% Mahabharata: Striparvan % Last updated: Mon Apr 17 2017 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 11001001 जनमेजय उवाच 11001001a हते दुर्योधने चैव हते सैन्ये च सर्वशः 11001001c धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने 11001002a तथैव कौरवो राजा धर्मपुत्रो महामनाः 11001002c कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः 11001003a अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः 11001003c वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः 11001004 वैशंपायन उवाच 11001004a हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् 11001004c पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम् 11001005a ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् 11001005c अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत् 11001006a किं शोचसि महाराज नास्ति शोके सहायता 11001006c अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते 11001006e निर्जनेयं वसुमती शून्या संप्रति केवला 11001007a नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः 11001007c सहितास्तव पुत्रेण सर्वे वै निधनं गताः 11001008a पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा 11001008c गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय 11001009 वैशंपायन उवाच 11001009a तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः 11001009c पपात भुवि दुर्धर्षो वाताहत इव द्रुमः 11001010 धृतराष्ट्र उवाच 11001010a हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः 11001010c दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम् 11001011a किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै 11001011c लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः 11001012a हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा 11001012c न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् 11001013a न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः 11001013c नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च 11001014a सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम 11001014c अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति 11001015a तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः 11001015c न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम् 11001016a दुर्योधनस्य च तथा वृषभस्येव नर्दतः 11001016c दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् 11001016e द्रोणसूर्योपरागं च हृदयं मे विदीर्यते 11001017a न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम् 11001017c यस्येदं फलमद्येह मया मूढेन भुज्यते 11001018a नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु 11001018c येन मां दुःखभागेषु धाता कर्मसु युक्तवान् 11001019a परिणामश्च वयसः सर्वबन्धुक्षयश्च मे 11001019c सुहृन्मित्रविनाशश्च दैवयोगादुपागतः 11001019e कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह 11001020a तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम् 11001020c विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् 11001021 वैशंपायन उवाच 11001021a तस्य लालप्यमानस्य बहुशोकं विचिन्वतः 11001021c शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत् 11001022a शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः 11001022c शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम 11001022e सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा 11001023a तथा यौवनजं दर्पमास्थिते ते सुते नृप 11001023c न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् 11001023e स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना 11001024a तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान् 11001024c शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः 11001024e शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत् 11001025a कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च 11001025c न कृतं वचनं तेन तव पुत्रेण भारत 11001026a न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन् 11001026c क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः 11001027a मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान् 11001027c धूर्धरेण त्वया भारस्तुलया न समं धृतः 11001028a आदावेव मनुष्येण वर्तितव्यं यथा क्षमम् 11001028c यथा नातीतमर्थं वै पश्चात्तापेन युज्यते 11001029a पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता 11001029c पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि 11001030a मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति 11001030c स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान् 11001031a अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् 11001031c न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम् 11001032a स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत् 11001032c दह्यमानो मनस्तापं भजते न स पण्डितः 11001033a त्वयैव ससुतेनायं वाक्यवायुसमीरितः 11001033c लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः 11001034a तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः 11001034c तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि 11001035a यच्चाश्रुपातकलिलं वदनं वहसे नृप 11001035c अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः 11001036a विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् 11001036c जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना 11001037a एवमाश्वासितस्तेन संजयेन महात्मना 11001037c विदुरो भूय एवाह बुद्धिपूर्वं परंतप 11002001 वैशंपायन उवाच 11002001a ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् 11002001c वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् 11002002 विदुर उवाच 11002002a उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना 11002002c स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः 11002003a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 11002003c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 11002004a यदा शूरं च भीरुं च यमः कर्षति भारत 11002004c तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ 11002005a अयुध्यमानो म्रियते युध्यमानश्च जीवति 11002005c कालं प्राप्य महाराज न कश्चिदतिवर्तते 11002006a न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि 11002006c प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् 11002007a सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः 11002007c सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना 11002008a अदर्शनादापतिताः पुनश्चादर्शनं गताः 11002008c न ते तव न तेषां त्वं तत्र का परिदेवना 11002009a हतोऽपि लभते स्वर्गं हत्वा च लभते यशः 11002009c उभयं नो बहुगुणं नास्ति निष्फलता रणे 11002010a तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति 11002010c इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ 11002011a न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया 11002011c स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः 11002012a मातापितृसहस्राणि पुत्रदारशतानि च 11002012c संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् 11002013a शोकस्थानसहस्राणि भयस्थानशतानि च 11002013c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 11002014a न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम 11002014c न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति 11002015a अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः 11002015c आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः 11002016a न जानपदिकं दुःखमेकः शोचितुमर्हसि 11002016c अप्यभावेन युज्येत तच्चास्य न निवर्तते 11002017a अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् 11002017c भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् 11002017e चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते 11002018a अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च 11002018c मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः 11002019a नार्थो न धर्मो न सुखं यदेतदनुशोचसि 11002019c न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते 11002020a अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 11002020c असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः 11002021a प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 11002021c एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात् 11002022a शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति 11002022c अनुधावति धावन्तं कर्म पूर्वकृतं नरम् 11002023a यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् 11002023c तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते 11003001 धृतराष्ट्र उवाच 11003001a सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम 11003001c भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः 11003002a अनिष्टानां च संसर्गादिष्टानां च विवर्जनात् 11003002c कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः 11003003 विदुर उवाच 11003003a यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते 11003003c ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः 11003004a अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ 11003004c कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते 11003005a गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः 11003005c कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम् 11003006a यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः 11003006c अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम् 11003007a वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम् 11003007c प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा 11003008a कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत 11003008c ततो वहति तं भारमवशः स्ववशोऽपि वा 11003009a यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते 11003009c किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा 11003010a छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा 11003010c आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा 11003011a अवतार्यमाणमापाकादुद्धृतं वापि भारत 11003011c अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम् 11003012a गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः 11003012c अर्धमासगतो वापि मासमात्रगतोऽपि वा 11003013a संवत्सरगतो वापि द्विसंवत्सर एव वा 11003013c यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते 11003014a प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च 11003014c एवं सांसिद्धिके लोके किमर्थमनुतप्यसे 11003015a यथा च सलिले राजन्क्रीडार्थमनुसंचरन् 11003015c उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप 11003016a एवं संसारगहनादुन्मज्जननिमज्जनात् 11003016c कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः 11003017a ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः 11003017c समागमज्ञा भूतानां ते यान्ति परमां गतिम् 11004001 धृतराष्ट्र उवाच 11004001a कथं संसारगहनं विज्ञेयं वदतां वर 11004001c एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः 11004002 विदुर उवाच 11004002a जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो 11004002c पूर्वमेवेह कलले वसते किंचिदन्तरम् 11004003a ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत् 11004003c ततः सर्वाङ्गसंपूर्णो गर्भो मासे प्रजायते 11004004a अमेध्यमध्ये वसति मांसशोणितलेपने 11004004c ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः 11004005a योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति 11004005c योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः 11004006a तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् 11004006c ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम् 11004007a ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा 11004007c उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः 11004008a बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम् 11004008c व्यसनान्युपवर्तन्ते विविधानि नराधिप 11004008e बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः 11004009a अयं न बुध्यते तावद्यमलोकमथागतम् 11004009c यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति 11004010a वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे 11004010c भूय एवात्मनात्मानं बध्यमानमुपेक्षते 11004011a अहो विनिकृतो लोको लोभेन च वशीकृतः 11004011c लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते 11004012a कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन् 11004012c धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् 11004013a मूर्खानिति परानाह नात्मानं समवेक्षते 11004013c शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति 11004014a अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन् 11004014c जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् 11004015a एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते 11004015c स प्रमोक्षाय लभते पन्थानं मनुजाधिप 11005001 धृतराष्ट्र उवाच 11005001a यदिदं धर्मगहनं बुद्ध्या समनुगम्यते 11005001c एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे 11005002 विदुर उवाच 11005002a अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे 11005002c यथा संसारगहनं वदन्ति परमर्षयः 11005003a कश्चिन्महति संसारे वर्तमानो द्विजः किल 11005003c वनं दुर्गमनुप्राप्तो महत्क्रव्यादसंकुलम् 11005004a सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः 11005004c समन्तात्संपरिक्षिप्तं मृत्योरपि भयप्रदम् 11005005a तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् 11005005c अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परंतप 11005006a स तद्वनं व्यनुसरन्विप्रधावनितस्ततः 11005006c वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति 11005007a स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः 11005007c न च निर्याति वै दूरं न च तैर्विप्रयुज्यते 11005008a अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् 11005008c बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया 11005009a पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः 11005009c नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम् 11005010a वनमध्ये च तत्राभूदुदपानः समावृतः 11005010c वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः 11005011a पपात स द्विजस्तत्र निगूढे सलिलाशये 11005011c विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकटे 11005012a पनसस्य यथा जातं वृन्तबद्धं महाफलम् 11005012c स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः 11005013a अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः 11005013c कूपवीनाहवेलायामपश्यत महागजम् 11005014a षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् 11005014c क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम् 11005015a तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः 11005015c नानारूपा मधुकरा घोररूपा भयावहाः 11005015e आसते मधु संभृत्य पूर्वमेव निकेतजाः 11005016a भूयो भूयः समीहन्ते मधूनि भरतर्षभ 11005016c स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते 11005017a तेषां मधूनां बहुधा धारा प्रस्रवते सदा 11005017c तां लम्बमानः स पुमान्धारां पिबति सर्वदा 11005017e न चास्य तृष्णा विरता पिबमानस्य संकटे 11005018a अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः 11005018c न चास्य जीविते राजन्निर्वेदः समजायत 11005019a तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता 11005019c कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः 11005020a व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया 11005020c कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च 11005021a वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् 11005021c मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम् 11005022a एवं स वसते तत्र क्षिप्तः संसारसागरे 11005022c न चैव जीविताशायां निर्वेदमुपगच्छति 11006001 धृतराष्ट्र उवाच 11006001a अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ 11006001c कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर 11006002a स देशः क्व नु यत्रासौ वसते धर्मसंकटे 11006002c कथं वा स विमुच्येत नरस्तस्मान्महाभयात् 11006003a एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तथा 11006003c कृपा मे महती जाता तस्याभ्युद्धरणेन हि 11006004 विदुर उवाच 11006004a उपमानमिदं राजन्मोक्षविद्भिरुदाहृतम् 11006004c सुगतिं विन्दते येन परलोकेषु मानवः 11006005a यत्तदुच्यति कान्तारं महत्संसार एव सः 11006005c वनं दुर्गं हि यत्त्वेतत्संसारगहनं हि तत् 11006006a ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः 11006006c या सा नारी बृहत्काया अधितिष्ठति तत्र वै 11006006e तामाहुस्तु जरां प्राज्ञा वर्णरूपविनाशिनीम् 11006007a यस्तत्र कूपो नृपते स तु देहः शरीरिणाम् 11006007c यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः 11006007e अन्तकः सर्वभूतानां देहिनां सर्वहार्यसौ 11006008a कूपमध्ये च या जाता वल्ली यत्र स मानवः 11006008c प्रताने लम्बते सा तु जीविताशा शरीरिणाम् 11006009a स यस्तु कूपवीनाहे तं वृक्षं परिसर्पति 11006009c षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः 11006009e मुखानि ऋतवो मासाः पादा द्वादश कीर्तिताः 11006010a ये तु वृक्षं निकृन्तन्ति मूषकाः सततोत्थिताः 11006010c रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः 11006010e ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः 11006011a यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् 11006011c तांस्तु कामरसान्विद्याद्यत्र मज्जन्ति मानवाः 11006012a एवं संसारचक्रस्य परिवृत्तिं स्म ये विदुः 11006012c ते वै संसारचक्रस्य पाशांश्छिन्दन्ति वै बुधाः 11007001 धृतराष्ट्र उवाच 11007001a अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना 11007001c भूय एव तु मे हर्षः श्रोतुं वागमृतं तव 11007002 विदुर उवाच 11007002a शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् 11007002c यच्छ्रुत्वा विप्रमुच्यन्ते संसारेभ्यो विचक्षणाः 11007003a यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः 11007003c क्वचित्क्वचिच्छ्रमात्स्थाता कुरुते वासमेव वा 11007004a एवं संसारपर्याये गर्भवासेषु भारत 11007004c कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः 11007005a तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः 11007005c यत्तु संसारगहनं वनमाहुर्मनीषिणः 11007006a सोऽयं लोकसमावर्तो मर्त्यानां भरतर्षभ 11007006c चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः 11007007a शारीरा मानसाश्चैव मर्त्यानां ये तु व्याधयः 11007007c प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः 11007008a क्लिश्यमानाश्च तैर्नित्यं हन्यमानाश्च भारत 11007008c स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः 11007009a अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप 11007009c आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी 11007010a शब्दरूपरसस्पर्शैर्गन्धैश्च विविधैरपि 11007010c मज्जमानं महापङ्के निरालम्बे समन्ततः 11007011a संवत्सरर्तवो मासाः पक्षाहोरात्रसंधयः 11007011c क्रमेणास्य प्रलुम्पन्ति रूपमायुस्तथैव च 11007012a एते कालस्य निधयो नैताञ्जानन्ति दुर्बुधाः 11007012c अत्राभिलिखितान्याहुः सर्वभूतानि कर्मणा 11007013a रथं शरीरं भूतानां सत्त्वमाहुस्तु सारथिम् 11007013c इन्द्रियाणि हयानाहुः कर्म बुद्धिश्च रश्मयः 11007014a तेषां हयानां यो वेगं धावतामनुधावति 11007014c स तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते 11007015a यस्तान्यमयते बुद्ध्या स यन्ता न निवर्तते 11007015c याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः 11007016a स चैतत्प्राप्नुते राजन्यत्त्वं प्राप्तो नराधिप 11007016c राज्यनाशं सुहृन्नाशं सुतनाशं च भारत 11007017a अनुतर्षुलमेवैतद्दुःखं भवति भारत 11007017c साधुः परमदुःखानां दुःखभैषज्यमाचरेत् 11007018a न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः 11007018c तथोन्मोचयते दुःखाद्यथात्मा स्थिरसंयमः 11007019a तस्मान्मैत्रं समास्थाय शीलमापद्य भारत 11007019c दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः 11007020a शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे 11007020c त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति 11008001 वैशंपायन उवाच 11008001a विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः 11008001c पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः 11008002a तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः 11008002c कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा 11008003a संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः 11008003c जलेन सुखशीतेन तालवृन्तैश्च भारत 11008004a पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः 11008004c अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् 11008005a अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः 11008005c विललाप चिरं कालं पुत्राधिभिरभिप्लुतः 11008006a धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् 11008006c यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः 11008007a पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपि 11008007c प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो 11008008a येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति 11008008c येनाभिभूतः पुरुषो मरणं बहु मन्यते 11008009a तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् 11008009c तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम 11008010a इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् 11008010c धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः 11008010e अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते 11008011a तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः 11008011c पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत् 11008012a धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु 11008012c श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा 11008013a न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप 11008013c अनित्यतां हि मर्त्यानां विजानासि न संशयः 11008014a अध्रुवे जीवलोके च स्थाने वाशाश्वते सति 11008014c जीविते मरणान्ते च कस्माच्छोचसि भारत 11008015a प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः 11008015c पुत्रं ते कारणं कृत्वा कालयोगेन कारितः 11008016a अवश्यं भवितव्ये च कुरूणां वैशसे नृप 11008016c कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् 11008017a जानता च महाबाहो विदुरेण महात्मना 11008017c यतितं सर्वयत्नेन शमं प्रति जनेश्वर 11008018a न च दैवकृतो मार्गः शक्यो भूतेन केनचित् 11008018c घटतापि चिरं कालं नियन्तुमिति मे मतिः 11008019a देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् 11008019c तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव 11008020a पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः 11008020c अपश्यं तत्र च तदा समवेतान्दिवौकसः 11008020e नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा 11008021a तत्र चापि मया दृष्टा पृथिवी पृथिवीपते 11008021c कार्यार्थमुपसंप्राप्ता देवतानां समीपतः 11008022a उपगम्य तदा धात्री देवानाह समागतान् 11008022c यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा 11008022e प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् 11008023a तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः 11008023c उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि 11008024a धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै 11008024c दुर्योधन इति ख्यातः स ते कार्यं करिष्यति 11008024e तं च प्राप्य महीपालं कृतकृत्या भविष्यसि 11008025a तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः 11008025c अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः 11008026a ततस्ते भविता देवि भारस्य युधि नाशनम् 11008026c गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने 11008027a स एष ते सुतो राजँल्लोकसंहारकारणात् 11008027c कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप 11008028a अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः 11008028c दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः 11008029a शकुनिर्मातुलश्चैव कर्णश्च परमः सखा 11008029c समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः 11008029e एतमर्थं महाबाहो नारदो वेद तत्त्वतः 11008030a आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते 11008030c मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् 11008031a न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत 11008031c पुत्रास्तव दुरात्मानो यैरियं घातिता मही 11008032a नारदेन च भद्रं ते पूर्वमेव न संशयः 11008032c युधिष्ठिरस्य समितौ राजसूये निवेदितम् 11008033a पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् 11008033c न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर 11008034a नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः 11008034c एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् 11008035a कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो 11008035c स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् 11008036a एष चार्थो महाबाहो पूर्वमेव मया श्रुतः 11008036c कथितो धर्मराजस्य राजसूये क्रतूत्तमे 11008037a यतितं धर्मपुत्रेण मया गुह्ये निवेदिते 11008037c अविग्रहे कौरवाणां दैवं तु बलवत्तरम् 11008038a अनतिक्रमणीयो हि विधी राजन्कथंचन 11008038c कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च 11008039a भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत 11008039c मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च 11008040a त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः 11008040c ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् 11008041a कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि 11008041c स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति 11008042a मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् 11008042c पाण्डवानां च कारुण्यात्प्राणान्धारय भारत 11008043a एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति 11008043c धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् 11008044a पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा 11008044c प्रज्ञाम्भसा महाराज निर्वापय सदा सदा 11008045a एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः 11008045c मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत 11008046a महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम 11008046c नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः 11008047a इदं तु वचनं श्रुत्वा तव दैवनियोगजम् 11008047c धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् 11008048a एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः 11008048c धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत 11009001 जनमेजय उवाच 11009001a गते भगवति व्यासे धृतराष्ट्रो महीपतिः 11009001c किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि 11009002 वैशंपायन उवाच 11009002a एतच्छ्रुत्वा नरश्रेष्ठ चिरं ध्यात्वा त्वचेतनः 11009002c संजयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत 11009003a क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः 11009003c वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः 11009004a एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम् 11009004c शोकविप्रहतज्ञानो यानमेवान्वपद्यत 11009005a गान्धारी चैव शोकार्ता भर्तुर्वचनचोदिता 11009005c सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत् 11009006a ताः समासाद्य राजानं भृशं शोकसमन्विताः 11009006c आमन्त्र्यान्योन्यमीयुः स्म भृशमुच्चुक्रुशुस्ततः 11009007a ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम् 11009007c अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात् 11009008a ततः प्रणादः संजज्ञे सर्वेषु कुरुवेश्मसु 11009008c आकुमारं पुरं सर्वमभवच्छोककर्शितम् 11009009a अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि 11009009c पृथग्जनेन दृश्यन्त तास्तदा निहतेश्वराः 11009010a प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च 11009010c एकवस्त्रधरा नार्यः परिपेतुरनाथवत् 11009011a श्वेतपर्वतरूपेभ्यो गृहेभ्यस्तास्त्वपाक्रमन् 11009011c गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः 11009012a तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः 11009012c शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गने 11009013a प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि 11009013c दर्शयन्तीव ता ह स्म युगान्ते लोकसंक्षयम् 11009014a विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः 11009014c शोकेनाभ्याहतज्ञानाः कर्तव्यं न प्रजज्ञिरे 11009015a व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः 11009015c ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन् 11009016a परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्स्म याः 11009016c ताः शोकविह्वला राजन्नुपैक्षन्त परस्परम् 11009017a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11009017c निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति 11009018a शिल्पिनो वणिजो वैश्याः सर्वकर्मोपजीविनः 11009018c ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः 11009019a तासां विक्रोशमानानामार्तानां कुरुसंक्षये 11009019c प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत 11009020a युगान्तकाले संप्राप्ते भूतानां दह्यतामिव 11009020c अभावः स्यादयं प्राप्त इति भूतानि मेनिरे 11009021a भृशमुद्विग्नमनसस्ते पौराः कुरुसंक्षये 11009021c प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम् 11010001 वैशंपायन उवाच 11010001a क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् 11010001c शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च 11010002a ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् 11010002c अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन् 11010003a पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् 11010003c गतः सानुचरो राजञ्शक्रलोकं महीपतिः 11010004a दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः 11010004c सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ 11010005a इत्येवमुक्त्वा राजानं कृपः शारद्वतस्तदा 11010005c गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत् 11010006a अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् 11010006c वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः 11010007a ध्रुवं संप्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् 11010007c भास्वरं देहमास्थाय विहरन्त्यमरा इव 11010008a न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः 11010008c शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः 11010009a एतां तां क्षत्रियस्याहुः पुराणां परमां गतिम् 11010009c शस्त्रेण निधनं संख्ये तान्न शोचितुमर्हसि 11010010a न चापि शत्रवस्तेषामृध्यन्ते राज्ञि पाण्डवाः 11010010c शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः 11010011a अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् 11010011c सुप्तं शिबिरमाविश्य पाण्डूनां कदनं कृतम् 11010012a पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः 11010012c द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः 11010013a तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते 11010013c प्राद्रवाम रणे स्थातुं न हि शक्यामहे त्रयः 11010014a ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः 11010014c अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः 11010015a निहतानात्मजाञ्श्रुत्वा प्रमत्तान्पुरुषर्षभाः 11010015c निनीषन्तः पदं शूराः क्षिप्रमेव यशस्विनि 11010016a पाण्डूनां किल्बिषं कृत्वा संस्थातुं नोत्सहामहे 11010016c अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः 11010017a राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् 11010017c निष्ठान्तं पश्य चापि त्वं क्षत्रधर्मं च केवलम् 11010018a इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् 11010018c कृपश्च कृतवर्मा च द्रोणपुत्रश्च भारत 11010019a अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् 11010019c गङ्गामनु महात्मानस्तूर्णमश्वानचोदयन् 11010020a अपक्रम्य तु ते राजन्सर्व एव महारथाः 11010020c आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्ततः 11010021a जगाम हास्तिनपुरं कृपः शारद्वतस्तदा 11010021c स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ 11010022a एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् 11010022c भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम् 11010023a समेत्य वीरा राजानं तदा त्वनुदिते रवौ 11010023c विप्रजग्मुर्महाराज यथेच्छकमरिंदमाः 11011001 वैशंपायन उवाच 11011001a हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः 11011001c शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात् 11011002a सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम् 11011002c शोचमानो महाराज भ्रातृभिः सहितस्तदा 11011003a अन्वीयमानो वीरेण दाशार्हेण महात्मना 11011003c युयुधानेन च तथा तथैव च युयुत्सुना 11011004a तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता 11011004c सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः 11011005a स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम 11011005c कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह 11011006a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः 11011006c ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये 11011007a क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता 11011007c यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि 11011008a घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् 11011008c मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् 11011009a किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः 11011009c अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत 11011010a अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव 11011010c ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः 11011011a ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः 11011011c न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः 11011012a तमात्मजान्तकरणं पिता पुत्रवधार्दितः 11011012c अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे 11011013a धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत 11011013c दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः 11011014a स कोपपावकस्तस्य शोकवायुसमीरितः 11011014c भीमसेनमयं दावं दिधक्षुरिव दृश्यते 11011015a तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः 11011015c भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् 11011016a प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः 11011016c संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः 11011017a तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम् 11011017c बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् 11011018a नागायुतबलप्राणः स राजा भीममायसम् 11011018c भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् 11011019a ततः पपात मेदिन्यां तथैव रुधिरोक्षितः 11011019c प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः 11011020a पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा 11011020c मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव 11011021a स तु कोपं समुत्सृज्य गतमन्युर्महामनाः 11011021c हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः 11011022a तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् 11011022c वासुदेवो वरः पुंसामिदं वचनमब्रवीत् 11011023a मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः 11011023c आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता 11011024a त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ 11011024c मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः 11011025a न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन 11011025c कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः 11011026a यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते 11011026c एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन 11011027a तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी 11011027c भीमस्य सेयं कौरव्य तवैवोपहृता मया 11011028a पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः 11011028c तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि 11011029a न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् 11011029c न हि पुत्रा महाराज जीवेयुस्ते कथंचन 11011030a तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति 11011030c अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः 11012001 वैशंपायन उवाच 11012001a तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः 11012001c कृतशौचं पुनश्चैनं प्रोवाच मधुसूदनः 11012002a राजन्नधीता वेदास्ते शास्त्राणि विविधानि च 11012002c श्रुतानि च पुराणानि राजधर्माश्च केवलाः 11012003a एवं विद्वान्महाप्राज्ञ नाकार्षीर्वचनं तदा 11012003c पाण्डवानधिकाञ्जानन्बले शौर्ये च कौरव 11012004a राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते 11012004c देशकालविभागं च परं श्रेयः स विन्दति 11012005a उच्यमानं च यः श्रेयो गृह्णीते नो हिताहिते 11012005c आपदं समनुप्राप्य स शोचत्यनये स्थितः 11012006a ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत 11012006c राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः 11012007a आत्मापराधादायस्तस्तत्किं भीमं जिघांससि 11012007c तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् 11012008a यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्सभाम् 11012008c स हतो भीमसेनेन वैरं प्रतिचिकीर्षता 11012009a आत्मनोऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः 11012009c यदनागसि पाण्डूनां परित्यागः परंतप 11012010a एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप 11012010c उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः 11012011a एवमेतन्महाबाहो यथा वदसि माधव 11012011c पुत्रस्नेहस्तु धर्मात्मन्धैर्यान्मां समचालयत् 11012012a दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यविक्रमः 11012012c त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम 11012013a इदानीं त्वहमेकाग्रो गतमन्युर्गतज्वरः 11012013c मध्यमं पाण्डवं वीरं स्प्रष्टुमिच्छामि केशव 11012014a हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च 11012014c पाण्डुपुत्रेषु मे शर्म प्रीतिश्चाप्यवतिष्ठते 11012015a ततः स भीमं च धनंजयं च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 11012015c पस्पर्श गात्रैः प्ररुदन्सुगात्रा;नाश्वास्य कल्याणमुवाच चैनान् 11013001 वैशंपायन उवाच 11013001a धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुंगवाः 11013001c अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः 11013002a ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् 11013002c गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता 11013003a तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति 11013003c ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत 11013004a स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि 11013004c तं देशमुपसंपेदे परमर्षिर्मनोजवः 11013005a दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च 11013005c सर्वप्राणभृतां भावं स तत्र समबुध्यत 11013006a स स्नुषामब्रवीत्काले कल्यवादी महातपाः 11013006c शापकालमवाक्षिप्य शमकालमुदीरयन् 11013007a न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि 11013007c रजो निगृह्यतामेतच्छृणु चेदं वचो मम 11013008a उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता 11013008c शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः 11013009a सा तथा याच्यमाना त्वं काले काले जयैषिणा 11013009c उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः 11013010a न चाप्यतीतां गान्धारि वाचं ते वितथामहम् 11013010c स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि 11013011a सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि 11013011c कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि 11013012 गान्धार्युवाच 11013012a भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः 11013012c पुत्रशोकेन तु बलान्मनो विह्वलतीव मे 11013013a यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया 11013013c यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया 11013014a दुर्योधनापराधेन शकुनेः सौबलस्य च 11013014c कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसंक्षयः 11013015a नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः 11013015c नकुलः सहदेवो वा नैव जातु युधिष्ठिरः 11013016a युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् 11013016c निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम 11013017a यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः 11013017c दुर्योधनं समाहूय गदायुद्धे महामनाः 11013018a शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे 11013018c अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् 11013019a कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः 11013019c त्यजेयुराहवे शूराः प्राणहेतोः कथंचन 11014001 वैशंपायन उवाच 11014001a तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् 11014001c गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा 11014002a अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः 11014002c आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि 11014003a न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः 11014003c शक्यः केनचिदुद्यन्तुमतो विषममाचरम् 11014004a सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् 11014004c मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया 11014005a राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् 11014005c भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव 11014006a सुयोधनमसंगृह्य न शक्या भूः ससागरा 11014006c केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया 11014007a तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् 11014007c द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् 11014008a तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः 11014008c धर्मराजाज्ञया चैव स्थिताः स्म समये तदा 11014009a वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् 11014009c क्लेशिताश्च वने नित्यं तत एतत्कृतं मया 11014010a वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे 11014010c राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः 11014011 गान्धार्युवाच 11014011a न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् 11014011c कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि 11014012a हताश्वे नकुले यत्तद्वृषसेनेन भारत 11014012c अपिबः शोणितं संख्ये दुःशासनशरीरजम् 11014013a सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् 11014013c क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर 11014014 भीमसेन उवाच 11014014a अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् 11014014c यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन 11014015a रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः 11014015c वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ 11014016a हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे 11014016c भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया 11014017a केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते 11014017c क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते 11014018a क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः 11014018c प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् 11014019a न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् 11014019c अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु 11014020 गान्धार्युवाच 11014020a वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः 11014020c कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम् 11014021a संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः 11014021c कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता 11014022a शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि 11014022c न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः 11015001 वैशंपायन उवाच 11015001a एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत 11015001c क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता 11015002a तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः 11015002c युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत् 11015003a पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः 11015003c शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् 11015004a न हि मे जीवितेनार्थो न राज्येन धनेन वा 11015004c तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः 11015005a तमेवंवादिनं भीतं संनिकर्षगतं तदा 11015005c नोवाच किंचिद्गान्धारी निःश्वासपरमा भृशम् 11015006a तस्यावनतदेहस्य पादयोर्निपतिष्यतः 11015006c युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी 11015006e अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा 11015007a ततः स कुनखीभूतो दर्शनीयनखो नृपः 11015007c तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः 11015008a एवं संचेष्टमानांस्तानितश्चेतश्च भारत 11015008c गान्धारी विगतक्रोधा सान्त्वयामास मातृवत् 11015009a तया ते समनुज्ञाता मातरं वीरमातरम् 11015009c अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः 11015010a चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता 11015010c बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् 11015011a ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा 11015011c अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान् 11015012a सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः 11015012c अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम् 11015012e रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि 11015013 द्रौपद्युवाच 11015013a आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः 11015013c न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् 11015013e किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम 11015014 वैशंपायन उवाच 11015014a तां समाश्वासयामास पृथा पृथुललोचना 11015014c उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम् 11015015a तयैव सहिता चापि पुत्रैरनुगता पृथा 11015015c अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् 11015016a तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् 11015016c मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् 11015017a मन्ये लोकविनाशोऽयं कालपर्यायचोदितः 11015017c अवश्यभावी संप्राप्तः स्वभावाल्लोमहर्षणः 11015018a इदं तत्समनुप्राप्तं विदुरस्य वचो महत् 11015018c असिद्धानुनये कृष्णे यदुवाच महामतिः 11015019a तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः 11015019c मा शुचो न हि शोच्यास्ते संग्रामे निधनं गताः 11015020a यथैव त्वं तथैवाहं को वा माश्वासयिष्यति 11015020c ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् 11016001 वैशंपायन उवाच 11016001a एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् 11016001c अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा 11016002a पतिव्रता महाभागा समानव्रतचारिणी 11016002c उग्रेण तपसा युक्ता सततं सत्यवादिनी 11016003a वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः 11016003c दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् 11016004a ददर्श सा बुद्धिमती दूरादपि यथान्तिके 11016004c रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् 11016005a अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् 11016005c शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः 11016006a गजाश्वरथयोधानामावृतं रुधिराविलैः 11016006c शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः 11016007a गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् 11016007c सृगालबडकाकोलकङ्ककाकनिषेवितम् 11016008a रक्षसां पुरुषादानां मोदनं कुरराकुलम् 11016008c अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् 11016009a ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः 11016009c पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः 11016010a वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् 11016010c कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति 11016011a समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः 11016011c अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् 11016012a क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः 11016012c भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः 11016013a रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः 11016013c महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे 11016014a अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः 11016014c शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि 11016015a श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना 11016015c पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् 11016016a दुःखोपहतचित्ताभिः समन्तादनुनादितम् 11016016c दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा 11016017a ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् 11016017c कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् 11016018a पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः 11016018c प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव 11016019a अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् 11016019c पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् 11016020a वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् 11016020c क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् 11016021a शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः 11016021c द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः 11016022a काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् 11016022c अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम् 11016023a वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि 11016023c खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः 11016024a क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् 11016024c क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् 11016025a एतदेवंविधं वीर संपश्यायोधनं विभो 11016025c पश्यमाना च दह्यामि शोकेनाहं जनार्दन 11016026a पाञ्चालानां कुरूणां च विनाशं मधुसूदन 11016026c पञ्चानामिव भूतानां नाहं वधमचिन्तयम् 11016027a तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् 11016027c निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः 11016028a जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः 11016028c अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति 11016029a अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन 11016029c गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् 11016030a अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् 11016030c पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव 11016031a शयनान्युचिताः सर्वे मृदूनि विमलानि च 11016031c विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते 11016032a बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः 11016032c शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः 11016033a ये पुरा शेरते वीराः शयनेषु यशस्विनः 11016033c चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते 11016034a तेषामाभरणान्येते गृध्रगोमायुवायसाः 11016034c आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः 11016035a चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः 11016035c युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति 11016036a सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः 11016036c ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः 11016037a अपरे पुनरालिङ्ग्य गदाः परिघबाहवः 11016037c शेरतेऽभिमुखाः शूरा दयिता इव योषितः 11016038a बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च 11016038c न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन 11016039a क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् 11016039c शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः 11016040a एते गोमायवो भीमा निहतानां यशस्विनाम् 11016040c कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः 11016041a सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः 11016041c स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः 11016042a तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः 11016042c कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् 11016043a रक्तोत्पलवनानीव विभान्ति रुचिराणि वै 11016043c मुखानि परमस्त्रीणां परिशुष्काणि केशव 11016044a रुदितोपरता ह्येता ध्यायन्त्यः संपरिप्लुताः 11016044c कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः 11016045a एतान्यादित्यवर्णानि तपनीयनिभानि च 11016045c रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् 11016046a आसामपरिपूर्णार्थं निशम्य परिदेवितम् 11016046c इतरेतरसंक्रन्दान्न विजानन्ति योषितः 11016047a एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च 11016047c विस्पन्दमाना दुःखेन वीरा जहति जीवितम् 11016048a बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च 11016048c पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः 11016049a शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः 11016049c इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी 11016050a विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः 11016050c मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च 11016051a शिरः कायेन संधाय प्रेक्षमाणा विचेतसः 11016051c अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः 11016052a बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् 11016052c संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः 11016053a उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः 11016053c दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः 11016054a पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन 11016054c प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः 11016055a बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः 11016055c अगम्यकल्पा पृथिवी मांसशोणितकर्दमा 11016056a न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः 11016056c भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम् 11016057a यूथानीव किशोरीणां सुकेशीनां जनार्दन 11016057c स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः 11016058a अतो दुःखतरं किं नु केशव प्रतिभाति मे 11016058c यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः 11016059a नूनमाचरितं पापं मया पूर्वेषु जन्मसु 11016059c या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव 11016059e एवमार्ता विलपती ददर्श निहतं सुतम् 11017001 वैशंपायन उवाच 11017001a ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता 11017001c सहसा न्यपतद्भूमौ छिन्नेव कदली वने 11017002a सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः 11017002c दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् 11017003a परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् 11017003c हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया 11017004a सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् 11017004c वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता 11017004e समीपस्थं हृषीकेशमिदं वचनमब्रवीत् 11017005a उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो 11017005c मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः 11017005e अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे 11017006a इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् 11017006c अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः 11017007a यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक 11017007c ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो 11017008a इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो 11017008c धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् 11017009a अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् 11017009c शयानं वीरशयने पश्य माधव मे सुतम् 11017010a योऽयं मूर्धावसिक्तानामग्रे याति परंतपः 11017010c सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् 11017011a ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः 11017011c तथा ह्यभिमुखः शेते शयने वीरसेविते 11017012a यं पुरा पर्युपासीना रमयन्ति महीक्षितः 11017012c महीतलस्थं निहतं गृध्रास्तं पर्युपासते 11017013a यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः 11017013c तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः 11017014a एष शेते महाबाहुर्बलवान्सत्यविक्रमः 11017014c सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः 11017015a पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् 11017015c निहतं भीमसेनेन गदामुद्यम्य भारत 11017016a अक्षौहिणीर्महाबाहुर्दश चैकां च केशव 11017016c अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः 11017017a एष दुर्योधनः शेते महेष्वासो महारथः 11017017c शार्दूल इव सिंहेन भीमसेनेन पातितः 11017018a विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् 11017018c बालो वृद्धावमानेन मन्दो मृत्युवशं गतः 11017019a निःसपत्ना मही यस्य त्रयोदश समाः स्थिता 11017019c स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः 11017020a अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् 11017020c पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् 11017021a तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् 11017021c हीनां हस्तिगवाश्वेन किं नु जीवामि माधव 11017022a इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम 11017022c यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः 11017023a प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् 11017023c रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् 11017024a नूनमेषा पुरा बाला जीवमाने महाभुजे 11017024c भुजावाश्रित्य रमते सुभुजस्य मनस्विनी 11017025a कथं तु शतधा नेदं हृदयं मम दीर्यते 11017025c पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे 11017026a पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता 11017026c दुर्योधनं तु वामोरूः पाणिना परिमार्जति 11017027a किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी 11017027c तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा 11017028a स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा 11017028c पतत्युरसि वीरस्य कुरुराजस्य माधव 11017029a पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा 11017029c मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी 11017030a यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा 11017030c ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् 11018001 गान्धार्युवाच 11018001a पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान् 11018001c गदया भीमसेनेन भूयिष्ठं निहतान्रणे 11018002a इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः 11018002c हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः 11018003a प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः 11018003c आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् 11018004a गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा 11018004c शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत 11018005a एषान्या त्वनवद्याङ्गी करसंमितमध्यमा 11018005c घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता 11018006a दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम् 11018006c राजपुत्रीं महाबाहो मनो न व्युपशाम्यति 11018007a भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि 11018007c दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् 11018008a मध्यमानां तु नारीणां वृद्धानां चापराजित 11018008c आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु 11018009a रथनीडानि देहांश्च हतानां गजवाजिनाम् 11018009c आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल 11018010a अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् 11018010c स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति 11018011a पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ 11018011c एताभिरनवद्याभिर्मया चैवाल्पमेधया 11018012a तदिदं धर्मराजेन यातितं नो जनार्दन 11018012c न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः 11018013a प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः 11018013c कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः 11018014a हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः 11018014c सारस्य इव वाशन्त्यः पतिताः पश्य माधव 11018015a फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् 11018015c अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् 11018016a ईर्षूणां मम पुत्राणां वासुदेवावरोधनम् 11018016c मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः 11018017a शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् 11018017c रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् 11018018a शीर्षत्राणानि चैतानि पुत्राणां मे महीतले 11018018c पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव 11018019a एष दुःशासनः शेते शूरेणामित्रघातिना 11018019c पीतशोणितसर्वाङ्गो भीमसेनेन पातितः 11018020a गदया वीरघातिन्या पश्य माधव मे सुतम् 11018020c द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च 11018021a उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता 11018021c प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन 11018022a सहैव सहदेवेन नकुलेनार्जुनेन च 11018022c दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् 11018023a ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम् 11018023c मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय 11018024a निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम् 11018024c क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः 11018025a न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् 11018025c वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् 11018026a तानेष रभसः क्रूरो वाक्शल्यानवधारयन् 11018026c उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव 11018027a एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ 11018027c निहतो भीमसेनेन सिंहेनेव महर्षभः 11018028a अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः 11018028c दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे 11019001 गान्धार्युवाच 11019001a एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः 11019001c भूमौ विनिहतः शेते भीमेन शतधा कृतः 11019002a गजमध्यगतः शेते विकर्णो मधुसूदन 11019002c नीलमेघपरिक्षिप्तः शरदीव दिवाकरः 11019003a अस्य चापग्रहेणैष पाणिः कृतकिणो महान् 11019003c कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् 11019004a अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी 11019004c वारयत्यनिशं बाला न च शक्नोति माधव 11019005a युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ 11019005c सुखोचितः सुखार्हश्च शेते पांसुषु माधव 11019006a कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे 11019006c अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् 11019007a एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता 11019007c दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे 11019008a तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् 11019008c विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः 11019009a शूरस्य हि रणे कृष्ण यस्याननमथेदृशम् 11019009c स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः 11019010a यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते 11019010c स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् 11019011a चित्रसेनं हतं भूमौ शयानं मधुसूदन 11019011c धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम् 11019012a तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः 11019012c क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते 11019013a स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् 11019013c चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे 11019014a युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः 11019014c विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव 11019015a शरसंकृत्तवर्माणं वीरं विशसने हतम् 11019015c परिवार्यासते गृध्राः परिविंशा विविंशतिम् 11019016a प्रविश्य समरे वीरः पाण्डवानामनीकिनीम् 11019016c आविश्य शयने शेते पुनः सत्पुरुषोचितम् 11019017a स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् 11019017c अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः 11019018a यं स्म तं पर्युपासन्ते वसुं वासवयोषितः 11019018c क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः 11019019a हन्तारं वीरसेनानां शूरं समितिशोभनम् 11019019c निबर्हणममित्राणां दुःसहं विषहेत कः 11019020a दुःसहस्यैतदाभाति शरीरं संवृतं शरैः 11019020c गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः 11019021a शातकौम्भ्या स्रजा भाति कवचेन च भास्वता 11019021c अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः 11020001 गान्धार्युवाच 11020001a अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव 11020001c पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् 11020002a यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् 11020002c स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः 11020003a तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः 11020003c अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति 11020004a एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः 11020004c आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता 11020005a तमेषा हि समासाद्य भार्या भर्तारमन्तिके 11020005c विराटदुहिता कृष्ण पाणिना परिमार्जति 11020006a तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी 11020006c विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् 11020007a काम्यरूपवती चैषा परिष्वजति भामिनी 11020007c लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता 11020008a तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम् 11020008c विमुच्य कवचं कृष्ण शरीरमभिवीक्षते 11020009a अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते 11020009c अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः 11020010a बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ 11020010c रूपेण च तवात्यर्थं शेते भुवि निपातितः 11020011a अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः 11020011c कच्चिदद्य शरीरं ते भूमौ न परितप्यते 11020012a मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ 11020012c काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ 11020013a व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव 11020013c एवं विलपतीमार्तां न हि मामभिभाषसे 11020014a आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् 11020014c पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि 11020015a तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना 11020015c उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति 11020015e स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 11020016a कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः 11020016c धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् 11020017a द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः 11020017c रथर्षभाणां सर्वेषां कथमासीत्तदा मनः 11020018a बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् 11020018c कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् 11020018e त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् 11020019a दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् 11020019c वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः 11020020a न राज्यलाभो विपुलः शत्रूणां वा पराभवः 11020020c प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण 11020021a तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च 11020021c क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय 11020022a दुर्मरं पुनरप्राप्ते काले भवति केनचित् 11020022c यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा 11020023a कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा 11020023c पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि 11020024a नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि 11020024c परमेण च रूपेण गिरा च स्मितपूर्वया 11020025a प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् 11020025c सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे 11020026a एतावानिह संवासो विहितस्ते मया सह 11020026c षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः 11020027a इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् 11020027c उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः 11020028a उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् 11020028c विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च 11020029a द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम् 11020029c विराटं वितुदन्त्येते गृध्रगोमायुवायसाः 11020030a वितुद्यमानं विहगैर्विराटमसितेक्षणाः 11020030c न शक्नुवन्ति विवशा निवर्तयितुमातुराः 11020031a आसामातपतप्तानामायासेन च योषिताम् 11020031c श्रमेण च विवर्णानां रूपाणां विगतं वपुः 11020032a उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् 11020032c शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् 11020032e आयोधनशिरोमध्ये शयानं पश्य माधव 11021001 गान्धार्युवाच 11021001a एष वैकर्तनः शेते महेष्वासो महारथः 11021001c ज्वलितानलवत्संख्ये संशान्तः पार्थतेजसा 11021002a पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् 11021002c शोणितौघपरीताङ्गं शयानं पतितं भुवि 11021003a अमर्षी दीर्घरोषश्च महेष्वासो महारथः 11021003c रणे विनिहतः शेते शूरो गाण्डीवधन्वना 11021004a यं स्म पाण्डवसंत्रासान्मम पुत्रा महारथाः 11021004c प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् 11021005a शार्दूलमिव सिंहेन समरे सव्यसाचिना 11021005c मातङ्गमिव मत्तेन मातङ्गेन निपातितम् 11021006a समेताः पुरुषव्याघ्र निहतं शूरमाहवे 11021006c प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते 11021007a उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः 11021007c त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत 11021008a अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव 11021008c युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः 11021009a स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव 11021009c भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः 11021010a पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् 11021010c लालप्यमानाः करुणं रुदतीं पतितां भुवि 11021011a आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमियं धरा ते 11021011c ततः शरेणापहृतं शिरस्ते; धनंजयेनाहवे शत्रुमध्ये 11021012a अहो धिगेषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम् 11021012c कर्णं महाबाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता 11021013a अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः 11021013c द्रष्टुं न संप्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे 11021014a सावर्तमाना पतिता पृथिव्या;मुत्थाय दीना पुनरेव चैषा 11021014c कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता 11022001 गान्धार्युवाच 11022001a आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् 11022001c गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् 11022002a तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन 11022002c शयानं वीरशयने रुधिरेण समुक्षितम् 11022003a तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः 11022003c तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् 11022004a शयानं वीरशयने वीरमाक्रन्दसारिणम् 11022004c आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते 11022005a प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् 11022005c प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् 11022006a अतीव मुखवर्णोऽस्य निहतस्यापि शोभते 11022006c सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः 11022007a पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता 11022007c पाकशासनिना संख्ये वार्द्धक्षत्रिर्निपातितः 11022008a एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना 11022008c सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् 11022009a सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् 11022009c भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् 11022010a संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत 11022010c भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् 11022011a तमेताः पर्युपासन्ते रक्षमाणा महाभुजम् 11022011c सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः 11022012a यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह 11022012c तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः 11022013a दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः 11022013c कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः 11022014a सैषा मम सुता बाला विलपन्ती सुदुःखिता 11022014c प्रमापयति चात्मानमाक्रोशति च पाण्डवान् 11022015a किं नु दुःखतरं कृष्ण परं मम भविष्यति 11022015c यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः 11022016a अहो धिग्दुःशलां पश्य वीतशोकभयामिव 11022016c शिरो भर्तुरनासाद्य धावमानामितस्ततः 11022017a वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः 11022017c स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः 11022018a तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् 11022018c परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः 11023001 गान्धार्युवाच 11023001a एष शल्यो हतः शेते साक्षान्नकुलमातुलः 11023001c धर्मज्ञेन सता तात धर्मराजेन संयुगे 11023002a यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ 11023002c स एष निहतः शेते मद्रराजो महारथः 11023003a येन संगृह्णता तात रथमाधिरथेर्युधि 11023003c जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः 11023004a अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् 11023004c मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् 11023005a एषा चामीकराभस्य तप्तकाञ्चनसप्रभा 11023005c आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः 11023006a युधिष्ठिरेण निहतं शल्यं समितिशोभनम् 11023006c रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः 11023007a एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् 11023007c क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् 11023008a शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः 11023008c वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् 11023009a शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् 11023009c शयानं वीरशयने शरैर्विशकलीकृतम् 11023010a एष शैलालयो राजा भगदत्तः प्रतापवान् 11023010c गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः 11023011a यस्य रुक्ममयी माला शिरस्येषा विराजते 11023011c श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् 11023012a एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् 11023012c लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा 11023013a योधयित्वा महाबाहुरेष पार्थं धनंजयम् 11023013c संशयं गमयित्वा च कुन्तीपुत्रेण पातितः 11023014a यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन 11023014c स एष निहतः शेते भीष्मो भीष्मकृदाहवे 11023015a पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम् 11023015c युगान्त इव कालेन पातितं सूर्यमम्बरात् 11023016a एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् 11023016c नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव 11023017a शरतल्पगतं वीरं धर्मे देवापिना समम् 11023017c शयानं वीरशयने पश्य शूरनिषेविते 11023018a कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् 11023018c आविश्य शेते भगवान्स्कन्दः शरवणं यथा 11023019a अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् 11023019c उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना 11023020a पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः 11023020c एष शांतनवः शेते माधवाप्रतिमो युधि 11023021a धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये 11023021c अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् 11023022a नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी 11023022c यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः 11023023a स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः 11023023c धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना 11023024a प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः 11023024c स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् 11023025a धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव 11023025c गते देवव्रते स्वर्गं देवकल्पे नरर्षभे 11023026a अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा 11023026c तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् 11023027a अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः 11023027c भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव 11023028a यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् 11023028c चकार स हतः शेते नैनमस्त्राण्यपालयन् 11023029a यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् 11023029c सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः 11023030a यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् 11023030c स भूमौ निहतः शेते शान्तार्चिरिव पावकः 11023031a धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव 11023031c द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा 11023032a वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव 11023032c अनपेतानि वै शूराद्यथैवादौ प्रजापतेः 11023033a वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ 11023033c गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ 11023034a द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन 11023034c कृपी कृपणमन्वास्ते दुःखोपहतचेतना 11023035a तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् 11023035c हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् 11023036a बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव 11023036c उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी 11023037a प्रेतकृत्ये च यतते कृपी कृपणमातुरा 11023037c हतस्य समरे भर्तुः सुकुमारी यशस्विनी 11023038a अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः 11023038c द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः 11023039a किरन्ति च चितामेते जटिला ब्रह्मचारिणः 11023039c धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव 11023040a शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् 11023040c त एते द्रोणमाधाय शंसन्ति च रुदन्ति च 11023041a सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे 11023041c अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने 11023042a गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः 11023042c अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा 11024001 गान्धार्युवाच 11024001a सोमदत्तसुतं पश्य युयुधानेन पातितम् 11024001c वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके 11024002a पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन 11024002c युयुधानं महेष्वासं गर्हयन्निव दृश्यते 11024003a असौ तु भूरिश्रवसो माता शोकपरिप्लुता 11024003c आश्वासयति भर्तारं सोमदत्तमनिन्दिता 11024004a दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् 11024004c कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि 11024005a दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् 11024005c अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि 11024006a दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु 11024006c न शृणोषि महाराज सारसीनामिवार्णवे 11024007a एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः 11024007c स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः 11024008a श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि 11024008c छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् 11024009a शलं विनिहतं संख्ये भूरिश्रवसमेव च 11024009c स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि 11024010a दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः 11024010c विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि 11024011a अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् 11024011c परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः 11024012a एता विलप्य बहुलं भर्तृशोकेन कर्शिताः 11024012c पतन्त्यभिमुखा भूमौ कृपणं बत केशव 11024013a बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् 11024013c प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः 11024014a ततः पापतरं कर्म कृतवानपि सात्यकिः 11024014c यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः 11024015a एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः 11024015c इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव 11024016a भार्या यूपध्वजस्यैषा करसंमितमध्यमा 11024016c कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् 11024017a अयं स रशनोत्कर्षी पीनस्तनविमर्दनः 11024017c नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः 11024018a वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा 11024018c युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः 11024019a किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन 11024019c अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् 11024020a इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना 11024020c तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् 11024021a गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः 11024021c निहतः सहदेवेन भागिनेयेन मातुलः 11024022a यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते 11024022c स एष पक्षिभिः पक्षैः शयान उपवीज्यते 11024023a यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः 11024023c तस्य मायाविनो माया दग्धाः पाण्डवतेजसा 11024024a मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् 11024024c सभायां विपुलं राज्यं स पुनर्जीवितं जितः 11024025a शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते 11024025c कितवं मम पुत्राणां विनाशायोपशिक्षितम् 11024026a एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह 11024026c वधाय मम पुत्राणामात्मनः सगणस्य च 11024027a यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो 11024027c एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः 11024028a कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह 11024028c विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन 11025001 गान्धार्युवाच 11025001a काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् 11025001c शयानमृषभस्कन्धं हतं पांसुशु माधव 11025002a यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ 11025002c अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता 11025003a इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली 11025003c ययोर्विवरमापन्नां न रतिर्मां पुराजहत् 11025004a कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर 11025004c दूरबन्धुरनाथेव अतीव मधुरस्वरा 11025005a आतपे क्लाम्यमानानां विविधानामिव स्रजाम् 11025005c क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् 11025006a शयानमभितः शूरं कालिङ्गं मधुसूदन 11025006c पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् 11025007a मागधानामधिपतिं जयत्सेनं जनार्दन 11025007c परिवार्य प्ररुदिता मागध्यः पश्य योषितः 11025008a आसामायतनेत्राणां सुस्वराणां जनार्दन 11025008c मनःश्रुतिहरो नादो मनो मोहयतीव मे 11025009a प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः 11025009c स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि 11025010a कोसलानामधिपतिं राजपुत्रं बृहद्बलम् 11025010c भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः 11025011a अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् 11025011c उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः 11025012a आसां सर्वानवद्यानामातपेन परिश्रमात् 11025012c प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव 11025013a द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः 11025013c द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः 11025014a तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः 11025014c भासयन्ति महीं भासा ज्वलिता इव पावकाः 11025015a द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम् 11025015c महाद्विपमिवारण्ये सिंहेन महता हतम् 11025016a पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् 11025016c आतपत्रं समाभाति शरदीव दिवाकरः 11025017a एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः 11025017c दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः 11025018a धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः 11025018c द्रोणेन निहतं शूरं हरन्ति हृतचेतसः 11025019a द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन 11025019c महेष्वासो हतः शेते नद्या हृत इव द्रुमः 11025020a एष चेदिपतिः शूरो धृष्टकेतुर्महारथः 11025020c शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः 11025021a वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः 11025021c चेदिराजं हृषीकेश हतं सबलबान्धवम् 11025022a दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् 11025022c आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः 11025023a अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् 11025023c द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः 11025024a पितरं नूनमाजिस्थं युध्यमानं परैः सह 11025024c नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन 11025025a एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् 11025025c दुर्योधनं महाबाहो लक्ष्मणः परवीरहा 11025026a विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव 11025026c हिमान्ते पुष्पितौ शालौ मरुता गलिताविव 11025027a काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ 11025027c ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ 11025028a अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह 11025028c ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् 11025029a दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् 11025029c सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः 11025029e ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः 11025030a त इमे निहताः संख्ये पश्य कालस्य पर्ययम् 11025030c नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन 11025030e यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः 11025031a तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः 11025031c यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः 11025032a शंतनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च 11025032c तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति 11025033a तयोर्न दर्शनं तात मिथ्या भवितुमर्हति 11025033c अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन 11025034 वैशंपायन उवाच 11025034a इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता 11025034c दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत 11025035a ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता 11025035c जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया 11025036 गान्धार्युवाच 11025036a पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् 11025036c उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन 11025037a शक्तेन बहुभृत्येन विपुले तिष्ठता बले 11025037c उभयत्र समर्थेन श्रुतवाक्येन चैव ह 11025038a इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन 11025038c यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि 11025039a पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम् 11025039c तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर 11025040a यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः 11025040c उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि 11025041a त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन 11025041c हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः 11025041e कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि 11025042a तवाप्येवं हतसुता निहतज्ञातिबान्धवाः 11025042c स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः 11025043 वैशंपायन उवाच 11025043a तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः 11025043c उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव 11025044a संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे 11025044c जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये 11025045a अवध्यास्ते नरैरन्यैरपि वा देवदानवैः 11025045c परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः 11025046a इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः 11025046c बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते 11026001 वासुदेव उवाच 11026001a उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः 11026001c तवैव ह्यपराधेन कुरवो निधनं गताः 11026002a या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् 11026002c दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे 11026003a निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् 11026003c कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि 11026004a मृतं वा यदि वा नष्टं योऽतीतमनुशोचति 11026004c दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 11026005a तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरंगी 11026005c शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री 11026006 वैशंपायन उवाच 11026006a तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् 11026006c तूष्णीं बभूव गान्धारी शोकव्याकुललोचना 11026007a धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः 11026007c पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् 11026008a जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव 11026008c हतानां यदि जानीषे परिमाणं वदस्व मे 11026009 युधिष्ठिर उवाच 11026009a दशायुतानामयुतं सहस्राणि च विंशतिः 11026009c कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः 11026010a अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश 11026010c दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च 11026011 धृतराष्ट्र उवाच 11026011a युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः 11026011c आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः 11026012 युधिष्ठिर उवाच 11026012a यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे 11026012c देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः 11026013a ये त्वहृष्टेन मनसा मर्तव्यमिति भारत 11026013c युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः 11026014a ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः 11026014c शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति 11026015a पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः 11026015c ह्रीनिषेधा महात्मानः परानभिमुखा रणे 11026016a छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः 11026016c गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः 11026017a ये तत्र निहता राजन्नन्तरायोधनं प्रति 11026017c यथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून् 11026018 धृतराष्ट्र उवाच 11026018a केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् 11026018c तन्मे वद महाबाहो श्रोतव्यं यदि वै मया 11026019 युधिष्ठिर उवाच 11026019a निदेशाद्भवतः पूर्वं वने विचरता मया 11026019c तीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः 11026020a देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् 11026020c दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा 11026021 धृतराष्ट्र उवाच 11026021a येऽत्रानाथा जनस्यास्य सनाथा ये च भारत 11026021c कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् 11026022a न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः 11026022c वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः 11026023a यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः 11026023c तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर 11026024 वैशंपायन उवाच 11026024a एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः 11026024c आदिदेश सुधर्माणं धौम्यं सूतं च संजयम् 11026025a विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् 11026025c इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः 11026026a भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः 11026026c यथा चानाथवत्किंचिच्छरीरं न विनश्यति 11026027a शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयः 11026027c सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा 11026028a चन्दनागुरुकाष्ठानि तथा कालीयकान्युत 11026028c घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च 11026029a समाहृत्य महार्हाणि दारूणां चैव संचयान् 11026029c रथांश्च मृदितांस्तत्र नानाप्रहरणानि च 11026030a चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् 11026030c दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा 11026031a दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् 11026031c शल्यं शलं च राजानं भूरिश्रवसमेव च 11026032a जयद्रथं च राजानमभिमन्युं च भारत 11026032c दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् 11026033a बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् 11026033c राजानं क्षेमधन्वानं विराटद्रुपदौ तथा 11026034a शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् 11026034c युधामन्युं च विक्रान्तमुत्तमौजसमेव च 11026035a कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् 11026035c अचलं वृषकं चैव भगदत्तं च पार्थिवम् 11026036a कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् 11026036c केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् 11026037a घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च 11026037c अलम्बुसं च राजानं जलसंधं च पार्थिवम् 11026038a अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः 11026038c घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् 11026039a पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम् 11026039c सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः 11026040a साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः 11026040c कश्मलं सर्वभूतानां निशायां समपद्यत 11026041a ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः 11026041c नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः 11026042a ये चाप्यनाथास्तत्रासन्नानादेशसमागताः 11026042c तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः 11026043a चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः 11026043c दाहयामास विदुरो धर्मराजस्य शासनात् 11026044a कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः 11026044c धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् 11027001 वैशंपायन उवाच 11027001a ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् 11027001c ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम् 11027002a भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च 11027002c ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च 11027003a पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः 11027003c उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः 11027003e सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः 11027004a उदके क्रियमाणे तु वीराणां वीरपत्निभिः 11027004c सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च 11027005a तन्महोदधिसंकाशं निरानन्दमनुत्सवम् 11027005c वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत 11027006a ततः कुन्ती महाराज सहसा शोककर्शिता 11027006c रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् 11027007a यः स शूरो महेष्वासो रथयूथपयूथपः 11027007c अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः 11027008a यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः 11027008c यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः 11027009a प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् 11027009c दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत 11027010a यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन 11027010c सत्यसंधस्य शूरस्य संग्रामेष्वपलायिनः 11027011a कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः 11027011c स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत 11027011e कुण्डली कवची शूरो दिवाकरसमप्रभः 11027012a श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् 11027012c कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् 11027013a ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः 11027013c उवाच मातरं वीरो निःश्वसन्निव पन्नगः 11027014a यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनंजयात् 11027014c कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् 11027015a यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् 11027015c तमग्निमिव वस्त्रेण कथं छादितवत्यसि 11027015e यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् 11027016a नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी 11027016c स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः 11027016e असूत तं भवत्यग्रे कथमद्भुतविक्रमम् 11027017a अहो भवत्या मन्त्रस्य पिधानेन वयं हताः 11027017c निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः 11027018a अभिमन्योर्विनाशेन द्रौपदेयवधेन च 11027018c पाञ्चालानां च नाशेन कुरूणां पतनेन च 11027019a ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् 11027019c कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः 11027020a न हि स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम् 11027020c न च स्म वैशसं घोरं कौरवान्तकरं भवेत् 11027021a एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः 11027021c विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः 11027022a ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः 11027022c अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि 11027023a तत आनाययामास कर्णस्य सपरिच्छदम् 11027023c स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः 11027024a स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् 11027024c कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः