवाच 12285032a असंशयं महाराज उभयं दोषकारकम् 12285032c कर्म चैव हि जातिश्च विशेषं तु निशामय 12285033a जात्या च कर्मणा चैव दुष्टं कर्म निषेवते 12285033c जात्या दुष्टश्च यः पापं न करोति स पूरुषः 12285034a जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् 12285034c कर्म तद्दूषयत्येनं तस्मात्कर्म नशोभनम् 12285035 जनक उवाच 12285035a कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम 12285035c न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा 12285036 पराशर उवाच 12285036a शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि 12285036c यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा 12285037a संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः 12285037c नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् 12285038a प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः 12285038c प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः 12285039a सर्वे वर्णा धर्मकार्याणि सम्य;क्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा 12285039c त्यक्त्वाधर्मं दारुणं जीवलोके; यान्ति स्वर्गं नात्र कार्यो विचारः 12286001 पराशर उवाच 12286001a पिता सखायो गुरवः स्त्रियश्च; न निर्गुणा नाम भवन्ति लोके 12286001c अनन्यभक्ताः प्रियवादिनश्च; हिताश्च वश्याश्च तथैव राजन् 12286002a पिता परं दैवतं मानवानां; मातुर्विशिष्टं पितरं वदन्ति 12286002c ज्ञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परमाप्नुवन्ति 12286003a रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजो घातमवाप्य दह्यते 12286003c प्रयाति लोकानमरैः सुदुर्लभा;न्निषेवते स्वर्गफलं यथासुखम् 12286004a श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश्च हीनम् 12286004c अनुद्यतं रोगिणं याचमानं; न वै हिंस्याद्बालवृद्धौ च राजन् 12286005a परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम् 12286005c अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् 12286006a तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः 12286006c निहीनात्कातराच्चैव नृपाणां गर्हितो वधः 12286007a पापात्पापसमाचारान्निहीनाच्च नराधिप 12286007c पाप एव वधः प्रोक्तो नरकायेति निश्चयः 12286008a न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् 12286008c सावशेषायुषं चापि कश्चिदेवापकर्षति 12286009a स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् 12286009c हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा 12286010a गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् 12286010c निधनं शोभनं तात पुलिनेषु क्रियावताम् 12286011a आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति 12286011c नाकारणात्तद्भवति कारणैरुपपादितम् 12286012a तथा शरीरं भवति देहाद्येनोपपादितम् 12286012c अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् 12286013a द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते 12286013c तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते 12286014a सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् 12286014c भूतानामिन्द्रियाणां च गुणानां च समागमम् 12286015a त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः 12286015c गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् 12286016a शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् 12286016c भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति 12286017a भावितं कर्मयोगेन जायते तत्र तत्र ह 12286017c इदं शरीरं वैदेह म्रियते यत्र तत्र ह 12286017e तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा 12286018a न जायते तु नृपते कंचित्कालमयं पुनः 12286018c परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् 12286019a स पुनर्जायते राजन्प्राप्येहायतनं नृप 12286019c मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः 12286020a द्विविधानां च भूतानां जङ्गमाः परमा नृप 12286020c जङ्गमानामपि तथा द्विपदाः परमा मताः 12286020e द्विपदानामपि तथा द्विजा वै परमाः स्मृताः 12286021a द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः 12286021c प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः 12286022a जातमन्वेति मरणं नृणामिति विनिश्चयः 12286022c अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः 12286023a आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् 12286023c नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् 12286024a अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् 12286024c मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः 12286025a विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः 12286025c दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते 12286026a न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः 12286026c एवंविधैश्च बहुभिरपरैः प्राकृतैरपि 12286027a ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप 12286027c मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् 12286028a एकः शत्रुर्न द्वितीयोऽस्ति शत्रु;रज्ञानतुल्यः पुरुषस्य राजन् 12286028c येनावृतः कुरुते संप्रयुक्तो; घोराणि कर्माणि सुदारुणानि 12286029a प्रबोधनार्थं श्रुतिधर्मयुक्तं; वृद्धानुपास्यं च भवेत यस्य 12286029c प्रयत्नसाध्यो हि स राजपुत्र; प्रज्ञाशरेणोन्मथितः परैति 12286030a अधीत्य वेदांस्तपसा ब्रह्मचारी; यज्ञाञ्शक्त्या संनिसृज्येह पञ्च 12286030c वनं गच्छेत्पुरुषो धर्मकामः; श्रेयश्चित्वा स्थापयित्वा स्ववंशम् 12286031a उपभोगैरपि त्यक्तं नात्मानमवसादयेत् 12286031c चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् 12286032a इयं हि योनिः प्रथमा यां प्राप्य जगतीपते 12286032c आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः 12286033a कथं न विप्रणश्येम योनितोऽस्या इति प्रभो 12286033c कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् 12286034a यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः 12286034c धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते 12286035a यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति 12286035c दीपोपमानि भूतानि यावदर्चिर्न नश्यति 12286036a सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत 12286036c समदुःखसुखो भूत्वा स परत्र महीयते 12286037a दानं त्यागः शोभना मूर्तिरद्भ्यो; भूयः प्लाव्यं तपसा वै शरीरम् 12286037c सरस्वतीनैमिषपुष्करेषु; ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् 12286038a गृहेषु येषामसवः पतन्ति; तेषामथो निर्हरणं प्रशस्तम् 12286038c यानेन वै प्रापणं च श्मशाने; शौचेन नूनं विधिना चैव दाहः 12286039a इष्टिः पुष्टिर्यजनं याजनं च; दानं पुण्यानां कर्मणां च प्रयोगः 12286039c शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं; सर्वाण्यात्मार्थे मानवो यः करोति 12286040a धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप 12286040c श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः 12286041 भीष्म उवाच 12286041a एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना 12286041c विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप 12287001 भीष्म उवाच 12287001a पुनरेव तु पप्रच्छ जनको मिथिलाधिपः 12287001c पराशरं महात्मानं धर्मे परमनिश्चयम् 12287002a किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति 12287002c क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने 12287003 पराशर उवाच 12287003a असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा 12287003c चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति 12287004a छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते 12287004c दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात् 12287005a यो ददाति सहस्राणि गवामश्वशतानि च 12287005c अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते 12287006a वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् 12287006c संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि 12287007a नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत् 12287007c अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् 12287008a नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति 12287008c कर्ता खलु यथाकालं तत्सर्वमभिपद्यते 12287008e न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः 12287009a बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते 12287009c शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् 12287010a वीतरागो जितक्रोधः सम्यग्भवति यः सदा 12287010c विषये वर्तमानोऽपि न स पापेन युज्यते 12287011a मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति 12287011c पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः 12287012a यथा भानुगतं तेजो मणिः शुद्धः समाधिना 12287012c आदत्ते राजशार्दूल तथा योगः प्रवर्तते 12287013a यथा तिलानामिह पुष्पसंश्रया;त्पृथक्पृथग्याति गुणोऽतिसौम्यताम् 12287013c तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते 12287014a जहाति दारानिहते न संपदः; सदश्वयानं विविधाश्च याः क्रियाः 12287014c त्रिविष्टपे जातमतिर्यदा नर;स्तदास्य बुद्धिर्विषयेषु भिद्यते 12287015a प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न 12287015c स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते 12287016a संघातवान्मर्त्यलोकः परस्परमपाश्रितः 12287016c कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति 12287017a न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते 12287017c क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते 12287018a यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति 12287018c तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् 12287019a मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् 12287019c अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् 12287020a यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् 12287020c तथात्मा पुरुषस्येह मनसा परिमुच्यते 12287020e मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति 12287021a परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते 12287021c इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते 12287022a अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् 12287022c प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च 12287023a मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः 12287023c तथा शरीरं तपसा तप्तं विषयमश्नुते 12287024a विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् 12287024c यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति 12287025a नीहारेण हि संवीतः शिश्नोदरपरायणः 12287025c जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते 12287026a वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् 12287026c तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः 12287027a अहोरात्रमये लोके जरारूपेण संचरन् 12287027c मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा 12287028a स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते 12287028c नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम् 12287029a शयानं यान्तमासीनं प्रवृत्तं विषयेषु च 12287029c शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा 12287030a न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति 12287030c दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे 12287031a यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना 12287031c तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति 12287032a यथा समुद्रमभितः संस्यूताः सरितोऽपराः 12287032c तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा 12287033a स्नेहपाशैर्बहुविधैरासक्तमनसो नराः 12287033c प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् 12287034a शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः 12287034c बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च 12287035a विस्तराः क्लेशसंयुक्ताः संक्षेपास्तु सुखावहाः 12287035c परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः 12287036a संकल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः 12287036c भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते 12287037a न माता न पिता किंचित्कस्यचित्प्रतिपद्यते 12287037c दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते 12287038a माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा 12287038c अष्टापदपदस्थाने त्वक्षमुद्रेव न्यस्यते 12287039a सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्यात्मनो यान्ति जन्तोः 12287039c उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चोदयतेऽन्तरात्मा 12287040a व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति 12287040c न तस्य कश्चिदारम्भः कदाचिदवसीदति 12287041a अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् 12287041c न श्रीः संत्यजते नित्यमादित्यमिव रश्मयः 12287042a आस्तिक्यव्यवसायाभ्यामुपायाद्विस्मयाद्धिया 12287042c यमारभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति 12287043a सर्वः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं; गर्भात्संप्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् 12287043c मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता; दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् 12287044a स्वरूपतामात्मकृतं च विस्तरं; कुलान्वयं द्रव्यसमृद्धिसंचयम् 12287044c नरो हि सर्वो लभते यथाकृतं; शुभाशुभेनात्मकृतेन कर्मणा 12287045 भीष्म उवाच 12287045a इत्युक्तो जनको राजन्यथातथ्यं मनीषिणा 12287045c श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह 12288001 युधिष्ठिर उवाच 12288001a सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह 12288001c विद्वांसो मनुजा लोके कथमेतन्मतं तव 12288002 भीष्म उवाच 12288002a अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 12288002c साध्यानामिह संवादं हंसस्य च युधिष्ठिर 12288003a हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः 12288003c स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् 12288004 साध्या ऊचुः 12288004a शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे 12288004c पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् 12288005a श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन् 12288005c किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन् 12288006a तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम् 12288006c यत्कृत्वा वै पुरुषः सर्वबन्धै;र्विमुच्यते विहगेन्द्रेह शीघ्रम् 12288007 हंस उवाच 12288007a इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः 12288007c ग्रन्थीन्विमुच्य हृदयस्य सर्वा;न्प्रियाप्रिये स्वं वशमानयीत 12288008a नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत 12288008c ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् 12288009a वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि 12288009c परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु 12288010a परश्चेदेनमतिवादबाणै;र्भृशं विध्येच्छम एवेह कार्यः 12288010c संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य 12288011a क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम् 12288011c अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम् 12288012a आक्रुश्यमानो न वदामि किंचि;त्क्षमाम्यहं ताड्यमानश्च नित्यम् 12288012c श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम् 12288013a वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः 12288013c दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् 12288014a वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम् 12288014c एतान्वेगान्यो विषहत्युदीर्णां;स्तं मन्येऽहं ब्राह्मणं वै मुनिं च 12288015a अक्रोधनः क्रुध्यतां वै विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः 12288015c अमानुषान्मानुषो वै विशिष्ट;स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः 12288016a आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः 12288016c आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति 12288017a यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात् 12288017c पापं च यो नेच्छति तस्य हन्तु;स्तस्मै देवाः स्पृहयन्ते सदैव 12288018a पापीयसः क्षमेतैव श्रेयसः सदृशस्य च 12288018c विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति 12288019a सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः 12288019c न चाप्यहं लिप्समानः परैमि; न चैव किंचिद्विषमेण यामि 12288020a नाहं शप्तः प्रतिशपामि किंचि;द्दमं द्वारं ह्यमृतस्येह वेद्मि 12288020c गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किंचित् 12288021a विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः 12288021c विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति 12288022a यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः 12288022c यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा 12288023a न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् 12288023c यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः 12288024a यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा 12288024c वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् 12288025a आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः 12288025c तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् 12288026a अमृतस्येव संतृप्येदवमानस्य वै द्विजः 12288026c सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति 12288027a यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति 12288027c वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य 12288028a चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः 12288028c उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् 12288029a सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः 12288029c स्वाध्यायनित्योऽस्पृहयन्परेषा;मेकान्तशील्यूर्ध्वगतिर्भवेत्सः 12288030a सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् 12288030c न पावनतमं किंचित्सत्यादध्यगमं क्वचित् 12288031a आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् 12288031c सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव 12288032a यादृशैः संनिवसति यादृशांश्चोपसेवते 12288032c यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः 12288033a यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव 12288033c वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति 12288034a सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम् 12288034c नेन्दुः समः स्यादसमो हि वायु;रुच्चावचं विषयं यः स वेद 12288035a अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे 12288035c तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै 12288036a शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम् 12288036c अपेतदोषानिति तान्विदित्वा; दूराद्देवाः संपरिवर्जयन्ति 12288037a न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा 12288037c सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह संभजन्ते 12288038a अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम् 12288038c धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम् 12288039 साध्या ऊचुः 12288039a केनायमावृतो लोकः केन वा न प्रकाशते 12288039c केन त्यजति मित्राणि केन स्वर्गं न गच्छति 12288040 हंस उवाच 12288040a अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते 12288040c लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति 12288041 साध्या ऊचुः 12288041a कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते 12288041c कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति 12288042 हंस उवाच 12288042a प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते 12288042c प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति 12288043 साध्या ऊचुः 12288043a किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते 12288043c असाधुत्वं च किं तेषां किमेषां मानुषं मतम् 12288044 हंस उवाच 12288044a स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते 12288044c असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते 12288045 भीष्म उवाच 12288045a संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः 12288045c क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते 12289001 युधिष्ठिर उवाच 12289001a सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि 12289001c तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम 12289002 भीष्म उवाच 12289002a सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः 12289002c वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै 12289003a अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन 12289003c वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः 12289004a वदन्ति कारणं चेदं सांख्याः सम्यग्द्विजातयः 12289004c विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः 12289005a ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा 12289005c एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् 12289006a स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् 12289006c शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः 12289007a प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः 12289007c उभे चैते मते तत्त्वे मम तात युधिष्ठिर 12289008a उभे चैते मते ज्ञाने नृपते शिष्टसंमते 12289008c अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् 12289009a तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ 12289009c व्रतानां धारणं तुल्यं दर्शनं न समं तयोः 12289010 युधिष्ठिर उवाच 12289010a यदि तुल्यं व्रतं शौचं दया चात्र पितामह 12289010c तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह 12289011 भीष्म उवाच 12289011a रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् 12289011c योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् 12289012a यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् 12289012c प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः 12289013a तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः 12289013c प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः 12289014a लोभजानि तथा राजन्बन्धनानि बलान्विताः 12289014c छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् 12289015a अबलाश्च मृगा राजन्वागुरासु तथापरे 12289015c विनश्यन्ति न संदेहस्तद्वद्योगबलादृते 12289016a बलहीनाश्च कौन्तेय यथा जालगता झषाः 12289016c अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः 12289017a यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम 12289017c तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः 12289018a कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप 12289018c अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः 12289019a अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः 12289019c आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो 12289020a स एव च यदा राजन्वह्निर्जातबलः पुनः 12289020c समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि 12289021a तद्वज्जातबलो योगी दीप्ततेजा महाबलः 12289021c अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् 12289022a दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः 12289022c बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः 12289023a तदेव च यथा स्रोतो विष्टम्भयति वारणः 12289023c तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् 12289024a विशन्ति चावशाः पार्थ योगा योगबलान्विताः 12289024c प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः 12289025a न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः 12289025c ईशते नृपते सर्वे योगस्यामिततेजसः 12289026a आत्मनां च सहस्राणि बहूनि भरतर्षभ 12289026c योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् 12289027a प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् 12289027c संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव 12289028a बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव 12289028c विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् 12289029a बलानि योगे प्रोक्तानि मयैतानि विशां पते 12289029c निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव 12289030a आत्मनश्च समाधाने धारणां प्रति चाभिभो 12289030c निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ 12289031a अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः 12289031c युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् 12289032a स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् 12289032c पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः 12289033a युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम् 12289033c करोत्यमलमात्मानं भास्करोपमदर्शनम् 12289034a यथा च नावं कौन्तेय कर्णधारः समाहितः 12289034c महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् 12289035a तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् 12289035c दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप 12289036a सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः 12289036c देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ 12289037a तथैव नृपते योगी धारणासु समाहितः 12289037c प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः 12289038a आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः 12289038c पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् 12289039a नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः 12289039c दर्शने स्पर्शने चापि घ्राणे चामितविक्रम 12289040a स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः 12289040c आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते 12289041a स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् 12289041c उत्तमं योगमास्थाय यदीच्छति विमुच्यते 12289042 युधिष्ठिर उवाच 12289042a आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत 12289042c योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति 12289043 भीष्म उवाच 12289043a कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे 12289043c स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् 12289044a भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम 12289044c एकारामो विशुद्धात्मा योगी बलमवाप्नुयात् 12289045a पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा 12289045c अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् 12289046a अखण्डमपि वा मासं सततं मनुजेश्वर 12289046c उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् 12289047a कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च 12289047c भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा 12289048a अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव 12289048c स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम 12289049a दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना 12289049c वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा 12289050a दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् 12289050c न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ 12289051a यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् 12289051c श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् 12289052a अभक्तमटवीप्रायं दावदग्धमहीरुहम् 12289052c पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा 12289053a योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः 12289053c क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः 12289054a सुस्थेयं क्षुरधारासु निशितासु महीपते 12289054c धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः 12289055a विपन्ना धारणास्तात नयन्ति नशुभां गतिम् 12289055c नेतृहीना यथा नावः पुरुषानर्णवे नृप 12289056a यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि 12289056c मरणं जन्म दुःखं च सुखं च स विमुञ्चति 12289057a नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् 12289057c परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु 12289058a परं हि तद्ब्रह्म महन्महात्म;न्ब्रह्माणमीशं वरदं च विष्णुम् 12289058c भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान् 12289059a तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च 12289059c सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम् 12289060a ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च 12289060c शैलांश्च कृत्स्नानुदधींश्च घोरा;न्नदीश्च सर्वाः सवनान्घनांश्च 12289061a नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसंघान्पुरुषान्स्त्रियश्च 12289061c परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः 12289062a कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम् 12289062c योगान्स सर्वानभिभूय मर्त्या;न्नारायणात्मा कुरुते महात्मा 12290001 युधिष्ठिर उवाच 12290001a सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः 12290001c योगमार्गो यथान्यायं शिष्यायेह हितैषिणा 12290002a सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते 12290002c त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते 12290003 भीष्म उवाच 12290003a शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम् 12290003c विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः 12290004a यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ 12290004c गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला 12290005a ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप 12290005c मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा 12290006a राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा 12290006c विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा 12290007a पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप 12290007c सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा 12290008a राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा 12290008c आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च 12290009a देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् 12290009c विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा 12290010a आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः 12290010c सुखस्य च परं तत्त्वं विज्ञाय वदतां वर 12290011a प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् 12290011c तिर्यक्च पततां दुःखं पततां नरके च यत् 12290012a स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत 12290012c वेदवादे च ये दोषा गुणा ये चापि वैदिकाः 12290013a ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप 12290013c सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप 12290014a सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा 12290014c तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा 12290015a षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा 12290015c बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् 12290016a द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः 12290016c मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा 12290017a ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभैः 12290017c प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् 12290018a रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च 12290018c शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च 12290019a तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् 12290019c मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् 12290020a विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् 12290020c अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः 12290021a तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् 12290021c नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् 12290022a बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् 12290022c रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि 12290023a सक्तमात्मानमीशे च देवे नारायणे तथा 12290023c देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् 12290024a ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः 12290024c स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते 12290025a मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते 12290025c द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् 12290026a इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् 12290026c प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः 12290027a अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः 12290027c सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः 12290028a प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् 12290028c सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप 12290029a सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् 12290029c ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप 12290030a महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव 12290030c गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् 12290031a वैतरण्यां च यद्दुःखं पतितानां यमक्षये 12290031c योनीषु च विचित्रासु संसारानशुभांस्तथा 12290032a जठरे चाशुभे वासं शोणितोदकभाजने 12290032c श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते 12290033a शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे 12290033c सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ 12290034a विज्ञायाहितमात्मानं योगांश्च विविधान्नृप 12290034c तामसानां च जन्तूनां रमणीयावृतात्मनाम् 12290035a सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ 12290035c गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् 12290036a उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा 12290036c ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् 12290037a द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप 12290037c अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् 12290038a बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् 12290038c रागे मोहे च संप्राप्ते क्वचित्सत्त्वं समाश्रितम् 12290039a सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः 12290039c दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् 12290040a बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः 12290040c विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः 12290041a गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् 12290041c वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत 12290042a ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् 12290042c सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् 12290042e गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् 12290043a जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर 12290043c सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः 12290044a तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् 12290044c तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् 12290045a वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा 12290045c क्षयं संवत्सराणां च मासानां प्रक्षयं तथा 12290046a पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् 12290046c क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा 12290047a वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः 12290047c क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च 12290048a संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः 12290048c क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा 12290049a वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः 12290049c जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह 12290050a देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः 12290050c देहविक्लवतां चैव सम्यग्विज्ञाय भारत 12290051a आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् 12290051c स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् 12290052 युधिष्ठिर उवाच 12290052a कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम 12290052c एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः 12290053 भीष्म उवाच 12290053a पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः 12290053c मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन 12290054a कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते 12290054c एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् 12290055a छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् 12290055c सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा 12290055e छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप 12290056a गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि 12290056c हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः 12290057a अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् 12290057c चित्तभित्तिप्रतीकाशं नलसारमनर्थकम् 12290058a तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् 12290058c नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् 12290058e रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् 12290059a सांख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् 12290059c ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप 12290060a राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् 12290060c पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् 12290060e छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत 12290061a ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् 12290061c व्याधिमृत्युमहाग्राहं महाभयमहोरगम् 12290062a तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत 12290062c स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम 12290063a कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप 12290063c हिंसाशीघ्रमहावेगं नानारसमहाकरम् 12290064a नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् 12290064c शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् 12290065a अस्थिसंघातसंघाटं श्लेष्मफेनमरिंदम 12290065c दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम् 12290066a हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् 12290066c रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् 12290067a पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् 12290067c अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् 12290068a वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् 12290068c मोक्षदुष्प्रापविषयं वडवामुखसागरम् 12290069a तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत 12290069c तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः 12290070a ततस्तान्सुकृतीन्सांख्यान्सूर्यो वहति रश्मिभिः 12290070c पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप 12290071a तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत 12290071c वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् 12290072a सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत 12290072c सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् 12290072e स तान्वहति कौन्तेय नभसः परमां गतिम् 12290073a नभो वहति लोकेश रजसः परमां गतिम् 12290073c रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् 12290074a सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् 12290074c प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना 12290075a परमात्मानमासाद्य तद्भूतायतनामलाः 12290075c अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो 12290075e परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् 12290076 युधिष्ठिर उवाच 12290076a स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः 12290076c आजन्ममरणं वा ते स्मरन्त्युत न वानघ 12290077a यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि 12290077c त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव 12290078a मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् 12290078c यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे 12290079a प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप 12290079c मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत् 12290080 भीष्म उवाच 12290080a यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः 12290080c बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ 12290080e अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् 12290081a बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् 12290081c इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप 12290081e कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः 12290082a आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु 12290082c विनश्यन्ति न संदेहः फेना इव महार्णवे 12290083a इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन 12290083c सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः 12290084a स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो 12290084c बुध्यमानो यथापूर्वमखिलेनेह भारत 12290085a इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि 12290085c अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव 12290086a इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः 12290086c आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः 12290087a सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः 12290087c गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत 12290088a गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा 12290088c गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः 12290089a अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि 12290089c सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर 12290090a आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे 12290090c शिष्या इव महात्मानमिन्द्रियाणि च तं विभो 12290091a प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् 12290091c परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम् 12290092a विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् 12290092c परमात्मानमगुणं न निवर्तति भारत 12290093a शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत 12290093c आगच्छन्ति यथाकालं गुरोः संदेशकारिणः 12290094a शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना 12290094c एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा 12290095a सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् 12290095c ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते 12290096a अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् 12290096c अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम् 12290097a अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् 12290097c कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः 12290098a यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12290098c यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः 12290099a सर्वे विप्राश्च देवाश्च तथागमविदो जनाः 12290099c ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम् 12290100a प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः 12290100c सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः 12290101a अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः 12290101c अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ 12290102a द्विविधानीह भूतानि पृथिव्यां पृथिवीपते 12290102c जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते 12290103a ज्ञानं महद्यद्धि महत्सु राज;न्वेदेषु सांख्येषु तथैव योगे 12290103c यच्चापि दृष्टं विविधं पुराणं; सांख्यागतं तन्निखिलं नरेन्द्र 12290104a यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे 12290104c ज्ञानं च लोके यदिहास्ति किंचि;त्सांख्यागतं तच्च महन्महात्मन् 12290105a शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् 12290105c तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद्विहितानि राजन् 12290106a विपर्यये तस्य हि पार्थ देवा;न्गच्छन्ति सांख्याः सततं सुखेन 12290106c तांश्चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः 12290107a हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ सांख्याः 12290107c ततोऽधिकं तेऽभिरता महार्हे; सांख्ये द्विजाः पार्थिव शिष्टजुष्टे 12290108a तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः 12290108c न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः 12290109a सांख्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् 12290109c कृत्स्नं च सांख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम् 12290110a एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम् 12290110c स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः 12291001 युधिष्ठिर उवाच 12291001a किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः 12291001c किं च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः 12291002a अक्षरक्षरयोर्व्यक्तिमिच्छाम्यरिनिषूदन 12291002c उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन 12291003a त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः 12291003c ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः 12291004a शेषमल्पं दिनानां ते दक्षिणायनभास्करे 12291004c आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् 12291005a त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् 12291005c कुरुवंशप्रदीपस्त्वं ज्ञानद्रव्येण दीप्यसे 12291006a तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह 12291006c न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् 12291007 भीष्म उवाच 12291007a अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 12291007c वसिष्ठस्य च संवादं करालजनकस्य च 12291008a वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् 12291008c पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् 12291009a परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् 12291009c मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः 12291010a स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् 12291010c पप्रच्छर्षिवरं राजा करालजनकः पुरा 12291011a भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् 12291011c यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः 12291012a यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् 12291012c यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् 12291013 वसिष्ठ उवाच 12291013a श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् 12291013c यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ 12291014a युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्गुणम् 12291014c दशकल्पशतावृत्तं तदहर्ब्राह्ममुच्यते 12291014e रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते 12291015a सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् 12291015c मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः 12291015e अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् 12291016a सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् 12291016c सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति 12291017a हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः 12291017c महानिति च योगेषु विरिञ्च इति चाप्युत 12291018a सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः 12291018c विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः 12291019a वृतं नैकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना 12291019c तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः 12291020a एष वै विक्रियापन्नः सृजत्यात्मानमात्मना 12291020c अहंकारं महातेजाः प्रजापतिमहंकृतम् 12291021a अव्यक्ताद्व्यक्तमुत्पन्नं विद्यासर्गं वदन्ति तम् 12291021c महान्तं चाप्यहंकारमविद्यासर्गमेव च 12291022a अविधिश्च विधिश्चैव समुत्पन्नौ तथैकतः 12291022c विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः 12291023a भूतसर्गमहंकारात्तृतीयं विद्धि पार्थिव 12291023c अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम् 12291024a वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा 12291024c शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च 12291025a एवं युगपदुत्पन्नं दशवर्गमसंशयम् 12291025c पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् 12291026a श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् 12291026c वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च 12291027a बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च 12291027c संभूतानीह युगपन्मनसा सह पार्थिव 12291028a एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते 12291028c यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः 12291029a एतद्देहं समाख्यातं त्रैलोक्ये सर्वदेहिषु 12291029c वेदितव्यं नरश्रेष्ठ सदेवनरदानवे 12291030a सयक्षभूतगन्धर्वे सकिंनरमहोरगे 12291030c सचारणपिशाचे वै सदेवर्षिनिशाचरे 12291031a सदंशकीटमशके सपूतिकृमिमूषके 12291031c शुनि श्वपाके वैणेये सचण्डाले सपुल्कसे 12291032a हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह 12291032c यच्च मूर्तिमयं किंचित्सर्वत्रैतन्निदर्शनम् 12291033a जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः 12291033c स्थानं देहवतामस्ति इत्येवमनुशुश्रुम 12291034a कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकम् 12291034c अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः 12291035a एतदक्षरमित्युक्तं क्षरतीदं यथा जगत् 12291035c जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसंज्ञकम् 12291036a महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् 12291036c कथितं ते महाराज यस्मान्नावर्तते पुनः 12291037a पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसंज्ञकः 12291037c तत्त्वसंश्रयणादेतत्तत्त्वमाहुर्मनीषिणः 12291038a यदमूर्त्यसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति 12291038c चतुर्विंशतिमो व्यक्तो ह्यमूर्तः पञ्चविंशकः 12291039a स एव हृदि सर्वासु मूर्तिष्वातिष्ठतेऽऽत्मवान् 12291039c चेतयंश्चेतनो नित्यः सर्वमूर्तिरमूर्तिमान् 12291040a सर्गप्रलयधर्मिण्या असर्गप्रलयात्मकः 12291040c गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञकः 12291041a एवमेष महानात्मा सर्गप्रलयकोविदः 12291041c विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् 12291042a तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु 12291042c लीयतेऽप्रतिबुद्धत्वादबुद्धजनसेवनात् 12291043a सहवासो निवासात्मा नान्योऽहमिति मन्यते 12291043c योऽहं सोऽहमिति ह्युक्त्वा गुणाननु निवर्तते 12291044a तमसा तामसान्भावान्विविधान्प्रतिपद्यते 12291044c रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंश्रयात् 12291045a शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु 12291045c सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि वै 12291046a तामसा निरयं यान्ति राजसा मानुषांस्तथा 12291046c सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः 12291047a निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् 12291047c पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः 12291048a एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः 12291048c पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते 12292001 वसिष्ठ उवाच 12292001a एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते 12292001c देहाद्देहसहस्राणि तथा समभिपद्यते 12292002a तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि 12292002c उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् 12292003a मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च 12292003c मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते 12292004a कोशकारो यथात्मानं कीटः समनुरुन्धति 12292004c सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः 12292005a द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु 12292005c शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे 12292006a जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके 12292006c श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि 12292007a यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु 12292007c उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते 12292007e अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि 12292008a एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा 12292008c मण्डूकशायी च तथा वीरासनगतस्तथा 12292009a चीरधारणमाकाशे शयनं स्थानमेव च 12292009c इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा 12292010a भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः 12292010c वीरस्थानाम्बुपङ्के च शयनं फलकेषु च 12292011a विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः 12292011c मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च 12292012a शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः 12292012c सिंहचर्मपरीधानः पट्टवासास्तथैव च 12292013a कीटकावसनश्चैव चीरवासास्तथैव च 12292013c वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् 12292014a भोजनानि विचित्राणि रत्नानि विविधानि च 12292014c एकवस्त्रान्तराशित्वमेककालिकभोजनम् 12292015a चतुर्थाष्टमकालश्च षष्ठकालिक एव च 12292015c षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः 12292016a सप्तरात्रदशाहारो द्वादशाहार एव च 12292016c मासोपवासी मूलाशी फलाहारस्तथैव च 12292017a वायुभक्षोऽम्बुपिण्याकगोमयादन एव च 12292017c गोमूत्रभोजनश्चैव शाकपुष्पाद एव च 12292018a शैवालभोजनश्चैव तथाचामेन वर्तयन् 12292018c वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः 12292019a विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया 12292019c चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च 12292020a चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि 12292020c उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च 12292021a विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च 12292021c विविधानि च जप्यानि विविधानि व्रतानि च 12292022a नियमान्सुविचित्रांश्च विविधानि तपांसि च 12292022c यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा 12292023a वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च 12292023c दानं च विविधाकारं दीनान्धकृपणेष्वपि 12292024a अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान् 12292024c सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च 12292024e प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत 12292025a स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः 12292025c याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् 12292025e यजनाध्ययने चैव यच्चान्यदपि किंचन 12292026a जन्ममृत्युविवादे च तथा विशसनेऽपि च 12292026c शुभाशुभमयं सर्वमेतदाहुः क्रियापथम् 12292027a प्रकृतिः कुरुते देवी महाप्रलयमेव च 12292027c दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति 12292028a रश्मिजालमिवादित्यस्तत्कालेन नियच्छति 12292028c एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते 12292029a आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् 12292029c एवमेव विकुर्वाणः सर्गप्रलयकर्मणी 12292030a क्रियाक्रियापथे रक्तस्त्रिगुणस्त्रिगुणातिगः 12292030c क्रियाक्रियापथोपेतस्तथा तदिति मन्यते 12292031a एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः 12292031c ममैवैतानि जायन्ते बाधन्ते तानि मामिति 12292032a निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप 12292032c मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि 12292033a भोक्तव्यानि मयैतानि देवलोकगतेन वै 12292033c इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् 12292034a सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम 12292034c यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति 12292035a भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् 12292035c महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् 12292036a निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः 12292036c मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः 12292036e मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति 12292037a य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः 12292037c तेन देवमनुष्येषु निरये चोपपद्यते 12292038a ममत्वेनावृतो नित्यं तत्रैव परिवर्तते 12292038c सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु 12292039a य एवं कुरुते कर्म शुभाशुभफलात्मकम् 12292039c स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान् 12292040a प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् 12292040c प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा 12292041a तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12292041c त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह 12292042a अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे 12292042c तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति 12292043a स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् 12292043c व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते 12292044a श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च 12292044c वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह 12292044e अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च 12292045a निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः 12292045c अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः 12292046a असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः 12292046c अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः 12292047a अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः 12292047c अतपास्तप आत्मानमगतिर्गतिमात्मनः 12292048a अभवो भवमात्मानमभयो भयमात्मनः 12292048c अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते 12293001 वसिष्ठ उवाच 12293001a एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् 12293001c सर्गकोटिसहस्राणि पतनान्तानि गच्छति 12293002a धाम्ना धामसहस्राणि मरणान्तानि गच्छति 12293002c तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च 12293003a चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः 12293003c लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् 12293004a कलाः पञ्चदशा योनिस्तद्धाम इति पठ्यते 12293004c नित्यमेतद्विजानीहि सोमः षोडशमी कला 12293005a कलायां जायतेऽजस्रं पुनः पुनरबुद्धिमान् 12293005c धाम तस्योपयुञ्जन्ति भूय एव तु जायते 12293006a षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् 12293006c न तूपयुज्यते देवैर्देवानुपयुनक्ति सा 12293007a एवं तां क्षपयित्वा हि जायते नृपसत्तम 12293007c सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते 12293008a तदेवं षोडशकलं देहमव्यक्तसंज्ञकम् 12293008c ममायमिति मन्वानस्तत्रैव परिवर्तते 12293009a पञ्चविंशस्तथैवात्मा तस्यैवा प्रतिबोधनात् 12293009c विमलस्य विशुद्धस्य शुद्धानिलनिषेवणात् 12293010a अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव 12293010c अबुद्धसेवनाच्चापि बुद्धोऽप्यबुधतां व्रजेत् 12293011a तथैवाप्रतिबुद्धोऽपि ज्ञेयो नृपतिसत्तम 12293011c प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् 12293012 करालजनक उवाच 12293012a अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते 12293012c स्त्रीपुंसोर्वापि भगवन्संबन्धस्तद्वदुच्यते 12293013a ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत 12293013c ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा 12293014a अन्योन्यस्याभिसंबन्धादन्योन्यगुणसंश्रयात् 12293014c रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु 12293015a रत्यर्थमभिसंरोधादन्योन्यगुणसंश्रयात् 12293015c ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् 12293016a ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा 12293016c अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज 12293017a त्वङ्मांसं शोणितं चैव मातृजान्यपि शुश्रुम 12293017c एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते 12293018a प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते 12293018c वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् 12293019a एवमेवाभिसंबद्धौ नित्यं प्रकृतिपूरुषौ 12293019c पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते 12293020a अथ वानन्तरकृतं किंचिदेव निदर्शनम् 12293020c तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा 12293021a मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् 12293021c अदेहमजरं दिव्यमतीन्द्रियमनीश्वरम् 12293022 वसिष्ठ उवाच 12293022a यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् 12293022c एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् 12293023a धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः 12293023c न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर 12293024a यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः 12293024c न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा 12293025a भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः 12293025c यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा 12293026a ग्रन्थस्यार्थं च पृष्टः संस्तादृशो वक्तुमर्हति 12293026c यथा तत्त्वाभिगमनादर्थं तस्य स विन्दति 12293027a यस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान् 12293027c स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् 12293028a निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः 12293028c सोपहासात्मतामेति यस्माच्चैवात्मवानपि 12293029a तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते 12293029c याथातथ्येन सांख्येषु योगेषु च महात्मसु 12293030a यदेव योगाः पश्यन्ति सांख्यैस्तदनुगम्यते 12293030c एकं सांख्यं च योगं च यः पश्यति स बुद्धिमान् 12293031a त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12293031c एतदैन्द्रियकं तात यद्भवानिदमाह वै 12293032a द्रव्याद्द्रव्यस्य निष्पत्तिरिन्द्रियादिन्द्रियं तथा 12293032c देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च 12293033a निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः 12293033c कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः 12293034a गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च 12293034c एवं गुणाः प्रकृतितो जायन्ते च न सन्ति च 12293035a त्वङ्मांसं रुधिरं मेदः पित्तं मज्जास्थि स्नायु च 12293035c अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै 12293036a पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् 12293036c नैव पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते 12293037a अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति सात्मजैः 12293037c यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा 12293038a एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते 12293038c पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः 12293039a अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः 12293039c केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते 12293040a गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः 12293040c तस्मादेवं विजानन्ति ये जना गुणदर्शिनः 12293041a यदा त्वेष गुणान्सर्वान्प्राकृतानभिमन्यते 12293041c तदा स गुणवानेव परमेणानुपश्यति 12293042a यत्तद्बुद्धेः परं प्राहुः सांख्या योगाश्च सर्वशः 12293042c बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् 12293043a अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरीश्वरम् 12293043c निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च 12293044a प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः 12293044c सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः 12293045a यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः 12293045c बुध्यमानं प्रबुध्यन्ति गमयन्ति समं तदा 12293046a एतन्निदर्शनं सम्यगसम्यगनुदर्शनम् 12293046c बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथगरिंदम 12293047a परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् 12293047c एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते 12293048a पञ्चविंशतिनिष्ठोऽयं यदासम्यक्प्रवर्तते 12293048c एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् 12293049a तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् 12293049c पञ्चविंशतिसर्गं तु तत्त्वमाहुर्मनीषिणः 12293050a निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् 12293050c वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् 12294001 करालजनक उवाच 12294001a नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम 12294001c पश्यामि चाभिसंदिग्धमेतयोर्वै निदर्शनम् 12294002a तथाप्रबुद्धबुद्धाभ्यां बुध्यमानस्य चानघ 12294002c स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः 12294003a अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् 12294003c तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ 12294004a तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् 12294004c बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12294005a विद्याविद्ये च भगवन्नक्षरं क्षरमेव च 12294005c सांख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह 12294006 वसिष्ठ उवाच 12294006a हन्त ते संप्रवक्ष्यामि यदेतदनुपृच्छसि 12294006c योगकृत्यं महाराज पृथगेव शृणुष्व मे 12294007a योगकृत्यं तु योगानां ध्यानमेव परं बलम् 12294007c तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः 12294008a एकाग्रता च मनसः प्राणायामस्तथैव च 12294008c प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा 12294009a मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप 12294009c त्रिकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः 12294010a इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः 12294010c दशद्वादशभिर्वापि चतुर्विंशात्परं ततः 12294011a तं चोदनाभिर्मतिमानात्मानं चोदयेदथ 12294011c तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः 12294012a तैश्चात्मा सततं ज्ञेय इत्येवमनुशुश्रुम 12294012c द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः 12294013a विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः 12294013c पूर्वरात्रे परे चैव धारयेत मनोऽऽत्मनि 12294014a स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर 12294014c मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः 12294015a स्थाणुवच्चाप्यकम्पः स्याद्गिरिवच्चापि निश्चलः 12294015c बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते 12294016a न शृणोति न चाघ्राति न रस्यति न पश्यति 12294016c न च स्पर्शं विजानाति न संकल्पयते मनः 12294017a न चाभिमन्यते किंचिन्न च बुध्यति काष्ठवत् 12294017c तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः 12294018a निवाते च यथा दीप्यन्दीपस्तद्वत्स दृश्यते 12294018c निरिङ्गश्चाचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् 12294019a तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते 12294019c हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः 12294020a विधूम इव सप्तार्चिरादित्य इव रश्मिमान् 12294020c वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथात्मनि 12294021a यं पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः 12294021c ब्राह्मणा ब्रह्मयोनिष्ठा ह्ययोनिममृतात्मकम् 12294022a तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् 12294022c तदन्तः सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते 12294023a बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् 12294023c महतस्तमसस्तात पारे तिष्ठन्नतामसः 12294024a स तमोनुद इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः 12294024c विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसंज्ञितः 12294025a योगमेतद्धि योगानां मन्ये योगस्य लक्षणम् 12294025c एवं पश्यं प्रपश्यन्ति आत्मानमजरं परम् 12294026a योगदर्शनमेतावदुक्तं ते तत्त्वतो मया 12294026c सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् 12294027a अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः 12294027c तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम 12294028a अहंकारस्तु महतस्तृतीयमिति नः श्रुतम् 12294028c पञ्च भूतान्यहंकारादाहुः सांख्यानुदर्शिनः 12294029a एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश 12294029c पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च 12294030a एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः 12294030c सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः 12294031a यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते 12294031c लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना 12294032a अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः 12294032c गुणा गुणेषु सततं सागरस्योर्मयो यथा 12294033a सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम 12294033c एकत्वं प्रलये चास्य बहुत्वं च यदासृजत् 12294033e एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः 12294034a अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् 12294034c एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववान् 12294034e एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् 12294035a बहुधात्मा प्रकुर्वीत प्रकृतिं प्रसवात्मिकाम् 12294035c तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति 12294036a अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः 12294036c अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् 12294037a क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते 12294037c अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते 12294038a अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते 12294038c क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः 12294039a अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते 12294039c ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः 12294040a अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् 12294040c अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् 12294041a सांख्यदर्शनमेतावत्परिसंख्यानदर्शनम् 12294041c सांख्यं प्रकुरुते चैव प्रकृतिं च प्रचक्षते 12294042a तत्त्वानि च चतुर्विंशत्परिसंख्याय तत्त्वतः 12294042c सांख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः 12294043a पञ्चविंशोऽप्रबुद्धात्मा बुध्यमान इति स्मृतः 12294043c यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः 12294044a सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः 12294044c एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत 12294045a सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा 12294045c गुणतत्त्वान्यथैतानि निर्गुणोऽन्यस्तथा भवेत् 12294046a न त्वेवं वर्तमानानामावृत्तिर्विद्यते पुनः 12294046c विद्यतेऽक्षरभावत्वादपरस्परमव्ययम् 12294047a पश्येरन्नेकमतयो न सम्यक्तेषु दर्शनम् 12294047c तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिंदम 12294048a सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् 12294048c व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः 12294049a सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः 12294049c य एनमभिजानन्ति न भयं तेषु विद्यते 12295001 वसिष्ठ उवाच 12295001a सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम 12295001c विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः 12295002a अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै 12295002c सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् 12295003a परस्परमविद्यां वै तन्निबोधानुपूर्वशः 12295003c यथोक्तमृषिभिस्तात सांख्यस्यास्य निदर्शनम् 12295004a कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् 12295004c बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् 12295005a विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः 12295005c मनसः पञ्चभूतानि विद्या इत्यभिचक्षते 12295006a अहंकारस्तु भूतानां पञ्चानां नात्र संशयः 12295006c अहंकारस्य च तथा बुद्धिर्विद्या नरेश्वर 12295007a बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् 12295007c विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः 12295008a अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् 12295008c सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव 12295009a ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् 12295009c तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः 12295010a विद्याविद्यार्थतत्त्वेन मयोक्तं ते विशेषतः 12295010c अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे 12295011a उभावेतौ क्षरावुक्तावुभावेतौ च नक्षरौ 12295011c कारणं तु प्रवक्ष्यामि यथा ख्यातौ तु तत्त्वतः 12295012a अनादिनिधनावेतावुभावेवेश्वरौ मतौ 12295012c तत्त्वसंज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः 12295013a सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरक्षरम् 12295013c तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः 12295014a गुणानां महदादीनामुत्पद्यति परस्परम् 12295014c अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् 12295015a यदा तु गुणजालं तदव्यक्तात्मनि संक्षिपेत् 12295015c तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते 12295016a गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् 12295016c क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे संप्रलीयते 12295017a तदाक्षरत्वं प्रकृतिर्गच्छते गुणसंज्ञिता 12295017c निर्गुणत्वं च वैदेह गुणेषु प्रतिवर्तनात् 12295018a एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये 12295018c प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम 12295019a क्षरो भवत्येष यदा तदा गुणवतीमथ 12295019c प्रकृतिं त्वभिजानाति निर्गुणत्वं तथात्मनः 12295020a तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् 12295020c अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् 12295021a तदैषोऽन्यत्वतामेति न च मिश्रत्वमाव्रजेत् 12295021c प्रकृत्या चैव राजेन्द्र नमिश्रोऽन्यश्च दृश्यते 12295022a यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते 12295022c पश्यते चापरं पश्यं तदा पश्यन्न संज्वरेत् 12295023a किं मया कृतमेतावद्योऽहं कालमिमं जनम् 12295023c मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा 12295024a अहमेव हि संमोहादन्यमन्यं जनाज्जनम् 12295024c मत्स्यो यथोदकज्ञानादनुवर्तितवानिह 12295025a मत्स्योऽन्यत्वं यथाज्ञानादुदकान्नाभिमन्यते 12295025c आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् 12295026a ममास्तु धिगबुद्धस्य योऽहं मग्नमिमं पुनः 12295026c अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् 12295027a अयमत्र भवेद्बन्धुरनेन सह मोक्षणम् 12295027c साम्यमेकत्वमायातो यादृशस्तादृशस्त्वहम् 12295028a तुल्यतामिह पश्यामि सदृशोऽहमनेन वै 12295028c अयं हि विमलो व्यक्तमहमीदृशकस्तथा 12295029a योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् 12295029c ससङ्गयाहं निःसङ्गः स्थितः कालमिमं त्वहम् 12295030a अनयाहं वशीभूतः कालमेतं न बुद्धवान् 12295030c उच्चमध्यमनीचानां तामहं कथमावसे 12295031a समानयानया चेह सहवासमहं कथम् 12295031c गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे 12295032a सहवासं न यास्यामि कालमेतद्धि वञ्चनात् 12295032c वञ्चितोऽस्म्यनया यद्धि निर्विकारो विकारया 12295033a न चायमपराधोऽस्या अपराधो ह्ययं मम 12295033c योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः 12295034a ततोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् 12295034c अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः 12295035a प्रकृतेरनयत्वेन तासु तास्विह योनिषु 12295035c निर्ममस्य ममत्वेन किं कृतं तासु तासु च 12295035e योनीषु वर्तमानेन नष्टसंज्ञेन चेतसा 12295036a न ममात्रानया कार्यमहंकारकृतात्मया 12295036c आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् 12295036e इदानीमेष बुद्धोऽस्मि निर्ममो निरहंकृतः 12295037a ममत्वमनया नित्यमहंकारकृतात्मकम् 12295037c अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् 12295038a अनेन साम्यं यास्यामि नानयाहमचेतसा 12295038c क्षमं मम सहानेन नैकत्वमनया सह 12295038e एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् 12295039a अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् 12295039c अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा 12295039e निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल 12295040a अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् 12295040c मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात् 12295041a निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा 12295041c प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् 12295042a सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् 12295042c यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत् 12295043a प्रबोधनकरं ज्ञानं सांख्यानामवनीपते 12295043c विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया 12295044a बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः 12295044c अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः 12295045a पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप 12295045c सांख्यानां तु परं तत्र यथावदनुवर्णितम् 12295046a बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 12295046c बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् 12296001 वसिष्ठ उवाच 12296001a अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु 12296001c गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा 12296002a अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप 12296002c आत्मानं बहुधा कृत्वा तान्येव च विचक्षते 12296003a एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते 12296003c अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि 12296004a न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् 12296004c कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् 12296005a बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् 12296005c बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः 12296006a अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् 12296006c अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत 12296007a पञ्चविंशं महात्मानं न चासावपि बुध्यते 12296007c षड्विंशं विमलं बुद्धमप्रमेयं सनातनम् 12296008a सततं पञ्चविंशं च चतुर्विंशं च बुध्यते 12296008c दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती 12296009a अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् 12296009c केवलं पञ्चविंशं च चतुर्विंशं न पश्यति 12296010a बुध्यमानो यदात्मानमन्योऽहमिति मन्यते 12296010c तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः 12296011a बुध्यते च परां बुद्धिं विशुद्धाममलां यदा 12296011c षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् 12296012a ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् 12296012c निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् 12296013a ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् 12296013c केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् 12296014a एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् 12296014c तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद 12296014e पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः 12296015a न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् 12296015c एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् 12296016a षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः 12296016c केवलेन बलेनैव समतां यात्यसंशयम् 12296017a षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् 12296017c एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् 12296018a चेतनेन समेतस्य पञ्चविंशतिकस्य च 12296018c एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते 12296019a बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल 12296019c सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप 12296020a निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः 12296020c विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते 12296020e चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् 12296021a एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ 12296021c प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् 12296021e नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः 12296022a मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः 12296022c मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते 12296023a एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः 12296023c एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् 12296024a पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते 12296024c एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् 12296025a सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः 12296025c परेण परधर्मा च भवत्येष समेत्य वै 12296026a विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान् 12296026c विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ 12296027a नियोगधर्मिणा चैव नियोगात्मा भवत्यपि 12296027c विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् 12296028a शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् 12296028c विमलात्मा च भवति समेत्य विमलात्मना 12296029a केवलात्मा तथा चैव केवलेन समेत्य वै 12296029c स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते 12296030a एतावदेतत्कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम् 12296030c अमत्सरत्वं प्रतिगृह्य चार्थं; सनातनं ब्रह्म विशुद्धमाद्यम् 12296031a न वेदनिष्ठस्य जनस्य राज;न्प्रदेयमेतत्परमं त्वया भवेत् 12296031c विवित्समानाय विबोधकारकं; प्रबोधहेतोः प्रणतस्य शासनम् 12296032a न देयमेतच्च तथानृतात्मने; शठाय क्लीबाय न जिह्मबुद्धये 12296032c न पण्डितज्ञानपरोपतापिने; देयं त्वयेदं विनिबोध यादृशे 12296033a श्रद्धान्वितायाथ गुणान्विताय; परापवादाद्विरताय नित्यम् 12296033c विशुद्धयोगाय बुधाय चैव; क्रियावतेऽथ क्षमिणे हिताय 12296034a विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय 12296034c विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम् 12296035a एतैर्गुणैर्हीनतमे न देय;मेतत्परं ब्रह्म विशुद्धमाहुः 12296035c न श्रेयसा योक्ष्यति तादृशे कृतं; धर्मप्रवक्तारमपात्रदानात् 12296036a पृथ्वीमिमां यद्यपि रत्नपूर्णां; दद्यान्नदेयं त्विदमव्रताय 12296036c जितेन्द्रियायैतदसंशयं ते; भवेत्प्रदेयं परमं नरेन्द्र 12296037a कराल मा ते भयमस्तु किंचि;देतच्छ्रुतं ब्रह्म परं त्वयाद्य 12296037c यथावदुक्तं परमं पवित्रं; निःशोकमत्यन्तमनादिमध्यम् 12296038a अगाधजन्मामरणं च राज;न्निरामयं वीतभयं शिवं च 12296038c समीक्ष्य मोहं त्यज चाद्य सर्वं; ज्ञानस्य तत्त्वार्थमिदं विदित्वा 12296039a अवाप्तमेतद्धि पुरा सनातना;द्धिरण्यगर्भाद्गदतो नराधिप 12296039c प्रसाद्य यत्नेन तमुग्रतेजसं; सनातनं ब्रह्म यथाद्य वै त्वया 12296040a पृष्टस्त्वया चास्मि यथा नरेन्द्र; तथा मयेदं त्वयि चोक्तमद्य 12296040c तथावाप्तं ब्रह्मणो मे नरेन्द्र; महज्ज्ञानं मोक्षविदां पुराणम् 12296041 भीष्म उवाच 12296041a एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः 12296041c पञ्चविंशो महाराज परमर्षिनिदर्शनात् 12296042a पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च 12296042c नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः 12296043a एतन्निःश्रेयसकरं ज्ञानानां ते परं मया 12296043c कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप 12296044a हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना 12296044c वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् 12296045a नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् 12296045c मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् 12296046a येन क्षराक्षरे वित्ते न भयं तस्य विद्यते 12296046c विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव 12296047a अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् 12296047c प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते 12296048a देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते 12296048c यदि शुध्यति कालेन तस्मादज्ञानसागरात् 12296049a अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते 12296049c अहन्यहनि मज्जन्ति यत्र भूतानि भारत 12296050a यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् 12296050c तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव 12297001 भीष्म उवाच 12297001a मृगयां विचरन्कश्चिद्विजने जनकात्मजः 12297001c वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः 12297002a तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् 12297002c पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् 12297003a भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् 12297003c पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः 12297004a सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः 12297004c निजगाद ततस्तस्मै श्रेयस्करमिदं वचः 12297005a मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि 12297005c भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः 12297006a धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् 12297006c धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः 12297007a स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि 12297007c मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि 12297008a यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना 12297008c तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना 12297009a असता धर्मकामेन विशुद्धं कर्म दुष्करम् 12297009c सता तु धर्मकामेन सुकरं कर्म दुष्करम् 12297010a वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः 12297010c ग्रामे वनसुखाचारो यथा वनचरस्तथा 12297011a मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः 12297011c निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् 12297012a नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता 12297012c प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः 12297013a शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् 12297013c क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् 12297014a अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः 12297014c योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः 12297015a सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते 12297015c ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते 12297016a स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् 12297016c पात्रकर्मविशेषेण देशकालाववेक्ष्य च 12297017a लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् 12297017c बहुयत्नेन महता पापनिर्हरणं तथा 12297018a विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् 12297018c तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः 12297019a मानसं सर्वभूतेषु वर्तते वै शुभाशुभे 12297019c अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् 12297020a सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय 12297020c स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् 12297021a अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव 12297021c अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर 12297022a तेजसा शक्यते प्राप्तुमुपायसहचारिणा 12297022c इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा 12297023a राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः 12297023c ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् 12297024a तपस्विनां धर्मवतां विदुषां चोपसेवनात् 12297024c प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे 12297025a स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम् 12297025c विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह 12298001 युधिष्ठिर उवाच 12298001a धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् 12298001c जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः 12298002a यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् 12298002c शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति 12298003 भीष्म उवाच 12298003a अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 12298003c याज्ञवल्क्यस्य संवादं जनकस्य च भारत 12298004a याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः 12298004c पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः 12298005a कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः 12298005c किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् 12298006a प्रभवं चाप्ययं चैव कालसंख्यां तथैव च 12298006c वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः 12298007a अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः 12298007c तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् 12298008 याज्ञवल्क्य उवाच 12298008a श्रूयतामवनीपाल यदेतदनुपृच्छसि 12298008c योगानां परमं ज्ञानं सांख्यानां च विशेषतः 12298009a न तवाविदितं किंचिन्मां तु जिज्ञासते भवान् 12298009c पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः 12298010a अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश 12298010c अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः 12298011a अव्यक्तं च महांश्चैव तथाहंकार एव च 12298011c पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12298012a एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु 12298012c श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् 12298013a शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च 12298013c वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च 12298014a एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12298014c बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल 12298015a मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः 12298015c त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः 12298016a अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव 12298016c प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः 12298017a महतश्चाप्यहंकार उत्पद्यति नराधिप 12298017c द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् 12298018a अहंकाराच्च संभूतं मनो भूतगुणात्मकम् 12298018c तृतीयः सर्ग इत्येष आहंकारिक उच्यते 12298019a मनसस्तु समुद्भूता महाभूता नराधिप 12298019c चतुर्थं सर्गमित्येतन्मानसं परिचक्षते 12298020a शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च 12298020c पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः 12298021a श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् 12298021c सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् 12298022a अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप 12298022c सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् 12298023a ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप 12298023c अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः 12298024a तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप 12298024c नवमं सर्गमित्याहुरेतदार्जवकं बुधाः 12298025a एतानि नव सर्गाणि तत्त्वानि च नराधिप 12298025c चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् 12298026a अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः 12298026c महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे 12299001 याज्ञवल्क्य उवाच 12299001a अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे 12299001c पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते 12299002a रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप 12299002c सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् 12299003a ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् 12299003c सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम 12299004a संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः 12299004c संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः 12299005a द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते 12299005c तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः 12299006a एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः 12299006c दश कल्पसहस्राणि पादोनान्यहरुच्यते 12299006e रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः 12299007a सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा 12299007c चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः 12299007e ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम 12299008a देवाः पितॄणां च सुता देवैर्लोकाः समावृताः 12299008c चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम 12299009a परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा 12299009c पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12299010a एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः 12299010c पञ्च कल्पसहस्राणि तावदेवाहरुच्यते 12299011a शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 12299011c एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 12299011e यैराविष्टानि भूतानि अहन्यहनि पार्थिव 12299012a अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः 12299012c अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा 12299013a ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः 12299013c इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः 12299014a त्रीणि कल्पसहस्राणि एतेषामहरुच्यते 12299014c रात्रिरेतावती चैव मनसश्च नराधिप 12299015a मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः 12299015c न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति 12299016a चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा 12299016c मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति 12299016e तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते 12299017a मनस्युपरते राजन्निन्द्रियोपरमो भवेत् 12299017c न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् 12299017e एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् 12299018a इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते 12299018c एतद्विशन्ति भूतानि सर्वाणीह महायशाः 12300001 याज्ञवल्क्य उवाच 12300001a तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च 12300001c मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु 12300002a यथा संहरते जन्तून्ससर्ज च पुनः पुनः 12300002c अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च 12300003a अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा 12300003c चोदयामास भगवानव्यक्तोऽहंकृतं नरम् 12300004a ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः 12300004c कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् 12300005a चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा 12300005c जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप 12300006a एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् 12300006c कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः 12300007a जगद्दग्ध्वामितबलः केवलं जगतीं ततः 12300007c अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः 12300008a ततः कालाग्निमासाद्य तदम्भो याति संक्षयम् 12300008c विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् 12300009a तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् 12300009c ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा 12300010a भक्षयामास बलवान्वायुरष्टात्मको बली 12300010c विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा 12300011a तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना 12300011c आकाशमप्यतिनदन्मनो ग्रसति चारिकम् 12300012a मनो ग्रसति सर्वात्मा सोऽहंकारः प्रजापतिः 12300012c अहंकारं महानात्मा भूतभव्यभविष्यवित् 12300013a तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः 12300013c अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 12300014a सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः 12300014c सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति 12300015a हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः 12300015c अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः 12300016a ततः समभवत्सर्वमक्षयाव्ययमव्रणम् 12300016c भूतभव्यमनुष्याणां स्रष्टारमनघं तथा 12300017a एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः 12300017c अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् 12301001 याज्ञवल्क्य उवाच 12301001a पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः 12301001c गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् 12301002a पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः 12301002c विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् 12301003a उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् 12301003c अधिभूतं तथानन्दो दैवतं च प्रजापतिः 12301004a हस्तावध्यात्ममित्याहुर्यथासांख्यनिदर्शनम् 12301004c कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् 12301005a वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् 12301005c वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् 12301006a चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 12301006c रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् 12301007a श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 12301007c शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् 12301008a जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् 12301008c रस एवाधिभूतं तु आपस्तत्राधिदैवतम् 12301009a घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 12301009c गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् 12301010a त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः 12301010c स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् 12301011a मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् 12301011c मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् 12301012a अहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् 12301012c अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् 12301013a बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् 12301013c बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् 12301014a एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता 12301014c आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् 12301015a प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया 12301015c क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः 12301016a यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते 12301016c प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् 12301017a सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च 12301017c सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता 12301018a अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता 12301018c समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् 12301019a शौचमार्जवमाचारमलौल्यं हृद्यसंभ्रमः 12301019c इष्टानिष्टवियोगानां कृतानामविकत्थनम् 12301020a दानेन चानुग्रहणमस्पृहार्थे परार्थता 12301020c सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः 12301021a रजोगुणानां संघातो रूपमैश्वर्यविग्रहे 12301021c अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् 12301022a परापवादेषु रतिर्विवादानां च सेवनम् 12301022c अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् 12301023a परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा 12301023c भेदः परुषता चैव कामक्रोधौ मदस्तथा 12301023e दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः 12301024a तामसानां तु संघातं प्रवक्ष्याम्युपधार्यताम् 12301024c मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् 12301025a मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते 12301025c तमसो लक्षणानीह भक्षाणामभिरोचनम् 12301026a भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता 12301026c गन्धवासो विहारेषु शयनेष्वासनेषु च 12301027a दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः 12301027c नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता 12301027e द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः 12302001 याज्ञवल्क्य उवाच 12302001a एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम 12302001c कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा 12302002a शतधा सहस्रधा चैव तथा शतसहस्रधा 12302002c कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना 12302003a सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् 12302003c तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः 12302004a केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् 12302004c पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् 12302005a द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः 12302005c सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे 12302006a सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा 12302006c तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च 12302007a अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् 12302007c रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते 12302008a रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते 12302008c रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् 12302009a पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् 12302009c शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत् 12302010a ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम् 12302010c अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् 12302011a अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप 12302011c स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते 12302012a अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव 12302012c एतेनाधिष्ठितश्चैव सृजते संहरत्यपि 12302013 जनक उवाच 12302013a अनादिनिधनावेतावुभावेव महामुने 12302013c अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ 12302014a अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः 12302014c चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः 12302015a त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे 12302015c साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः 12302016a अस्तित्वं केवलत्वं च विनाभावं तथैव च 12302016c तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः 12302017a कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज 12302017c सांख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च 12302018a अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम 12302018c विदितं सर्वमेतत्ते पाणावामलकं यथा 12303001 याज्ञवल्क्य उवाच 12303001a न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते 12303001c गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे 12303002a गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा 12303002c प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः 12303003a गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते 12303003c उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः 12303004a अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः 12303004c न मत्तः परमस्तीति नित्यमेवाभिमन्यते 12303005a अनेन कारणेनैतदव्यक्तं स्यादचेतनम् 12303005c नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा 12303006a यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः 12303006c यदात्मानं न जानीते तदाव्यक्तमिहोच्यते 12303007a कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते 12303007c कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते 12303008a कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता 12303008c कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते 12303009a गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् 12303009c कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता 12303010a बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च 12303010c उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् 12303011a मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः 12303011c अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम 12303012a अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा 12303012c सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः 12303013a अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः 12303013c यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते 12303014a अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा 12303014c न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते 12303015a अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् 12303015c न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः 12303016a अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः 12303016c न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै 12303017a पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् 12303017c न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् 12303018a एतेषां सह संवासं विवासं चैव नित्यशः 12303018c यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः 12303019a ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् 12303019c ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः 12303020a सांख्यदर्शनमेतत्ते परिसंख्यातमुत्तमम् 12303020c एवं हि परिसंख्याय सांख्याः केवलतां गताः 12303021a ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् 12303021c अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् 12304001 याज्ञवल्क्य उवाच 12304001a सांख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे 12304001c यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम 12304002a नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम् 12304002c तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ 12304003a पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः 12304003c वयं तु राजन्पश्याम एकमेव तु निश्चयात् 12304004a यदेव योगाः पश्यन्ति तत्सांख्यैरपि दृश्यते 12304004c एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् 12304005a रुद्रप्रधानानपरान्विद्धि योगान्परंतप 12304005c तेनैव चाथ देहेन विचरन्ति दिशो दश 12304006a यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै 12304006c योगेन लोकान्विचरन्सुखं संन्यस्य चानघ 12304007a वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः 12304007c सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम 12304008a द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् 12304008c सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् 12304009a धारणा चैव मनसः प्राणायामश्च पार्थिव 12304009c प्राणायामो हि सगुणो निर्गुणं धारणं मनः 12304010a यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम 12304010c वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् 12304011a निशायाः प्रथमे यामे चोदना द्वादश स्मृताः 12304011c मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः 12304012a तदेवमुपशान्तेन दान्तेनैकान्तशीलिना 12304012c आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः 12304013a पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा 12304013c शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च 12304014a प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल 12304014c इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह 12304015a मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप 12304015c अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि 12304016a एवं हि परिसंख्याय ततो ध्यायेत केवलम् 12304016c विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् 12304017a तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् 12304017c शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् 12304018a युक्तस्य तु महाराज लक्षणान्युपधारयेत् 12304018c लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 12304019a निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः 12304019c निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः 12304020a पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः 12304020c नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् 12304021a शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः 12304021c क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् 12304022a तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः 12304022c सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः 12304023a संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् 12304023c तथैवोत्तरमाणस्य एकाग्रमनसस्तथा 12304024a स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च 12304024c एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् 12304025a स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् 12304025c महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् 12304026a एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् 12304026c कालेन महता राजञ्श्रुतिरेषा सनातनी 12304027a एतद्धि योगं योगानां किमन्यद्योगलक्षणम् 12304027c विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः 12305001 याज्ञवल्क्य उवाच 12305001a तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप 12305001c पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते 12305002a जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् 12305002c जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् 12305003a पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् 12305003c पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् 12305004a पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च 12305004c बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च 12305005a ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् 12305005c विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् 12305006a घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च 12305006c भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ 12305007a ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा 12305007c एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर 12305008a अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः 12305008c संवत्सरवियोगस्य संभवेयुः शरीरिणः 12305009a योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन 12305009c तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च 12305009e खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः 12305010a परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव 12305010c आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः 12305011a अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा 12305011c प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् 12305012a दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते 12305012c कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् 12305013a शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति 12305013c तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् 12305014a शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः 12305014c देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् 12305015a कर्णनासावनमनं दन्तदृष्टिविरागिता 12305015c संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् 12305016a अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप 12305016c मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् 12305017a एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् 12305017c निशि चाहनि चात्मानं योजयेत्परमात्मनि 12305018a प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् 12305018c अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् 12305019a सर्वगन्धान्रसांश्चैव धारयेत समाहितः 12305019c तथा हि मृत्युं जयति तत्परेणान्तरात्मना 12305020a ससांख्यधारणं चैव विदित्वा मनुजर्षभ 12305020c जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना 12305021a गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् 12305021c शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः 12306001 याज्ञवल्क्य उवाच 12306001a अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप 12306001c परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप 12306002a यथार्षेणेह विधिना चरतावमतेन ह 12306002c मयादित्यादवाप्तानि यजूंषि मिथिलाधिप 12306003a महता तपसा देवस्तपिष्ठः सेवितो मया 12306003c प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ 12306004a वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् 12306004c तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः 12306005a ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः 12306005c यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् 12306006a ततो मां भगवानाह वितरिष्यामि ते द्विज 12306006c सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति 12306007a ततो मामाह भगवानास्यं स्वं विवृतं कुरु 12306007c विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती 12306008a ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ 12306008c अविज्ञानादमर्षाच्च भास्करस्य महात्मनः 12306009a ततो विदह्यमानं मामुवाच भगवान्रविः 12306009c मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि 12306010a शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः 12306010c प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज 12306011a कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ 12306011c तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति 12306012a प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम् 12306012c एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत 12306013a ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ 12306013c गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् 12306014a ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता 12306014c ओंकारमादितः कृत्वा मम देवी सरस्वती 12306015a ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् 12306015c तपतां च वरिष्ठाय निषण्णस्तत्परायणः 12306016a ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् 12306016c चक्रे सपरिशेषं च हर्षेण परमेण ह 12306017a कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् 12306017c विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः 12306018a ततः सशिष्येण मया सूर्येणेव गभस्तिभिः 12306018c व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः 12306019a मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् 12306019c स्ववेददक्षिणायाथ विमर्दे मातुलेन ह 12306020a सुमन्तुनाथ पैलेन तथा जैमिनिना च वै 12306020c पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः 12306021a दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ 12306021c तथैव लोमहर्षाच्च पुराणमवधारितम् 12306022a बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् 12306022c सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप 12306023a कर्तुं शतपथं वेदमपूर्वं कारितं च मे 12306023c यथाभिलषितं मार्गं तथा तच्चोपपादितम् 12306024a शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् 12306024c सर्वे च शिष्याः शुचयो गताः परमहर्षिताः 12306025a शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः 12306025c प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् 12306026a किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् 12306026c चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत 12306027a विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः 12306027c चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव 12306027e पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा 12306028a विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च 12306028c ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा 12306028e सूर्यादः सूर्य इति च विद्याविद्ये तथैव च 12306029a वेद्यावेद्यं तथा राजन्नचलं चलमेव च 12306029c अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् 12306030a अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः 12306030c पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् 12306031a मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये 12306031c बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः 12306032a ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् 12306032c मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् 12306033a तत्रोपनिषदं चैव परिशेषं च पार्थिव 12306033c मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् 12306034a चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी 12306034c उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता 12306035a अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा 12306035c श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह 12306036a विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि 12306036c विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् 12306037a त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा 12306037c अश्वस्तथैव मिथुनमेवमेवानुदृश्यते 12306038a अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् 12306038c तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा 12306039a ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च 12306039c अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते 12306040a कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते 12306040c तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः 12306041a तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते 12306041c चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु 12306042a चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः 12306042c अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः 12306043a अजावुभावप्रजौ च अक्षयौ चाप्युभावपि 12306043c अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः 12306044a अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् 12306044c अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते 12306045a गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः 12306045c एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी 12306046a विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि 12306046c एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः 12306047a जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः 12306047c वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम 12306048a साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते 12306048c वेदवेद्यं न जानीते वेदभारवहो हि सः 12306049a यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम 12306049c विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् 12306050a तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति 12306050c स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः 12306051a द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना 12306051c यथास्य जन्मनिधने न भवेतां पुनः पुनः 12306052a अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् 12306052c परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः 12306053a यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप 12306053c तदा स केवलीभूतः षड्विंशमनुपश्यति 12306054a अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः 12306054c तस्य द्वावनुपश्येत तमेकमिति साधवः 12306055a तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् 12306055c जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः 12306056 विश्वावसुरुवाच 12306056a पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम 12306056c तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति 12306057a जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् 12306057c पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः 12306058a भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च 12306058c गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 12306059a नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः 12306059c सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 12306060a कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् 12306060c तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः 12306061a दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः 12306061c प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत 12306062a तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण 12306062c भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् 12306063a न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः 12306063c कथ्यते देवलोके च पितृलोके च ब्राह्मण 12306064a ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः 12306064c पतिश्च तपतां शश्वदादित्यस्तव भाषते 12306065a सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च 12306065c तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः 12306066a निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् 12306066c श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा 12306067 याज्ञवल्क्य उवाच 12306067a कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम 12306067c जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् 12306068a अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः 12306068c न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् 12306069a अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् 12306069c सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् 12306070a पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ 12306070c षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति 12306070e न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति 12306071a पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम 12306071c न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः 12306072a मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् 12306072c यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते 12306072e सस्नेहः सहवासाच्च साभिमानश्च नित्यशः 12306073a स निमज्जति कालस्य यदैकत्वं न बुध्यते 12306073c उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 12306074a यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः 12306074c तदा स केवलीभूतः षड्विंशमनुपश्यति 12306075a अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः 12306075c तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः 12306076a तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् 12306076c जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप 12306076e षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः 12306077a यदा स केवलीभूतः षड्विंशमनुपश्यति 12306077c तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति 12306078a एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ 12306078c बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् 12306079a पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप 12306079c केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् 12306080 विश्वावसुरुवाच 12306080a तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत् 12306080c स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते 12306081 याज्ञवल्क्य उवाच 12306081a एवमुक्त्वा संप्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन 12306081c तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा 12306082a ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र 12306082c तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै 12306083a सांख्याः सर्वे सांख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च 12306083c ये चाप्यन्ये मोक्षकामा मनुष्या;स्तेषामेतद्दर्शनं ज्ञानदृष्टम् 12306084a ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र 12306084c तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः 12306085a प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम् 12306085c श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् 12306086a सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म 12306086c तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम् 12306087a ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः 12306087c नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः 12306088a अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम् 12306088c तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम् 12306089a तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते 12306089c तस्थौ ब्रह्मा तस्थिवांश्चापरो य;स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः 12306090a यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व 12306090c राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् 12306091 भीष्म उवाच 12306091a स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता 12306091c प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा 12306092a गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे 12306092c दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् 12306093a गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च 12306093c रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा 12306094a विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै 12306094c यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः 12306095a सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः 12306095c धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् 12306096a अनन्तमिति कृत्वा स नित्यं केवलमेव च 12306096c धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च 12306097a जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् 12306097c ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप 12306098a पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः 12306098c इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् 12306098e नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव 12306099a दीयते यच्च लभते दत्तं यच्चानुमन्यते 12306099c ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह 12306099e ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै 12306100a आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् 12306100c एवं मन्यस्व सततमन्यथा मा विचिन्तय 12306101a यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः 12306101c तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता 12306102a न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन 12306102c लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते 12306103a तथैव महतः स्थानमाहंकारिकमेव च 12306103c अहंकारात्परं चापि स्थानानि समवाप्नुयात् 12306104a ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः 12306104c जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् 12306105a एतन्मयाप्तं जनकात्पुरस्ता;त्तेनापि चाप्तं नृप याज्ञवल्क्यात् 12306105c ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः 12306106a दुर्गं जन्म निधनं चापि राज;न्न भूतिकं ज्ञानविदो वदन्ति 12306106c यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ 12306107a तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम् 12306107c क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ;मुपास्य वै तत्त्वमृषिर्भविष्यसि 12306108a उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः 12306108c यदुपगणितशाश्वताव्ययं त;च्छुभममृतत्वमशोकमृच्छतीति 12307001 युधिष्ठिर उवाच 12307001a ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ 12307001c दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् 12307002a तपसा वा सुमहता कर्मणा वा श्रुतेन वा 12307002c रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ 12307003 भीष्म उवाच 12307003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12307003c भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च 12307004a वैदेहो जनको राजा महर्षिं वेदवित्तमम् 12307004c पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् 12307005a केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ 12307005c तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा 12307006a एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् 12307006c निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथंचन 12307007a न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः 12307007c सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः 12307008a सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा 12307008c उह्यमानं निमज्जन्तमप्लवे कालसागरे 12307008e जरामृत्युमहाग्राहे न कश्चिदभिपद्यते 12307009a नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् 12307009c पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः 12307009e नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् 12307010a क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः 12307010c कालेन जाता जाता हि वायुनेवाभ्रसंचयाः 12307011a जरामृत्यू हि भूतानां खादितारौ वृकाविव 12307011c बलिनां दुर्बलानां च ह्रस्वानां महतामपि 12307012a एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च 12307012c कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् 12307013a कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा 12307013c कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि 12307014a द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च 12307014c आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च 12308001 युधिष्ठिर उवाच 12308001a अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम 12308001c कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे 12308002a संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः 12308002c परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह 12308003 भीष्म उवाच 12308003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12308003c जनकस्य च संवादं सुलभायाश्च भारत 12308004a संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा 12308004c मैथिलो जनको नाम धर्मध्वज इति श्रुतः 12308005a स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः 12308005c इन्द्रियाणि समाधाय शशास वसुधामिमाम् 12308006a तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् 12308006c लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर 12308007a अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता 12308007c महीमनुचचारैका सुलभा नाम भिक्षुकी 12308008a तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः 12308008c तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः 12308009a सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया 12308009c दर्शने जातसंकल्पा जनकस्य बभूव ह 12308010a ततः सा विप्रहायाथ पूर्वरूपं हि योगतः 12308010c अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् 12308011a चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी 12308011c विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा 12308012a सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् 12308012c भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् 12308013a राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा 12308013c केयं कस्य कुतो वेति बभूवागतविस्मयः 12308014a ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् 12308014c पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् 12308015a अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम् 12308015c सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी 12308016a सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया 12308016c सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते 12308017a नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः 12308017c सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह 12308018a जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन् 12308018c प्रतिजग्राह भावेन भावमस्या नृपोत्तमः 12308019a तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम् 12308019c छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके 12308020a भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि 12308020c कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः 12308021a श्रुते वयसि जातौ च सद्भावो नाधिगम्यते 12308021c एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे 12308022a छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः 12308022c स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे 12308023a यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा 12308023c यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु 12308024a पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः 12308024c भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः 12308025a सांख्यज्ञाने तथा योगे महीपालविधौ तथा 12308025c त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः 12308026a स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् 12308026c वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः 12308027a तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः 12308027c श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः 12308028a सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् 12308028c मुक्तरागश्चराम्येकः पदे परमके स्थितः 12308029a वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः 12308029c ज्ञानादेव च वैराग्यं जायते येन मुच्यते 12308030a ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् 12308030c महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा 12308031a सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया 12308031c इहैव गतमोहेन चरता मुक्तसङ्गिना 12308032a यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा 12308032c जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् 12308033a यथा चोत्तापितं बीजं कपाले यत्र तत्र वा 12308033c प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते 12308034a तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा 12308034c ज्ञानं कृतमबीजं मे विषयेषु न जायते 12308035a नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे 12308035c नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः 12308036a यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् 12308036c सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम 12308037a सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः 12308037c मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः 12308038a मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः 12308038c ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् 12308039a ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः 12308039c कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः 12308040a प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् 12308040c तृतीयेयं समाख्याता निष्ठा तेन महात्मना 12308041a यमे च नियमे चैव द्वेषे कामे परिग्रहे 12308041c माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः 12308042a त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् 12308042c छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे 12308043a येन येन हि यस्यार्थः कारणेनेह कस्यचित् 12308043c तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे 12308044a दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् 12308044c उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते 12308045a आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि 12308045c राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना 12308046a अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् 12308046c मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः 12308047a काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः 12308047c लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः 12308048a यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् 12308048c निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् 12308049a अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः 12308049c किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते 12308050a आकिंचन्ये न मोक्षोऽस्ति कैंचन्ये नास्ति बन्धनम् 12308050c कैंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते 12308051a तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे 12308051c बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् 12308052a राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः 12308052c मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया 12308053a सोऽहमेवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि 12308053c अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम 12308054a सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः 12308054c तवैतानि समस्तानि नियमश्चेति संशयः 12308055a यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् 12308055c मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः 12308056a न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् 12308056c न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना 12308057a मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः 12308057c आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् 12308058a प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा 12308058c कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम 12308059a वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् 12308059c नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम् 12308060a वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे 12308060c अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसंकरः 12308061a सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् 12308061c सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः 12308062a अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् 12308062c अगम्या परभार्येति चतुर्थो धर्मसंकरः 12308063a सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि 12308063c अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः 12308064a अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् 12308064c यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् 12308065a इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् 12308065c दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् 12308066a न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः 12308066c येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि 12308067a तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि 12308067c मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च 12308068a सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता 12308068c भूयः सृजसि योगास्त्रं विषामृतमिवैकधा 12308069a इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः 12308069c अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः 12308070a मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रमनुपालय 12308070c कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम 12308070e एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् 12308071a सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः 12308071c तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् 12308072a न राजानं मृषा गच्छेन्न द्विजातिं कथंचन 12308072c न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः 12308073a राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् 12308073c रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् 12308074a अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता 12308074c आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् 12308075a सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः 12308075c कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः 12308076a इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः 12308076c प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत 12308077a उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना 12308077c ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् 12308078a नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः 12308078c अपेतमुपपन्नार्थमष्टादशगुणान्वितम् 12308079a सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः 12308079c पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप 12308080a एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् 12308080c शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः 12308081a ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते 12308081c तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते 12308082a दोषाणां च गुणानां च प्रमाणं प्रविभागशः 12308082c कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम् 12308083a इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् 12308083c क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः 12308084a धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः 12308084c इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः 12308085a इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते 12308085c तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते 12308086a तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप 12308086c एकार्थसमवेतानि वाक्यं मम निशामय 12308087a उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् 12308087c नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव 12308088a न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च 12308088c नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् 12308089a न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च 12308089c न शेषं नानुकल्पेन निष्कारणमहेतुकम् 12308090a कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा 12308090c ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन 12308091a वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप 12308091c सममेति विवक्षायां तदा सोऽर्थः प्रकाशते 12308092a वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते 12308092c स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति 12308093a अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः 12308093c विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् 12308094a यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते 12308094c श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप 12308095a तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा 12308095c अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि 12308096a कासि कस्य कुतो वेति त्वयाहमभिचोदिता 12308096c तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु 12308097a यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः 12308097c सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः 12308098a शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च 12308098c पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् 12308099a न चैषां चोदना काचिदस्तीत्येष विनिश्चयः 12308099c एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे 12308100a न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते 12308100c तथैव व्यभिचारेण न वर्तन्ते परस्परम् 12308100e संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः 12308101a बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु 12308101c रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः 12308101e यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः 12308102a ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः 12308102c विचारयति येनायं निश्चये साध्वसाधुनी 12308103a द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः 12308103c येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति 12308104a अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः 12308104c महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते 12308105a क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः 12308105c ममायमिति येनायं मन्यते न च मन्यते 12308106a अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः 12308106c पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते 12308107a गुणस्त्वेवापरस्तत्र संघात इति षोडशः 12308107c आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ 12308108a सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये 12308108c इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः 12308109a ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः 12308109c इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् 12308110a विंशकश्चैष संघातो महाभूतानि पञ्च च 12308110c सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ 12308111a इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः 12308111c विधिः शुक्रं बलं चेति त्रय एते गुणाः परे 12308112a एकविंशश्च दश च कलाः संख्यानतः स्मृताः 12308112c समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् 12308113a अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति 12308113c व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति 12308114a अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम् 12308114c प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः 12308115a सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता 12308115c अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः 12308116a बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः 12308116c यासामेव निपातेन कललं नाम जायते 12308117a कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा 12308117c पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः 12308118a संपूर्णे नवमे मासे जन्तोर्जातस्य मैथिल 12308118c जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः 12308119a जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि 12308119c कौमाररूपमापन्नं रूपतो नोपलभ्यते 12308120a कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् 12308120c अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते 12308121a कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे 12308121c वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते 12308122a न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च 12308122c अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः 12308123a तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः 12308123c अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः 12308124a कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः 12308124c संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह 12308125a यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः 12308125c भवत्येवं समुदयात्कलानामपि जन्तवः 12308126a आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि 12308126c एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि 12308126e यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि 12308127a अथ मां कासि कस्येति किमर्थमनुपृच्छसि 12308127c इदं मे स्यादिदं नेति द्वंद्वैर्मुक्तस्य मैथिल 12308127e कासि कस्य कुतो वेति वचने किं प्रयोजनम् 12308128a रिपौ मित्रेऽथ मध्यस्थे विजये संधिविग्रहे 12308128c कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम् 12308129a त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु 12308129c सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् 12308130a प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि 12308130c यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् 12308131a तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप 12308131c सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः 12308132a तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम 12308132c आत्मनात्मनि संपश्येत्किं तस्मिन्मुक्तलक्षणम् 12308133a इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् 12308133c चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु 12308134a य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह 12308134c एकमेव स वै राजा पुरमध्यावसत्युत 12308135a तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति 12308135c गृहे शयनमप्येकं निशायां यत्र लीयते 12308136a शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति 12308136c तदनेन प्रसङ्गेन फलेनैवेह युज्यते 12308137a एवमेवोपभोगेषु भोजनाच्छादनेषु च 12308137c गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति 12308138a परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते 12308138c संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता 12308139a स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता 12308139c मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता 12308140a यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता 12308140c अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः 12308141a स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः 12308141c शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः 12308142a स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च 12308142c वदस्व शृणु चापीति विवशः कार्यते परैः 12308143a अभिगम्याभिगम्यैनं याचन्ते सततं नराः 12308143c न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् 12308144a दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः 12308144c क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः 12308145a प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते 12308145c भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते 12308146a यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया 12308146c तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् 12308147a सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही 12308147c निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः 12308148a पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः 12308148c परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः 12308149a हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः 12308149c लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते 12308150a अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः 12308150c शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः 12308151a द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः 12308151c बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः 12308152a तदल्पसुखमत्यर्थं बहुदुःखमसारवत् 12308152c को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् 12308153a ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे 12308153c बलं कोशममात्यांश्च कस्यैतानि न वा नृप 12308154a मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः 12308154c सप्ताङ्गश्चक्रसंघातो राज्यमित्युच्यते नृप 12308155a सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः 12308155c अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः 12308156a तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते 12308156c येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते 12308157a सप्ताङ्गश्चापि संघातस्त्रयश्चान्ये नृपोत्तम 12308157c संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् 12308158a यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् 12308158c स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः 12308159a नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् 12308159c राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् 12308160a योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः 12308160c पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते 12308161a साहमेतानि कर्माणि राज्यदुःखानि मैथिल 12308161c समर्था शतशो वक्तुमथ वापि सहस्रशः 12308162a स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे 12308162c न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि 12308163a ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः 12308163c सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः 12308164a तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः 12308164c छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप 12308165a श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् 12308165c अथ वा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया 12308166a अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि 12308166c अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा 12308167a सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया 12308167c किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः 12308168a नियमो ह्येष धर्मेषु यतीनां शून्यवासिता 12308168c शून्यमावासयन्त्या च मया किं कस्य दूषितम् 12308169a न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ 12308169c न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप 12308170a कुले महति जातेन ह्रीमता दीर्घदर्शिना 12308170c नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् 12308171a ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः 12308171c त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् 12308172a तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता 12308172c स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि 12308173a यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् 12308173c तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल 12308174a यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कंचन 12308174c ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा 12308175a स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् 12308175c उभयोरन्तराले च वर्तसे मोक्षवातिकः 12308176a न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः 12308176c भावाभावसमायोगे जायते वर्णसंकरः 12308177a वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः 12308177c नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते 12308178a पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः 12308178c आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् 12308179a न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः 12308179c स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् 12308180a पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च 12308180c परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः 12308181a नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा 12308181c तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता 12308182a प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः 12308182c कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् 12308183a द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः 12308183c मम सत्रेषु पूर्वेषां चिता मघवता सह 12308184a साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे 12308184c विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् 12308185a नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी 12308185c न धर्मसंकरकरी स्वधर्मेऽस्मि धृतव्रता 12308186a नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी 12308186c नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप 12308187a मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी 12308187c तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता 12308188a न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः 12308188c मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति 12308189a यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत् 12308189c तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् 12308190a साहमासनदानेन वागातिथ्येन चार्चिता 12308190c सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल 12308191a इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च 12308191c श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परम् 12309001 युधिष्ठिर उवाच 12309001a कथं निर्वेदमापन्नः शुको वैयासकिः पुरा 12309001c एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे 12309002 भीष्म उवाच 12309002a प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् 12309002c अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् 12309003a धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ 12309003c क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः 12309004a सत्यमार्जवमक्रोधमनसूयां दमं तपः 12309004c अहिंसां चानृशंस्यं च विधिवत्परिपालय 12309005a सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् 12309005c देवतातिथिशेषेण यात्रां प्राणस्य संश्रय 12309006a फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते 12309006c अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक 12309007a अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु 12309007c अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे 12309008a गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि 12309008c जीविते शिष्यमाणे च किमुत्थाय न धावसि 12309009a ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् 12309009c पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः 12309010a धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः 12309010c अपथा गच्छतां तेषामनुयातापि पीड्यते 12309011a ये तु तुष्टाः सुनियताः सत्यागमपरायणाः 12309011c धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च 12309012a उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् 12309012c नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै 12309013a अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः 12309013c सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 12309014a धर्मनिःश्रेणिमास्थाय किंचित्किंचित्समारुह 12309014c कोशकारवदात्मानं वेष्टयन्नावबुध्यसे 12309015a नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् 12309015c वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम् 12309016a कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् 12309016c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 12309017a मृत्युनाभ्याहते लोके जरया परिपीडिते 12309017c अमोघासु पतन्तीषु धर्मयानेन संतर 12309018a तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा 12309018c निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः 12309019a संचिन्वानकमेवैनं कामानामवितृप्तकम् 12309019c वृकीवोरणमासाद्य मृत्युरादाय गच्छति 12309020a क्रमशः संचितशिखो धर्मबुद्धिमयो महान् 12309020c अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् 12309021a संपतन्देहजालानि कदाचिदिह मानुषे 12309021c ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय 12309022a ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते 12309022c इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् 12309023a ब्राह्मण्यं बहुभिरवाप्यते तपोभि;स्तल्लब्ध्वा न परिपणेन हेडितव्यम् 12309023c स्वाध्याये तपसि दमे च नित्ययुक्तः; क्षेमार्थी कुशलपरः सदा यतस्व 12309024a अव्यक्तप्रकृतिरयं कलाशरीरः; सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा 12309024c ऋत्वास्यः समबलशुक्लकृष्णनेत्रो; मासाङ्गो द्रवति वयोहयो नराणाम् 12309025a तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं; गच्छन्तं सततमिहाव्यपेक्षमाणम् 12309025c चक्षुस्ते यदि न परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य 12309026a येऽमी तु प्रचलितधर्मकामवृत्ताः; क्रोशन्तः सततमनिष्टसंप्रयोगाः 12309026c क्लिश्यन्ते परिगतवेदनाशरीरा; बह्वीभिः सुभृशमधर्मवासनाभिः 12309027a राजा धर्मपरः सदा शुभगोप्ता; समीक्ष्य सुकृतिनां दधाति लोकान् 12309027c बहुविधमपि चरतः प्रदिशति; सुखमनुपगतं निरवद्यम् 12309028a श्वानो भीषणायोमुखानि वयांसि; वडगृध्रकुलपक्षिणां च संघाः 12309028c नरां कदने रुधिरपा गुरुवचन;नुदमुपरतं विशसन्ति 12309029a मर्यादा नियताः स्वयंभुवा य इहेमाः; प्रभिनत्ति दशगुणा मनोनुगत्वात् 12309029c निवसति भृशमसुखं पितृविषय;विपिनमवगाह्य स पापः 12309030a यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः; सततनिकृतिवञ्चनारतिः स्यात् 12309030c उपनिधिभिरसुखकृत्स परमनिरयगो; भृशमसुखमनुभवति दुष्कृतकर्मा 12309031a उष्णां वैतरणीं महानदी;मवगाढोऽसिपत्रवनभिन्नगात्रः 12309031c परशुवनशयो निपतितो; वसति च महानिरये भृशार्तः 12309032a महापदानि कत्थसे न चाप्यवेक्षसे परम् 12309032c चिरस्य मृत्युकारिकामनागतां न बुध्यसे 12309033a प्रयास्यतां किमास्यते समुत्थितं महद्भयम् 12309033c अतिप्रमाथि दारुणं सुखस्य संविधीयताम् 12309034a पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् 12309034c तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु 12309035a पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् 12309035c तवेह जीवितं यमो न चास्ति तस्य वारकः 12309036a पुरा विवाति मारुतो यमस्य यः पुरःसरः 12309036c पुरैक एव नीयसे कुरुष्व सांपरायिकम् 12309037a पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः 12309037c पुरा च विभ्रमन्ति ते दिशो महाभयागमे 12309038a स्मृतिश्च संनिरुध्यते पुरा तवेह पुत्रक 12309038c समाकुलस्य गच्छतः समाधिमुत्तमं कुरु 12309039a कृताकृते शुभाशुभे प्रमादकर्मविप्लुते 12309039c स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम् 12309040a पुरा जरा कलेवरं विजर्जरीकरोति ते 12309040c बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् 12309041a पुरा शरीरमन्तको भिनत्ति रोगसायकैः 12309041c प्रसह्य जीवितक्षये तपो महत्समाचर 12309042a पुरा वृका भयंकरा मनुष्यदेहगोचराः 12309042c अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने 12309043a पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै 12309043c पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि 12309044a पुरा कुसंगतानि ते सुहृन्मुखाश्च शत्रवः 12309044c विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् 12309045a धनस्य यस्य राजतो भयं न चास्ति चौरतः 12309045c मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् 12309046a न तत्र संविभज्यते स्वकर्मभिः परस्परम् 12309046c यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते 12309047a परत्र येन जीव्यते तदेव पुत्र दीयताम् 12309047c धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् 12309048a न यावदेव पच्यते महाजनस्य यावकम् 12309048c अपक्व एव यावके पुरा प्रणीयसे त्वर 12309049a न मातृपितृबान्धवा न संस्तुतः प्रियो जनः 12309049c अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम् 12309050a यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् 12309050c तदेव तस्य यौतकं भवत्यमुत्र गच्छतः 12309051a हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः 12309051c न तस्य देहसंक्षये भवन्ति कार्यसाधकाः 12309052a परत्रगामिकस्य ते कृताकृतस्य कर्मणः 12309052c न साक्षिरात्मना समो नृणामिहास्ति कश्चन 12309053a मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः 12309053c प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः 12309054a इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः 12309054c त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः 12309055a यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु 12309055c प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय 12309056a अनेकपारिपन्थिके विरूपरौद्ररक्षिते 12309056c स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति 12309057a न तत्र संविभज्यते स्वकर्मणा परस्परम् 12309057c यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् 12309058a यथाप्सरोगणाः फलं सुखं महर्षिभिः सह 12309058c तथाप्नुवन्ति कर्मतो विमानकामगामिनः 12309059a यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः 12309059c तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः 12309060a प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः 12309060c व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः 12309061a सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे 12309061c अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम् 12309062a गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः 12309062c कुरुष्व धर्मसंचयं वयो हि तेऽतिवर्तते 12309063a पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् 12309063c यथागृहीतमुत्थितं त्वरस्व धर्मपालने 12309064a यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि 12309064c तथा गतिं गमिष्यतः किमात्मना परेण वा 12309065a यदेकपातिनां सतां भवत्यमुत्र गच्छताम् 12309065c भयेषु सांपरायिकं निधत्स्व तं महानिधिम् 12309066a सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् 12309066c न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम् 12309067a इदं निदर्शनं मया तवेह पुत्र संमतम् 12309067c स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् 12309068a दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् 12309068c अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते 12309069a श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः 12309069c तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् 12309070a निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 12309070c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12309071a किं ते धनेन किं बन्धुभिस्ते; किं ते पुत्रैः पुत्रक यो मरिष्यसि 12309071c आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहास्ते क्व गताश्च सर्वे 12309072a श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 12309072c को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते 12309073a अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः 12309073c अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा 12309074a नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् 12309074c वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः 12309075a एवमभ्याहते लोके कालेनोपनिपीडिते 12309075c सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु 12309076a अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः 12309076c सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते 12309077a न देहभेदे मरणं विजानतां; न च प्रणाशः स्वनुपालिते पथि 12309077c धर्मं हि यो वर्धयते स पण्डितो; य एव धर्माच्च्यवते स मुह्यति 12309078a प्रयुक्तयोः कर्मपथि स्वकर्मणोः; फलं प्रयोक्ता लभते यथाविधि 12309078c निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः 12309079a सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् 12309079c तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा 12309080a यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी 12309080c तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः 12309081a यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते 12309081c स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् 12309082a तपोवनेषु ये जातास्तत्रैव निधनं गताः 12309082c तेषामल्पतरो धर्मः कामभोगमजानताम् 12309083a यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् 12309083c न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम् 12309084a मातापितृसहस्राणि पुत्रदारशतानि च 12309084c अनागतान्यतीतानि कस्य ते कस्य वा वयम् 12309085a न तेषां भवता कार्यं न कार्यं तव तैरपि 12309085c स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति 12309086a इह लोके हि धनिनः परोऽपि स्वजनायते 12309086c स्वजनस्तु दरिद्राणां जीवतामेव नश्यति 12309087a संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः 12309087c ततः क्लेशमवाप्नोति परत्रेह तथैव च 12309088a पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा 12309088c तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् 12309089a तदेतत्संप्रदृश्यैव कर्मभूमिं प्रविश्य ताम् 12309089c शुभान्याचरितव्यानि परलोकमभीप्सता 12309090a मासर्तुसंज्ञापरिवर्तकेन; सूर्याग्निना रात्रिदिवेन्धनेन 12309090c स्वकर्मनिष्ठाफलसाक्षिकेण; भूतानि कालः पचति प्रसह्य 12309091a धनेन किं यन्न ददाति नाश्नुते; बलेन किं येन रिपून्न बाधते 12309091c श्रुतेन किं येन न धर्ममाचरे;त्किमात्मना यो न जितेन्द्रियो वशी 12309092a इदं द्वैपायनवचो हितमुक्तं निशम्य तु 12309092c शुको गतः परित्यज्य पितरं मोक्षदेशिकम् 12310001 युधिष्ठिर उवाच 12310001a कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः 12310001c सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह 12310002a कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः 12310002c न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः 12310003a कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः 12310003c यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् 12310004a एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते 12310004c न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् 12310005a माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह 12310005c यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह 12310006 भीष्म उवाच 12310006a न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 12310006c ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 12310007a तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव 12310007c तदिन्द्रियाणि संयम्य तपो भवति नान्यथा 12310008a इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् 12310008c संनियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः 12310009a अश्वमेधसहस्रस्य वाजपेयशतस्य च 12310009c योगस्य कलया तात न तुल्यं विद्यते फलम् 12310010a अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा 12310010c शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः 12310011a मेरुशृङ्गे किल पुरा कर्णिकारवनायुते 12310011c विजहार महादेवो भीमैर्भूतगणैर्वृतः 12310012a शैलराजसुता चैव देवी तत्राभवत्पुरा 12310012c तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः 12310013a योगेनात्मानमाविश्य योगधर्मपरायणः 12310013c धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम 12310014a अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो 12310014c वीर्येण संमितः पुत्रो मम भूयादिति स्म ह 12310015a संकल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः 12310015c वरयामास देवेशमास्थितस्तप उत्तमम् 12310016a अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः 12310016c आराधयन्महादेवं बहुरूपमुमापतिम् 12310017a तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा 12310017c लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह 12310018a आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ 12310018c मरुतो मारुतश्चैव सागराः सरितस्तथा 12310019a अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ 12310019c विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः 12310020a तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् 12310020c धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः 12310021a तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले 12310021c आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः 12310022a न चास्य हीयते वर्णो न ग्लानिरुपजायते 12310022c त्रयाणामपि लोकानां तदद्भुतमिवाभवत् 12310023a जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः 12310023c प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः 12310024a मार्कण्डेयो हि भगवानेतदाख्यातवान्मम 12310024c स देवचरितानीह कथयामास मे सदा 12310025a ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः 12310025c अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः 12310026a एवंविधेन तपसा तस्य भक्त्या च भारत 12310026c महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् 12310027a उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव 12310027c एवंविधस्ते तनयो द्वैपायन भविष्यति 12310028a यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् 12310028c यथा च खं तथा शुद्धो भविष्यति सुतो महान् 12310029a तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः 12310029c तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् 12311001 भीष्म उवाच 12311001a स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः 12311001c अरणीं त्वथ संगृह्य ममन्थाग्निचिकीर्षया 12311002a अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा 12311002c घृताचीं नामाप्सरसमपश्यद्भगवानृषिः 12311003a ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः 12311003c अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर 12311004a सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् 12311004c शुकी भूत्वा महाराज घृताची समुपागमत् 12311005a स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् 12311005c शरीरजेनानुगतः सर्वगात्रातिगेन ह 12311006a स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः 12311006c न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः 12311006e भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः 12311007a यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया 12311007c अरण्यामेव सहसा तस्य शुक्रमवापतत् 12311008a सोऽविशङ्केन मनसा तथैव द्विजसत्तमः 12311008c अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप 12311009a शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः 12311009c परमर्षिर्महायोगी अरणीगर्भसंभवः 12311010a यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान् 12311010c तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा 12311011a बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् 12311011c बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् 12311012a तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर 12311012c स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा 12311013a अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह 12311013c पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः 12311014a जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः 12311014c देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः 12311015a विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ 12311015c हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम् 12311016a तत्र शक्रपुरोगाश्च लोकपालाः समागताः 12311016c देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च 12311017a दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः 12311017c जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् 12311018a तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः 12311018c जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा 12311019a तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् 12311019c ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो 12311020a हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः 12311020c प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत 12311021a आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः 12311021c तत्रैवोवास मेधावी व्रतचारी समाहितः 12311022a उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः 12311022c उपतस्थुर्महाराज यथास्य पितरं तथा 12311023a बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् 12311023c उपाध्यायं महाराज धर्ममेवानुचिन्तयन् 12311024a सोऽधीत्य वेदानखिलान्सरहस्यान्ससंग्रहान् 12311024c इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो 12311025a गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः 12311025c उग्रं तपः समारेभे ब्रह्मचारी समाहितः 12311026a देवतानामृषीणां च बाल्येऽपि स महातपाः 12311026c संमन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा 12311027a न त्वस्य रमते बुद्धिराश्रमेषु नराधिप 12311027c त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः 12312001 भीष्म उवाच 12312001a स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् 12312001c प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः 12312002a मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे 12312002c यथा मे मनसः शान्तिः परमा संभवेत्प्रभो 12312003a श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् 12312003c अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि 12312004a पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः 12312004c योगशास्त्रं च निखिलं कापिलं चैव भारत 12312005a स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् 12312005c मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् 12312006a उवाच गच्छेति तदा जनकं मिथिलेश्वरम् 12312006c स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः 12312007a पितुर्नियोगादगमन्मैथिलं जनकं नृपम् 12312007c प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् 12312008a उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः 12312008c न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै 12312009a आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा 12312009c नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः 12312010a अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे 12312010c स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् 12312011a स धर्मकुशलो राजा मोक्षशास्त्रविशारदः 12312011c याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया 12312012a एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः 12312012c पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् 12312013a स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च 12312013c बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा 12312014a मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा 12312014c क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत् 12312015a स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् 12312015c आर्यावर्तमिमं देशमाजगाम महामुनिः 12312016a पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् 12312016c अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव 12312017a पत्तनानि च रम्याणि स्फीतानि नगराणि च 12312017c रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति 12312018a उद्यानानि च रम्याणि तथैवायतनानि च 12312018c पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः 12312019a सोऽचिरेणैव कालेन विदेहानाससाद ह 12312019c रक्षितान्धर्मराजेन जनकेन महात्मना 12312020a तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् 12312020c पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान् 12312021a स्फीतांश्च शालियवसैर्हंससारससेवितान् 12312021c पद्मिनीभिश्च शतशः श्रीमतीभिरलंकृतान् 12312022a स विदेहानतिक्रम्य समृद्धजनसेवितान् 12312022c मिथिलोपवनं रम्यमाससाद महर्द्धिमत् 12312023a हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् 12312023c पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः 12312024a मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् 12312024c आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह 12312025a तस्या द्वारं समासाद्य द्वारपालैर्निवारितः 12312025c स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह 12312026a स राजमार्गमासाद्य समृद्धजनसंकुलम् 12312026c पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह 12312027a तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् 12312027c तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत 12312028a न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः 12312028c प्रताम्यति ग्लायति वा नापैति च तथातपात् 12312029a तेषां तु द्वारपालानामेकः शोकसमन्वितः 12312029c मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् 12312030a पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः 12312030c प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः 12312031a तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् 12312031c छायायामातपे चैव समदर्शी महाद्युतिः 12312032a तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः 12312032c प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः 12312033a तत्रान्तःपुरसंबद्धं महच्चैत्ररथोपमम् 12312033c सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् 12312034a तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् 12312034c अर्हमासनमादिश्य निश्चक्राम ततः पुनः 12312035a तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः 12312035c सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः 12312036a संलापोल्लापकुशला नृत्तगीतविशारदाः 12312036c स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः 12312037a कामोपचारकुशला भावज्ञाः सर्वकोविदाः 12312037c परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् 12312038a पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च 12312038c देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् 12312039a तस्य भुक्तवतस्तात तदन्तःपुरकाननम् 12312039c सुरम्यं दर्शयामासुरेकैकश्येन भारत 12312040a क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् 12312040c उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा 12312041a आरणेयस्तु शुद्धात्मा त्रिसंदेहस्त्रिकर्मकृत् 12312041c वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति 12312042a तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् 12312042c स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः 12312043a पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च 12312043c निषसादासने पुण्ये तमेवार्थं विचिन्तयन् 12312044a पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः 12312044c मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः 12312045a ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् 12312045c स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत 12312046a अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः 12312046c तां च रात्रिं नृपकुले वर्तयामास भारत 12313001 भीष्म उवाच 12313001a ततः स राजा जनको मन्त्रिभिः सह भारत 12313001c पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च 12313002a आसनं च पुरस्कृत्य रत्नानि विविधानि च 12313002c शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् 12313003a स तदासनमादाय बहुरत्नविभूषितम् 12313003c स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् 12313004a पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः 12313004c प्रददौ गुरुपुत्राय शुकाय परमार्चितम् 12313005a तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् 12313005c पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् 12313005e स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि 12313006a प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः 12313006c गां चैव समनुज्ञाय राजानमनुमान्य च 12313007a पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् 12313007c अनामयं च राजेन्द्र शुकः सानुचरस्य ह 12313008a अनुज्ञातः स तेनाथ निषसाद सहानुगः 12313008c उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः 12313009a कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः 12313009c किमागमनमित्येव पर्यपृच्छत पार्थिवः 12313010 शुक उवाच 12313010a पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः 12313010c विदेहराजो याज्यो मे जनको नाम विश्रुतः 12313011a तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः 12313011c प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् 12313012a सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः 12313012c तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि 12313013a किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः 12313013c कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा 12313014 जनक उवाच 12313014a यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु 12313014c कृतोपनयनस्तात भवेद्वेदपरायणः 12313015a तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो 12313015c देवतानां पितॄणां चाप्यनृणश्चानसूयकः 12313016a वेदानधीत्य नियतो दक्षिणामपवर्ज्य च 12313016c अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः 12313017a समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् 12313017c अनसूयुर्यथान्यायमाहिताग्निस्तथैव च 12313018a उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् 12313018c तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः 12313019a स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् 12313019c निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् 12313020 शुक उवाच 12313020a उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते 12313020c किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च 12313021a एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति 12313021c यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप 12313022 जनक उवाच 12313022a न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् 12313022c न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः 12313023a आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते 12313023c विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् 12313024a अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् 12313024c पूर्वैराचरितो धर्मश्चातुराश्रम्यसंकथः 12313025a अनेन क्रमयोगेन बहुजातिषु कर्मणा 12313025c कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते 12313026a भावितैः कारणैश्चायं बहुसंसारयोनिषु 12313026c आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे 12313027a तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः 12313027c त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः 12313028a राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् 12313028c सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना 12313029a सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 12313029c संपश्यन्नोपलिप्येत जले वारिचरो यथा 12313030a पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते 12313030c विहाय देहं निर्मुक्तो निर्द्वंद्वः प्रशमं गतः 12313031a अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना 12313031c धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः 12313032a ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् 12313032c स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा 12313033a न बिभेति परो यस्मान्न बिभेति पराच्च यः 12313033c यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा 12313034a यदा भावं न कुरुते सर्वभूतेषु पापकम् 12313034c कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा 12313035a संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् 12313035c त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते 12313036a यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् 12313036c समो भवति निर्द्वंद्वो ब्रह्म संपद्यते तदा 12313037a यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति 12313037c काञ्चनं चायसं चैव सुखदुःखे तथैव च 12313038a शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् 12313038c जीवितं मरणं चैव ब्रह्म संपद्यते तदा 12313039a प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 12313039c तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा 12313040a तमःपरिगतं वेश्म यथा दीपेन दृश्यते 12313040c तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् 12313041a एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर 12313041c यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् 12313042a ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः 12313042c गुरोस्तव प्रसादेन तव चैवोपशिक्षया 12313043a तस्यैव च प्रसादेन प्रादुर्भूतं महामुने 12313043c ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम 12313044a अधिकं तव विज्ञानमधिका च गतिस्तव 12313044c अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे 12313045a बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् 12313045c उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् 12313046a व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः 12313046c विमुच्य हृदयग्रन्थीनासादयति तां गतिम् 12313047a भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः 12313047c व्यवसायादृते ब्रह्मन्नासादयति तत्परम् 12313048a नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा 12313048c नौत्सुक्यं नृत्तगीतेषु न राग उपजायते 12313049a न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् 12313049c पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् 12313050a अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः 12313050c आस्थितं परमं मार्गमक्षयं तमनामयम् 12313051a यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः 12313051c तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि 12314001 भीष्म उवाच 12314001a एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः 12314001c आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना 12314002a कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः 12314002c शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः 12314003a एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा 12314003c हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् 12314004a तमप्सरोगणाकीर्णं गीतस्वननिनादितम् 12314004c किंनराणां समूहैश्च भृङ्गराजैस्तथैव च 12314005a मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः 12314005c चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः 12314005e राजहंससमूहैश्च हृष्टैः परभृतैस्तथा 12314006a पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति 12314006c चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा 12314006e यत्र नित्यं समायान्ति लोकस्य हितकाम्यया 12314007a विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना 12314007c यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः 12314008a शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै 12314008c यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा 12314009a योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः 12314009c यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् 12314010a सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति 12314010c तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति 12314011a अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् 12314011c अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् 12314011e किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् 12314012a स नामृष्यत तं क्षेपमवैक्षत च पावकिम् 12314012c स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा 12314012e कम्पयामास सव्येन पाणिना पुरुषोत्तमः 12314013a शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा 12314013c मेदिनी कम्पिता सर्वा सशैलवनकानना 12314014a शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता 12314014c रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना 12314015a तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् 12314015c पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति 12314016a सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः 12314016c जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् 12314017a नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि 12314017c विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः 12314018a यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः 12314018c तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः 12314019a पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः 12314019c आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः 12314020a न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः 12314020c दशयोजनविस्तारमग्निज्वालासमावृतम् 12314021a भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् 12314021c सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः 12314022a दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः 12314022c देवान्संतापयंस्तत्र महादेवो धृतव्रतः 12314023a ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः 12314023c विविक्ते पर्वततटे पाराशर्यो महातपाः 12314023e वेदानध्यापयामास व्यासः शिष्यान्महातपाः 12314024a सुमन्तुं च महाभागं वैशंपायनमेव च 12314024c जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् 12314025a एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः 12314025c तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् 12314025e आरणेयो विशुद्धात्मा नभसीव दिवाकरः 12314026a अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् 12314026c ददर्श सुतमायान्तं दिवाकरसमप्रभम् 12314027a असज्जमानं वृक्षेषु शैलेषु विषमेषु च 12314027c योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् 12314028a सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः 12314028c यथोपजोषं तैश्चापि समागच्छन्महामुनिः 12314029a ततो निवेदयामास पित्रे सर्वमशेषतः 12314029c शुको जनकराजेन संवादं प्रीतमानसः 12314030a एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् 12314030c उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः 12314031a ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे 12314031c वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः 12314032a वेदेषु निष्ठां संप्राप्य साङ्गेष्वतितपस्विनः 12314032c अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् 12314033a महता श्रेयसा युक्ता यशसा च स्म वर्धिताः 12314033c एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् 12314034a इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह 12314034c उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया 12314035a एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः 12314035c पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् 12314036a ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् 12314036c यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम 12314037a काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा 12314037c षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः 12314038a चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः 12314038c इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः 12314039a शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् 12314039c पराशरात्मजो धीमान्परलोकार्थचिन्तकः 12314039e उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः 12314040a ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् 12314040c ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति 12314041a भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् 12314041c नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि 12314042a एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः 12314042c नापरीक्षितचारित्रे विद्या देया कथंचन 12314043a यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः 12314043c परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः 12314044a न नियोज्याश्च वः शिष्या अनियोगे महाभये 12314044c यथामति यथापाठं तथा विद्या फलिष्यति 12314045a सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु 12314045c श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः 12314046a वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् 12314046c स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा 12314047a यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् 12314047c सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् 12314048a यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 12314048c तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति 12314049a एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति 12314049c उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् 12315001 भीष्म उवाच 12315001a एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः 12315001c अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा 12315002a उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् 12315002c तन्नो मनसि संरूढं करिष्यामस्तथा च तत् 12315003a अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः 12315003c विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः 12315004a शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने 12315004c वेदाननेकधा कर्तुं यदि ते रुचितं विभो 12315005a शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः 12315005c प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् 12315006a क्षितिं वा देवलोकं वा गम्यतां यदि रोचते 12315006c अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् 12315007a तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना 12315007c जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च 12315008a अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् 12315008c संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा 12315009a पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः 12315009c याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः 12315010a अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् 12315010c तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् 12315011a तं ददर्शाश्रमपदे नारदः सुमहातपाः 12315011c अथैनमब्रवीत्काले मधुराक्षरया गिरा 12315012a भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते 12315012c एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव 12315013a ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते 12315013c रजसा तमसा चैव सोमः सोपप्लवो यथा 12315014a न भ्राजते यथापूर्वं निषादानामिवालयः 12315014c देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः 12315015a ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः 12315015c विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा 12315016a नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् 12315016c महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण 12315017a एतन्मनोनुकूलं मे भवानर्हति भाषितुम् 12315017c सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली 12315018a त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् 12315018c तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते 12315019a यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर 12315019c वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः 12315020 नारद उवाच 12315020a अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 12315020c मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् 12315021a अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता 12315021c विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः 12315022 भीष्म उवाच 12315022a नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् 12315022c तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः 12315023a शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् 12315023c स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव 12315024a तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः 12315024c वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः 12315025a ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् 12315025c शुको वारितमात्रस्तु कौतूहलसमन्वितः 12315026a अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् 12315026c आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् 12315027a शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः 12315027c अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् 12315028a दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः 12315028c तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः 12315029a आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना 12315029c न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय 12315030a देवयानचरो विष्णोः पितृयानश्च तामसः 12315030c द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः 12315031a पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः 12315031c सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः 12315032a तत्र देवगणाः साध्याः समभूवन्महाबलाः 12315032c तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः 12315033a उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः 12315033c अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् 12315034a अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः 12315034c पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् 12315035a प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् 12315035c प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते 12315036a प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः 12315036c प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः 12315037a अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः 12315037c आवहो नाम संवाति द्वितीयः श्वसनो नदन् 12315038a उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः 12315038c अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः 12315039a यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् 12315039c उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः 12315040a योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति 12315040c उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः 12315041a समुह्यमाना बहुधा येन नीलाः पृथग्घनाः 12315041c वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः 12315042a संहता येन चाविद्धा भवन्ति नदतां नदाः 12315042c रक्षणार्थाय संभूता मेघत्वमुपयान्ति च 12315043a योऽसौ वहति देवानां विमानानि विहायसा 12315043c चतुर्थः संवहो नाम वायुः स गिरिमर्दनः 12315044a येन वेगवता रुग्णा रूक्षेणारुजता रसान् 12315044c वायुना विहता मेघा न भवन्ति बलाहकाः 12315045a दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् 12315045c पञ्चमः स महावेगो विवहो नाम मारुतः 12315046a यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा 12315046c पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति 12315047a दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः 12315047c योनिरंशुसहस्रस्य येन भाति वसुंधरा 12315048a यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च 12315048c षष्ठः परिवहो नाम स वायुर्जवतां वरः 12315049a सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति 12315049c यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ 12315050a सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया 12315050c ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते 12315051a यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे 12315051c दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः 12315052a येन सृष्टः पराभूतो यात्येव न निवर्तते 12315052c परावहो नाम परो वायुः स दुरतिक्रमः 12315053a एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः 12315053c अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः 12315054a एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः 12315054c कम्पितः सहसा तेन वायुनाभिप्रवायता 12315055a विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः 12315055c सहसोदीर्यते तात जगत्प्रव्यथते तदा 12315056a तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति 12315056c वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् 12315057a एतावदुक्त्वा वचनं पराशरसुतः प्रभुः 12315057c उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा 12316001 भीष्म उवाच 12316001a एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् 12316001c शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् 12316002a देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् 12316002c अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् 12316003a नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर 12316003c केन त्वां श्रेयसा तात योजयामीति हृष्टवत् 12316004a नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत 12316004c अस्मिँल्लोके हितं यत्स्यात्तेन मां योक्तुमर्हसि 12316005 नारद उवाच 12316005a तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् 12316005c सनत्कुमारो भगवानिदं वचनमब्रवीत् 12316006a नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः 12316006c नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 12316007a निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता 12316007c सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् 12316008a मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति 12316008c नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् 12316009a सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी 12316009c मोहजालावृतो दुःखमिह चामुत्र चाश्नुते 12316010a सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः 12316010c कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ 12316011a नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 12316011c विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः 12316012a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 12316012c आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् 12316013a सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् 12316013c यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम 12316014a सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः 12316014c येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः 12316015a इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह 12316015c असज्जमानः शान्तात्मा निर्विकारः समाहितः 12316016a आत्मभूतैरतद्भूतः सह चैव विनैव च 12316016c स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति 12316017a अदर्शनमसंस्पर्शस्तथासंभाषणं सदा 12316017c यस्य भूतैः सह मुने स श्रेयो विन्दते परम् 12316018a न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् 12316018c नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् 12316019a आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलम् 12316019c एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः 12316020a परिग्रहं परित्यज्य भव तात जितेन्द्रियः 12316020c अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् 12316021a निरामिषा न शोचन्ति त्यजेहामिषमात्मनः 12316021c परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे 12316022a तपोनित्येन दान्तेन मुनिना संयतात्मना 12316022c अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 12316023a गुणसङ्गेष्वनासक्त एकचर्यारतः सदा 12316023c ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् 12316024a द्वंद्वारामेषु भूतेषु य एको रमते मुनिः 12316024c विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति 12316025a शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् 12316025c अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः 12316026a तत्र मृत्युजरादुःखैः सततं समभिद्रुतः 12316026c संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे 12316027a अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः 12316027c अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे 12316028a संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः 12316028c कोशकारवदात्मानं वेष्टयन्नावबुध्यसे 12316029a अलं परिग्रहेणेह दोषवान्हि परिग्रहः 12316029c कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् 12316030a पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 12316030c सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव 12316031a महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् 12316031c स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् 12316032a कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः 12316032c पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् 12316033a यदा सर्वं परित्यज्य गन्तव्यमवशेन ते 12316033c अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि 12316034a अविश्रान्तमनालम्बमपाथेयमदैशिकम् 12316034c तमःकान्तारमध्वानं कथमेको गमिष्यसि 12316035a न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति 12316035c सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति 12316036a विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् 12316036c अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते 12316037a निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 12316037c छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 12316038a रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् 12316038c गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् 12316039a क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् 12316039c त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् 12316040a त्यज धर्ममधर्मं च उभे सत्यानृते त्यज 12316040c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12316041a त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया 12316041c उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् 12316042a अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् 12316042c चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः 12316043a जराशोकसमाविष्टं रोगायतनमातुरम् 12316043c रजस्वलमनित्यं च भूतावासं समुत्सृज 12316044a इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् 12316044c महाभूतात्मकं सर्वं महद्यत्परमाणु यत् 12316045a इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा 12316045c इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः 12316046a सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः 12316046c पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः 12316047a एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते 12316047c त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा 12316048a य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ 12316048c पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किंचन 12316049a इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः 12316049c अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 12316050a इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते 12316050c लोके विततमात्मानं लोकं चात्मनि पश्यति 12316051a परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति 12316051c पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 12316052a ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 12316052c ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् 12316052e लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते 12316053a अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् 12316053c अकर्तारममूर्तं च भगवानाह तीर्थवित् 12316054a यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः 12316054c स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा 12316055a ततः कर्म समादत्ते पुनरन्यन्नवं बहु 12316055c तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः 12316056a अजस्रमेव मोहार्तो दुःखेषु सुखसंज्ञितः 12316056c बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा 12316057a ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह 12316057c परिभ्रमति संसारं चक्रवद्बहुवेदनः 12316058a स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः 12316058c सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः 12316059a संयमेन नवं बन्धं निवर्त्य तपसो बलात् 12316059c संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् 12317001 नारद उवाच 12317001a अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् 12317001c निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते 12317002a शोकस्थानसहस्राणि भयस्थानशतानि च 12317002c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 12317003a तस्मादनिष्टनाशार्थमितिहासं निबोध मे 12317003c तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् 12317004a अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च 12317004c मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः 12317005a द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् 12317005c ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते 12317006a दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते 12317006c अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते 12317007a नार्थो न धर्मो न यशो योऽतीतमनुशोचति 12317007c अप्यभावेन युज्येत तच्चास्य न निवर्तते 12317008a गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च 12317008c सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते 12317009a मृतं वा यदि वा नष्टं योऽतीतमनुशोचति 12317009c दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 12317010a नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् 12317010c सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते 12317011a दुःखोपघाते शारीरे मानसे वाप्युपस्थिते 12317011c यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् 12317012a भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् 12317012c चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते 12317013a प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 12317013c एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् 12317014a अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 12317014c आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः 12317015a न जानपदिकं दुःखमेकः शोचितुमर्हति 12317015c अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् 12317016a सुखाद्बहुतरं दुःखं जीविते नात्र संशयः 12317016c स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् 12317017a परित्यजति यो दुःखं सुखं वाप्युभयं नरः 12317017c अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः 12317018a दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः 12317018c दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् 12317019a अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 12317019c अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः 12317020a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 12317020c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 12317021a अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् 12317021c तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः 12317022a निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति 12317022c स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् 12317023a भूतेष्वभावं संचिन्त्य ये बुद्ध्वा तमसः परम् 12317023c न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 12317024a संचिन्वानकमेवैनं कामानामवितृप्तकम् 12317024c व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति 12317025a अथाप्युपायं संपश्येद्दुःखस्य परिमोक्षणे 12317025c अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् 12317026a शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च 12317026c नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा 12317027a प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम् 12317027c विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः 12317028a धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 12317028c चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया 12317029a प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च 12317029c विचरेदसमुन्नद्धः स सुखी स च पण्डितः 12317030a अध्यात्मरतिरासीनो निरपेक्षो निरामिषः 12317030c आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् 12318001 नारद उवाच 12318001a सुखदुःखविपर्यासो यदा समुपपद्यते 12318001c नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् 12318002a स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति 12318002c जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् 12318003a रुजन्ति हि शरीराणि रोगाः शारीरमानसाः 12318003c सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः 12318004a व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः 12318004c अवशस्य विनाशाय शरीरमपकृष्यते 12318005a स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव 12318005c आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः 12318006a व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः 12318006c जातं मर्त्यं जरयति निमेषं नावतिष्ठते 12318007a सुखदुःखानि भूतानामजरो जरयन्नसौ 12318007c आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च 12318008a अदृष्टपूर्वानादाय भावानपरिशङ्कितान् 12318008c इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः 12318009a यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् 12318009c यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् 12318010a संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः 12318010c दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः 12318011a अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः 12318011c आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः 12318012a भूतानामपरः कश्चिद्धिंसायां सततोत्थितः 12318012c वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते 12318013a अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति 12318013c कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति 12318014a अपराधं समाचक्ष्व पुरुषस्य स्वभावतः 12318014c शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति 12318015a तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा 12318015c आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते 12318016a केषांचित्पुत्रकामानामनुसंतानमिच्छताम् 12318016c सिद्धौ प्रयतमानानां नैवाण्डमुपजायते 12318017a गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव 12318017c आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः 12318018a देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः 12318018c दश मासान्परिधृता जायन्ते कुलपांसनाः 12318019a अपरे धनधान्यानि भोगांश्च पितृसंचितान् 12318019c विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः 12318020a अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे 12318020c उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते 12318021a शीर्णं परशरीरेण निच्छवीकं शरीरिणम् 12318021c प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् 12318022a निर्दग्धं परदेहेन परदेहं चलाचलम् 12318022c विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् 12318023a संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् 12318023c केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि 12318024a अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः 12318024c तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते 12318025a गर्भमूत्रपुरीषाणां स्वभावनियता गतिः 12318025c धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः 12318026a स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे 12318026c आगमेन सहान्येषां विनाश उपपद्यते 12318027a एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते 12318027c प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति 12318028a शतस्य सहजातस्य सप्तमीं दशमीं दशाम् 12318028c प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः 12318029a नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः 12318029c व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव 12318030a व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् 12318030c वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः 12318031a ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः 12318031c व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः 12318032a ते पिबन्तः कषायांश्च सर्पींषि विविधानि च 12318032c दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः 12318033a के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः 12318033c श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते 12318034a घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः 12318034c आक्रम्य रोग आदत्ते पशून्पशुपचो यथा 12318035a इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् 12318035c स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा 12318036a न धनेन न राज्येन नोग्रेण तपसा तथा 12318036c स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु 12318037a न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः 12318037c नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति 12318038a उपर्युपरि लोकस्य सर्वो भवितुमिच्छति 12318038c यतते च यथाशक्ति न च तद्वर्तते तथा 12318039a ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च 12318039c अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते 12318040a क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः 12318040c स्वं स्वं च पुनरन्येषां न किंचिदभिगम्यते 12318041a महच्च फलवैषम्यं दृश्यते कर्मसंधिषु 12318041c वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः 12318042a सर्वेषामृद्धिकामानामन्ये रथपुरःसराः 12318042c मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः 12318043a द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः 12318043c इदमन्यत्परं पश्य मात्र मोहं करिष्यसि 12318044a त्यज धर्ममधर्मं च उभे सत्यानृते त्यज 12318044c उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 12318045a एतत्ते परमं गुह्यमाख्यातमृषिसत्तम 12318045c येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः 12318046 भीष्म उवाच 12318046a नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् 12318046c संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत 12318047a पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः 12318047c किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् 12318048a ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः 12318048c परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् 12318049a कथं त्वहमसंक्लिष्टो गच्छेयं परमां गतिम् 12318049c नावर्तेयं यथा भूयो योनिसंसारसागरे 12318050a परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः 12318050c सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् 12318051a तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति 12318051c अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः 12318052a न तु योगमृते शक्या प्राप्तुं सा परमा गतिः 12318052c अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते 12318053a तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् 12318053c वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् 12318054a न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा 12318054c कम्पितः पतते भूमिं पुनश्चैवाधिरोहति 12318054e क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते 12318055a रविस्तु संतापयति लोकान्रश्मिभिरुल्बणैः 12318055c सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः 12318056a अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् 12318056c अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना 12318057a सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् 12318057c ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् 12318058a आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् 12318058c देवदानवगन्धर्वान्पिशाचोरगराक्षसान् 12318059a लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः 12318059c पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः 12318060a अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् 12318060c तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति 12318061a सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम् 12318061c शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः 12318062a श्रुत्वा ऋषिस्तद्वचनं शुकस्य; प्रीतो महात्मा पुनराह चैनम् 12318062c भो भोः पुत्र स्थीयतां तावदद्य; यावच्चक्षुः प्रीणयामि त्वदर्थम् 12318063a निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः 12318063c मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे 12318063e पितरं संपरित्यज्य जगाम द्विजसत्तमः 12319001 भीष्म उवाच 12319001a गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत 12319001c समे देशे विविक्ते च निःशलाक उपाविशत् 12319002a धारयामास चात्मानं यथाशास्त्रं महामुनिः 12319002c पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित् 12319003a ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते 12319003c पाणिपादं समाधाय विनीतवदुपाविशत् 12319004a न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम् 12319004c यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे 12319005a स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् 12319005c प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम् 12319006a स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये 12319006c महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् 12319007a ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा 12319007c निवेदयामास तदा स्वं योगं परमर्षये 12319008a दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन 12319008c त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते 12319009a नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः 12319009c अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् 12319010a कैलासपृष्ठादुत्पत्य स पपात दिवं तदा 12319010c अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः 12319011a तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् 12319011c ददृशुः सर्वभूतानि मनोमारुतरंहसम् 12319012a व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् 12319012c आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः 12319013a तमेकमनसं यान्तमव्यग्रमकुतोभयम् 12319013c ददृशुः सर्वभूतानि जङ्गमानीतराणि च 12319014a यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा 12319014c पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः 12319015a तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः 12319015c ऋषयश्चैव संसिद्धाः परं विस्मयमागताः 12319016a अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः 12319016c अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते 12319017a ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः 12319017c भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् 12319017e शब्देनाकाशमखिलं पूरयन्निव सर्वतः 12319018a तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः 12319018c संभ्रान्तमनसो राजन्नासन्परमविस्मिताः 12319018e पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः 12319019a दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् 12319019c सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् 12319020a ततः समतिचक्राम मलयं नाम पर्वतम् 12319020c उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते 12319020e ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् 12319021a अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे 12319021c अचिरेणैव कालेन नभश्चरति चन्द्रवत् 12319021e पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम् 12319022a पितृभक्तो दृढतपाः पितुः सुदयितः सुतः 12319022c अनन्यमनसा तेन कथं पित्रा विवर्जितः 12319023a उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् 12319023c उदैक्षत दिशः सर्वा वचने गतमानसः 12319024a सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् 12319024c आलोकयामास तदा सरांसि सरितस्तथा 12319025a ततो द्वैपायनसुतं बहुमानपुरःसरम् 12319025c कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः 12319026a अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् 12319026c पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै 12319027a ततः प्रतिवचो देयं सर्वैरेव समाहितैः 12319027c एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ 12319028a शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः 12319028c समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः 12319029a यथाज्ञापयसे विप्र बाढमेवं भविष्यति 12319029c ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् 12320001 भीष्म उवाच 12320001a इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः 12320001c प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् 12320002a तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः 12320002c ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् 12320003a ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते 12320003c ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् 12320004a उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च 12320004c प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् 12320005a द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः 12320005c निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह 12320006a न बभासे सहस्रांशुर्न जज्वाल च पावकः 12320006c ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा 12320007a ववर्ष वासवस्तोयं रसवच्च सुगन्धि च 12320007c ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः 12320008a स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे 12320008c संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे 12320009a शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत 12320009c उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह 12320010a सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः 12320010c ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते 12320010e अदृश्येतां महाराज तदद्भुतमिवाभवत् 12320011a ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः 12320011c न च प्रतिजघानास्य स गतिं पर्वतोत्तमः 12320012a ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् 12320012c गन्धर्वाणामृषीणां च ये च शैलनिवासिनः 12320013a दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् 12320013c साधु साध्विति तत्रासीन्नादः सर्वत्र भारत 12320014a स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा 12320014c यक्षराक्षससंघैश्च विद्याधरगणैस्तथा 12320015a दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः 12320015c आसीत्किल महाराज शुकाभिपतने तदा 12320016a ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् 12320016c शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् 12320017a तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः 12320017c शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः 12320018a तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः 12320018c उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह 12320019a शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् 12320019c दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा 12320020a महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः 12320020c निमेषान्तरमात्रेण शुकाभिपतनं ययौ 12320021a स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् 12320021c शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा 12320022a ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा 12320022c स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै 12320023a शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः 12320023c प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् 12320024a तत एकाक्षरं नादं भो इत्येव समीरयन् 12320024c प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् 12320025a ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् 12320025c गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति 12320026a अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा 12320026c गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम् 12320027a महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः 12320027c निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् 12320028a ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः 12320028c आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः 12320029a जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे 12320029c वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् 12320030a तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा 12320030c सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह 12320031a तं देवगन्धर्ववृतो महर्षिगणपूजितः 12320031c पिनाकहस्तो भगवानभ्यागच्छत शंकरः 12320032a तमुवाच महादेवः सान्त्वपूर्वमिदं वचः 12320032c पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा 12320033a अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह 12320033c वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः 12320034a स तथालक्षणो जातस्तपसा तव संभृतः 12320034c मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः 12320035a स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः 12320035c दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि 12320036a यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः 12320036c तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति 12320037a छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा 12320037c द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने 12320038a सोऽनुनीतो भगवता स्वयं रुद्रेण भारत 12320038c छायां पश्यन्समावृत्तः स मुनिः परया मुदा 12320039a इति जन्म गतिश्चैव शुकस्य भरतर्षभ 12320039c विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि 12320040a एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा 12320040c व्यासश्चैव महायोगी संजल्पेषु पदे पदे 12320041a इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् 12320041c धारयेद्यः शमपरः स गच्छेत्परमां गतिम् 12321001 युधिष्ठिर उवाच 12321001a गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः 12321001c य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः 12321002a कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् 12321002c विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च 12321003a मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः 12321003c स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः 12321004a देवतानां च को देवः पितॄणां च तथा पिता 12321004c तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह 12321005 भीष्म उवाच 12321005a गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ 12321005c न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि 12321006a ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा 12321006c गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् 12321007a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12321007c नारदस्य च संवादमृषेर्नारायणस्य च 12321008a नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः 12321008c धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत 12321009a कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे 12321009c नरो नारायणश्चैव हरिः कृष्णस्तथैव च 12321010a तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ 12321010c बदर्याश्रममासाद्य शकटे कनकामये 12321011a अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् 12321011c तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ 12321012a तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि 12321012c यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति 12321013a नूनं तयोरनुमते हृदि हृच्छयचोदितः 12321013c महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् 12321014a नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् 12321014c तं देशमगमद्राजन्बदर्याश्रममाशुगः 12321015a तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् 12321015c इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः 12321016a सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः 12321016c एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा 12321017a धर्मस्य कुलसंतानो महानेभिर्विवर्धितः 12321017c अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह 12321017e नरनारायणाभ्यां च कृष्णेन हरिणा तथा 12321018a तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे 12321018c स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ 12321019a एतौ हि परमं धाम कानयोराह्निकक्रिया 12321019c पितरौ सर्वभूतानां दैवतं च यशस्विनौ 12321019e कां देवतां नु यजतः पितॄन्वा कान्महामती 12321020a इति संचिन्त्य मनसा भक्त्या नारायणस्य ह 12321020c सहसा प्रादुरभवत्समीपे देवयोस्तदा 12321021a कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः 12321021c पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः 12321022a तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् 12321022c उपोपविष्टः सुप्रीतो नारदो भगवानृषिः 12321023a नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना 12321023c नमस्कृत्वा महादेवमिदं वचनमब्रवीत् 12321024a वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे 12321024c त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् 12321024e प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् 12321025a चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः 12321025c यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् 12321026a पिता माता च सर्वस्य जगतः शाश्वतो गुरुः 12321026c कं त्वद्य यजसे देवं पितरं कं न विद्महे 12321027 श्रीभगवानुवाच 12321027a अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् 12321027c तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् 12321028a यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् 12321028c इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् 12321029a स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते 12321029c त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः 12321029e तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम 12321030a अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया 12321030c तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः 12321030e आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते 12321031a नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः 12321031c आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे 12321032a तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी 12321032c दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् 12321033a ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः 12321033c मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः 12321034a वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च 12321034c कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च 12321035a एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः 12321035c तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् 12321036a दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः 12321036c आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः 12321037a स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः 12321037c ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् 12321038a ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च 12321038c कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः 12321039a मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः 12321039c स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते 12321040a दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः 12321040c एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् 12321041a तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः 12321041c भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः 12321042a ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः 12321042c एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत 12321043a इति गुह्यसमुद्देशस्तव नारद कीर्तितः 12321043c भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः 12322001 भीष्म उवाच 12322001a स एवमुक्तो द्विपदां वरिष्ठो; नारायणेनोत्तमपूरुषेण 12322001c जगाद वाक्यं द्विपदां वरिष्ठं; नारायणं लोकहिताधिवासम् 12322002a यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा 12322002c तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् 12322003a वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम् 12322003c पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् 12322004a गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम् 12322004c तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम् 12322004e एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येयमनन्तमीशम् 12322005a तत्पारमेष्ठ्यस्य वचो निशम्य; नारायणः सात्वतधर्मगोप्ता 12322005c गच्छेति तं नारदमुक्तवान्स; संपूजयित्वात्मविधिक्रियाभिः 12322006a ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चयित्वा तमृषिं पुराणम् 12322006c खमुत्पपातोत्तमवेगयुक्त;स्ततोऽधिमेरौ सहसा निलिल्ये 12322007a तत्रावतस्थे च मुनिर्मुहूर्त;मेकान्तमासाद्य गिरेः स शृङ्गे 12322007c आलोकयन्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपयुक्तम् 12322008a क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः 12322008c मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः 12322009a अतीन्द्रियाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च 12322009c श्वेताः पुमांसो गतसर्वपापा;श्चक्षुर्मुषः पापकृतां नराणाम् 12322010a वज्रास्थिकायाः सममानोन्माना; दिव्यान्वयरूपाः शुभसारोपेताः 12322010c छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः 12322011a षष्ट्या दन्तैर्युक्ताः शुक्लै;रष्टाभिर्दंष्ट्राभिर्ये 12322011c जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् 12322012a भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः 12322012c वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः 12322013 युधिष्ठिर उवाच 12322013a अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12322013c कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा 12322014a ये विमुक्ता भवन्तीह नरा भरतसत्तम 12322014c तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् 12322015a तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे 12322015c त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् 12322016 भीष्म उवाच 12322016a विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ 12322016c सैषा तव हि वक्तव्या कथासारो हि स स्मृतः 12322017a राजोपरिचरो नाम बभूवाधिपतिर्भुवः 12322017c आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् 12322018a धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः 12322018c साम्राज्यं तेन संप्राप्तं नारायणवरात्पुरा 12322019a सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् 12322019c पूजयामास देवेशं तच्छेषेण पितामहान् 12322020a पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः 12322020c शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः 12322020e सर्वभावेन भक्तः स देवदेवं जनार्दनम् 12322021a तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन 12322021c एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् 12322022a आत्मा राज्यं धनं चैव कलत्रं वाहनानि च 12322022c एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा 12322023a काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः 12322023c सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः 12322024a पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः 12322024c प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् 12322025a तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः 12322025c नानृता वाक्समभवन्मनो दुष्टं न चाभवत् 12322025e न च कायेन कृतवान्स पापं परमण्वपि 12322026a ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः 12322026c तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् 12322027a मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 12322027c वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः 12322028a सप्त प्रकृतयो ह्येतास्तथा स्वायंभुवोऽष्टमः 12322028c एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् 12322029a एकाग्रमनसो दान्ता मुनयः संयमे रताः 12322029c इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् 12322029e लोकान्संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे 12322030a तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः 12322030c मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः 12322031a आराध्य तपसा देवं हरिं नारायणं प्रभुम् 12322031c दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह 12322032a नारायणानुशास्ता हि तदा देवी सरस्वती 12322032c विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया 12322033a ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः 12322033c शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा 12322034a आदावेव हि तच्छास्त्रमोंकारस्वरभूषितम् 12322034c ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ 12322035a ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः 12322035c ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः 12322036a कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् 12322036c लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते 12322037a प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति 12322037c ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा 12322038a तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः 12322038c रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा 12322039a सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च 12322039c सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् 12322040a अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः 12322040c सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् 12322041a भविष्यति प्रमाणं वै एतन्मदनुशासनम् 12322041c अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम् 12322042a उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः 12322042c तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् 12322043a स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते 12322043c बृहस्पतिमते चैव लोकेषु प्रविचारिते 12322044a युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः 12322044c बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः 12322045a स हि मद्भावितो राजा मद्भक्तश्च भविष्यति 12322045c तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति 12322046a एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् 12322046c एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् 12322047a अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ 12322047c स च राजा श्रिया युक्तो भविष्यति महान्वसुः 12322048a संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् 12322048c अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया 12322049a एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः 12322049c विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम् 12322050a ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः 12322050c प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् 12322051a उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते 12322051c साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ 12322052a जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः 12322052c धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः 12323001 भीष्म उवाच 12323001a ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते 12323001c बभूवुर्निर्वृता देवा जाते देवपुरोहिते 12323002a बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः 12323002c एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः 12323003a तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः 12323003c अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् 12323004a स राजा भावितः पूर्वं दैवेन विधिना वसुः 12323004c पालयामास पृथिवीं दिवमाखण्डलो यथा 12323005a तस्य यज्ञो महानासीदश्वमेधो महात्मनः 12323005c बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह 12323006a प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः 12323006c एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 12323007a धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू 12323007c ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः 12323008a ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः 12323008c कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः 12323009a आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः 12323009c कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः 12323009e संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ 12323010a न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् 12323010c अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः 12323010e आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः 12323011a प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः 12323011c साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् 12323012a स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् 12323012c अदृश्येन हृतो भागो देवेन हरिमेधसा 12323013a बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः 12323013c आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् 12323014a उवाच चोपरिचरं मया भागोऽयमुद्यतः 12323014c ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः 12323015a उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह 12323015c किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः 12323016a ततः स तं समुद्धूतं भूमिपालो महान्वसुः 12323016c प्रसादयामास मुनिं सदस्यास्ते च सर्वशः 12323017a ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि 12323017c नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः 12323018a अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः 12323018c न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते 12323018e यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति 12323019 एकतद्वितत्रिता ऊचुः 12323019a वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः 12323019c गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् 12323020a तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् 12323020c एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः 12323021a मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः 12323021c स देशो यत्र नस्तप्तं तपः परमदारुणम् 12323021e कथं पश्येमहि वयं देवं नारायणं त्विति 12323022a ततो व्रतस्यावभृथे वागुवाचाशरीरिणी 12323022c सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना 12323023a यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् 12323023c क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः 12323024a तत्र नारायणपरा मानवाश्चन्द्रवर्चसः 12323024c एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् 12323025a ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् 12323025c अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 12323026a एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः 12323026c गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः 12323027a अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् 12323027c यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे 12323028a प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः 12323028c ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् 12323029a न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः 12323029c ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् 12323030a न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा 12323030c ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् 12323031a व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् 12323031c श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् 12323032a नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् 12323032c मानसो नाम स जपो जप्यते तैर्महात्मभिः 12323032e तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः 12323033a या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये 12323033c एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह 12323034a तेजोनिवासः स द्वीप इति वै मेनिरे वयम् 12323034c न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः 12323035a अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् 12323035c सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते 12323036a सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् 12323036c कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः 12323037a ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् 12323037c बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः 12323038a वयं तु तेजसा तस्य सहसा हृतचेतसः 12323038c न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः 12323039a एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः 12323039c जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन 12323040a नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज 12323040c इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः 12323041a एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः 12323041c दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा 12323042a तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः 12323042c नूनं तत्रागतो देवो यथा तैर्वागुदीरिता 12323042e वयं त्वेनं न पश्यामो मोहितास्तस्य मायया 12323043a मारुते संनिवृत्ते च बलौ च प्रतिपादिते 12323043c चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर 12323044a मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु 12323044c अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् 12323045a तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः 12323045c नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः 12323046a ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् 12323046c उवाच खस्थं किमपि भूतं तत्राशरीरकम् 12323047a दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः 12323047c दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः 12323048a गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् 12323048c न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन 12323049a कामं कालेन महता एकान्तित्वं समागतैः 12323049c शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः 12323050a महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः 12323050c इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च 12323051a वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः 12323051c सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ 12323052a ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप 12323052c तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा 12323053a एवं सुतपसा चैव हव्यकव्यैस्तथैव च 12323053c देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि 12323053e नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् 12323054 भीष्म उवाच 12323054a एवमेकतवाक्येन द्वितत्रितमतेन च 12323054c अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः 12323054e समानीय ततो यज्ञं दैवतं समपूजयत् 12323055a समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः 12323055c ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः 12323056a अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः 12323056c नारायणपरो भूत्वा नारायणपदं जगौ 12323057a तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः 12323057c महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् 12323057e परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा 12324001 युधिष्ठिर उवाच 12324001a यदा भक्तो भगवत आसीद्राजा महावसुः 12324001c किमर्थं स परिभ्रष्टो विवेश विवरं भुवः 12324002 भीष्म उवाच 12324002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12324002c ऋषीणां चैव संवादं त्रिदशानां च भारत 12324003a अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् 12324003c स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः 12324004 ऋषय ऊचुः 12324004a बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः 12324004c अजसंज्ञानि बीजानि छागं न घ्नन्तुमर्हथ 12324005a नैष धर्मः सतां देवा यत्र वध्येत वै पशुः 12324005c इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः 12324006 भीष्म उवाच 12324006a तेषां संवदतामेवमृषीणां विबुधैः सह 12324006c मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः 12324006e अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः 12324007a तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् 12324007c ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् 12324008a यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः 12324008c कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः 12324009a एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा 12324009c अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् 12324010a भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः 12324010c एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः 12324011a स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः 12324011c कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः 12324012 ऋषय ऊचुः 12324012a धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप 12324012c देवानां तु पशुः पक्षो मतो राजन्वदस्व नः 12324013 भीष्म उवाच 12324013a देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् 12324013c छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा 12324014a कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः 12324014c ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् 12324015a सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत 12324015c अद्य प्रभृति ते राजन्नाकाशे विहता गतिः 12324015e अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि 12324016a ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा 12324016c अधो वै संबभूवाशु भूमेर्विवरगो नृपः 12324016e स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया 12324017a देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् 12324017c चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् 12324018a अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना 12324018c अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः 12324019a इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः 12324019c ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा 12324020a ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् 12324020c कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् 12324021a मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् 12324021c अवश्यं तपसा तेषां फलितव्यं नृपोत्तम 12324022a यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् 12324022c एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम 12324023a यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ 12324023c भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि 12324023e यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः 12324024a प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् 12324024c न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः 12324025a वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च 12324025c स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति 12324026a एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः 12324026c गताः स्वभवनं देवा ऋषयश्च तपोधनाः 12324027a चक्रे च सततं पूजां विष्वक्सेनाय भारत 12324027c जप्यं जगौ च सततं नारायणमुखोद्गतम् 12324028a तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम 12324028c अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् 12324029a ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः 12324029c अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः 12324030a वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् 12324030c गरुत्मन्तं महावेगमाबभाषे स्मयन्निव 12324031a द्विजोत्तम महाभाग गम्यतां वचनान्मम 12324031c सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः 12324032a ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् 12324032c मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम 12324033a भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया 12324033c अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् 12324034a गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् 12324034c विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः 12324035a तत एनं समुत्क्षिप्य सहसा विनतासुतः 12324035c उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत 12324036a तस्मिन्मुहूर्ते संजज्ञे राजोपरिचरः पुनः 12324036c सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः 12324037a एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया 12324037c प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना 12324038a केवलं पुरुषस्तेन सेवितो हरिरीश्वरः 12324038c ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च 12324039a एतत्ते सर्वमाख्यातं ते भूता मानवा यथा 12324039c नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः 12324039e तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप 12325001 भीष्म उवाच 12325001a प्राप्य श्वेतं महाद्वीपं नारदो भगवानृषिः 12325001c ददर्श तानेव नराञ्श्वेतांश्चन्द्रप्रभाञ्शुभान् 12325002a पूजयामास शिरसा मनसा तैश्च पूजितः 12325002c दिदृक्षुर्जप्यपरमः सर्वकृच्छ्रधरः स्थितः 12325003a भूत्वैकाग्रमना विप्र ऊर्ध्वबाहुर्महामुनिः 12325003c स्तोत्रं जगौ स विश्वाय निर्गुणाय महात्मने 12325004 नारद उवाच 12325004A नमस्ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लोकसाक्षिन् [4] क्षेत्रज्ञ [5] अनन्त [6=116] पुरुष [7] महापुरुष [8] त्रिगुण [9] प्रधान [10] 12325004B अमृत [11] व्योम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन् [15] पूर्वादिदेव [16] वसुप्रद [17] प्रजापते [18] सुप्रजापते [19] वनस्पते [20] 12325004C महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्पते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक्पते [30] 12325004D पूर्वनिवास [31] ब्रह्मपुरोहित [32] ब्रह्मकायिक [33] महाकायिक [34] महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभासुर [39] याम्य [40] 12325004E महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] प्रतर्दन [45] परिनिर्मित [46] वशवर्तिन् [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [50] 12325004F यज्ञसंभव [51] यज्ञयोने [52] यज्ञगर्भ [53] यज्ञहृदय [54] यज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] पञ्चरात्रिक [59] वैकुण्ठ [60] 12325004G अपराजित [61] मानसिक [62] परमस्वामिन् [63] सुस्नात [64] हंस [65] परमहंस [66] परमयाज्ञिक [67] सांख्ययोग [68] अमृतेशय [69] हिरण्येशय [70] 12325004H वेदेशय [71] कुशेशय [72] ब्रह्मेशय [73] पद्मेशय [74] विश्वेश्वर [75] त्वं जगदन्वयः [76] त्वं जगत्प्रकृतिः [77] तवाग्निरास्यम् [78] वडवामुखोऽग्निः [79] त्वमाहुतिः [80] 12325004I त्वं सारथिः [81] त्वं वषट्कारः [82] त्वमोंकारः [83] त्वं मनः [84] त्वं चन्द्रमाः [85] त्वं चक्षुराद्यम् [86] त्वं सूर्यः [87] त्वं दिशां गजः [88] दिग्भानो [89] हयशिरः [90] 12325004J प्रथमत्रिसौपर्ण [91] पञ्चाग्ने [92] त्रिणाचिकेत [93] षडङ्गविधान [94] प्राग्ज्योतिष [95] ज्येष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] 12325004K वालखिल्य [101] वैखानस [102] अभग्नयोग [103] अभग्नपरिसंख्यान [104] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] प्राचीनगर्भ [109] कौशिक [110] 12325004L पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्तभोग [115] अनन्त [116=6] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्तनिधन [120] 12325004M व्रतावास [121] समुद्राधिवास [122] यशोवास [123] तपोवास [124] लक्ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] श्रीवास [128] सर्वावास [129] वासुदेव [130] 12325004N सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर [134] वरप्रद [135=157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] प्रवृत्तवेदक्रिय [138] अज [139] सर्वगते [140] 12325004O सर्वदर्शिन् [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्यशरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत् [149] अप्रतर्क्य [150] 12325004P अविज्ञेय [151] ब्रह्माग्र्य [152] प्रजासर्गकर [153] प्रजानिधनकर [154] महामायाधर [155] चित्रशिखण्डिन् [156] वरप्रद [157=135] पुरोडाशभागहर [158] गताध्वन् [159] छिन्नतृष्ण [160] 12325004Q छिन्नसंशय [161] सर्वतोनिवृत्त [162] ब्राह्मणरूप [163] ब्राह्मणप्रिय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] भक्तवत्सल [168] ब्रह्मण्यदेव [169] भक्तोऽहं त्वां दिदृक्षुः [170] एकान्तदर्शनाय नमो नमः [171] 12326001 भीष्म उवाच 12326001a एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः 12326001c तं मुनिं दर्शयामास नारदं विश्वरूपधृक् 12326002a किंचिच्चन्द्रविशुद्धात्मा किंचिच्चन्द्राद्विशेषवान् 12326002c कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः 12326003a शुकपत्रवर्णः किंचिच्च किंचित्स्फटिकसप्रभः 12326003c नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् 12326004a प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ 12326004c क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् 12326005a नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् 12326005c मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् 12326006a एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः 12326006c सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् 12326007a सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् 12326007c ओंकारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् 12326008a शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु 12326008c आरण्यकं जगौ देवो हरिर्नारायणो वशी 12326009a वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् 12326009c अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् 12326009e धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा 12326010a तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः 12326010c वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् 12326010e तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः 12326011a एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 12326011c इमं देशमनुप्राप्ता मम दर्शनलालसाः 12326012a न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन 12326012c ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः 12326013a ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज 12326013c तास्त्वं भजस्व सततं साधयस्व यथागतम् 12326014a वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि 12326014c प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः 12326015 नारद उवाच 12326015a अद्य मे तपसो देव यमस्य नियमस्य च 12326015c सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया 12326016a वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः 12326016c भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः 12326017 भीष्म उवाच 12326017a एवं संदर्शयित्वा तु नारदं परमेष्ठिजम् 12326017c उवाच वचनं भूयो गच्छ नारद माचिरम् 12326018a इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः 12326018c एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति 12326019a सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् 12326019c तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् 12326020a न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च 12326020c न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः 12326021a सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै 12326021c यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते 12326022a भूतग्रामशरीरेषु नश्यत्सु न विनश्यति 12326022c अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा 12326023a द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः 12326023c पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते 12326024a यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम 12326024c स वासुदेवो विज्ञेयः परमात्मा सनातनः 12326025a पश्य देवस्य माहात्म्यं महिमानं च नारद 12326025c शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन 12326026a सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते 12326026c एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 12326027a एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते 12326027c निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः 12326028a जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते 12326028c ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते 12326029a खे वायुः प्रलयं याति मनस्याकाशमेव च 12326029c मनो हि परमं भूतं तदव्यक्ते प्रलीयते 12326030a अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते 12326030c नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् 12326031a नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् 12326031c ऋते तमेकं पुरुषं वासुदेवं सनातनम् 12326031e सर्वभूतात्मभूतो हि वासुदेवो महाबलः 12326032a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12326032c ते समेता महात्मानः शरीरमिति संज्ञितम् 12326033a तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः 12326033c उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः 12326034a न विना धातुसंघातं शरीरं भवति क्वचित् 12326034c न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत 12326035a स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः 12326035c तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा 12326036a यस्मिंश्च सर्वभूतानि प्रलयं यान्ति संक्षये 12326036c स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते 12326037a तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च 12326037c यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् 12326037e सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु 12326038a यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः 12326038c ज्ञेयः स एव भगवाञ्जीवः संकर्षणः प्रभुः 12326039a संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते 12326039c प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहंकारो महेश्वरः 12326040a मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम् 12326040c अक्षरं च क्षरं चैव सच्चासच्चैव नारद 12326041a मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम 12326041c अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः 12326042a निर्गुणो निष्कलश्चैव निर्द्वंद्वो निष्परिग्रहः 12326042c एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते 12326042e इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः 12326043a माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद 12326043c सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि 12326043e मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् 12326044a सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् 12326044c तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने 12326045a अहं कर्ता च कार्यं च कारणं चापि नारद 12326045c अहं हि जीवसंज्ञो वै मयि जीवः समाहितः 12326045e मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च 12326046a अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः 12326046c भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् 12326047a हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः 12326047c ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः 12326048a पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् 12326048c द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान् 12326049a अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् 12326049c नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः 12326050a सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि 12326050c वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः 12326051a तपांसि नियमांश्चैव यमानपि पृथग्विधान् 12326051c तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् 12326052a श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् 12326052c वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् 12326053a ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् 12326053c अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा 12326054a मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम 12326054c त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् 12326055a देवकार्यादपि मुने पितृकार्यं विशिष्यते 12326055c देवानां च पितॄणां च पिता ह्येकोऽहमादितः 12326056a अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे 12326056c पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् 12326057a मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् 12326057c ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् 12326058a मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च 12326058c अहंकारकृतं चैव नाम पर्यायवाचकम् 12326059a त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन 12326059c त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि 12326060a सुरासुरगणानां च ऋषीणां च तपोधन 12326060c पितॄणां च महाभाग सततं संशितव्रत 12326060e विविधानां च भूतानां त्वमुपास्यो भविष्यसि 12326061a प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा 12326061c अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा 12326062a एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे 12326062c अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् 12326063a निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता 12326063c तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः 12326064a विद्यासहायवन्तं मामादित्यस्थं सनातनम् 12326064c कपिलं प्राहुराचार्याः सांख्यनिश्चितनिश्चयाः 12326065a हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः 12326065c सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः 12326066a एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः 12326066c ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः 12326066e कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च 12326067a एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम 12326067c ततो भूयो जगत्सर्वं करिष्यामीह विद्यया 12326068a अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् 12326068c स हि संकर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् 12326069a प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः 12326069c अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः 12326070a ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च 12326070c एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः 12326071a यथा सूर्यस्य गगनादुदयास्तमयाविह 12326071c नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः 12326071e तथा बलादहं पृथ्वीं सर्वभूतहिताय वै 12326072a सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् 12326072c आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः 12326073a हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् 12326073c नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः 12326073e सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् 12326074a विरोचनस्य बलवान्बलिः पुत्रो महासुरः 12326074c भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति 12326075a त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ 12326075c अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् 12326076a ततो राज्यं प्रदास्यामि शक्रायामिततेजसे 12326076c देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद 12326076e बलिं चैव करिष्यामि पातालतलवासिनम् 12326077a त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः 12326077c क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् 12326078a संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च 12326078c रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः 12326079a त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा 12326079c प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी 12326080a तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः 12326080c ते सहाया भविष्यन्ति सुरकार्ये मम द्विज 12326081a ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् 12326081c हनिष्ये रावणं संख्ये सगणं लोककण्टकम् 12326082a द्वापरस्य कलेश्चैव संधौ पर्यवसानिके 12326082c प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति 12326083a तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् 12326083c कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् 12326084a वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् 12326084c हनिष्ये नरकं भौमं मुरं पीठं च दानवम् 12326085a प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् 12326085c कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् 12326086a शंकरं च महासेनं बाणप्रियहितैषिणम् 12326086c पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ 12326087a ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् 12326087c विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः 12326088a यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः 12326088c भविष्यति वधस्तस्य मत्त एव द्विजोत्तम 12326089a जरासंधश्च बलवान्सर्वराजविरोधकः 12326089c भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे 12326089e मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति 12326090a समागतेषु बलिषु पृथिव्यां सर्वराजसु 12326090c वासविः सुसहायो वै मम ह्येको भविष्यति 12326091a एवं लोका वदिष्यन्ति नरनारायणावृषी 12326091c उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ 12326092a कृत्वा भारावतरणं वसुधाया यथेप्सितम् 12326092c सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम 12326092e करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् 12326093a कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् 12326093c कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् 12326094a हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम 12326094c यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा 12326094e सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे 12326095a अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् 12326095c अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः 12326095e लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः 12326096a न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् 12326096c यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना 12326097a एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया 12326097c पुराणं च भविष्यं च सरहस्यं च सत्तम 12326098a एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः 12326098c एतावदुक्त्वा वचनं तत्रैवान्तरधीयत 12326099a नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् 12326099c नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् 12326100a इदं महोपनिषदं चतुर्वेदसमन्वितम् 12326100c सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् 12326101a नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः 12326101c ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् 12326102 युधिष्ठिर उवाच 12326102a एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः 12326102c किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् 12326103a पितामहो हि भगवांस्तस्माद्देवादनन्तरः 12326103c कथं स न विजानीयात्प्रभावममितौजसः 12326104 भीष्म उवाच 12326104a महाकल्पसहस्राणि महाकल्पशतानि च 12326104c समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह 12326105a सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः 12326105c जानाति देवप्रवरं भूयश्चातोऽधिकं नृप 12326105e परमात्मानमीशानमात्मनः प्रभवं तथा 12326106a ये त्वन्ये ब्रह्मसदने सिद्धसंघाः समागताः 12326106c तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् 12326107a तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् 12326107c आत्मानुगामिनां ब्रह्म श्रावयामास भारत 12326108a षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् 12326108c सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः 12326108e तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् 12326109a सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः 12326109c मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् 12326110a देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः 12326110c श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः 12326111a मम चापि पिता तात कथयामास शंतनुः 12326111c ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत 12326112a सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् 12326112c सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 12326113a इदमाख्यानमार्षेयं पारंपर्यागतं नृप 12326113c नावासुदेवभक्ताय त्वया देयं कथंचन 12326114a मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै 12326114c यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः 12326115a सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् 12326115c एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् 12326116a यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः 12326116c एकान्तभावोपगत एकान्ते सुसमाहितः 12326117a प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः 12326117c स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः 12326118a मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् 12326118c जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् 12326119a त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः 12326119c स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः 12326120a ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः 12326120c युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः 12326121 वैशंपायन उवाच 12326121a श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय 12326121c भ्रातरश्चास्य ते सर्वे नारायणपराभवन् 12326122a जितं भगवता तेन पुरुषेणेति भारत 12326122c नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् 12326123a यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः 12326123c स जगौ परमं जप्यं नारायणमुदीरयन् 12326124a गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् 12326124c पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् 12327001 जनमेजय उवाच 12327001a कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः 12327001c यज्ञधारी च सततं वेदवेदाङ्गवित्तथा 12327002a निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः 12327002c प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः 12327003a कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः 12327003c कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः 12327004a एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् 12327004c त्वया नारायणकथा श्रुता वै धर्मसंहिता 12327005a इमे सब्रह्मका लोकाः ससुरासुरमानवाः 12327005c क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः 12327005e मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् 12327006a ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः 12327006c ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः 12327007a अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः 12327007c यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् 12327008a किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः 12327008c सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च 12327008e आकाशं जगती चैव ये च शेषा दिवौकसः 12327009a प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् 12327009c ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् 12327010a स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः 12327010c दोषः कालपरीमाणे महानेष क्रियावताम् 12327011a एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् 12327011c छिन्धीतिहासकथनात्परं कौतूहलं हि मे 12327012a कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज 12327012c किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः 12327013a ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम 12327013c ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै 12327014 वैशंपायन उवाच 12327014a अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर 12327014c नातप्ततपसा ह्येष नावेदविदुषा तथा 12327014e नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा 12327015a हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः 12327015c कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः 12327016a सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः 12327016c अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः 12327017a एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् 12327017c शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् 12327018a वेदानध्यापयामास महाभारतपञ्चमान् 12327018c मेरौ गिरिवरे रम्ये सिद्धचारणसेविते 12327019a तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् 12327019c एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः 12327019e ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत 12327020a शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः 12327020c पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह 12327021a मया हि सुमहत्तप्तं तपः परमदारुणम् 12327021c भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः 12327022a तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च 12327022c नारायणप्रसादेन क्षीरोदस्यानुकूलतः 12327023a त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् 12327023c तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् 12327023e यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा 12327024a परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः 12327024c महापुरुषसंज्ञां स लभते स्वेन कर्मणा 12327025a तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः 12327025c अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् 12327026a अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते 12327026c योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् 12327026e सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः 12327027a पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 12327027c अहंकारप्रसूतानि महाभूतानि भारत 12327028a महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः 12327028c भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु 12327029a मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः 12327029c वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा 12327029e ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः 12327030a वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् 12327030c निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः 12327030e अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् 12327031a रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् 12327031c एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः 12327032a ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः 12327032c उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः 12327033a वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना 12327033c येन यस्मिन्नधीकारे वर्तितव्यं पितामह 12327034a योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः 12327034c परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा 12327035a प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः 12327035c एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् 12327036a साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः 12327036c ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता 12327037a लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः 12327037c कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे 12327038a इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् 12327038c महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् 12327039a ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा 12327039c क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः 12327040a ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् 12327040c स महानियमो नाम तपश्चर्या सुदारुणा 12327041a ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् 12327041c एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः 12327042a दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् 12327042c शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् 12327043a भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः 12327043c स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् 12327044a विज्ञातं वो मया कार्यं तच्च लोकहितं महत् 12327044c प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् 12327045a सुतप्तं वस्तपो देवा ममाराधनकाम्यया 12327045c भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् 12327046a एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः 12327046c यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः 12327047a सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः 12327047c तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः 12327048a श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः 12327048c ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः 12327049a वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् 12327049c तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् 12327049e देवा देवर्षयश्चैव सर्वे भागानकल्पयन् 12327050a ते कार्तयुगधर्माणो भागाः परमसत्कृताः 12327050c प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् 12327050e बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् 12327051a ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् 12327051c अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः 12327052a येन यः कल्पितो भागः स तथा समुपागतः 12327052c प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् 12327053a एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् 12327053c यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः 12327053e युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः 12327054a यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः 12327054c कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् 12327055a यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ 12327055c स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः 12327056a यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः 12327056c सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः 12327057a याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः 12327057c ताभिराप्यायितबला लोकान्वै धारयिष्यथ 12327058a यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः 12327058c मां ततो भावयिष्यध्वमेषा वो भावना मम 12327059a इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह 12327059c एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ 12327060a निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् 12327060c मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति 12327060e चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः 12327061a मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः 12327061c वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 12327062a एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः 12327062c प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः 12327063a अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः 12327063c अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः 12327064a सनः सनत्सुजातश्च सनकः ससनन्दनः 12327064c सनत्कुमारः कपिलः सप्तमश्च सनातनः 12327065a सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः 12327065c स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः 12327066a एते योगविदो मुख्याः सांख्यधर्मविदस्तथा 12327066c आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः 12327067a यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् 12327067c तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः 12327067e सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः 12327068a यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि 12327068c प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः 12327069a एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः 12327069c एष माता पिता चैव युष्माकं च पितामहः 12327069e मयानुशिष्टो भविता सर्वभूतवरप्रदः 12327070a अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः 12327070c ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः 12327071a गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि 12327071c प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् 12327072a प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा 12327072c परिनिर्मितकालानि आयूंषि च सुरोत्तमाः 12327073a इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 12327073c अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा 12327073e चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः 12327074a ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति 12327074c प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे 12327074e तत्र पादचतुर्थो वै धर्मस्य न भविष्यति 12327075a ततो वै द्वापरं नाम मिश्रः कालो भविष्यति 12327075c द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति 12327076a ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते 12327076c एकपादस्थितो धर्मो यत्र तत्र भविष्यति 12327077 देवा ऊचुः 12327077a एकपादस्थिते धर्मे यत्रक्वचनगामिनि 12327077c कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः 12327078 श्रीभगवानुवाच 12327078a यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा 12327078c अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः 12327078e स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् 12327079 व्यास उवाच 12327079a तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा 12327079c नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् 12327080a गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः 12327080c दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् 12327081a तं देवो दर्शयामास कृत्वा हयशिरो महत् 12327081c साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् 12327082a ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् 12327082c लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया 12327083a मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः 12327083c स परिष्वज्य देवेन वचनं श्रावितस्तदा 12327084a लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि 12327084c धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः 12327084e त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा 12327085a यदा च सुरकार्यं ते अविषह्यं भविष्यति 12327085c प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः 12327086a एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत 12327086c तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः 12327087a एवमेष महाभागः पद्मनाभः सनातनः 12327087c यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा 12327088a निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् 12327088c प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् 12327089a स आदिः स मध्यः स चान्तः प्रजानां; स धाता स धेयः स कर्ता स कार्यम् 12327089c युगान्ते स सुप्तः सुसंक्षिप्य लोका;न्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज 12327090a तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने 12327090c अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् 12327091a महाभूताधिपतये रुद्राणां पतये तथा 12327091c आदित्यपतये चैव वसूनां पतये तथा 12327092a अश्विभ्यां पतये चैव मरुतां पतये तथा 12327092c वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च 12327093a समुद्रवासिने नित्यं हरये मुञ्जकेशिने 12327093c शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे 12327094a तपसां तेजसां चैव पतये यशसोऽपि च 12327094c वाचश्च पतये नित्यं सरितां पतये तथा 12327095a कपर्दिने वराहाय एकशृङ्गाय धीमते 12327095c विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा 12327096a गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च 12327096c एष देवः संचरति सर्वत्रगतिरव्ययः 12327097a एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा 12327097c कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः 12327098a क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः 12327098c गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि 12327099 वैशंपायन उवाच 12327099a इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता 12327099c सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् 12327100a स चास्माकमुपाध्यायः सहास्माभिर्विशां पते 12327100c चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे 12327101a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 12327101c एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः 12327102a यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् 12327102c नमो भगवते कृत्वा समाहितमना नरः 12327103a भवत्यरोगो द्युतिमान्बलरूपसमन्वितः 12327103c आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् 12327104a कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् 12327104c ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् 12327104e वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् 12327105a अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् 12327105c लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् 12327105e वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् 12327106a क्षेमेण गच्छेदध्वानमिदं यः पठते पथि 12327106c यो यं कामं कामयते स तमाप्नोति च ध्रुवम् 12327107a इदं महर्षेर्वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम् 12327107c समागमं चर्षिदिवौकसामिमं; निशम्य भक्ताः सुसुखं लभन्ते 12328001 जनमेजय उवाच 12328001a अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् 12328001c नामभिर्विविधैरेषां निरुक्तं भगवन्मम 12328002a वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः 12328002c श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः 12328003 वैशंपायन उवाच 12328003a शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः 12328003c प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् 12328004a नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः 12328004c पृष्टवान्केशवं राजन्फल्गुनः परवीरहा 12328005 अर्जुन उवाच 12328005a भगवन्भूतभव्येश सर्वभूतसृगव्यय 12328005c लोकधाम जगन्नाथ लोकानामभयप्रद 12328006a यानि नामानि ते देव कीर्तितानि महर्षिभिः 12328006c वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः 12328007a तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव 12328007c न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो 12328008 श्रीभगवानुवाच 12328008a ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु 12328008c पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन 12328009a सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च 12328009c बहूनि मम नामानि कीर्तितानि महर्षिभिः 12328010a गौणानि तत्र नामानि कर्मजानि च कानिचित् 12328010c निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ 12328010e कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा 12328011a नमोऽतियशसे तस्मै देहिनां परमात्मने 12328011c नारायणाय विश्वाय निर्गुणाय गुणात्मने 12328012a यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः 12328012c योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च 12328013a अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर 12328013c प्रकृतिः सा परा मह्यं रोदसी योगधारिणी 12328013e ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता 12328014a तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 12328014c ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् 12328014e अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः 12328015a ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः 12328015c प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण 12328015e तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः 12328016a अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा 12328016c क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः 12328017a एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ 12328017c तदादेशितपन्थानौ सृष्टिसंहारकारकौ 12328017e निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ 12328018a कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः 12328018c उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः 12328019a दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा 12328019c नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे 12328020a तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे 12328020c संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः 12328021a अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन 12328021c तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् 12328022a यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् 12328022c आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः 12328022e मया प्रमाणं हि कृतं लोकः समनुवर्तते 12328023a प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् 12328023c यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु 12328024a रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् 12328024c लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु 12328025a न हि मे केनचिद्देयो वरः पाण्डवनन्दन 12328025c इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम् 12328025e पुत्रार्थमाराधितवानात्मानमहमात्मना 12328026a न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु 12328026c ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् 12328027a सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः 12328027c अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् 12328028a भविष्यतां वर्ततां च भूतानां चैव भारत 12328028c सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः 12328029a नमस्व हव्यदं विष्णुं तथा शरणदं नम 12328029c वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम 12328030a चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् 12328030c तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः 12328030e अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् 12328031a ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः 12328031c सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् 12328032a ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः 12328032c प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् 12328032e भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः 12328033a त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ 12328033c भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् 12328034a जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत 12328034c निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च 12328035a नराणामयनं ख्यातमहमेकः सनातनः 12328035c आपो नारा इति प्रोक्ता आपो वै नरसूनवः 12328035e अयनं मम तत्पूर्वमतो नारायणो ह्यहम् 12328036a छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः 12328036c सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् 12328037a गतिश्च सर्वभूतानां प्रजानां चापि भारत 12328037c व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम 12328038a अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत 12328038c क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः 12328039a दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि 12328039c दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् 12328040a पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा 12328040c ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् 12328041a ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् 12328041c पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् 12328042a ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः 12328042c उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् 12328043a सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत 12328043c अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः 12328043e सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः 12328044a स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना 12328044c उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया 12328044e बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत 12328045a ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा 12328045c उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः 12328046a पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् 12328046c एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च 12328047a मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः 12328047c तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः 12328048a स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् 12328048c स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा 12328049a वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् 12328049c प्रयोजयामास तदा नाम गुह्यमिदं मम 12328050a आनुपूर्व्येण विधिना केशवेति पुनः पुनः 12328050c स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः 12328051a एवं हि वरदं नाम केशवेति ममार्जुन 12328051c देवानामथ सर्वेषामृषीणां च महात्मनाम् 12328052a अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् 12328052c अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् 12328053A अपि हि पुराणे भवति 12328053B एकयोन्यात्मकावग्नीषोमौ 12328053C देवाश्चाग्निमुखा इति 12328053D एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति 12329001 अर्जुन उवाच 12329001a अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ 12329001c एष मे संशयो जातस्तं छिन्धि मधुसूदन 12329002 श्रीभगवानुवाच 12329002a हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन 12329002c आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम 12329003A संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते 12329003B अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे 12329003C ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके 12329003D तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते 12329003E नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते 12329003F एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् 12329003G अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः 12329004A निदर्शनमपि ह्यत्र भवति 12329004B नासीदहो न रात्रिरासीत् 12329004C न सदासीन्नासदासीत् 12329004D तम एव पुरस्तादभवद्विश्वरूपम् 12329004E सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते 12329005A तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज 12329005B ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् 12329005C यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः 12329005D योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् 12329005E कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा 12329005F ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् 12329005G दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि 12329005H भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति 12329006A मन्त्रवादोऽपि हि भवति 12329006B त्वमग्ने यज्ञानां होता विश्वेषाम् 12329006C हितो देवेभिर्मानुषे जने इति 12329006D निदर्शनं चात्र भवति 12329006E विश्वेषामग्ने यज्ञानां होतेति 12329006F हितो देवैर्मानुषैर्जगत इति 12329006G अग्निर्हि यज्ञानां होता कर्ता 12329006H स चाग्निर्ब्रह्म 12329007A न ह्यृते मन्त्राद्धवनमस्ति 12329007B न विना पुरुषं तपः संभवति 12329007C हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः 12329007D ये च मानुषा होत्राधिकारास्ते च 12329007E ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः 12329007F तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति 12329007G यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति 12329008A शतपथे हि ब्राह्मणं भवति 12329008B अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति 12329008C एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति 12329008D अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति 12329008E अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति 12329009a विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् 12329009c ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः 12329010a ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च 12329010c धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा 12329011a नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः 12329011c ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये 12329012a नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने 12329012c अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः 12329013A वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः 12329013B वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः 12329013C इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च 12329014A अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः 12329014B कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप 12329014C अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः 12329014D क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता 12329015A त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः 12329015B ततः प्रादुर्भूता भुजगाः 12329015C तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः 12329015D पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा 12329016A अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः 12329016B अथ बृहस्पतिरपां चुक्रोध 12329016C यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति 12329016D तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः 12329017A विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् 12329017B स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः 12329018A अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त 12329018B हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् 12329018C ततो देवा वर्धन्ते वयं क्षीयामः 12329018D तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति 12329019A अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच 12329019B पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि 12329019C नार्हस्येवं कर्तुमिति 12329019D स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् 12329020A हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् 12329020B यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति 12329020C तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् 12329021A विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् 12329021B तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज 12329021C ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् 12329021D सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति 12329022A तास्त्वाष्ट्र उवाच 12329022B क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति 12329022C तास्तमब्रुवन् 12329022D वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति 12329023A अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति 12329023B ततो मन्त्राञ्जजाप 12329023C तैर्मन्त्रैः प्रावर्धत त्रिशिराः 12329023D एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् 12329023E अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे 12329024A देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च 12329024B विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते 12329024C वयमभागाः संवृत्ताः 12329024D असुरपक्षो वर्धते वयं क्षीयामः 12329024E तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति 12329025A तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः 12329025B स याच्यतां वरं यथा कलेवरं जह्यात् 12329025C तस्यास्थिभिर्वज्रं क्रियतामिति 12329026A देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे 12329026B सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति 12329026C तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् 12329026D यद्वक्ष्यथ तत्करिष्यामीति 12329026E ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति 12329026F अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार 12329027A तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् 12329027B तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान 12329027C शिरसां चास्य छेदनमकरोत् 12329027D तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान 12329028A तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे 12329028B तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश 12329029A अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव 12329029B देवान्रजस्तमश्चाविवेश 12329029C मन्त्रा न प्रावर्तन्त महर्षीणाम् 12329029D रक्षांसि प्रादुरभवन् 12329029E ब्रह्म चोत्सादनं जगाम 12329029F अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः 12329030A अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः 12329030B नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव 12329030C अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः 12329031A अथोवाच नहुषः 12329031B सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति 12329031C स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् 12329031D सुभगेऽहमिन्द्रो देवानां भजस्व मामिति 12329031E तं शची प्रत्युवाच 12329031F प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च 12329031G नार्हसि परपत्नीधर्षणं कर्तुमिति 12329032A तामथोवाच नहुषः 12329032B ऐन्द्रं पदमध्यास्यते मया 12329032C अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति 12329032D सा तमुवाच 12329032E अस्ति मम किंचिद्व्रतमपर्यवसितम् 12329032F तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति 12329032G स शच्यैवमभिहितो नहुषो जगाम 12329033A अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् 12329033B स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच 12329033C अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय 12329033D सा तवेन्द्रं दर्शयिष्यतीति 12329034A साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् 12329034B सोपश्रुतिः शचीसमीपमगात् 12329034C उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता 12329034D किं ते प्रियं करवाणीति 12329034E तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति 12329034F सैनां मानसं सरोऽनयत् 12329034G तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् 12329035A तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव 12329035B अहो मम महद्दुःखमिदमद्योपगतम् 12329035C नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति 12329035D तामिन्द्र उवाच कथं वर्तयसीति 12329035E सा तमुवाच 12329035F नहुषो मामाह्वयति 12329035G कालश्चास्य मया कृत इति 12329036A तामिन्द्र उवाच 12329036B गच्छ 12329036C नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व 12329036D इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया 12329036E त्वमन्येनोपयातुमर्हसीति 12329036F सैवमुक्ता हृष्टा जगाम 12329036G इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः 12329037A अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति 12329037B तं शच्यब्रवीच्छक्रेण यथोक्तम् 12329037C स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् 12329038A अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् 12329038B पद्भ्यां च तेनास्पृश्यत 12329038C ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् 12329038D सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति 12329038E स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् 12329039A अथानिन्द्रं पुनस्त्रैलोक्यमभवत् 12329039B ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः 12329039C ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति 12329039D ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु 12329039E ततः स्वं स्थानं प्राप्स्यतीति 12329040A ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति 12329040B सा पुनस्तत्सरः समभ्यगच्छत् 12329040C इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम 12329040D बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् 12329040E ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास 12329041A ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव 12329041B ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् 12329041C एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः 12329042A आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः 12329042B स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः 12329043A भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः 12329044A अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति 12329044B तत्र बुधो व्रतचर्यासमाप्तावागच्छत् 12329044C अदितिं चावोचद्भिक्षां देहीति 12329044D तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् 12329044E अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः 12329044F स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः 12329045A दक्षस्य वै दुहितरः षष्टिरासन् 12329045B ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे 12329045C तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् 12329045D ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः 12329045E भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति 12329045F सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति 12329046A दक्षशापात्सोमं राजानं यक्ष्माविवेश 12329046B स यक्ष्मणाविष्टो दक्षमगमत् 12329046C दक्षश्चैनमब्रवीन्न समं वर्तस इति 12329046D तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा 12329046E पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् 12329046F तत्र गत्वात्मानमभिषेचयस्वेति 12329046G अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् 12329046H गत्वा चात्मनः स्नपनमकरोत् 12329046I स्नात्वा चात्मानं पाप्मनो मोक्षयामास 12329046J तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव 12329046K तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः 12329046L पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति 12329046M मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् 12329047A स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे 12329047B तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् 12329047C स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् 12329047D तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति 12329048A नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् 12329048B तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः 12329048C तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः 12329048D स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः 12329048E उक्तश्चापेयो भविष्यसि 12329048F एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति 12329048G तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते 12329049A हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे 12329049B भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति 12329049C तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति 12329049D तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति 12329049E अद्यप्रभृत्येतदवस्थितमृषिवचनम् 12329050A तदेवंविधं माहात्म्यं ब्राह्मणानाम् 12329050B क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे 12329050C तदेतद्ब्रह्माग्नीषोमीयम् 12329050D तेन जगद्धार्यते 12330001 श्रीभगवानुवाच 12330001a सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसंज्ञितैः 12330001c बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् 12330002a बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् 12330002c अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन 12330002e हृषीकेशोऽहमीशानो वरदो लोकभावनः 12330003a इडोपहूतयोगेन हरे भागं क्रतुष्वहम् 12330003c वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः 12330004a धाम सारो हि लोकानामृतं चैव विचारितम् 12330004c ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः 12330005a नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् 12330005c गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः 12330006a शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् 12330006c तेनाविष्टं हि यत्किंचिच्छिपिविष्टं हि तत्स्मृतम् 12330007a यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् 12330007c शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् 12330008a स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः 12330008c मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् 12330009a न हि जातो न जायेऽहं न जनिष्ये कदाचन 12330009c क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः 12330010a नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन 12330010c ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती 12330011a सच्चासच्चैव कौन्तेय मयावेशितमात्मनि 12330011c पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः 12330012a सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् 12330012c जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनंजय 12330013a निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय 12330013c सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः 12330014a कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् 12330014c कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन 12330015a मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना 12330015c वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम 12330016a निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते 12330016c तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा 12330017a पृथिवीनभसी चोभे विश्रुते विश्वलौकिके 12330017c तयोः संधारणार्थं हि मामधोक्षजमञ्जसा 12330018a निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः 12330018c ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः 12330019a शब्द एकमतैरेष व्याहृतः परमर्षिभिः 12330019c नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् 12330020a घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् 12330020c घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः 12330021a त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः 12330021c पित्तं श्लेष्मा च वायुश्च एष संघात उच्यते 12330022a एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते 12330022c आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते 12330023a वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत 12330023c नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् 12330024a कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते 12330024c तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः 12330025a न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च 12330025c अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी 12330026a शुचीनि श्रवणीयानि शृणोमीह धनंजय 12330026c न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः 12330027a एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः 12330027c इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् 12330028a तथैवासं त्रिककुदो वाराहं रूपमास्थितः 12330028c त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् 12330029a विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः 12330029c स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् 12330030a विद्यासहायवन्तं मामादित्यस्थं सनातनम् 12330030c कपिलं प्राहुराचार्याः सांख्या निश्चितनिश्चयाः 12330031a हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः 12330031c योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः 12330032a एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते 12330032c सहस्रशाखं यत्साम ये वै वेदविदो जनाः 12330032e गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः 12330033a षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत 12330033c यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः 12330034a पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् 12330034c कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा 12330035a शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः 12330035c स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् 12330036a यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् 12330036c सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् 12330037a रामादेशितमार्गेण मत्प्रसादान्महात्मना 12330037c पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् 12330037e बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः 12330038a नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् 12330038c क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः 12330039a कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् 12330039c जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः 12330039e सप्तजातिषु मुख्यत्वाद्योगानां संपदं गतः 12330040a पुराहमात्मजः पार्थ प्रथितः कारणान्तरे 12330040c धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः 12330041a नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् 12330041c धर्मयानं समारूढौ पर्वते गन्धमादने 12330042a तत्कालसमयं चैव दक्षयज्ञो बभूव ह 12330042c न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत 12330043a ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् 12330043c ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः 12330044a तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् 12330044c आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् 12330044e वेगेन महता पार्थ पतन्नारायणोरसि 12330045a ततः स्वतेजसाविष्टाः केशा नारायणस्य ह 12330045c बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् 12330046a तच्च शूलं विनिर्धूतं हुंकारेण महात्मना 12330046c जगाम शंकरकरं नारायणसमाहतम् 12330047a अथ रुद्र उपाधावत्तावृषी तपसान्वितौ 12330047c तत एनं समुद्धूतं कण्ठे जग्राह पाणिना 12330047e नारायणः स विश्वात्मा तेनास्य शितिकण्ठता 12330048a अथ रुद्रविघातार्थमिषीकां जगृहे नरः 12330048c मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् 12330049a क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा 12330049c ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् 12330050 अर्जुन उवाच 12330050a अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा 12330050c जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन 12330051 श्रीभगवानुवाच 12330051a तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः 12330051c उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा 12330052a नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः 12330052c वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् 12330053a देवान्रजस्तमश्चैव समाविविशतुस्तदा 12330053c वसुधा संचकम्पेऽथ नभश्च विपफाल ह 12330054a निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः 12330054c अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत 12330055a तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन 12330055c ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः 12330055e आजगामाशु तं देशं यत्र युद्धमवर्तत 12330056a साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः 12330056c उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् 12330056e न्यस्यायुधानि विश्वेश जगतो हितकाम्यया 12330057a यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् 12330057c कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः 12330058a व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा 12330058c नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ 12330059a तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ 12330059c अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे 12330059e त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः 12330060a मया च सार्धं वरदं विबुधैश्च महर्षिभिः 12330060c प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् 12330061a ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् 12330061c प्रसादयामास ततो देवं नारायणं प्रभुम् 12330061e शरणं च जगामाद्यं वरेण्यं वरदं हरिम् 12330062a ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः 12330062c प्रीतिमानभवत्तत्र रुद्रेण सह संगतः 12330063a ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः 12330063c उवाच देवमीशानमीशः स जगतो हरिः 12330064a यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु 12330064c नावयोरन्तरं किंचिन्मा ते भूद्बुद्धिरन्यथा 12330065a अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् 12330065c मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि 12330066a एवं लक्षणमुत्पाद्य परस्परकृतं तदा 12330066c सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी 12330066e तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः 12330067a एष ते कथितः पार्थ नारायणजयो मृधे 12330067c नामानि चैव गुह्यानि निरुक्तानि च भारत 12330067e ऋषिभिः कथितानीह यानि संकीर्तितानि ते 12330068a एवं बहुविधै रूपैश्चरामीह वसुंधराम् 12330068c ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् 12330068e मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् 12330069a यस्तु ते सोऽग्रतो याति युद्धे संप्रत्युपस्थिते 12330069c तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् 12330070a कालः स एव कथितः क्रोधजेति मया तव 12330070c निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् 12330071a अप्रमेयप्रभावं तं देवदेवमुमापतिम् 12330071c नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् 12331001 जनमेजय उवाच 12331001a ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् 12331001c यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः 12331002a इदं शतसहस्राद्धि भारताख्यानविस्तरात् 12331002c आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् 12331003a नवनीतं यथा दध्नो मलयाच्चन्दनं यथा 12331003c आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा 12331004a समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् 12331004c तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् 12331005a स हीशो भगवान्देवः सर्वभूतात्मभावनः 12331005c अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम 12331006a यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः 12331006c ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् 12331006e न ततोऽस्ति परं मन्ये पावनं दिवि चेह च 12331007a सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 12331007c न तथा फलदं चापि नारायणकथा यथा 12331008a सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् 12331008c हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् 12331009a न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः 12331009c वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् 12331010a न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु 12331010c त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा 12331011a धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः 12331011c हिताय श्रेयसे चैव येषामासीज्जनार्दनः 12331012a तपसापि न दृश्यो हि भगवाँल्लोकपूजितः 12331012c यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् 12331013a तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः 12331013c न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् 12331013e श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः 12331014a देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् 12331014c यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् 12331015a बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः 12331015c नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने 12331016a श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः 12331016c बदरीमाश्रमं प्राप्य समागम्य च तावृषी 12331017a कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः 12331017c श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि 12331018a किमब्रूतां महात्मानौ नरनारायणावृषी 12331018c तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि 12331019 वैशंपायन उवाच 12331019a नमो भगवते तस्मै व्यासायामिततेजसे 12331019c यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् 12331020a प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् 12331020c निवृत्तो नारदो राजंस्तरसा मेरुमागमत् 12331020e हृदयेनोद्वहन्भारं यदुक्तं परमात्मना 12331021a पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् 12331021c यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः 12331022a ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् 12331022c निपपात च खात्तूर्णं विशालां बदरीमनु 12331023a ततः स ददृशे देवौ पुराणावृषिसत्तमौ 12331023c तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ 12331024a तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् 12331024c श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ 12331025a जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ 12331025c व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ 12331026a षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ 12331026c स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ 12331027a आतपत्रेण सदृशे शिरसी देवयोस्तयोः 12331027c एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ 12331028a तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः 12331028c स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा 12331029a बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ 12331029c सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः 12331030a श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ 12331030c इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् 12331030e उपोपविविशे तत्र पीठे कुशमये शुभे 12331031a ततस्तौ तपसां वासौ यशसां तेजसामपि 12331031c ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् 12331032a पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च 12331032c पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप 12331033a तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत 12331033c आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा 12331034a अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् 12331034c सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् 12331035a अपीदानीं स भगवान्परमात्मा सनातनः 12331035c श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा 12331036 नारद उवाच 12331036a दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः 12331036c सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः 12331036e अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ 12331037a यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् 12331037c तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् 12331038a दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः 12331038c इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना 12331039a को हि नाम भवेत्तस्य तेजसा यशसा श्रिया 12331039c सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् 12331040a तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम् 12331040c प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा 12331041a तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः 12331041c प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् 12331042a तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः 12331042c प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः 12331043a रमते सोऽर्च्यमानो हि सदा भागवतप्रियः 12331043c विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः 12331043e स कर्ता कारणं चैव कार्यं चातिबलद्युतिः 12331044a तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् 12331044c तेज इत्यभिविख्यातं स्वयंभासावभासितम् 12331045a शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् 12331045c एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः 12331046a न तत्र सूर्यस्तपति न सोमोऽभिविराजते 12331046c न वायुर्वाति देवेशे तपश्चरति दुश्चरम् 12331047a वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् 12331047c एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः 12331047e साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् 12331048a यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् 12331048c शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः 12331049a नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये 12331049c हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते 12331049e कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति 12331050a याः क्रियाः संप्रयुक्तास्तु एकान्तगतबुद्धिभिः 12331050c ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् 12331051a न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः 12331051c विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः 12331051e इह चैवागतस्तेन विसृष्टः परमात्मना 12331052a एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः 12331052c आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः 12332001 नरनारायणावूचतुः 12332001a धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः 12332001c न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् 12332002a अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः 12332002c नारदैतद्धि ते सत्यं वचनं समुदाहृतम् 12332003a नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते 12332003c ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम 12332004a तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः 12332004c न तत्संप्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम 12332005a या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः 12332005c स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता 12332006a तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः 12332006c क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते 12332007a तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः 12332007c आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च 12332008a तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् 12332008c येन स्म युज्यते सूर्यस्ततो लोकान्विराजते 12332009a तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् 12332009c येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ 12332010a तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः 12332010c आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् 12332011a तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः 12332011c चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः 12332012a षड्भूतोत्पादकं नाम तत्स्थानं वेदसंज्ञितम् 12332012c विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् 12332013a ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः 12332013c तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम 12332013e सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते 12332014a आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् 12332014c परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत 12332015a तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः 12332015c मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत 12332016a प्रद्युम्नाच्चापि निर्मुक्ता जीवं संकर्षणं तथा 12332016c विशन्ति विप्रप्रवराः सांख्या भागवतैः सह 12332017a ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा 12332017c प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् 12332017e सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः 12332018a समाहितमनस्काश्च नियताः संयतेन्द्रियाः 12332018c एकान्तभावोपगता वासुदेवं विशन्ति ते 12332019a आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम 12332019c रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ 12332020a ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः 12332020c भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज 12332021a विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम 12332021c आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् 12332022a आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन 12332022c समागतो भगवता संजल्पं कृतवान्यथा 12332023a सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे 12332023c यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् 12332024 वैशंपायन उवाच 12332024a एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत 12332024c नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः 12332025a जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् 12332025c दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे 12332026a अवसत्स महातेजा नारदो भगवानृषिः 12332026c तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ 12333001 वैशंपायन उवाच 12333001a कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः 12333001c दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् 12333002a ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः 12333002c क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते 12333003a त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् 12333003c किमेतत्क्रियते कर्म फलं चास्य किमिष्यते 12333004 नारद उवाच 12333004a त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि 12333004c दैवतं च परो यज्ञः परमात्मा सनातनः 12333005a ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् 12333005c तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः 12333006a मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् 12333006c अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः 12333007a यजाम्यहं पितॄन्साधो नारायणविधौ कृते 12333007c एवं स एव भगवान्पिता माता पितामहः 12333007e इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः 12333008a श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन् 12333008c वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः 12333008e ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे 12333009a नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः 12333009c पुत्राश्च पितरश्चैव परस्परमपूजयन् 12333010a त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति 12333010c कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा 12333011 नरनारायणावूचतुः 12333011a इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् 12333011c गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः 12333012a स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः 12333012c जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः 12333013a प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ 12333013c दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः 12333013e स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद 12333014a स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि 12333014c संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः 12333015a आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि 12333015c प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम् 12333016a मर्यादास्थापनार्थं च ततो वचनमुक्तवान् 12333016c अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् 12333017a तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् 12333017c दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् 12333017e आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते 12333018a त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे 12333018c भवन्तु पितरो लोके मया सृष्टाः सनातनाः 12333019a पिता पितामहश्चैव तथैव प्रपितामहः 12333019c अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः 12333020a नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् 12333020c को वा मम पिता लोके अहमेव पितामहः 12333021a पितामहपिता चैव अहमेवात्र कारणम् 12333021c इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः 12333022a वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् 12333022c आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः 12333023a एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः 12333023c लभन्ते सततं पूजां वृषाकपिवचो यथा 12333024a ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा 12333024c गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा 12333024e कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते 12333025a अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः 12333025c समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः 12333025e महान्महात्मा सर्वात्मा नारायण इति श्रुतः 12334001 वैशंपायन उवाच 12334001a श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् 12334001c अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् 12334002a प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे 12334002c श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् 12334002e हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः 12334003a तावपि ख्याततपसौ नरनारायणावृषी 12334003c तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् 12334004a त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः 12334004c पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् 12334005a नैव तस्य परो लोको नायं पार्थिवसत्तम 12334005c कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् 12334006a मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः 12334006c यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् 12334007a कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् 12334007c आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः 12334008a य एष गुरुरस्माकमृषिर्गन्धवतीसुतः 12334008c तेनैतत्कथितं तात माहात्म्यं परमात्मनः 12334008e तस्माच्छ्रुतं मया चेदं कथितं च तवानघ 12334009a कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् 12334009c को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् 12334009e धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् 12334010a वर्ततां ते महायज्ञो यथा संकल्पितस्त्वया 12334010c संकल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः 12334011a एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः 12334011c ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् 12334012a नारायणीयमाख्यानमेतत्ते कथितं मया 12334012c नारदेन पुरा राजन्गुरवे मे निवेदितम् 12334012e ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः 12334013a स हि परमगुरुर्भुवनपति;र्धरणिधरः शमनियमनिधिः 12334013c श्रुतिविनयनिधिर्द्विजपरमहित;स्तव भवतु गतिर्हरिरमरहितः 12334014a तपसां निधिः सुमहतां महतो; यशसश्च भाजनमरिष्टकहा 12334014c एकान्तिनां शरणदोऽभयदो; गतिदोऽस्तु वः स मखभागहरः 12334015a त्रिगुणातिगश्चतुष्पञ्चधरः; पूर्तेष्टयोश्च फलभागहरः 12334015c विदधाति नित्यमजितोऽतिबलो; गतिमात्मगां सुकृतिनामृषिणाम् 12334016a तं लोकसाक्षिणमजं पुरुषं; रविवर्णमीश्वरगतिं बहुशः 12334016c प्रणमध्वमेकमतयो यतयः; सलिलोद्भवोऽपि तमृषिं प्रणतः 12334017a स हि लोकयोनिरमृतस्य पदं; सूक्ष्मं पुराणमचलं परमम् 12334017c तत्सांख्ययोगिभिरुदारधृतं; बुद्ध्या यतात्मभिर्विदितं सततम् 12335001 जनमेजय उवाच 12335001a श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः 12335001c जन्म धर्मगृहे चैव नरनारायणात्मकम् 12335001e महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी 12335002a प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः 12335002c स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ 12335003a यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् 12335003c हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ 12335003e तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना 12335004a किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा 12335004c रूपं प्रभावमहतामपूर्वं धीमतां वर 12335005a दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् 12335005c तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने 12335006a एतन्नः संशयं ब्रह्मन्पुराणज्ञानसंभवम् 12335006c कथयस्वोत्तममते महापुरुषनिर्मितम् 12335006e पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् 12335007 वैशंपायन उवाच 12335007a कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् 12335007c जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै 12335008a श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः 12335008c उत्पन्नसंशयो राजा तमेव समचोदयत् 12335009 युधिष्ठिर उवाच 12335009a यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् 12335009c किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् 12335010 व्यास उवाच 12335010a यत्किंचिदिह लोके वै देहबद्धं विशां पते 12335010c सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः 12335011a ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् 12335011c भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च 12335011e भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम 12335012a धरण्यामथ लीनायामप्सु चैकार्णवे पुरा 12335012c ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले 12335013a वायौ चाकाशसंलीने आकाशे च मनोनुगे 12335013c व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते 12335014a अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च 12335014c तम एवाभवत्सर्वं न प्राज्ञायत किंचन 12335015a तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम् 12335015c तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम् 12335016a सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते 12335016c तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम 12335017a विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः 12335017c अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः 12335017e जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् 12335018a तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः 12335018c अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः 12335018e हिरण्यगर्भो भगवान्सर्वलोकपितामहः 12335019a पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः 12335019c सहस्रपत्रे द्युतिमानुपविष्टः सनातनः 12335020a ददृशेऽद्भुतसंकाशे लोकानापोमयान्प्रभुः 12335020c सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् 12335021a पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे 12335021c नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ 12335022a तावपश्यत्स भगवाननादिनिधनोऽच्युतः 12335022c एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः 12335023a स तामसो मधुर्जातस्तदा नारायणाज्ञया 12335023c कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः 12335024a तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ 12335024c बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ 12335025a ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् 12335025c सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् 12335026a ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ 12335026c सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा 12335027a अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् 12335027c रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ 12335028a ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् 12335028c ततो वचनमीशानं प्राह वेदैर्विनाकृतः 12335029a वेदा मे परमं चक्षुर्वेदा मे परमं बलम् 12335029c वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् 12335030a मम वेदा हृताः सर्वे दानवाभ्यां बलादितः 12335030c अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः 12335030e वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः 12335031a अहो बत महद्दुःखं वेदनाशनजं मम 12335031c प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् 12335032a को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् 12335032c वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे 12335033a इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम 12335033c हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर 12335033e ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः 12335034a नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज 12335034c लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो 12335035a व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित 12335035c विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज 12335036a अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयंभुवे 12335036c त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् 12335037a चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् 12335037c त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् 12335038a त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो 12335038c नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते 12335039a अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् 12335039c इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ 12335040a सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः 12335040c प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः 12335041a त्वमीश्वरस्वभावश्च स्वयंभूः पुरुषोत्तमः 12335041c त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः 12335042a ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि 12335042c ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे 12335043a एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः 12335043c जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः 12335043e ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः 12335044a सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा 12335044c कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः 12335045a तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका 12335045c केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः 12335046a कर्णावाकाशपाताले ललाटं भूतधारिणी 12335046c गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी 12335047a चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता 12335047c ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता 12335048a दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः 12335048c गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः 12335048e ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा 12335049a एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् 12335049c अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः 12335050a रसां पुनः प्रविष्टश्च योगं परममास्थितः 12335050c शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् 12335051a स स्वरः सानुनादी च सर्वगः स्निग्ध एव च 12335051c बभूवान्तर्महीभूतः सर्वभूतगुणोदितः 12335052a ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् 12335052c रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ 12335053a एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः 12335053c जग्राह वेदानखिलान्रसातलगतान्हरिः 12335053e प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः 12335054a स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ 12335054c वेदानामालयश्चापि बभूवाश्वशिरास्ततः 12335055a अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ 12335055c पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ 12335055e यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च 12335056a तत उत्तममास्थाय वेगं बलवतां वरौ 12335056c पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा 12335056e ददृशाते च पुरुषं तमेवादिकरं प्रभुम् 12335057a श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् 12335057c भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् 12335058a आत्मप्रमाणरचिते अपामुपरि कल्पिते 12335058c शयने नागभोगाढ्ये ज्वालामालासमावृते 12335059a निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम् 12335059c तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् 12335060a ऊचतुश्च समाविष्टौ रजसा तमसा च तौ 12335060c अयं स पुरुषः श्वेतः शेते निद्रामुपागतः 12335061a अनेन नूनं वेदानां कृतमाहरणं रसात् 12335061c कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् 12335062a इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् 12335062c युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः 12335063a निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे 12335063c अथ युद्धं समभवत्तयोर्नारायणस्य च 12335064a रजस्तमोविष्टतनू तावुभौ मधुकैटभौ 12335064c ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः 12335065a ततस्तयोर्वधेनाशु वेदापहरणेन च 12335065c शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः 12335066a ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः 12335066c निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् 12335067a दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् 12335067c तत्रैवान्तर्दधे देवो यत एवागतो हरिः 12335068a तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् 12335068c पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् 12335069a एवमेष महाभागो बभूवाश्वशिरा हरिः 12335069c पौराणमेतदाख्यातं रूपं वरदमैश्वरम् 12335070a यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा 12335070c न तस्याध्ययनं नाशमुपगच्छेत्कदाचन 12335071a आराध्य तपसोग्रेण देवं हयशिरोधरम् 12335071c पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते 12335072a एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् 12335072c पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि 12335073a यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् 12335073c तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना 12335074a एष वेदनिधिः श्रीमानेष वै तपसो निधिः 12335074c एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हरिर्विभुः 12335075a नारायणपरा वेदा यज्ञा नारायणात्मकाः 12335075c तपो नारायणपरं नारायणपरा गतिः 12335076a नारायणपरं सत्यमृतं नारायणात्मकम् 12335076c नारायणपरो धर्मः पुनरावृत्तिदुर्लभः 12335077a प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः 12335077c नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः 12335078a अपां चैव गुणो राजन्रसो नारायणात्मकः 12335078c ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् 12335079a नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः 12335079c नारायणात्मकश्चापि शब्द आकाशसंभवः 12335080a मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् 12335080c नारायणपरः कालो ज्योतिषामयनं च यत् 12335081a नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः 12335081c नारायणपरं सांख्यं योगो नारायणात्मकः 12335082a कारणं पुरुषो येषां प्रधानं चापि कारणम् 12335082c स्वभावश्चैव कर्माणि दैवं येषां च कारणम् 12335083a पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः 12335083c तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः 12335084a तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः 12335084c सब्रह्मकानां लोकानामृषीणां च महात्मनाम् 12335085a सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम् 12335085c मनीषितं विजानाति केशवो न तु तस्य ते 12335086a ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते 12335086c दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् 12335087a सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः 12335087c सर्वभूतकृतावासो वासुदेवेति चोच्यते 12335088a अयं हि नित्यः परमो महर्षि;र्महाविभूतिर्गुणवान्निर्गुणाख्यः 12335088c गुणैश्च संयोगमुपैति शीघ्रं; कालो यथर्तावृतुसंप्रयुक्तः 12335089a नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश्चिदिहानुपश्यति 12335089c ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम् 12336001 जनमेजय उवाच 12336001a अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः 12336001c विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् 12336002a ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः 12336002c तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः 12336003a चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् 12336003c एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् 12336004a नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः 12336004c अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् 12336005a सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः 12336005c पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः 12336006a तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् 12336006c केनैष धर्मः कथितो देवेन ऋषिणापि वा 12336007a एकान्तिनां च का चर्या कदा चोत्पादिता विभो 12336007c एतन्मे संशयं छिन्धि परं कौतूहलं हि मे 12336008 वैशंपायन उवाच 12336008a समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे 12336008c अर्जुने विमनस्के च गीता भगवता स्वयम् 12336009a आगतिश्च गतिश्चैव पूर्वं ते कथिता मया 12336009c गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः 12336010a संमितः सामवेदेन पुरैवादियुगे कृतः 12336010c धार्यते स्वयमीशेन राजन्नारायणेन ह 12336011a एतमर्थं महाराज पृष्टः पार्थेन नारदः 12336011c ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः 12336012a गुरुणा च ममाप्येष कथितो नृपसत्तम 12336012c यथा तु कथितस्तत्र नारदेन तथा शृणु 12336013a यदासीन्मानसं जन्म नारायणमुखोद्गतम् 12336013c ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् 12336013e तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत 12336014a फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे 12336014c वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे 12336014e वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः 12336015a यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप 12336015c तदा पितामहात्सोमादेतं धर्ममजानत 12336015e नारायणात्मकं राजन्रुद्राय प्रददौ च सः 12336016a ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप 12336016c वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् 12336016e अन्तर्दधे ततो भूयस्तस्य देवस्य मायया 12336017a तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् 12336017c तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप 12336018a सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् 12336018c तपसा वै सुतप्तेन दमेन नियमेन च 12336019a त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् 12336019c यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते 12336020a ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् 12336020c सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः 12336021a वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा 12336021c वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः 12336022a तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् 12336022c ततः सोऽन्तर्दधे भूयो नारायणसमाहितः 12336023a यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः 12336023c ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु 12336024a जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् 12336024c चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः 12336025a अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः 12336025c प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः 12336026a सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा 12336026c श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत 12336027a धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः 12336027c तेन सर्वं कृतयुगं स्थापयस्व यथाविधि 12336028a ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे 12336028c धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम् 12336028e आरण्यकेन सहितं नारायणमुखोद्गतम् 12336029a उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे 12336029c तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम् 12336029e जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् 12336030a ततोऽथ वरदो देवो ब्रह्मलोकपितामहः 12336030c असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् 12336031a ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् 12336031c ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः 12336032a तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् 12336032c पूजयामास देवेशं हरिं नारायणं प्रभुम् 12336033a धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः 12336033c अध्यापयामास तदा लोकानां हितकाम्यया 12336034a ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप 12336034c अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः 12336035a ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् 12336035c दिशापालं सुधर्माणमध्यापयत भारत 12336035e ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः 12336036a नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम 12336036c धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः 12336036e उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा 12336037a सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप 12336037c सनत्कुमारादपि च वीरणो वै प्रजापतिः 12336037e कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् 12336038a वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ 12336038c रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे 12336039a कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे 12336039c ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः 12336040a अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये 12336040c एष धर्मः समुद्भूतो नारायणमुखात्पुनः 12336041a गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि 12336041c अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप 12336042a बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम् 12336042c ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः 12336043a ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम् 12336043c अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः 12336044a यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप 12336044c तत्रैष धर्मः कथितः स्वयं नारायणेन हि 12336045a पितामहाय शुद्धाय युगादौ लोकधारिणे 12336045c पितामहश्च दक्षाय धर्ममेतं पुरा ददौ 12336046a ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम 12336046c आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः 12336047a त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ 12336047c मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ 12336048a इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः 12336048c गमिष्यति क्षयान्ते च पुनर्नारायणं नृप 12336049a व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम 12336049c कथितो हरिगीतासु समासविधिकल्पितः 12336050a नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः 12336050c एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप 12336051a एवमेष महान्धर्म आद्यो राजन्सनातनः 12336051c दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा 12336052a धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा 12336052c अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः 12336053a एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः 12336053c त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते 12336054a हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा 12336054c जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः 12336055a मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् 12336055c एष लोकनिधिर्धीमानेष लोकविसर्गकृत् 12336056a अकर्ता चैव कर्ता च कार्यं कारणमेव च 12336056c यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः 12336057a एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम 12336057c मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः 12336057e एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप 12336058a यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन 12336058c अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः 12336058e भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः 12336059a एवं स भगवान्व्यासो गुरुर्मम विशां पते 12336059c कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः 12336060a ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः 12336060c तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः 12336061a देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् 12336061c यत्र चैकान्तिनो यान्ति नारायणपरायणाः 12336062 जनमेजय उवाच 12336062a एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् 12336062c न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः 12336063 वैशंपायन उवाच 12336063a तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः 12336063c सात्त्विकी राजसी चैव तामसी चेति भारत 12336064a देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह 12336064c सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः 12336065a अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् 12336065c नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः 12336066a मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् 12336066c एकान्तभक्तिः सततं नारायणपरायणः 12336067a मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः 12336067c तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः 12336068a जायमानं हि पुरुषं यं पश्येन्मधुसूदनः 12336068c सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः 12336069a सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः 12336069c नारायणात्मके मोक्षे ततो यान्ति परां गतिम् 12336070a नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् 12336070c एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते 12336071a राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते 12336071c तदात्मकं हि पुरुषं जायमानं विशां पते 12336071e प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् 12336072a पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः 12336072c रजसा तमसा चैव मानुषं समभिप्लुतम् 12336073a कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम 12336073c हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः 12336074 जनमेजय उवाच 12336074a कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् 12336075 वैशंपायन उवाच 12336075a सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः 12336075c पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् 12336076a एवमेकं सांख्ययोगं वेदारण्यकमेव च 12336076c परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते 12336076e एष एकान्तिनां धर्मो नारायणपरात्मकः 12336077a यथा समुद्रात्प्रसृता जलौघा;स्तमेव राजन्पुनराविशन्ति 12336077c इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनराविशन्ति 12336078a एष ते कथितो धर्मः सात्वतो यदुबान्धव 12336078c कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत 12336079a एवं हि सुमहाभागो नारदो गुरवे मम 12336079c श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् 12336080a व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते 12336080c स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः 12336081a इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम 12336081c यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः 12336082a कृष्ण एव हि लोकानां भावनो मोहनस्तथा 12336082c संहारकारकश्चैव कारणं च विशां पते 12337001 जनमेजय उवाच 12337001a सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च 12337001c ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह 12337002a किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने 12337002c प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् 12337003 वैशंपायन उवाच 12337003a जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम् 12337003c पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय 12337004a पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम् 12337004c नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम् 12337005a तमादिकालेषु महाविभूति;र्नारायणो ब्रह्ममहानिधानम् 12337005c ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः 12337006 जनमेजय उवाच 12337006a त्वयैव कथितः पूर्वं संभवो द्विजसत्तम 12337006c वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः 12337007a पराशरस्य दायादः कृष्णद्वैपायनो मुनिः 12337007c भूयो नारायणसुतं त्वमेवैनं प्रभाषसे 12337008a किमतः पूर्वजं जन्म व्यासस्यामिततेजसः 12337008c कथयस्वोत्तममते जन्म नारायणोद्भवम् 12337009 वैशंपायन उवाच 12337009a वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः 12337009c गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः 12337010a कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः 12337010c शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा 12337011a सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः 12337011c अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा 12337012a एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः 12337012c शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा 12337013a वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः 12337013c तमेकमनसं दान्तं युक्ता वयमुपास्महे 12337014a कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः 12337014c वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा 12337015a स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् 12337015c नारायणादिदं जन्म व्याहर्तुमुपचक्रमे 12337016a शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् 12337016c आदिकालोद्भवं विप्रास्तपसाधिगतं मया 12337017a प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे 12337017c नारायणो महायोगी शुभाशुभविवर्जितः 12337018a ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् 12337018c ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् 12337019a मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः 12337019c सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः 12337020a स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः 12337020c प्रणम्य वरदं देवमुवाच हरिमीश्वरम् 12337021a का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते 12337021c अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् 12337022a स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः 12337022c चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः 12337023a स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् 12337023c योगेन चैनां निर्योगः स्वयं नियुयुजे तदा 12337024a स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् 12337024c उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः 12337025a ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये 12337025c ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा 12337026a अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः 12337026c भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः 12337027a एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत 12337027c प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् 12337028a तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् 12337028c अथास्य बुद्धिरभवत्पुनरन्या तदा किल 12337029a सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना 12337029c दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः 12337029e जाता हीयं वसुमती भाराक्रान्ता तपस्विनी 12337030a बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः 12337030c भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् 12337031a अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः 12337031c बाधितव्याः सुरगणा ऋषयश्च तपोधनाः 12337031e तत्र न्याय्यमिदं कर्तुं भारावतरणं मया 12337032a अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् 12337032c निग्रहेण च पापानां साधूनां प्रग्रहेण च 12337033a इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् 12337033c मया ह्येषा हि ध्रियते पातालस्थेन भोगिना 12337034a मया धृता धारयति जगद्धि सचराचरम् 12337034c तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः 12337035a एवं स चिन्तयित्वा तु भगवान्मधुसूदनः 12337035c रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः 12337036a वाराहं नारसिंहं च वामनं मानुषं तथा 12337036c एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः 12337037a अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् 12337037c सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् 12337038a अपान्तरतमा नाम सुतो वाक्संभवो विभोः 12337038c भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः 12337039a तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः 12337039c वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर 12337039e तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने 12337040a तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे 12337040c ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा 12337040e तपसा च सुतप्तेन यमेन नियमेन च 12337041 श्रीभगवानुवाच 12337041a मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः 12337041c भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः 12337042a पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः 12337042c भविष्यन्ति महात्मानो राजानः प्रथिता भुवि 12337043a तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति 12337043c परस्परविनाशार्थं त्वामृते द्विजसत्तम 12337044a तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः 12337044c कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि 12337045a धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा 12337045c भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे 12337046a वीतरागश्च पुत्रस्ते परमात्मा भविष्यति 12337046c महेश्वरप्रसादेन नैतद्वचनमन्यथा 12337047a यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम् 12337047c वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति 12337048a तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः 12337048c पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः 12337048e कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः 12337049a भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः 12337049c ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः 12337050a तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः 12337050c पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् 12337051a अनादिनिधनं लोके चक्रहस्तं च मां मुने 12337051c अनुध्यानान्मम मुने नैतद्वचनमन्यथा 12337052a शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् 12337052c तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः 12337052e त्वमेव भविता वत्स मत्प्रसादान्न संशयः 12337053 व्यास उवाच 12337053a एवं सारस्वतमृषिमपान्तरतमं तदा 12337053c उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् 12337054a सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः 12337054c अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः 12337054e पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः 12337055a तदेतत्कथितं जन्म मया पूर्वकमात्मनः 12337055c नारायणप्रसादेन तथा नारायणांशजम् 12337056a मया हि सुमहत्तप्तं तपः परमदारुणम् 12337056c पुरा मतिमतां श्रेष्ठाः परमेण समाधिना 12337057a एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः 12337057c पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया 12337058 वैशंपायन उवाच 12337058a एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप 12337058c व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु 12337059a सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा 12337059c ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै 12337060a सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते 12337060c हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः 12337061a अपान्तरतमाश्चैव वेदाचार्यः स उच्यते 12337061c प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन 12337062a उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः 12337062c उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः 12337063a पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् 12337063c सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते 12337064a यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः 12337064c न चैनमेवं जानन्ति तमोभूता विशां पते 12337065a तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः 12337065c निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः 12337066a निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः 12337066c ससंशयान्हेतुबलान्नाध्यावसति माधवः 12337067a पञ्चरात्रविदो ये तु यथाक्रमपरा नृप 12337067c एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै 12337068a सांख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन् 12337068c सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम् 12337069a शुभाशुभं कर्म समीरितं य;त्प्रवर्तते सर्वलोकेषु किंचित् 12337069c तस्मादृषेस्तद्भवतीति विद्या;द्दिव्यन्तरिक्षे भुवि चाप्सु चापि 12338001 जनमेजय उवाच 12338001a बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु 12338001c को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते 12338002 वैशंपायन उवाच 12338002a बहवः पुरुषा लोके सांख्ययोगविचारिणाम् 12338002c नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह 12338003a बहूनां पुरुषाणां च यथैका योनिरुच्यते 12338003c तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् 12338004a नमस्कृत्वा तु गुरवे व्यासायामिततेजसे 12338004c तपोयुक्ताय दान्ताय वन्द्याय परमर्षये 12338005a इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव 12338005c ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् 12338006a उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः 12338006c अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत 12338007a समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् 12338007c तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः 12338008a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 12338008c ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते 12338009a क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः 12338009c वैजयन्त इति ख्यातः पर्वतप्रवरो नृप 12338010a तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् 12338010c वैराजसदने नित्यं वैजयन्तं निषेवते 12338011a अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः 12338011c ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया 12338011e आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः 12338012a ततः खान्निपपाताशु धरणीधरमूर्धनि 12338012c अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः 12338013a तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना 12338013c उत्थापयामास तदा प्रभुरेकः प्रजापतिः 12338014a उवाच चैनं भगवांश्चिरस्यागतमात्मजम् 12338014c स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् 12338015a कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा 12338015c नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः 12338016 रुद्र उवाच 12338016a त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम 12338016c कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा 12338017a चिरदृष्टो हि भगवान्वैराजसदने मया 12338017c ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् 12338018a कौतूहलं चापि हि मे एकान्तगमनेन ते 12338018c नैतत्कारणमल्पं हि भविष्यति पितामह 12338019a किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् 12338019c सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः 12338020a गन्धर्वैरप्सरोभिश्च सततं संनिषेवितम् 12338020c उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि 12338021 ब्रह्मोवाच 12338021a वैजयन्तो गिरिवरः सततं सेव्यते मया 12338021c अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् 12338022 रुद्र उवाच 12338022a बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुवा 12338022c सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् 12338023a को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः 12338023c एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे 12338024 ब्रह्मोवाच 12338024a बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः 12338024c एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि 12338024e आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते 12338025a बहूनां पुरुषाणां स यथैका योनिरुच्यते 12338025c तथा तं पुरुषं विश्वं परमं सुमहत्तमम् 12338025e निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् 12339001 ब्रह्मोवाच 12339001a शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः 12339001c अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते 12339002a न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम 12339002c सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः 12339003a अशरीरः शरीरेषु सर्वेषु निवसत्यसौ 12339003c वसन्नपि शरीरेषु न स लिप्यति कर्मभिः 12339004a ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः 12339004c सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् 12339005a विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः 12339005c एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् 12339006a क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे 12339006c तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते 12339007a नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् 12339007c सांख्येन विधिना चैव योगेन च यथाक्रमम् 12339008a चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् 12339008c यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् 12339009a तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः 12339009c महापुरुषशब्दं स बिभर्त्येकः सनातनः 12339010a एको हुताशो बहुधा समिध्यते; एकः सूर्यस्तपसां योनिरेका 12339010c एको वायुर्बहुधा वाति लोके; महोदधिश्चाम्भसां योनिरेकः 12339010e पुरुषश्चैको निर्गुणो विश्वरूप;स्तं निर्गुणं पुरुषं चाविशन्ति 12339011a हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् 12339011c उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः 12339012a अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् 12339012c विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् 12339013a एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः 12339013c एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः 12339014a तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः 12339014c स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः 12339014e न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा 12339015a कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते 12339015c ससप्तदशकेनापि राशिना युज्यते हि सः 12339015e एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् 12339016a यत्तत्कृत्स्नं लोकतन्त्रस्य धाम; वेद्यं परं बोधनीयं सबोद्धृ 12339016c मन्ता मन्तव्यं प्राशिता प्राशितव्यं; घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् 12339017a द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं; ज्ञाता ज्ञेयं सगुणं निर्गुणं च 12339017c यद्वै प्रोक्तं गुणसाम्यं प्रधानं; नित्यं चैतच्छाश्वतं चाव्ययं च 12339018a यद्वै सूते धातुराद्यं निधानं; तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् 12339018c यद्वै लोके वैदिकं कर्म साधु; आशीर्युक्तं तद्धि तस्योपभोज्यम् 12339019a देवाः सर्वे मुनयः साधु दान्ता;स्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते 12339019c अहं ब्रह्मा आद्य ईशः प्रजानां; तस्माज्जातस्त्वं च मत्तः प्रसूतः 12339019e मत्तो जगज्जङ्गमं स्थावरं च; सर्वे वेदाः सरहस्या हि पुत्र 12339020a चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति 12339020c एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः 12339021a एतत्ते कथितं पुत्र यथावदनुपृच्छतः 12339021c सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् 12340001 युधिष्ठिर उवाच 12340001a धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः 12340001c धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् 12340002 भीष्म उवाच 12340002a सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः 12340002c बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 12340003a यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम् 12340003c स तमेवाभिजानाति नान्यं भरतसत्तम 12340004a अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् 12340004c पुरा शक्रस्य कथितां नारदेन सुरर्षिणा 12340005a सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसंमतः 12340005c पर्येति क्रमशो लोकान्वायुरव्याहतो यथा 12340006a स कदाचिन्महेष्वास देवराजालयं गतः 12340006c सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् 12340007a तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः 12340007c ब्रह्मर्षे किंचिदाश्चर्यमस्ति दृष्टं त्वयानघ 12340008a यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम् 12340008c जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् 12340009a न ह्यस्त्यविदितं लोके देवर्षे तव किंचन 12340009c श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे 12340010a तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः 12340010c आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् 12340011a यथा येन च कल्पेन स तस्मै द्विजसत्तमः 12340011c कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु 12341001 भीष्म उवाच 12341001a आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे 12341001c गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः 12341002a सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः 12341002c धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः 12341003a अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः 12341003c न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः 12341004a ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते 12341004c कुले महति विख्याते विशिष्टां वृत्तिमास्थितः 12341005a स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः 12341005c कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् 12341006a ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च 12341006c शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा 12341007a किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् 12341007c इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् 12341008a तस्यैवं खिद्यमानस्य धर्मं परममास्थितः 12341008c कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः 12341009a स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना 12341009c विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् 12342001 ब्राह्मण उवाच 12342001a समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ 12342001c मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु 12342002a गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् 12342002c धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज 12342003a अहमात्मानमात्मस्थमेक एवात्मनि स्थितः 12342003c कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः 12342004a यावदेवानतीतं मे वयः पुत्रफलाश्रितम् 12342004c तावदिच्छामि पाथेयमादातुं पारलौकिकम् 12342005a अस्मिन्हि लोकसंताने परं पारमभीप्सतः 12342005c उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः 12342006a समुह्यमानानि निशम्य लोके; निर्यात्यमानानि च सात्त्विकानि 12342006c दृष्ट्वा च धर्मध्वजकेतुमालां; प्रकीर्यमाणामुपरि प्रजानाम् 12342007a न मे मनो रज्यति भोगकाले; दृष्ट्वा यतीन्प्रार्थयतः परत्र 12342007c तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् 12342008 भीष्म उवाच 12342008a सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः 12342008c प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा 12342009a अहमप्यत्र मुह्यामि ममाप्येष मनोरथः 12342009c न च संनिश्चयं यामि बहुद्वारे त्रिविष्टपे 12342010a केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः 12342010c वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः 12342011a राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् 12342011c गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् 12342012a मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः 12342012c अहिंसया परे स्वर्गं सत्येन च तथा परे 12342013a आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः 12342013c केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः 12342014a केचिदध्ययने युक्ता वेदव्रतपराः शुभाः 12342014c बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः 12342015a आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः 12342015c ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः 12342016a एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः 12342016c ममापि मतिराविग्ना मेघलेखेव वायुना 12343001 अतिथिरुवाच 12343001a उपदेशं तु ते विप्र करिष्येऽहं यथागमम् 12343001c गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु 12343002a यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् 12343002c नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् 12343003a समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ 12343003c यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः 12343004a कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् 12343004c पद्मनाभो महाभागः पद्म इत्येव विश्रुतः 12343005a स वाचा कर्मणा चैव मनसा च द्विजर्षभ 12343005c प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः 12343006a साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् 12343006c विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति 12343007a तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् 12343007c स ते परमकं धर्मं नमिथ्या दर्शयिष्यति 12343008a स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः 12343008c गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः 12343009a प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः 12343009c तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च 12343010a यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः 12343010c सत्यवागनसूयुश्च शीलवानभिसंश्रितः 12343011a शेषान्नभोक्ता वचनानुकूलो; हितार्जवोत्कृष्टकृताकृतज्ञः 12343011c अवैरकृद्भूतहिते नियुक्तो; गङ्गाह्रदाम्भोऽभिजनोपपन्नः 12344001 ब्राह्मण उवाच 12344001a अतिभारोद्यतस्यैव भारापनयनं महत् 12344001c पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् 12344002a अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् 12344002c तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् 12344003a ईप्सितस्येव संप्राप्तिरन्नस्य समयेऽतिथेः 12344003c एषितस्यात्मनः काले वृद्धस्येव सुतो यथा 12344004a मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् 12344004c प्रह्रादयति मां वाक्यं भवता यदुदीरितम् 12344005a दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च 12344005c प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः 12344005e बाढमेवं करिष्यामि यथा मां भाषते भवान् 12344006a इहेमां रजनीं साधो निवसस्व मया सह 12344006c प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः 12344006e असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः 12344007 भीष्म उवाच 12344007a ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन 12344007c उवास किल तां रात्रिं सह तेन द्विजेन वै 12344008a तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा 12344008c व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा 12344009a ततः प्रभातसमये सोऽतिथिस्तेन पूजितः 12344009c ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता 12344010a ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः स्वजनेन धर्मवित् 12344010c यथोपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैकनिश्चयः 12345001 भीष्म उवाच 12345001a स वनानि विचित्राणि तीर्थानि च सरांसि च 12345001c अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः 12345002a तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः 12345002c पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः 12345003a सोऽभिगम्य यथाख्यातं नागायतनमर्थवित् 12345003c प्रोक्तवानहमस्मीति भोःशब्दालंकृतं वचः 12345004a ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला 12345004c दर्शयामास तं विप्रं नागपत्नी पतिव्रता 12345005a सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा 12345005c स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् 12345006 ब्राह्मण उवाच 12345006a विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा 12345006c द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम् 12345007a एतद्धि परमं कार्यमेतन्मे फलमीप्सितम् 12345007c अनेनार्थेन चास्म्यद्य संप्राप्तः पन्नगालयम् 12345008 नागभार्योवाच 12345008a आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः 12345008c सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् 12345009a एतद्विदितमार्यस्य विवासकरणं मम 12345009c भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे 12345010 ब्राह्मण उवाच 12345010a अनेन निश्चयेनाहं साध्वि संप्राप्तवानिह 12345010c प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने 12345011a संप्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः 12345011c ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया 12345012a अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे 12345012c कालं परिमिताहारो यथोक्तं परिपालयन् 12345013 भीष्म उवाच 12345013a ततः स विप्रस्तां नागीं समाधाय पुनः पुनः 12345013c तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः 12346001 भीष्म उवाच 12346001a अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना 12346001c निराहारेण वसता दुःखितास्ते भुजंगमाः 12346002a सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः 12346002c भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति 12346003a तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् 12346003c समासीनं निराहारं द्विजं जप्यपरायणम् 12346004a ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् 12346004c ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः 12346005a षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन 12346005c न चाभिलषसे किंचिदाहारं धर्मवत्सल 12346006a अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः 12346006c कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः 12346007a मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम 12346007c आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण 12346008a त्यक्ताहारेण भवता वने निवसता सता 12346008c बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात् 12346009a न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा 12346009c पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु 12346010 ब्राह्मण उवाच 12346010a उपदेशेन युष्माकमाहारोऽयं मया वृतः 12346010c द्विरूनं दशरात्रं वै नागस्यागमनं प्रति 12346011a यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः 12346011c तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् 12346012a कर्तव्यो न च संतापो गम्यतां च यथागतम् 12346012c तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ 12346013 भीष्म उवाच 12346013a तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः 12346013c स्वमेव भवनं जग्मुरकृतार्था नरर्षभ 12347001 भीष्म उवाच 12347001a अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः 12347001c दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः 12347002a तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः 12347002c उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत 12347003a अपि त्वमसि कल्याणि देवतातिथिपूजने 12347003c पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् 12347004a न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता 12347004c मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना 12347005 नागभार्योवाच 12347005a शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् 12347005c भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् 12347006a सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते 12347006c वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता 12347007a विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् 12347007c गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता 12347008a नियताहारता नित्यं व्रतचर्या यथाक्रमम् 12347008c धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषणम् 12347009a अहं कस्य कुतो वाहं कः को मे ह भवेदिति 12347009c प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् 12347010a पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते 12347010c तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै 12347011a साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते 12347011c सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि 12347012a देवतानां महाभाग धर्मचर्या न हीयते 12347012c अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता 12347013a सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै 12347013c स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति 12347014a गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः 12347014c आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः 12347015a अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता 12347015c प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः 12347016a एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि 12347016c दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः 12348001 नाग उवाच 12348001a अथ ब्राह्मणरूपेण कं तं समनुपश्यसि 12348001c मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते 12348002a को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि 12348002c संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति 12348003a सुरासुरगणानां च देवर्षीणां च भामिनि 12348003c ननु नागा महावीर्याः सौरसेयास्तरस्विनः 12348004a वन्दनीयाश्च वरदा वयमप्यनुयायिनः 12348004c मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः 12348005 नागभार्योवाच 12348005a आर्जवेनाभिजानामि नासौ देवोऽनिलाशन 12348005c एकं त्वस्य विजानामि भक्तिमानतिरोषणः 12348006a स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा 12348006c वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति 12348007a न हि त्वा दैवतं किंचिद्विविग्नं प्रतिपालयेत् 12348007c तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते 12348008a तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि 12348008c आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि 12348009a आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् 12348009c राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते 12348010a मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् 12348010c वाग्मित्वं सत्यवाक्येन परत्र च महीयते 12348011a भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम् 12348011c नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलमुपाश्नुते 12348012a अभिप्रेतामसंक्लिष्टां कृत्वाकामवतीं क्रियाम् 12348012c न याति निरयं कश्चिदिति धर्मविदो विदुः 12348013 नाग उवाच 12348013a अभिमानेन मानो मे जातिदोषेण वै महान् 12348013c रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया 12348014a न च रोषादहं साध्वि पश्येयमधिकं तमः 12348014c यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः 12348015a दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् 12348015c तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे 12348016a अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् 12348016c धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः 12348017a जामदग्न्येन रामेण सहस्रनयनोपमः 12348017c संयुगे निहतो रोषात्कार्तवीर्यो महाबलः 12348018a तदेष तपसां शत्रुः श्रेयसश्च निपातनः 12348018c निगृहीतो मया रोषः श्रुत्वैव वचनं तव 12348019a आत्मानं च विशेषेण प्रशंसाम्यनपायिनि 12348019c यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता 12348020a एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः 12348020c सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति 12349001 भीष्म उवाच 12349001a स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति 12349001c तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् 12349002a तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर 12349002c प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः 12349003a भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि 12349003c इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् 12349004a आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज 12349004c विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे 12349005 ब्राह्मण उवाच 12349005a धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् 12349005c पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम् 12349006a तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम् 12349006c स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः 12349007a तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् 12349007c वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः 12349008 नाग उवाच 12349008a अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः 12349008c श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि 12349009a अहं स नागो विप्रर्षे यथा मां विन्दते भवान् 12349009c आज्ञापय यथा स्वैरं किं करोमि प्रियं तव 12349010a भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानिह 12349010c अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज 12349011a संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति 12349011c विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि 12349012a वयं हि भवता सर्वे गुणक्रीता विशेषतः 12349012c यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे 12349013 ब्राह्मण उवाच 12349013a आगतोऽहं महाभाग तव दर्शनलालसः 12349013c कंचिदर्थमनर्थज्ञः प्रष्टुकामो भुजंगम 12349014a अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम् 12349014c वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह 12349015a प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः 12349015c शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः 12349016a तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन 12349016c पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान् 12350001 ब्राह्मण उवाच 12350001a विवस्वतो गच्छति पर्ययेण; वोढुं भवांस्तं रथमेकचक्रम् 12350001c आश्चर्यभूतं यदि तत्र किंचि;द्दृष्टं त्वया शंसितुमर्हसि त्वम् 12350002 नाग उवाच 12350002a यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः 12350002c वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह 12350003a यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् 12350003c विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः 12350004a शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे 12350004c तोयं सृजति वर्षासु किमाश्चर्यमतः परम् 12350005a योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः 12350005c पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् 12350006a यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः 12350006c यतो बीजं मही चेयं धार्यते सचराचरम् 12350007a यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः 12350007c अनादिनिधनो विप्र किमाश्चर्यमतः परम् 12350008a आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु 12350008c विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् 12350009a पुरा मध्याह्नसमये लोकांस्तपति भास्करे 12350009c प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत 12350010a स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् 12350010c आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव 12350011a हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः 12350011c अनिर्देश्येन रूपेण द्वितीय इव भास्करः 12350012a तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता 12350012c तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना 12350013a ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् 12350013c एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् 12350014a तत्र नः संशयो जातस्तयोस्तेजःसमागमे 12350014c अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः 12350015a ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् 12350015c क एष दिवमाक्रम्य गतः सूर्य इवापरः 12351001 सूर्य उवाच 12351001a नैष देवोऽनिलसखो नासुरो न च पन्नगः 12351001c उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः 12351002a एष मूलफलाहारः शीर्णपर्णाशनस्तथा 12351002c अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः 12351003a ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः 12351003c स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः 12351004a असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः 12351004c सर्वभूतहिते युक्त एष विप्रो भुजंगम 12351005a न हि देवा न गन्धर्वा नासुरा न च पन्नगाः 12351005c प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् 12351006 नाग उवाच 12351006a एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज 12351006c संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः 12351006e सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते 12352001 ब्राह्मण उवाच 12352001a आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजंगम 12352001c अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः 12352002a स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम 12352002c स्मरणीयोऽस्मि भवता संप्रेषणनियोजनैः 12352003 नाग उवाच 12352003a अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् 12352003c उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः 12352004a उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ 12352004c मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण 12352005a न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह 12352005c गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा 12352006a त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः 12352006c लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ 12352007 ब्राह्मण उवाच 12352007a एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजंगम 12352007c नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् 12352008a य एवाहं स एव त्वमेवमेतद्भुजंगम 12352008c अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा 12352009a आसीत्तु मे भोगपते संशयः पुण्यसंचये 12352009c सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् 12352010a एष मे निश्चयः साधो कृतः कारणवत्तरः 12352010c आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजंगम 12353001 भीष्म उवाच 12353001a स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः 12353001c दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः 12353002a स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान् 12353002c तथैव च कथामेतां राजन्कथितवांस्तदा 12353003a भार्गवेणापि राजेन्द्र जनकस्य निवेशने 12353003c कथैषा कथिता पुण्या नारदाय महात्मने 12353004a नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने 12353004c कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा 12353005a देवराजेन च पुरा कथैषा कथिता शुभा 12353005c समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप 12353006a यदा च मम रामेण युद्धमासीत्सुदारुणम् 12353006c वसुभिश्च तदा राजन्कथेयं कथिता मम 12353007a पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते 12353007c कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 12353008a तदेष परमो धर्मो यन्मां पृच्छसि भारत 12353008c असन्नधीरनाकाङ्क्षी धर्मार्थकरणे नृप 12353009a स च किल कृतनिश्चयो द्विजाग्र्यो; भुजगपतिप्रतिदेशितार्थकृत्यः 12353009c यमनियमसमाहितो वनान्तं; परिगणितोञ्छशिलाशनः प्रविष्टः