% Mahabharata: Sauptikaparvan % Last updated: Thu Feb 26 2009 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 10001001 संजय उवाच 10001001a ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः 10001001c उपास्तमयवेलायां शिबिराभ्याशमागताः 10001002a विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा 10001002c गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते 10001003a सेनानिवेशमभितो नातिदूरमवस्थिताः 10001003c निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः 10001004a दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् 10001004c श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् 10001005a अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः 10001005c ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः 10001006a नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः 10001006c राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः 10001007 धृतराष्ट्र उवाच 10001007a अश्रद्धेयमिदं कर्म कृतं भीमेन संजय 10001007c यत्स नागायुतप्राणः पुत्रो मम निपातितः 10001008a अवध्यः सर्वभूतानां वज्रसंहननो युवा 10001008c पाण्डवैः समरे पुत्रो निहतो मम संजय 10001009a न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः 10001009c यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः 10001010a अद्रिसारमयं नूनं हृदयं मम संजय 10001010c हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा 10001011a कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति 10001011c न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे 10001012a कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय 10001012c प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् 10001013a आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय 10001013c कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् 10001014a कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय 10001014c येन पुत्रशतं पूर्णमेकेन निहतं मम 10001015a कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः 10001015c अकुर्वता वचस्तेन मम पुत्रेण संजय 10001016a अधर्मेण हते तात पुत्रे दुर्योधने मम 10001016c कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय 10001017 संजय उवाच 10001017a गत्वा तु तावका राजन्नातिदूरमवस्थिताः 10001017c अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् 10001018a ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः 10001018c सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् 10001019a नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम् 10001019c नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् 10001020a नानातोयसमाकीर्णं तडागैरुपशोभितम् 10001020c पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम् 10001021a प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः 10001021c शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः 10001022a उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः 10001022c ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् 10001023a तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः 10001023c उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो 10001024a ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे 10001024c सर्वस्य जगतो धात्री शर्वरी समपद्यत 10001025a ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलंकृतम् 10001025c नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः 10001026a ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः 10001026c दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः 10001027a रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः 10001027c क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी 10001028a तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः 10001028c कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् 10001029a तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः 10001029c तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् 10001030a निद्रया च परीताङ्गा निषेदुर्धरणीतले 10001030c श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः 10001031a ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ 10001031c सुखोचितावदुःखार्हौ निषण्णौ धरणीतले 10001031e तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ 10001032a क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत 10001032c नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् 10001033a न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना 10001033c वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् 10001034a वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम् 10001034c अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् 10001035a तत्र काकसहस्राणि तां निशां पर्यणामयन् 10001035c सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः 10001036a सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः 10001036c सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् 10001037a महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम् 10001037c सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् 10001038a सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः 10001038c न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत 10001039a संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः 10001039c सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः 10001040a केषांचिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह 10001040c चरणांश्चैव केषांचिद्बभञ्ज चरणायुधः 10001041a क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः 10001041c तेषां शरीरावयवैः शरीरैश्च विशां पते 10001041e न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत् 10001042a तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत् 10001042c प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः 10001043a तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि 10001043c तद्भावकृतसंकल्पो द्रौणिरेको व्यचिन्तयत् 10001044a उपदेशः कृतोऽनेन पक्षिणा मम संयुगे 10001044c शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः 10001045a नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः 10001045c बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः 10001045e राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया 10001046a पतंगाग्निसमां वृत्तिमास्थायात्मविनाशिनीम् 10001046c न्यायतो युध्यमानस्य प्राणत्यागो न संशयः 10001046e छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् 10001047a तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत् 10001047c तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः 10001048a यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम् 10001048c कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता 10001049a निन्दितानि च सर्वाणि कुत्सितानि पदे पदे 10001049c सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः 10001050a अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः 10001050c श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः 10001051a परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः 10001051c प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् 10001052a निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम् 10001052c भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् 10001053a इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे 10001053c पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् 10001054a स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः 10001054c सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च 10001055a नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः 10001055c स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् 10001056a हतो दुर्योधनो राजा एकवीरो महाबलः 10001056c यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह 10001057a एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः 10001057c पातितो भीमसेनेन एकादशचमूपतिः 10001058a वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम् 10001058c मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता 10001059a विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च 10001059c धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् 10001060a वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः 10001060c अनिलेनेरितो घोरो दिशः पूरयतीव हि 10001061a अश्वानां हेषमाणानां गजानां चैव बृंहताम् 10001061c सिंहनादश्च शूराणां श्रूयते सुमहानयम् 10001062a दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम् 10001062c रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः 10001063a पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम् 10001063c वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे 10001064a केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः 10001064c निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् 10001065a एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः 10001065c यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे 10001066a भवतोस्तु यदि प्रज्ञा न मोहादपचीयते 10001066c व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् 10002001 कृप उवाच 10002001a श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो 10002001c ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज 10002002a आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः 10002002c दैवे पुरुषकारे च परं ताभ्यां न विद्यते 10002003a न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम 10002003c न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः 10002004a ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः 10002004c प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः 10002005a पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम् 10002005c कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् 10002006a उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम् 10002006c व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः 10002007a प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते 10002007c बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी 10002008a तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते 10002008c प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः 10002009a ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ 10002009c विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि 10002010a कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति 10002010c तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् 10002011a उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम् 10002011c अफलं दृश्यते लोके सम्यगप्युपपादितम् 10002012a तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः 10002012c उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते 10002013a प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि 10002013c अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् 10002014a चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छया 10002014c यो वा न लभते कृत्वा दुर्दशौ तावुभावपि 10002015a शक्नोति जीवितुं दक्षो नालसः सुखमेधते 10002015c दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः 10002016a यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम् 10002016c नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति 10002017a अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः 10002017c स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः 10002018a एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा 10002018c स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः 10002019a हीनं पुरुषकारेण यदा दैवेन वा पुनः 10002019c कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् 10002019e हीनं पुरुषकारेण कर्म त्विह न सिध्यति 10002020a दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते 10002020c दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते 10002021a सम्यगीहा पुनरियं यो वृद्धानुपसेवते 10002021c आपृच्छति च यच्छ्रेयः करोति च हितं वचः 10002022a उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः 10002022c तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते 10002023a वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत् 10002023c उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् 10002024a रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः 10002024c अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः 10002025a सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना 10002025c असमर्थ्य समारब्धो मूढत्वादविचिन्तितः 10002026a हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह 10002026c वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः 10002027a पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति 10002027c तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः 10002028a अन्वावर्तामहि वयं यत्तु तं पापपूरुषम् 10002028c अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् 10002029a अनेन तु ममाद्यापि व्यसनेनोपतापिता 10002029c बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते 10002030a मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः 10002030c ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् 10002031a ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह 10002031c उपपृच्छामहे गत्वा विदुरं च महामतिम् 10002032a ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम् 10002032c तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः 10002033a अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित् 10002033c कृते पुरुषकारे च येषां कार्यं न सिध्यति 10002033e दैवेनोपहतास्ते तु नात्र कार्या विचारणा 10003001 संजय उवाच 10003001a कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् 10003001c अश्वत्थामा महाराज दुःखशोकसमन्वितः 10003002a दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा 10003002c क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत 10003003a पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना 10003003c तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया 10003004a सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् 10003004c सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति 10003005a सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता 10003005c परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् 10003006a कारणान्तरयोगेन योगे येषां समा मतिः 10003006c तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् 10003007a तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा 10003007c कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते 10003008a अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः 10003008c चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते 10003009a यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि 10003009c भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो 10003010a एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः 10003010c प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः 10003011a अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः 10003011c मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् 10003012a व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् 10003012c अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् 10003013a एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा 10003013c भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते 10003014a निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति 10003014c तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका 10003015a सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः 10003015c कर्तुमारभते प्रीतो मरणादिषु कर्मसु 10003016a सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः 10003016c चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते 10003017a उपजाता व्यसनजा येयमद्य मतिर्मम 10003017c युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् 10003018a प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च 10003018c वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् 10003019a ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् 10003019c दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् 10003020a अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः 10003020c अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् 10003021a सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते 10003021c मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः 10003022a क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् 10003022c प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् 10003023a धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे 10003023c पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि 10003024a सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् 10003024c गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः 10003025a अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः 10003025c विमुक्तयुग्यकवचा हर्षेण च समन्विताः 10003025e वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च 10003026a तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके 10003026c अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् 10003027a तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः 10003027c सूदयिष्यामि विक्रम्य मघवानिव दानवान् 10003028a अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् 10003028c सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः 10003028e निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम 10003029a पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे 10003029c पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव 10003030a अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च 10003030c अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा 10003031a अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् 10003031c प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः 10003032a दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि 10003032c गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् 10003033a अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि 10003033c विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् 10003034a अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि 10003034c खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम 10003035a अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके 10003035c कृतकृत्यः सुखी चैव भविष्यामि महामते 10004001 कृप उवाच 10004001a दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत 10004001c न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् 10004002a अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ 10004002c अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः 10004003a अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः 10004003c परानभिमुखं यान्तं रथावास्थाय दंशितौ 10004004a आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे 10004004c विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् 10004005a शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् 10004005c चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् 10004006a विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद 10004006c समेत्य समरे शत्रून्वधिष्यसि न संशयः 10004007a न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम् 10004007c जेतुमुत्सहते कश्चिदपि देवेषु पावकिः 10004008a कृपेण सहितं यान्तं युक्तं च कृतवर्मणा 10004008c को द्रौणिं युधि संरब्धं योधयेदपि देवराट् 10004009a ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः 10004009c प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् 10004010a तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः 10004010c सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः 10004011a ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् 10004011c प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् 10004011e विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् 10004012a अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम 10004012c अनुयास्याव सहितौ धन्विनौ परतापिनौ 10004012e रथिनं त्वरया यान्तं रथावास्थाय दंशितौ 10004013a स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे 10004013c ततः कर्तासि शत्रूणां युध्यतां कदनं महत् 10004014a कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि 10004014c विहरस्व यथा शक्रः सूदयित्वा महासुरान् 10004015a त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् 10004015c दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः 10004016a मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा 10004016c न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् 10004017a न चाहं समरे तात कृतवर्मा तथैव च 10004017c अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् 10004018a हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह 10004018c निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् 10004019a सर्वोपायैः सहायास्ते प्रभाते वयमेव हि 10004019c सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ 10004020a एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः 10004020c अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने 10004021a आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च 10004021c अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः 10004022a तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम् 10004022c यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् 10004023a किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् 10004023c हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति 10004024a यथा च निहतः पापैः पिता मम विशेषतः 10004024c प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति 10004025a कथं हि मादृशो लोके मुहूर्तमपि जीवति 10004025c द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् 10004026a दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे 10004026c स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः 10004027a विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः 10004027c स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् 10004028a कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् 10004028c नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः 10004029a यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः 10004029c शोकं मे वर्धयत्येष वारिवेग इवार्णवम् 10004029e एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् 10004030a वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् 10004030c अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल 10004031a न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन 10004031c न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् 10004031e इति मे निश्चिता बुद्धिरेषा साधुमता च मे 10004032a वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः 10004032c पाण्डवानां च विजयो हृदयं दहतीव मे 10004033a अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके 10004033c ततो विश्रमिता चैव स्वप्ता च विगतज्वरः 10005001 कृप उवाच 10005001a शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः 10005001c नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः 10005002a तथैव तावन्मेधावी विनयं यो न शिक्षति 10005002c न च किंचन जानाति सोऽपि धर्मार्थनिश्चयम् 10005003a शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः 10005003c जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् 10005004a अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः 10005004c दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् 10005005a नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् 10005005c निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते 10005006a यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते 10005006c तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति 10005007a तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम् 10005007c प्राज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः 10005008a स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना 10005008c कुरु मे वचनं तात येन पश्चान्न तप्यसे 10005009a न वधः पूज्यते लोके सुप्तानामिह धर्मतः 10005009c तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् 10005010a ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः 10005010c विमुक्तमूर्धजा ये च ये चापि हतवाहनाः 10005011a अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो 10005011c विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः 10005012a यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः 10005012c व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे 10005013a सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः 10005013c न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् 10005014a त्वं पुनः सूर्यसंकाशः श्वोभूत उदिते रवौ 10005014c प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् 10005015a असंभावितरूपं हि त्वयि कर्म विगर्हितम् 10005015c शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम 10005016 अश्वत्थामोवाच 10005016a एवमेतद्यथात्थ त्वमनुशास्मीह मातुल 10005016c तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः 10005017a प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ 10005017c न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 10005018a कर्णश्च पतिते चक्रे रथस्य रथिनां वरः 10005018c उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना 10005019a तथा शांतनवो भीष्मो न्यस्तशस्त्रो निरायुधः 10005019c शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना 10005020a भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे 10005020c क्रोशतां भूमिपालानां युयुधानेन पातितः 10005021a दुर्योधनश्च भीमेन समेत्य गदया मृधे 10005021c पश्यतां भूमिपालानामधर्मेण निपातितः 10005022a एकाकी बहुभिस्तत्र परिवार्य महारथैः 10005022c अधर्मेण नरव्याघ्रो भीमसेनेन पातितः 10005023a विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः 10005023c वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति 10005024a एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः 10005024c तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति 10005025a पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके 10005025c कामं कीटः पतंगो वा जन्म प्राप्य भवामि वै 10005026a त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् 10005026c तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् 10005027a न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति 10005027c यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् 10005028 संजय उवाच 10005028a एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् 10005028c एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् 10005029a तमब्रूतां महात्मानौ भोजशारद्वतावुभौ 10005029c किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् 10005030a एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ 10005030c समदुःखसुखौ चैव नावां शङ्कितुमर्हसि 10005031a अश्वत्थामा तु संक्रुद्धः पितुर्वधमनुस्मरन् 10005031c ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् 10005032a हत्वा शतसहस्राणि योधानां निशितैः शरैः 10005032c न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः 10005033a तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै 10005033c पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा 10005034a कथं च निहतः पापः पाञ्चालः पशुवन्मया 10005034c शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः 10005035a क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ 10005035c समास्थाय प्रतीक्षेतां रथवर्यौ परंतपौ 10005036a इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् 10005036c तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः 10005037a ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः 10005037c हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः 10005038a ययुश्च शिबिरं तेषां संप्रसुप्तजनं विभो 10005038c द्वारदेशं तु संप्राप्य द्रौणिस्तस्थौ रथोत्तमे 10006001 धृतराष्ट्र उवाच 10006001a द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ 10006001c अकुर्वतां भोजकृपौ किं संजय वदस्व मे 10006002 संजय उवाच 10006002a कृतवर्माणमामन्त्र्य कृपं च स महारथम् 10006002c द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् 10006003a तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् 10006003c सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् 10006004a वसानं चर्म वैयाघ्रं महारुधिरविस्रवम् 10006004c कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् 10006005a बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः 10006005c बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् 10006006a दंष्ट्राकरालवदनं व्यादितास्यं भयावहम् 10006006c नयनानां सहस्रैश्च विचित्रैरभिभूषितम् 10006007a नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा 10006007c सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः 10006008a तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः 10006008c तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः 10006009a तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः 10006009c प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः 10006010a तदत्यद्भुतमालोक्य भूतं लोकभयंकरम् 10006010c द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् 10006011a द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् 10006011c उदधेरिव वार्योघान्पावको वडवामुखः 10006012a अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान् 10006012c रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव 10006013a सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत 10006013c युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता 10006014a अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् 10006014c कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् 10006015a ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा 10006015c स तदासाद्य भूतं वै विलयं तूलवद्ययौ 10006016a ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् 10006016c ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् 10006017a ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः 10006017c अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः 10006018a तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः 10006018c अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन् 10006019a ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः 10006019c स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ 10006020a शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति 10006020c स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते 10006021a गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा 10006021c वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च 10006022a मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत् 10006022c इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा 10006023a सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् 10006023c अमार्गेणैवमारभ्य घोरामापदमागतः 10006024a तां चापदं घोरतरां प्रवदन्ति मनीषिणः 10006024c यदुद्यम्य महत्कृत्यं भयादपि निवर्तते 10006025a अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह 10006025c न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते 10006026a मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति 10006026c स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते 10006027a प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः 10006027c यदारभ्य क्रियां कांचिद्भयादिह निवर्तते 10006028a तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम् 10006028c न हि द्रोणसुतः संख्ये निवर्तेत कथंचन 10006029a इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् 10006029c न चैतदभिजानामि चिन्तयन्नपि सर्वथा 10006030a ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः 10006030c तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते 10006031a तदिदं दैवविहितं मम संख्ये निवर्तनम् 10006031c नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन 10006032a सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् 10006032c दैवदण्डमिमं घोरं स हि मे नाशयिष्यति 10006033a कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् 10006033c कपालमालिनं रुद्रं भगनेत्रहरं हरम् 10006034a स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च 10006034c तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् 10007001 संजय उवाच 10007001a स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते 10007001c अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः 10007002 द्रौणिरुवाच 10007002a उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् 10007002c गिरिशं वरदं देवं भवं भावनमव्ययम् 10007003a शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् 10007003c विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् 10007004a श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् 10007004c खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् 10007005a मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा 10007005c सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् 10007006a स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् 10007006c विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् 10007007a शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च 10007007c व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् 10007008a बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् 10007008c गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् 10007009a कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् 10007009c तनुवाससमत्युग्रमुमाभूषणतत्परम् 10007010a परं परेभ्यः परमं परं यस्मान्न विद्यते 10007010c इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् 10007011a हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् 10007011c प्रपद्ये शरणं देवं परमेण समाधिना 10007012a इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् 10007012c सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् 10007013a इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः 10007013c पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः 10007014a तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत 10007014c द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् 10007015a दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः 10007015c द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः 10007016a श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः 10007016c ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा 10007017a काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च 10007017c महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः 10007018a दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत 10007018c कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा 10007019a महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च 10007019c हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा 10007020a पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च 10007020c पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः 10007021a निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत 10007021c तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः 10007022a प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च 10007022c मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप 10007023a शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च 10007023c शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः 10007024a जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः 10007024c चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः 10007025a मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः 10007025c उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः 10007026a पद्मोत्पलापीडधरास्तथा कुमुदधारिणः 10007026c माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः 10007027a शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः 10007027c भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत 10007028a पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः 10007028c सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः 10007029a महापाशोद्यतकरास्तथा लगुडपाणयः 10007029c स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः 10007029e महासर्पाङ्गदधराश्चित्राभरणधारिणः 10007030a रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः 10007030c नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च 10007031a भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् 10007031c अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः 10007032a गायमानास्तथैवान्ये नृत्यमानास्तथापरे 10007032c लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः 10007033a धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः 10007033c मत्ता इव महानागा विनदन्तो मुहुर्मुहुः 10007034a सुभीमा घोररूपाश्च शूलपट्टिशपाणयः 10007034c नानाविरागवसनाश्चित्रमाल्यानुलेपनाः 10007035a रत्नचित्राङ्गदधराः समुद्यतकरास्तथा 10007035c हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः 10007036a पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः 10007036c चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः 10007037a अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः 10007037c विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः 10007038a महार्हनानामुकुटा मुण्डाश्च जटिलाः परे 10007038c सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले 10007039a उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् 10007039c ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः 10007040a कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः 10007040c नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः 10007041a प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् 10007041c येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः 10007042a मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः 10007042c मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् 10007043a पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा 10007043c चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा 10007044a श्रुतेन ब्रह्मचर्येण तपसा च दमेन च 10007044c ये समाराध्य शूलाङ्कं भवसायुज्यमागताः 10007045a यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः 10007045c सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः 10007046a नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः 10007046c संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः 10007047a संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः 10007047c विवर्धयिषवो द्रौणेर्महिमानं महात्मनः 10007048a जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः 10007048c भीमोग्रपरिघालातशूलपट्टिशपाणयः 10007048e घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः 10007049a जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् 10007049c तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः 10007050a अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् 10007050c स्वयमेवात्मनात्मानमुपहारमुपाहरत् 10007051a धनूंषि समिधस्तत्र पवित्राणि शिताः शराः 10007051c हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि 10007052a ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् 10007052c उपहारं महामन्युरथात्मानमुपाहरत् 10007053a तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् 10007053c अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः 10007054a इममात्मानमद्याहं जातमाङ्गिरसे कुले 10007054c अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् 10007055a भवद्भक्त्या महादेव परमेण समाधिना 10007055c अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः 10007056a त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै 10007056c गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति 10007057a सर्वभूताशय विभो हविर्भूतमुपस्थितम् 10007057c प्रतिगृहाण मां देव यद्यशक्याः परे मया 10007058a इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् 10007058c संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् 10007059a तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् 10007059c अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव 10007060a सत्यशौचार्जवत्यागैस्तपसा नियमेन च 10007060c क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा 10007061a यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा 10007061c तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते 10007062a कुर्वता तस्य संमानं त्वां च जिज्ञासता मया 10007062c पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः 10007063a कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया 10007063c अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् 10007064a एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् 10007064c आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् 10007065a अथाविष्टो भगवता भूयो जज्वाल तेजसा 10007065c वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा 10007066a तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् 10007066c अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् 10008001 धृतराष्ट्र उवाच 10008001a तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे 10008001c कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् 10008002a कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ 10008002c असह्यमिति वा मत्वा न निवृत्तौ महारथौ 10008003a कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् 10008003c दुर्योधनस्य पदवीं गतौ परमिकां रणे 10008004a पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ 10008004c कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय 10008005 संजय उवाच 10008005a तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि 10008005c कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् 10008006a अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ 10008006c प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् 10008007a यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने 10008007c किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः 10008008a अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् 10008008c यथा न कश्चिदपि मे जीवन्मुच्येत मानवः 10008009a इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् 10008009c अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः 10008010a स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह 10008010c धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् 10008011a ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे 10008011c प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः 10008012a अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत 10008012c पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् 10008013a क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते 10008013c माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते 10008014a तं शयानं महात्मानं विस्रब्धमकुतोभयम् 10008014c प्राबोधयत पादेन शयनस्थं महीपते 10008015a स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः 10008015c अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् 10008016a तमुत्पतन्तं शयनादश्वत्थामा महाबलः 10008016c केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले 10008017a स बलात्तेन निष्पिष्टः साध्वसेन च भारत 10008017c निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा 10008018a तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः 10008018c नदन्तं विस्फुरन्तं च पशुमारममारयत् 10008019a तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् 10008019c आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः 10008019e त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर 10008020a तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् 10008020c आचार्यघातिनां लोका न सन्ति कुलपांसन 10008020e तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते 10008021a एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् 10008021c मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः 10008022a तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि 10008022c अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः 10008023a ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् 10008023c भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् 10008024a तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् 10008024c अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् 10008025a स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः 10008025c रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली 10008026a अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे 10008026c सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा 10008027a राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः 10008027c व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत 10008028a तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः 10008028c क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् 10008029a स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् 10008029c अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै 10008030a राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् 10008030c हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति 10008031a ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् 10008031c स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् 10008032a धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् 10008032c अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके 10008033a तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा 10008033c तथैव मारयामास विनर्दन्तमरिंदमम् 10008034a युधामन्युस्तु संप्राप्तो मत्त्वा तं रक्षसा हतम् 10008034c गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् 10008035a तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् 10008035c विस्फुरन्तं च पशुवत्तथैवैनममारयत् 10008036a तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् 10008036c संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् 10008036e स्फुरतो वेपमानांश्च शमितेव पशून्मखे 10008037a ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान् 10008037c भागशो विचरन्मार्गानसियुद्धविशारदः 10008038a तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान् 10008038c श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् 10008039a योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना 10008039c रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः 10008040a विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च 10008040c आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् 10008041a तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः 10008041c अमानुष इवाकारो बभौ परमभीषणः 10008042a ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः 10008042c निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः 10008043a तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः 10008043c राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् 10008044a स घोररूपो व्यचरत्कालवच्छिबिरे ततः 10008044c अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् 10008045a तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः 10008045c धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते 10008045e अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् 10008046a ततस्तेन निनादेन संप्रबुद्धाः प्रभद्रकाः 10008046c शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् 10008047a भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः 10008047c ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् 10008048a ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन् 10008048c अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे 10008049a सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे 10008049c खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् 10008049e द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली 10008050a ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे 10008050c कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि 10008051a प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान् 10008051c पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् 10008052a सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः 10008052c पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् 10008053a नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान् 10008053c दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् 10008054a अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः 10008054c स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः 10008055a श्रुतकर्मा तु परिघं गृहीत्वा समताडयत् 10008055c अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् 10008056a स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना 10008056c स हतो न्यपतद्भूमौ विमूढो विकृताननः 10008057a तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः 10008057c अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् 10008058a तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः 10008058c सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् 10008059a ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः 10008059c अहनत्सर्वतो वीरं नानाप्रहरणैर्बली 10008059e शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् 10008060a स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः 10008060c शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना 10008061a शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः 10008061c प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् 10008061e यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् 10008062a द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि 10008062c चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः 10008063a अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च 10008063c न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः 10008064a कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम् 10008064c रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् 10008065a ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम् 10008065c नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् 10008065e हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् 10008066a स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष 10008066c ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा 10008067a यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः 10008067c ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च 10008068a तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत् 10008068c त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् 10008069a तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम् 10008069c इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः 10008070a ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः 10008070c शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः 10008071a सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित् 10008071c कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः 10008072a अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः 10008072c गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो 10008073a क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम् 10008073c एवं तेषां तदा द्रौणिरन्तकः समपद्यत 10008074a अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान् 10008074c प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः 10008075a ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः 10008075c निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे 10008076a ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः 10008076c विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् 10008077a ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम् 10008077c धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् 10008078a पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान् 10008078c शूरान्संपततश्चान्यान्कालरात्र्यै न्यवेदयत् 10008079a तथैव स्यन्दनाग्रेण प्रमथन्स विधावति 10008079c शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः 10008080a पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा 10008080c तेन चाकाशवर्णेन तदाचरत सोऽसिना 10008081a तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः 10008081c व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः 10008082a उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः 10008082c निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः 10008083a विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन् 10008083c न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च 10008084a विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम् 10008084c उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् 10008084e पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः 10008085a बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः 10008085c समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् 10008086a तत्र केचिन्नरा भीता व्यलीयन्त महीतले 10008086c तथैव तान्निपतितानपिंषन्गजवाजिनः 10008087a तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ 10008087c तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम 10008088a स शब्दः प्रेरितो राजन्भूतसंघैर्मुदा युतैः 10008088c अपूरयद्दिशः सर्वा दिवं चापि महास्वनः 10008089a तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः 10008089c मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् 10008090a तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः 10008090c अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः 10008091a तस्मिंस्तमसि संजाते प्रमूढाः सर्वतो जनाः 10008091c नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च 10008092a गजा गजानतिक्रम्य निर्मनुष्या हया हयान् 10008092c अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत 10008093a ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् 10008093c न्यपातयन्त च परान्पातयित्वा तथापिषन् 10008094a विचेतसः सनिद्राश्च तमसा चावृता नराः 10008094c जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः 10008095a त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः 10008095c प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः 10008096a विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो 10008096c क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः 10008097a पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् 10008097c गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः 10008098a हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे 10008098c तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् 10008099a तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः 10008099c शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः 10008100a तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः 10008100c कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः 10008101a विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन् 10008101c वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् 10008102a नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः 10008102c कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः 10008103a भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम् 10008103c त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् 10008104a ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः 10008104c अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् 10008105a कांश्चिदापततो वीरानपरांश्च प्रधावतः 10008105c व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् 10008106a कांश्चिद्योधान्स खड्गेन मध्ये संछिद्य वीर्यवान् 10008106c अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् 10008107a विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः 10008107c पतितैरभवत्कीर्णा मेदिनी भरतर्षभ 10008108a मानुषाणां सहस्रेषु हतेषु पतितेषु च 10008108c उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् 10008109a सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च 10008109c हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत 10008110a पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान् 10008110c समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् 10008111a मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः 10008111c अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः 10008112a एवं विचरतस्तस्य निघ्नतः सुबहून्नरान् 10008112c तमसा रजनी घोरा बभौ दारुणदर्शना 10008113a किंचित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः 10008113c बहुना च गजाश्वेन भूरभूद्भीमदर्शना 10008114a यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे 10008114c क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन्भुवि 10008115a मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः 10008115c केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे 10008116a यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः 10008116c असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् 10008117a न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः 10008117c शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः 10008118a ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः 10008118c न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् 10008118e धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः 10008119a तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः 10008119c इति लालप्यमानाः स्म शेरते बहवो जनाः 10008120a स्तनतां च मनुष्याणामपरेषां च कूजताम् 10008120c ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् 10008121a शोणितव्यतिषिक्तायां वसुधायां च भूमिप 10008121c तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत 10008122a संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः 10008122c न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा 10008123a अन्योन्यं संपरिष्वज्य शयानान्द्रवतोऽपरान् 10008123c संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् 10008124a दह्यमाना हुताशेन वध्यमानाश्च तेन ते 10008124c परस्परं तदा योधा अनयन्यमसादनम् 10008125a तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम् 10008125c गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् 10008126a निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी 10008126c आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् 10008127a तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः 10008127c खादन्तो नरमांसानि पिबन्तः शोणितानि च 10008128a करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः 10008128c जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः 10008129a पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः 10008129c घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः 10008130a सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः 10008130c विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् 10008131a पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे 10008131c इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् 10008132a मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः 10008132c परमांसानि खादन्तः क्रव्यादा मांसजीविनः 10008133a वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः 10008133c नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः 10008134a अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च 10008134c रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् 10008135a मुदितानां वितृप्तानां तस्मिन्महति वैशसे 10008135c समेतानि बहून्यासन्भूतानि च जनाधिप 10008136a प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः 10008136c नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः 10008136e पाणिना सह संश्लिष्ट एकीभूत इव प्रभो 10008137a स निःशेषानरीन्कृत्वा विरराज जनक्षये 10008137c युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः 10008138a यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो 10008138c दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः 10008139a यथैव संसुप्तजने शिबिरे प्राविशन्निशि 10008139c तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः 10008140a निष्क्रम्य शिबिरात्तस्मात्ताभ्यां संगम्य वीर्यवान् 10008140c आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो 10008141a तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा 10008141c पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः 10008141e प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् 10008142a एवंविधा हि सा रात्रिः सोमकानां जनक्षये 10008142c प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा 10008143a असंशयं हि कालस्य पर्यायो दुरतिक्रमः 10008143c तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् 10008144 धृतराष्ट्र उवाच 10008144a प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः 10008144c नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः 10008145a अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ 10008145c द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि 10008146 संजय उवाच 10008146a तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन 10008146c असांनिध्याद्धि पार्थानां केशवस्य च धीमतः 10008147a सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम् 10008147c न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः 10008148a एतदीदृशकं वृत्तं राजन्सुप्तजने विभो 10008148c ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् 10008148e दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः 10008149a पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः 10008149c इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् 10008150a पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः 10008150c सोमका मत्स्यशेषाश्च सर्वे विनिहता मया 10008151a इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम् 10008151c यदि जीवति नो राजा तस्मै शंसामहे प्रियम् 10009001 संजय उवाच 10009001a ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः 10009001c अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः 10009002a गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम् 10009002c ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् 10009003a तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् 10009003c वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले 10009004a वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः 10009004c शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् 10009005a निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून् 10009005c विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् 10009006a तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम् 10009006c हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् 10009006e अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 10009007a तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः 10009007c शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः 10009008a ते तं शयानं संप्रेक्ष्य राजानमतथोचितम् 10009008c अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः 10009009a ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह 10009009c रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् 10009010 कृप उवाच 10009010a न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः 10009010c एकादशचमूभर्ता शेते दुर्योधनो हतः 10009011a पश्य चामीकराभस्य चामीकरविभूषिताम् 10009011c गदां गदाप्रियस्येमां समीपे पतितां भुवि 10009012a इयमेनं गदा शूरं न जहाति रणे रणे 10009012c स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् 10009013a पश्येमां सह वीरेण जाम्बूनदविभूषिताम् 10009013c शयानां शयने धर्मे भार्यां प्रीतिमतीमिव 10009014a यो वै मूर्धावसिक्तानामग्रे यातः परंतपः 10009014c स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् 10009015a येनाजौ निहता भूमावशेरत पुरा द्विषः 10009015c स भूमौ निहतः शेते कुरुराजः परैरयम् 10009016a भयान्नमन्ति राजानो यस्य स्म शतसंघशः 10009016c स वीरशयने शेते क्रव्याद्भिः परिवारितः 10009017a उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् 10009017c धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् 10009018 संजय उवाच 10009018a तं शयानं नृपश्रेष्ठं ततो भरतसत्तम 10009018c अश्वत्थामा समालोक्य करुणं पर्यदेवयत् 10009019a आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् 10009019c धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह 10009020a कथं विवरमद्राक्षीद्भीमसेनस्तवानघ 10009020c बलिनः कृतिनो नित्यं स च पापात्मवान्नृप 10009021a कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः 10009021c पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे 10009022a कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः 10009022c निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः 10009023a धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे 10009023c गदया भीमसेनेन निर्भिन्ने सक्थिनी तव 10009024a अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः 10009024c यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् 10009025a युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् 10009025c यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः 10009026a ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः 10009026c दुर्योधनसमो नास्ति गदया इति वीर्यवान् 10009027a श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत 10009027c सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो 10009028a यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः 10009028c हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् 10009029a दुर्योधन न शोचामि त्वामहं पुरुषर्षभ 10009029c हतपुत्रां तु शोचामि गान्धारीं पितरं च ते 10009029e भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् 10009030a धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् 10009030c धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् 10009031a पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् 10009031c कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः 10009032a धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः 10009032c प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ 10009033a हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा 10009033c प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते 10009034a धिगस्तु कृतवर्माणं मां कृपं च महारथम् 10009034c ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् 10009035a दातारं सर्वकामानां रक्षितारं प्रजाहितम् 10009035c यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् 10009036a कृपस्य तव वीर्येण मम चैव पितुश्च मे 10009036c सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च 10009037a भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः 10009037c अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः 10009038a कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम् 10009038c यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् 10009039a वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् 10009039c यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् 10009040a त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते 10009040c किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै 10009041a दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् 10009041c हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् 10009042a गत्वैतांस्तु महाराज समेत्य त्वं महारथान् 10009042c यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम 10009043a आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् 10009043c हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप 10009044a परिष्वजेथा राजानं बाह्लिकं सुमहारथम् 10009044c सैन्धवं सोमदत्तं च भूरिश्रवसमेव च 10009045a तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान् 10009045c अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् 10009046a इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम् 10009046c अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् 10009047a दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु 10009047c सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् 10009048a ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः 10009048c अहं च कृतवर्मा च कृपः शारद्वतस्तथा 10009049a द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः 10009049c पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत 10009050a कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः 10009050c सौप्तिके शिबिरं तेषां हतं सनरवाहनम् 10009051a मया च पापकर्मासौ धृष्टद्युम्नो महीपते 10009051c प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः 10009052a दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् 10009052c प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् 10009053a न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता 10009053c यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् 10009054a स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना 10009054c तेन मन्ये मघवता सममात्मानमद्य वै 10009055a स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः 10009055c इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः 10009055e प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् 10009056a तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम् 10009056c पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् 10009057a इत्येवं तव पुत्रस्य निशम्य करुणां गिरम् 10009057c प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति 10009058a तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ 10009058c ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै 10009059 वैशंपायन उवाच 10009059a इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा 10009059c निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् 10010001 वैशंपायन उवाच 10010001a तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः 10010001c शशंस धर्मराजाय सौप्तिके कदनं कृतम् 10010002a द्रौपदेया महाराज द्रुपदस्यात्मजैः सह 10010002c प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके 10010003a कृतवर्मणा नृशंसेन गौतमेन कृपेण च 10010003c अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि 10010004a एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः 10010004c सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् 10010005a छिद्यमानस्य महतो वनस्येव परश्वधैः 10010005c शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत 10010006a अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते 10010006c मुक्तः कथंचिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः 10010007a तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः 10010007c पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः 10010008a तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः 10010008c भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ 10010009a लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा 10010009c जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः 10010010a दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः 10010010c जीयमाना जयन्त्यन्ये जयमाना वयं जिताः 10010011a हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् 10010011c बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् 10010012a अनर्थो ह्यर्थसंकाशस्तथार्थोऽनर्थदर्शनः 10010012c जयोऽयमजयाकारो जयस्तस्मात्पराजयः 10010013a यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः 10010013c कथं मन्येत विजयं ततो जिततरः परैः 10010014a येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे 10010014c निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः 10010015a कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे 10010015c चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः 10010016a क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः 10010016c ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः 10010017a रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम् 10010017c शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् 10010018a संग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम् 10010018c ये तेरुरुच्चावचशस्त्रनौभि;स्ते राजपुत्रा निहताः प्रमादात् 10010019a न हि प्रमादात्परमोऽस्ति कश्चि;द्वधो नराणामिह जीवलोके 10010019c प्रमत्तमर्था हि नरं समन्ता;त्त्यजन्त्यनर्थाश्च समाविशन्ति 10010020a ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम् 10010020c महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् 10010021a महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम् 10010021c ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् 10010022a न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा 10010022c पश्याप्रमादेन निहत्य शत्रू;न्सर्वान्महेन्द्रं सुखमेधमानम् 10010023a इन्द्रोपमान्पार्थिवपुत्रपौत्रा;न्पश्याविशेषेण हतान्प्रमादात् 10010023c तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः 10010023e अमर्षितैर्ये निहताः शयाना; निःसंशयं ते त्रिदिवं प्रपन्नाः 10010024a कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति 10010024c भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् 10010024e ध्रुवं विसंज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः 10010025a तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम् 10010025c पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन 10010026a इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे 10010026c गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् 10010027a माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः 10010027c ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः 10010028a प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः 10010028c रोरूयमाणः प्रययौ सुताना;मायोधनं भूतगणानुकीर्णम् 10010029a स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च 10010029c भूमौ शयानान्रुधिरार्द्रगात्रा;न्विभिन्नभग्नापहृतोत्तमाङ्गान् 10010030a स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः 10010030c उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसंज्ञः 10011001 वैशंपायन उवाच 10011001a स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा 10011001c महादुःखपरीतात्मा बभूव जनमेजय 10011002a ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः 10011002c स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह 10011003a तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् 10011003c सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा 10011004a ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा 10011004c नकुलः कृष्णया सार्धमुपायात्परमार्तया 10011005a उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम् 10011005c तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत् 10011006a कम्पमानेव कदली वातेनाभिसमीरिता 10011006c कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि 10011007a बभूव वदनं तस्याः सहसा शोककर्शितम् 10011007c फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान् 10011008a ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः 10011008c बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः 10011009a सा समाश्वासिता तेन भीमसेनेन भामिनी 10011009c रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत् 10011010a दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम् 10011010c आत्मजान्क्षत्रधर्मेण संप्रदाय यमाय वै 10011011a दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम् 10011011c अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि 10011012a आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान् 10011012c उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि 10011013a प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा 10011013c शोकस्तपति मां पार्थ हुताशन इवाशयम् 10011014a तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे 10011014c ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम् 10011015a इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः 10011015c न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः 10011016a एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् 10011016c युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी 10011017a दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम् 10011017c प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् 10011018a धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे 10011018c पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि 10011019a द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः 10011019c तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने 10011020 द्रौपद्युवाच 10011020a द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः 10011020c निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम् 10011020e राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः 10011021 वैशंपायन उवाच 10011021a इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना 10011021c भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत् 10011022a त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् 10011022c जहि तं पापकर्माणं शम्बरं मघवानिव 10011022e न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन 10011023a श्रुतं तत्सर्वलोकेषु परमव्यसने यथा 10011023c द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते 10011023e हिडिम्बदर्शने चैव तथा त्वमभवो गतिः 10011024a तथा विराटनगरे कीचकेन भृशार्दिताम् 10011024c मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव 10011025a यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा 10011025c तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव 10011026a तस्या बहुविधं दुःखान्निशम्य परिदेवितम् 10011026c नामर्षयत कौन्तेयो भीमसेनो महाबलः 10011027a स काञ्चनविचित्राङ्गमारुरोह महारथम् 10011027c आदाय रुचिरं चित्रं समार्गणगुणं धनुः 10011028a नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः 10011028c विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् 10011029a ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः 10011029c वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः 10011030a शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः 10011030c द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान् 10012001 वैशंपायन उवाच 10012001a तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः 10012001c अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 10012002a एष पाण्डव ते भ्राता पुत्रशोकमपारयन् 10012002c जिघांसुर्द्रौणिमाक्रन्दे याति भारत भारतः 10012003a भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ 10012003c तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्यवपद्यसे 10012004a यत्तदाचष्ट पुत्राय द्रोणः परपुरंजयः 10012004c अस्त्रं ब्रह्मशिरो नाम दहेद्यत्पृथिवीमपि 10012005a तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् 10012005c प्रत्यपादयदाचार्यः प्रीयमाणो धनंजयम् 10012006a तत्पुत्रोऽस्यैवमेवैनमन्वयाचदमर्षणः 10012006c ततः प्रोवाच पुत्राय नातिहृष्टमना इव 10012007a विदितं चापलं ह्यासीदात्मजस्य महात्मनः 10012007c सर्वधर्मविदाचार्यो नान्विषत्सततं सुतम् 10012008a परमापद्गतेनापि न स्म तात त्वया रणे 10012008c इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः 10012009a इत्युक्तवान्गुरुः पुत्रं द्रोणः पश्चादथोक्तवान् 10012009c न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ 10012010a स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् 10012010c निराशः सर्वकल्याणैः शोचन्पर्यपतन्महीम् 10012011a ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत 10012011c अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः 10012012a स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु 10012012c एक एकं समागम्य मामुवाच हसन्निव 10012013a यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः 10012013c अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता 10012014a अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् 10012014c तदद्य मयि दाशार्ह यथा पितरि मे तथा 10012015a अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम 10012015c ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहरं रणे 10012016a स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः 10012016c याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ 10012017a देवदानवगन्धर्वमनुष्यपतगोरगाः 10012017c न समा मम वीर्यस्य शतांशेनापि पिण्डिताः 10012018a इदं धनुरियं शक्तिरिदं चक्रमियं गदा 10012018c यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददानि ते 10012019a यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे 10012019c तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि 10012020a स सुनाभं सहस्रारं वज्रनाभमयस्मयम् 10012020c वव्रे चक्रं महाबाहो स्पर्धमानो मया सह 10012021a गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् 10012021c जग्राहोपेत्य सहसा चक्रं सव्येन पाणिना 10012021e न चैतदशकत्स्थानात्संचालयितुमच्युत 10012022a अथ तद्दक्षिणेनापि ग्रहीतुमुपचक्रमे 10012022c सर्वयत्नेन तेनापि गृह्णन्नेतदकल्पयत् 10012023a ततः सर्वबलेनापि यच्चैतन्न शशाक सः 10012023c उद्धर्तुं वा चालयितुं द्रौणिः परमदुर्मनाः 10012023e कृत्वा यत्नं परं श्रान्तः स न्यवर्तत भारत 10012024a निवृत्तमथ तं तस्मादभिप्रायाद्विचेतसम् 10012024c अहमामन्त्र्य सुस्निग्धमश्वत्थामानमब्रुवम् 10012025a यः स देवमनुष्येषु प्रमाणं परमं गतः 10012025c गाण्डीवधन्वा श्वेताश्वः कपिप्रवरकेतनः 10012026a यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् 10012026c द्वंद्वयुद्धे पराजिष्णुस्तोषयामास शंकरम् 10012027a यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि 10012027c नादेयं यस्य मे किंचिदपि दाराः सुतास्तथा 10012028a तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा 10012028c नोक्तपूर्वमिदं वाक्यं यत्त्वं मामभिभाषसे 10012029a ब्रह्मचर्यं महद्घोरं चीर्त्वा द्वादशवार्षिकम् 10012029c हिमवत्पार्श्वमभ्येत्य यो मया तपसार्चितः 10012030a समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत 10012030c सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः 10012031a तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं मम 10012031c न प्रार्थितमभून्मूढ यदिदं प्रार्थितं त्वया 10012032a रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन 10012032c न गदेन न साम्बेन यदिदं प्रार्थितं त्वया 10012033a द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः 10012033c नोक्तपूर्वमिदं जातु यदिदं प्रार्थितं त्वया 10012034a भारताचार्यपुत्रः सन्मानितः सर्वयादवैः 10012034c चक्रेण रथिनां श्रेष्ठ किं नु तात युयुत्ससे 10012035a एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह 10012035c प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वयेत्युत 10012036a ततस्ते प्रार्थितं चक्रं देवदानवपूजितम् 10012036c अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते 10012037a त्वत्तोऽहं दुर्लभं काममनवाप्यैव केशव 10012037c प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् 10012038a एतत्सुनाभं वृष्णीनामृषभेण त्वया धृतम् 10012038c चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते 10012039a एतावदुक्त्वा द्रौणिर्मां युग्यमश्वान्धनानि च 10012039c आदायोपययौ बालो रत्नानि विविधानि च 10012040a स संरम्भी दुरात्मा च चपलः क्रूर एव च 10012040c वेद चास्त्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः 10013001 वैशंपायन उवाच 10013001a एवमुक्त्वा युधां श्रेष्ठः सर्वयादवनन्दनः 10013001c सर्वायुधवरोपेतमारुरोह महारथम् 10013001e युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः 10013002a आदित्योदयवर्णस्य धुरं रथवरस्य तु 10013002c दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् 10013002e पार्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ 10013003a विश्वकर्मकृता दिव्या नानारत्नविभूषिता 10013003c उच्छ्रितेव रथे माया ध्वजयष्टिरदृश्यत 10013004a वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् 10013004c तस्य सत्यवतः केतुर्भुजगारिरदृश्यत 10013005a अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् 10013005c अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः 10013006a अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ 10013006c रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् 10013007a तावुपारोप्य दाशार्हः स्यन्दनं लोकपूजितम् 10013007c प्रतोदेन जवोपेतान्परमाश्वानचोदयत् 10013008a ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् 10013008c आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च 10013009a वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् 10013009c प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव 10013010a ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ 10013010c भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः 10013011a क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् 10013011c नाशक्नुवन्वारयितुं समेत्यापि महारथाः 10013012a स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् 10013012c ययौ भागिरथीकच्छं हरिभिर्भृशवेगितैः 10013012e यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् 10013013a स ददर्श महात्मानमुदकान्ते यशस्विनम् 10013013c कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह 10013014a तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् 10013014c रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके 10013015a तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः 10013015c भीमसेनो महाबाहुस्तिष्ठ तिष्ठेति चाब्रवीत् 10013016a स दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् 10013016c भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ 10013016e व्यथितात्माभवद्द्रौणिः प्राप्तं चेदममन्यत 10013017a स तद्दिव्यमदीनात्मा परमास्त्रमचिन्तयत् 10013017c जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना 10013017e स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् 10013018a अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् 10013018c अपाण्डवायेति रुषा व्यसृजद्दारुणं वचः 10013019a इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् 10013019c सर्वलोकप्रमोहार्थं तदस्त्रं प्रमुमोच ह 10013020a ततस्तस्यामिषीकायां पावकः समजायत 10013020c प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः 10014001 वैशंपायन उवाच 10014001a इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः 10014001c द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत 10014002a अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते 10014002c द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव 10014003a भ्रातॄणामात्मनश्चैव परित्राणाय भारत 10014003c विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् 10014004a केशवेनैवमुक्तस्तु पाण्डवः परवीरहा 10014004c अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः 10014005a पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने 10014005c भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः 10014006a देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः 10014006c उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् 10014007a ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना 10014007c प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम् 10014008a तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः 10014008c प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् 10014009a निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः 10014009c महद्भयं च भूतानां सर्वेषां समजायत 10014010a सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् 10014010c चचाल च मही कृत्स्ना सपर्वतवनद्रुमा 10014011a ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते 10014011c महर्षी सहितौ तत्र दर्शयामासतुस्तदा 10014012a नारदः स च धर्मात्मा भरतानां पितामहः 10014012c उभौ शमयितुं वीरौ भारद्वाजधनंजयौ 10014013a तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ 10014013c दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ 10014014a तदन्तरमनाधृष्यावुपगम्य यशस्विनौ 10014014c आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ 10014015a प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ 10014015c अस्त्रतेजः शमयितुं लोकानां हितकाम्यया 10014016 ऋषी ऊचतुः 10014016a नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः 10014016c नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन 10015001 वैशंपायन उवाच 10015001a दृष्ट्वैव नरशार्दूलस्तावग्निसमतेजसौ 10015001c संजहार शरं दिव्यं त्वरमाणो धनंजयः 10015002a उवाच वदतां श्रेष्ठस्तावृषी प्राञ्जलिस्तदा 10015002c प्रयुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया 10015003a संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः 10015003c पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा 10015004a अत्र यद्धितमस्माकं लोकानां चैव सर्वथा 10015004c भवन्तौ देवसंकाशौ तथा संहर्तुमर्हतः 10015005a इत्युक्त्वा संजहारास्त्रं पुनरेव धनंजयः 10015005c संहारो दुष्करस्तस्य देवैरपि हि संयुगे 10015006a विसृष्टस्य रणे तस्य परमास्त्रस्य संग्रहे 10015006c न शक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः 10015007a ब्रह्मतेजोभवं तद्धि विसृष्टमकृतात्मना 10015007c न शक्यमावर्तयितुं ब्रह्मचारिव्रतादृते 10015008a अचीर्णब्रह्मचर्यो यः सृष्ट्वावर्तयते पुनः 10015008c तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति 10015009a ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् 10015009c परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत 10015010a सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः 10015010c गुरुवर्ती च तेनास्त्रं संजहारार्जुनः पुनः 10015011a द्रौणिरप्यथ संप्रेक्ष्य तावृषी पुरतः स्थितौ 10015011c न शशाक पुनर्घोरमस्त्रं संहर्तुमाहवे 10015012a अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे 10015012c द्रौणिर्दीनमना राजन्द्वैपायनमभाषत 10015013a उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना 10015013c मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने 10015014a अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता 10015014c मिथ्याचारेण भगवन्भीमसेनेन संयुगे 10015015a अतः सृष्टमिदं ब्रह्मन्मयास्त्रमकृतात्मना 10015015c तस्य भूयोऽद्य संहारं कर्तुं नाहमिहोत्सहे 10015016a विसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् 10015016c अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै 10015017a तदिदं पाण्डवेयानामन्तकायाभिसंहितम् 10015017c अद्य पाण्डुसुतान्सर्वाञ्जीविताद्भ्रंशयिष्यति 10015018a कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा 10015018c वधमाशास्य पार्थानां मयास्त्रं सृजता रणे 10015019 व्यास उवाच 10015019a अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनंजयः 10015019c उत्सृष्टवान्न रोषेण न वधाय तवाहवे 10015020a अस्त्रमस्त्रेण तु रणे तव संशमयिष्यता 10015020c विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् 10015021a ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव 10015021c क्षत्रधर्मान्महाबाहुर्नाकम्पत धनंजयः 10015022a एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः 10015022c सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि 10015023a अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते 10015023c समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति 10015024a एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः 10015024c न विहन्त्येतदस्त्रं ते प्रजाहितचिकीर्षया 10015025a पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः 10015025c तस्मात्संहर दिव्यं त्वमस्त्रमेतन्महाभुज 10015026a अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः 10015026c न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति 10015027a मणिं चैतं प्रयच्छैभ्यो यस्ते शिरसि तिष्ठति 10015027c एतदादाय ते प्राणान्प्रतिदास्यन्ति पाण्डवाः 10015028 द्रौणिरुवाच 10015028a पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् 10015028c अवाप्तानीह तेभ्योऽयं मणिर्मम विशिष्यते 10015029a यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् 10015029c देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथंचन 10015030a न च रक्षोगणभयं न तस्करभयं तथा 10015030c एवंवीर्यो मणिरयं न मे त्याज्यः कथंचन 10015031a यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् 10015031c अयं मणिरयं चाहमिषीका निपतिष्यति 10015031e गर्भेषु पाण्डवेयानाममोघं चैतदुद्यतम् 10015032 व्यास उवाच 10015032a एवं कुरु न चान्या ते बुद्धिः कार्या कदाचन 10015032c गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम 10015033 वैशंपायन उवाच 10015033a ततः परममस्त्रं तदश्वत्थामा भृशातुरः 10015033c द्वैपायनवचः श्रुत्वा गर्भेषु प्रमुमोच ह 10016001 वैशंपायन उवाच 10016001a तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा 10016001c हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा 10016002a विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः 10016002c उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत् 10016003a परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति 10016003c एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति 10016004a तस्य तद्वचनं साधोः सत्यमेव भविष्यति 10016004c परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः 10016005a एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा 10016005c द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम् 10016006a नैतदेवं यथात्थ त्वं पक्षपातेन केशव 10016006c वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा 10016007a पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम् 10016007c विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि 10016008 वासुदेव उवाच 10016008a अमोघः परमास्त्रस्य पातस्तस्य भविष्यति 10016008c स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति 10016009a त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः 10016009c असकृत्पापकर्माणं बालजीवितघातकम् 10016010a तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि 10016010c त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् 10016010e अप्राप्नुवन्क्वचित्कांचित्संविदं जातु केनचित् 10016011a निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि 10016011c भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः 10016012a पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः 10016012c विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः 10016013a वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च 10016013c कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते 10016014a विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः 10016014c षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति 10016015a इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति 10016015c परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते 10016015e पश्य मे तपसो वीर्यं सत्यस्य च नराधम 10016016 व्यास उवाच 10016016a यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम् 10016016c ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम् 10016017a तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः 10016017c असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः 10016018 अश्वत्थामोवाच 10016018a सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम् 10016018c सत्यवागस्तु भगवानयं च पुरुषोत्तमः 10016019 वैशंपायन उवाच 10016019a प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् 10016019c जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् 10016020a पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः 10016020c कृष्णद्वैपायनं चैव नारदं च महामुनिम् 10016021a द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः 10016021c द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् 10016022a ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः 10016022c अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह 10016023a अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः 10016023c ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम् 10016024a तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् 10016024c परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः 10016025a ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः 10016025c प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत् 10016026a अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते 10016026c उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर 10016027a प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे 10016027c यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः 10016028a नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च 10016028c नैव त्वमपि गोविन्द शममिच्छति राजनि 10016029a उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम् 10016029c क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि 10016030a हतो दुर्योधनः पापो राज्यस्य परिपन्थकः 10016030c दुःशासनस्य रुधिरं पीतं विस्फुरतो मया 10016031a वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् 10016031c जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च 10016032a यशोऽस्य पातितं देवि शरीरं त्ववशेषितम् 10016032c वियोजितश्च मणिना न्यासितश्चायुधं भुवि 10016033 द्रौपद्युवाच 10016033a केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम 10016033c शिरस्येतं मणिं राजा प्रतिबध्नातु भारत 10016034 वैशंपायन उवाच 10016034a तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा 10016034c गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि 10016035a ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः 10016035c शुशुभे स महाराजः सचन्द्र इव पर्वतः 10016036a उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी 10016036c कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट् 10017001 वैशंपायन उवाच 10017001a हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः 10017001c शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् 10017002a कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा 10017002c द्रौणिना निहताः सर्वे मम पुत्रा महारथाः 10017003a तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः 10017003c द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः 10017004a यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् 10017004c तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः 10017005a किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ 10017005c यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः 10017006 वासुदेव उवाच 10017006a नूनं स देवदेवानामीश्वरेश्वरमव्ययम् 10017006c जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् 10017007a प्रसन्नो हि महादेवो दद्यादमरतामपि 10017007c वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् 10017008a वेदाहं हि महादेवं तत्त्वेन भरतर्षभ 10017008c यानि चास्य पुराणानि कर्माणि विविधान्युत 10017009a आदिरेष हि भूतानां मध्यमन्तश्च भारत 10017009c विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा 10017010a एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः 10017010c पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् 10017011a हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान् 10017011c दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः 10017012a सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः 10017012c स्रष्टारं सर्वभूतानां ससर्ज मनसापरम् 10017013a सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि 10017013c यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः 10017014a तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः 10017014c स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम् 10017015a स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन् 10017015c यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् 10017016a ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् 10017016c बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा 10017017a स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् 10017017c आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम् 10017018a ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च 10017018c जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् 10017019a विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् 10017019c ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु 10017020a भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि 10017020c उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः 10017021a बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा 10017021c चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत 10017022a तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत 10017022c तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव 10017023a किं कृतं सलिले शर्व चिरकालं स्थितेन ते 10017023c किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम् 10017024a सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम् 10017024c प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै 10017025a तपसाधिगतं चान्नं प्रजार्थं मे पितामह 10017025c ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः 10017026a एवमुक्त्वा तु संक्रुद्धो जगाम विमना भवः 10017026c गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः 10018001 वासुदेव उवाच 10018001a ततो देवयुगेऽतीते देवा वै समकल्पयन् 10018001c यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः 10018002a कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः 10018002c भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च 10018003a ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः 10018003c नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप 10018004a सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः 10018004c तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह 10018005a लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः 10018005c पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः 10018006a लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः 10018006c धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः 10018007a वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत 10018007c यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् 10018008a ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् 10018008c आजगामाथ तत्रैव यत्र देवाः समीजिरे 10018009a तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् 10018009c विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे 10018010a न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः 10018010c व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् 10018011a न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः 10018011c तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् 10018012a अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे 10018012c न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा 10018013a ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा 10018013c अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः 10018014a स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत 10018014c अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले 10018015a अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् 10018015c नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन 10018016a त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा 10018016c पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् 10018017a प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः 10018017c केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् 10018018a स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च 10018018c अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः 10018019a ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् 10018019c अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः 10018020a ततो विधनुषं देवा देवश्रेष्ठमुपागमन् 10018020c शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः 10018021a ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये 10018021c स जलं पावको भूत्वा शोषयत्यनिशं प्रभो 10018022a भगस्य नयने चैव बाहू च सवितुस्तथा 10018022c प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव 10018023a ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह 10018023c सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् 10018024a तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो 10018024c प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् 10018025a ततस्ते निहताः सर्वे तव पुत्रा महारथाः 10018025c अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः 10018026a न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् 10018026c महादेवप्रसादः स कुरु कार्यमनन्तरम्