% Mahabharata: Aranyakaparvan % Last updated: Mon Apr 11 2022 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 03001001 जनमेजय उवाच 03001001a एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः 03001001c धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम 03001002a श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् 03001002c किमकुर्वन्त कौरव्या मम पूर्वपितामहाः 03001003a कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः 03001003c वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः 03001004a के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् 03001004c किमाहाराः किमाचाराः क्व च वासो महात्मनाम् 03001005a कथं द्वादश वर्षाणि वने तेषां महात्मनाम् 03001005c व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् 03001006a कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् 03001006c पतिव्रता महाभागा सततं सत्यवादिनी 03001006e वनवासमदुःखार्हा दारुणं प्रत्यपद्यत 03001007a एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन 03001007c श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् 03001007e कथ्यमानं त्वया विप्र परं कौतूहलं हि मे 03001008 वैशंपायन उवाच 03001008a एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः 03001008c धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् 03001009a वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा 03001009c उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया 03001010a इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश 03001010c रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः 03001011a व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः 03001011c गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् 03001011e ऊचुर्विगतसंत्रासाः समागम्य परस्परम् 03001012a नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः 03001012c यत्र दुर्योधनः पापः सौबलेयेन पालितः 03001012e कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति 03001013a नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् 03001013c यत्र पापसहायोऽयं पापो राज्यं बुभूषते 03001014a दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः 03001014c अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः 03001015a नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः 03001015c साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः 03001016a सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः 03001016c ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः 03001017a एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च 03001017c ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् 03001018a क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः 03001018c वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ 03001019a अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः 03001019c उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ 03001020a भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् 03001020c कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः 03001021a श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः 03001021c शुभाशुभाधिवासेन संसर्गं कुरुते यथा 03001022a वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा 03001022c पुष्पाणामधिवासेन तथा संसर्गजा गुणाः 03001023a मोहजालस्य योनिर्हि मूढैरेव समागमः 03001023c अहन्यहनि धर्मस्य योनिः साधुसमागमः 03001024a तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः 03001024c सद्भिश्च सह संसर्गः कार्यः शमपरायणैः 03001025a येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च 03001025c तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी 03001026a निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु 03001026c पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् 03001027a असतां दर्शनात्स्पर्शात्संजल्पनसहासनात् 03001027c धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः 03001028a बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् 03001028c मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः 03001029a ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः 03001029c लोकाचारात्मसंभूता वेदोक्ताः शिष्टसंमताः 03001030a ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः 03001030c इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः 03001031 युधिष्ठिर उवाच 03001031a धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः 03001031c असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः 03001032a तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः 03001032c नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया 03001033a भीष्मः पितामहो राजा विदुरो जननी च मे 03001033c सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये 03001034a ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः 03001034c युष्माभिः सहितैः सर्वैः शोकसंतापविह्वलाः 03001035a निवर्ततागता दूरं समागमनशापिताः 03001035c स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः 03001036a एतद्धि मम कार्याणां परमं हृदि संस्थितम् 03001036c सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति 03001037 वैशंपायन उवाच 03001037a तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः 03001037c चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः 03001038a गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः 03001038c अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् 03001039a निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः 03001039c प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् 03001040a तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः 03001040c ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि 03001040e उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः 03001041a अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः 03001041c साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः 03001041e स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः 03001042a तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे 03001042c ब्रह्मघोषपुरस्कारः संजल्पः समजायत 03001043a राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः 03001043c आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् 03002001 वैशंपायन उवाच 03002001a प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् 03002001c वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः 03002001e तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः 03002002a वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः 03002002c फलमूलामिषाहारा वनं यास्याम दुःखिताः 03002003a वनं च दोषबहुलं बहुव्यालसरीसृपम् 03002003c परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति 03002004a ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् 03002004c किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः 03002005 ब्राह्मणा ऊचुः 03002005a गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः 03002005c नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः 03002006a अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते 03002006c विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु 03002007 युधिष्ठिर उवाच 03002007a ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः 03002007c सहायविपरिभ्रंशस्त्वयं सादयतीव माम् 03002008a आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा 03002008c त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः 03002009a द्रौपद्या विप्रकर्षेण राज्यापहरणेन च 03002009c दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे 03002010 ब्राह्मणा ऊचुः 03002010a अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव 03002010c स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् 03002011a अनुध्यानेन जप्येन विधास्यामः शिवं तव 03002011c कथाभिश्चानुकूलाभिः सह रंस्यामहे वने 03002012 युधिष्ठिर उवाच 03002012a एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह 03002012c न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः 03002013a कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् 03002013c मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् 03002014 वैशंपायन उवाच 03002014a इत्युक्त्वा स नृपः शोचन्निषसाद महीतले 03002014c तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः 03002014e योगे सांख्ये च कुशलो राजानमिदमब्रवीत् 03002015a शोकस्थानसहस्राणि भयस्थानशतानि च 03002015c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 03002016a न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु 03002016c श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03002017a अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् 03002017c श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता 03002018a अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च 03002018c शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः 03002019a श्रूयतां चाभिधास्यामि जनकेन यथा पुरा 03002019c आत्मव्यवस्थानकरा गीताः श्लोका महात्मना 03002020a मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् 03002020c तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु 03002021a व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् 03002021c दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते 03002022a तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् 03002022c आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु 03002023a मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते 03002023c मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् 03002024a मानसेन हि दुःखेन शरीरमुपतप्यते 03002024c अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् 03002025a मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना 03002025c प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति 03002026a मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते 03002026c स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च 03002027a स्नेहमूलानि दुःखानि स्नेहजानि भयानि च 03002027c शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते 03002028a स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा 03002028c अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः 03002029a कोटराग्निर्यथाशेषं समूलं पादपं दहेत् 03002029c धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् 03002030a विप्रयोगे न तु त्यागी दोषदर्शी समागमात् 03002030c विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः 03002031a तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् 03002031c स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् 03002032a ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु 03002032c न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् 03002033a रागाभिभूतः पुरुषः कामेन परिकृष्यते 03002033c इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते 03002034a तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् 03002034c अधर्मबहुला चैव घोरा पापानुबन्धिनी 03002035a या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 03002035c योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 03002036a अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् 03002036c विनाशयति संभूता अयोनिज इवानलः 03002037a यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति 03002037c तथाकृतात्मा लोभेन सहजेन विनश्यति 03002038a राजतः सलिलादग्नेश्चोरतः स्वजनादपि 03002038c भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव 03002039a यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि 03002039c भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् 03002040a अर्थ एव हि केषांचिदनर्थो भविता नृणाम् 03002040c अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः 03002040e तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः 03002041a कार्पण्यं दर्पमानौ च भयमुद्वेग एव च 03002041c अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् 03002042a अर्थस्योपार्जने दुःखं पालने च क्षये तथा 03002042c नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 03002043a अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः 03002043c दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् 03002044a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03002044c अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् 03002045a तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः 03002045c अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः 03002045e ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः 03002046a त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः 03002046c न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः 03002047a अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते 03002047c प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् 03002048a युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि 03002048c धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः 03002049 युधिष्ठिर उवाच 03002049a नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम 03002049c भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः 03002050a कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे 03002050c भरणं पालनं चापि न कुर्यादनुयायिनाम् 03002051a संविभागो हि भूतानां सर्वेषामेव शिष्यते 03002051c तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 03002052a तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता 03002052c सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन 03002053a देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् 03002053c तृषितस्य च पानीयं क्षुधितस्य च भोजनम् 03002054a चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् 03002054c प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् 03002055a अघिहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः 03002055c पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः 03002056a नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् 03002056c न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् 03002057a श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि 03002057c वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते 03002058a विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः 03002058c विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् 03002059a एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे 03002059c तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे 03002060 शौनक उवाच 03002060a अहो बत महत्कष्टं विपरीतमिदं जगत् 03002060c येनापत्रपते साधुरसाधुस्तेन तुष्यति 03002061a शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु 03002061c मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः 03002062a ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः 03002062c विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः 03002063a षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा 03002063c तदा प्रादुर्भवत्येषां पूर्वसंकल्पजं मनः 03002064a मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् 03002064c तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते 03002065a ततः संकल्पवीर्येण कामेन विषयेषुभिः 03002065c विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतंगवत् 03002066a ततो विहारैराहारैर्मोहितश्च विशां पते 03002066c महामोहमुखे मग्नो नात्मानमवबुध्यते 03002067a एवं पतति संसारे तासु तास्विह योनिषु 03002067c अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् 03002068a ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते 03002068c जले भुवि तथाकाशे जायमानः पुनः पुनः 03002069a अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु 03002069c ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः 03002070a यदिदं वेदवचनं कुरु कर्म त्यजेति च 03002070c तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् 03002071a इज्याध्ययनदानानि तपः सत्यं क्षमा दमः 03002071c अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः 03002072a तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः 03002072c कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् 03002073a उत्तरो देवयानस्तु सद्भिराचरितः सदा 03002073c अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् 03002074a सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् 03002074c सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् 03002075a सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् 03002075c सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् 03002075e एवं कर्माणि कुर्वन्ति संसारविजिगीषवः 03002076a रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः 03002076c रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि 03002076e योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः 03002077a तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् 03002077c तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत 03002078a पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते 03002078c तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै 03002079a सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् 03002079c तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् 03003001 वैशंपायन उवाच 03003001a शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः 03003001c पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् 03003002a प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः 03003002c न चास्मि पालने शक्तो बहुदुःखसमन्वितः 03003003a परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे 03003003c कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे 03003004a मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् 03003004c युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः 03003005a पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् 03003005c ततोऽनुकम्पया तेषां सविता स्वपिता इव 03003006a गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः 03003006c दक्षिणायनमावृत्तो महीं निविशते रविः 03003007a क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः 03003007c दिवस्तेजः समुद्धृत्य जनयामास वारिणा 03003008a निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः 03003008c ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि 03003009a एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् 03003009c पितैष सर्वभूतानां तस्मात्तं शरणं व्रज 03003010a राजानो हि महात्मानो योनिकर्मविशोधिताः 03003010c उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् 03003011a भीमेन कार्तवीर्येण वैन्येन नहुषेण च 03003011c तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः 03003012a तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः 03003012c तप आस्थाय धर्मेण द्विजातीन्भर भारत 03003013a एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः 03003013c धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् 03003014a पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् 03003014c योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः 03003014e गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् 03003015 जनमेजय उवाच 03003015a कथं कुरूणामृषभः स तु राजा युधिष्ठिरः 03003015c विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् 03003016 वैशंपायन उवाच 03003016a शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः 03003016c क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः 03003017a धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने 03003017c नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते 03003018a सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः 03003018c गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः 03003019a पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् 03003019c सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च 03003020a इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः 03003020c ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः 03003021a वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः 03003021c धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः 03003022a कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः 03003022c कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा 03003023a संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः 03003023c पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः 03003024a लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः 03003024c वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा 03003025a भूताश्रयो भूतपतिः सर्वभूतनिषेवितः 03003025c मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः 03003026a जयो विशालो वरदः शीघ्रगः प्राणधारणः 03003026c धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः 03003027a द्वादशात्मारविन्दाक्षः पिता माता पितामहः 03003027c स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 03003028a देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः 03003028c चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः 03003029a एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः 03003029c नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना 03003030a शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् 03003030c धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् 03003031a सुरपितृगणयक्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् 03003031c वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् 03003032a सूर्योदये यस्तु समाहितः पठे;त्स पुत्रलाभं धनरत्नसंचयान् 03003032c लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् 03003033a इमं स्तवं देववरस्य यो नरः; प्रकीर्तयेच्छुचिसुमनाः समाहितः 03003033c स मुच्यते शोकदवाग्निसागरा;ल्लभेत कामान्मनसा यथेप्सितान् 03004001 वैशंपायन उवाच 03004001a ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् 03004001c दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः 03004002a यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि 03004002c अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः 03004003a फलमूलामिषं शाकं संस्कृतं यन्महानसे 03004003c चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति 03004003e धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत 03004004a लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् 03004004c जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः 03004005a द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः 03004005c महानसे तदान्नं तु साधयामास पाण्डवः 03004006a संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् 03004006c अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् 03004007a भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि 03004007c शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः 03004007e युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती 03004008a एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः 03004008c कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः 03004009a पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु 03004009c यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः 03004010a ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः 03004010c द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् 03005001 वैशंपायन उवाच 03005001a वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः 03005001c धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा 03005002a प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् 03005002c समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि 03005003a एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् 03005003c ते चाप्यस्मान्नोद्धरेयुः समूला;न्न कामये तांश्च विनश्यमानान् 03005004 विदुर उवाच 03005004a त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति 03005004c धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च 03005005a स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः 03005005c आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसंधं सुतस्ते 03005006a एतस्य ते दुष्प्रणीतस्य राज;ञ्शेषस्याहं परिपश्याम्युपायम् 03005006c यथा पुत्रस्तव कौरव्य पापा;न्मुक्तो लोके प्रतितिष्ठेत साधु 03005007a तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् 03005007c एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् 03005008a एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः 03005008c एवं शेषं यदि पुत्रेषु ते स्या;देतद्राजंस्त्वरमाणः कुरुष्व 03005009a अथैतदेवं न करोषि राज;न्ध्रुवं कुरूणां भविता विनाशः 03005009c न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके 03005010a येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् 03005010c येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति 03005011a उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् 03005011c पुत्रं त्यजेममहितं कुलस्ये;त्येतद्राजन्न च तत्त्वं चकर्थ 03005011e इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् 03005012a यद्येतदेवमनुमन्ता सुतस्ते; संप्रीयमाणः पाण्डवैरेकराज्यम् 03005012c तापो न ते वै भविता प्रीतियोगा;त्त्वं चेन्न गृह्णासि सुतं सहायैः 03005012e अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये 03005013a अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् 03005013c ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः 03005014a दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् 03005014c दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च 03005015a युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य 03005015c त्वया पृष्टः किमहमन्यद्वदेय;मेतत्कृत्वा कृतकृत्योऽसि राजन् 03005016 धृतराष्ट्र उवाच 03005016a एतद्वाक्यं विदुर यत्ते सभाया;मिह प्रोक्तं पाण्डवान्प्राप्य मां च 03005016c हितं तेषामहितं मामकाना;मेतत्सर्वं मम नोपैति चेतः 03005017a इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ 03005017c तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् 03005018a असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः 03005018c स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् 03005019a स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि 03005019c यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति 03005020 वैशंपायन उवाच 03005020a एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य;दन्तर्वेश्म सहसोत्थाय राजन् 03005020c नेदमस्तीत्यथ विदुरो भाषमाणः; संप्राद्रवद्यत्र पार्था बभूवुः 03006001 वैशंपायन उवाच 03006001a पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः 03006001c प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः 03006002a सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते 03006002c ययुर्वनेनैव वनं सततं पश्चिमां दिशम् 03006003a ततः सरस्वतीकूले समेषु मरुधन्वसु 03006003c काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् 03006004a तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे 03006004c अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत 03006005a विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः 03006005c जगामैकरथेनैव काम्यकं वनमृद्धिमत् 03006006a ततो यात्वा विदुरः काननं त;च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन 03006006c ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च 03006007a ततोऽपश्यद्विदुरं तूर्णमारा;दभ्यायान्तं सत्यसंधः स राजा 03006007c अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य 03006008a कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति 03006008c कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् 03006009a समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् 03006009c गाण्डीवे वा संशयिते कथंचि;द्राज्यप्राप्तिः संशयिता भवेन्नः 03006010a तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव 03006010c तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् 03006011a समाश्वस्तं विदुरं ते नरर्षभा;स्ततोऽपृच्छन्नागमनाय हेतुम् 03006011c स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः 03006012 विदुर उवाच 03006012a अवोचन्मां धृतराष्ट्रोऽनुगुप्त;मजातशत्रो परिगृह्याभिपूज्य 03006012c एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि 03006013a मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव 03006013c तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये 03006014a परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः 03006014c यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् 03006015a न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 03006015c ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 03006016a ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति 03006016c यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् 03006017a ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि 03006017c नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा 03006018a सोऽहं त्यक्तो धृतराष्ट्रेण राजं;स्त्वां शासितुमुपयातस्त्वरावान् 03006018c तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः 03006019a क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः 03006019c सं वर्धयन्स्तोकमिवाग्निमात्मवा;न्स वै भुङ्क्ते पृथिवीमेक एव 03006020a यस्याविभक्तं वसु राजन्सहायै;स्तस्य दुःखेऽप्यंशभाजः सहायाः 03006020c सहायानामेष संग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः 03006021a सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः 03006021c आत्मा चैषामग्रतो नातिवर्ते;देवंवृत्तिर्वर्धते भूमिपालः 03006022 युधिष्ठिर उवाच 03006022a एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः 03006022c यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् 03007001 वैशंपायन उवाच 03007001a गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति 03007001c धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत 03007002a स सभाद्वारमागम्य विदुरस्मारमोहितः 03007002c समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः 03007003a स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् 03007003c समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् 03007004a भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः 03007004c तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे 03007005a तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै 03007005c इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् 03007006a पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः 03007006c भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् 03007007a गच्छ संजय जानीहि भ्रातरं विदुरं मम 03007007c यदि जीवति रोषेण मया पापेन निर्धुतः 03007008a न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन 03007008c व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना 03007009a स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् 03007009c न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय 03007010a तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च 03007010c संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् 03007011a सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः 03007011c रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् 03007012a विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः 03007012c भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् 03007013a युधिष्ठिरमथाभ्येत्य पूजयामास संजयः 03007013c भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत 03007014a राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः 03007014c शशंसागमने हेतुमिदं चैवाब्रवीद्वचः 03007015a राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः 03007015c तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् 03007016a सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् 03007016c नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद 03007017a एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः 03007017c युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् 03007018a तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् 03007018c दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ 03007019a अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ 03007019c प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः 03007020a सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह 03007020c क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा 03007021 विदुर उवाच 03007021a क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् 03007021c तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः 03007022a भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः 03007022c दीनाभिपातिनो राजन्नात्र कार्या विचारणा 03007023a पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव 03007023c दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति 03007024 वैशंपायन उवाच 03007024a अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती 03007024c विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् 03008001 वैशंपायन उवाच 03008001a श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् 03008001c धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः 03008002a स सौबलं समानाय्य कर्णदुःशासनावपि 03008002c अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः 03008003a एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः 03008003c विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः 03008004a यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति 03008004c पाण्डवानयने तावन्मन्त्रयध्वं हितं मम 03008005a अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन 03008005c पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः 03008006a विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् 03008006c करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे 03008007 शकुनिरुवाच 03008007a किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते 03008007c गतास्ते समयं कृत्वा नैतदेवं भविष्यति 03008008a सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ 03008008c पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् 03008009a अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् 03008009c निरस्य समयं भूयः पणोऽस्माकं भविष्यति 03008010a सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः 03008010c छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः 03008011 दुःशासन उवाच 03008011a एवमेतन्महाप्राज्ञ यथा वदसि मातुल 03008011c नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते 03008012 कर्ण उवाच 03008012a काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् 03008012c ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते 03008013 वैशंपायन उवाच 03008013a एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 03008013c नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः 03008014a उपलभ्य ततः कर्णो विवृत्य नयने शुभे 03008014c रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ 03008015a उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना 03008015c अहो मम मतं यत्तन्निबोधत नराधिपाः 03008016a प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः 03008016c न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः 03008017a वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः 03008017c गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् 03008018a तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् 03008018c निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् 03008019a यावदेव परिद्यूना यावच्छोकपरायणाः 03008019c यावन्मित्रविहीनाश्च तावच्छक्या मतं मम 03008020a तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः 03008020c बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा 03008021a एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक् 03008021c निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः 03008022a तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा 03008022c आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा 03008023a प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः 03008023c प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः 03009001 व्यास उवाच 03009001a धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम 03009001c वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् 03009002a न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् 03009002c निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः 03009003a ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे 03009003c विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत 03009004a तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः 03009004c पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति 03009005a वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः 03009005c वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते 03009006a यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् 03009006c यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् 03009007a विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः 03009007c अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः 03009008a समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत 03009008c उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् 03009009a अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः 03009009c पाण्डवैः सहितो राजन्नेक एवासहायवान् 03009010a ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः 03009010c यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर 03009011a अथ वा जायमानस्य यच्छीलमनुजायते 03009011c श्रूयते तन्महाराज नामृतस्यापसर्पति 03009012a कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा 03009012c भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते 03010001 धृतराष्ट्र उवाच 03010001a भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् 03010001c मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने 03010002a नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च 03010002c गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् 03010003a परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् 03010003c पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत 03010004 व्यास उवाच 03010004a वैचित्रवीर्य नृपते सत्यमाह यथा भवान् 03010004c दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते 03010005a इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः 03010005c अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् 03010006a अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् 03010006c सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते 03010007a त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल 03010007c गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत 03010008 इन्द्र उवाच 03010008a किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् 03010008c मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति 03010009 सुरभिरुवाच 03010009a विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप 03010009c अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक 03010010a पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् 03010010c प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् 03010011a एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप 03010011c कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम 03010012a एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् 03010012c अपरोऽल्पबलप्राणः कृशो धमनिसंततः 03010012e कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव 03010013a वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः 03010013c नैव शक्नोति तं भारमुद्वोढुं पश्य वासव 03010014a ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता 03010014c अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती 03010015 इन्द्र उवाच 03010015a तव पुत्रसहस्रेषु पीड्यमानेषु शोभने 03010015c किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते 03010016 सुरभिरुवाच 03010016a यदि पुत्रसहस्रं मे सर्वत्र सममेव मे 03010016c दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा 03010017 व्यास उवाच 03010017a तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः 03010017c जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् 03010018a प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् 03010018c कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः 03010019a तद्यथा सुरभिः प्राह सममेवास्तु ते तथा 03010019c सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा 03010020a यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक 03010020c विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् 03010021a चिराय तव पुत्राणां शतमेकश्च पार्थिव 03010021c पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः 03010022a कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि 03010022c इति दीनेषु पार्थेषु मनो मे परितप्यते 03010023a यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि 03010023c दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः 03011001 धृतराष्ट्र उवाच 03011001a एवमेतन्महाप्राज्ञ यथा वदसि नो मुने 03011001c अहं चैव विजानामि सर्वे चेमे नराधिपाः 03011002a भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् 03011002c तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने 03011003a यदि त्वहमनुग्राह्यः कौरवेषु दया यदि 03011003c अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम 03011004 व्यास उवाच 03011004a अयमायाति वै राजन्मैत्रेयो भगवानृषिः 03011004c अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया 03011005a एष दुर्योधनं पुत्रं तव राजन्महानृषिः 03011005c अनुशास्ता यथान्यायं शमायास्य कुलस्य ते 03011006a ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया 03011006c अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा 03011007 वैशंपायन उवाच 03011007a एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत 03011007c पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः 03011008a दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् 03011008c प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः 03011009a सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले 03011009c कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः 03011010a समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः 03011010c कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति 03011011 मैत्रेय उवाच 03011011a तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् 03011011c यदृच्छया धर्मराजं दृष्टवान्काम्यके वने 03011012a तं जटाजिनसंवीतं तपोवननिवासिनम् 03011012c समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो 03011013a तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् 03011013c अनयं द्यूतरूपेण महापायमुपस्थितम् 03011014a ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया 03011014c सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो 03011015a नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति 03011015c यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप 03011016a मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् 03011016c किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे 03011017a दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन 03011017c तेन न भ्राजसे राजंस्तापसानां समागमे 03011018 वैशंपायन उवाच 03011018a ततो व्यावृत्य राजानं दुर्योधनममर्षणम् 03011018c उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः 03011019a दुर्योधन महाबाहो निबोध वदतां वर 03011019c वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव 03011020a मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः 03011020c पाण्डवानां कुरूणां च लोकस्य च नरर्षभ 03011021a ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः 03011021c सर्वे नागायुतप्राणा वज्रसंहनना दृढाः 03011022a सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः 03011022c हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् 03011022e हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः 03011023a इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् 03011023c आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः 03011024a तं भीमः समरश्लाघी बलेन बलिनां वरः 03011024c जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा 03011025a पश्य दिग्विजये राजन्यथा भीमेन पातितः 03011025c जरासंधो महेष्वासो नागायुतबलो युधि 03011026a संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः 03011026c कस्तान्युधि समासीत जरामरणवान्नरः 03011027a तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ 03011027c कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः 03011028a एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते 03011028c ऊरुं गजकराकारं करेणाभिजघान सः 03011029a दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् 03011029c न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः 03011030a तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् 03011030c दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् 03011031a स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः 03011031c विधिना संप्रयुक्तश्च शापायास्य मनो दधे 03011032a ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः 03011032c मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् 03011033a यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि 03011033c तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि 03011034a त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् 03011034c यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली 03011035a इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः 03011035c प्रसादयामास मुनिं नैतदेवं भवेदिति 03011036 मैत्रेय उवाच 03011036a शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा 03011036c शापो न भविता तात विपरीते भविष्यति 03011037 वैशंपायन उवाच 03011037a स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा 03011037c मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः 03011038 मैत्रेय उवाच 03011038a नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः 03011038c एष ते विदुरः सर्वमाख्यास्यति गते मयि 03011039 वैशंपायन उवाच 03011039a इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् 03011039c किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् 03012001 धृतराष्ट्र उवाच 03012001a किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् 03012001c रक्षसा भीमसेनस्य कथमासीत्समागमः 03012002 विदुर उवाच 03012002a शृणु भीमस्य कर्मेदमतिमानुषकर्मणः 03012002c श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः 03012003a इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः 03012003c जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् 03012004a रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप 03012004c प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् 03012005a तद्वनं तापसा नित्यं शेषाश्च वनचारिणः 03012005c दूरात्परिहरन्ति स्म पुरुषादभयात्किल 03012006a तेषां प्रविशतां तत्र मार्गमावृत्य भारत 03012006c दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत 03012007a बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् 03012007c स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः 03012008a दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् 03012008c सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् 03012009a सृजन्तं राक्षसीं मायां महारावविराविणम् 03012009c मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् 03012010a तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् 03012010c विमुक्तनादाः संपेतुः स्थलजा जलजैः सह 03012011a संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् 03012011c तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् 03012012a तस्योरुवाताभिहता ताम्रपल्लवबाहवः 03012012c विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् 03012013a तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः 03012013c रजसा संवृतं तेन नष्टर्क्षमभवन्नभः 03012014a पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः 03012014c पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः 03012015a स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् 03012015c आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः 03012016a तं समासाद्य वित्रस्ता कृष्णा कमललोचना 03012016c अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने 03012017a दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा 03012017c पञ्चपर्वतमध्यस्था नदीवाकुलतां गता 03012018a मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः 03012018c इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् 03012019a अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् 03012019c रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः 03012019e पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् 03012020a स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः 03012020c काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत 03012021a तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः 03012021c को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् 03012022a प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् 03012022c अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः 03012023a वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः 03012023c युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् 03012024a के यूयमिह संप्राप्ता भक्ष्यभूता ममान्तिकम् 03012024c युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः 03012025a युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः 03012025c आचचक्षे ततः सर्वं गोत्रनामादि भारत 03012026a पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः 03012026c सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः 03012027a हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः 03012027c वनमभ्यागतो घोरमिदं तव परिग्रहम् 03012028a किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम 03012028c उपपादितमद्येह चिरकालान्मनोगतम् 03012029a भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः 03012029c चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् 03012030a सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् 03012030c अनेन हि मम भ्राता बको विनिहतः प्रियः 03012031a वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा 03012031c विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् 03012032a हिडिम्बश्च सखा मह्यं दयितो वनगोचरः 03012032c हतो दुरात्मनानेन स्वसा चास्य हृता पुरा 03012033a सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् 03012033c प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते 03012034a अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम् 03012034c तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा 03012035a अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च 03012035c शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् 03012036a यदि तेन पुरा मुक्तो भीमसेनो बकेन वै 03012036c अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर 03012037a एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् 03012037c संभक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् 03012038a एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः 03012038c नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् 03012039a ततो भीमो महाबाहुरारुज्य तरसा द्रुम 03012039c दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा 03012040a चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् 03012040c निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः 03012041a निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् 03012041c अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत 03012042a इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः 03012042c निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली 03012042e तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा 03012043a यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि 03012043c पातयामास वेगेन कुलिशं मघवानिव 03012044a असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत 03012044c चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव 03012045a तदुदस्तमलातं तु भीमः प्रहरतां वरः 03012045c पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् 03012046a किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् 03012046c दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत 03012047a तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 03012047c वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा 03012048a शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः 03012048c यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा 03012049a मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः 03012049c चीराणीव व्युदस्तानि रेजुस्तत्र महावने 03012050a तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते 03012050c राक्षसानां च मुख्यस्य नराणामुत्तमस्य च 03012051a ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः 03012051c प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह 03012052a तं शिलाताडनजडं पर्यधावत्स राक्षसः 03012052c बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् 03012053a तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 03012053c उभावपि चकाशेते प्रयुद्धौ वृषभाविव 03012054a तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः 03012054c नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः 03012055a दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः 03012055c कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः 03012056a अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः 03012056c मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः 03012057a तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान् 03012057c तमाक्षिपद्भीमसेनो बलेन बलिनां वरः 03012058a तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा 03012058c शब्दः समभवद्घोरो वेणुस्फोटसमो युधि 03012059a अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः 03012059c धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् 03012060a स भीमेन परामृष्टो दुर्बलो बलिना रणे 03012060c व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् 03012061a तत एनं परिश्रान्तमुपलभ्य वृकोदरः 03012061c योक्त्रयामास बाहुभ्यां पशुं रशनया यथा 03012062a विनदन्तं महानादं भिन्नभेरीसमस्वनम् 03012062c भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् 03012063a तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः 03012063c प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् 03012064a आक्रम्य स कटीदेशे जानुना राक्षसाधमम् 03012064c अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः 03012065a अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् 03012065c भूतले पातयामास वाक्यं चेदमुवाच ह 03012066a हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् 03012066c करिष्यसि गतश्चासि यमस्य सदनं प्रति 03012067a इत्येवमुक्त्वा पुरुषप्रवीर;स्तं राक्षसं क्रोधविवृत्तनेत्रः 03012067c प्रस्रस्तवस्त्राभरणं स्फुरन्त;मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज 03012068a तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः 03012068c भीमं प्रशस्याथ गुणैरनेकै;र्हृष्टास्ततो द्वैतवनाय जग्मुः 03012069a एवं विनिहतः संख्ये किर्मीरो मनुजाधिप 03012069c भीमेन वचनात्तस्य धर्मराजस्य कौरव 03012070a ततो निष्कण्टकं कृत्वा वनं तदपराजितः 03012070c द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह 03012071a समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः 03012071c प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् 03012072a भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः 03012072c विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् 03012073a स मया गच्छता मार्गे विनिकीर्णो भयावहः 03012073c वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः 03012074a तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत 03012074c ब्राह्मणानां कथयतां ये तत्रासन्समागताः 03012075 वैशंपायन उवाच 03012075a एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् 03012075c श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा 03013001 वैशंपायन उवाच 03013001a भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह 03013001c पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने 03013002a पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः 03013002c केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः 03013003a वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः 03013003c गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् 03013004a वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः 03013004c परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् 03013005 वासुदेव उवाच 03013005a दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 03013005c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 03013006a ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् 03013006c निकृत्योपचरन्वध्य एष धर्मः सनातनः 03013007 वैशंपायन उवाच 03013007a पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् 03013007c अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः 03013008a संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः 03013008c कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः 03013009a पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः 03013009c प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः 03013010 अर्जुन उवाच 03013010a दश वर्षसहस्राणि यत्रसायंगृहो मुनिः 03013010c व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने 03013011a दश वर्षसहस्राणि दश वर्षशतानि च 03013011c पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा 03013012a ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन 03013012c अतिष्ठ एकपादेन वायुभक्षः शतं समाः 03013013a अपकृष्टोत्तरासङ्गः कृशो धमनिसंततः 03013013c आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके 03013014a प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् 03013014c तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् 03013014e आतिष्ठस्तप एकेन पादेन नियमे स्थितः 03013015a क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव 03013015c निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः 03013016a निहत्य नरकं भौममाहृत्य मणिकुण्डले 03013016c प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः 03013017a कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् 03013017c अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् 03013018a ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः 03013018c मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव 03013019a स त्वं नारायणो भूत्वा हरिरासीः परंतप 03013019c ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः 03013020a वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः 03013020c अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम 03013021a तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः 03013021c अयजो भूरितेजा वै कृष्ण चैत्ररथे वने 03013022a शतं शतसहस्राणि सुवर्णस्य जनार्दन 03013022c एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः 03013023a अदितेरपि पुत्रत्वमेत्य यादवनन्दन 03013023c त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि 03013024a शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप 03013024c त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा 03013025a संप्राप्य दिवमाकाशमादित्यसदने स्थितः 03013025c अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा 03013026a सादिता मौरवाः पाशा निसुन्दनरकौ हतौ 03013026c कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 03013027a जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह 03013027c भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः 03013028a तथा पर्जन्यघोषेण रथेनादित्यवर्चसा 03013028c अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् 03013029a इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् 03013029c हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् 03013030a इरावत्यां तथा भोजः कार्तवीर्यसमो युधि 03013030c गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ 03013031a तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन 03013031c द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि 03013032a न क्रोधो न च मात्सर्यं नानृतं मधुसूदन 03013032c त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु 03013033a आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा 03013033c आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत 03013034a युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन 03013034c आत्मन्येवात्मसात्कृत्वा जगदास्से परंतप 03013035a नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते 03013035c कर्माणि यानि देव त्वं बाल एव महाद्युते 03013036a कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् 03013036c वैराजभवने चापि ब्रह्मणा न्यवसः सह 03013037 वैशंपायन उवाच 03013037a एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः 03013037c तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः 03013038a ममैव त्वं तवैवाहं ये मदीयास्तवैव ते 03013038c यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु 03013039a नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् 03013039c लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी 03013040a अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत 03013040c नावयोरन्तरं शक्यं वेदितुं भरतर्षभ 03013041a तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु 03013041c धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता 03013042a पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह 03013042c अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी 03013043a पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् 03013043c स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् 03013044a विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन 03013044c यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् 03013045a ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम 03013045c सत्याद्यज्ञोऽसि संभूतः कश्यपस्त्वां यथाब्रवीत् 03013046a साध्यानामपि देवानां वसूनामीश्वरेश्वरः 03013046c लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् 03013047a दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो 03013047c जठरं ते इमे लोकाः पुरुषोऽसि सनातनः 03013048a विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् 03013048c आत्मदर्शनसिद्धानामृषीणामृषिसत्तम 03013049a राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् 03013049c सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम 03013050a त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः 03013050c लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश 03013050e नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् 03013051a मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् 03013051c त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् 03013052a सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन 03013052c ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः 03013053a कथं नु भार्या पार्थानां तव कृष्ण सखी विभो 03013053c धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी 03013054a स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता 03013054c एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि 03013055a राजमध्ये सभायां तु रजसाभिसमीरिताम् 03013055c दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः 03013056a दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन 03013056c जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु 03013057a नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः 03013057c स्नुषा भवामि धर्मेण साहं दासीकृता बलात् 03013058a गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् 03013058c ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् 03013059a धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 03013059c यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन 03013060a शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा 03013060c यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि 03013061a भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 03013061c प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः 03013062a आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत 03013062c भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे 03013063a नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन 03013063c ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः 03013064a पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः 03013064c एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन 03013065a प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् 03013065c अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः 03013066a कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः 03013066c प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः 03013067a नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः 03013067c किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् 03013068a अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा 03013068c सभायां परिकृष्टाहमेकवस्त्रा रजस्वला 03013069a नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् 03013069c अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन 03013070a धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् 03013070c यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति 03013071a य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् 03013071c अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन 03013072a भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् 03013072c कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् 03013073a तज्जीर्णमविकारेण सहान्नेन जनार्दन 03013073c सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम 03013074a प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् 03013074c बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् 03013075a यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् 03013075c उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः 03013076a आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् 03013076c सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा 03013077a प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् 03013077c सारथिं चास्य दयितमपहस्तेन जघ्निवान् 03013078a पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते 03013078c शयानानार्यया सार्धं को नु तत्कर्तुमर्हति 03013079a यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् 03013079c महद्व्यसनमापन्ना शिखिना परिवारिता 03013080a हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् 03013080c अनाथा विनशिष्यामि बालकैः पुत्रकैः सह 03013081a तत्र भीमो महाबाहुर्वायुवेगपराक्रमः 03013081c आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः 03013082a वैनतेयो यथा पक्षी गरुडः पततां वरः 03013082c तथैवाभिपतिष्यामि भयं वो नेह विद्यते 03013083a आर्यामङ्केन वामेन राजानं दक्षिणेन च 03013083c अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च 03013084a सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् 03013084c भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् 03013085a ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः 03013085c अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् 03013086a श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः 03013086c सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी 03013087a भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् 03013087c पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना 03013088a तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः 03013088c पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते 03013089a तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः 03013089c भीमरूपो महानादान्विसृजन्भीमदर्शनः 03013090a केन सार्धं कथयसि आनयैनं ममान्तिकम् 03013090c हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि 03013091a सा कृपासंगृहीतेन हृदयेन मनस्विनी 03013091c नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता 03013092a स नादान्विनदन्घोरान्राक्षसः पुरुषादकः 03013092c अभ्यद्रवत वेगेन भीमसेनं तदा किल 03013093a तमभिद्रुत्य संक्रुद्धो वेगेन महता बली 03013093c अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः 03013094a इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् 03013094c संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् 03013095a गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा 03013095c नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः 03013096a तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः 03013096c सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव 03013097a हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह 03013097c हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः 03013098a ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः 03013098c एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः 03013099a प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् 03013099c ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः 03013100a तत्राप्यासादयामासुर्बकं नाम महाबलम् 03013100c पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् 03013101a तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः 03013101c सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ 03013102a लब्धाहमपि तत्रैव वसता सव्यसाचिना 03013102c यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा 03013103a एवं सुयुद्धे पार्थेन जिताहं मधुसूदन 03013103c स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः 03013104a एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः 03013104c निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः 03013105a त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः 03013105c विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् 03013106a एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् 03013106c दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् 03013107a कुले महति जातास्मि दिव्येन विधिना किल 03013107c पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः 03013108a कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती 03013108c पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन 03013109a इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना 03013109c पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी 03013110a स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ 03013110c अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः 03013111a चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः 03013111c बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् 03013112a नैव मे पतयः सन्ति न पुत्रा मधुसूदन 03013112c न भ्रातरो न च पिता नैव त्वं न च बान्धवाः 03013113a ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् 03013113c न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा 03013114a अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे 03013114c रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि 03013115a बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् 03013115c निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले 03013116a यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः 03013116c सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि 03013117a पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् 03013117c शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् 03013118 धृष्टद्युम्न उवाच 03013118a अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् 03013118c दुर्योधनं भीमसेनः कर्णं हन्ता धनंजयः 03013119a रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते 03013119c अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः 03013120 वैशंपायन उवाच 03013120a इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता 03013120c तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् 03014001 वासुदेव उवाच 03014001a नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप 03014001c यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा 03014002a आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः 03014002c आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च 03014003a वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् 03014003c भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च 03014004a वैचित्रवीर्यं राजानमलं द्यूतेन कौरव 03014004c पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो 03014005a तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः 03014005c वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा 03014006a अभक्षितविनाशं च देवनेन विशां पते 03014006c सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् 03014007a स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् 03014007c व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः 03014008a तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः 03014008c विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः 03014009a एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च 03014009c अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् 03014010a एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् 03014010c द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् 03014011a एवमुक्तो यदि मया गृह्णीयाद्वचनं मम 03014011c अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन 03014012a न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः 03014012c पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् 03014013a अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः 03014013c सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् 03014014a असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा 03014014c येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् 03014015a सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन 03014015c अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् 03014016a श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः 03014016c तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते 03014017a अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ 03014017c ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः 03015001 युधिष्ठिर उवाच 03015001a असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन 03015001c क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः 03015002 कृष्ण उवाच 03015002a शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ 03015002c विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् 03015003a महातेजा महाबाहुर्यः स राजा महायशाः 03015003c दमघोषात्मजो वीरः शिशुपालो मया हतः 03015004a यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति 03015004c स रोषवशसंप्राप्तो नामृष्यत दुरात्मवान् 03015005a श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः 03015005c उपायाद्द्वारकां शून्यामिहस्थे मयि भारत 03015006a स तत्र योधितो राजन्बालकैर्वृष्णिपुंगवैः 03015006c आगतः कामगं सौभमारुह्यैव नृशंसकृत् 03015007a ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा 03015007c पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः 03015008a उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः 03015008c वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः 03015009a तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् 03015009c आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः 03015010a तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् 03015010c अहत्वा न निवर्तिष्ये सत्येनायुधमालभे 03015011a क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति 03015011c मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् 03015012a अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् 03015012c शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् 03015013a मम पापस्वभावेन भ्राता येन निपातितः 03015013c शिशुपालो महीपालस्तं वधिष्ये महीतले 03015014a भ्राता बालश्च राजा च न च संग्राममूर्धनि 03015014c प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् 03015015a एवमादि महाराज विलप्य दिवमास्थितः 03015015c कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन 03015016a तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः 03015016c मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः 03015017a ततोऽहमपि कौरव्य रोषव्याकुललोचनः 03015017c निश्चित्य मनसा राजन्वधायास्य मनो दधे 03015018a आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव 03015018c प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः 03015019a ततः सौभवधायाहं प्रतस्थे पृथिवीपते 03015019c स मया सागरावर्ते दृष्ट आसीत्परीप्सता 03015020a ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप 03015020c आहूय शाल्वं समरे युद्धाय समवस्थितः 03015021a सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह 03015021c वशीभूताश्च मे सर्वे भूतले च निपातिताः 03015022a एतत्कार्यं महाबाहो येनाहं नागमं तदा 03015022c श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् 03016001 युधिष्ठिर उवाच 03016001a वासुदेव महाबाहो विस्तरेण महामते 03016001c सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः 03016002 वासुदेव उवाच 03016002a हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् 03016002c उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् 03016003a अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन 03016003c शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः 03016004a तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् 03016004c अभिसारेण सर्वेण तत्र युद्धमवर्तत 03016005a पुरी समन्ताद्विहिता सपताका सतोरणा 03016005c सचक्रा सहुडा चैव सयन्त्रखनका तथा 03016006a सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा 03016006c सकचग्रहणी चैव सोल्कालातावपोथिका 03016007a सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका 03016007c समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला 03016008a सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा 03016008c लोहचर्मवती चापि साग्निः सहुडशृङ्गिका 03016009a शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ 03016009c द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः 03016010a पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने 03016010c अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे 03016011a मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता 03016011c उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः 03016012a आघोषितं च नगरे न पातव्या सुरेति ह 03016012c प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः 03016013a प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः 03016013c इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः 03016014a आनर्ताश्च तथा सर्वे नटनर्तकगायनाः 03016014c बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसंचयान् 03016015a संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः 03016015c परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः 03016016a उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः 03016016c समन्तात्क्रोशमात्रं च कारिता विषमा च भूः 03016017a प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् 03016017c प्रकृत्या चायुधोपेतं विशेषेण तदानघ 03016018a सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् 03016018c तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा 03016019a न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते 03016019c वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे 03016020a अनु रथ्यासु सर्वासु चत्वरेषु च कौरव 03016020c बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् 03016021a दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् 03016021c कृतापदानं च तदा बलमासीन्महाभुज 03016022a न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी 03016022c नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः 03016023a एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः 03016023c आहुकेन सुगुप्ता च राज्ञा राजीवलोचन 03017001 वासुदेव उवाच 03017001a तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा 03017001c प्रभूतनरनागेन बलेनोपविवेश ह 03017002a समे निविष्टा सा सेना प्रभूतसलिलाशये 03017002c चतुरङ्गबलोपेता शाल्वराजाभिपालिता 03017003a वर्जयित्वा श्मशानानि देवतायतनानि च 03017003c वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् 03017004a अनीकानां विभागेन पन्थानः षट्कृताभवन् 03017004c प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप 03017005a सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् 03017005c रथनागाश्वकलिलं पदातिध्वजसंकुलम् 03017006a तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् 03017006c विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् 03017007a संनिवेश्य च कौरव्य द्वारकायां नरर्षभ 03017007c अभिसारयामास तदा वेगेन पतगेन्द्रवत् 03017008a तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा 03017008c निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः 03017009a असहन्तोऽभियानं तच्छाल्वराजस्य कौरव 03017009c चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः 03017010a ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः 03017010c संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः 03017011a गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे 03017011c योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् 03017012a तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् 03017012c मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् 03017013a तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः 03017013c क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः 03017014a ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह 03017014c मुमोच मायाविहितं शरजालं महत्तरम् 03017015a ततो मायामयं जालं माययैव विदार्य सः 03017015c साम्बः शरसहस्रेण रथमस्याभ्यवर्षत 03017016a ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः 03017016c अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः 03017017a तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ 03017017c वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली 03017018a अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः 03017018c वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् 03017019a स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् 03017019c चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः 03017020a तया त्वभिहतो राजन्वेगवानपतद्भुवि 03017020c वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः 03017021a तस्मिन्निपतिते वीरे गदानुन्ने महासुरे 03017021c प्रविश्य महतीं सेनां योधयामास मे सुतः 03017022a चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः 03017022c महारथः समाज्ञातो महाराज महाधनुः 03017023a ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः 03017023c वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् 03017024a अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः 03017024c विनदन्तौ महाराज सिंहाविव महाबलौ 03017025a रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् 03017025c अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् 03017026a स विविन्ध्याय सक्रोधः समाहूय महारथः 03017026c चिक्षेप मे सुतो राजन्स गतासुरथापतत् 03017027a विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् 03017027c कामगेन स सौभेन शाल्वः पुनरुपागमत् 03017028a ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् 03017028c दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् 03017029a ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् 03017029c आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् 03017030a सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि 03017030c निवारयन्तं संग्रामे बलात्सौभं सराजकम् 03017031a अहं सौभपतेः सेनामायसैर्भुजगैरिव 03017031c धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः 03017032a आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति 03017032c मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति 03017033a एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन 03017033c विष्ठितं तद्बलं वीर युयुधे च यथासुखम् 03018001 वासुदेव उवाच 03018001a एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ 03018001c दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् 03018002a उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम् 03018002c उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् 03018003a विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः 03018003c तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् 03018004a स विद्युच्चलितं चापं विहरन्वै तलात्तलम् 03018004c मोहयामास दैतेयान्सर्वान्सौभनिवासिनः 03018005a नास्य विक्षिपतश्चापं संदधानस्य चासकृत् 03018005c अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे 03018006a मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य 03018006c सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् 03018007a जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी 03018007c वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः 03018008a ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः 03018008c शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप 03018009a अभियानं तु वीरेण प्रद्युम्नेन महाहवे 03018009c नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह 03018010a स रोषमदमत्तो वै कामगादवरुह्य च 03018010c प्रद्युम्नं योधयामास शाल्वः परपुरंजयः 03018011a तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः 03018011c समेता ददृशुर्लोका बलिवासवयोरिव 03018012a तस्य मायामयो वीर रथो हेमपरिष्कृतः 03018012c सध्वजः सपताकश्च सानुकर्षः सतूणवान् 03018013a स तं रथवरं श्रीमान्समारुह्य किल प्रभो 03018013c मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः 03018014a ततो बाणमयं वर्षं व्यसृजत्तरसा रणे 03018014c प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव 03018015a स तैरभिहतः संख्ये नामर्षयत सौभराट् 03018015c शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम 03018016a स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः 03018016c मुमोच बाणं त्वरितो मर्मभेदिनमाहवे 03018017a तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः 03018017c बिभेद हृदयं पत्री स पपात मुमोह च 03018018a तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि 03018018c संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम् 03018019a हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते 03018019c नष्टसंज्ञे निपतिते तदा सौभपतौ नृप 03018020a तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् 03018020c मुमोच बाणं तरसा प्रद्युम्नाय महाबलः 03018021a तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः 03018021c जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा 03018022a तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् 03018022c ननाद सिंहनादं वै नादेनापूरयन्महीम् 03018023a ततो मोहं समापन्ने तनये मम भारत 03018023c मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् 03018024a स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः 03018024c निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे 03019001 वासुदेव उवाच 03019001a शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे 03019001c वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः 03019002a हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा 03019002c प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् 03019003a तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः 03019003c रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः 03019004a नातिदूरापयाते तु रथे रथवरप्रणुत् 03019004c धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम् 03019005a सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः 03019005c नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते 03019006a कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे 03019006c विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् 03019007 सूत उवाच 03019007a जानार्दने न मे मोहो नापि मे भयमाविशत् 03019007c अतिभारं तु ते मन्ये शाल्वं केशवनन्दन 03019008a सोऽपयामि शनैर्वीर बलवानेष पापकृत् 03019008c मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी 03019009a आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् 03019009c रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् 03019010a एकश्चासि महाबाहो बहवश्चापि दानवाः 03019010c नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् 03019011 वासुदेव उवाच 03019011a एवं ब्रुवति सूते तु तदा मकरकेतुमान् 03019011c उवाच सूतं कौरव्य निवर्तय रथं पुनः 03019012a दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन 03019012c व्यपयानं रणात्सौते जीवतो मम कर्हिचित् 03019013a न स वृष्णिकुले जातो यो वै त्यजति संगरम् 03019013c यो वा निपतितं हन्ति तवास्मीति च वादिनम् 03019014a तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च 03019014c विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा 03019015a त्वं च सूतकुले जातो विनीतः सूतकर्मणि 03019015c धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके 03019016a स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे 03019016c अपयानं पुनः सौते मैवं कार्षीः कथंचन 03019017a अपयातं हतं पृष्ठे भीतं रणपलायिनम् 03019017c गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः 03019018a केशवस्याग्रजो वापि नीलवासा मदोत्कटः 03019018c किं वक्ष्यति महाबाहुर्बलदेवः समागतः 03019019a किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः 03019019c अपयातं रणात्सौते साम्बश्च समितिंजयः 03019020a चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ 03019020c अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे 03019021a शूरं संभावितं सन्तं नित्यं पुरुषमानिनम् 03019021c स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः 03019022a प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् 03019022c धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति 03019023a धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा 03019023c मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः 03019024a भारं हि मयि संन्यस्य यातो मधुनिहा हरिः 03019024c यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः 03019025a कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः 03019025c शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज 03019026a स च संभावयन्मां वै निवृत्तो हृदिकात्मजः 03019026c तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् 03019027a उपयातं दुराधर्षं शङ्खचक्रगदाधरम् 03019027c पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् 03019028a सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः 03019028c मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् 03019029a त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः 03019029c त्वयापनीतो विवशो न जीवेयं कथंचन 03019030a स निवर्त रथेनाशु पुनर्दारुकनन्दन 03019030c न चैतदेवं कर्तव्यमथापत्सु कथंचन 03019031a न जीवितमहं सौते बहु मन्ये कदाचन 03019031c अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः 03019032a कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् 03019032c अपयातं रणं हित्वा यथा कापुरुषं तथा 03019033a न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज 03019033c मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् 03020001 वासुदेव उवाच 03020001a एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे 03020001c प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा 03020002a न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् 03020002c युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा 03020003a आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः 03020003c सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः 03020004a त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् 03020004c कश्मलाभिहतो वीर ततोऽहमपयातवान् 03020005a स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया 03020005c पश्य मे हयसंयाने शिक्षां केशवनन्दन 03020006a दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः 03020006c वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् 03020007a एवमुक्त्वा ततो वीर हयान्संचोद्य संगरे 03020007c रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा 03020008a मण्डलानि विचित्राणि यमकानीतराणि च 03020008c सव्यानि च विचित्राणि दक्षिणानि च सर्वशः 03020009a प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः 03020009c उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः 03020010a ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् 03020010c दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् 03020011a सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ 03020011c चकार नातियत्नेन तदद्भुतमिवाभवत् 03020012a अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् 03020012c यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् 03020013a दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् 03020013c भूय एव महाबाहो प्रययौ हयसंमतः 03020014a ततो बाणान्बहुविधान्पुनरेव स सौभराट् 03020014c मुमोच तनये वीरे मम रुक्मिणिनन्दने 03020015a तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा 03020015c रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् 03020016a छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् 03020016c आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् 03020017a प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः 03020017c ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः 03020018a ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः 03020018c शिरस्युरसि वक्त्रे च स मुमोह पपात च 03020019a तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते 03020019c रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् 03020020a तमर्चितं सर्वदाशार्हपूगै;राशीर्भिरर्कज्वलनप्रकाशम् 03020020c दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् 03020021a ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः 03020021c नारदं प्रेषयामासुः श्वसनं च महाबलम् 03020022a तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् 03020022c नैष वध्यस्त्वया वीर शाल्वराजः कथंचन 03020023a संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे 03020023c एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् 03020024a मृत्युरस्य महाबाहो रणे देवकिनन्दनः 03020024c कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति 03020025a ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् 03020025c संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् 03020026a तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः 03020026c व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः 03020027a स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः 03020027c सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा 03021001 वासुदेव उवाच 03021001a आनर्तनगरं मुक्तं ततोऽहमगमं तदा 03021001c महाक्रतौ राजसूये निवृत्ते नृपते तव 03021002a अपश्यं द्वारकां चाहं महाराज हतत्विषम् 03021002c निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् 03021003a अनभिज्ञेयरूपाणि द्वारकोपवनानि च 03021003c दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् 03021004a अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् 03021004c किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् 03021005a एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् 03021005c रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम 03021006a ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः 03021006c विनाशे शाल्वराजस्य तदैवाकरवं मतिम् 03021007a ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् 03021007c राजानमाहुकं चैव तथैवानकदुन्दुभिम् 03021007e सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा 03021008a अप्रमादः सदा कार्यो नगरे यादवर्षभाः 03021008c शाल्वराजविनाशाय प्रयातं मां निबोधत 03021009a नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति 03021009c सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः 03021009e त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी 03021010a ते मयाश्वासिता वीरा यथावद्भरतर्षभ 03021010c सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् 03021011a तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः 03021011c वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् 03021012a सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः 03021012c प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप 03021013a प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः 03021013c कॢप्तेन चतुरङ्गेण बलेन जितकाशिना 03021014a समतीत्य बहून्देशान्गिरींश्च बहुपादपान् 03021014c सरांसि सरितश्चैव मार्त्तिकावतमासदम् 03021015a तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् 03021015c प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् 03021016a ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः 03021016c समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् 03021017a स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर 03021017c आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः 03021018a तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः 03021018c पुरं नासाद्यत शरैस्ततो मां रोष आविशत् 03021019a स चापि पापप्रकृतिर्दैतेयापसदो नृप 03021019c मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः 03021020a सैनिकान्मम सूतं च हयांश्च समवाकिरत् 03021020c अचिन्तयन्तस्तु शरान्वयं युध्याम भारत 03021021a ततः शतसहस्राणि शराणां नतपर्वणाम् 03021021c चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः 03021022a ते हयान्मे रथं चैव तदा दारुकमेव च 03021022c छादयामासुरसुरा बाणैर्मर्मविभेदिभिः 03021023a न हया न रथो वीर न यन्ता मम दारुकः 03021023c अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे 03021024a ततोऽहमपि कौरव्य शराणामयुतान्बहून् 03021024c अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् 03021025a न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत 03021025c खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् 03021026a ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः 03021026c हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः 03021027a मत्कार्मुकविनिर्मुक्ता दानवानां महारणे 03021027c अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव 03021028a ततो हलहलाशब्दः सौभमध्ये व्यवर्धत 03021028c वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे 03021029a ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः 03021029c नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः 03021030a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् 03021030c जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् 03021031a तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा 03021031c मायायुद्धेन महता योधयामास मां युधि 03021032a ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः 03021032c पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि 03021033a तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् 03021033c तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् 03021034a ततोऽभवत्तम इव प्रभातमिव चाभवत् 03021034c दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत 03021035a एवं मायां विकुर्वाणो योधयामास मां रिपुः 03021035c विज्ञाय तदहं सर्वं माययैव व्यनाशयम् 03021035e यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः 03021036a ततो व्योम महाराज शतसूर्यमिवाभवत् 03021036c शतचन्द्रं च कौन्तेय सहस्रायुततारकम् 03021037a ततो नाज्ञायत तदा दिवारात्रं तथा दिशः 03021037c ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् 03021037e ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् 03021038a तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् 03021038c लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् 03022001 वासुदेव उवाच 03022001a एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः 03022001c युध्यमानो मया संख्ये वियदभ्यागमत्पुनः 03022002a ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च 03022002c चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी 03022003a तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव 03022003c द्विधा त्रिधा चाच्छिनमाशु मुक्तै;स्ततोऽन्तरिक्षे निनदो बभूव 03022004a ततः शतसहस्रेण शराणां नतपर्वणाम् 03022004c दारुकं वाजिनश्चैव रथं च समवाकिरत् 03022005a ततो मामब्रवीद्वीर दारुको विह्वलन्निव 03022005c स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः 03022006a इति तस्य निशम्याहं सारथेः करुणं वचः 03022006c अवेक्षमाणो यन्तारमपश्यं शरपीडितम् 03022007a न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये 03022007c अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः 03022008a स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् 03022008c अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् 03022009a अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे 03022009c अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् 03022010a अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् 03022010c त्वरितो रथमभ्येत्य सौहृदादिव भारत 03022011a आहुकस्य वचो वीर तस्यैव परिचारकः 03022011c विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर 03022012a द्वारकाधिपतिर्वीर आह त्वामाहुको वचः 03022012c केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् 03022013a उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन 03022013c विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् 03022014a तदलं साधु युद्धेन निवर्तस्व जनार्दन 03022014c द्वारकामेव रक्षस्व कार्यमेतन्महत्तव 03022015a इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः 03022015c निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा 03022016a सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् 03022016c जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः 03022017a अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन 03022017c तेषु रक्षां समाधाय प्रयातः सौभपातने 03022018a बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा 03022018c सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् 03022018e साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः 03022019a एतेषु हि नरव्याघ्र जीवत्सु न कथंचन 03022019c शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् 03022020a हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः 03022020c बलदेवमुखाः सर्वे इति मे निश्चिता मतिः 03022021a सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः 03022021c सुविह्वलो महाराज पुनः शाल्वमयोधयम् 03022022a ततोऽपश्यं महाराज प्रपतन्तमहं तदा 03022022c सौभाच्छूरसुतं वीर ततो मां मोह आविशत् 03022023a तस्य रूपं प्रपततः पितुर्मम नराधिप 03022023c ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् 03022024a विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः 03022024c प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः 03022025a ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम 03022025c मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् 03022026a ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् 03022026c मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत 03022027a प्रसार्य बाहू पततः प्रसार्य चरणावपि 03022027c रूपं पितुरपश्यं तच्छकुनेः पततो यथा 03022028a तं पतन्तं महाबाहो शूलपट्टिशपाणयः 03022028c अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् 03022029a ततो मुहूर्तात्प्रतिलभ्य संज्ञा;महं तदा वीर महाविमर्दे 03022029c न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि 03022030a ततो ममासीन्मनसि मायेयमिति निश्चितम् 03022030c प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् 03023001 वासुदेव उवाच 03023001a ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः 03023001c शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् 03023002a शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः 03023002c अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः 03023003a ततो नादृश्यत तदा सौभं कुरुकुलोद्वह 03023003c अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् 03023004a अथ दानवसंघास्ते विकृताननमूर्धजाः 03023004c उदक्रोशन्महाराज विष्ठिते मयि भारत 03023005a ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे 03023005c अयोजयं तद्वधाय ततः शब्द उपारमत् 03023006a हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः 03023006c शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः 03023007a तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् 03023007c शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् 03023008a एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत 03023008c नादयामासुरसुरास्ते चापि निहता मया 03023009a ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत 03023009c सौभं कामगमं वीर मोहयन्मम चक्षुषी 03023010a ततो लोकान्तकरणो दानवो वानराकृतिः 03023010c शिलावर्षेण सहसा महता मां समावृणोत् 03023011a सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः 03023011c वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् 03023012a ततोऽहं पर्वतचितः सहयः सहसारथिः 03023012c अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः 03023013a ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा 03023013c ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः 03023014a ततो हाहाकृतं सर्वमभूत्किल विशां पते 03023014c द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि 03023015a ततो विषण्णमनसो मम राजन्सुहृज्जनाः 03023015c रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः 03023016a द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि 03023016c एवं विजितवान्वीर पश्चादश्रौषमच्युत 03023017a ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् 03023017c वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् 03023018a ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः 03023018c हया मम महाराज वेपमाना इवाभवन् 03023019a मेघजालमिवाकाशे विदार्याभ्युदितं रविम् 03023019c दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः 03023020a ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप 03023020c साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् 03023021a अलं कृष्णावमन्यैनं साधु यत्नं समाचर 03023021c मार्दवं सखितां चैव शाल्वादद्य व्यपाहर 03023022a जहि शाल्वं महाबाहो मैनं जीवय केशव 03023022c सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् 03023023a न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा 03023023c योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः 03023024a स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो 03023024c जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः 03023025a नैष मार्दवसाध्यो वै मतो नापि सखा तव 03023025c येन त्वं योधितो वीर द्वारका चावमर्दिता 03023026a एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः 03023026c तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् 03023027a वधाय शाल्वराजस्य सौभस्य च निपातने 03023027c दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति 03023028a ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् 03023028c आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् 03023029a यक्षाणां राक्षसानां च दानवानां च संयुगे 03023029c राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् 03023030a क्षुरान्तममलं चक्रं कालान्तकयमोपमम् 03023030c अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् 03023031a जहि सौभं स्ववीर्येण ये चात्र रिपवो मम 03023031c इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा 03023032a रूपं सुदर्शनस्यासीदाकाशे पततस्तदा 03023032c द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः 03023033a तत्समासाद्य नगरं सौभं व्यपगतत्विषम् 03023033c मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् 03023034a द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् 03023034c महेश्वरशरोद्धूतं पपात त्रिपुरं यथा 03023035a तस्मिन्निपतिते सौभे चक्रमागात्करं मम 03023035c पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् 03023036a ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे 03023036c द्विधा चकार सहसा प्रजज्वाल च तेजसा 03023037a तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः 03023037c हाहाभूता दिशो जग्मुरर्दिता मम सायकैः 03023038a ततोऽहं समवस्थाप्य रथं सौभसमीपतः 03023038c शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् 03023039a तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् 03023039c दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः 03023040a एवं निहत्य समरे शाल्वं सौभं निपात्य च 03023040c आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् 03023041a एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् 03023041c यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः 03023042 वैशंपायन उवाच 03023042a एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः 03023042c आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः 03023043a अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् 03023043c राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः 03023044a सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् 03023044c आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः 03023045a सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा 03023045c द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् 03023046a ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः 03023046c द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा 03023047a धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् 03023047c जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् 03023048a केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा 03023048c आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत 03023049a ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः 03023049c विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् 03023050a समवायः स राजेन्द्र सुमहाद्भुतदर्शनः 03023050c आसीन्महात्मनां तेषां काम्यके भरतर्षभ 03023051a युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः 03023051c शशास पुरुषान्काले रथान्योजयतेति ह 03024001 वैशंपायन उवाच 03024001a तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च 03024001c यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् 03024002a आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः 03024002c हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः 03024003a प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् 03024003c मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः 03024004a ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च 03024004c तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन 03024005a ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः 03024005c तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् 03024006a स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः 03024006c तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् 03024007a पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा 03024007c ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः 03024008a ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः 03024008c हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः 03024009a वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् 03024009c पौरानिमाञ्जानपदांश्च सर्वा;न्हित्वा प्रयातः क्व नु धर्मराजः 03024010a धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् 03024010c अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः 03024011a स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् 03024011c शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः 03024012a चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् 03024012c तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः 03024013a तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच 03024013c आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि 03024014a द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च 03024014c प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः 03024015a इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् 03024015c मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् 03024016a आमन्त्र्य पार्थं च वृकोदरं च; धनंजयं याज्ञसेनीं यमौ च 03024016c प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् 03025001 वैशंपायन उवाच 03025001a ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः 03025001c अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः 03025002a द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने 03025002c समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् 03025003a बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् 03025003c यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि 03025004a एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः 03025004c गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् 03025005 अर्जुन उवाच 03025005a भवानेव महर्षीणां वृद्धानां पर्युपासिता 03025005c अज्ञातं मानुषे लोके भवतो नास्ति किंचन 03025006a त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ 03025006c द्वैपायनप्रभृतयो नारदश्च महातपाः 03025007a यः सर्वलोकद्वाराणि नित्यं संचरते वशी 03025007c देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि 03025008a सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः 03025008c प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव 03025009a त्वमेव राजञ्जानासि श्रेयःकारणमेव च 03025009c यत्रेच्छसि महाराज निवासं तत्र कुर्महे 03025010a इदं द्वैतवनं नाम सरः पुण्यजनोचितम् 03025010c बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् 03025011a अत्रेमा द्वादश समा विहरेमेति रोचये 03025011c यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् 03025012 युधिष्ठिर उवाच 03025012a ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् 03025012c गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः 03025013 वैशंपायन उवाच 03025013a ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः 03025013c ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः 03025014a ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः 03025014c स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः 03025015a बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् 03025015c तपस्विनः सत्यशीलाः शतशः संशितव्रताः 03025016a ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह 03025016c पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः 03025017a तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः 03025017c तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श 03025018a महाद्रुमाणां शिखरेषु तस्थु;र्मनोरमां वाचमुदीरयन्तः 03025018c मयूरदात्यूहचकोरसंघा;स्तस्मिन्वने काननकोकिलाश्च 03025019a करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् 03025019c महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श 03025020a मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् 03025020c तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् 03025021a ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् 03025021c विवेश धर्मात्मवतां वरिष्ठ;स्त्रिविष्टपं शक्र इवामितौजाः 03025022a तं सत्यसंधं सहिताभिपेतु;र्दिदृक्षवश्चारणसिद्धसंघाः 03025022c वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं संपरिवार्य तस्थुः 03025023a स तत्र सिद्धानभिवाद्य सर्वा;न्प्रत्यर्चितो राजवद्देववच्च 03025023c विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः 03025024a स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य 03025024c प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा 03025025a भीमश्च कृष्णा च धनंजयश्च; यमौ च ते चानुचरा नरेन्द्रम् 03025025c विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः 03025026a लतावतानावनतः स पाण्डवै;र्महाद्रुमः पञ्चभिरुग्रधन्विभिः 03025026c बभौ निवासोपगतैर्महात्मभि;र्महागिरिर्वारणयूथपैरिव 03026001 वैशंपायन उवाच 03026001a तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् 03026001c विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु 03026002a यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः 03026002c द्विजातिमुख्यानृषभः कुरूणां; संतर्पयामास महानुभावः 03026003a इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् 03026003c पुरोहितः सर्वसमृद्धतेजा;श्चकार धौम्यः पितृवत्कुरूणाम् 03026004a अपेत्य राष्ट्राद्वसतां तु तेषा;मृषिः पुराणोऽतिथिराजगाम 03026004c तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् 03026005a स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च 03026005c संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः 03026006a तं धर्मराजो विमना इवाब्रवी;त्सर्वे ह्रिया सन्ति तपस्विनोऽमी 03026006c भवानिदं किं स्मयतीव हृष्ट;स्तपस्विनां पश्यतां मामुदीक्ष्य 03026007 मार्कण्डेय उवाच 03026007a न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः 03026007c तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि 03026008a स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् 03026008c धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ 03026009a सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता 03026009c पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार 03026010a स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः 03026010c विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् 03026011a नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य 03026011c सत्येन तेऽप्यजयंस्तात लोका;न्नेशे बलस्येति चरेदधर्मम् 03026012a अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् 03026012c विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् 03026013a धात्रा विधिर्यो विहितः पुराण;स्तं पूजयन्तो नरवर्य सन्तः 03026013c सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् 03026014a महाबलान्पर्वतकूटमात्रा;न्विषाणिनः पश्य गजान्नरेन्द्र 03026014c स्थितान्निदेशे नरवर्य धातु;र्नेशे बलस्येति चरेदधर्मम् 03026015a सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा 03026015c स्वयोनितस्तत्कुरुते प्रभावा;न्नेशे बलस्येति चरेदधर्मम् 03026016a सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य 03026016c यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ 03026017a यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य 03026017c ततः श्रियं तेजसा स्वेन दीप्ता;मादास्यसे पार्थिव कौरवेभ्यः 03026018 वैशंपायन उवाच 03026018a तमेवमुक्त्वा वचनं महर्षि;स्तपस्विमध्ये सहितं सुहृद्भिः 03026018c आमन्त्र्य धौम्यं सहितांश्च पार्थां;स्ततः प्रतस्थे दिशमुत्तरां सः 03027001 वैशंपायन उवाच 03027001a वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु 03027001c अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत 03027002a ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः 03027002c ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः 03027003a यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः 03027003c आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः 03027004a ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् 03027004c संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत 03027005a अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् 03027005c संध्यां कौन्तेयमासीनमृषिभिः परिवारितम् 03027006a पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् 03027006c होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् 03027007a चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः 03027007c भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह 03027008a आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः 03027008c सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया 03027009a इदं तु वचनं पार्थ शृण्वेकाग्रमना मम 03027009c भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव 03027010a ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह 03027010c उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ 03027011a नाब्राह्मणस्तात चिरं बुभूषे;दिच्छन्निमं लोकममुं च जेतुम् 03027011c विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् 03027012a चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् 03027012c नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् 03027013a अनूनमासीदसुरस्य कामै;र्वैरोचनेः श्रीरपि चाक्षयासीत् 03027013c लब्ध्वा महीं ब्राह्मणसंप्रयोगा;त्तेष्वाचरन्दुष्टमतो व्यनश्यत् 03027014a नाब्राह्मणं भूमिरियं सभूति;र्वर्णं द्वितीयं भजते चिराय 03027014c समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः 03027015a कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् 03027015c ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् 03027016a ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् 03027016c तौ यदा चरतः सार्धमथ लोकः प्रसीदति 03027017a यथा हि सुमहानग्निः कक्षं दहति सानिलः 03027017c तथा दहति राजन्यो ब्राह्मणेन समं रिपून् 03027018a ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् 03027018c अलब्धस्य च लाभाय लब्धस्य च विवृद्धये 03027019a अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय 03027019c यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय 03027020a ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर 03027020c तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः 03027021a ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् 03027021c युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् 03027022a द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः 03027022c इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् 03027023a कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः 03027023c हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः 03027024a ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः 03027024c ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः 03027025a एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 03027025c अजातशत्रुमानर्चुः पुरंदरमिवर्षयः 03028001 वैशंपायन उवाच 03028001a ततो वनगताः पार्थाः सायाह्ने सह कृष्णया 03028001c उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः 03028002a प्रिया च दर्शनीया च पण्डिता च पतिव्रता 03028002c ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् 03028003a न नूनं तस्य पापस्य दुःखमस्मासु किंचन 03028003c विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः 03028004a यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् 03028004c भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन 03028004e वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः 03028005a आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः 03028005c यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा 03028006a सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः 03028006c ईदृशं दुःखमानीय मोदते पापपूरुषः 03028007a चतुर्णामेव पापानामश्रु वै नापतत्तदा 03028007c त्वयि भारत निष्क्रान्ते वनायाजिनवाससि 03028008a दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 03028008c दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च 03028009a इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम 03028009c दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् 03028010a इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् 03028010c शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् 03028011a दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् 03028011c दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् 03028012a यदपश्यं सभायां त्वां राजभिः परिवारितम् 03028012c तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे 03028013a या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् 03028013c सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत 03028014a या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा 03028014c दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् 03028015a यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः 03028015c ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् 03028016a यतीनामगृहाणां ते तथैव गृहमेधिनाम् 03028016c दीयते भोजनं राजन्नतीव गुणवत्प्रभो 03028016e तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे 03028017a यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः 03028017c अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः 03028018a सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः 03028018c अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः 03028019a भीमसेनमिमं चापि दुःखितं वनवासिनम् 03028019c ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते 03028020a भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत 03028020c सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028021a सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा 03028021c तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028022a कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः 03028022c त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः 03028023a योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना 03028023c शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः 03028024a यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः 03028024c यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे 03028025a तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः 03028025c ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028026a दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् 03028026c न च ते वर्धते मन्युस्तेन मुह्यामि भारत 03028027a यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् 03028027c तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028028a यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः 03028028c प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः 03028029a क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः 03028029c तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028030a श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे 03028030c नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028031a दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर 03028031c सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028032a द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः 03028032c मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते 03028033a नूनं च तव नैवास्ति मन्युर्भरतसत्तम 03028033c यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः 03028034a न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् 03028034c तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् 03028035a यो न दर्शयते तेजः क्षत्रियः काल आगते 03028035c सर्वभूतानि तं पार्थ सदा परिभवन्त्युत 03028036a तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन 03028036c तेजसैव हि ते शक्या निहन्तुं नात्र संशयः 03028037a तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति 03028037c अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति 03029001 द्रौपद्युवाच 03029001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 03029001c प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च 03029002a असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् 03029002c बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः 03029003a क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत 03029003c एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते 03029004a श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् 03029004c करिष्यामि हि तत्सर्वं यथावदनुशासनम् 03029005a तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः 03029005c सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते 03029006 प्रह्लाद उवाच 03029006a न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा 03029006c इति तात विजानीहि द्वयमेतदसंशयम् 03029007a यो नित्यं क्षमते तात बहून्दोषान्स विन्दति 03029007c भृत्याः परिभवन्त्येनमुदासीनास्तथैव च 03029008a सर्वभूतानि चाप्यस्य न नमन्ते कदाचन 03029008c तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता 03029009a अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् 03029009c आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः 03029010a यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च 03029010c भोजनान्यथ पानानि सर्वोपकरणानि च 03029011a आददीरन्नधिकृता यथाकाममचेतसः 03029011c प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् 03029012a न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन 03029012c अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् 03029013a क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि 03029013c प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः 03029014a अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः 03029014c दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः 03029015a तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् 03029015c दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते 03029016a एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् 03029016c अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् 03029017a अस्थाने यदि वा स्थाने सततं रजसावृतः 03029017c क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा 03029018a मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः 03029018c प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा 03029019a सोऽवमानादर्थहानिमुपालम्भमनादरम् 03029019c संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः 03029020a क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् 03029020c भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि 03029021a योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति 03029021c तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 03029022a यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् 03029022c अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् 03029022e तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् 03029023a काले मृदुर्यो भवति काले भवति दारुणः 03029023c स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च 03029024a क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् 03029024c ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः 03029025a पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि 03029025c उपकारेण तत्तस्य क्षन्तव्यमपराधिनः 03029026a अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् 03029026c न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै 03029027a अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् 03029027c पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् 03029028a सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् 03029028c द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् 03029029a अजानता भवेत्कश्चिदपराधः कृतो यदि 03029029c क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया 03029030a मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् 03029030c नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः 03029031a देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः 03029031c नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते 03029031e तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः 03029032a एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः 03029032c अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते 03029033 द्रौपद्युवाच 03029033a तदहं तेजसः कालं तव मन्ये नराधिप 03029033c धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु 03029034a न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति 03029034c तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि 03029035a मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः 03029035c काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः 03030001 युधिष्ठिर उवाच 03030001a क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः 03030001c इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ 03030002a यो हि संहरते क्रोधं भावस्तस्य सुशोभने 03030002c यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे 03030002e तस्याभावाय भवति क्रोधः परमदारुणः 03030003a क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते 03030003c तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् 03030004a क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि 03030004c क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते 03030005a वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् 03030005c नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा 03030006a हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि 03030006c आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् 03030007a एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः 03030007c इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् 03030008a तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् 03030008c एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते 03030009a आत्मानं च परं चैव त्रायते महतो भयात् 03030009c क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः 03030010a मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः 03030010c बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः 03030011a तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः 03030011c तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् 03030012a विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति 03030012c स नाशयित्वा क्लेष्टारं परलोके च नन्दति 03030013a तस्माद्बलवता चैव दुर्बलेन च नित्यदा 03030013c क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता 03030014a मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः 03030014c क्षमावतो जयो नित्यं साधोरिह सतां मतम् 03030015a सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता 03030015c तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् 03030015e मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि 03030016a तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः 03030016c न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् 03030017a यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते 03030017c तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः 03030018a क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति 03030018c न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति 03030019a हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि 03030019c तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः 03030020a दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः 03030020c गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा 03030021a क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते 03030021c कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् 03030022a क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते 03030022c रजस्तल्लोकनाशाय विहितं मानुषान्प्रति 03030023a तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् 03030023c श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् 03030024a यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् 03030024c अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते 03030025a यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः 03030025c न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः 03030026a अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः 03030026c एवं विनाशो भूतानामधर्मः प्रथितो भवेत् 03030027a आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् 03030027c प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः 03030028a हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् 03030028c हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च 03030029a एवं संकुपिते लोके जन्म कृष्णे न विद्यते 03030029c प्रजानां संधिमूलं हि जन्म विद्धि शुभानने 03030030a ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे 03030030c तस्मान्मन्युर्विनाशाय प्रजानामभवाय च 03030031a यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः 03030031c तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते 03030032a क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने 03030032c क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् 03030033a आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा 03030033c यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः 03030034a प्रभाववानपि नरस्तस्य लोकाः सनातनाः 03030034c क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति 03030035a अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् 03030035c गीताः क्षमावता कृष्णे काश्यपेन महात्मना 03030036a क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् 03030036c यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति 03030037a क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च 03030037c क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् 03030038a अति ब्रह्मविदां लोकानति चापि तपस्विनाम् 03030038c अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् 03030039a क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् 03030039c क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः 03030040a तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् 03030040c यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः 03030040e भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा 03030041a क्षन्तव्यमेव सततं पुरुषेण विजानता 03030041c यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा 03030042a क्षमावतामयं लोकः परश्चैव क्षमावताम् 03030042c इह संमानमृच्छन्ति परत्र च शुभां गतिम् 03030043a येषां मन्युर्मनुष्याणां क्षमया निहतः सदा 03030043c तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता 03030044a इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् 03030044c श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः 03030045a पितामहः शांतनवः शमं संपूजयिष्यति 03030045c आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः 03030045e कृपश्च संजयश्चैव शममेव वदिष्यतः 03030046a सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च 03030046c पितामहश्च नो व्यासः शमं वदति नित्यशः 03030047a एतैर्हि राजा नियतं चोद्यमानः शमं प्रति 03030047c राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति 03030048a कालोऽयं दारुणः प्राप्तो भरतानामभूतये 03030048c निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि 03030049a सुयोधनो नार्हतीति क्षमामेवं न विन्दति 03030049c अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा 03030050a एतदात्मवतां वृत्तमेष धर्मः सनातनः 03030050c क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा 03031001 द्रौपद्युवाच 03031001a नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव 03031001c पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः 03031002a नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च 03031002c पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् 03031003a त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् 03031003c यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः 03031004a न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत 03031004c धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह 03031005a धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते 03031005c ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः 03031006a भीमसेनार्जुनौ चैव माद्रेयौ च मया सह 03031006c त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः 03031007a राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः 03031007c इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति 03031008a अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते 03031008c बुद्धिः सततमन्वेति छायेव पुरुषं निजा 03031009a नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः 03031009c अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत 03031010a स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् 03031010c दैवतानि पितॄंश्चैव सततं पार्थ सेवसे 03031011a ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः 03031011c यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत 03031012a आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि 03031012c नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते 03031013a यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते 03031013c तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि 03031014a इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये 03031014c वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा 03031015a अस्मिन्नपि महारण्ये विजने दस्युसेविते 03031015c राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति 03031016a अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः 03031016c एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः 03031017a राजन्परीतया बुद्ध्या विषमेऽक्षपराजये 03031017c राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः 03031018a ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः 03031018c कथमक्षव्यसनजा बुद्धिरापतिता तव 03031019a अतीव मोहमायाति मनश्च परिदूयते 03031019c निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् 03031020a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 03031020c ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा 03031021a धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये 03031021c दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् 03031022a यथा दारुमयी योषा नरवीर समाहिता 03031022c ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः 03031023a आकाश इव भूतानि व्याप्य सर्वाणि भारत 03031023c ईश्वरो विदधातीह कल्याणं यच्च पापकम् 03031024a शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः 03031024c ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः 03031025a मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः 03031025c धातुरादेशमन्वेति तन्मयो हि तदर्पणः 03031026a नात्माधीनो मनुष्योऽयं कालं भवति कंचन 03031026c स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः 03031027a अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः 03031027c ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च 03031028a यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः 03031028c धातुरेवं वशं यान्ति सर्वभूतानि भारत 03031029a आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः 03031029c व्याप्य भूतानि चरते न चायमिति लक्ष्यते 03031030a हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम् 03031030c येन कारयते कर्म शुभाशुभफलं विभुः 03031031a पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः 03031031c यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया 03031032a अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः 03031032c अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 03031033a अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च 03031033c अन्यथैव प्रभुस्तानि करोति विकरोति च 03031034a यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः 03031034c अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् 03031035a एवं स भगवान्देवः स्वयम्भूः प्रपितामहः 03031035c हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर 03031036a संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः 03031036c क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव 03031037a न मातृपितृवद्राजन्धाता भूतेषु वर्तते 03031037c रोषादिव प्रवृत्तोऽयं यथायमितरो जनः 03031038a आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् 03031038c अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया 03031039a तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने 03031039c धातारं गर्हये पार्थ विषमं योऽनुपश्यति 03031040a आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि 03031040c धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते 03031041a कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति 03031041c कर्मणा तेन पापेन लिप्यते नूनमीश्वरः 03031042a अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति 03031042c कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् 03032001 युधिष्ठिर उवाच 03032001a वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः 03032001c उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे 03032002a नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत 03032002c ददामि देयमित्येव यजे यष्टव्यमित्युत 03032003a अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् 03032003c गृहानावसता कृष्णे यथाशक्ति करोमि तत् 03032004a धर्मं चरामि सुश्रोणि न धर्मफलकारणात् 03032004c आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च 03032004e धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् 03032005a न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति 03032005c यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः 03032006a अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः 03032006c धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः 03032007a धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः 03032007c वेदाच्छूद्र इवापेयात्स लोकादजरामरात् 03032008a वेदाध्यायी धर्मपरः कुले जातो यशस्विनि 03032008c स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः 03032009a पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः 03032009c शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते 03032010a प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः 03032010c मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् 03032011a व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः 03032011c अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः 03032012a प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् 03032012c शापानुग्रहणे शक्तान्देवैरपि गरीयसः 03032013a एते हि धर्ममेवादौ वर्णयन्ति सदा मम 03032013c कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः 03032014a अतो नार्हसि कल्याणि धातारं धर्ममेव च 03032014c रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च 03032015a धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति 03032015c आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः 03032016a इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् 03032016c एतावान्मन्यते बालो मोहमन्यत्र गच्छति 03032017a प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते 03032017c ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते 03032018a प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः 03032018c कामलोभानुगो मूढो नरकं प्रतिपद्यते 03032019a यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते 03032019c अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते 03032020a आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् 03032020c सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति 03032021a शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः 03032021c पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः 03032022a धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् 03032022c सैव नौः सागरस्येव वणिजः पारमृच्छतः 03032023a अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः 03032023c अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते 03032024a निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् 03032024c विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः 03032025a तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च 03032025c दानमार्जवमेतानि यदि स्युरफलानि वै 03032026a नाचरिष्यन्परे धर्मं परे परतरे च ये 03032026c विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः 03032027a ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः 03032027c ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः 03032028a फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे 03032028c धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् 03032029a स चायं सफलो धर्मो न धर्मोऽफल उच्यते 03032029c दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा 03032030a त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् 03032030c वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् 03032031a एतावदेव पर्याप्तमुपमानं शुचिस्मिते 03032031c कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति 03032032a बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः 03032032c तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा 03032033a कर्मणामुत पुण्यानां पापानां च फलोदयः 03032033c प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि 03032034a नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः 03032034c रक्ष्याण्येतानि देवानां गूढमाया हि देवताः 03032035a कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः 03032035c प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः 03032036a न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः 03032036c यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता 03032037a कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् 03032037c ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः 03032038a तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु 03032038c व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज 03032039a ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः 03032039c शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी 03032040a यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् 03032040c उत्तमं दैवतं कृष्णे मातिवोचः कथंचन 03033001 द्रौपद्युवाच 03033001a नावमन्ये न गर्हे च धर्मं पार्थ कथंचन 03033001c ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् 03033002a आर्ताहं प्रलपामीदमिति मां विद्धि भारत 03033002c भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे 03033003a कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन 03033003c अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः 03033004a आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् 03033004c जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर 03033005a जङ्गमेषु विशेषेण मनुष्या भरतर्षभ 03033005c इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च 03033006a उत्थानमभिजानन्ति सर्वभूतानि भारत 03033006c प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् 03033007a पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः 03033007c अपि धाता विधाता च यथायमुदके बकः 03033008a स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः 03033008c कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा 03033009a तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा 03033009c भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि 03033010a उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि 03033010c अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् 03033010e नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन 03033011a यश्च दिष्टपरो लोके यश्चायं हठवादकः 03033011c उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते 03033012a यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् 03033012c अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि 03033013a तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् 03033013c आसीत न चिरं जीवेदनाथ इव दुर्बलः 03033014a अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः 03033014c तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् 03033015a यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत 03033015c दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् 03033016a यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः 03033016c प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् 03033017a स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् 03033017c तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम 03033018a एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा 03033018c यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः 03033019a धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः 03033019c विदधाति विभज्येह फलं पूर्वकृतं नृणाम् 03033020a यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम् 03033020c तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् 03033021a कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि 03033021c स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः 03033022a तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः 03033022c सर्वभूतानि कौन्तेय कारयत्यवशान्यपि 03033023a मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा 03033023c बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् 03033024a संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ 03033024c अगारनगराणां हि सिद्धिः पुरुषहैतुकी 03033025a तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः 03033025c धिया धीरो विजानीयादुपायं चास्य सिद्धये 03033026a ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये 03033026c तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः 03033027a कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् 03033027c इदं त्वकुशलेनेति विशेषादुपलभ्यते 03033028a इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् 03033028c पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् 03033029a कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते 03033029c असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह 03033030a सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत 03033030c पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते 03033031a न चैवैतावता कार्यं मन्यन्त इति चापरे 03033031c अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः 03033031e दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः 03033032a किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः 03033032c पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् 03033032e कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः 03033033a तथैव धाता भूतानामिष्टानिष्टफलप्रदः 03033033c यदि न स्यान्न भूतानां कृपणो नाम कश्चन 03033034a यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः 03033034c तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् 03033035a त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः 03033035c तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते 03033036a कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः 03033036c एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः 03033037a कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर 03033037c एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् 03033038a असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते 03033038c कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते 03033039a अलक्ष्मीराविशत्येनं शयानमलसं नरम् 03033039c निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते 03033040a अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः 03033040c धीरा नराः कर्मरता न तु निःसंशयं क्वचित् 03033041a एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् 03033041c न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते 03033042a अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते 03033042c वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि 03033043a अन्येषां कर्म सफलमस्माकमपि वा पुनः 03033043c विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् 03033044a पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत 03033044c आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् 03033045a वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः 03033045c यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया 03033046a तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् 03033046c इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् 03033047a कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत 03033047c निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः 03033047e सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा 03033048a बहूनां समवाये हि भावानां कर्म सिध्यति 03033048c गुणाभावे फलं न्यूनं भवत्यफलमेव वा 03033048e अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत 03033049a देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये 03033049c युनक्ति मेधया धीरो यथाशक्ति यथाबलम् 03033050a अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः 03033050c भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः 03033051a यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः 03033051c साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् 03033052a व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर 03033052c अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः 03033053a उत्थानयुक्तः सततं परेषामन्तरैषणे 03033053c आनृण्यमाप्नोति नरः परस्यात्मन एव च 03033054a न चैवात्मावमन्तव्यः पुरुषेण कदाचन 03033054c न ह्यात्मपरिभूतस्य भूतिर्भवति भारत 03033055a एवं संस्थितिका सिद्धिरियं लोकस्य भारत 03033055c चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः 03033056a ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् 03033056c सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ 03033057a नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा 03033057c तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे 03033058a स मां राजन्कर्मवतीमागतामाह सान्त्वयन् 03033058c शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर 03034001 वैशंपायन उवाच 03034001a याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः 03034001c निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् 03034002a राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् 03034002c धर्मकामार्थहीनानां किं नो वस्तुं तपोवने 03034003a नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा 03034003c अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः 03034004a गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् 03034004c आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् 03034005a धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः 03034005c अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे 03034006a भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् 03034006c अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना 03034007a कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः 03034007c हृतमैश्वर्यमस्माकं जीवतां भवतः कृते 03034008a भवतः प्रियमित्येवं महद्व्यसनमीदृशम् 03034008c धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत 03034009a कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् 03034009c आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ 03034010a यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि 03034010c भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् 03034011a अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः 03034011c अवीराचरितां राजन्न बलस्थैर्निषेविताम् 03034012a यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः 03034012c न चाहमभिनन्दामि न च माद्रीसुतावुभौ 03034013a भवान्धर्मो धर्म इति सततं व्रतकर्शितः 03034013c कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् 03034014a दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् 03034014c अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् 03034015a स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् 03034015c आनृशंस्यपरो राजन्नानर्थमवबुध्यसे 03034016a अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः 03034016c अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः 03034017a तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् 03034017c सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि 03034018a अथ वा वयमेवैतान्निहत्य भरतर्षभ 03034018c आददीमहि गां सर्वां तथापि श्रेय एव नः 03034019a सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् 03034019c काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् 03034020a आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे 03034020c अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा 03034021a कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा 03034021c व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् 03034022a सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् 03034022c जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा 03034023a यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः 03034023c न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव 03034024a यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः 03034024c रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः 03034025a अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति 03034025c स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः 03034026a सततं यश्च कामार्थी नेतरावनुतिष्ठति 03034026c मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते 03034027a तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् 03034027c कामतो रममाणस्य मीनस्येवाम्भसः क्षये 03034028a तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः 03034028c प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा 03034029a सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः 03034029c इतरेतरयोनी तौ विद्धि मेघोदधी यथा 03034030a द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते 03034030c स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते 03034031a अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति 03034031c अर्थमृच्छति कामार्थी न कामादन्यमृच्छती 03034032a न हि कामेन कामोऽन्यः साध्यते फलमेव तत् 03034032c उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः 03034033a इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा 03034033c एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् 03034034a कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति 03034034c स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः 03034035a व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः 03034035c प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् 03034036a तस्य नाशं विनाशं वा जरया मरणेन वा 03034036c अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते 03034037a इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च 03034037c विषये वर्तमानानां या प्रीतिरुपजायते 03034037e स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् 03034038a एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च 03034038c न धर्मपर एव स्यान्न चार्थपरमो नरः 03034038e न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा 03034039a धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् 03034039c अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः 03034040a कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् 03034040c वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः 03034041a धर्मं चार्थं च कामं च यथावद्वदतां वर 03034041c विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः 03034042a मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् 03034042c प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन 03034043a तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् 03034043c जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः 03034044a विदितश्चैव ते धर्मः सततं चरितश्च ते 03034044c जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् 03034045a दानं यज्ञः सतां पूजा वेदधारणमार्जवम् 03034045c एष धर्मः परो राजन्फलवान्प्रेत्य चेह च 03034046a एष नार्थविहीनेन शक्यो राजन्निषेवितुम् 03034046c अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे 03034047a धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते 03034047c धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् 03034048a न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् 03034048c वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना 03034049a प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः 03034049c तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ 03034050a भैक्षचर्या न विहिता न च विट्शूद्रजीविका 03034050c क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् 03034051a उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः 03034051c उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि 03034052a अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् 03034052c क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः 03034053a प्रजापालनसंभूतं फलं तव न गर्हितम् 03034053c एष ते विहितो राजन्धात्रा धर्मः सनातनः 03034054a तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि 03034054c स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते 03034055a स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः 03034055c वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् 03034056a न हि केवलधर्मात्मा पृथिवीं जातु कश्चन 03034056c पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् 03034057a जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् 03034057c निकृत्या लभते राज्यमाहारमिव शल्यकः 03034058a भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः 03034058c निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ 03034059a एवं बलवतः सर्वमिति बुद्ध्वा महीपते 03034059c जहि शत्रून्महाबाहो परां निकृतिमास्थितः 03034060a न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः 03034060c भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः 03034061a सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि 03034061c न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव 03034062a सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा 03034062c न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी 03034063a अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता 03034063c बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः 03034064a अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः 03034064c न तत्र विपणः कार्यः खरकण्डूयितं हि तत् 03034065a एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः 03034065c बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः 03034066a अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः 03034066c भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे 03034067a सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि 03034067c नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः 03034068a सर्वथा संहतैरेव दुर्बलैर्बलवानपि 03034068c अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव 03034069a यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः 03034069c अत्ति चैव तथैव त्वं सवितुः सदृशो भव 03034070a एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् 03034070c विधिना पालनं भूमेर्यत्कृतं नः पितामहैः 03034071a अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा 03034071c इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् 03034072a भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च 03034072c कथायुक्ताः परिषदः पृथग्राजन्समागताः 03034073a इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते 03034073c समेताः कथयन्तीह मुदिताः सत्यसंधताम् 03034074a यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि 03034074c अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् 03034075a यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् 03034075c सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः 03034076a ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः 03034076c मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः 03034077a पौरजानपदाः सर्वे प्रायशः कुरुनन्दन 03034077c सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर 03034078a श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा 03034078c सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा 03034079a इति निर्वचनं लोके चिरं चरति भारत 03034079c अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते 03034080a स भवान्रथमास्थाय सर्वोपकरणान्वितम् 03034080c त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् 03034081a वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् 03034081c अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः 03034081e आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा 03034082a अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा 03034082c श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल 03034083a न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् 03034083c स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् 03034084a न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत 03034084c यः सहेत गदावेगं मम क्रुद्धस्य संयुगे 03034085a सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च 03034085c कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे 03035001 युधिष्ठिर उवाच 03035001a असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि 03035001c न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात् 03035002a अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् 03035002c तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः 03035003a महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् 03035003c अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन 03035004a अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च 03035004c शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् 03035005a यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः 03035005c न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् 03035006a स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् 03035006c दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः 03035007a त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः 03035007c यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् 03035008a वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो 03035008c अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः 03035009a त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म 03035009c अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ 03035010a चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् 03035010c ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः 03035011a वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् 03035011c वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति 03035012a तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे 03035012c इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः 03035013a सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत् 03035013c उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन् 03035014a तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः 03035014c आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् 03035015a तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः 03035015c बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् 03035016a प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः 03035016c प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ 03035017a भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा 03035017c यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम 03035018a न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये 03035018c कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः 03035019a यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा 03035019c महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके 03035020a श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते 03035020c मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् 03035021a मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च 03035021c राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति 03036001 भीमसेन उवाच 03036001a संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा 03036001c अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा 03036002a प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः 03036002c फेनधर्मा महाराज फलधर्मा तथैव च 03036003a निमेषादपि कौन्तेय यस्यायुरपचीयते 03036003c सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् 03036004a यो नूनममितायुः स्यादथ वापि प्रमाणवित् 03036004c स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् 03036005a प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश 03036005c आयुषोऽपचयं कृत्वा मरणायोपनेष्यति 03036006a शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् 03036006c प्रागेव मरणात्तस्माद्राज्यायैव घटामहे 03036007a यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः 03036007c अयातयित्वा वैराणि सोऽवसीदति गौरिव 03036008a यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् 03036008c अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः 03036009a हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव 03036009c हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु 03036010a हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम 03036010c अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः 03036011a अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः 03036011c येनाहमभिसंतप्तो न नक्तं न दिवा शये 03036012a अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे 03036012c आस्ते परमसंतप्तो नूनं सिंह इवाशये 03036013a योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः 03036013c सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति 03036014a नकुलः सहदेवश्च वृद्धा माता च वीरसूः 03036014c तवैव प्रियमिच्छन्त आसते जडमूकवत् 03036015a सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः 03036015c अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः 03036016a प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन 03036016c सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः 03036017a नेतः पापीयसी काचिदापद्राजन्भविष्यति 03036017c यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते 03036018a शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप 03036018c क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति 03036019a घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः 03036019c अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः 03036020a अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् 03036020c क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् 03036021a कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् 03036021c बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च 03036022a तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् 03036022c छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि 03036023a अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च 03036023c दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया 03036024a बृहच्छाल इवानूपे शाखापुष्पपलाशवान् 03036024c हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति 03036025a इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू 03036025c नकुलः सहदेवश्च कथं पार्थ चरिष्यतः 03036026a पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् 03036026c विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति 03036027a मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः 03036027c अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् 03036028a तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः 03036028c राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः 03036029a न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः 03036029c अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः 03036030a तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् 03036030c आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् 03036031a अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश 03036031c परिमाणेन तान्पश्य तावतः परिवत्सरान् 03036032a अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः 03036032c पूतिकानिव सोमस्य तथेदं क्रियतामिति 03036033a अथ वानडुहे राजन्साधवे साधुवाहिने 03036033c सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते 03036034a तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया 03036034c क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् 03037001 वैशंपायन उवाच 03037001a भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 03037001c निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः 03037002a स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् 03037002c भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् 03037003a एवमेतन्महाबाहो यथा वदसि भारत 03037003c इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद 03037004a महापापानि कर्माणि यानि केवलसाहसात् 03037004c आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत 03037005a सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते 03037005c सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् 03037006a त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् 03037006c आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे 03037007a भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् 03037007c भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् 03037008a धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः 03037008c सर्व एव कृतास्त्राश्च सततं चाततायिनः 03037009a राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः 03037009c संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् 03037010a दुर्योधनहिते युक्ता न तथास्मासु भारत 03037010c पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे 03037011a सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः 03037011c संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः 03037012a दुर्योधनेन ते वीरा मानिताश्च विशेषतः 03037012c प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः 03037013a समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च 03037013c द्रोणस्य च महाबाहो कृपस्य च महात्मनः 03037014a अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः 03037014c तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् 03037015a सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः 03037015c अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः 03037016a अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः 03037016c सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः 03037017a अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् 03037017c अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया 03037018a न निद्रामधिगच्छामि चिन्तयानो वृकोदर 03037018c अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् 03037019a एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः 03037019c बभूव विमनास्त्रस्तो न चैवोवाच किंचन 03037020a तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः 03037020c आजगाम महायोगी व्यासः सत्यवतीसुतः 03037021a सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः 03037021c युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः 03037022a युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् 03037022c मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ 03037023a भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत 03037023c यत्ते भयममित्रघ्न हृदि संपरिवर्तते 03037024a तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना 03037024c तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय 03037025a तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् 03037025c अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः 03037026a श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम 03037026c येनाभिभविता शत्रून्रणे पार्थो धनंजयः 03037027a गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव 03037027c विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते 03037027e यामवाप्य महाबाहुरर्जुनः साधयिष्यति 03037028a अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु 03037028c वरुणं च धनेशं च धर्मराजं च पाण्डव 03037028e शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च 03037029a ऋषिरेष महातेजा नारायणसहायवान् 03037029c पुराणः शाश्वतो देवो विष्णोरंशः सनातनः 03037030a अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च 03037030c समादाय महाबाहुर्महत्कर्म करिष्यति 03037031a वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् 03037031c निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते 03037032a एकत्र चिरवासो हि न प्रीतिजननो भवेत् 03037032c तापसानां च शान्तानां भवेदुद्वेगकारकः 03037033a मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः 03037033c बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् 03037034a एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः 03037034c प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् 03037035a धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः 03037035c अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत 03037036a युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः 03037036c धारयामास मेधावी काले काले समभ्यसन् 03037037a स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः 03037037c ययौ सरस्वतीतीरे काम्यकं नाम काननम् 03037038a तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा 03037038c ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा 03037039a ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः 03037039c न्यविशन्त महात्मानः सामात्याः सपदानुगाः 03037040a तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः 03037040c धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् 03037041a चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः 03037041c पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि 03038001 वैशंपायन उवाच 03038001a कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः 03038001c संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् 03038002a विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् 03038002c सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् 03038003a स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः 03038003c धनंजयं धर्मराजो रहसीदमुवाच ह 03038004a भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत 03038004c धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः 03038005a ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् 03038005c सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः 03038006a ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः 03038006c संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते 03038007a सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा 03038007c शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः 03038008a अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा 03038008c त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः 03038008e तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम 03038009a कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया 03038009c तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते 03038009e तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः 03038010a देवतानां यथाकालं प्रसादं प्रतिपालय 03038010c तपसा योजयात्मानमुग्रेण भरतर्षभ 03038011a धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः 03038011c न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् 03038011e इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय 03038012a वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् 03038012c तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे 03038013a शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति 03038013c दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् 03038014a एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः 03038014c दीक्षितं विधिना तेन यतवाक्कायमानसम् 03038014e अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः 03038015a निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् 03038015c धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी 03038016a कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् 03038016c हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः 03038017a प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः 03038017c वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च 03038018a तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् 03038018c अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च 03038018e क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि 03038019a तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् 03038019c मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् 03038020a यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय 03038020c तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि 03038021a मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् 03038021c ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका 03038022a नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 03038022c रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः 03038023a नैव नः पार्थ भोगेषु न धने नोत जीविते 03038023c तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि 03038024a त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते 03038024c जीवितं मरणं चैव राज्यमैश्वर्यमेव च 03038024e आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 03038025a नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् 03038025c स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत 03038025e दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः 03038026a ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः 03038026c प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः 03038027a तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः 03038027c युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः 03038028a सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः 03038028c मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः 03038029a हिमवन्तमतिक्रम्य गन्धमादनमेव च 03038029c अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः 03038030a इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः 03038030c अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा 03038031a ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् 03038031c ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् 03038032a सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः 03038032c कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी 03038032e निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः 03038033a नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः 03038033c विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् 03038034a नेहास्ति धनुषा कार्यं न संग्रामेण कर्हिचित् 03038034c निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् 03038035a इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् 03038035c तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् 03038035e न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् 03038036a तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव 03038036c वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन 03038037a एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03038037c प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः 03038038a ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे 03038038c त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् 03038039a प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव 03038039c इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय 03038039e कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् 03038040a एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः 03038040c न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् 03038041a न च सर्वामरैश्वर्यं कामये त्रिदशाधिप 03038041c भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च 03038041e अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः 03038042a एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् 03038042c सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः 03038043a यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् 03038043c तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः 03038044a क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः 03038044c दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि 03038045a इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः 03038045c अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः 03039001 जनमेजय उवाच 03039001a भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः 03039001c विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् 03039002a कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः 03039002c वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् 03039003a किं च तेन कृतं तत्र वसता ब्रह्मवित्तम 03039003c कथं च भगवान्स्थाणुर्देवराजश्च तोषितः 03039004a एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम 03039004c त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह 03039005a अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः 03039005c भवेन सह संग्रामं चकाराप्रतिमं किल 03039005e पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः 03039006a यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् 03039006c शूराणामपि पार्थानां हृदयानि चकम्पिरे 03039007a यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद 03039007c न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये 03039007e चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय 03039008 वैशंपायन उवाच 03039008a कथयिष्यामि ते तात कथामेतां महात्मनः 03039008c दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् 03039009a गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ 03039009c पार्थस्य देवदेवेन शृणु सम्यक्समागमम् 03039010a युधिष्ठिरनियोगात्स जगामामितविक्रमः 03039010c शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् 03039011a दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः 03039011c महाबलो महाबाहुरर्जुनः कार्यसिद्धये 03039011e दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति 03039012a ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः 03039012c त्वरया परया युक्तस्तपसे धृतनिश्चयः 03039012e वनं कण्टकितं घोरमेक एवान्वपद्यत 03039013a नानापुष्पफलोपेतं नानापक्षिनिषेवितम् 03039013c नानामृगगणाकीर्णं सिद्धचारणसेवितम् 03039014a ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् 03039014c शङ्खानां पटहानां च शब्दः समभवद्दिवि 03039015a पुष्पवर्षं च सुमहन्निपपात महीतले 03039015c मेघजालं च विततं छादयामास सर्वतः 03039016a अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः 03039016c शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा 03039017a तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् 03039017c नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः 03039018a हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा 03039018c पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः 03039019a मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः 03039019c पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् 03039020a रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा 03039020c तपस्युग्रे वर्तमान उग्रतेजा महामनाः 03039021a दर्भचीरं निवस्याथ दण्डाजिनविभूषितः 03039021c पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः 03039021e द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् 03039022a तृतीयमपि मासं स पक्षेणाहारमाचरन् 03039022c शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् 03039023a चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् 03039023c वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः 03039023e ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः 03039024a सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः 03039024c विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः 03039025a ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् 03039025c शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च 03039025e सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह 03039026a एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः 03039026c उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः 03039027a तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् 03039027c संतापयति नः सर्वानसौ साधु निवार्यताम् 03039028 महेश्वर उवाच 03039028a शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः 03039028c अहमस्य विजानामि संकल्पं मनसि स्थितम् 03039029a नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः 03039029c यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै 03039030 वैशंपायन उवाच 03039030a ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः 03039030c प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् 03040001 वैशंपायन उवाच 03040001a गतेषु तेषु सर्वेषु तपस्विषु महात्मसु 03040001c पिनाकपाणिर्भगवान्सर्वपापहरो हरः 03040002a कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् 03040002c विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः 03040003a श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् 03040003c निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः 03040004a देव्या सहोमया श्रीमान्समानव्रतवेषया 03040004c नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा 03040005a किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः 03040005c अशोभत तदा राजन्स देवोऽतीव भारत 03040006a क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा 03040006c नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् 03040007a स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः 03040007c मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् 03040008a वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् 03040008c हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः 03040009a गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् 03040009c सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् 03040010a यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् 03040010c तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् 03040011a तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् 03040011c किरातरूपी सहसा वारयामास शंकरः 03040012a मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः 03040012c अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः 03040013a किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः 03040013c प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् 03040014a तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः 03040014c मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा 03040015a यथाशनिविनिष्पेषो वज्रस्येव च पर्वते 03040015c तथा तयोः संनिपातः शरयोरभवत्तदा 03040016a स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव 03040016c ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् 03040017a ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् 03040017c किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा 03040017e तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव 03040018a को भवानटते शून्ये वने स्त्रीगणसंवृतः 03040018c न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ 03040019a किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः 03040019c मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः 03040020a कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे 03040020c न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि 03040020e तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय 03040021a इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव 03040021c उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् 03040022a ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः 03040022c ममैव च प्रहारेण जीविताद्व्यवरोपितः 03040023a दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः 03040023c अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे 03040024a स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव 03040024c घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् 03040025a ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः 03040025c शरैराशीविषाकारैस्ततक्षाते परस्परम् 03040026a ततोऽर्जुनः शरवर्षं किराते समवासृजत् 03040026c तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः 03040027a मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् 03040027c अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः 03040028a स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः 03040028c परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् 03040029a अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः 03040029c गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः 03040030a कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः 03040030c विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः 03040031a न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः 03040031c शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् 03040032a देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः 03040032c अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् 03040033a ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः 03040033c व्यसृजच्छतधा राजन्मयूखानिव भास्करः 03040034a तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः 03040034c शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः 03040035a क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा 03040035c वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् 03040036a चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् 03040036c पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे 03040037a किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः 03040037c अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः 03040038a अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् 03040038c नयामि दण्डधारस्य यमस्य सदनं प्रति 03040039a संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा 03040039c तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः 03040040a ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत 03040040c युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् 03040041a तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि 03040041c मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः 03040041e तस्य मूर्धानमासाद्य पफालासिवरो हि सः 03040042a ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः 03040042c यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः 03040043a किरातरूपी भगवांस्ततः पार्थो महाबलः 03040043c मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे 03040043e प्रजहार दुराधर्षे किरातसमरूपिणि 03040044a ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः 03040044c किरातरूपी भगवानर्दयामास फल्गुनम् 03040045a ततश्चटचटाशब्दः सुघोरः समजायत 03040045c पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः 03040046a सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् 03040046c भुजप्रहारसंयुक्तं वृत्रवासवयोरिव 03040047a जहाराथ ततो जिष्णुः किरातमुरसा बली 03040047c पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् 03040048a तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा 03040048c समजायत गात्रेषु पावकोऽङ्गारधूमवान् 03040049a तत एनं महादेवः पीड्य गात्रैः सुपीडितम् 03040049c तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् 03040050a ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ 03040050c फल्गुनो गात्रसंरुद्धो देवदेवेन भारत 03040051a निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना 03040051c ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः 03040052 भगवानुवाच 03040052a भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते 03040052c शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः 03040053a समं तेजश्च वीर्यं च ममाद्य तव चानघ 03040053c प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ 03040054a ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् 03040054c विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः 03040055 वैशंपायन उवाच 03040055a ततो देवं महादेवं गिरिशं शूलपाणिनम् 03040055c ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् 03040056a स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च 03040056c प्रसादयामास हरं पार्थः परपुरंजयः 03040057 अर्जुन उवाच 03040057a कपर्दिन्सर्वभूतेश भगनेत्रनिपातन 03040057c व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर 03040058a भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् 03040058c दयितं तव देवेश तापसालयमुत्तमम् 03040059a प्रसादये त्वां भगवन्सर्वभूतनमस्कृत 03040059c न मे स्यादपराधोऽयं महादेवातिसाहसात् 03040060a कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह 03040060c शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर 03040061 वैशंपायन उवाच 03040061a तमुवाच महातेजाः प्रहस्य वृषभध्वजः 03040061c प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् 03041001 भगवानुवाच 03041001a नरस्त्वं पूर्वदेहे वै नारायणसहायवान् 03041001c बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् 03041002a त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे 03041002c युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् 03041003a शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् 03041003c प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो 03041004a एतत्तदेव गाण्डीवं तव पार्थ करोचितम् 03041004c मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम 03041004e तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ 03041005a प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम 03041005c गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ 03041006a न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद 03041006c दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम 03041007 अर्जुन उवाच 03041007a भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज 03041007c कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो 03041008a यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् 03041008c युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् 03041009a दहेयं येन संग्रामे दानवान्राक्षसांस्तथा 03041009c भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् 03041010a यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः 03041010c शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः 03041011a युध्येयं येन भीष्मेण द्रोणेन च कृपेण च 03041011c सूतपुत्रेण च रणे नित्यं कटुकभाषिणा 03041012a एष मे प्रथमः कामो भगवन्भगनेत्रहन् 03041012c त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा 03041013 भगवानुवाच 03041013a ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् 03041013c समर्थो धारणे मोक्षे संहारे चापि पाण्डव 03041014a नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् 03041014c वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः 03041015a न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् 03041015c जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् 03041016a अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे 03041016c मनसा चक्षुषा वाचा धनुषा च निपात्यते 03041017 वैशंपायन उवाच 03041017a तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः 03041017c उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् 03041018a ततस्त्वध्यापयामास सरहस्य निवर्तनम् 03041018c तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् 03041019a उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् 03041019c प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा 03041020a ततश्चचाल पृथिवी सपर्वतवनद्रुमा 03041020c ससागरवनोद्देशा सग्रामनगराकरा 03041021a शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः 03041021c तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् 03041022a अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः 03041022c मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः 03041023a स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः 03041023c यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् 03041024a स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः 03041024c प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत 03041025a ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः 03041025c धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् 03041026a ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् 03041026c विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः 03042001 वैशंपायन उवाच 03042001a तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः 03042001c जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् 03042002a ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा 03042002c मया साक्षान्महादेवो दृष्ट इत्येव भारत 03042003a धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः 03042003c पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना 03042004a कृतार्थं चावगच्छामि परमात्मानमात्मना 03042004c शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् 03042005a ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः 03042005c यादोगणवृतः श्रीमानाजगाम जलेश्वरः 03042006a नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः 03042006c वरुणो यादसां भर्ता वशी तं देशमागमत् 03042007a अथ जाम्बूनदवपुर्विमानेन महार्चिषा 03042007c कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः 03042008a विद्योतयन्निवाकाशमद्भुतोपमदर्शनः 03042008c धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः 03042009a तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् 03042009c मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः 03042010a दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् 03042010c वैवस्वतो धर्मराजो विमानेनावभासयन् 03042011a त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् 03042011c द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते 03042012a भानुमन्ति विचित्राणि शिखराणि महागिरेः 03042012c समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् 03042013a ततो मुहूर्ताद्भगवानैरावतशिरोगतः 03042013c आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः 03042014a पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 03042014c शुशुभे तारकाराजः सितमभ्रमिवास्थितः 03042015a संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः 03042015c शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः 03042016a अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् 03042016c यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः 03042017a अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् 03042017c दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् 03042018a पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः 03042018c नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः 03042018e त्वं वासवसमुद्भूतो महावीर्यपराक्रमः 03042019a क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् 03042019c दानवाश्च महावीर्या ये मनुष्यत्वमागताः 03042019e निवातकवचाश्चैव संसाध्याः कुरुनन्दन 03042020a पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः 03042020c कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय 03042021a अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् 03042021c तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् 03042021e गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन 03042022a अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन 03042022c त्वया साक्षान्महादेवस्तोषितो हि महामृधे 03042022e लघ्वी वसुमती चापि कर्तव्या विष्णुना सह 03042023a गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् 03042023c अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि 03042024a प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः 03042024c समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् 03042025a ततो जलधरश्यामो वरुणो यादसां पतिः 03042025c पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः 03042026a पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः 03042026c पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः 03042027a मया समुद्यतान्पाशान्वारुणाननिवारणान् 03042027c प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् 03042028a एभिस्तदा मया वीर संग्रामे तारकामये 03042028c दैतेयानां सहस्राणि संयतानि महात्मनाम् 03042029a तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् 03042029c गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः 03042030a अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि 03042030c तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः 03042031a ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत 03042031c दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च 03042032a सव्यसाचिन्महाबाहो पूर्वदेव सनातन 03042032c सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः 03042033a मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम 03042033c ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् 03042034a ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः 03042034c कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः 03042035a ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् 03042035c सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः 03042036a कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः 03042036c परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः 03042037a देवकार्यं हि सुमहत्त्वया कार्यमरिंदम 03042037c आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते 03042038a रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् 03042038c तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव 03042039a तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि 03042039c जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः 03042040a ततोऽर्जुनो महातेजा लोकपालान्समागतान् 03042040c पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि 03042041a ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् 03042041c यथागतेन विबुधाः सर्वे काममनोजवाः 03042042a ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः 03042042c कृतार्थमिव चात्मानं स मेने पूर्णमानसः 03043001 वैशंपायन उवाच 03043001a गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः 03043001c चिन्तयामास राजेन्द्र देवराजरथागमम् 03043002a ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः 03043002c रथो मातलिसंयुक्त आजगाम महाप्रभः 03043003a नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव 03043003c दिशः संपूरयन्नादैर्महामेघरवोपमैः 03043004a असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः 03043004c दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः 03043005a तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः 03043005c वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः 03043006a तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः 03043006c सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः 03043007a दश वाजिसहस्राणि हरीणां वातरंहसाम् 03043007c वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् 03043008a तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् 03043008c ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् 03043009a तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् 03043009c दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् 03043010a तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः 03043010c संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् 03043011a भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति 03043011c आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् 03043012a आह माममरश्रेष्ठः पिता तव शतक्रतुः 03043012c कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः 03043013a एष शक्रः परिवृतो देवैरृषिगणैस्तथा 03043013c गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते 03043014a अस्माल्लोकाद्देवलोकं पाकशासनशासनात् 03043014c आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि 03043015 अर्जुन उवाच 03043015a मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् 03043015c राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् 03043016a पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः 03043016c दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् 03043017a नातप्ततपसा शक्य एष दिव्यो महारथः 03043017c द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु 03043018a त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि 03043018c पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा 03043019 वैशंपायन उवाच 03043019a तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः 03043019c आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः 03043020a ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः 03043020c जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः 03043021a ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि 03043021c मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे 03043022a साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् 03043022c त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् 03043023a त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः 03043023c स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः 03043024a अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् 03043024c गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि 03043025a तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च 03043025c तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः 03043026a एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा 03043026c आरुरोह रथं दिव्यं द्योतयन्निव भास्करः 03043027a स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा 03043027c ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः 03043028a सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् 03043028c ददर्शाद्भुतरूपाणि विमानानि सहस्रशः 03043029a न तत्र सूर्यः सोमो वा द्योतते न च पावकः 03043029c स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया 03043030a तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै 03043030c दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि 03043031a तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः 03043031c ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा 03043032a तत्र राजर्षयः सिद्धा वीराश्च निहता युधि 03043032c तपसा च जितस्वर्गाः संपेतुः शतसंघशः 03043033a गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् 03043033c गुह्यकानामृषीणां च तथैवाप्सरसां गणाः 03043034a लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः 03043034c पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह 03043035a एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः 03043035c यान्दृष्टवानसि विभो तारारूपाणि भूतले 03043036a ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् 03043036c ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् 03043037a स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः 03043037c व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः 03043038a अतिचक्राम लोकान्स राज्ञां राजीवलोचनः 03043038c ततो ददर्श शक्रस्य पुरीं ताममरावतीम् 03044001 वैशंपायन उवाच 03044001a स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् 03044001c सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् 03044002a तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् 03044002c उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना 03044003a नन्दनं च वनं दिव्यमप्सरोगणसेवितम् 03044003c ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः 03044004a नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना 03044004c स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः 03044005a नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः 03044005c नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः 03044006a नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन 03044006c पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः 03044007a स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् 03044007c प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् 03044008a तत्र देवविमानानि कामगानि सहस्रशः 03044008c संस्थितान्यभियातानि ददर्शायुतशस्तदा 03044009a संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः 03044009c पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः 03044010a ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः 03044010c हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् 03044011a आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः 03044011c प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् 03044012a नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् 03044012c इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः 03044013a तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि 03044013c आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः 03044014a राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः 03044014c तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू 03044015a तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः 03044015c ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् 03044016a ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् 03044016c ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् 03044017a पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा 03044017c दिव्यगन्धाधिवासेन व्यजनेन विधूयता 03044018a विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः 03044018c स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः 03044019a ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली 03044019c स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत 03044020a ततः शक्रासने पुण्ये देवराजर्षिपूजिते 03044020c शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके 03044021a मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा 03044021c अङ्कमारोपयामास प्रश्रयावनतं तदा 03044022a सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा 03044022c अध्यक्रामदमेयात्मा द्वितीय इव वासवः 03044023a ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् 03044023c पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् 03044024a परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ 03044024c ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ 03044025a वज्रग्रहणचिह्नेन करेण बलसूदनः 03044025c मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः 03044026a स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् 03044026c हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा 03044027a एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् 03044027c सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ 03044028a तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना 03044028c गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु 03044029a घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा 03044029c उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी 03044030a गोपाली सहजन्या च कुम्भयोनिः प्रजागरा 03044030c चित्रसेना चित्रलेखा सहा च मधुरस्वरा 03044031a एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः 03044031c चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः 03044032a महाकटितटश्रोण्यः कम्पमानैः पयोधरैः 03044032c कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः 03045001 वैशंपायन उवाच 03045001a ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् 03045001c शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा 03045002a पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् 03045002c प्रवेशयामासुरथो पुरंदरनिवेशनम् 03045003a एवं संपूजितो जिष्णुरुवास भवने पितुः 03045003c उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः 03045004a शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् 03045004c अशनीश्च महानादा मेघबर्हिणलक्षणाः 03045005a गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः 03045005c पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी 03045006a ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते 03045006c नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि 03045007a वादित्रं देवविहितं नृलोके यन्न विद्यते 03045007c तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति 03045008a सखायं प्रददौ चास्य चित्रसेनं पुरंदरः 03045008c स तेन सह संगम्य रेमे पार्थो निरामयः 03045009a कदाचिदटमानस्तु महर्षिरुत लोमशः 03045009c जगाम शक्रभवनं पुरंदरदिदृक्षया 03045010a स समेत्य नमस्कृत्य देवराजं महामुनिः 03045010c ददर्शार्धासनगतं पाण्डवं वासवस्य ह 03045011a ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे 03045011c निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः 03045012a तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् 03045012c कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् 03045013a किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः 03045013c य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् 03045014a तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः 03045014c लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः 03045015a ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् 03045015c नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः 03045016a महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः 03045016c अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् 03045017a अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् 03045017c शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् 03045018a नरनारायणौ यौ तौ पुराणावृषिसत्तमौ 03045018c ताविमावभिजानीहि हृषीकेशधनंजयौ 03045019a यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः 03045019c तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् 03045020a स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च 03045020c यतः प्रववृते गङ्गा सिद्धचारणसेविता 03045021a तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती 03045021c भूमेर्भारावतरणं महावीर्यौ करिष्यतः 03045022a उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति 03045022c विप्रियेषु स्थितास्माकं वरदानेन मोहिताः 03045023a तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः 03045023c देवान्न गणयन्ते च तथा दत्तवरा हि ते 03045024a पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः 03045024c सर्वे देवनिकाया हि नालं योधयितुं स्म तान् 03045025a योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः 03045025c कपिलो नाम देवोऽसौ भगवानजितो हरिः 03045026a येन पूर्वं महात्मानः खनमाना रसातलम् 03045026c दर्शनादेव निहताः सगरस्यात्मजा विभो 03045027a तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम 03045027c पार्थेन च महायुद्धे समेताभ्यामसंशयम् 03045028a अयं तेषां समस्तानां शक्तः प्रतिसमासने 03045028c तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् 03045029a भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् 03045029c काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् 03045030a स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः 03045030c नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति 03045031a नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे 03045031c भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् 03045032a गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः 03045032c नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् 03045033a भवानपि विविक्तानि तीर्थानि मनुजेश्वर 03045033c भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम 03045034a तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः 03045034c राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः 03045035a भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले 03045035c त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः 03045036a गिरिदुर्गेषु हि सदा देशेषु विषमेषु च 03045036c वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् 03045037a स तथेति प्रतिज्ञाय लोमशः सुमहातपाः 03045037c काम्यकं वनमुद्दिश्य समुपायान्महीतलम् 03045038a ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् 03045038c तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् 03046001 जनमेजय उवाच 03046001a अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः 03046001c धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् 03046002 वैशंपायन उवाच 03046002a शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः 03046002c द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत् 03046003a श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः 03046003c कच्चित्तवापि विदितं यथातथ्येन सारथे 03046004a प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः 03046004c मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति 03046005a यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः 03046005c त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः 03046006a अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् 03046006c कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः 03046007a मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः 03046007c येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् 03046008a तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 03046008c अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी 03046009a द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे 03046009c महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् 03046010a घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 03046010c अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः 03046011a भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम् 03046011c सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः 03046012a अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः 03046012c वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा 03046013a न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते 03046013c मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः 03046014a त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् 03046014c जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ 03046015a शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय 03046015c न तु कुर्युः शराः शेषमस्तास्तात किरीटिना 03046016a यथा हि किरणा भानोस्तपन्तीह चराचरम् 03046016c तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् 03046017a अपि वा रथघोषेण भयार्ता सव्यसाचिनः 03046017c प्रतिभाति विदीर्णेव सर्वतो भारती चमूः 03046018a यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी 03046018c सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः 03046019 संजय उवाच 03046019a यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति 03046019c सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते 03046020a मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः 03046020c दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् 03046021a दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः 03046021c कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः 03046022a श्रुतं हि ते महाराज यथा पार्थेन संयुगे 03046022c एकादशतनुः स्थाणुर्धनुषा परितोषितः 03046023a कैरातं वेषमास्थाय योधयामास फल्गुनम् 03046023c जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् 03046024a तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् 03046024c अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् 03046025a नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात् 03046025c साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि 03046026a महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् 03046026c कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् 03046027a आसादितमिदं घोरं तुमुलं लोमहर्षणम् 03046027c द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् 03046028a यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत् 03046028c दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ 03046029a ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया 03046029c त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः 03046030a सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः 03046030c सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः 03046031a मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे 03046031c अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः 03046032 धृतराष्ट्र उवाच 03046032a किं कृतं सूत कर्णेन वदता परुषं वचः 03046032c पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता 03046033a अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः 03046033c येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते 03046034a ममापि वचनं सूत न शुश्रूषति मन्दभाक् 03046034c दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् 03046035a ये चास्य सचिवा मन्दाः कर्णसौबलकादयः 03046035c तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः 03046036a स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा 03046036c निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः 03046037a पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः 03046037c दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि 03046038a यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः 03046038c हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् 03046039a इदं च सुमहच्चित्रमर्जुनस्येह संजय 03046039c महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः 03046040a प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा 03046040c फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च 03046041a सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः 03046041c क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते 03047001 जनमेजय उवाच 03047001a यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने 03047001c प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् 03047002a कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम् 03047002c दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् 03047003a किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् 03047003c वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् 03047004 वैशंपायन उवाच 03047004a वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् 03047004c ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः 03047005a तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने 03047005c अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा 03047006a ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् 03047006c दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः 03047007a रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान् 03047007c बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् 03047008a न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत 03047008c कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः 03047009a पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान् 03047009c पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः 03047010a पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी 03047010c मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा 03047011a प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम् 03047011c धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य 03047012a तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम् 03047012c पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च 03048001 वैशंपायन उवाच 03048001a सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः 03048001c अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ 03048002a देवपुत्रौ महाभागौ देवराजसमद्युती 03048002c नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ 03048003a दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ 03048003c शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ 03048004a भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि 03048004c स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ 03048004e न शेषमिह पश्यामि तदा सैन्यस्य संजय 03048005a तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ 03048005c द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ 03048006a वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः 03048006c युधि सत्याभिसंधेन वासुदेवेन रक्षिताः 03048006e प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् 03048007a रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन 03048007c न शक्यः सहितुं वेगः पर्वतैरपि संयुगे 03048008a तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः 03048008c शैक्यया वीरघातिन्या गदया विचरिष्यति 03048009a तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः 03048009c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 03048010a ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः 03048010c स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा 03048011 संजय उवाच 03048011a व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः 03048011c समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः 03048012a श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः 03048012c त्वरितः काम्यके पार्थान्समभावयदच्युतः 03048013a द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः 03048013c विराटो धृष्टकेतुश्च केकयाश्च महारथाः 03048014a तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान् 03048014c चारेण विदितं सर्वं तन्मया वेदितं च ते 03048015a समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः 03048015c सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः 03048016a अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान् 03048016c कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् 03048017a या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह 03048017c राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा 03048018a यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् 03048018c सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् 03048019a सागरानूपगांश्चैव ये च पत्तनवासिनः 03048019c सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः 03048020a पश्चिमानि च राज्यानि शतशः सागरान्तिकान् 03048020c पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् 03048021a हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा 03048021c जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् 03048022a एते चान्ये च बहवो ये च ते भरतर्षभ 03048022c आगतानहमद्राक्षं यज्ञे ते परिवेषकान् 03048023a सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी 03048023c आदाय जीवितं तेषामाहरिष्यामि तामहम् 03048024a रामेण सह कौरव्य भीमार्जुनयमैस्तथा 03048024c अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च 03048024e धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च 03048025a दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत 03048025c दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते 03048026a ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् 03048026c धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् 03048027a अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे 03048027c शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च 03048028a प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन 03048028c अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि 03048029a वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव 03048029c प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् 03048030a तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः 03048030c धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा 03048030e केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् 03048031a पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः 03048031c दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् 03048031e प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि 03048032a ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा 03048032c मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः 03048033a पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा 03048033c उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले 03048034a तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले 03048034c क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् 03048035a परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता 03048035c तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् 03048036a एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः 03048036c सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः 03048037a ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् 03048037c पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः 03048038a रामश्च कृष्णश्च धनंजयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ 03048038c माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा 03048039a एतान्सर्वाँल्लोकवीरानजेया;न्महात्मनः सानुबन्धान्ससैन्यान् 03048039c को जीवितार्थी समरे प्रत्युदीया;त्क्रुद्धान्सिंहान्केसरिणो यथैव 03048040 धृतराष्ट्र उवाच 03048040a यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र 03048040c ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः 03048041a मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम् 03048041c असंशयं भविता युद्धमेत;द्गते काले पाण्डवानां यथोक्तम् 03049001 जनमेजय उवाच 03049001a अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि 03049001c युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः 03049002 वैशंपायन उवाच 03049002a अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि 03049002c न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः 03049003a ततः कदाचिदेकान्ते विविक्त इव शाद्वले 03049003c दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया 03049003e धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः 03049004a तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे 03049004c धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः 03049005a अथ भीमो महाबाहुर्युधिष्ठिरमभाषत 03049005c निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः 03049005e अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः 03049006a यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् 03049006c सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् 03049007a योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् 03049007c भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् 03049008a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03049008c मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् 03049009a यस्य प्रभावान्न मया सभामध्ये धनुष्मतः 03049009c नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः 03049010a ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः 03049010c सहामहे भवन्मूलं वासुदेवेन पालिताः 03049011a वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् 03049011c स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् 03049012a भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः 03049012c अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः 03049013a क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि 03049013c न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः 03049013e राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः 03049014a स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः 03049014c प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि 03049015a निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् 03049015c व्यूढानीकान्महाराज जवेनैव महाहवे 03049015e धार्तराष्ट्रानमुं लोकं गमयामि विशां पते 03049016a सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् 03049016c दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते 03049017a मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः 03049017c एवं कृते न ते दोषो भविष्यति विशां पते 03049018a यज्ञैश्च विविधैस्तात कृतं पापमरिंदम 03049018c अवधूय महाराज गच्छेम स्वर्गमुत्तमम् 03049019a एवमेतद्भवेद्राजन्यदि राजा न बालिशः 03049019c अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः 03049020a निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः 03049020c न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते 03049021a तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते 03049021c अहोरात्रं महाराज तुल्यं संवत्सरेण हि 03049022a तथैव वेदवचनं श्रूयते नित्यदा विभो 03049022c संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः 03049023a यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत 03049023c त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः 03049024a कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम 03049024c एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः 03049025a एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः 03049025c उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् 03049026a असंशयं महाबाहो हनिष्यसि सुयोधनम् 03049026c वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना 03049027a यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो 03049027c अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते 03049028a अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् 03049028c हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् 03049029a एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे 03049029c आजगाम महाभागो बृहदश्वो महानृषिः 03049030a तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् 03049030c शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् 03049031a आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः 03049031c अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत 03049032a अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् 03049032c आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः 03049033a अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः 03049033c भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी 03049034a अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि 03049034c भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् 03049034e न मत्तो दुःखिततरः पुमानस्तीति मे मतिः 03049035 बृहदश्व उवाच 03049035a यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् 03049035c अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव 03049036a अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ 03049036c यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते 03049037 वैशंपायन उवाच 03049037a अथैनमब्रवीद्राजा ब्रवीतु भगवानिति 03049037c इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् 03049038 बृहदश्व उवाच 03049038a शृणु राजन्नवहितः सह भ्रातृभिरच्युत 03049038c यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते 03049039a निषधेषु महीपालो वीरसेन इति स्म ह 03049039c तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् 03049040a स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् 03049040c वनवासमदुःखार्हो भार्यया न्यवसत्सह 03049041a न तस्याश्वो न च रथो न भ्राता न च बान्धवाः 03049041c वने निवसतो राजञ्शिष्यन्ते स्म कदाचन 03049042a भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः 03049042c ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् 03049043 युधिष्ठिर उवाच 03049043a विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः 03049043c चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि 03050001 बृहदश्व उवाच 03050001a आसीद्राजा नलो नाम वीरसेनसुतो बली 03050001c उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः 03050002a अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा 03050002c उपर्युपरि सर्वेषामादित्य इव तेजसा 03050003a ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः 03050003c अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः 03050004a ईप्सितो वरनारीणामुदारः संयतेन्द्रियः 03050004c रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् 03050005a तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः 03050005c शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः 03050006a स प्रजार्थे परं यत्नमकरोत्सुसमाहितः 03050006c तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत 03050007a तं स भीमः प्रजाकामस्तोषयामास धर्मवित् 03050007c महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् 03050008a तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ 03050008c कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः 03050009a दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् 03050009c उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् 03050010a दमयन्ती तु रूपेण तेजसा यशसा श्रिया 03050010c सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा 03050011a अथ तां वयसि प्राप्ते दासीनां समलंकृतम् 03050011c शतं सखीनां च तथा पर्युपास्ते शचीमिव 03050012a तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता 03050012c सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा 03050012e अतीव रूपसंपन्ना श्रीरिवायतलोचना 03050013a न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् 03050013c मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता 03050013e चित्तप्रमाथिनी बाला देवानामपि सुन्दरी 03050014a नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि 03050014c कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् 03050015a तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् 03050015c नैषधस्य समीपे तु दमयन्तीं पुनः पुनः 03050016a तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान् 03050016c अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः 03050017a अशक्नुवन्नलः कामं तदा धारयितुं हृदा 03050017c अन्तःपुरसमीपस्थे वन आस्ते रहोगतः 03050018a स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् 03050018c वने विचरतां तेषामेकं जग्राह पक्षिणम् 03050019a ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम् 03050019c न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् 03050020a दमयन्तीसकाशे त्वां कथयिष्यामि नैषध 03050020c यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् 03050021a एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः 03050021c ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः 03050022a विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके 03050022c निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् 03050023a सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता 03050023c हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे 03050024a अथ हंसा विससृपुः सर्वतः प्रमदावने 03050024c एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् 03050025a दमयन्ती तु यं हंसं समुपाधावदन्तिके 03050025c स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् 03050026a दमयन्ति नलो नाम निषधेषु महीपतिः 03050026c अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः 03050027a तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि 03050027c सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे 03050028a वयं हि देवगन्धर्वमनुष्योरगराक्षसान् 03050028c दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः 03050029a त्वं चापि रत्नं नारीणां नरेषु च नलो वरः 03050029c विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् 03050030a एवमुक्ता तु हंसेन दमयन्ती विशां पते 03050030c अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद 03050031a तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते 03050031c पुनरागम्य निषधान्नले सर्वं न्यवेदयत् 03051001 बृहदश्व उवाच 03051001a दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत 03051001c तदा प्रभृति नस्वस्था नलं प्रति बभूव सा 03051002a ततश्चिन्तापरा दीना विवर्णवदना कृशा 03051002c बभूव दमयन्ती तु निःश्वासपरमा तदा 03051003a ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना 03051003c न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् 03051004a न नक्तं न दिवा शेते हा हेति वदती मुहुः 03051004c तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः 03051005a ततो विदर्भपतये दमयन्त्याः सखीगणः 03051005c न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर 03051006a तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् 03051006c चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति 03051007a स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् 03051007c अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् 03051008a स संनिपातयामास महीपालान्विशां पते 03051008c अनुभूयतामयं वीराः स्वयंवर इति प्रभो 03051009a श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् 03051009c अभिजग्मुस्तदा भीमं राजानो भीमशासनात् 03051010a हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् 03051010c विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः 03051011a एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ 03051011c अटमानौ महात्मानाविन्द्रलोकमितो गतौ 03051012a नारदः पर्वतश्चैव महात्मानौ महाव्रतौ 03051012c देवराजस्य भवनं विविशाते सुपूजितौ 03051013a तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् 03051013c पप्रच्छानामयं चापि तयोः सर्वगतं विभुः 03051014 नारद उवाच 03051014a आवयोः कुशलं देव सर्वत्रगतमीश्वर 03051014c लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो 03051015 बृहदश्व उवाच 03051015a नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा 03051015c धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः 03051016a शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः 03051016c अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् 03051017a क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् 03051017c आगच्छतो महीपालानतिथीन्दयितान्मम 03051018a एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत 03051018c शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः 03051019a विदर्भराजदुहिता दमयन्तीति विश्रुता 03051019c रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः 03051020a तस्याः स्वयंवरः शक्र भविता नचिरादिव 03051020c तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः 03051021a तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः 03051021c काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन 03051022a एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः 03051022c आजग्मुर्देवराजस्य समीपममरोत्तमाः 03051023a ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् 03051023c श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत 03051024a ततः सर्वे महाराज सगणाः सहवाहनाः 03051024c विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः 03051025a नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् 03051025c अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः 03051026a अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् 03051026c साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा 03051027a तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् 03051027c तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा 03051028a ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः 03051028c अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् 03051029a भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् 03051029c अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम 03052001 बृहदश्व उवाच 03052001a तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत 03052001c अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः 03052002a के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः 03052002c किं च तत्र मया कार्यं कथयध्वं यथातथम् 03052003a एवमुक्ते नैषधेन मघवान्प्रत्यभाषत 03052003c अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् 03052004a अहमिन्द्रोऽयमग्निश्च तथैवायमपांपतिः 03052004c शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव 03052005a स वै त्वमागतानस्मान्दमयन्त्यै निवेदय 03052005c लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः 03052006a प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः 03052006c तेषामन्यतमं देवं पतित्वे वरयस्व ह 03052007a एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् 03052007c एकार्थसमवेतं मां न प्रेषयितुमर्हथ 03052008 देवा ऊचुः 03052008a करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध 03052008c न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् 03052009 बृहदश्व उवाच 03052009a एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् 03052009c सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे 03052010a प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत 03052010c जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् 03052011a ददर्श तत्र वैदर्भीं सखीगणसमावृताम् 03052011c देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् 03052012a अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् 03052012c आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा 03052013a तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् 03052013c सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् 03052014a ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः 03052014c आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः 03052015a प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः 03052015c न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् 03052016a अहो रूपमहो कान्तिरहो धैर्यं महात्मनः 03052016c कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति 03052017a न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन 03052017c तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः 03052018a अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी 03052018c दमयन्ती नलं वीरमभ्यभाषत विस्मिता 03052019a कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन 03052019c प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ 03052020a कथमागमनं चेह कथं चासि न लक्षितः 03052020c सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः 03052021a एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह 03052021c नलं मां विद्धि कल्याणि देवदूतमिहागतम् 03052022a देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः 03052022c तेषामन्यतमं देवं पतिं वरय शोभने 03052023a तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः 03052023c प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् 03052024a एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः 03052024c एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि 03053001 बृहदश्व उवाच 03053001a सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् 03053001c प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते 03053002a अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन 03053002c सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर 03053003a हंसानां वचनं यत्तत्तन्मां दहति पार्थिव 03053003c त्वत्कृते हि मया वीर राजानः संनिपातिताः 03053004a यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद 03053004c विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् 03053005a एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह 03053005c तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि 03053006a येषामहं लोककृतामीश्वराणां महात्मनाम् 03053006c न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् 03053007a विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति 03053007c त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् 03053008a ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता 03053008c प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् 03053009a अस्त्युपायो मया दृष्टो निरपायो नरेश्वर 03053009c येन दोषो न भविता तव राजन्कथंचन 03053010a त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः 03053010c आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः 03053011a ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर 03053011c वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति 03053012a एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते 03053012c आजगाम पुनस्तत्र यत्र देवाः समागताः 03053013a तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः 03053013c दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तत् 03053014 देवा ऊचुः 03053014a कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता 03053014c किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ 03053015 नल उवाच 03053015a भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् 03053015c प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् 03053016a प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः 03053016c ऋते तां पार्थिवसुतां भवतामेव तेजसा 03053017a सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः 03053017c विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः 03053018a वर्ण्यमानेषु च मया भवत्सु रुचिरानना 03053018c मामेव गतसंकल्पा वृणीते सुरसत्तमाः 03053019a अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः 03053019c त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः 03053020a तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम 03053020c एवं तव महाबाहो दोषो न भवितेति ह 03053021a एतावदेव विबुधा यथावृत्तमुदाहृतम् 03053021c मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः 03054001 बृहदश्व उवाच 03054001a अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा 03054001c आजुहाव महीपालान्भीमो राजा स्वयंवरे 03054002a तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः 03054002c त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः 03054003a कनकस्तम्भरुचिरं तोरणेन विराजितम् 03054003c विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् 03054004a तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः 03054004c सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः 03054005a तां राजसमितिं पूर्णां नागैर्भोगवतीमिव 03054005c संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव 03054006a तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः 03054006c आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः 03054007a सुकेशान्तानि चारूणि सुनासानि शुभानि च 03054007c मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि 03054008a दमयन्ती ततो रङ्गं प्रविवेश शुभानना 03054008c मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च 03054009a तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् 03054009c तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् 03054010a ततः संकीर्त्यमानेषु राज्ञां नामसु भारत 03054010c ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव 03054011a तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् 03054011c संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् 03054011e यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् 03054012a सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी 03054012c कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् 03054013a एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता 03054013c श्रुतानि देवलिङ्गानि चिन्तयामास भारत 03054014a देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे 03054014c तानीह तिष्ठतां भूमावेकस्यापि न लक्षये 03054015a सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03054015c शरणं प्रति देवानां प्राप्तकालममन्यत 03054016a वाचा च मनसा चैव नमस्कारं प्रयुज्य सा 03054016c देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् 03054017a हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः 03054017c पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे 03054018a वाचा च मनसा चैव यथा नाभिचराम्यहम् 03054018c तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे 03054019a यथा देवैः स मे भर्ता विहितो निषधाधिपः 03054019c तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे 03054020a स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः 03054020c यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् 03054021a निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् 03054021c निश्चयं परमं तथ्यमनुरागं च नैषधे 03054022a मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत 03054022c यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे 03054023a सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् 03054023c हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् 03054024a छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः 03054024c भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः 03054025a सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत 03054025c नैषधं वरयामास भैमी धर्मेण भारत 03054026a विलज्जमाना वस्त्रान्ते जग्राहायतलोचना 03054026c स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् 03054026e वरयामास चैवैनं पतित्वे वरवर्णिनी 03054027a ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः 03054027c देवैर्महर्षिभिश्चैव साधु साध्विति भारत 03054027e विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् 03054028a वृते तु नैषधे भैम्या लोकपाला महौजसः 03054028c प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः 03054029a प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् 03054029c नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः 03054030a अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः 03054030c लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः 03054031a यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् 03054031c अपांपतिरपां भावं यत्र वाञ्छति नैषधः 03054032a स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः 03054032c वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः 03054033a पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः 03054033c दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् 03054034a अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः 03054034c रेमे सह तया राजा शच्येव बलवृत्रहा 03054035a अतीव मुदितो राजा भ्राजमानोंऽशुमानिव 03054035c अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् 03054036a ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः 03054036c अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः 03054037a पुनश्च रमणीयेषु वनेषूपवनेषु च 03054037c दमयन्त्या सह नलो विजहारामरोपमः 03054038a एवं स यजमानश्च विहरंश्च नराधिपः 03054038c ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः 03055001 बृहदश्व उवाच 03055001a वृते तु नैषधे भैम्या लोकपाला महौजसः 03055001c यान्तो ददृशुरायान्तं द्वापरं कलिना सह 03055002a अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा 03055002c द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि 03055003a ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् 03055003c गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् 03055004a तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः 03055004c वृतस्तया नलो राजा पतिरस्मत्समीपतः 03055005a एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः 03055005c देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा 03055006a देवानां मानुषं मध्ये यत्सा पतिमविन्दत 03055006c ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् 03055007a एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः 03055007c अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः 03055008a कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् 03055008c यो वेद धर्मानखिलान्यथावच्चरितव्रतः 03055009a यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः 03055009c ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे 03055010a आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना 03055010c एवंगुणं नलं यो वै कामयेच्छपितुं कले 03055011a कृच्छ्रे स नरके मज्जेदगाधे विपुलेऽप्लवे 03055011c एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः 03055012a ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् 03055012c संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर 03055013a भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते 03055013c त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि 03056001 बृहदश्व उवाच 03056001a एवं स समयं कृत्वा द्वापरेण कलिः सह 03056001c आजगाम ततस्तत्र यत्र राजा स नैषधः 03056002a स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् 03056002c अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् 03056003a कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः 03056003c अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् 03056004a स समाविश्य तु नलं समीपं पुष्करस्य ह 03056004c गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै 03056005a अक्षद्यूते नलं जेता भवान्हि सहितो मया 03056005c निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् 03056006a एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् 03056006c कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् 03056007a आसाद्य तु नलं वीरं पुष्करः परवीरहा 03056007c दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः 03056008a न चक्षमे ततो राजा समाह्वानं महामनाः 03056008c वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत 03056009a हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् 03056009c आविष्टः कलिना द्यूते जीयते स्म नलस्तदा 03056010a तमक्षमदसंमत्तं सुहृदां न तु कश्चन 03056010c निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् 03056011a ततः पौरजनः सर्वो मन्त्रिभिः सह भारत 03056011c राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् 03056012a ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् 03056012c एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् 03056013a निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः 03056013c अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः 03056014a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03056014c उवाच नैषधं भैमी शोकोपहतचेतना 03056015a राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः 03056015c मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः 03056015e तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत 03056016a तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् 03056016c आविष्टः कलिना राजा नाभ्यभाषत किंचन 03056017a ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः 03056017c नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् 03056018a तथा तदभवद्द्यूतं पुष्करस्य नलस्य च 03056018c युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत 03057001 बृहदश्व उवाच 03057001a दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् 03057001c उन्मत्तवदनुन्मत्ता देवने गतचेतसम् 03057002a भयशोकसमाविष्टा राजन्भीमसुता ततः 03057002c चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति 03057003a सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् 03057003c नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् 03057004a बृहत्सेने व्रजामात्यानानाय्य नलशासनात् 03057004c आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु 03057005a ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् 03057005c अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् 03057006a तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः 03057006c न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत 03057007a वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा 03057007c दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह 03057008a निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् 03057008c नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह 03057009a बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् 03057009c सूतमानय कल्याणि महत्कार्यमुपस्थितम् 03057010a बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् 03057010c वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः 03057011a वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा 03057011c उवाच देशकालज्ञा प्राप्तकालमनिन्दिता 03057012a जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि 03057012c तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि 03057013a यथा यथा हि नृपतिः पुष्करेणेह जीयते 03057013c तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते 03057014a यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः 03057014c तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते 03057015a सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च 03057015c नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः 03057016a यत्र मे वचनं राजा नाभिनन्दति मोहितः 03057016c शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः 03057016e न हि मे शुध्यते भावः कदाचिद्विनशेदिति 03057017a नलस्य दयितानश्वान्योजयित्वा महाजवान् 03057017c इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि 03057018a मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा 03057018c अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा 03057019a दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः 03057019c न्यवेदयदशेषेण नलामात्येषु मुख्यशः 03057020a तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते 03057020c ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना 03057021a हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् 03057021c इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् 03057022a आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् 03057022c अटमानस्ततोऽयोध्यां जगाम नगरीं तदा 03057023a ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः 03057023c भृतिं चोपययौ तस्य सारथ्येन महीपते 03058001 बृहदश्व उवाच 03058001a ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः 03058001c पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन 03058002a हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् 03058002c द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव 03058003a शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया 03058003c दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे 03058004a पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना 03058004c व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् 03058005a ततः पुष्करमालोक्य नलः परममन्युमान् 03058005c उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः 03058006a एकवासा असंवीतः सुहृच्छोकविवर्धनः 03058006c निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् 03058007a दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् 03058007c स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् 03058008a पुष्करस्तु महाराज घोषयामास वै पुरे 03058008c नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम 03058009a पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च 03058009c पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर 03058010a स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः 03058010c त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् 03058011a क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि 03058011c अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् 03058012a स चिन्तयामास तदा निषधाधिपतिर्बली 03058012c अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति 03058013a ततस्तानन्तरीयेण वाससा समवास्तृणोत् 03058013c तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा 03058014a उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् 03058014c दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् 03058015a वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः 03058015c आगता न हि नः प्रीतिः सवाससि गते त्वयि 03058016a तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् 03058016c पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् 03058017a येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते 03058017c प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः 03058018a येषां कृते न सत्कारमकुर्वन्मयि नैषधाः 03058018c त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे 03058019a वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः 03058019c भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः 03058020a एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् 03058020c अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् 03058021a एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा 03058021c आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः 03058022a एष पन्था विदर्भाणामयं गच्छति कोसलान् 03058022c अतः परं च देशोऽयं दक्षिणे दक्षिणापथः 03058023a ततः सा बाष्पकलया वाचा दुःखेन कर्शिता 03058023c उवाच दमयन्ती तं नैषधं करुणं वचः 03058024a उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः 03058024c तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः 03058025a हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् 03058025c कथमुत्सृज्य गच्छेयमहं त्वां विजने वने 03058026a श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् 03058026c वने घोरे महाराज नाशयिष्यामि ते क्लमम् 03058027a न च भार्यासमं किंचिद्विद्यते भिषजां मतम् 03058027c औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते 03058028 नल उवाच 03058028a एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे 03058028c नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् 03058029a न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे 03058029c त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते 03058030 दमयन्त्युवाच 03058030a यदि मां त्वं महाराज न विहातुमिहेच्छसि 03058030c तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते 03058031a अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि 03058031c चेतसा त्वपकृष्टेन मां त्यजेथा महापते 03058032a पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम 03058032c अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ 03058033a यदि चायमभिप्रायस्तव राजन्व्रजेदिति 03058033c सहितावेव गच्छावो विदर्भान्यदि मन्यसे 03058034a विदर्भराजस्तत्र त्वां पूजयिष्यति मानद 03058034c तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे 03059001 नल उवाच 03059001a यथा राज्यं पितुस्ते तत्तथा मम न संशयः 03059001c न तु तत्र गमिष्यामि विषमस्थः कथंचन 03059002a कथं समृद्धो गत्वाहं तव हर्षविवर्धनः 03059002c परिद्यूनो गमिष्यामि तव शोकविवर्धनः 03059003 बृहदश्व उवाच 03059003a इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः 03059003c सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् 03059004a तावेकवस्त्रसंवीतावटमानावितस्ततः 03059004c क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः 03059005a तां सभामुपसंप्राप्य तदा स निषधाधिपः 03059005c वैदर्भ्या सहितो राजा निषसाद महीतले 03059006a स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः 03059006c दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले 03059007a दमयन्त्यपि कल्याणी निद्रयापहृता ततः 03059007c सहसा दुःखमासाद्य सुकुमारी तपस्विनी 03059008a सुप्तायां दमयन्त्यां तु नलो राजा विशां पते 03059008c शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा 03059009a स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः 03059009c वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् 03059010a किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः 03059010c किं नु मे मरणं श्रेयः परित्यागो जनस्य वा 03059011a मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते 03059011c मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति 03059012a मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा 03059012c उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् 03059013a स विनिश्चित्य बहुधा विचार्य च पुनः पुनः 03059013c उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः 03059014a सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् 03059014c चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् 03059015a कथं वासो विकर्तेयं न च बुध्येत मे प्रिया 03059015c चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा 03059016a परिधावन्नथ नल इतश्चेतश्च भारत 03059016c आससाद सभोद्देशे विकोशं खड्गमुत्तमम् 03059017a तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः 03059017c सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः 03059018a ततो निबद्धहृदयः पुनरागम्य तां सभाम् 03059018c दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः 03059019a यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् 03059019c सेयमद्य सभामध्ये शेते भूमावनाथवत् 03059020a इयं वस्त्रावकर्तेन संवीता चारुहासिनी 03059020c उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति 03059021a कथमेका सती भैमी मया विरहिता शुभा 03059021c चरिष्यति वने घोरे मृगव्यालनिषेविते 03059022a गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः 03059022c आकृष्यमाणः कलिना सौहृदेनापकृष्यते 03059023a द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा 03059023c दोलेव मुहुरायाति याति चैव सभां मुहुः 03059024a सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः 03059024c सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु 03059025a नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः 03059025c जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः 03060001 बृहदश्व उवाच 03060001a अपक्रान्ते नले राजन्दमयन्ती गतक्लमा 03060001c अबुध्यत वरारोहा संत्रस्ता विजने वने 03060002a सापश्यमाना भर्तारं दुःखशोकसमन्विता 03060002c प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् 03060003a हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् 03060003c हा हतास्मि विनष्टास्मि भीतास्मि विजने वने 03060004a ननु नाम महाराज धर्मज्ञः सत्यवागसि 03060004c कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः 03060005a कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् 03060005c विशेषतोऽनपकृते परेणापकृते सति 03060006a शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर 03060006c यास्त्वया लोकपालानां संनिधौ कथिताः पुरा 03060007a पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ 03060007c भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर 03060008a दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध 03060008c आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे 03060009a नृशंसं बत राजेन्द्र यन्मामेवंगतामिह 03060009c विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव 03060010a न शोचाम्यहमात्मानं न चान्यदपि किंचन 03060010c कथं नु भवितास्येक इति त्वां नृप शोचिमि 03060011a कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः 03060011c सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि 03060012a ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना 03060012c इतश्चेतश्च रुदती पर्यधावत दुःखिता 03060013a मुहुरुत्पतते बाला मुहुः पतति विह्वला 03060013c मुहुरालीयते भीता मुहुः क्रोशति रोदिति 03060014a सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला 03060014c उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता 03060015a यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः 03060015c तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् 03060016a अपापचेतसं पापो य एवं कृतवान्नलम् 03060016c तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् 03060017a एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः 03060017c अन्वेषति स्म भर्तारं वने श्वापदसेविते 03060018a उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः 03060018c हा हा राजन्निति मुहुरितश्चेतश्च धावति 03060019a तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् 03060019c करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः 03060020a सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् 03060020c जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः 03060021a सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता 03060021c नात्मानं शोचति तथा यथा शोचति नैषधम् 03060022a हा नाथ मामिह वने ग्रस्यमानामनाथवत् 03060022c ग्राहेणानेन विपिने किमर्थं नाभिधावसि 03060023a कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध 03060023c पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च 03060024a श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध 03060024c कः श्रमं राजशार्दूल नाशयिष्यति मानद 03060025a तामकस्मान्मृगव्याधो विचरन्गहने वने 03060025c आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह 03060026a तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् 03060026c त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः 03060027a मुखतः पातयामास शस्त्रेण निशितेन ह 03060027c निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः 03060028a मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च 03060028c समाश्वास्य कृताहारामथ पप्रच्छ भारत 03060029a कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् 03060029c कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि 03060030a दमयन्ती तथा तेन पृच्छ्यमाना विशां पते 03060030c सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत 03060031a तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् 03060031c सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् 03060032a अरालपक्ष्मनयनां तथा मधुरभाषिणीम् 03060032c लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् 03060033a तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया 03060033c सान्त्वयामास कामार्तस्तदबुध्यत भामिनी 03060034a दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता 03060034c तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना 03060035a स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः 03060035c दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव 03060036a दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता 03060036c अतीतवाक्पथे काले शशापैनं रुषा किल 03060037a यथाहं नैषधादन्यं मनसापि न चिन्तये 03060037c तथायं पततां क्षुद्रः परासुर्मृगजीवनः 03060038a उक्तमात्रे तु वचने तया स मृगजीवनः 03060038c व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः 03061001 बृहदश्व उवाच 03061001a सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा 03061001c वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् 03061002a सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् 03061002c नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् 03061003a शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः 03061003c अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः 03061004a जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् 03061004c काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् 03061005a बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् 03061005c प्रियालतालखर्जूरहरीतकबिभीतकैः 03061006a नानाधातुशतैर्नद्धान्विविधानपि चाचलान् 03061006c निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः 03061006e नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् 03061007a सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् 03061007c पल्वलानि तडागानि गिरिकूटानि सर्वशः 03061007e सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् 03061008a यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी 03061008c महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् 03061009a तेजसा यशसा स्थित्या श्रिया च परया युता 03061009c वैदर्भी विचरत्येका नलमन्वेषती तदा 03061010a नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् 03061010c दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता 03061011a विदर्भतनया राजन्विललाप सुदुःखिता 03061011c भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता 03061012 दमयन्त्युवाच 03061012a सिंहोरस्क महाबाहो निषधानां जनाधिप 03061012c क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने 03061013a अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः 03061013c कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे 03061014a यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते 03061014c कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ 03061015a यथोक्तं विहगैर्हंसैः समीपे तव भूमिप 03061015c मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि 03061016a चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः 03061016c स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः 03061017a तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर 03061017c उक्तवानसि यद्वीर मत्सकाशे पुरा वचः 03061018a हा वीर ननु नामाहमिष्टा किल तवानघ 03061018c अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे 03061019a भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः 03061019c अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि 03061020a न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा 03061020c तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप 03061021a उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप 03061021c ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे 03061022a कृशां दीनां विवर्णां च मलिनां वसुधाधिप 03061022c वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् 03061023a यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन 03061023c न मानयसि मानार्ह रुदतीमरिकर्शन 03061024a महाराज महारण्ये मामिहैकाकिनीं सतीम् 03061024c आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे 03061025a कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् 03061025c नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम 03061025e वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते 03061026a शयानमुपविष्टं वा स्थितं वा निषधाधिप 03061026c प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन 03061027a कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता 03061027c कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः 03061028a को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् 03061028c अभिरूपं महात्मानं परव्यूहविनाशनम् 03061029a यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् 03061029c अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् 03061030a अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः 03061030c शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता 03061031a भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः 03061031c विदर्भराजतनयां दमयन्तीति विद्धि माम् 03061032a निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः 03061032c पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् 03061032e आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः 03061033a अथ वारण्यनृपते नलं यदि न शंससि 03061033c मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् 03061034a श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् 03061034c यात्येतां मृष्टसलिलामापगां सागरंगमाम् 03061035a इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः 03061035c विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः 03061036a नानाधातुसमाकीर्णं विविधोपलभूषितम् 03061036c अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् 03061037a सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् 03061037c पतत्रिभिर्बहुविधैः समन्तादनुनादितम् 03061038a किंशुकाशोकबकुलपुंनागैरुपशोभितम् 03061038c सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम् 03061038e गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति 03061039a भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत 03061039c शरण्य बहुकल्याण नमस्तेऽस्तु महीधर 03061040a प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् 03061040c राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् 03061041a राजा विदर्भाधिपतिः पिता मम महारथः 03061041c भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता 03061042a राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् 03061042c आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः 03061043a ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः 03061043c शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः 03061044a सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः 03061044c तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् 03061045a निषधेषु महाशैल श्वशुरो मे नृपोत्तमः 03061045c सुगृहीतनामा विख्यातो वीरसेन इति स्म ह 03061046a तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः 03061046c क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह 03061047a नलो नामारिदमनः पुण्यश्लोक इति श्रुतः 03061047c ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् 03061048a यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता 03061048c तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् 03061049a त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् 03061049c अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् 03061050a खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः 03061050c कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः 03061051a गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः 03061051c विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः 03061051e निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः 03061052a किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् 03061052c गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् 03061053a वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते 03061053c यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना 03061054a कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् 03061054c श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् 03061055a वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः 03061055c आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् 03061056a इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी 03061056c दमयन्ती ततो भूयो जगाम दिशमुत्तराम् 03061057a सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना 03061057c तापसारण्यमतुलं दिव्यकाननदर्शनम् 03061058a वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् 03061058c नियतैः संयताहारैर्दमशौचसमन्वितैः 03061059a अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च 03061059c जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः 03061060a वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः 03061060c तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् 03061061a सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् 03061061c शाखामृगगणैश्चैव तापसैश्च समन्वितम् 03061062a सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना 03061062c वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी 03061063a सा विवेशाश्रमपदं वीरसेनसुतप्रिया 03061063c योषिद्रत्नं महाभागा दमयन्ती मनस्विनी 03061064a साभिवाद्य तपोवृद्धान्विनयावनता स्थिता 03061064c स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा 03061065a पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः 03061065c आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे 03061066a तानुवाच वरारोहा कच्चिद्भगवतामिह 03061066c तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः 03061066e कुशलं वो महाभागाः स्वधर्मचरणेषु च 03061067a तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी 03061067c ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि 03061068a दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह 03061068c विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः 03061069a अस्यारण्यस्य महती देवता वा महीभृतः 03061069c अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते 03061070a साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता 03061070c न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् 03061071a मानुषीं मां विजानीत यूयं सर्वे तपोधनाः 03061071c विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः 03061072a विदर्भेषु महीपालो भीमो नाम महाद्युतिः 03061072c तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः 03061073a निषधाधिपतिर्धीमान्नलो नाम महायशाः 03061073c वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः 03061074a देवताभ्यर्चनपरो द्विजातिजनवत्सलः 03061074c गोप्ता निषधवंशस्य महाभागो महाद्युतिः 03061075a सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः 03061075c ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः 03061076a नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः 03061076c मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा 03061077a आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः 03061077c सपत्नानां मृधे हन्ता रविसोमसमप्रभः 03061078a स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः 03061078c आहूय पृथिवीपालः सत्यधर्मपरायणः 03061078e देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च 03061079a तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै 03061079c दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् 03061080a सा वनानि गिरींश्चैव सरांसि सरितस्तथा 03061080c पल्वलानि च रम्याणि तथारण्यानि सर्वशः 03061081a अन्वेषमाणा भर्तारं नलं रणविशारदम् 03061081c महात्मानं कृतास्त्रं च विचरामीह दुःखिता 03061082a कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः 03061082c भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः 03061083a यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् 03061083c वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् 03061084a यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् 03061084c आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् 03061085a को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् 03061085c कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता 03061086a एवं विलपतीमेकामरण्ये भीमनन्दिनीम् 03061086c दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः 03061087a उदर्कस्तव कल्याणि कल्याणो भविता शुभे 03061087c वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् 03061088a निषधानामधिपतिं नलं रिपुनिघातिनम् 03061088c भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् 03061089a विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् 03061089c तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् 03061090a द्विषतां भयकर्तारं सुहृदां शोकनाशनम् 03061090c पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् 03061091a एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् 03061091c अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा 03061092a सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा 03061092c दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा 03061093a किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् 03061093c क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् 03061094a क्व सा पुण्यजला रम्या नानाद्विजनिषेविता 03061094c नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः 03061095a ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता 03061095c भर्तृशोकपरा दीना विवर्णवदनाभवत् 03061096a सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा 03061096c विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः 03061097a उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा 03061097c पल्लवापीडितं हृद्यं विहंगैरनुनादितम् 03061098a अहो बतायमगमः श्रीमानस्मिन्वनान्तरे 03061098c आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव 03061099a विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन 03061099c वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् 03061100a नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् 03061100c निषधानामधिपतिं दृष्टवानसि मे प्रियम् 03061101a एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् 03061101c व्यसनेनार्दितं वीरमरण्यमिदमागतम् 03061102a यथा विशोका गच्छेयमशोकनग तत्कुरु 03061102c सत्यनामा भवाशोक मम शोकविनाशनात् 03061103a एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह 03061103c जगाम दारुणतरं देशं भैमी वराङ्गना 03061104a सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा 03061104c नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः 03061105a कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् 03061105c ददर्श सा भीमसुता पतिमन्वेषती तदा 03061106a गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता 03061106c ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् 03061107a उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् 03061107c सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् 03061108a प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् 03061108c कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् 03061109a सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी 03061109c उपसर्प्य वरारोहा जनमध्यं विवेश ह 03061110a उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता 03061110c कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा 03061111a तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः 03061111c केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः 03061112a प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे 03061112c चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत 03061113a कासि कस्यासि कल्याणि किं वा मृगयसे वने 03061113c त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी 03061114a वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः 03061114c देवता त्वं हि कल्याणि त्वां वयं शरणं गताः 03061115a यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना 03061115c सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते 03061116a यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् 03061116c तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः 03061117a तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा 03061117c प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता 03061117e सार्थवाहं च सार्थं च जना ये चात्र केचन 03061118a यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः 03061118c मानुषीं मां विजानीत मनुजाधिपतेः सुताम् 03061118e नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् 03061119a विदर्भराण्मम पिता भर्ता राजा च नैषधः 03061119c नलो नाम महाभागस्तं मार्गाम्यपराजितम् 03061120a यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् 03061120c नलं पार्थिवशार्दूलममित्रगणसूदनम् 03061121a तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः 03061121c सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः 03061122a अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते 03061122c मनुष्यं नलनामानं न पश्यामि यशस्विनि 03061123a कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि 03061123c पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते 03061123e तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु 03061124a साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः 03061124c क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ 03061125 सार्थवाह उवाच 03061125a सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः 03061125c क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे 03062001 बृहदश्व उवाच 03062001a सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा 03062001c अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा 03062002a अथ काले बहुतिथे वने महति दारुणे 03062002c तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् 03062003a ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् 03062003c बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् 03062004a तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् 03062004c सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः 03062005a संमते सार्थवाहस्य विविशुर्वनमुत्तमम् 03062005c उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् 03062006a अथार्धरात्रसमये निःशब्दस्तिमिते तदा 03062006c सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् 03062006e पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् 03062007a मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् 03062007c सुप्तं ममर्द सहसा चेष्टमानं महीतले 03062008a हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः 03062008c वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् 03062008e केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः 03062009a गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् 03062009c भयार्तं धावमानं तत्परस्परहतं तदा 03062010a घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले 03062010c वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च 03062010e तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् 03062011a अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा 03062011c वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् 03062011e भ्रातरं पितरं पुत्रं सखायं च जनाधिप 03062012a अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् 03062012c योऽपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः 03062012e हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु 03062013a प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् 03062013c नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् 03062014a यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता 03062014c न ह्यदैवकृतं किंचिन्नराणामिह विद्यते 03062015a न च मे बालभावेऽपि किंचिद्व्यपकृतं कृतम् 03062015c कर्मणा मनसा वाचा यदिदं दुःखमागतम् 03062016a मन्ये स्वयंवरकृते लोकपालाः समागताः 03062016c प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः 03062016e नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् 03062017a एवमादीनि दुःखानि सा विलप्य वराङ्गना 03062017c हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः 03062017e अगच्छद्राजशार्दूल दुःखशोकपरायणा 03062018a गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् 03062018c सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः 03062018e वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् 03062019a तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् 03062019c उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः 03062020a प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा 03062020c अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् 03062021a सा तैः परिवृतागच्छत्समीपं राजवेश्मनः 03062021c तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् 03062022a सा जनं वारयित्वा तं प्रासादतलमुत्तमम् 03062022c आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत 03062023a एवमप्यसुखाविष्टा बिभर्षि परमं वपुः 03062023c भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा 03062024a न हि ते मानुषं रूपं भूषणैरपि वर्जितम् 03062024c असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे 03062025a तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् 03062025c मानुषीं मां विजानीहि भर्तारं समनुव्रताम् 03062026a सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् 03062026c फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् 03062027a असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः 03062027c भर्तारमपि तं वीरं छायेवानपगा सदा 03062028a तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने 03062028c द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् 03062029a तमेकवसनं वीरमुन्मत्तमिव विह्वलम् 03062029c आश्वासयन्ती भर्तारमहमन्वगमं वनम् 03062030a स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे 03062030c क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् 03062031a तमेकवसनं नग्नमुन्मत्तं गतचेतसम् 03062031c अनुव्रजन्ती बहुला न स्वपामि निशाः सदा 03062032a ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् 03062032c वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् 03062033a तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः 03062033c न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् 03062034a तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु 03062034c राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् 03062035a वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते 03062035c मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम 03062036a अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः 03062036c इहैव वसती भद्रे भर्तारमुपलप्स्यसे 03062037a राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् 03062037c समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि 03062038a उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् 03062038c न चाहं पुरुषानन्यान्संभाषेयं कथंचन 03062039a प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् 03062039c भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् 03062040a यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् 03062040c अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् 03062041a तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् 03062041c सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् 03062042a एवमुक्त्वा ततो भैमीं राजमाता विशां पते 03062042c उवाचेदं दुहितरं सुनन्दां नाम भारत 03062043a सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् 03062043c एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् 03063001 बृहदश्व उवाच 03063001a उत्सृज्य दमयन्तीं तु नलो राजा विशां पते 03063001c ददर्श दावं दह्यन्तं महान्तं गहने वने 03063002a तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् 03063002c अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् 03063003a मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् 03063003c ददर्श नागराजानं शयानं कुण्डलीकृतम् 03063004a स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा 03063004c उवाच विद्धि मां राजन्नागं कर्कोटकं नृप 03063005a मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः 03063005c तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप 03063006a तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् 03063006c उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् 03063007a सखा च ते भविष्यामि मत्समो नास्ति पन्नगः 03063007c लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् 03063008a एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः 03063008c तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् 03063009a आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना 03063009c उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् 03063010a पदानि गणयन्गच्छ स्वानि नैषध कानिचित् 03063010c तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् 03063011a ततः संख्यातुमारब्धमदशद्दशमे पदे 03063011c तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत 03063012a स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः 03063012c स्वरूपधारिणं नागं ददर्श च महीपतिः 03063013a ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् 03063013c मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति 03063014a यत्कृते चासि विकृतो दुःखेन महता नल 03063014c विषेण स मदीयेन त्वयि दुःखं निवत्स्यति 03063015a विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति 03063015c तावत्त्वयि महाराज दुःखं वै स निवत्स्यति 03063016a अनागा येन निकृतस्त्वमनर्हो जनाधिप 03063016c क्रोधादसूययित्वा तं रक्षा मे भवतः कृता 03063017a न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा 03063017c ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप 03063018a राजन्विषनिमित्ता च न ते पीडा भविष्यति 03063018c संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि 03063019a गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् 03063019c समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् 03063019e अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर 03063020a स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै 03063020c इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति 03063021a भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा 03063021c समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः 03063021e राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते 03063022a स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप 03063022c संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः 03063023a अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे 03063023c इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा 03063024a एवं नलं समादिश्य वासो दत्त्वा च कौरव 03063024c नागराजस्ततो राजंस्तत्रैवान्तरधीयत 03064001 बृहदश्व उवाच 03064001a तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः 03064001c ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि 03064002a स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् 03064002c अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः 03064003a अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च 03064003c अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः 03064004a यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् 03064004c सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् 03064005 ऋतुपर्ण उवाच 03064005a वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि 03064005c शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः 03064006a स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम 03064006c भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः 03064007a त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ 03064007c एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक 03064008 बृहदश्व उवाच 03064008a एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः 03064008c ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः 03064009a स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् 03064009c सायं सायं सदा चेमं श्लोकमेकं जगाद ह 03064010a क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी 03064010c स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति 03064011a एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् 03064011c कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक 03064012a तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् 03064012c आसीद्बहुमता नारी तस्या दृढतरं च सः 03064013a स वै केनचिदर्थेन तया मन्दो व्ययुज्यत 03064013c विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः 03064014a दह्यमानः स शोकेन दिवारात्रमतन्द्रितः 03064014c निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति 03064015a स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचन 03064015c वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् 03064016a सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने 03064016c त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति 03064017a एका बालानभिज्ञा च मार्गाणामतथोचिता 03064017c क्षुत्पिपासापरीता च दुष्करं यदि जीवति 03064018a श्वापदाचरिते नित्यं वने महति दारुणे 03064018c त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष 03064019a इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् 03064019c अज्ञातवासमवसद्राज्ञस्तस्य निवेशने 03065001 बृहदश्व उवाच 03065001a हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते 03065001c द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया 03065002a संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् 03065002c मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् 03065003a अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे 03065003c गवां सहस्रं दास्यामि यो वस्तावानयिष्यति 03065003e अग्रहारं च दास्यामि ग्रामं नगरसंमितम् 03065004a न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा 03065004c ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् 03065005a इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् 03065005c पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया 03065006a ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः 03065006c विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि 03065006e पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् 03065007a मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् 03065007c पिनद्धां धूमजालेन प्रभामिव विभावसोः 03065008a तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् 03065008c तर्कयामास भैमीति कारणैरुपपादयन् 03065009 सुदेव उवाच 03065009a यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना 03065009c कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् 03065010a पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् 03065010c कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः 03065011a चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव 03065011c इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव 03065012a विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् 03065012c मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् 03065013a पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् 03065013c पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव 03065014a विध्वस्तपर्णकमलां वित्रासितविहंगमाम् 03065014c हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् 03065015a सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् 03065015c दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् 03065016a रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् 03065016c चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् 03065017a कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च 03065017c देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया 03065018a भर्ता नाम परं नार्या भूषणं भूषणैर्विना 03065018c एषा विरहिता तेन शोभनापि न शोभते 03065019a दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः 03065019c धारयत्यात्मनो देहं न शोकेनावसीदति 03065020a इमामसितकेशान्तां शतपत्रायतेक्षणाम् 03065020c सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः 03065021a कदा नु खलु दुःखस्य पारं यास्यति वै शुभा 03065021c भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा 03065022a अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति 03065022c राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् 03065023a तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् 03065023c नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा 03065024a युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया 03065024c समाश्वासयितुं भार्यां पतिदर्शनलालसाम् 03065025a अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् 03065025c अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् 03065026 बृहदश्व उवाच 03065026a एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् 03065026c उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् 03065027a अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा 03065027c भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः 03065028a कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते 03065028c आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते 03065028e त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते 03065029a अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर 03065029c पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् 03065030a रुरोद च भृशं राजन्वैदर्भी शोककर्शिता 03065030c दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् 03065031a ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् 03065031c सुदेवेन सहैकान्ते कथयन्तीं च भारत 03065032a जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् 03065032c ब्राह्मणेन समागम्य तां वेद यदि मन्यसे 03065033a अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा 03065033c जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् 03065034a ततः सुदेवमानाय्य राजमाता विशां पते 03065034c पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी 03065035a कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना 03065035c त्वया च विदिता विप्र कथमेवंगता सती 03065036a एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः 03065036c तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् 03065037a एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः 03065037c सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् 03066001 सुदेव उवाच 03066001a विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः 03066001c सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता 03066002a राजा तु नैषधो नाम वीरसेनसुतो नलः 03066002c भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः 03066003a स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः 03066003c दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् 03066004a ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् 03066004c सेयमासादिता बाला तव पुत्रनिवेशने 03066005a अस्या रूपेण सदृशी मानुषी नेह विद्यते 03066005c अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः 03066005e श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया 03066006a मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः 03066006c चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः 03066007a प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते 03066007c न चास्या नश्यते रूपं वपुर्मलसमाचितम् 03066007e असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् 03066008a अनेन वपुषा बाला पिप्लुनानेन चैव ह 03066008c लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा 03066009 बृहदश्व उवाच 03066009a तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते 03066009c सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् 03066010a स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत 03066010c दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः 03066011a पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत 03066011c रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः 03066011e उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् 03066012a भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता 03066012c अहं च तव माता च राजन्यस्य महात्मनः 03066012e सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने 03066013a भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः 03066013c त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे 03066014a यथैव ते पितुर्गेहं तथेदमपि भामिनि 03066014c यथैव हि ममैश्वर्यं दमयन्ति तथा तव 03066015a तां प्रहृष्टेन मनसा दमयन्ती विशां पते 03066015c अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् 03066016a अज्ञायमानापि सती सुखमस्म्युषितेह वै 03066016c सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया 03066017a सुखात्सुखतरो वासो भविष्यति न संशयः 03066017c चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि 03066018a दारकौ च हि मे नीतौ वसतस्तत्र बालकौ 03066018c पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ 03066019a यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि 03066019c विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश 03066020a बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप 03066020c गुप्तां बलेन महता पुत्रस्यानुमते ततः 03066021a प्रस्थापयद्राजमाता श्रीमता नरवाहिना 03066021c यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् 03066022a ततः सा नचिरादेव विदर्भानगमच्छुभा 03066022c तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् 03066023a सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ 03066023c मातरं पितरं चैव सर्वं चैव सखीजनम् 03066024a देवताः पूजयामास ब्राह्मणांश्च यशस्विनी 03066024c विधिना परेण कल्याणी दमयन्ती विशां पते 03066025a अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः 03066025c प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च 03066026a सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी 03066026c विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् 03067001 दमयन्त्युवाच 03067001a मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते 03067001c नरवीरस्य वै तस्य नलस्यानयने यत 03067002 बृहदश्व उवाच 03067002a दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता 03067002c बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् 03067003a तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा 03067003c हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह 03067004a ततो भीमं महाराज भार्या वचनमब्रवीत् 03067004c दमयन्ती तव सुता भर्तारमनुशोचति 03067005a अपकृष्य च लज्जां मां स्वयमुक्तवती नृप 03067005c प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने 03067006a तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः 03067006c प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने 03067007a ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः 03067007c दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् 03067008a अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः 03067008c ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः 03067009a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03067009c उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय 03067010a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03067010c दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता 03067011a तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव 03067011c प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च 03067012a एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि 03067012c वायुना धूयमानो हि वनं दहति पावकः 03067013a भर्तव्या रक्षणीया च पत्नी हि पतिना सदा 03067013c तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव 03067014a ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा 03067014c संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् 03067015a स कुरुष्व महेष्वास दयां मयि नरर्षभ 03067015c आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् 03067016a एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन 03067016c स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते 03067017a यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः 03067017c तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः 03067018a यथा च वो न जानीयाच्चरतो भीमशासनात् 03067018c पुनरागमनं चैव तथा कार्यमतन्द्रितैः 03067019a यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् 03067019c यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् 03067020a एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् 03067020c नलं मृगयितुं राजंस्तथा व्यसनिनं तदा 03067021a ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् 03067021c अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः 03067022a तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते 03067022c श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् 03068001 बृहदश्व उवाच 03068001a अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः 03068001c प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् 03068002a नैषधं मृगयानेन दमयन्ति दिवानिशम् 03068002c अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः 03068003a श्रावितश्च मया वाक्यं त्वदीयं स महाजने 03068003c ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि 03068004a तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः 03068004c न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् 03068005a अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् 03068005c ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः 03068006a सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः 03068006c शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने 03068007a स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः 03068007c कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत 03068008a वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03068008c आत्मानमात्मना सत्यो जितस्वर्गा न संशयः 03068008e रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन 03068009a विषमस्थेन मूढेन परिभ्रष्टसुखेन च 03068009c यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति 03068010a प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः 03068010c आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति 03068011a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03068011c भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति 03068012a तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः 03068012c श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय 03068013a एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते 03068013c दमयन्ती रहोऽभ्येत्य मातरं प्रत्यभाषत 03068014a अयमर्थो न संवेद्यो भीमे मातः कथंचन 03068014c त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् 03068015a यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् 03068015c तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि 03068016a यथा चाहं समानीता सुदेवेनाशु बान्धवान् 03068016c तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् 03068016e समानेतुं नलं मातरयोध्यां नगरीमितः 03068017a विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् 03068017c अर्चयामास वैदर्भी धनेनातीव भामिनी 03068018a नले चेहागते विप्र भूयो दास्यामि ते वसु 03068018c त्वया हि मे बहु कृतं यथा नान्यः करिष्यति 03068018e यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम 03068019a एवमुक्तोऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः 03068019c गृहानुपययौ चापि कृतार्थः स महामनाः 03068020a ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर 03068020c अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता 03068021a गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् 03068021c ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती 03068021e आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् 03068022a तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः 03068022c यथा च गणितः कालः श्वोभूते स भविष्यति 03068023a यदि संभावनीयं ते गच्छ शीघ्रमरिंदम 03068023c सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति 03068023e न हि स ज्ञायते वीरो नलो जीवन्मृतोऽपि वा 03068024a एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् 03068024c ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा 03069001 बृहदश्व उवाच 03069001a श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः 03069001c सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत 03069002a विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् 03069002c एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक 03069003a एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह 03069003c व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः 03069004a दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता 03069004c अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् 03069005a नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी 03069005c मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना 03069006a स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः 03069006c स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा 03069006e मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा 03069007a न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः 03069007c यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् 03069007e ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् 03069008a इति निश्चित्य मनसा बाहुको दीनमानसः 03069008c कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् 03069009a प्रतिजानामि ते सत्यं गमिष्यसि नराधिप 03069009c एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप 03069010a ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः 03069010c अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया 03069011a स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः 03069011c अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् 03069012a तेजोबलसमायुक्तान्कुलशीलसमन्वितान् 03069012c वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् 03069012e शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः 03069013a दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः 03069013c किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् 03069014a कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम 03069014c महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः 03069015 बाहुक उवाच 03069015a एते हया गमिष्यन्ति विदर्भान्नात्र संशयः 03069015c अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते 03069016 ऋतुपर्ण उवाच 03069016a त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक 03069016c यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय 03069017 बृहदश्व उवाच 03069017a ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् 03069017c योजयामास कुशलो जवयुक्तान्रथे नरः 03069018a ततो युक्तं रथं राजा समारोहत्त्वरान्वितः 03069018c अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः 03069019a ततो नरवरः श्रीमान्नलो राजा विशां पते 03069019c सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् 03069020a रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः 03069020c सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् 03069021a ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः 03069021c समुत्पेतुरिवाकाशं रथिनं मोहयन्निव 03069022a तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः 03069022c अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ 03069023a रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् 03069023c वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् 03069024a किं नु स्यान्मातलिरयं देवराजस्य सारथिः 03069024c तथा हि लक्षणं वीरे बाहुके दृश्यते महत् 03069025a शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् 03069025c मानुषं समनुप्राप्तो वपुः परमशोभनम् 03069026a उताहोस्विद्भवेद्राजा नलः परपुरंजयः 03069026c सोऽयं नृपतिरायात इत्येवं समचिन्तयत् 03069027a अथ वा यां नलो वेद विद्यां तामेव बाहुकः 03069027c तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च 03069028a अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च 03069028c नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति 03069029a प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् 03069029c दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः 03069030a भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति 03069030c प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः 03069031a वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः 03069031c नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः 03069032a एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् 03069032c हृदयेन महाराज पुण्यश्लोकस्य सारथिः 03069033a ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् 03069033c चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः 03069034a बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् 03069034c परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह 03070001 बृहदश्व उवाच 03070001a स नदीः पर्वतांश्चैव वनानि च सरांसि च 03070001c अचिरेणातिचक्राम खेचरः खे चरन्निव 03070002a तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः 03070002c उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः 03070003a ततः स त्वरमाणस्तु पटे निपतिते तदा 03070003c ग्रहीष्यामीति तं राजा नलमाह महामनाः 03070004a निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् 03070004c वार्ष्णेयो यावदेतं मे पटमानयतामिति 03070005a नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव 03070005c योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः 03070006a एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः 03070006c आससाद वने राजन्फलवन्तं बिभीतकम् 03070007a तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत 03070007c ममापि सूत पश्य त्वं संख्याने परमं बलम् 03070008a सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन 03070008c नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् 03070009a वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक 03070009c पतितानि च यान्यत्र तत्रैकमधिकं शतम् 03070009e एकपत्राधिकं पत्रं फलमेकं च बाहुक 03070010a पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः 03070010c प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः 03070010e आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च 03070011a ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् 03070011c परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन 03070012a अथ ते गणिते राजन्विद्यते न परोक्षता 03070012c प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् 03070013a अहं हि नाभिजानामि भवेदेवं न वेति च 03070013c संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप 03070013e मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् 03070014a तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् 03070014c बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः 03070015a प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् 03070015c एष याति शिवः पन्था याहि वार्ष्णेयसारथिः 03070016a अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन 03070016c त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक 03070017a त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद 03070017c शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि 03070018a कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक 03070018c विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे 03070019a अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम् 03070019c ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम 03070020a अकाम इव तं राजा गणयस्वेत्युवाच ह 03070020c सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् 03070021a ततः स विस्मयाविष्टो राजानमिदमब्रवीत् 03070021c गणयित्वा यथोक्तानि तावन्त्येव फलानि च 03070022a अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् 03070022c श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप 03070023a तमुवाच ततो राजा त्वरितो गमने तदा 03070023c विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् 03070024a बाहुकस्तमुवाचाथ देहि विद्यामिमां मम 03070024c मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ 03070025a ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् 03070025c हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः 03070026a यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् 03070026c निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक 03070026e एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै 03070027a तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः 03070027c कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् 03070028a कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः 03070028c स तेन कर्शितो राजा दीर्घकालमनात्मवान् 03070029a ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः 03070029c तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः 03070030a तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः 03070030c कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् 03070031a इन्द्रसेनस्य जननी कुपिता माशपत्पुरा 03070031c यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः 03070032a अवसं त्वयि राजेन्द्र सुदुःखमपराजित 03070032c विषेण नागराजस्य दह्यमानो दिवानिशम् 03070033a ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः 03070033c मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति 03070034a एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः 03070034c ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् 03070034e कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै 03070035a ततो गतज्वरो राजा नैषधः परवीरहा 03070035c संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत 03070036a मुदा परमया युक्तस्तेजसा च परेण ह 03070036c रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः 03070036e बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् 03070037a हयोत्तमानुत्पततो द्विजानिव पुनः पुनः 03070037c नलः संचोदयामास प्रहृष्टेनान्तरात्मना 03070038a विदर्भाभिमुखो राजा प्रययौ स महामनाः 03070038c नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् 03070039a ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते 03070039c विमुक्तः कलिना राजन्रूपमात्रवियोजितः 03071001 बृहदश्व उवाच 03071001a ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् 03071001c ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् 03071002a स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् 03071002c नादयन्रथघोषेण सर्वाः सोपदिशो दश 03071003a ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः 03071003c श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ 03071004a दमयन्ती च शुश्राव रथघोषं नलस्य तम् 03071004c यथा मेघस्य नदतो गम्भीरं जलदागमे 03071005a नलेन संगृहीतेषु पुरेव नलवाजिषु 03071005c सदृशं रथनिर्घोषं मेने भैमी तथा हयाः 03071006a प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः 03071006c हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः 03071007a ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा 03071007c प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह 03071008 दमयन्त्युवाच 03071008a यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् 03071008c मम ह्लादयते चेतो नल एष महीपतिः 03071009a अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि 03071009c असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् 03071010a यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् 03071010c प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् 03071011a यदि मां मेघनिर्घोषो नोपगच्छति नैषधः 03071011c अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् 03071012a यदि मां सिंहविक्रान्तो मत्तवारणवारणः 03071012c नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् 03071013a न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम् 03071013c न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः 03071014a प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः 03071014c रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः 03071015a गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् 03071015c हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् 03071016 बृहदश्व उवाच 03071016a एवं विलपमाना सा नष्टसंज्ञेव भारत 03071016c आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया 03071017a ततो मध्यमकक्षायां ददर्श रथमास्थितम् 03071017c ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् 03071018a ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् 03071018c हयांस्तानवमुच्याथ स्थापयामासतू रथम् 03071019a सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः 03071019c उपतस्थे महाराज भीमं भीमपराक्रमम् 03071020a तं भीमः प्रतिजग्राह पूजया परया ततः 03071020c अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति 03071021a किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत 03071021c नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् 03071022a ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः 03071022c राजानं राजपुत्रं वा न स्म पश्यति कंचन 03071022e नैव स्वयंवरकथां न च विप्रसमागमम् 03071023a ततो विगणयन्राजा मनसा कोसलाधिपः 03071023c आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः 03071024a राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् 03071024c अधिकं योजनशतं तस्यागमनकारणम् 03071025a ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् 03071025c अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् 03071026a नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् 03071026c विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः 03071027a स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः 03071027c राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् 03071028a ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे 03071028c बाहुको रथमास्थाय रथशालामुपागमत् 03071029a स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः 03071029c स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् 03071030a दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् 03071030c सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् 03071031a चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः 03071031c नलस्येव महानासीन्न च पश्यामि नैषधम् 03071032a वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता 03071032c तेनास्य रथनिर्घोषो नलस्येव महानभूत् 03071033a आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा 03071033c ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते 03071034a एवं वितर्कयित्वा तु दमयन्ती विशां पते 03071034c दूतीं प्रस्थापयामास नैषधान्वेषणे नृप 03072001 दमयन्त्युवाच 03072001a गच्छ केशिनि जानीहि क एष रथवाहकः 03072001c उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः 03072002a अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता 03072002c पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते 03072003a अत्र मे महती शङ्का भवेदेष नलो नृपः 03072003c तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः 03072004a ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा 03072004c प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते 03072005 बृहदश्व उवाच 03072005a एवं समाहिता गत्वा दूती बाहुकमब्रवीत् 03072005c दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत 03072006 केशिन्युवाच 03072006a स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् 03072006c दमयन्त्या वचः साधु निबोध पुरुषर्षभ 03072007a कदा वै प्रस्थिता यूयं किमर्थमिह चागताः 03072007c तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति 03072008 बाहुक उवाच 03072008a श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना 03072008c द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि 03072009a श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः 03072009c हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः 03072010 केशिन्युवाच 03072010a अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः 03072010c त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् 03072011 बाहुक उवाच 03072011a पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः 03072011c स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः 03072012a अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः 03072012c ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् 03072013 केशिन्युवाच 03072013a अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः 03072013c कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक 03072014 बाहुक उवाच 03072014a इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः 03072014c गतस्ततो यथाकामं नैष जानाति नैषधम् 03072015a न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि 03072015c गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः 03072016a आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा 03072016c न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् 03072017 केशिन्युवाच 03072017a योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा 03072017c इमानि नारीवाक्यानि कथयानः पुनः पुनः 03072018a क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम 03072018c उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय 03072019a सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी 03072019c दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता 03072020a तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव 03072020c प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च 03072021a तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते 03072021c तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता 03072022a एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल 03072022c यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति 03072023 बृहदश्व उवाच 03072023a एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन 03072023c हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने 03072024a स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः 03072024c बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् 03072025a वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः 03072025c आत्मानमात्मना सत्यो जितस्वर्गा न संशयः 03072026a रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन 03072026c प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः 03072027a प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः 03072027c आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति 03072028a सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् 03072028c भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् 03072029a एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः 03072029c न बाष्पमशकत्सोढुं प्ररुरोद च भारत 03072030a ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् 03072030c तत्सर्वं कथितं चैव विकारं चैव तस्य तम् 03073001 बृहदश्व उवाच 03073001a दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा 03073001c शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् 03073002a गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके 03073002c अब्रुवाणा समीपस्था चरितान्यस्य लक्षय 03073003a यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि 03073003c तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् 03073004a न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि 03073004c याचते न जलं देयं सम्यगत्वरमाणया 03073005a एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय 03073005c यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम 03073006a दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी 03073006c निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् 03073007a सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् 03073007c निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् 03073008 केशिन्युवाच 03073008a दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् 03073008c दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः 03073009a ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् 03073009c तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् 03073009e संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् 03073010a ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः 03073010c प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् 03073011a तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः 03073011c स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा 03073012a ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः 03073012c तृणमुष्टिं समादाय आविध्यैनं समादधत् 03073013a अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः 03073013c तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता 03073014a अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया 03073014c यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे 03073015a छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् 03073015c अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् 03073016a यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः 03073016c मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ 03073017a भूय एव सुगन्धीनि हृषितानि भवन्ति च 03073017c एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता 03073018 बृहदश्व उवाच 03073018a दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् 03073018c अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् 03073019a सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् 03073019c केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् 03073020a पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् 03073020c महानसाच्छृतं मांसं समादायैहि भामिनि 03073021a सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च 03073021c अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी 03073021e दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन 03073022a सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा 03073022c प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता 03073023a वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः 03073023c मिथुनं प्रेषयामास केशिन्या सह भारत 03073024a इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः 03073024c अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् 03073025a बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ 03073025c भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह 03073026a नैषधो दर्शयित्वा तु विकारमसकृत्तदा 03073026c उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् 03073027a इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः 03073027c ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् 03073028a बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः 03073028c वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते 03074001 बृहदश्व उवाच 03074001a सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः 03074001c आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् 03074002a दमयन्ती ततो भूयः प्रेषयामास केशिनीम् 03074002c मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका 03074003a परीक्षितो मे बहुशो बाहुको नलशङ्कया 03074003c रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् 03074004a स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि 03074004c विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् 03074005a एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् 03074005c दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः 03074006a सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ 03074006c नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः 03074007a तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा 03074007c तीव्रशोकसमाविष्टा बभूव वरवर्णिनी 03074008a ततः काषायवसना जटिला मलपङ्किनी 03074008c दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् 03074009a दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक 03074009c सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् 03074010a अनागसं प्रियां भार्यां विजने श्रममोहिताम् 03074010c अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् 03074011a किं नु तस्य मया कार्यमपराद्धं महीपतेः 03074011c यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् 03074012a साक्षाद्देवानपाहाय वृतो यः स मया पुरा 03074012c अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् 03074013a अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् 03074013c भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् 03074014a दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम 03074014c शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु 03074015a अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् 03074015c परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् 03074016a मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् 03074016c कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् 03074017a त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा 03074017c वनस्थया दुःखितया शोचन्त्या मां विवाससम् 03074018a स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः 03074018c त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः 03074019a मम च व्यवसायेन तपसा चैव निर्जितः 03074019c दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे 03074020a विमुच्य मां गतः पापः स ततोऽहमिहागतः 03074020c त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् 03074021a कथं नु नारी भर्तारमनुरक्तमनुव्रतम् 03074021c उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् 03074022a दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् 03074022c भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति 03074023a स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः 03074023c श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः 03074024a दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् 03074024c प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् 03075001 दमयन्त्युवाच 03075001a न मामर्हसि कल्याण पापेन परिशङ्कितुम् 03075001c मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप 03075002a तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः 03075002c वाक्यानि मम गाथाभिर्गायमाना दिशो दश 03075003a ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव 03075003c अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने 03075004a तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते 03075004c उपायोऽयं मया दृष्टो नैषधानयने तव 03075005a त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते 03075005c समर्थो योजनशतं गन्तुमश्वैर्नराधिप 03075006a तथा चेमौ महीपाल भजेऽहं चरणौ तव 03075006c यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् 03075007a अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः 03075007c एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 03075008a तथा चरति तिग्मांशुः परेण भुवनं सदा 03075008c स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 03075009a चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् 03075009c स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् 03075010a एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै 03075010c विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् 03075011a एवमुक्ते ततो वायुरन्तरिक्षादभाषत 03075011c नैषा कृतवती पापं नल सत्यं ब्रवीमि ते 03075012a राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः 03075012c साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् 03075013a उपायो विहितश्चायं त्वदर्थमतुलोऽनया 03075013c न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह 03075014a उपपन्ना त्वया भैमी त्वं च भैम्या महीपते 03075014c नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया 03075015a तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह 03075015c देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः 03075016a तदद्भुततमं दृष्ट्वा नलो राजाथ भारत 03075016c दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः 03075017a ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः 03075017c संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् 03075018a स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा 03075018c प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता 03075019a भैमीमपि नलो राजा भ्राजमानो यथा पुरा 03075019c सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत 03075020a ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना 03075020c परीता तेन दुःखेन निशश्वासायतेक्षणा 03075021a तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता 03075021c सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता 03075022a ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च 03075022c भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप 03075023a ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् 03075023c दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् 03075024a ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् 03075024c वने विचरितं सर्वमूषतुर्मुदितौ नृप 03075025a स चतुर्थे ततो वर्षे संगम्य सह भार्यया 03075025c सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् 03075026a दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् 03075026c अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा 03075027a सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा 03075027c रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन 03076001 बृहदश्व उवाच 03076001a अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः 03076001c वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् 03076002a ततोऽभिवादयामास प्रयतः श्वशुरं नलः 03076002c तस्यानु दमयन्ती च ववन्दे पितरं शुभा 03076003a तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा 03076003c यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः 03076003e नलेन सहितां तत्र दमयन्तीं पतिव्रताम् 03076004a तामर्हणां नलो राजा प्रतिगृह्य यथाविधि 03076004c परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् 03076005a ततो बभूव नगरे सुमहान्हर्षनिस्वनः 03076005c जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् 03076006a अशोभयच्च नगरं पताकाध्वजमालिनम् 03076006c सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा 03076007a द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः 03076007c अर्चितानि च सर्वाणि देवतायतनानि च 03076008a ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् 03076008c दमयन्त्या समायुक्तं जहृषे च नराधिपः 03076009a तमानाय्य नलो राजा क्षमयामास पार्थिवम् 03076009c स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः 03076010a स सत्कृतो महीपालो नैषधं विस्मयान्वितः 03076010c दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत 03076011a कच्चित्तु नापराधं ते कृतवानस्मि नैषध 03076011c अज्ञातवासं वसतो मद्गृहे निषधाधिप 03076012a यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् 03076012c मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि 03076013 नल उवाच 03076013a न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव 03076013c कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव 03076014a पूर्वं ह्यसि सखा मेऽसि संबन्धी च नराधिप 03076014c अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि 03076015a सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि 03076015c न तथा स्वगृहे राजन्यथा तव गृहे सदा 03076016a इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति 03076016c तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव 03076017 बृहदश्व उवाच 03076017a एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः 03076017c स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा 03076018a ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः 03076018c सूतमन्यमुपादाय ययौ स्वपुरमेव हि 03076019a ऋतुपर्णे प्रतिगते नलो राजा विशां पते 03076019c नगरे कुण्डिने कालं नातिदीर्घमिवावसत् 03077001 बृहदश्व उवाच 03077001a स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः 03077001c पुरादल्पपरीवारो जगाम निषधान्प्रति 03077002a रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः 03077002c पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः 03077003a स कम्पयन्निव महीं त्वरमाणो महीपतिः 03077003c प्रविवेशातिसंरब्धस्तरसैव महामनाः 03077004a ततः पुष्करमासाद्य वीरसेनसुतो नलः 03077004c उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् 03077005a दमयन्ती च यच्चान्यन्मया वसु समर्जितम् 03077005c एष वै मम संन्यासस्तव राज्यं तु पुष्कर 03077006a पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः 03077006c एकपाणेन भद्रं ते प्राणयोश्च पणावहे 03077007a जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु 03077007c प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते 03077008a न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् 03077008c द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप 03077009a वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा 03077009c येन तेनाप्युपायेन वृद्धानामिति शासनम् 03077010a द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर 03077010c कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः 03077011a नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव 03077011c ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् 03077012a दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध 03077012c दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् 03077012e दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण 03077013a धनेनानेन वैदर्भी जितेन समलंकृता 03077013c मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः 03077014a नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध 03077014c देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः 03077015a जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् 03077015c कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि 03077016a श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः 03077016c इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः 03077017a स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः 03077017c पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि 03077018a ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च 03077018c एकपाणेन भद्रं ते नलेन स पराजितः 03077018e सरत्नकोशनिचयः प्राणेन पणितोऽपि च 03077019a जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् 03077019c मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् 03077020a वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् 03077020c तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः 03077021a न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा 03077021c कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे 03077021e नाहं परकृतं दोषं त्वय्याधास्ये कथंचन 03077022a यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते 03077022c तथैव च मम प्रीतिस्त्वयि वीर न संशयः 03077023a सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति 03077023c पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः 03077024a एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः 03077024c स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः 03077025a सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् 03077025c पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः 03077026a कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी 03077026c यो मे वितरसि प्राणानधिष्ठानं च पार्थिव 03077027a स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः 03077027c प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः 03077028a महत्या सेनया राजन्विनीतैः परिचारकैः 03077028c भ्राजमान इवादित्यो वपुषा पुरुषर्षभ 03077029a प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् 03077029c प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् 03077029e प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः 03078001 बृहदश्व उवाच 03078001a प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे 03078001c महत्या सेनया राजा दमयन्तीमुपानयत् 03078002a दमयन्तीमपि पिता सत्कृत्य परवीरहा 03078002c प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः 03078003a आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः 03078003c वर्तयामास मुदितो देवराडिव नन्दने 03078004a तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु 03078004c पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः 03078005a ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः 03078005c तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् 03078006a दुःखमेतादृशं प्राप्तो नलः परपुरंजयः 03078006c देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ 03078007a एकाकिनैव सुमहन्नलेन पृथिवीपते 03078007c दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः 03078008a त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव 03078008c रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् 03078009a ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः 03078009c नित्यमन्वास्यसे राजंस्तत्र का परिदेवना 03078010a इतिहासमिमं चापि कलिनाशनमुच्यते 03078010c शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते 03078011a अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा 03078011c तस्याये च व्यये चैव समाश्वसिहि मा शुचः 03078012a ये चेदं कथयिष्यन्ति नलस्य चरितं महत् 03078012c श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति 03078012e अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति 03078013a इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् 03078013c पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् 03078013e अरोगः प्रीतिमांश्चैव भविष्यति न संशयः 03078014a भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः 03078014c अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव 03078015a वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम 03078015c उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते 03078016 वैशंपायन उवाच 03078016a ततो हृष्टमना राजा बृहदश्वमुवाच ह 03078016c भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः 03078017a ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने 03078017c दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः 03078018a बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् 03078018c वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् 03078019a ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः 03078019c तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः 03078020a इति पार्थो महाबाहुर्दुरापं तप आस्थितः 03078020c न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति 03078021a यथा धनंजयः पार्थस्तपस्वी नियतव्रतः 03078021c मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव 03078022a तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने 03078022c अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् 03078023a दह्यमानेन तु हृदा शरणार्थी महावने 03078023c ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः 03079001 जनमेजय उवाच 03079001a भगवन्काम्यकात्पार्थे गते मे प्रपितामहे 03079001c पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् 03079002a स हि तेषां महेष्वासो गतिरासीदनीकजित् 03079002c आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे 03079003a तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना 03079003c विनाभूता वने वीराः कथमासन्पितामहाः 03079004 वैशंपायन उवाच 03079004a गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि 03079004c बभूवुः कौरवेयास्ते दुःखशोकपरायणाः 03079005a आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः 03079005c अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः 03079006a वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा 03079006c कुबेरेण यथा हीनं वनं चैत्ररथं तथा 03079007a तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय 03079007c मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा 03079008a ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः 03079008c निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् 03079009a नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः 03079009c विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् 03079010a एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः 03079010c अहृष्टमनसः सर्वे गते राजन्धनंजये 03079011a अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् 03079011c स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् 03079012a योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना 03079012c तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे 03079012e शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् 03079013a बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् 03079013c न तथा रमणीयं मे तमृते सव्यसाचिनम् 03079014a नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् 03079014c तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे 03079015a यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः 03079015c न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् 03079016a तथा लालप्यमानां तां निशम्य परवीरहा 03079016c भीमसेनो महाराज द्रौपदीमिदमब्रवीत् 03079017a मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे 03079017c तन्मे प्रीणाति हृदयममृतप्राशनोपमम् 03079018a यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ 03079018c मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ 03079019a निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ 03079019c तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् 03079020a यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा 03079020c सुराणामपि यत्तानां पृतनासु न बिभ्यति 03079021a यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः 03079021c मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् 03079022a तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् 03079022c शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् 03079023 नकुल उवाच 03079023a य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् 03079023c गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः 03079024a राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः 03079024c प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ 03079025a तमृते भीमधन्वानं भीमादवरजं वने 03079025c कामये काम्यके वासं नेदानीममरोपमम् 03079026 सहदेव उवाच 03079026a यो धनानि च कन्याश्च युधि जित्वा महारथान् 03079026c आजहार पुरा राज्ञे राजसूये महाक्रतौ 03079027a यः समेतान्मृधे जित्वा यादवानमितद्युतिः 03079027c सुभद्रामाजहारैको वासुदेवस्य संमते 03079028a तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने 03079028c हृदयं मे महाराज न शाम्यति कदाचन 03079029a वनादस्माद्विवासं तु रोचयेऽहमरिंदम 03079029c न हि नस्तमृते वीरं रमणीयमिदं वनम् 03080001 वैशंपायन उवाच 03080001a धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः 03080001c न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः 03080002a अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् 03080002c दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् 03080003a स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः 03080003c विबभावतिदीप्तौजा देवैरिव शतक्रतुः 03080004a यथा च वेदान्सावित्री याज्ञसेनी तथा सती 03080004c न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा 03080005a प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः 03080005c आश्वासयद्धर्मसुतं युक्तरूपमिवानघ 03080006a उवाच च महात्मानं धर्मराजं युधिष्ठिरम् 03080006c ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते 03080007a अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह 03080007c उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् 03080008a त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते 03080008c कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत 03080009a यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ 03080009c संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि 03080010a प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः 03080010c किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि 03080011 नारद उवाच 03080011a शृणु राजन्नवहितो यथा भीष्मेण भारत 03080011c पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् 03080012a पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः 03080012c पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा 03080013a शुभे देशे महाराज पुण्ये देवर्षिसेविते 03080013c गङ्गाद्वारे महातेजा देवगन्धर्वसेविते 03080014a स पितॄंस्तर्पयामास देवांश्च परमद्युतिः 03080014c ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा 03080015a कस्यचित्त्वथ कालस्य जपन्नेव महातपाः 03080015c ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् 03080016a स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया 03080016c प्रहर्षमतुलं लेभे विस्मयं च परं ययौ 03080017a उपस्थितं महाराज पूजयामास भारत 03080017c भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा 03080018a शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः 03080018c नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे 03080019a भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत 03080019c तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः 03080020a एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः 03080020c वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर 03080021a तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् 03080021c भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् 03080022 पुलस्त्य उवाच 03080022a अनेन तव धर्मज्ञ प्रश्रयेण दमेन च 03080022c सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः 03080023a यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ 03080023c तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि 03080024a अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते 03080024c यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ 03080025 भीष्म उवाच 03080025a प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते 03080025c कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् 03080026a यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर 03080026c वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि 03080027a अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः 03080027c तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया 03080028a प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम 03080028c किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन 03080029 पुलस्त्य उवाच 03080029a हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् 03080029c तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् 03080030a यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् 03080030c विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते 03080031a प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः 03080031c अहंकारनिवृत्तश्च स तीर्थफलमश्नुते 03080032a अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः 03080032c विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते 03080033a अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः 03080033c आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते 03080034a ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् 03080034c फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः 03080035a न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते 03080035c बहूपकरणा यज्ञा नानासंभारविस्तराः 03080036a प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् 03080036c नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः 03080037a यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर 03080037c तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर 03080038a ऋषीणां परमं गुह्यमिदं भरतसत्तम 03080038c तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते 03080039a अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च 03080039c अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते 03080040a अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः 03080040c न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् 03080041a नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् 03080041c पुष्करं नाम विख्यातं महाभागः समाविशेत् 03080042a दश कोटिसहस्राणि तीर्थानां वै महीपते 03080042c सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन 03080043a आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः 03080043c गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो 03080044a यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा 03080044c दिव्ययोगा महाराज पुण्येन महतान्विताः 03080045a मनसाप्यभिकामस्य पुष्कराणि मनस्विनः 03080045c पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते 03080046a तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः 03080046c उवास परमप्रीतो देवदानवसंमतः 03080047a पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः 03080047c सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः 03080048a तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः 03080048c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03080049a अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः 03080049c तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते 03080050a शाकमूलफलैर्वापि येन वर्तयते स्वयम् 03080050c तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः 03080050e तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः 03080051a ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम 03080051c न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः 03080052a कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् 03080052c फलं तत्राक्षयं तस्य वर्धते भरतर्षभ 03080053a सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः 03080053c उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत 03080053e प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् 03080054a जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा 03080054c पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति 03080055a यथा सुराणां सर्वेषामादिस्तु मधुसूदनः 03080055c तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते 03080056a उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः 03080056c क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति 03080057a यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते 03080057c कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् 03080058a दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः 03080058c दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् 03080059a उष्य द्वादशरात्रं तु नियतो नियताशनः 03080059c प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् 03080060a जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् 03080060c अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 03080061a तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः 03080061c न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् 03080062a जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् 03080062c न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते 03080063a अगस्त्यसर आसाद्य पितृदेवार्चने रतः 03080063c त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् 03080064a शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् 03080064c कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् 03080065a धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ 03080065c यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते 03080066a अर्चयित्वा पितॄन्देवान्नियतो नियताशनः 03080066c सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते 03080067a प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् 03080067c हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै 03080068a महाकालं ततो गच्छेन्नियतो नियताशनः 03080068c कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् 03080069a ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः 03080069c नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् 03080070a तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् 03080070c महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् 03080071a नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् 03080071c तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् 03080072a दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः 03080072c अग्निष्टोममवाप्नोति विमानं चाधिरोहति 03080073a चर्मण्वतीं समासाद्य नियतो नियताशनः 03080073c रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् 03080074a ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् 03080074c पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर 03080075a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03080075c तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 03080076a पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः 03080076c कपिलानां नरव्याघ्र शतस्य फलमश्नुते 03080077a ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् 03080077c यत्र संनिहितो नित्यं स्वयमेव हुताशनः 03080077e देवतानां मुखं वीर अनलोऽनिलसारथिः 03080078a तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः 03080078c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03080079a ततो गत्वा सरस्वत्याः सागरस्य च संगमे 03080079c गोसहस्रफलं प्राप्य स्वर्गलोके महीयते 03080079e दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ 03080080a त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः 03080080c प्रभासते यथा सोमो अश्वमेधं च विन्दति 03080081a वरदानं ततो गच्छेत्तीर्थं भरतसत्तम 03080081c विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर 03080082a वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् 03080082c ततो द्वारवतीं गच्छेन्नियतो नियताशनः 03080082e पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् 03080083a तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः 03080083c अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम 03080084a त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन 03080084c महादेवस्य सांनिध्यं तत्रैव भरतर्षभ 03080085a सागरस्य च सिन्धोश्च संगमं प्राप्य भारत 03080085c तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः 03080086a तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ 03080086c प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा 03080087a शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर 03080087c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03080088a प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ 03080088c तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् 03080088e दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् 03080089a यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् 03080089c तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् 03080089e जन्मप्रभृति पापानि कृतानि नुदते नरः 03080090a दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता 03080090c तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् 03080091a जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना 03080091c पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् 03080092a ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् 03080092c गमनादेव तस्यां हि हयमेधमवाप्नुयात् 03080093a स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः 03080093c तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते 03080094a तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ 03080094c तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् 03080095a सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् 03080095c तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् 03080096a ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः 03080096c ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः 03080097a कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् 03080097c तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् 03080098a रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् 03080098c तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा 03080099a अथ पञ्चनदं गत्वा नियतो नियताशनः 03080099c पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः 03080100a ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् 03080100c तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम 03080101a देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः 03080101c गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् 03080102a गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् 03080102c पितामहं नमस्कृत्य गोसहस्रफलं लभेत् 03080103a ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् 03080103c अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः 03080104a तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् 03080104c सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् 03080105a ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् 03080105c पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि 03080106a चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् 03080106c पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः 03080107a गवां शतसहस्रेण राजसूयशतेन च 03080107c अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः 03080108a ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् 03080108c अभिगम्य महादेवमश्वमेधफलं लभेत् 03080109a मणिमन्तं समासाद्य ब्रह्मचारी समाहितः 03080109c एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् 03080110a अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् 03080110c प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ 03080111a त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् 03080111c देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् 03080112a यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ 03080112c सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् 03080113a कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् 03080113c तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत 03080114a यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् 03080114c पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः 03080115a अर्धयोजनविस्तारां पञ्चयोजनमायताम् 03080115c एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् 03080116a ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् 03080116c यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः 03080116e दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः 03080117a गमनादेव राजेन्द्र दीर्घसत्रमरिंदम 03080117c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03080118a ततो विनशनं गच्छेन्नियतो नियताशनः 03080118c गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती 03080118e चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते 03080119a स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् 03080119c शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् 03080120a नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् 03080120c शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् 03080120e शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत 03080121a सरस्वत्यां महाराज अनु संवत्सरं हि ते 03080121c स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा 03080122a तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा 03080122c गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ 03080123a कुमारकोटिमासाद्य नियतः कुरुनन्दन 03080123c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03080123e गवामयमवाप्नोति कुलं चैव समुद्धरेत् 03080124a ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः 03080124c पुरा यत्र महाराज ऋषिकोटिः समाहिता 03080124e प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया 03080125a अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् 03080125c एवं संप्रस्थिता राजन्नृषयः किल भारत 03080126a ततो योगेश्वरेणापि योगमास्थाय भूपते 03080126c तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् 03080127a सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता 03080127c मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् 03080128a तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् 03080128c भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् 03080128e अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति 03080129a तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः 03080129c अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 03080130a ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् 03080130c सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् 03080131a यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03080131c अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् 03080132a तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् 03080132c सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति 03080133a ऋषीणां यत्र सत्राणि समाप्तानि नराधिप 03080133c सत्रावसानमासाद्य गोसहस्रफलं लभेत् 03081001 पुलस्त्य उवाच 03081001a ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् 03081001c पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 03081002a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 03081002c य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते 03081003a तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर 03081003c यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः 03081004a गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते 03081004c ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत 03081005a मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर 03081005c पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति 03081006a गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह 03081006c राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03081007a ततो मचक्रुकं राजन्द्वारपालं महाबलम् 03081007c यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् 03081008a ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् 03081008c सततं नाम राजेन्द्र यत्र संनिहितो हरिः 03081009a तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् 03081009c अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 03081010a ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् 03081010c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः 03081011a पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् 03081011c ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप 03081011e दशाश्वमेधिके स्नात्वा तदेव लभते फलम् 03081012a सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् 03081012c अग्निष्टोममवाप्नोति नागलोकं च विन्दति 03081013a ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् 03081013c तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 03081014a ततः पञ्चनदं गत्वा नियतो नियताशनः 03081014c कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् 03081014e अश्विनोस्तीर्थमासाद्य रूपवानभिजायते 03081015a ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् 03081015c विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् 03081015e तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् 03081016a ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् 03081016c स्नात्वा फलमवाप्नोति राजसूयस्य मानवः 03081017a एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् 03081017c कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह 03081017e पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः 03081018a ततो मुञ्जवटं नाम महादेवस्य धीमतः 03081018c तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् 03081019a तत्रैव च महाराज यक्षी लोकपरिश्रुता 03081019c तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् 03081020a कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ 03081020c प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः 03081021a संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः 03081021c जामदग्न्येन रामेण आहृते वै महात्मना 03081021e कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति 03081022a ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप 03081022c यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा 03081022e क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः 03081023a पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् 03081023c पितरस्तर्पिताः सर्वे तथैव च पितामहाः 03081023e ततस्ते पितरः प्रीता राममूचुर्महीपते 03081024a राम राम महाभाग प्रीताः स्म तव भार्गव 03081024c अनया पितृभक्त्या च विक्रमेण च ते विभो 03081024e वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते 03081025a एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः 03081025c अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् 03081026a भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि 03081026c पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः 03081027a यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया 03081027c ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् 03081027e ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः 03081028a एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा 03081028c प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः 03081029a तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः 03081029c यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया 03081030a ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः 03081030c ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः 03081031a ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति 03081031c पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् 03081031e ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् 03081032a एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा 03081032c आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा 03081033a एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः 03081033c स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः 03081033e राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् 03081034a वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह 03081034c स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके 03081035a कायशोधनमासाद्य तीर्थं भरतसत्तम 03081035c शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः 03081035e शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् 03081036a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03081036c लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना 03081037a लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् 03081037c स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् 03081037e श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् 03081038a कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः 03081038c तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा 03081038e कपिलानां सहस्रस्य फलं विन्दति मानवः 03081039a सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः 03081039c अर्चयित्वा पितॄन्देवानुपवासपरायणः 03081039e अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति 03081040a गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् 03081040c तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् 03081041a शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह 03081041c देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् 03081042a ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् 03081042c तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः 03081042e तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् 03081043a ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप 03081043c ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् 03081044a ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् 03081044c यत्र संनिहिता नित्यं पितरो दैवतैः सह 03081045a तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081045c अश्वमेधमवाप्नोति पितृलोकं च गच्छति 03081046a ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् 03081046c कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम 03081046e सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते 03081047a मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत 03081047c प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् 03081048a ततः शीतवनं गच्छेन्नियतो नियताशनः 03081048c तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् 03081049a पुनाति दर्शनादेव दण्डेनैकं नराधिप 03081049c केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत 03081050a तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् 03081050c यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः 03081051a श्वानलोमापनयने तीर्थे भरतसत्तम 03081051c प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः 03081052a पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् 03081052c दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते 03081052e तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् 03081053a ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् 03081053c यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः 03081053e अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः 03081054a तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03081054c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03081055a मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते 03081055c आपगा नाम विख्याता नदी सिद्धनिषेविता 03081056a श्यामाकभोजनं तत्र यः प्रयच्छति मानवः 03081056c देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् 03081056e एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता 03081057a तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा 03081057c उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् 03081058a ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् 03081058c ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत 03081059a तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव 03081059c केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः 03081060a ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः 03081060c सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते 03081061a कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् 03081061c अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः 03081062a ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् 03081062c कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् 03081062e लभते सर्वकामान्हि स्वर्गलोकं च गच्छति 03081063a तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन 03081063c रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते 03081063e इलास्पदं च तत्रैव तीर्थं भरतसत्तम 03081064a तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत 03081064c न दुर्गतिमवाप्नोति वाजपेयं च विन्दति 03081065a किंदाने च नरः स्नात्वा किंजप्ये च महीपते 03081065c अप्रमेयमवाप्नोति दानं जप्यं च भारत 03081066a कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः 03081066c अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03081067a सरकस्य तु पूर्वेण नारदस्य महात्मनः 03081067c तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् 03081068a तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत 03081068c नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् 03081069a शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् 03081069c तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् 03081070a ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् 03081070c तत्र वैतरणी पुण्या नदी पापप्रमोचनी 03081071a तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् 03081071c सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् 03081072a ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् 03081072c यत्र देवाः सदा राजन्फलकीवनमाश्रिताः 03081072e तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् 03081073a दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः 03081073c अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत 03081074a तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम 03081074c गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः 03081075a पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः 03081075c राजसूयमवाप्नोति ऋषिलोकं च गच्छति 03081076a ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् 03081076c तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 03081077a व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् 03081077c सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः 03081078a ततो व्यासवनं गच्छेन्नियतो नियताशनः 03081078c मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् 03081079a गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः 03081079c तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः 03081079e स देव्या समनुज्ञातो गोसहस्रफलं लभेत् 03081080a कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत 03081080c स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते 03081081a ततो व्यासस्थली नाम यत्र व्यासेन धीमता 03081081c पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः 03081082a कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा 03081082c अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् 03081083a किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च 03081083c गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह 03081084a अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे 03081084c तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् 03081085a मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् 03081085c तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः 03081085e शूलपाणिं महादेवमश्वमेधफलं लभेत् 03081086a देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03081086c अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् 03081087a तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् 03081087c सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् 03081088a कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः 03081088c पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् 03081088e तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते 03081089a अमराणां ह्रदे स्नात्वा अमरेषु नराधिप 03081089c अमराणां प्रभावेन स्वर्गलोके महीयते 03081090a शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि 03081090c स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् 03081091a श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम 03081091c तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् 03081092a ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह 03081092c ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः 03081092e तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 03081093a ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम 03081093c ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् 03081094a तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् 03081094c कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् 03081095a ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् 03081095c तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः 03081095e ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् 03081096a ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् 03081096c तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् 03081097a सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप 03081097c यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः 03081098a पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् 03081098c क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् 03081099a स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः 03081099c प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः 03081100a ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् 03081100c प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् 03081101a ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः 03081101c विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप 03081101e नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि 03081102a ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा 03081102c सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत 03081103a अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् 03081103c हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव 03081104 ऋषिरुवाच 03081104a किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् 03081104c यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः 03081105 पुलस्त्य उवाच 03081105a तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् 03081105c अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् 03081106a एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता 03081106c अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ 03081107a ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् 03081107c तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः 03081108a नान्यं देवमहं मन्ये रुद्रात्परतरं महत् 03081108c सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् 03081109a त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् 03081109c त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये 03081110a देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया 03081110c त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ 03081111a सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह 03081111c त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः 03081111e एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् 03081112 ऋषिरुवाच 03081112a त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै 03081113 पुलस्त्य उवाच 03081113a ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् 03081113c तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा 03081114a आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने 03081114c सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् 03081115a न तेषां दुर्लभं किंचिदिह लोके परत्र च 03081115c सारस्वतं च ते लोकं गमिष्यन्ति न संशयः 03081116a ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् 03081116c यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 03081117a कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत 03081117c सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया 03081118a कपालमोचनं तीर्थं सर्वपापप्रमोचनम् 03081118c तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते 03081119a अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ 03081119c अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् 03081120a विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम 03081120c तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते 03081121a ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः 03081121c तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते 03081121e पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः 03081122a ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् 03081122c पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप 03081122e तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081123a अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा 03081123c यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना 03081124a तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत 03081124c अश्वमेधफलं चापि स्वर्गलोकं च गच्छति 03081125a पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् 03081125c सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् 03081126a उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् 03081126c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् 03081127a गीतं सनत्कुमारेण व्यासेन च महात्मना 03081127c वेदे च नियतं राजनभिगच्छेत्पृथूदकम् 03081128a पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम 03081128c एतन्मेध्यं पवित्रं च पावनं च न संशयः 03081129a तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः 03081129c पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः 03081130a मधुस्रवं च तत्रैव तीर्थं भरतसत्तम 03081130c तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 03081131a ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् 03081131c सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् 03081132a त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया 03081132c अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः 03081133a आसप्तमं कुलं चैव पुनाति भरतर्षभ 03081133c अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह 03081133e विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा 03081134a व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः 03081134c क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः 03081135a क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ 03081135c चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने 03081136a समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा 03081136c येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् 03081136e फलानि गोसहस्राणां चतुर्णां विन्दते च सः 03081137a ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् 03081137c साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते 03081138a उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् 03081138c दानं वाप्युपवासो वा सहस्रगुणितं भवेत् 03081139a ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् 03081139c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03081139e सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् 03081140a विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः 03081140c प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते 03081141a ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः 03081141c पुण्येन महता युक्तः सतां लोके महीयते 03081142a यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः 03081142c तमर्चयित्वा देवेशं गमनादेव सिध्यति 03081143a औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा 03081143c यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः 03081143e सेनापत्येन देवानामभिषिक्तो गुहस्तदा 03081144a औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह 03081144c कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः 03081144e सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते 03081145a स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः 03081145c स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति 03081146a ततो गच्छेदनरकं तीर्थसेवी नराधिप 03081146c तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् 03081147a तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते 03081147c अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः 03081148a सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह 03081148c अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् 03081149a तत्रैव च महाराज विश्वेश्वरमुमापतिम् 03081149c अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 03081150a नारायणं चाभिगम्य पद्मनाभमरिंदमम् 03081150c शोभमानो महाराज विष्णुलोकं प्रपद्यते 03081151a तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ 03081151c सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा 03081152a ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप 03081152c पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः 03081152e अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः 03081153a गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ 03081153c तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते 03081153e तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते 03081154a आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् 03081154c गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् 03081155a ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् 03081155c तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् 03081156a बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः 03081156c बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः 03081157a सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः 03081157c त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप 03081158a इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप 03081158c अहोरात्रोपवासेन शक्रलोके महीयते 03081159a एकरात्रं समासाद्य एकरात्रोषितो नरः 03081159c नियतः सत्यवादी च ब्रह्मलोके महीयते 03081160a ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् 03081160c आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः 03081161a तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् 03081161c आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् 03081162a सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह 03081162c सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः 03081163a ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः 03081163c तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् 03081164a यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः 03081164c तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् 03081164e सारस्वतीं गतिं चैव लभते नात्र संशयः 03081165a ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् 03081165c त्रिरात्रोपोषितो राजन्नुपवासपरायणः 03081165e लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति 03081166a ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि 03081166c यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 03081166e मासि मासि समायान्ति पुण्येन महतान्विताः 03081167a संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे 03081167c अश्वमेधशतं तेन इष्टं भवति शाश्वतम् 03081168a पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च 03081168c नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च 03081169a उदपानाश्च वप्राश्च पुण्यान्यायतनानि च 03081169c मासि मासि समायान्ति संनिहित्यां न संशयः 03081170a यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा 03081170c स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः 03081170e पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति 03081171a अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् 03081171c कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् 03081172a गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम 03081172c तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः 03081172e राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् 03081173a पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् 03081173c त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते 03081174a पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः 03081174c अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् 03081175a दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् 03081175c ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे 03081176a कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् 03081176c अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते 03081177a ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् 03081177c तदावसन्ति ये राजन्न ते शोच्याः कथंचन 03081178a तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य 03081178c एतत्कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिरुच्यते 03082001 पुलस्त्य उवाच 03082001a ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् 03082001c तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः 03082001e आसप्तमं कुलं राजन्पुनीते नात्र संशयः 03082002a ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् 03082002c अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति 03082003a सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः 03082003c यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 03082004a सिद्धचारणगन्धर्वाः किंनराः समहोरगाः 03082004c तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते 03082005a ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी 03082005c प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती 03082006a तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले 03082006c अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् 03082007a ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् 03082007c षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः 03082008a कपिलानां सहस्रं च वाजिमेधं च विन्दति 03082008c तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने 03082009a सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत 03082009c अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते 03082010a त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत 03082010c तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 03082010e गाणपत्यं स लभते देहं त्यक्त्वा न संशयः 03082011a ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् 03082011c शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता 03082012a दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत 03082012c आहारं सा कृतवती मासि मासि नराधिप 03082013a ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः 03082013c आतिथ्यं च कृतं तेषां शाकेन किल भारत 03082013e ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् 03082014a शाकंभरीं समासाद्य ब्रह्मचारी समाहितः 03082014c त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः 03082015a शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् 03082015c तत्फलं तस्य भवति देव्याश्छन्देन भारत 03082016a ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् 03082016c यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा 03082017a वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् 03082017c उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत 03082018a अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि 03082018c त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः 03082019a तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् 03082019c अश्वमेधमवाप्नोति गाणपत्यं च विन्दति 03082020a धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः 03082020c मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः 03082021a देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप 03082021c तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः 03082021e महादेवप्रसादाद्धि गच्छेत परमां गतिम् 03082022a प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ 03082022c धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् 03082022e तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप 03082023a ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् 03082023c स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः 03082024a तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः 03082024c पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् 03082025a सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् 03082025c देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते 03082026a ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः 03082026c अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 03082027a कपिलावटं च गच्छेत तीर्थसेवी नराधिप 03082027c उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् 03082028a नागराजस्य राजेन्द्र कपिलस्य महात्मनाः 03082028c तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् 03082029a तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप 03082029c कपिलानां सहस्रस्य फलं प्राप्नोति मानवः 03082030a ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम् 03082030c तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् 03082031a गङ्गासंगमयोश्चैव स्नाति यः संगमे नरः 03082031c दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् 03082032a ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् 03082032c सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते 03082033a रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप 03082033c तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते 03082034a गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे 03082034c स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति 03082035a भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि 03082035c न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति 03082036a ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् 03082036c गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति 03082037a अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप 03082037c सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः 03082037e गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् 03082038a ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः 03082038c अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 03082039a यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने 03082039c अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते 03082040a दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् 03082040c अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 03082041a सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् 03082041c तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् 03082042a अथ वेदीं समासाद्य नरः परमदुर्गमाम् 03082042c अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् 03082043a ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत 03082043c वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः 03082044a ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते 03082044c यदि तत्र वसेन्मासं शाकाहारो नराधिप 03082045a भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् 03082045c गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते 03082046a कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत 03082046c अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् 03082047a ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् 03082047c उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् 03082048a महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने 03082048c एककालं निराहारो लोकानावसते शुभान् 03082049a षष्ठकालोपवासेन मासमुष्य महालये 03082049c सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् 03082050a अथ वेतसिकां गत्वा पितामहनिषेविताम् 03082050c अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् 03082051a अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् 03082051c रूपस्य भागी भवति दृष्टमेतत्पुरातने 03082052a ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः 03082052c पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते 03082053a ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् 03082053c तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः 03082054a नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति 03082054c प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते 03082055a तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः 03082055c पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत 03082056a अभिषेककृतस्तत्र नियतो नियताशनः 03082056c गवामयस्य यज्ञस्य फलं प्राप्नोति भारत 03082056e पुनात्यासप्तमं चैव कुलं भरतसत्तम 03082057a यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः 03082057c स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः 03082057e नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम 03082058a गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः 03082058c वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते 03082059a सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः 03082059c सारस्वतेषु लोकेषु मोदते नात्र संशयः 03082060a ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः 03082060c देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः 03082061a ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् 03082061c पितृदेवार्चनरतो वाजपेयमवाप्नुयात् 03082062a विमलाशोकमासाद्य विराजति यथा शशी 03082062c तत्रोष्य रजनीमेकां स्वर्गलोके महीयते 03082063a गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् 03082063c यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः 03082064a देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा 03082064c रामस्य च प्रसादेन व्यवसायाच्च भारत 03082065a तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप 03082065c सर्वपापविशुद्धात्मा स्वर्गलोके महीयते 03082066a रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन 03082066c अश्वमेधमवाप्नोति पुनाति च कुलं नरः 03082067a शतसाहस्रिकं तत्र तीर्थं भरतसत्तम 03082067c तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः 03082067e गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ 03082068a ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् 03082068c कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप 03082068e गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः 03082069a ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् 03082069c कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् 03082070a मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् 03082070c गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते 03082070e अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् 03082071a ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः 03082071c अश्वमेधमवाप्नोति गमनादेव भारत 03082072a तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः 03082072c पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो 03082073a महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः 03082073c अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् 03082074a ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् 03082074c पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् 03082075a तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः 03082075c यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् 03082076a ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् 03082076c एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् 03082076e सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् 03082077a तत्र चिह्नं महाराज अद्यापि हि न संशयः 03082077c कपिला सह वत्सेन पर्वते विचरत्युत 03082077e सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत 03082078a तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम 03082078c यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत 03082079a ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः 03082079c स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् 03082080a ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् 03082080c इतरेषां तु वर्णानां सर्वपापं प्रणश्यति 03082081a गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् 03082081c सावित्रं तु पदं तत्र दृश्यते भरतर्षभ 03082082a तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः 03082082c उपास्ता च भवेत्संध्या तेन द्वादशवार्षिकी 03082083a योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ 03082083c तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् 03082084a कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः 03082084c पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः 03082085a एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 03082085c यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् 03082086a ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप 03082086c अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् 03082087a ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः 03082087c यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर 03082087e अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् 03082088a ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् 03082088c तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् 03082088e राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः 03082089a ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप 03082089c उपस्पृश्य तपोदेषु काक्षीवानिव मोदते 03082090a यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः 03082090c यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया 03082091a मणिनागं ततो गत्वा गोसहस्रफलं लभेत् 03082091c नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः 03082092a दष्टस्याशीविषेणापि न तस्य क्रमते विषम् 03082092c तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते 03082093a ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप 03082093c अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् 03082093e अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् 03082094a तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः 03082094c तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् 03082095a जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः 03082095c तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् 03082096a ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् 03082096c वाजपेयमवाप्नोति सोमलोकं च गच्छति 03082097a गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् 03082097c वाजपेयमवाप्नोति सूर्यलोकं च गच्छति 03082098a ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् 03082098c गुह्यकेषु महाराज मोदते नात्र संशयः 03082099a कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् 03082099c पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति 03082100a ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् 03082100c अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति 03082101a अथ माहेश्वरीं धारां समासाद्य नराधिप 03082101c अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 03082102a दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः 03082102c न दुर्गतिमवाप्नोति वाजपेयं च विन्दति 03082103a महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः 03082103c महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् 03082104a तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ 03082104c कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना 03082104e ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना 03082105a तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर 03082105c पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति 03082106a ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु 03082106c सदा संनिहितो यत्र हरिर्वसति भारत 03082106e शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः 03082107a अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् 03082107c अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 03082108a तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः 03082108c समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा 03082108e तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् 03082109a अभिगम्य महादेवं वरदं विष्णुमव्ययम् 03082109c विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर 03082110a जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः 03082110c जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः 03082111a वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् 03082111c ईप्सिताँल्लभते कामानुपवासान्न संशयः 03082112a ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् 03082112c अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् 03082113a भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् 03082113c कौशिकीं तत्र सेवेत महापातकनाशिनीम् 03082113e राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः 03082114a ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् 03082114c तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् 03082115a अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् 03082115c उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् 03082116a तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् 03082116c मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ 03082117a कन्यासंवेद्यमासाद्य नियतो नियताशनः 03082117c मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ 03082118a कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत 03082118c तदक्षयमिति प्राहुरृषयः संशितव्रताः 03082119a निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् 03082119c अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति 03082120a ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः 03082120c ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः 03082121a तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः 03082121c तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् 03082122a देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् 03082122c अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् 03082123a ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् 03082123c यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः 03082124a तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ 03082124c अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति 03082125a सर्वतीर्थवरे चैव यो वसेत महाह्रदे 03082125c न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् 03082126a कुमारमभिगत्वा च वीराश्रमनिवासिनम् 03082126c अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः 03082127a अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् 03082127c अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते 03082128a पितामहसरो गत्वा शैलराजप्रतिष्ठितम् 03082128c तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् 03082129a पितामहस्य सरसः प्रस्रुता लोकपावनी 03082129c कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता 03082130a यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति 03082130c षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया 03082131a शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् 03082131c समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् 03082132a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03082132c हयमेधमवाप्नोति शक्रलोकं च गच्छति 03082133a ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः 03082133c अश्वमेधमवाप्नोति शक्रलोकं च गच्छति 03082134a नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् 03082134c नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह 03082135a कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः 03082135c त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते 03082136a उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः 03082136c कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः 03082137a स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः 03082137c जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने 03082138a सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः 03082138c सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति 03082139a ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् 03082139c सरस्वत्यामुपस्पृश्य विमानस्थो विराजते 03082140a औद्दालकं महाराज तीर्थं मुनिनिषेवितम् 03082140c तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते 03082141a धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् 03082141c वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः 03082142a तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः 03082142c दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् 03082143a लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् 03082143c वाजपेयमवाप्नोति विमानस्थश्च पूज्यते 03083001 पुलस्त्य उवाच 03083001a अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् 03083001c उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः 03083002a रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा 03083002c तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् 03083003a करतोयां समासाद्य त्रिरात्रोपोषितो नरः 03083003c अश्वमेधमवाप्नोति कृते पैतामहे विधौ 03083004a गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे 03083004c अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः 03083005a गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत 03083005c त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् 03083006a ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् 03083006c विरजं तीर्थमासाद्य विराजति यथा शशी 03083007a प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति 03083007c गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 03083008a शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः 03083008c तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् 03083009a शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन 03083009c वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् 03083010a ऋषभं तीर्थमासाद्य कोशलायां नराधिप 03083010c वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः 03083011a कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् 03083011c वृषभैकादशफलं लभते नात्र संशयः 03083012a पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः 03083012c गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् 03083013a ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः 03083013c दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति 03083014a ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् 03083014c रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् 03083015a मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन 03083015c तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 03083016a श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् 03083016c अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति 03083017a श्रीपर्वते महादेवो देव्या सह महाद्युतिः 03083017c न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः 03083018a तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः 03083018c अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति 03083019a ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् 03083019c वाजपेयमवाप्नोति नाकपृष्ठे च मोदते 03083020a ततो गच्छेत कावेरीं वृतामप्सरसां गणैः 03083020c तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् 03083021a ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् 03083021c तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते 03083022a अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् 03083022c समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् 03083023a यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः 03083023c भूतयक्षपिशाचाश्च किंनराः समहोरगाः 03083024a सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा 03083024c सरितः सागराः शैला उपासन्त उमापतिम् 03083025a तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः 03083025c दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति 03083025e उष्य द्वादशरात्रं तु कृतात्मा भवते नरः 03083026a तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् 03083026c त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् 03083027a निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप 03083027c गायत्रीं पठते यस्तु योनिसंकरजस्तथा 03083027e गाथा वा गीतिका वापि तस्य संपद्यते नृप 03083028a संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् 03083028c रूपस्य भागी भवति सुभगश्चैव जायते 03083029a ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः 03083029c मयूरहंससंयुक्तं विमानं लभते नरः 03083030a ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् 03083030c गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् 03083031a वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् 03083031c वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् 03083032a ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः 03083032c गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति 03083033a कुशप्लवनमासाद्य ब्रह्मचारी समाहितः 03083033c त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् 03083034a ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे 03083034c जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप 03083035a यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः 03083035c अग्निष्टोमशतं विन्देद्गमनादेव भारत 03083036a सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03083036c जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः 03083037a ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् 03083037c पितृदेवार्चनरतो गोसहस्रफलं लभेत् 03083038a दण्डकारण्यमासाद्य महाराज उपस्पृशेत् 03083038c गोसहस्रफलं तत्र स्नातमात्रस्य भारत 03083039a शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः 03083039c न दुर्गतिमवाप्नोति पुनाति च कुलं नरः 03083040a ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् 03083040c रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् 03083041a सप्तगोदावरे स्नात्वा नियतो नियताशनः 03083041c महत्पुण्यमवाप्नोति देवलोकं च गच्छति 03083042a ततो देवपथं गच्छेन्नियतो नियताशनः 03083042c देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः 03083043a तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः 03083043c वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा 03083044a तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः 03083044c उपविष्टो महर्षीणामुत्तरीयेषु भारत 03083045a ओंकारेण यथान्यायं सम्यगुच्चारितेन च 03083045c येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् 03083046a ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः 03083046c हरिर्नारायणो देवो महादेवस्तथैव च 03083047a पितामहश्च भगवान्देवैः सह महाद्युतिः 03083047c भृगुं नियोजयामास याजनार्थे महाद्युतिम् 03083048a ततः स चक्रे भगवानृषीणां विधिवत्तदा 03083048c सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा 03083049a आज्यभागेन वै तत्र तर्पितास्तु यथाविधि 03083049c देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् 03083050a तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम 03083050c पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा 03083051a तत्र मासं वसेद्धीरो नियतो नियताशनः 03083051c ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः 03083052a मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् 03083052c अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति 03083053a ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् 03083053c तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् 03083054a आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप 03083054c स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः 03083055a ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते 03083055c मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् 03083056a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः 03083056c अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् 03083057a ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् 03083057c यत्र देवो महासेनो नित्यं संनिहितो नृपः 03083058a पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति 03083058c कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् 03083059a प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः 03083059c अभिगम्य महादेवं विराजति यथा शशी 03083060a तत्र कूपो महाराज विश्रुतो भरतर्षभ 03083060c समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर 03083061a तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् 03083061c नियतात्मा नरः पूतो गच्छेत परमां गतिम् 03083062a ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् 03083062c यत्र तीर्णो महाराज रामो दाशरथिः पुरा 03083063a गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः 03083063c विधूतपाप्मा भवति वाजपेयं च विन्दति 03083064a अभिगम्य महादेवमभ्यर्च्य च नराधिप 03083064c प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् 03083065a ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् 03083065c यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः 03083066a लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा 03083066c सनत्कुमारप्रमुखास्तथैव परमर्षयः 03083067a अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे 03083067c तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा 03083068a सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा 03083068c हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः 03083069a तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी 03083069c प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता 03083070a तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता 03083070c यमुना गङ्गया सार्धं संगता लोकपावनी 03083071a गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् 03083071c प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः 03083072a प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा 03083072c तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः 03083073a तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर 03083073c प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः 03083073e यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप 03083074a ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत 03083074c प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो 03083075a श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि 03083075c मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते 03083076a तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः 03083076c पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः 03083077a एषा यजनभूमिर्हि देवानामपि सत्कृता 03083077c तत्र दत्तं सूक्ष्ममपि महद्भवति भारत 03083078a न वेदवचनात्तात न लोकवचनादपि 03083078c मतिरुत्क्रमणीया ते प्रयागमरणं प्रति 03083079a दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः 03083079c येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन 03083080a चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् 03083080c स्नात एव तदाप्नोति गङ्गायमुनसंगमे 03083081a तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् 03083081c तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् 03083082a तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् 03083082c दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन 03083083a यत्र गङ्गा महाराज स देशस्तत्तपोवनम् 03083083c सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् 03083084a इदं सत्यं द्विजातीनां साधूनामात्मजस्य च 03083084c सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च 03083085a इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् 03083085c इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् 03083086a महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् 03083086c अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् 03083087a यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः 03083087c जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते 03083088a गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च 03083088c मनसा तानि गच्छेत सर्वतीर्थसमीक्षया 03083089a एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः 03083089c ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः 03083090a एवं त्वमपि कौरव्य विधिनानेन सुव्रत 03083090c व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते 03083091a भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् 03083091c प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः 03083092a नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः 03083092c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः 03083093a त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना 03083093c पितरस्तारितास्तात सर्वे च प्रपितामहाः 03083094a पितामहपुरोगाश्च देवाः सर्षिगणा नृप 03083094c तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः 03083095a अवाप्स्यसि च लोकान्वै वसूनां वासवोपम 03083095c कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् 03083096 नारद उवाच 03083096a एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः 03083096c प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत 03083097a भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् 03083097c पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे 03083098a अनेन विधिना यस्तु पृथिवीं संचरिष्यति 03083098c अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते 03083099a अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् 03083099c नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् 03083100a रक्षोगणावकीर्णानि तीर्थान्येतानि भारत 03083100c न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन 03083101a इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् 03083101c यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते 03083102a ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः 03083102c आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः 03083103a असितो देवलश्चैव मार्कण्डेयोऽथ गालवः 03083103c भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा 03083104a शौनकः सह पुत्रेण व्यासश्च जपतां वरः 03083104c दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः 03083105a एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः 03083105c एभिः सह महाराज तीर्थान्येतान्यनुव्रज 03083106a एष वै लोमशो नाम देवर्षिरमितद्युतिः 03083106c समेष्यति त्वया चैव तेन सार्धमनुव्रज 03083107a मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज 03083107c प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः 03083108a यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः 03083108c तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे 03083109a यथा भगीरथो राजा यथा रामश्च विश्रुतः 03083109c तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव 03083110a यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः 03083110c यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः 03083111a यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा 03083111c तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि 03083112a स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन 03083112c ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा 03083113 वैशंपायन उवाच 03083113a एवमाश्वास्य राजानं नारदो भगवानृषिः 03083113c अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 03083114a युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् 03083114c तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् 03084001 वैशंपायन उवाच 03084001a भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः 03084001c पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः 03084002a मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः 03084002c अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः 03084003a स हि वीरोऽनुरक्तश्च समर्थश्च तपोधन 03084003c कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः 03084004a अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौ 03084004c अभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान् 03084004e त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 03084005a नारदोऽपि तथा वेद सोऽप्यशंसत्सदा मम 03084005c तथाहमपि जानामि नरनारायणावृषी 03084006a शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनः 03084006c इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् 03084006e द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः 03084007a भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः 03084007c धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः 03084007e सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा 03084008a योद्धुकामश्च पार्थेन सततं यो महाबलः 03084008c स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः 03084009a सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनः 03084009c रजोधूमोऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः 03084010a निसृष्ट इव कालेन युगान्तज्वलनो यथा 03084010c मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः 03084011a तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् 03084011c श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः 03084012a सततं शरधाराभिः प्रदीप्तं कर्णपावकम् 03084012c उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे 03084013a स साक्षादेव सर्वाणि शक्रात्परपुरंजयः 03084013c दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते 03084014a अलं स तेषां सर्वेषामिति मे धीयते मतिः 03084014c नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया 03084015a तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् 03084015c द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति 03084016a वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर 03084016c अवधानं न गच्छामः काम्यके सह कृष्णया 03084017a भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि 03084017c आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः 03084018a यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम् 03084018c प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् 03084019a विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान् 03084019c सरांसि सरितश्चैव रमणीयांश्च पर्वतान् 03084020a आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम् 03084020c वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति 03085001 वैशंपायन उवाच 03085001a तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः 03085001c आश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् 03085002a ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ 03085002c दिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप 03085003a पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम् 03085003c रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति 03085004a तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत 03085004c यत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् 03085005a यत्र सा गोमती पुण्या रम्या देवर्षिसेविता 03085005c यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः 03085006a तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः 03085006c शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः 03085007a यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः 03085007c एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् 03085008a महानदी च तत्रैव तथा गयशिरोऽनघ 03085008c यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः 03085008e यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो 03085009a सा च पुण्यजला यत्र फल्गुनामा महानदी 03085009c बहुमूलफला चापि कौशिकी भरतर्षभ 03085009e विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः 03085010a गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः 03085010c अयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः 03085011a पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् 03085011c विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः 03085011e यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ 03085012a विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् 03085012c कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः 03085012e ततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् 03085013a पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् 03085013c गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् 03085014a यत्रायजत भूतात्मा पूर्वमेव पितामहः 03085014c प्रयागमिति विख्यातं तस्माद्भरतसत्तम 03085015a अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान् 03085015c हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप 03085016a अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः 03085016c महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः 03085017a अयजद्यत्र कौन्तेय पूर्वमेव पितामहः 03085017c यत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर 03085018a यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पते 03085018c धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् 03085019a पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः 03085019c केदारश्च मतङ्गस्य महानाश्रम उत्तमः 03085020a कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः 03085020c नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् 03085021a यत्र देववनं रम्यं तापसैरुपशोभितम् 03085021c बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि 03085022a तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च 03085022c प्राच्यां दिशि महाराज कीर्तितानि मया तव 03085023a तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु 03085023c सरितः पर्वतांश्चैव पुण्यान्यायतनानि च 03086001 धौम्य उवाच 03086001a दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत 03086001c विस्तरेण यथाबुद्धि कीर्त्यमानानि भारत 03086002a यस्यामाख्यायते पुण्या दिशि गोदावरी नदी 03086002c बह्वारामा बहुजला तापसाचरिता शुभा 03086003a वेण्णा भीमरथी चोभे नद्यौ पापभयापहे 03086003c मृगद्विजसमाकीर्णे तापसालयभूषिते 03086004a राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ 03086004c रम्यतीर्था बहुजला पयोष्णी द्विजसेविता 03086005a अपि चात्र महायोगी मार्कण्डेयो महातपाः 03086005c अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः 03086006a नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् 03086006c अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 03086007a माठरस्य वनं पुण्यं बहुमूलफलं शिवम् 03086007c यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ 03086008a प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा 03086008c तापसानामरण्यानि कीर्तितानि यथाश्रुति 03086009a वेदी शूर्पारके तात जमदग्नेर्महात्मनः 03086009c रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत 03086010a अशोकतीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम् 03086010c अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर 03086011a कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ 03086011c ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु 03086012a यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे 03086012c गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत 03086013a शीततोयो बहुजलः पुण्यस्तात शिवश्च सः 03086013c ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः 03086014a तत्रैव तृणसोमाग्नेः संपन्नफलमूलवान् 03086014c आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ 03086015a वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः 03086015c अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः 03086016a सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च 03086016c आश्रमान्सरितः शैलान्सरांसि च नराधिप 03086017a चमसोन्मज्जनं विप्रास्तत्रापि कथयन्त्युत 03086017c प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर 03086018a तत्र पिण्डारकं नाम तापसाचरितं शुभम् 03086018c उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् 03086019a तत्र देवर्षिवर्येण नारदेनानुकीर्तितः 03086019c पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर 03086020a पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते 03086020c उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते 03086021a पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः 03086021c साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः 03086022a ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः 03086022c ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् 03086023a पवित्राणां हि गोविन्दः पवित्रं परमुच्यते 03086023c पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् 03086024a त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः 03086024c आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः 03087001 धौम्य उवाच 03087001a अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि 03087001c यानि तत्र पवित्राणि पुण्यान्यायतनानि च 03087002a प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी 03087002c प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत 03087003a निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः 03087003c जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः 03087004a वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः 03087004c दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः 03087005a तस्य शैलस्य शिखरे सरस्तत्र च धीमतः 03087005c प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् 03087006a बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते 03087006c पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते 03087007a ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् 03087007c विश्वामित्रनदी पारा पुण्या परपुरंजय 03087008a यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः 03087008c पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् 03087009a तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः 03087009c बहुमूलफलो वीर असितो नाम पर्वतः 03087010a आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर 03087010c च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव 03087010e तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो 03087011a जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् 03087011c आश्रमः शाम्यतां श्रेष्ठ मृगद्विजगणायुतः 03087012a ततः पुण्यतमा राजन्सततं तापसायुता 03087012c केतुमाला च मेध्या च गङ्गारण्यं च भूमिप 03087012e ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् 03087013a पितामहसरः पुण्यं पुष्करं नाम भारत 03087013c वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः 03087014a अप्यत्र संस्तवार्थाय प्रजापतिरथो जगौ 03087014c पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर 03087015a मनसाप्यभिकामस्य पुष्कराणि मनस्विनः 03087015c पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते 03088001 धौम्य उवाच 03088001a उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै 03088001c तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च 03088002a सरस्वती पुण्यवहा ह्रदिनी वनमालिनी 03088002c समुद्रगा महावेगा यमुना यत्र पाण्डव 03088003a तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् 03088003c यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः 03088004a पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ 03088004c सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत 03088005a एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर 03088005c गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः 03088006a अग्नयः सहदेवेन ये चिता यमुनामनु 03088006c शतं शतसहस्राणि सहस्रशतदक्षिणाः 03088007a तत्रैव भरतो राजा चक्रवर्ती महायशाः 03088007c विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् 03088008a कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा 03088008c अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः 03088009a सरस्वती नदी सद्भिः सततं पार्थ पूजिता 03088009c वालखिल्यैर्महाराज यत्रेष्टमृषिभिः पुरा 03088010a दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर 03088010c तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप 03088011a वेदज्ञौ वेदविदितौ विद्यावेदविदावुभौ 03088011c यजन्तौ क्रतुभिर्नित्यं पुण्यैर्भरतसत्तम 03088012a समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा 03088012c विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै 03088013a ऋषिर्महान्महाभागो जमदग्निर्महायशाः 03088013c पलाशकेषु पुण्येषु रम्येष्वयजताभिभूः 03088014a यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् 03088014c स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे 03088015a अपि चात्र महाराज स्वयं विश्वावसुर्जगौ 03088015c इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः 03088016a यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः 03088016c आगम्य सरितः सर्वा मधुना समतर्पयन् 03088017a गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् 03088017c किरातकिंनरावासं शैलं शिखरिणां वरम् 03088018a बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर 03088018c पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् 03088019a सनत्कुमारः कौरव्य पुण्यं कनखलं तथा 03088019c पर्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः 03088020a भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः 03088020c स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः 03088021a यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ 03088021c नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः 03088022a तस्यातियशसः पुण्यां विशालां बदरीमनु 03088022c आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः 03088023a उष्णतोयवहा गङ्गा शीततोयवहापरा 03088023c सुवर्णसिकता राजन्विशालां बदरीमनु 03088024a ऋषयो यत्र देवाश्च महाभागा महौजसः 03088024c प्राप्य नित्यं नमस्यन्ति देवं नारायणं विभुम् 03088025a यत्र नारायणो देवः परमात्मा सनातनः 03088025c तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च 03088026a तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् 03088026c तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः 03088027a आदिदेवो महायोगी यत्रास्ते मधुसूदनः 03088027c पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा 03088028a एतानि राजन्पुण्यानि पृथिव्यां पृथिवीपते 03088028c कीर्तितानि नरश्रेष्ठ तीर्थान्यायतनानि च 03088029a एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः 03088029c ऋषिभिर्ब्रह्मकल्पैश्च सेवितानि महात्मभिः 03088030a चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः 03088030c भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि 03089001 वैशंपायन उवाच 03089001a एवं संभाषमाणे तु धौम्ये कौरवनन्दन 03089001c लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह 03089002a तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते 03089002c उदतिष्ठन्महाभागं दिवि शक्रमिवामराः 03089003a तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः 03089003c पप्रच्छागमने हेतुमटने च प्रयोजनम् 03089004a स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः 03089004c उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् 03089005a संचरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया 03089005c गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् 03089006a तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् 03089006c शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् 03089006e आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् 03089007a आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति 03089007c सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् 03089008a वचनात्पुरुहूतस्य पार्थस्य च महात्मनः 03089008c आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन 03089009a भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु 03089009c यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ 03089010a तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् 03089010c यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् 03089011a अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना 03089011c तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् 03089012a वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर 03089012c यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन 03089012e अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः 03089013a विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च 03089013c वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि 03089014a एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् 03089014c सुखं वसति बीभत्सुरनुजस्यानुजस्तव 03089015a यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् 03089015c तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे 03089016a भवान्मनुष्यलोकाय गमिष्यति न संशयः 03089016c ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम 03089017a आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः 03089017c सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः 03089018a तपसा तु त्वमात्मानं भ्रातृभिः सह योजय 03089018c तपसो हि परं नास्ति तपसा विन्दते महत् 03089019a अहं च कर्णं जानामि यथावद्भरतर्षभ 03089019c न स पार्थस्य संग्रामे कलामर्हति षोडशीम् 03089020a यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम 03089020c तच्चाप्यपहरिष्यामि सव्यसाचाविहागते 03089021a यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति 03089021c तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् 03089022a यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत 03089022c महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा 03090001 लोमश उवाच 03090001a धनंजयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर 03090001c युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया 03090002a त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन 03090002c श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् 03090003a स भवान्यत्परं वेद पावनं पुरुषान्प्रति 03090003c तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् 03090004a यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः 03090004c तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् 03090005a भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः 03090005c रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च 03090006a दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् 03090006c तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम 03090007a यातुधाना हि बहवो राक्षसाः पर्वतोपमाः 03090007c त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् 03090008a सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च 03090008c रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह 03090009a द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन 03090009c इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह 03090010a इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर 03090010c मन्वादिभिर्महाराज तीर्थयात्रा भयापहा 03090011a नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् 03090011c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः 03090012a त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसंगरः 03090012c विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि 03090013a यथा भगीरथो राजा राजानश्च गयादयः 03090013c यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव 03090014 युधिष्ठिर उवाच 03090014a न हर्षात्संप्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् 03090014c स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः 03090015a भवता संगमो यस्य भ्राता यस्य धनंजयः 03090015c वासवः स्मरते यस्य को नामाभ्यधिकस्ततः 03090016a यच्च मां भगवानाह तीर्थानां दर्शनं प्रति 03090016c धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे 03090017a तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने 03090017c तदैव गन्तास्मि दृढमेष मे निश्चयः परः 03090018 वैशंपायन उवाच 03090018a गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत् 03090018c लघुर्भव महाराज लघुः स्वैरं गमिष्यसि 03090019 युधिष्ठिर उवाच 03090019a बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये 03090019c ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः 03090020a धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते 03090020c स दास्यति यथाकालमुचिता यस्य या भृतिः 03090021a स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः 03090021c अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति 03090022 वैशंपायन उवाच 03090022a ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः 03090022c विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति 03090023a तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः 03090023c प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् 03090024a ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह 03090024c लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् 03091001 वैशंपायन उवाच 03091001a ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः 03091001c अभिगम्य तदा राजन्निदं वचनमब्रुवन् 03091002a राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह 03091002c देवर्षिणा च सहितो लोमशेन महात्मना 03091003a अस्मानपि महाराज नेतुमर्हसि पाण्डव 03091003c अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव 03091004a श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च 03091004c अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर 03091005a भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा 03091005c भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत 03091006a भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् 03091006c तीर्थानां पृथिवीपाल व्रतानां च विशां पते 03091007a तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः 03091007c भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप 03091008a भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत 03091008c अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह 03091009a भरतस्य च वीरस्य सार्वभौमस्य पार्थिव 03091009c ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः 03091010a प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् 03091010c गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् 03091010e त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् 03091011a यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप 03091011c कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे 03091012a तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा 03091012c अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि 03091013a तीर्थान्युक्तानि धौम्येन नारदेन च धीमता 03091013c यान्युवाच च देवर्षिर्लोमशः सुमहातपाः 03091014a विधिवत्तानि सर्वाणि पर्यटस्व नराधिप 03091014c धूतपाप्मा सहास्माभिर्लोमशेन च पालितः 03091015a स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः 03091015c भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः 03091015e बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः 03091016a लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् 03091016c ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी 03091016e द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे 03091017a अथ व्यासो महाभागस्तथा नारदपर्वतौ 03091017c काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः 03091018a तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि 03091018c सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् 03091019a युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम् 03091019c मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत 03091020a शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् 03091020c मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः 03091021a मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप 03091021c मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत 03091022a ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः 03091022c दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ 03091023a ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः 03091023c कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः 03091024a लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च 03091024c नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 03091025a धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः 03091025c मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः 03091026a कठिनानि समादाय चीराजिनजटाधराः 03091026c अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा 03091027a इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः 03091027c महानसव्यापृतैश्च तथान्यैः परिचारकैः 03091028a सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः 03091028c प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय 03092001 युधिष्ठिर उवाच 03092001a न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम 03092001c तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः 03092002a परांश्च निर्गुणान्मन्ये न च धर्मरतानपि 03092002c ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना 03092003 लोमश उवाच 03092003a नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन 03092003c यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः 03092004a वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति 03092004c ततः सपत्नाञ्जयति समूलस्तु विनश्यति 03092005a मया हि दृष्टा दैतेया दानवाश्च महीपते 03092005c वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः 03092006a पुरा देवयुगे चैव दृष्टं सर्वं मया विभो 03092006c अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः 03092007a तीर्थानि देवा विविशुर्नाविशन्भारतासुराः 03092007c तानधर्मकृतो दर्पः पूर्वमेव समाविशत् 03092008a दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत 03092008c क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् 03092009a तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् 03092009c क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः 03092009e लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप 03092010a तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः 03092010c दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः 03092011a तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा 03092011c दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः 03092012a मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत 03092012c निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः 03092013a देवास्तु सागरांश्चैव सरितश्च सरांसि च 03092013c अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च 03092014a तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव 03092014c प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे 03092015a एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः 03092015c तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् 03092016a तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः 03092016c पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः 03092017a यथैव हि नृगो राजा शिबिरौशीनरो यथा 03092017c भगीरथो वसुमना गयः पूरुः पुरूरवाः 03092018a चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते 03092018c तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् 03092019a अलभन्त यशः पुण्यं धनानि च विशां पते 03092019c तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् 03092020a यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः 03092020c मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः 03092021a कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् 03092021c देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे 03092022a धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः 03092022c नचिराद्विनशिष्यन्ति दैत्या इव न संशयः 03093001 वैशंपायन उवाच 03093001a ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह 03093001c क्रमेण पृथिवीपाल नैमिषारण्यमागताः 03093002a ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप 03093002c कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत 03093003a तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः 03093003c कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः 03093004a वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः 03093004c बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् 03093005a प्रयागे देवयजने देवानां पृथिवीपते 03093005c ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् 03093006a गङ्गायमुनयोश्चैव संगमे सत्यसंगराः 03093006c विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु 03093007a तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः 03093007c जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत 03093008a तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् 03093008c संतर्पयन्तः सततं वन्येन हविषा द्विजान् 03093009a ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् 03093009c राजर्षिणा पुण्यकृता गयेनानुपमद्युते 03093010a सरो गयशिरो यत्र पुण्या चैव महानदी 03093010c ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् 03093011a अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति 03093011c उवास च स्वयं यत्र धर्मो राजन्सनातनः 03093012a सर्वासां सरितां चैव समुद्भेदो विशां पते 03093012c यत्र संनिहितो नित्यं महादेवः पिनाकधृक् 03093013a तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे 03093013c ऋषियज्ञेन महता यत्राक्षयवटो महान् 03093014a ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः 03093014c चातुर्मास्येनायजन्त आर्षेण विधिना तदा 03093015a तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः 03093015c कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् 03093016a तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः 03093016c शमठोऽकथयद्राजन्नामूर्तरयसं गयम् 03093017a अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः 03093017c पुण्यानि यस्य कर्माणि तानि मे शृणु भारत 03093018a यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः 03093018c यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः 03093019a घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा 03093019c व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः 03093020a अहन्यहनि चाप्येतद्याचतां संप्रदीयते 03093020c अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् 03093021a तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः 03093021c न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत 03093022a पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा 03093022c आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् 03093023a तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ 03093023c अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः 03093024a गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः 03093024c यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः 03093025a न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे 03093025c गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः 03093026a कथं नु देवा हविषा गयेन परितर्पिताः 03093026c पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् 03093027a एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः 03093027c बभूवुरस्य सरसः समीपे कुरुनन्दन 03094001 वैशंपायन उवाच 03094001a ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः 03094001c अगस्त्याश्रममासाद्य दुर्जयायामुवास ह 03094002a तत्र वै लोमशं राजा पप्रच्छ वदतां वरः 03094002c अगस्त्येनेह वातापिः किमर्थमुपशामितः 03094003a आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः 03094003c किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः 03094004 लोमश उवाच 03094004a इल्वलो नाम दैतेय आसीत्कौरवनन्दन 03094004c मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः 03094005a स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः 03094005c पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु 03094006a तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् 03094006c चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् 03094007a समाह्वयति यं वाचा गतं वैवस्वतक्षयम् 03094007c स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते 03094008a ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् 03094008c तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् 03094009a तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः 03094009c वातापिः प्रहसन्राजन्निश्चक्राम विशां पते 03094010a एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः 03094010c हिंसयामास दैतेय इल्वलो दुष्टचेतनः 03094011a अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु 03094011c पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् 03094012a सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः 03094012c संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः 03094013a ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः 03094013c गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः 03094014a यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् 03094014c स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् 03094015a स तानुवाच तेजस्वी सत्यधर्मपरायणः 03094015c करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः 03094016a ततः प्रसवसंतानं चिन्तयन्भगवानृषिः 03094016c आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् 03094017a स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् 03094017c संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् 03094018a स तां विदर्भराजाय पुत्रकामाय ताम्यते 03094018c निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः 03094019a सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा 03094019c विभ्राजमाना वपुसा व्यवर्धत शुभानना 03094020a जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः 03094020c प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत 03094021a अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप 03094021c लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः 03094022a ववृधे सा महाराज बिभ्रती रूपमुत्तमम् 03094022c अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा 03094023a तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः 03094023c दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः 03094024a सा स्म दासीशतवृता मध्ये कन्याशतस्य च 03094024c आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो 03094025a यौवनस्थामपि च तां शीलाचारसमन्विताम् 03094025c न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः 03094026a सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति 03094026c तोषयामास पितरं शीलेन स्वजनं तथा 03094027a वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता 03094027c मनसा चिन्तयामास कस्मै दद्यां सुतामिति 03095001 लोमश उवाच 03095001a यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति 03095001c तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् 03095002a राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् 03095002c वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे 03095003a एवमुक्तः स मुनिना महीपालो विचेतनः 03095003c प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत 03095004a ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः 03095004c महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् 03095005a तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् 03095005c लोपामुद्राभिगम्येदं काले वचनमब्रवीत् 03095006a न मत्कृते महीपाल पीडामभ्येतुमर्हसि 03095006c प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः 03095007a दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने 03095007c लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते 03095008a प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत 03095008c महार्हाण्युत्सृजैतानि वासांस्याभरणानि च 03095009a ततः सा दर्शनीयानि महार्हाणि तनूनि च 03095009c समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा 03095010a ततश्चीराणि जग्राह वल्कलान्यजिनानि च 03095010c समानव्रतचर्या च बभूवायतलोचना 03095011a गङ्गाद्वारमथागम्य भगवानृषिसत्तमः 03095011c उग्रमातिष्ठत तपः सह पत्न्यानुकूलया 03095012a सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा 03095012c अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः 03095013a ततो बहुतिथे काले लोपामुद्रां विशां पते 03095013c तपसा द्योतितां स्नातां ददर्श भगवानृषिः 03095014a स तस्याः परिचारेण शौचेन च दमेन च 03095014c श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् 03095015a ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी 03095015c तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् 03095016a असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत 03095016c या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि 03095017a यथा पितुर्गृहे विप्र प्रासादे शयनं मम 03095017c तथाविधे त्वं शयने मामुपैतुमिहार्हसि 03095018a इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् 03095018c उपसर्तुं यथाकामं दिव्याभरणभूषिता 03095019 अगस्त्य उवाच 03095019a न वै धनानि विद्यन्ते लोपामुद्रे तथा मम 03095019c यथाविधानि कल्याणि पितुस्तव सुमध्यमे 03095020 लोपामुद्रोवाच 03095020a ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर 03095020c क्षणेन जीवलोके यद्वसु किंचन विद्यते 03095021 अगस्त्य उवाच 03095021a एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे 03095021c यथा तु मे न नश्येत तपस्तन्मां प्रचोदय 03095022 लोपामुद्रोवाच 03095022a अल्पावशिष्टः कालोऽयमृतौ मम तपोधन 03095022c न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन 03095023a न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन 03095023c एतत्तु मे यथाकामं संपादयितुमर्हसि 03095024 अगस्त्य उवाच 03095024a यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः 03095024c हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता 03096001 लोमश उवाच 03096001a ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु 03096001c श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः 03096002a स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् 03096002c विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् 03096003a तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः 03096003c प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् 03096004 अगस्त्य उवाच 03096004a वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते 03096004c यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे 03096005 लोमश उवाच 03096005a तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् 03096005c अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे 03096006a तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 03096006c सर्वथा प्राणिनां पीडामुपादानादमन्यत 03096007a स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः 03096007c स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि 03096008a तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् 03096008c अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे 03096009 अगस्त्य उवाच 03096009a वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते 03096009c यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ 03096010 लोमश उवाच 03096010a तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् 03096010c ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते 03096011a तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 03096011c सर्वथा प्राणिनां पीडामुपादानादमन्यत 03096012a पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् 03096012c अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः 03096013a त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि 03096013c अभिगम्य महाराज विषयान्ते सवाहनः 03096014a अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः 03096014c समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे 03096015 अगस्त्य उवाच 03096015a वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते 03096015c यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः 03096016 लोमश उवाच 03096016a तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् 03096016c अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते 03096017a तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 03096017c सर्वथा प्राणिनां पीडामुपादानादमन्यत 03096018a ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् 03096018c इदमूचुर्महाराज समवेक्ष्य परस्परम् 03096019a अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि 03096019c तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु 03096020a तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् 03096020c ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् 03097001 लोमश उवाच 03097001a इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् 03097001c उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् 03097002a तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा 03097002c स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल 03097003a ततो राजर्षयः सर्वे विषण्णा गतचेतसः 03097003c वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् 03097004a अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः 03097004c विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् 03097005a धुर्यासनमथासाद्य निषसाद महामुनिः 03097005c तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव 03097006a अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः 03097006c भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः 03097007a ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः 03097007c इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् 03097008a प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् 03097008c किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः 03097009a प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा 03097009c ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् 03097010a इमे च नातिधनिनो धनार्थश्च महान्मम 03097010c यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः 03097011a ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् 03097011c दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु 03097012 अगस्त्य उवाच 03097012a गवां दश सहस्राणि राज्ञामेकैकशोऽसुर 03097012c तावदेव सुवर्णस्य दित्सितं ते महासुर 03097013a मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः 03097013c मनोजवौ वाजिनौ च दित्सितं ते महासुर 03097013e जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः 03097014 लोमश उवाच 03097014a जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः 03097014c ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु 03097015a विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ 03097015c ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति 03097015e सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत 03097016a अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा 03097016c कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् 03097017 लोपामुद्रोवाच 03097017a कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् 03097017c उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् 03097018 अगस्त्य उवाच 03097018a तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने 03097018c विचारणामपत्ये तु तव वक्ष्यामि तां शृणु 03097019a सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम् 03097019c दश वा शततुल्याः स्युरेको वापि सहस्रवत् 03097020 लोपामुद्रोवाच 03097020a सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन 03097020c एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः 03097021 लोमश उवाच 03097021a स तथेति प्रतिज्ञाय तया समभवन्मुनिः 03097021c समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया 03097022a तत आधाय गर्भं तमगमद्वनमेव सः 03097022c तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् 03097023a सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः 03097023c ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत 03097023e साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः 03097024a तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः 03097024c स बाल एव तेजस्वी पितुस्तस्य निवेशने 03097024e इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् 03097025a तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा 03097025c लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् 03097026a अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः 03097026c प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः 03097027a तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः 03097027c एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् 03098001 युधिष्ठिर उवाच 03098001a भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः 03098001c कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम 03098002 लोमश उवाच 03098002a शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् 03098002c अगस्त्यस्य महाराज प्रभावममितात्मनः 03098003a आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः 03098003c कालेया इति विख्याता गणाः परमदारुणाः 03098004a ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः 03098004c समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् 03098005a ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा 03098005c पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे 03098006a कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह 03098006c विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् 03098007a तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ 03098007c दधीच इति विख्यातो महानृषिरुदारधीः 03098008a तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत 03098008c स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना 03098009a स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः 03098009c स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै 03098009e स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति 03098010a तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम् 03098010c महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् 03098011a तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः 03098011c एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् 03098012a एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् 03098012c नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः 03098013a सरस्वत्याः परे पारे नानाद्रुमलतावृतम् 03098013c षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव 03098013e पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् 03098014a महिषैश्च वराहैश्च सृमरैश्चमरैरपि 03098014c तत्र तत्रानुचरितं शार्दूलभयवर्जितैः 03098015a करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः 03098015c सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् 03098016a सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् 03098016c अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः 03098017a तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् 03098017c त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् 03098018a तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् 03098018c जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् 03098019a तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च 03098019c अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना 03098020a ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच 03098020c करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि 03098021a स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज 03098021c ततः सुरास्ते जगृहुः परासो;रस्थीनि तस्याथ यथोपदेशम् 03098022a प्रहृष्टरूपाश्च जयाय देवा;स्त्वष्टारमागम्य तमर्थमूचुः 03098022c त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात् 03098023a चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः 03098023c अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम् 03098024a ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः 03098024c त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् 03099001 लोमश उवाच 03099001a ततः स वज्री बलिभिर्दैवतैरभिरक्षितः 03099001c आससाद ततो वृत्रं स्थितमावृत्य रोदसी 03099002a कालकेयैर्महाकायैः समन्तादभिरक्षितम् 03099002c समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः 03099003a ततो युद्धं समभवद्देवानां सह दानवैः 03099003c मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् 03099004a उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 03099004c आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् 03099005a शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् 03099005c तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत 03099006a ते हेमकवचा भूत्वा कालेयाः परिघायुधाः 03099006c त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः 03099007a तेषां वेगवतां वेगं सहितानां प्रधावताम् 03099007c न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् 03099008a तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः 03099008c वृत्रे विवर्धमाने च कश्मलं महदाविशत् 03099009a तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः 03099009c स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् 03099010a विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः 03099010c स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः 03099011a स समाप्यायितः शक्रो विष्णुना दैवतैः सह 03099011c ऋषिभिश्च महाभागैर्बलवान्समपद्यत 03099012a ज्ञात्वा बलस्थं त्रिदशाधिपं तु; ननाद वृत्रो महतो निनादान् 03099012c तस्य प्रणादेन धरा दिशश्च; खं द्यौर्नगाश्चापि चचाल सर्वम् 03099013a ततो महेन्द्रः परमाभितप्तः; श्रुत्वा रवं घोररूपं महान्तम् 03099013c भये निमग्नस्त्वरितं मुमोच; वज्रं महत्तस्य वधाय राजन् 03099014a स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी 03099014c यथा महाञ्शैलवरः पुरस्ता;त्स मन्दरो विष्णुकरात्प्रमुक्तः 03099015a तस्मिन्हते दैत्यवरे भयार्तः; शक्रः प्रदुद्राव सरः प्रवेष्टुम् 03099015c वज्रं न मेने स्वकरात्प्रमुक्तं; वृत्रं हतं चापि भयान्न मेने 03099016a सर्वे च देवा मुदिताः प्रहृष्टा; महर्षयश्चेन्द्रमभिष्टुवन्तः 03099016c सर्वांश्च दैत्यांस्त्वरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान् 03099017a ते वध्यमानास्त्रिदशैस्तदानीं; समुद्रमेवाविविशुर्भयार्ताः 03099017c प्रविश्य चैवोदधिमप्रमेयं; झषाकुलं रत्नसमाकुलं च 03099018a तदा स्म मन्त्रं सहिताः प्रचक्रु;स्त्रैलोक्यनाशार्थमभिस्मयन्तः 03099018c तत्र स्म केचिन्मतिनिश्चयज्ञा;स्तांस्तानुपायाननुवर्णयन्ति 03099019a तेषां तु तत्र क्रमकालयोगा;द्घोरा मतिश्चिन्तयतां बभूव 03099019c ये सन्ति विद्यातपसोपपन्ना;स्तेषां विनाशः प्रथमं तु कार्यः 03099020a लोका हि सर्वे तपसा ध्रियन्ते; तस्मात्त्वरध्वं तपसः क्षयाय 03099020c ये सन्ति केचिद्धि वसुंधरायां; तपस्विनो धर्मविदश्च तज्ज्ञाः 03099020e तेषां वधः क्रियतां क्षिप्रमेव; तेषु प्रनष्टेषु जगत्प्रनष्टम् 03099021a एवं हि सर्वे गतबुद्धिभावा; जगद्विनाशे परमप्रहृष्टाः 03099021c दुर्गं समाश्रित्य महोर्मिमन्तं; रत्नाकरं वरुणस्यालयं स्म 03100001 लोमश उवाच 03100001a समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् 03100001c कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने 03100002a ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् 03100002c आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च 03100003a वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः 03100003c अशीतिशतमष्टौ च नव चान्ये तपस्विनः 03100004a च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् 03100004c फलमूलाशनानां हि मुनीनां भक्षितं शतम् 03100005a एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा 03100005c भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः 03100005e वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः 03100006a एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा 03100006c निशायां परिधावन्ति मत्ता भुजबलाश्रयात् 03100006e कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् 03100007a न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम 03100007c एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु 03100008a प्रभाते समदृश्यन्त नियताहारकर्शिताः 03100008c महीतलस्था मुनयः शरीरैर्गतजीवितैः 03100009a क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः 03100009c आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः 03100010a कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च 03100010c विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता 03100011a निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् 03100011c जगदासीन्निरुत्साहं कालेयभयपीडितम् 03100012a एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर 03100012c आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् 03100013a केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः 03100013c अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् 03100014a केचिदत्र महेष्वासाः शूराः परमदर्पिताः 03100014c मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे 03100015a न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् 03100015c श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च 03100016a जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये 03100016c आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर 03100017a समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे 03100017c नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् 03100018a ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् 03100018c त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो 03100018e त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति 03100019a त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण 03100019c वाराहं रूपमास्थाय जगदर्थे समुद्धृता 03100020a आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया 03100020c नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम 03100021a अवध्यः सर्वभूतानां बलिश्चापि महासुरः 03100021c वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया 03100022a असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः 03100022c यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः 03100023a एवमादीनि कर्माणि येषां संख्या न विद्यते 03100023c अस्माकं भयभीतानां त्वं गतिर्मधुसूदन 03100024a तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे 03100024c रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् 03101001 देवा ऊचुः 03101001a इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः 03101001c ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः 03101002a लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः 03101002c त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः 03101003a इदं च समनुप्राप्तं लोकानां भयमुत्तमम् 03101003c न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः 03101004a क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति 03101004c ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति 03101005a त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते 03101005c विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः 03101006 विष्णुरुवाच 03101006a विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् 03101006c भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः 03101007a कालेय इति विख्यातो गणः परमदारुणः 03101007c तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् 03101008a ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता 03101008c जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् 03101009a ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् 03101009c उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह 03101010a न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते 03101010c समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् 03101010e अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे 03101011a एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् 03101011c परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः 03101012a तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् 03101012c उपास्यमानमृषिभिर्देवैरिव पितामहम् 03101013a तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् 03101013c आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् 03101014 देवा ऊचुः 03101014a नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा 03101014c भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः 03101015a क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः 03101015c वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते 03101016a तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः 03101016c त्वामेव नाथमासाद्य निर्वृतिं परमां गताः 03101017a अस्माकं भयभीतानां नित्यशो भगवान्गतिः 03101017c ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि 03102001 युधिष्ठिर उवाच 03102001a किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः 03102001c एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने 03102002 लोमश उवाच 03102002a अद्रिराजं महाशैलं मरुं कनकपर्वतम् 03102002c उदयास्तमये भानुः प्रदक्षिणमवर्तत 03102003a तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् 03102003c यथा हि मेरुर्भवता नित्यशः परिगम्यते 03102003e प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर 03102004a एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत 03102004c नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् 03102004e एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् 03102005a एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः 03102005c सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप 03102006a ततो देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम् 03102006c निवारयामासुरुपायतस्तं; न च स्म तेषां वचनं चकार 03102007a अथाभिजग्मुर्मुनिमाश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम् 03102007c अगस्त्यमत्यद्भुतवीर्यदीप्तं; तं चार्थमूचुः सहिताः सुरास्ते 03102008 देवा ऊचुः 03102008a सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा 03102008c शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः 03102009a तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम 03102009c ऋते त्वां हि महाभाग तस्मादेनं निवारय 03102010 लोमश उवाच 03102010a तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् 03102010c सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः 03102011a मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम 03102011c दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् 03102012a यावदागमनं मह्यं तावत्त्वं प्रतिपालय 03102012c निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः 03102013a एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन 03102013c अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते 03102014a एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते 03102014c अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि 03102015a कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः 03102015c अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु 03102016a त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् 03102016c किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ 03102016e एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् 03102017a एवं त्वयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन् 03102017c ततो वधिष्याम सहानुबन्धा;न्कालेयसंज्ञान्सुरविद्विषस्तान् 03102018a त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् 03102018c करिष्ये भवतां कामं लोकानां च महत्सुखम् 03102019a एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् 03102019c ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः 03102020a मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा 03102020c अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् 03102021a ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् 03102021c नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना 03102022a हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च 03102022c नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् 03102023a अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः 03102023c ऋषयश्च महाभागाः समासेदुर्महोदधिम् 03103001 लोमश उवाच 03103001a समुद्रं स समासाद्य वारुणिर्भगवानृषिः 03103001c उवाच सहितान्देवानृषींश्चैव समागतान् 03103002a एष लोकहितार्थं वै पिबामि वरुणालयम् 03103002c भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् 03103003a एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः 03103003c समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः 03103004a पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः 03103004c विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् 03103005a त्वं नस्त्राता विधाता च लोकानां लोकभावनः 03103005c त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् 03103006a संपूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः 03103006c दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार 03103007a दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः 03103007c प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः 03103008a ते वध्यमानास्त्रिदशैर्महात्मभि;र्महाबलैर्वेगिभिरुन्नदद्भिः 03103008c न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् 03103009a ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः 03103009c चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत 03103010a ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः 03103010c यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः 03103011a ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः 03103011c निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः 03103012a हतशेषास्ततः केचित्कालेया मनुजोत्तम 03103012c विदार्य वसुधां देवीं पातालतलमाश्रिताः 03103013a निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम् 03103013c तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः 03103014a त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् 03103014c त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः 03103015a पूरयस्व महाबाहो समुद्रं लोकभावन 03103015c यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज 03103016a एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः 03103016c जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् 03103016e पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः 03103017a एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः 03103017c विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः 03103018a परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम् 03103018c प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् 03103019a त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् 03103019c पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः 03103019e ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् 03104001 लोमश उवाच 03104001a तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः 03104001c गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् 03104002a महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः 03104002c ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् 03104003 युधिष्ठिर उवाच 03104003a कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने 03104003c कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् 03104004a एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 03104004c कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् 03104005 वैशंपायन उवाच 03104005a एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना 03104005c कथयामास माहात्म्यं सगरस्य महात्मनः 03104006 लोमश उवाच 03104006a इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः 03104006c रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् 03104007a स हैहयान्समुत्साद्य तालजङ्घांश्च भारत 03104007c वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत 03104008a तस्य भार्ये त्वभवतां रूपयौवनदर्पिते 03104008c वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ 03104009a स पुत्रकामो नृपतिस्तताप सुमहत्तपः 03104009c पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः 03104010a स तप्यमानः सुमहत्तपो योगसमन्वितः 03104010c आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् 03104011a शंकरं भवमीशानं शूलपानिं पिनाकिनम् 03104011c त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् 03104012a स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः 03104012c प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत 03104013a तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् 03104013c यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् 03104014a षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः 03104014c एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम 03104015a ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव 03104015c एको वंशधरः शूर एकस्यां संभविष्यति 03104015e एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत 03104016a स चापि सगरो राजा जगाम स्वं निवेशनम् 03104016c पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा 03104017a तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे 03104017c वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः 03104018a ततः कालेन वैदर्भी गर्भालाबुं व्यजायत 03104018c शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् 03104019a तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः 03104019c अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् 03104020a राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि 03104020c अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् 03104021a सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः 03104021c ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव 03104022a महादेवेन दिष्टं ते पुत्रजन्म नराधिप 03104022c अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा 03105001 लोमश उवाच 03105001a एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम 03105001c यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ 03105002a षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः 03105002c रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव 03105003a ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः 03105003c बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् 03105004a त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् 03105004c सर्वाणि चैव भूतानि शूराः समरशालिनः 03105005a वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः 03105005c ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः 03105006a तानुवाच महाभागः सर्वलोकपितामहः 03105006c गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् 03105007a नातिदीर्घेण कालेन सागराणां क्षयो महान् 03105007c भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः 03105008a एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर 03105008c पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् 03105009a ततः काले बहुतिथे व्यतीते भरतर्षभ 03105009c दीक्षितः सगरो राजा हयमेधेन वीर्यवान् 03105009e तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः 03105010a समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् 03105010c रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत 03105011a ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् 03105011c आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् 03105011e तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् 03105012a ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् 03105012c अमार्गन्त महाराज सर्वं च पृथिवीतलम् 03105013a ततस्ते सागराः सर्वे समुपेत्य परस्परम् 03105013c नाध्यगच्छन्त तुरगमश्वहर्तारमेव च 03105014a आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः 03105014c ससमुद्रवनद्वीपा सनदीनदकन्दरा 03105014e सपर्वतवनोद्देशा निखिलेन मही नृप 03105015a अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव 03105015c न चाश्वमधिगच्छामो नाश्वहर्तारमेव च 03105016a श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः 03105016c उवाच वचनं सर्वांस्तदा दैववशान्नृप 03105017a अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् 03105017c यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः 03105018a प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः 03105018c भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः 03105019a अथापश्यन्त ते वीराः पृथिवीमवदारिताम् 03105019c समासाद्य बिलं तच्च खनन्तः सगरात्मजाः 03105019e कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा 03105020a स खन्यमानः सहितैः सागरैर्वरुणालयः 03105020c अगच्छत्परमामार्तिं दार्यमाणः समन्ततः 03105021a असुरोरगरक्षांसि सत्त्वानि विविधानि च 03105021c आर्तनादमकुर्वन्त वध्यमानानि सागरैः 03105022a छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः 03105022c प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः 03105023a एवं हि खनतां तेषां समुद्रं मकरालयम् 03105023c व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत 03105024a ततः पूर्वोत्तरे देशे समुद्रस्य महीपते 03105024c विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः 03105024e अपश्यन्त हयं तत्र विचरन्तं महीतले 03105025a कपिलं च महात्मानं तेजोराशिमनुत्तमम् 03105025c तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् 03106001 लोमश उवाच 03106001a ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः 03106001c अनादृत्य महात्मानं कपिलं कालचोदिताः 03106001e संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः 03106002a ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः 03106002c वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् 03106003a स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् 03106003c ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् 03106004a तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः 03106004c सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् 03106005a स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् 03106005c मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् 03106005e आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् 03106006a अंशुमन्तं समाहूय असमञ्जःसुतं तदा 03106006c पौत्रं भरतशार्दूल इदं वचनमब्रवीत् 03106007a षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् 03106007c कापिलं तेज आसाद्य मत्कृते निधनं गताः 03106008a तव चापि पिता तात परित्यक्तो मयानघ 03106008c धर्मं संरक्षमाणेन पौराणां हितमिच्छता 03106009 युधिष्ठिर उवाच 03106009a किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् 03106009c त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन 03106010 लोमश उवाच 03106010a असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् 03106010c यं शैब्या जनयामास पौराणां स हि दारकान् 03106010e खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् 03106011a ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः 03106011c सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः 03106012a त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः 03106012c असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि 03106013a पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः 03106013c मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् 03106014a असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् 03106014c यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् 03106015a एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप 03106015c यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः 03106016a एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना 03106016c पौराणां हितकामेन सगरेण विवासितः 03106017a अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह 03106017c तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे 03106018 सगर उवाच 03106018a पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च 03106018c अलाभेन तथाश्वस्य परितप्यामि पुत्रक 03106019a तस्माद्दुःखाभिसंतप्तं यज्ञविघ्नाच्च मोहितम् 03106019c हयस्यानयनात्पौत्र नरकान्मां समुद्धर 03106020 लोमश उवाच 03106020a अंशुमानेवमुक्तस्तु सगरेण महात्मना 03106020c जगाम दुःखात्तं देशं यत्र वै दारिता मही 03106021a स तु तेनैव मार्गेण समुद्रं प्रविवेश ह 03106021c अपश्यच्च महात्मानं कपिलं तुरगं च तम् 03106022a स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् 03106022c प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् 03106023a ततः प्रीतो महातेजाः कलिपोंऽशुमतोऽभवत् 03106023c उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत 03106024a स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् 03106024c द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया 03106025a तमुवाच महातेजाः कपिलो मुनिपुंगवः 03106025c ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ 03106026a त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् 03106026c त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता 03106027a तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः 03106027c पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति 03106027e पावनार्थं सागराणां तोषयित्वा महेश्वरम् 03106028a हयं नयस्व भद्रं ते यज्ञियं नरपुंगव 03106028c यज्ञः समाप्यतां तात सगरस्य महात्मनः 03106029a अंशुमानेवमुक्तस्तु कपिलेन महात्मना 03106029c आजगाम हयं गृह्य यज्ञवाटं महात्मनः 03106030a सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः 03106030c मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् 03106031a यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा 03106031c तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् 03106032a तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् 03106032c अंशुमन्तं च संपूज्य समापयत तं क्रतुम् 03106033a समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः 03106033c पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् 03106034a प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः 03106034c पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा 03106035a अंशुमानपि धर्मात्मा महीं सागरमेखलाम् 03106035c प्रशशास महाराज यथैवास्य पितामहः 03106036a तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् 03106036c तस्मै राज्यं समाधाय अंशुमानपि संस्थितः 03106037a दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् 03106037c पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् 03106038a गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः 03106038c न चावतारयामास चेष्टमानो यथाबलम् 03106039a तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः 03106039c भगीरथ इति ख्यातः सत्यवागनसूयकः 03106040a अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः 03106040c तपःसिद्धिसमायोगात्स राजा भरतर्षभ 03106040e वनाज्जगाम त्रिदिवं कालयोगेन भारत 03107001 लोमश उवाच 03107001a स तु राजा महेष्वासश्चक्रवर्ती महारथः 03107001c बभूव सर्वलोकस्य मनोनयननन्दनः 03107002a स शुश्राव महाबाहुः कपिलेन महात्मना 03107002c पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च 03107003a स राज्यं सचिवे न्यस्य हृदयेन विदूयता 03107003c जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः 03107004a आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः 03107004c सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् 03107005a शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् 03107005c पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः 03107006a नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् 03107006c गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् 03107007a शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः 03107007c भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः 03107008a मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः 03107008c चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि 03107009a जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् 03107009c सारसानां च मधुरैर्व्याहृतैः समलंकृतम् 03107010a किंनरैरप्सरोभिश्च निषेवितशिलातलम् 03107010c दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् 03107011a विद्याधरानुचरितं नानारत्नसमाकुलम् 03107011c विषोल्बणैर्भुजंगैश्च दीप्तजिह्वैर्निषेवितम् 03107012a क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् 03107012c क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् 03107013a स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः 03107013c फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् 03107014a संवत्सरसहस्रे तु गते दिव्ये महानदी 03107014c दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् 03107015 गङ्गोवाच 03107015a किमिच्छसि महाराज मत्तः किं च ददानि ते 03107015c तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव 03107016 लोमश उवाच 03107016a एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा 03107016c पितामहा मे वरदे कपिलेन महानदि 03107016e अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् 03107017a षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् 03107017c कापिलं तेज आसाद्य क्षणेन निधनं गताः 03107018a तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते 03107018c यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि 03107019a स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् 03107019c तेषामर्थेऽभियाचामि त्वामहं वै महानदि 03107020a एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता 03107020c भगीरथमिदं वाक्यं सुप्रीता समभाषत 03107021a करिष्यामि महाराज वचस्ते नात्र संशयः 03107021c वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् 03107022a न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप 03107022c अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् 03107023a तं तोषय महाबाहो तपसा वरदं हरम् 03107023c स तु मां प्रच्युतां देवः शिरसा धारयिष्यति 03107023e करिष्यति च ते कामं पितॄणां हितकाम्यया 03107024a एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः 03107024c कैलासं पर्वतं गत्वा तोषयामास शंकरम् 03107025a ततस्तेन समागम्य कालयोगेन केनचित् 03107025c अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप 03107025e स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः 03108001 लोमश उवाच 03108001a भगीरथवचः श्रुत्वा प्रियार्थं च दिवौकसाम् 03108001c एवमस्त्विति राजानं भगवान्प्रत्यभाषत 03108002a धारयिष्ये महाबाहो गगनात्प्रच्युतां शिवाम् 03108002c दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम 03108003a एवमुक्त्वा महाबाहो हिमवन्तमुपागमत् 03108003c संवृतः पार्षदैर्घोरैर्नानाप्रहरणोद्यतैः 03108004a ततः स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह 03108004c प्रयाचस्व महाबाहो शैलराजसुतां नदीम् 03108004e पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् 03108005a एतच्छ्रुत्वा वचो राजा शर्वेण समुदाहृतम् 03108005c प्रयतः प्रणतो भूत्वा गङ्गां समनुचिन्तयत् 03108006a ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता 03108006c ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता 03108007a तां प्रच्युतां ततो दृष्ट्वा देवाः सार्धं महर्षिभिः 03108007c गन्धर्वोरगरक्षांसि समाजग्मुर्दिदृक्षया 03108008a ततः पपात गगनाद्गङ्गा हिमवतः सुता 03108008c समुद्भ्रान्तमहावर्ता मीनग्राहसमाकुला 03108009a तां दधार हरो राजन्गङ्गां गगनमेखलाम् 03108009c ललाटदेशे पतितां मालां मुक्तामयीमिव 03108010a सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा 03108010c फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः 03108011a क्वचिदाभोगकुटिला प्रस्खलन्ती क्वचित्क्वचित् 03108011c स्वफेनपटसंवीता मत्तेव प्रमदाव्रजत् 03108011e क्वचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् 03108012a एवं प्रकारान्सुबहून्कुर्वन्ती गगनाच्च्युता 03108012c पृथिवीतलमासाद्य भगीरथमथाब्रवीत् 03108013a दर्शयस्व महाराज मार्गं केन व्रजाम्यहम् 03108013c त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते 03108014a एतच्छ्रुत्वा वचो राजा प्रातिष्ठत भगीरथः 03108014c यत्र तानि शरीराणि सागराणां महात्मनाम् 03108014e पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह 03108015a गङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः 03108015c कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह 03108016a समुद्रं च समासाद्य गङ्गया सहितो नृपः 03108016c पूरयामास वेगेन समुद्रं वरुणालयम् 03108017a दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् 03108017c पितॄणां चोदकं तत्र ददौ पूर्णमनोरथः 03108018a एतत्ते सर्वमाख्यातं गङ्गा त्रिपथगा यथा 03108018c पूरणार्थं समुद्रस्य पृथिवीमवतारिता 03108019a समुद्रश्च यथा पीतः कारणार्थे महात्मना 03108019c वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो 03108019e अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि 03109001 वैशंपायन उवाच 03109001a ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ 03109001c नन्दामपरनन्दां च नद्यौ पापभयापहे 03109002a स पर्वतं समासाद्य हेमकूटमनामयम् 03109002c अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः 03109003a वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः 03109003c नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः 03109004a वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति 03109004c सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः 03109005a एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः 03109005c लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् 03109006 लोमश उवाच 03109006a यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन 03109006c तदेकाग्रमना राजन्निबोध गदतो मम 03109007a अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः 03109007c अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् 03109008a स वै संभाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह 03109008c य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा 03109009a वातं चाहूय मा शब्दमित्युवाच स तापसः 03109009c व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते 03109010a एवमेतानि कर्माणि राजंस्तेन महर्षिणा 03109010c कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् 03109011a नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः 03109011c अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः 03109012a ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः 03109012c दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् 03109013a तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा 03109013c नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् 03109014a नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः 03109014c आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव 03109015a इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् 03109015c तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत 03109016a कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् 03109016c यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते 03109017a देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत 03109017c तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः 03109018a इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 03109018c कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः 03109019a ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि 03109019c विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् 03109020 वैशंपायन उवाच 03109020a ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः 03109020c जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् 03110001 लोमश उवाच 03110001a एषा देवनदी पुण्या कौशिकी भरतर्षभ 03110001c विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते 03110002a आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः 03110002c ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः 03110003a तपसो यः प्रभावेन वर्षयामास वासवम् 03110003c अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा 03110004a मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः 03110004c विषये लोमपादस्य यश्चकाराद्भुतं महत् 03110005a निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः 03110005c लोमपादो दुहितरं सावित्रीं सविता यथा 03110006 युधिष्ठिर उवाच 03110006a ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः 03110006c विरुद्धे योनिसंसर्गे कथं च तपसा युतः 03110007a किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः 03110007c अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा 03110008a कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता 03110008c लोभयामास या चेतो मृगभूतस्य तस्य वै 03110009a लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः 03110009c कथं वै विषये तस्य नावर्षत्पाकशासनः 03110010a एतन्मे भगवन्सर्वं विस्तरेण यथातथम् 03110010c वक्तुमर्हसि शुश्रूषोरृश्यशृङ्गस्य चेष्टितम् 03110011 लोमश उवाच 03110011a विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः 03110011c अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः 03110012a शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् 03110012c महाह्रदे महातेजा बालः स्थविरसंमतः 03110013a महाह्रदं समासाद्य काश्यपस्तपसि स्थितः 03110013c दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसंमतः 03110014a तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् 03110014c अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा 03110015a सह तोयेन तृषिता सा गर्भिण्यभवन्नृप 03110015c अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् 03110016a तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः 03110016c ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत 03110017a तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः 03110017c तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् 03110018a न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः 03110018c तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप 03110019a एतस्मिन्नेव काले तु सखा दशरथस्य वै 03110019c लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् 03110020a तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः 03110020c स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः 03110021a पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया 03110021c न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः 03110022a स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः 03110022c प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः 03110023a कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् 03110023c तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः 03110024a तत्र त्वेको मुनिवरस्तं राजानमुवाच ह 03110024c कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर 03110025a ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव 03110025c वानेयमनभिज्ञं च नारीणामार्जवे रतम् 03110026a स चेदवतरेद्राजन्विषयं ते महातपाः 03110026c सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः 03110027a एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः 03110027c स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु 03110027e राजानमागतं दृष्ट्वा प्रतिसंजगृहुः प्रजाः 03110028a ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् 03110028c ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये 03110029a सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः 03110029c शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः 03110030a तत आनाययामास वारमुख्या महीपतिः 03110030c वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः 03110031a ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः 03110031c लोभयित्वाभिविश्वास्य विषयं मम शोभनाः 03110032a ता राजभयभीताश्च शापभीताश्च योषितः 03110032c अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः 03110033a तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् 03110033c प्रयतिष्ये महाराज तमानेतुं तपोधनम् 03110034a अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि 03110034c ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् 03110035a तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः 03110035c धनं च प्रददौ भूरि रत्नानि विविधानि च 03110036a ततो रूपेण संपन्ना वयसा च महीपते 03110036c स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा 03111001 लोमश उवाच 03111001a सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये 03111001c संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत 03111002a नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् 03111002c नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः 03111003a अतीव रमणीयं तदतीव च मनोहरम् 03111003c चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् 03111004a ततो निबध्य तां नावमदूरे काश्यपाश्रमात् 03111004c चारयामास पुरुषैर्विहारं तस्य वै मुनेः 03111005a ततो दुहितरं वेश्या समाधायेतिकृत्यताम् 03111005c दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् 03111006a सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ 03111006c आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् 03111007 वेश्योवाच 03111007a कच्चिन्मुने कुशलं तापसानां; कच्चिच्च वो मूलफलं प्रभूतम् 03111007c कच्चिद्भवान्रमते चाश्रमेऽस्मिं;स्त्वां वै द्रष्टुं सांप्रतमागतोऽस्मि 03111008a कच्चित्तपो वर्धते तापसानां; पिता च ते कच्चिदहीनतेजाः 03111008c कच्चित्त्वया प्रीयते चैव विप्र; कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग 03111009 ऋश्यशृङ्ग उवाच 03111009a ऋद्धो भवाञ्ज्योतिरिव प्रकाशते; मन्ये चाहं त्वामभिवादनीयम् 03111009c पाद्यं वै ते संप्रदास्यामि कामा;द्यथाधर्मं फलमूलानि चैव 03111010a कौश्यां बृस्यामास्स्व यथोपजोषं; कृष्णाजिनेनावृतायां सुखायाम् 03111010c क्व चाश्रमस्तव किं नाम चेदं; व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् 03111011 वेश्योवाच 03111011a ममाश्रमः काश्यपपुत्र रम्य;स्त्रियोजनं शैलमिमं परेण 03111011c तत्र स्वधर्मोऽनभिवादनं नो; न चोदकं पाद्यमुपस्पृशामः 03111012 ऋश्यशृङ्ग उवाच 03111012a फलानि पक्वानि ददानि तेऽहं; भल्लातकान्यामलकानि चैव 03111012c परूषकानीङ्गुदधन्वनानि; प्रियालानां कामकारं कुरुष्व 03111013 लोमश उवाच 03111013a सा तानि सर्वाणि विसर्जयित्वा; भक्षान्महार्हान्प्रददौ ततोऽस्मै 03111013c तान्यृश्यशृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर्हि 03111014a ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति 03111014c पानानि चाग्र्याणि ततो मुमोद; चिक्रीड चैव प्रजहास चैव 03111015a सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव 03111015c गात्रैश्च गात्राणि निषेवमाणा; समाश्लिषच्चासकृदृश्यशृङ्गम् 03111016a सर्जानशोकांस्तिलकांश्च वृक्षा;न्प्रपुष्पितानवनाम्यावभज्य 03111016c विलज्जमानेव मदाभिभूता; प्रलोभयामास सुतं महर्षेः 03111017a अथर्श्यशृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायमस्य 03111017c अवेक्षमाणा शनकैर्जगाम; कृत्वाग्निहोत्रस्य तदापदेशम् 03111018a तस्यां गतायां मदनेन मत्तो; विचेतनश्चाभवदृश्यशृङ्गः 03111018c तामेव भावेन गतेन शून्यो; विनिःश्वसन्नार्तरूपो बभूव 03111019a ततो मुहूर्ताद्धरिपिङ्गलाक्षः; प्रवेष्टितो रोमभिरा नखाग्रात् 03111019c स्वाध्यायवान्वृत्तसमाधियुक्तो; विभाण्डकः काश्यपः प्रादुरासीत् 03111020a सोऽपश्यदासीनमुपेत्य पुत्रं; ध्यायन्तमेकं विपरीतचित्तम् 03111020c विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं; विभाण्डकः पुत्रमुवाच दीनम् 03111021a न कल्प्यन्ते समिधः किं नु तात; कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य 03111021c सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः; कच्चित्सवत्सा च कृता त्वयाद्य 03111022a न वै यथापूर्वमिवासि पुत्र; चिन्तापरश्चासि विचेतनश्च 03111022c दीनोऽतिमात्रं त्वमिहाद्य किं नु; पृच्छामि त्वां क इहाद्यागतोऽभूत् 03112001 ऋश्यशृङ्ग उवाच 03112001a इहागतो जटिलो ब्रह्मचारी; न वै ह्रस्वो नातिदीर्घो मनस्वी 03112001c सुवर्णवर्णः कमलायताक्षः; सुतः सुराणामिव शोभमानः 03112002a समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्षतरश्चकोरैः 03112002c नीलाः प्रसन्नाश्च जटाः सुगन्धा; हिरण्यरज्जुग्रथिताः सुदीर्घाः 03112003a आधाररूपा पुनरस्य कण्ठे; विभ्राजते विद्युदिवान्तरिक्षे 03112003c द्वौ चास्य पिण्डावधरेण कण्ठ;मजातरोमौ सुमनोहरौ च 03112004a विलग्नमध्यश्च स नाभिदेशे; कटिश्च तस्यातिकृतप्रमाणा 03112004c तथास्य चीरान्तरिता प्रभाति; हिरण्मयी मेखला मे यथेयम् 03112005a अन्यच्च तस्याद्भुतदर्शनीयं; विकूजितं पादयोः संप्रभाति 03112005c पाण्योश्च तद्वत्स्वनवन्निबद्धौ; कलापकावक्षमाला यथेयम् 03112006a विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः 03112006c चीराणि तस्याद्भुतदर्शनानि; नेमानि तद्वन्मम रूपवन्ति 03112007a वक्त्रं च तस्याद्भुतदर्शनीयं; प्रव्याहृतं ह्लादयतीव चेतः 03112007c पुंस्कोकिलस्येव च तस्य वाणी; तां शृण्वतो मे व्यथितोऽन्तरात्मा 03112008a यथा वनं माधवमासि मध्ये; समीरितं श्वसनेनाभिवाति 03112008c तथा स वात्युत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात 03112009a सुसंयताश्चापि जटा विभक्ता; द्वैधीकृता भान्ति समा ललाटे 03112009c कर्णौ च चित्रैरिव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः 03112010a तथा फलं वृत्तमथो विचित्रं; समाहनत्पाणिना दक्षिणेन 03112010c तद्भूमिमासाद्य पुनः पुनश्च; समुत्पतत्यद्भुतरूपमुच्चैः 03112011a तच्चापि हत्वा परिवर्ततेऽसौ; वातेरितो वृक्ष इवावघूर्णः 03112011c तं प्रेक्ष्य मे पुत्रमिवामराणां; प्रीतिः परा तात रतिश्च जाता 03112012a स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम् 03112012c वक्त्रेण वक्त्रं प्रणिधाय शब्दं; चकार तन्मेऽजनयत्प्रहर्षम् 03112013a न चापि पाद्यं बहु मन्यतेऽसौ; फलानि चेमानि मयाहृतानि 03112013c एवंव्रतोऽस्मीति च मामवोच;त्फलानि चान्यानि नवान्यदान्मे 03112014a मयोपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम् 03112014c न चापि तेषां त्वगियं यथैषां; साराणि नैषामिव सन्ति तेषाम् 03112015a तोयानि चैवातिरसानि मह्यं; प्रादात्स वै पातुमुदाररूपः 03112015c पीत्वैव यान्यभ्यधिकः प्रहर्षो; ममाभवद्भूश्चलितेव चासीत् 03112016a इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्योद्ग्रथितानि पट्टैः 03112016c यानि प्रकीर्येह गतः स्वमेव; स आश्रमं तपसा द्योतमानः 03112017a गतेन तेनास्मि कृतो विचेता; गात्रं च मे संपरितप्यतीव 03112017c इच्छामि तस्यान्तिकमाशु गन्तुं; तं चेह नित्यं परिवर्तमानम् 03112018a गच्छामि तस्यान्तिकमेव तात; का नाम सा व्रतचर्या च तस्य 03112018c इच्छाम्यहं चरितुं तेन सार्धं; यथा तपः स चरत्युग्रकर्मा 03113001 विभाण्डक उवाच 03113001a रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन 03113001c अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति 03113002a सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः 03113002c सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु 03113003a न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथंचित् 03113003c कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप 03113004a असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि 03113004c माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति 03113005 लोमश उवाच 03113005a रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव 03113005c नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय 03113006a यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन 03113006c तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् 03113007a दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; संभ्रान्तरूपोऽभ्यपतत्तदानीम् 03113007c प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति 03113008a ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम् 03113008c प्रलोभयन्त्यो विविधैरुपायै;राजग्मुरङ्गाधिपतेः समीपम् 03113009a संस्थाप्य तामाश्रमदर्शने तु; संतारितां नावमतीव शुभ्राम् 03113009c तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् 03113010a अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम् 03113010c ददर्श देवं सहसा प्रवृष्ट;मापूर्यमाणं च जगज्जलेन 03113011a स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम् 03113011c क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च 03113012a विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान् 03113012c समादिशत्पुत्रगृद्धी महर्षि;र्विभाण्डकः परिपृच्छेद्यदा वः 03113013a स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च 03113013c किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः 03113014a अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य 03113014c अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः 03113015a ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम् 03113015c जगाम चम्पां प्रदिधक्षमाण;स्तमङ्गराजं विषयं च तस्य 03113016a स वै श्रान्तः क्षुधितः काश्यपस्ता;न्घोषान्समासादितवान्समृद्धान् 03113016c गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र 03113017a संप्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः 03113017c ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य 03113018a देशे तु देशे तु स पूज्यमान;स्तांश्चैव शृण्वन्मधुरान्प्रलापान् 03113018c प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् 03113019a संपूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम् 03113019c शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव 03113020a ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः 03113020c चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र 03113021a स तत्र निक्षिप्य सुतं महर्षि;रुवाच सूर्याग्निसमप्रभावम् 03113021c जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा 03113022a स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव 03113022c शान्ता चैनं पर्यचरद्यथाव;त्खे रोहिणी सोममिवानुकूला 03113023a अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम् 03113023c नलस्य वा दमयन्ती यथाभू;द्यथा शची वज्रधरस्य चैव 03113024a नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ 03113024c तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र 03113025a तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः 03113025c अत्र स्नातः कृतकृत्यो विशुद्ध;स्तीर्थान्यन्यान्यनुसंयाहि राजन् 03114001 वैशंपायन उवाच 03114001a ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय 03114001c आनुपूर्व्येण सर्वाणि जगामायतनान्युत 03114002a स सागरं समासाद्य गङ्गायाः संगमे नृप 03114002c नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् 03114003a ततः समुद्रतीरेण जगाम वसुधाधिपः 03114003c भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत 03114004 लोमश उवाच 03114004a एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी 03114004c यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै 03114005a ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् 03114005c उत्तरं तीरमेतद्धि सततं द्विजसेवितम् 03114006a समेन देवयानेन पथा स्वर्गमुपेयुषः 03114006c अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे 03114007a अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे 03114007c रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् 03114008a हृते पशौ तदा देवास्तमूचुर्भरतर्षभ 03114008c मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः 03114009a ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् 03114009c इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा 03114010a ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् 03114010c अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर 03114011a अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् 03114011c देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् 03114012a इमां गाथामत्र गायन्नपः स्पृशति यो नरः 03114012c देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते 03114013 वैशंपायन उवाच 03114013a ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा 03114013c अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् 03114014 युधिष्ठिर उवाच 03114014a उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन 03114014c मानुषादस्मि विषयादपेतः पश्य लोमश 03114015a सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत 03114015c वैखानसानां जपतामेष शब्दो महात्मनाम् 03114016 लोमश उवाच 03114016a त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर 03114016c यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते 03114017a एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते 03114017c यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् 03114018a यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने 03114018c सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा 03114019a अवासीदच्च कौन्तेय दत्तमात्रा मही तदा 03114019c उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् 03114020a न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि 03114020c प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् 03114021a विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः 03114021c प्रसादयां बभूवाथ ततो भूमिं विशां पते 03114022a ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव 03114022c पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ 03114023a सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा 03114023c आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि 03114024a अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य 03114024c स्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ 03114025a अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः 03114025c एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह 03114026 वैशंपायन उवाच 03114026a ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत् 03114026c कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास 03115001 वैशंपायन उवाच 03115001a स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः 03115001c तापसानां परं चक्रे सत्कारं भ्रातृभिः सह 03115002a लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् 03115002c भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् 03115003a तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः 03115003c रामस्यानुचरं वीरमपृच्छदकृतव्रणम् 03115004a कदा नु रामो भगवांस्तापसान्दर्शयिष्यति 03115004c तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् 03115005 अकृतव्रण उवाच 03115005a आयानेवासि विदितो रामस्य विदितात्मनः 03115005c प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति 03115006a चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः 03115006c अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी 03115007 युधिष्ठिर उवाच 03115007a भवाननुगतो वीरं जामदग्न्यं महाबलम् 03115007c प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः 03115008a स भवान्कथयत्वेतद्यथा रामेण निर्जिताः 03115008c आहवे क्षत्रियाः सर्वे कथं केन च हेतुना 03115009 अकृतव्रण उवाच 03115009a कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः 03115009c गाधीति विश्रुतो लोके वनवासं जगाम सः 03115010a वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा 03115010c ऋचीको भार्गवस्तां च वरयामास भारत 03115011a तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् 03115011c उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् 03115012a एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115012c सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम 03115013a न चापि भगवान्वाच्यो दीयतामिति भार्गव 03115013c देया मे दुहिता चेयं त्वद्विधाय महात्मने 03115014 ऋचीक उवाच 03115014a एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115014c दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते 03115015 अकृतव्रण उवाच 03115015a स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् 03115015c एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 03115015e सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् 03115016a तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा 03115016c तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः 03115017a गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा 03115017c ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा 03115017e लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः 03115018a धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः 03115018c यथाकामं यथाजोषं तया रेमे सुमध्यया 03115019a तं विवाहे कृते राजन्सभार्यमवलोककः 03115019c आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च 03115020a भार्यापती तमासीनं गुरुं सुरगणार्चितम् 03115020c अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा 03115021a ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् 03115021c वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् 03115022a सा वै प्रसादयामास तं गुरुं पुत्रकारणात् 03115022c आत्मनश्चैव मातुश्च प्रसादं च चकार सः 03115023 भृगुरुवाच 03115023a ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै 03115023c आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् 03115024a आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् 03115024c कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् 03115025a अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् 03115025c ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति 03115026a क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् 03115026c भविष्यति महावीर्यः साधूनां मार्गमास्थितः 03115027a ततः प्रसादयामास श्वशुरं सा पुनः पुनः 03115027c न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति 03115028a एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता 03115028c जमदग्निं ततः पुत्रं सा जज्ञे काल आगते 03115028e तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् 03115029a स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै 03115029c बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत 03115030a तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ 03115030c चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् 03116001 अकृतव्रण उवाच 03116001a स वेदाध्ययने युक्तो जमदग्निर्महातपाः 03116001c तपस्तेपे ततो देवान्नियमाद्वशमानयत् 03116002a स प्रसेनजितं राजन्नधिगम्य नराधिपम् 03116002c रेणुकां वरयामास स च तस्मै ददौ नृपः 03116003a रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः 03116003c आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया 03116004a तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः 03116004c सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः 03116005a फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै 03116005c रेणुका स्नातुमगमत्कदाचिन्नियतव्रता 03116006a सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् 03116006c ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया 03116007a क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् 03116007c ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका 03116008a व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना 03116008c प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत 03116009a स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् 03116009c धिक्शब्देन महातेजा गर्हयामास वीर्यवान् 03116010a ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः 03116010c आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा 03116011a तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् 03116011c न च ते जातसंमोहाः किंचिदूचुर्विचेतसः 03116012a ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः 03116012c मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः 03116013a ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा 03116013c तमुवाच महामन्युर्जमदग्निर्महातपाः 03116014a जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः 03116014c तत आदाय परशुं रामो मातुः शिरोऽहरत् 03116015a ततस्तस्य महाराज जमदग्नेर्महात्मनः 03116015c कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् 03116016a ममेदं वचनात्तात कृतं ते कर्म दुष्करम् 03116016c वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा 03116017a स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै 03116017c पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा 03116018a अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत 03116018c ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः 03116019a कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो 03116019c अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत 03116020a तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् 03116020c स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् 03116021a प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् 03116021c जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् 03116022a आगताय च रामाय तदाचष्ट पिता स्वयम् 03116022c गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् 03116023a स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् 03116023c तस्याथ युधि विक्रम्य भार्गवः परवीरहा 03116024a चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् 03116024c सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः 03116025a अर्जुनस्याथ दायादा रामेण कृतमन्यवः 03116025c आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् 03116026a ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् 03116026c असकृद्राम रामेति विक्रोशन्तमनाथवत् 03116027a कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर 03116027c घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः 03116028a अपक्रान्तेषु चैतेषु जमदग्नौ तथागते 03116028c समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः 03116029a स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् 03116029c अनर्हन्तं तथाभूतं विललाप सुदुःखितः 03117001 राम उवाच 03117001a ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः 03117001c कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः 03117002a धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे 03117002c मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः 03117003a किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः 03117003c अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः 03117004a किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च 03117004c अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः 03117005 अकृतव्रण उवाच 03117005a विलप्यैवं स करुणं बहु नानाविधं नृप 03117005c प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः 03117006a ददाह पितरं चाग्नौ रामः परपुरंजयः 03117006c प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत 03117007a संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् 03117007c जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः 03117008a तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ 03117008c तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः 03117009a त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 03117009c समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 03117010a स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः 03117010c साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् 03117011a ततो यज्ञेन महता जामदग्न्यः प्रतापवान् 03117011c तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ 03117012a वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने 03117012c दशव्यामायतां कृत्वा नवोत्सेधां विशां पते 03117013a तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा 03117013c व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः 03117014a स प्रदाय महीं तस्मै कश्यपाय महात्मने 03117014c अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः 03117015a एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः 03117015c पृथिवी चापि विजिता रामेणामिततेजसा 03117016 वैशंपायन उवाच 03117016a ततश्चतुर्दशीं रामः समयेन महामनाः 03117016c दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् 03117017a स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः 03117017c द्विजानां च परां पूजां चक्रे नृपतिसत्तमः 03117018a अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः 03117018c महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः 03118001 वैशंपायन उवाच 03118001a गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा 03118001c सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य 03118002a स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः 03118002c समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः 03118003a तत्रापि चाप्लुत्य महानुभावः; संतर्पयामास पितॄन्सुरांश्च 03118003c द्विजातिमुख्येषु धनं विसृज्य; गोदावरीं सागरगामगच्छत् 03118004a ततो विपाप्मा द्रविडेषु राज;न्समुद्रमासाद्य च लोकपुण्यम् 03118004c अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श 03118005a तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम् 03118005c संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे 03118006a स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च 03118006c संपूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् 03118007a ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य 03118007c हृष्टः सह भ्रातृभिरर्जुनस्य; संकीर्तयामास गवां प्रदानम् 03118008a स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन् 03118008c क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श 03118009a तत्रोदधेः कंचिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद 03118009c तप्तं सुरैर्यत्र तपः पुरस्ता;दिष्टं तथा पुण्यतमैर्नरेन्द्रैः 03118010a स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः 03118010c ऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृदर्चनीयाम् 03118011a ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च 03118011c वैवस्वतादित्यधनेश्वराणा;मिन्द्रस्य विष्णोः सवितुर्विभोश्च 03118012a भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव 03118012c धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव 03118013a सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये 03118013c पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि 03118014a तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि 03118014c तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम 03118015a स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः 03118015c द्विजैः पृथिव्यां प्रथितं महद्भि;स्तीर्थं प्रभासं समुपाजगाम 03118016a तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च 03118016c संतर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन 03118017a स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम् 03118017c समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः 03118018a तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च 03118018c तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् 03118019a ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान् 03118019c अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् 03118020a ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् 03118020c अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः 03118021a ते चापि सर्वान्प्रतिपूज्य पार्थां;स्तैः सत्कृताः पाण्डुसुतैस्तथैव 03118021c युधिष्ठिरं संपरिवार्य राज;न्नुपाविशन्देवगणा यथेन्द्रम् 03118022a तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः 03118022c अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् 03118023a श्रुत्वा तु ते तस्य वचः प्रतीता;स्तांश्चापि दृष्ट्वा सुकृशानतीव 03118023c नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः 03119001 जनमेजय उवाच 03119001a प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा 03119001c किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन 03119002a ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः 03119002c वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् 03119003 वैशंपायन उवाच 03119003a प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः 03119003c वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे 03119004a ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः 03119004c वनमाली हली रामो बभाषे पुष्करेक्षणम् 03119005a न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय 03119005c युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः 03119006a दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति 03119006c धर्मादधर्मश्चरितो गरीया;नितीव मन्येत नरोऽल्पबुद्धिः 03119007a दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये 03119007c किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः संजनिता नराणाम् 03119008a अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता 03119008c चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् 03119009a कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः 03119009c प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् 03119010a किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः 03119010c पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् 03119011a नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम् 03119011c जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् 03119012a नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान् 03119012c विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म 03119013a व्यूढोत्तरांसान्पृथुलोहिताक्षा;न्नेमान्स्म पृच्छन्स शृणोति नूनम् 03119013c प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् 03119014a योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात् 03119014c श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् 03119015a स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः 03119015c वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे 03119016a न ह्यस्य वीर्येण बलेन कश्चि;त्समः पृथिव्यां भविता नरेषु 03119016c शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् 03119017a प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु 03119017c स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः 03119018a यो दन्तकूरे व्यजयन्नृदेवा;न्समागतान्दाक्षिणात्यान्महीपान् 03119018c तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् 03119019a यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः 03119019c सोऽयं वने मूलफलेन जीव;ञ्जटी चरत्यद्य मलाचिताङ्गः 03119020a सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या 03119020c सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा 03119021a त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च 03119021c एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः 03119022a जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते 03119022c दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला 03120001 सात्यकिरुवाच 03120001a न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे 03120001c समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किंचित् 03120002a ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते 03120002c तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः 03120003a येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके 03120003c ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति 03120004a कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ 03120004c वसत्यरण्ये सह सोदरीयै;स्त्रैलोक्यनाथानधिगम्य नाथान् 03120005a निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा 03120005c यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः 03120006a त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा 03120006c स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः 03120007a भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः 03120007c यदर्थमभ्युद्यतमुत्तमं त;त्करोति कर्माग्र्यमपारणीयम् 03120008a तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै;र्विहत्य सर्वाणि रणेऽभिभूय 03120008c कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम 03120009a खड्गेन चाहं निशितेन संख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य 03120009c ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् 03120010a आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः 03120010c निघ्नन्तमेकं कुरुयोधमुख्या;न्काले महाकक्षमिवान्तकाग्निः 03120011a प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः 03120011c जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः 03120012a साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य 03120012c न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य 03120013a एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम् 03120013c वृत्तोरुरत्यायतपीनबाहु;रेतेन संख्ये निहतोऽश्वचक्रः 03120013e को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत 03120014a यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत 03120014c तथा प्रविश्यान्तरमस्य संख्ये; को नाम जीवन्पुनराव्रजेत 03120015a द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम् 03120015c सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः 03120016a किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु 03120016c आत्तायुधस्योत्तमबाणपाणे;श्चक्रायुधस्याप्रतिमस्य युद्धे 03120017a ततोऽनिरुद्धोऽप्यसिचर्मपाणि;र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः 03120017c हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु 03120018a गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च संख्ये निशठः कुमारः 03120018c रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म 03120019a सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना 03120019c हत्वा रणे तान्धृतराष्ट्रपुत्राँ;ल्लोके यशः स्फीतमुपाकरोतु 03120020a ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः 03120020c युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन 03120021a अस्मत्प्रमुक्तैर्विशिखैर्जितारि;स्ततो महीं भोक्ष्यति धर्मराजः 03120021c निर्धार्तराष्ट्रां हतसूतपुत्रा;मेतद्धि नः कृत्यतमं यशस्यम् 03120022 वासुदेव उवाच 03120022a असंशयं माधव सत्यमेत;द्गृह्णीम ते वाक्यमदीनसत्त्व 03120022c स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथंचित् 03120023a न ह्येष कामान्न भयान्न लोभा;द्युधिष्ठिरो जातु जह्यात्स्वधर्मम् 03120023c भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् 03120024a उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनंजयश्च 03120024c कस्मान्न कृत्स्नां पृथिवीं प्रशासे;न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् 03120025a यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च 03120025c योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् 03120026 युधिष्ठिर उवाच 03120026a नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम् 03120026c कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् 03120027a यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य 03120027c तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च 03120028a प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः 03120028c धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् 03120029 वैशंपायन उवाच 03120029a तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिष्वज्य शिशूंश्च सर्वान् 03120029c यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसंचचार 03120030a विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम् 03120030c सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास 03121001 लोमश उवाच 03121001a नृगेण यजमानेन सोमेनेह पुरंदरः 03121001c तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् 03121002a इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च 03121002c इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः 03121003a आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् 03121003c तर्पयामास सोमेन हयमेधेषु सप्तसु 03121004a तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् 03121004c वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे 03121005a तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः 03121005c सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः 03121006a तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् 03121006c स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर 03121007a तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः 03121007c अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 03121008a सिकता वा यथा लोके यथा वा दिवि तारकाः 03121008c यथा वा वर्षतो धारा असंख्येयाश्च केनचित् 03121009a तथैव तदसंख्येयं धनं यत्प्रददौ गयः 03121009c सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु 03121010a भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् 03121010c न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः 03121011a हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा 03121011c ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् 03121012a अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः 03121012c गयस्य यजमानस्य तत्र तत्र विशां पते 03121013a स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत 03121013c सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् 03121014a तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ 03121014c उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि 03121015 वैशंपायन उवाच 03121015a स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह 03121015c वैडूर्यपर्वतं चैव नर्मदां च महानदीम् 03121015e समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः 03121016a ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः 03121016c तीर्थानि रमणीयानि तत्र तत्र विशां पते 03121017a यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह 03121017c ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः 03121018 लोमश उवाच 03121018a देवानामेति कौन्तेय तथा राज्ञां सलोकताम् 03121018c वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च 03121019a संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च 03121019c एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते 03121020a एष शर्यातियज्ञस्य देशस्तात प्रकाशते 03121020c साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः 03121021a चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः 03121021c संस्तम्भयामास च तं वासवं च्यवनः प्रभुः 03121021e सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् 03121022 युधिष्ठिर उवाच 03121022a कथं विष्टम्भितस्तेन भगवान्पाकशासनः 03121022c किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः 03121023a नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ 03121023c एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम 03122001 लोमश उवाच 03122001a भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः 03122001c समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः 03122002a स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव 03122002c अतिष्ठत्सुबहून्कालानेकदेशे विशां पते 03122003a स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः 03122003c कालेन महता राजन्समाकीर्णः पिपीलिकैः 03122004a तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः 03122004c तप्यति स्म तपो राजन्वल्मीकेन समावृतः 03122005a अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः 03122005c आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् 03122006a तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः 03122006c एकैव च सुता शुभ्रा सुकन्या नाम भारत 03122007a सा सखीभिः परिवृता सर्वाभरणभूषिता 03122007c चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् 03122008a सा चैव सुदती तत्र पश्यमाना मनोरमान् 03122008c वनस्पतीन्विचिन्वन्ती विजहार सखीवृता 03122009a रूपेण वयसा चैव मदनेन मदेन च 03122009c बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः 03122010a तां सखीरहितामेकामेकवस्त्रामलंकृताम् 03122010c ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् 03122011a तां पश्यमानो विजने स रेमे परमद्युतिः 03122011c क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः 03122011e तामाबभाषे कल्याणीं सा चास्य न शृणोति वै 03122012a ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी 03122012c कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता 03122013a किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने 03122013c अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् 03122013e ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् 03122014a ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् 03122014c तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः 03122015a तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः 03122015c केनापकृतमद्येह भार्गवस्य महात्मनः 03122015e ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् 03122016a तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् 03122016c सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु 03122017a ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् 03122017c पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते 03122018a आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् 03122018c पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् 03122019a मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् 03122019c खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् 03122020a एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् 03122020c तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् 03122021a अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः 03122021c अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि 03122022a ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा 03122022c रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् 03122023a तामेव प्रतिगृह्याहं राजन्दुहितरं तव 03122023c क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते 03122024a ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् 03122024c ददौ दुहितरं तस्मै च्यवनाय महात्मने 03122025a प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह 03122025c प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् 03122026a सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता 03122026c नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च 03122027a अग्नीनामतिथीनां च शुश्रूषुरनसूयिका 03122027c समाराधयत क्षिप्रं च्यवनं सा शुभानना 03123001 लोमश उवाच 03123001a कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप 03123001c कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् 03123002a तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव 03123002c ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् 03123003a कस्य त्वमसि वामोरु किं वने वै करोषि च 03123003c इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने 03123004a ततः सुकन्या संवीता तावुवाच सुरोत्तमौ 03123004c शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् 03123005a अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु 03123005c कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने 03123006a भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा 03123006c न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि 03123007a सर्वाभरणसंपन्ना परमाम्बरधारिणी 03123007c शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी 03123008a कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् 03123008c त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् 03123009a असमर्थं परित्राणे पोषणे च शुचिस्मिते 03123009c साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः 03123009e पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः 03123010a एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् 03123010c रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः 03123011a तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ 03123011c युवानं रूपसंपन्नं करिष्यावः पतिं तव 03123012a ततस्तस्यावयोश्चैव पतिमेकतमं वृणु 03123012c एतेन समयेनैनमामन्त्रय वरानने 03123013a सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम् 03123013c उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति 03123014a तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति 03123014c भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् 03123015a श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति 03123015c ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः 03123016a ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह 03123016c अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो 03123017a ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः 03123017c दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः 03123017e तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः 03123018a तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे 03123018c अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि 03123018e यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने 03123019a सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् 03123019c निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् 03123020a लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् 03123020c हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः 03123021a यथाहं रूपसंपन्नो वयसा च समन्वितः 03123021c कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् 03123022a तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ 03123022c मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् 03123023a तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः 03123023c च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः 03124001 लोमश उवाच 03124001a ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् 03124001c संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् 03124002a च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव 03124002c रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव 03124003a ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः 03124003c उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः 03124004a अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् 03124004c याजयिष्यामि राजंस्त्वां संभारानुपकल्पय 03124005a ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः 03124005c च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् 03124006a प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् 03124006c कारयामास शर्यातिर्यज्ञायतनमुत्तमम् 03124007a तत्रैनं च्यवनो राजन्याजयामास भार्गवः 03124007c अद्भुतानि च तत्रासन्यानि तानि निबोध मे 03124008a अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा 03124008c तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् 03124009 इन्द्र उवाच 03124009a उभावेतौ न सोमार्हौ नासत्याविति मे मतिः 03124009c भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः 03124010 च्यवन उवाच 03124010a मावमंस्था महात्मानौ रूपद्रविणवत्तरौ 03124010c यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् 03124011a ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् 03124011c अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर 03124012 इन्द्र उवाच 03124012a चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ 03124012c लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः 03124013 लोमश उवाच 03124013a एतदेव यदा वाक्यमाम्रेडयति वासवः 03124013c अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः 03124014a ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा 03124014c समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् 03124015a आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् 03124015c वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् 03124016a एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः 03124016c जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् 03124017a ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः 03124017c तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः 03124018a संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् 03124018c कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः 03124019a ततः कृत्या समभवदृषेस्तस्य तपोबलात् 03124019c मदो नाम महावीर्यो बृहत्कायो महासुरः 03124019e शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः 03124020a तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् 03124020c हनुरेका स्थिता तस्य भूमावेका दिवं गता 03124021a चतस्र आयता दंष्ट्रा योजनानां शतं शतम् 03124021c इतरे त्वस्य दशना बभूवुर्दशयोजनाः 03124021e प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः 03124022a बाहू पर्वतसंकाशावायतावयुतं समौ 03124022c नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् 03124023a लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया 03124023c व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् 03124024a स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् 03124024c महता घोररूपेण लोकाञ्शब्देन नादयन् 03125001 लोमश उवाच 03125001a तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः 03125001c आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् 03125002a भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः 03125002c ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः 03125003a सोमार्हावश्विनावेतावद्य प्रभृति भार्गव 03125003c भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते 03125004a न ते मिथ्या समारम्भो भवत्वेष परो विधिः 03125004c जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि 03125005a सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया 03125005c भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव 03125006a सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति 03125006c अतो मयैतद्विहितं तव वीर्यप्रकाशनम् 03125006e तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि 03125007a एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः 03125007c स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् 03125008a मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् 03125008c अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः 03125009a तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना 03125009c अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् 03125010a विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः 03125010c सुकन्यया सहारण्ये विजहारानुरक्तया 03125011a तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते 03125011c अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय 03125012a एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत 03125012c सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् 03125012e पुष्करेषु महाराज सर्वेषु च जलं स्पृश 03125013a आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् 03125013c सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् 03125013e चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर 03125014a एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते 03125014c वैखानसाश्च ऋषयो वालखिल्यास्तथैव च 03125015a शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च 03125015c सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश 03125016a शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप 03125016c नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् 03125017a इह नित्यशया देवाः पितरश्च महर्षिभिः 03125017c आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर 03125018a इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते 03125018c यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः 03125019a यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन 03125019c सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः 03125020a एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप 03125020c यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः 03125021a इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः 03125021c मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः 03125022a एषा सा यमुना राजन्राजर्षिगणसेविता 03125022c नानायज्ञचिता राजन्पुण्या पापभयापहा 03125023a अत्र राजा महेष्वासो मान्धातायजत स्वयम् 03125023c सहदेवश्च कौन्तेय सोमको ददतां वरः 03126001 युधिष्ठिर उवाच 03126001a मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः 03126001c कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः 03126001e कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः 03126002a यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः 03126002c एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः 03126003a यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः 03126003c जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् 03126004 लोमश उवाच 03126004a शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः 03126004c यथा मान्धातृशब्दो वै लोकेषु परिगीयते 03126005a इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः 03126005c सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः 03126006a अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः 03126006c अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः 03126007a अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः 03126007c मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह 03126008a शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना 03126008c पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः 03126009a तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः 03126009c इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् 03126010a संभृतो मन्त्रपूतेन वारिणा कलशो महान् 03126010c तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः 03126010e यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् 03126011a तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः 03126011c रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् 03126012a शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः 03126012c तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत 03126013a तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा 03126013c नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् 03126014a ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः 03126014c अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् 03126015a स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः 03126015c निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा 03126016a ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः 03126016c निस्तोयं तं च कलशं ददृशुः सर्व एव ते 03126017a कस्य कर्मेदमिति च पर्यपृच्छन्समागताः 03126017c युवनाश्वो मयेत्येव सत्यं समभिपद्यत 03126018a न युक्तमिति तं प्राह भगवान्भार्गवस्तदा 03126018c सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः 03126019a मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् 03126019c पुत्रार्थं तव राजर्षे महाबलपराक्रम 03126020a महाबलो महावीर्यस्तपोबलसमन्वितः 03126020c यः शक्रमपि वीर्येण गमयेद्यमसादनम् 03126021a अनेन विधिना राजन्मयैतदुपपादितम् 03126021c अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै 03126022a न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा 03126022c नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि 03126023a पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः 03126023c आपस्त्वया महाराज मत्तपोवीर्यसंभृताः 03126023e ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि 03126024a विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् 03126024c यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् 03126025a ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः 03126025c वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः 03126026a निश्चक्राम महातेजा न च तं मृत्युराविशत् 03126026c युवनाश्वं नरपतिं तदद्भुतमिवाभवत् 03126027a ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् 03126027c प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे 03126028a मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा 03126028c मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः 03126029a प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा 03126029c अवर्धत महीपाल किष्कूणां च त्रयोदश 03126030a वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् 03126030c उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः 03126031a धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये 03126031c अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् 03126032a सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत 03126032c धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः 03126033a तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः 03126033c रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे 03126034a तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप 03126034c तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः 03126035a चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् 03126035c शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः 03126036a एकाह्ना पृथिवी तेन धर्मनित्येन धीमता 03126036c निर्जिता शासनादेव सरत्नाकरपत्तना 03126037a तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् 03126037c चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् 03126038a तेन पद्मसहस्राणि गवां दश महात्मना 03126038c ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते 03126039a तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना 03126039c वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः 03126040a तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् 03126040c गर्जन्निव महामेघः प्रमथ्य निहतः शरैः 03126041a प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना 03126041c तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा 03126042a तस्यैतद्देवयजनं स्थानमादित्यवर्चसः 03126042c पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः 03126043a एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् 03126043c जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि 03127001 युधिष्ठिर उवाच 03127001a कथंवीर्यः स राजाभूत्सोमको वदतां वर 03127001c कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः 03127002 लोमश उवाच 03127002a युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः 03127002c तस्य भार्याशतं राजन्सदृशीनामभूत्तदा 03127003a स वै यत्नेन महता तासु पुत्रं महीपतिः 03127003c कंचिन्नासादयामास कालेन महता अपि 03127004a कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः 03127004c जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत 03127005a तं जातं मातरः सर्वाः परिवार्य समासते 03127005c सततं पृष्ठतः कृत्वा कामभोगान्विशां पते 03127006a ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि 03127006c स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः 03127007a ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः 03127007c परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् 03127008a तमार्तनादं सहसा शुश्राव स महीपतिः 03127008c अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः 03127009a ततः प्रस्थापयामास किमेतदिति पार्थिवः 03127009c तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति 03127010a त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः 03127010c प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः 03127011a सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः 03127011c ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् 03127012 सोमक उवाच 03127012a धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् 03127012c नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता 03127013a इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो 03127013c पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा 03127014a एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम 03127014c यतमानस्य सर्वासु किं नु दुःखमतः परम् 03127015a वयश्च समतीतं मे सभार्यस्य द्विजोत्तम 03127015c आसां प्राणाः समायत्ता मम चात्रैकपुत्रके 03127016a स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् 03127016c महता लघुना वापि कर्मणा दुष्करेण वा 03127017 ऋत्विगुवाच 03127017a अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् 03127017c यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक 03127018 सोमक उवाच 03127018a कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् 03127018c कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे 03127019 ऋत्विगुवाच 03127019a यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ 03127019c ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते 03127020a वपायां हूयमानायां धूममाघ्राय मातरः 03127020c ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् 03127021a तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः 03127021c उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति 03128001 सोमक उवाच 03128001a ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा 03128001c पुत्रकामतया सर्वं करिष्यामि वचस्तव 03128002 लोमश उवाच 03128002a ततः स याजयामास सोमकं तेन जन्तुना 03128002c मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः 03128003a हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः 03128003c तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे 03128003e सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति 03128004a कुररीणामिवार्तानामपाकृष्य तु तं सुतम् 03128004c विशस्य चैनं विधिना वपामस्य जुहाव सः 03128005a वपायां हूयमानायां गन्धमाघ्राय मातरः 03128005c आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन 03128005e सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः 03128006a ततो दशसु मासेषु सोमकस्य विशां पते 03128006c जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत 03128007a जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत 03128007c स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः 03128008a तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे 03128008c तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः 03128009a ततः स लोकमगमत्सोमकस्य गुरुः परम् 03128009c अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् 03128010a अथ तं नरके घोरे पच्यमानं ददर्श सः 03128010c तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज 03128011a तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् 03128011c त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् 03128012a एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् 03128012c अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः 03128012e मत्कृते हि महाभागः पच्यते नरकाग्निना 03128013 धर्म उवाच 03128013a नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन 03128013c इमानि तव दृश्यन्ते फलानि ददतां वर 03128014 सोमक उवाच 03128014a पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् 03128014c इच्छाम्यहमनेनैव सह वस्तुं सुरालये 03128015a नरके वा धर्मराज कर्मणास्य समो ह्यहम् 03128015c पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् 03128016 धर्म उवाच 03128016a यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् 03128016c तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् 03128017 लोमश उवाच 03128017a स चकार तथा सर्वं राजा राजीवलोचनः 03128017c पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् 03128017e सह तेनैव विप्रेण गुरुणा स गुरुप्रियः 03128018a एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते 03128018c क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः 03128019a एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः 03128019c षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह 03129001 लोमश उवाच 03129001a अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः 03129001c सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् 03129002a अम्बरीषश्च नाभाग इष्टवान्यमुनामनु 03129002c यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः 03129003a देशो नाहुषयज्ञानामयं पुण्यतमो नृप 03129003c यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् 03129004a सार्वभौमस्य कौन्तेय ययातेरमितौजसः 03129004c स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह 03129005a पश्य नानाविधाकारैरग्निभिर्निचितां महीम् 03129005c मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः 03129006a एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् 03129006c पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् 03129007a एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् 03129007c अपसर्पणं महीपाल रौप्यायाममितौजसः 03129008a अत्रानुवंशं पठतः शृणु मे कुरुनन्दन 03129008c उलूखलैराभरणैः पिशाची यदभाषत 03129009a युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले 03129009c तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि 03129010a एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि 03129010c एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा 03129011a अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम 03129011c द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत 03129012a अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् 03129012c ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् 03129013a एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते 03129013c एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः 03129014a अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः 03129014c यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् 03129015a अत्रैव भरतो राजा मेध्यमश्वमवासृजत् 03129015c असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् 03129016a अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् 03129016c आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः 03129017a अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति 03129017c पूयते दुष्कृताच्चैव समुपस्पृश्य भारत 03129018 वैशंपायन उवाच 03129018a तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः 03129018c लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् 03129019a सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम 03129019c इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् 03129020 लोमश उवाच 03129020a एवमेतन्महाबाहो पश्यन्ति परमर्षयः 03129020c सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् 03129021a यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति 03129021c इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः 03129021e ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च 03129022a वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना 03129022c कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः 03130001 लोमश उवाच 03130001a इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत 03130001c मर्तुकामा नरा राजन्निहायान्ति सहस्रशः 03130002a एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा 03130002c इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः 03130003a एषा सरस्वती पुण्या दिव्या चोघवती नदी 03130003c एतद्विनशनं नाम सरस्वत्या विशां पते 03130004a द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती 03130004c प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः 03130005a एष वै चमसोद्भेदो यत्र दृश्या सरस्वती 03130005c यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः 03130006a एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम 03130006c लोपामुद्रा समागम्य भर्तारमवृणीत वै 03130007a एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते 03130007c इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् 03130008a एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् 03130008c एषा रम्या विपाशा च नदी परमपावनी 03130009a अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः 03130009c बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः 03130010a काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम 03130010c महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह 03130011a अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च 03130011c अग्नेश्चात्रैव संवादः काश्यपस्य च भारत 03130012a एतद्द्वारं महाराज मानसस्य प्रकाशते 03130012c वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् 03130013a एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः 03130013c नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः 03130014a एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् 03130014c अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः 03130015a ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् 03130015c आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना 03130016a समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया 03130016c तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् 03130017a जलां चोपजलां चैव यमुनामभितो नदीम् 03130017c उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत 03130018a तां देवसमितिं तस्य वासवश्च विशां पते 03130018c अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत 03130019a जिज्ञासमानौ वरदौ महात्मानमुशीनरम् 03130019c इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः 03130020a ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् 03130020c शरणार्थी तदा राजन्निलिल्ये भयपीडितः 03131001 श्येन उवाच 03131001a धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः 03131001c स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि 03131002a विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा 03131002c मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि 03131003 राजोवाच 03131003a संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज 03131003c मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः 03131004a एवमभ्यागतस्येह कपोतस्याभयार्थिनः 03131004c अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि 03131005a प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते 03131005c मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः 03131006 श्येन उवाच 03131006a आहारात्सर्वभूतानि संभवन्ति महीपते 03131006c आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः 03131007a शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् 03131007c न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् 03131008a भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते 03131008c विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् 03131009a प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति 03131009c रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि 03131010a धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् 03131010c अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम 03131011a विरोधिषु महीपाल निश्चित्य गुरुलाघवम् 03131011c न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् 03131012a गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये 03131012c यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् 03131013 राजोवाच 03131013a बहुकल्याणसंयुक्तं भाषसे विहगोत्तम 03131013c सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् 03131013e तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे 03131014a न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम् 03131014c शरणैषिणः परित्यागं कथं साध्विति मन्यसे 03131015a आहारार्थं समारम्भस्तव चायं विहंगम 03131015c शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया 03131016a गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा 03131016c त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे 03131017 श्येन उवाच 03131017a न वराहं न चोक्षाणं न मृगान्विविधांस्तथा 03131017c भक्षयामि महाराज किमन्नाद्येन तेन मे 03131018a यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव 03131018c तमुत्सृज महीपाल कपोतमिममेव मे 03131019a श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी 03131019c मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह 03131020 राजोवाच 03131020a राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित 03131020c यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते 03131020e विनेमं पक्षिणं श्येन शरणार्थिनमागतम् 03131021a येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम 03131021c तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् 03131022 श्येन उवाच 03131022a उशीनर कपोते ते यदि स्नेहो नराधिप 03131022c आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् 03131023a यदा समं कपोतेन तव मांसं भवेन्नृप 03131023c तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति 03131024 राजोवाच 03131024a अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे 03131024c तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् 03131025 लोमश उवाच 03131025a अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् 03131025c तुलयामास कौन्तेय कपोतेन सहाभिभो 03131026a ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते 03131026c पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः 03131027a न विद्यते यदा मांसं कपोतेन समं धृतम् 03131027c तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् 03131028 श्येन उवाच 03131028a इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् 03131028c जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ 03131029a यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते 03131029c एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति 03131030a यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव 03131030c तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः 03131031 लोमश उवाच 03131031a तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः 03131031c पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् 03131032a अत्र वै सततं देवा मुनयश्च सनातनाः 03131032c दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः 03132001 लोमश उवाच 03132001a यः कथ्यते मन्त्रविदग्र्यबुद्धि;रौद्दालकिः श्वेतकेतुः पृथिव्याम् 03132001c तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः 03132002a साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् 03132002c वेत्स्यामि वाणीमिति संप्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे 03132003a तस्मिन्काले ब्रह्मविदां वरिष्ठा;वास्तां तदा मातुलभागिनेयौ 03132003c अष्टावक्रश्चैव कहोडसूनु;रौद्दालकिः श्वेतकेतुश्च राजन् 03132004a विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ 03132004c प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम् 03132005 युधिष्ठिर उवाच 03132005a कथंप्रभावः स बभूव विप्र;स्तथायुक्तं यो निजग्राह बन्दिम् 03132005c अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम् 03132006 लोमश उवाच 03132006a उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन् 03132006c शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार 03132007a तं वै विप्राः पर्यभवंश्च शिष्या;स्तं च ज्ञात्वा विप्रकारं गुरुः सः 03132007c तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् 03132008a तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच 03132008c सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते 03132009a उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप 03132009c यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः 03132010a स वै तथा वक्र एवाभ्यजाय;दष्टावक्रः प्रथितो वै महर्षिः 03132010c तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव 03132011a संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ 03132011c उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी 03132012a कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे 03132012c न चास्ति ते वसु किंचित्प्रजाता; येनाहमेतामापदं निस्तरेयम् 03132013a उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् 03132013c स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः 03132014a उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् 03132014c उवाच तां तत्र ततः सुजाता;मष्टावक्रे गूहितव्योऽयमर्थः 03132015a ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः 03132015c उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् 03132016a ततो वर्षे द्वादशे श्वेतकेतु;रष्टावक्रं पितुरङ्के निषण्णम् 03132016c अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च 03132017a यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् 03132017c गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति 03132018a ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे 03132018c तद्वै तत्त्वं सर्वमाज्ञाय मातु;रित्यब्रवीच्छ्वेतकेतुं स विप्रः 03132019a गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः 03132019c श्रोष्यावोऽत्र ब्राह्मणानां विवाद;मन्नं चाग्र्यं तत्र भोक्ष्यावहे च 03132019e विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः 03132020a तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः 03132020c अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद 03133001 अष्टावक्र उवाच 03133001a अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः 03133001c राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः 03133002 राजोवाच 03133002a पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व 03133002c न पावको विद्यते वै लघीया;निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् 03133003 अष्टावक्र उवाच 03133003a यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् 03133003c आवां प्राप्तावतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् 03133004a ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू 03133004c न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन 03133005 द्वारपाल उवाच 03133005a बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् 03133005c न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः 03133006 अष्टावक्र उवाच 03133006a यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् 03133006c वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः 03133007a शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् 03133007c न बाल इत्यवमन्तव्यमाहु;र्बालोऽप्यग्निर्दहति स्पृश्यमानः 03133008 द्वारपाल उवाच 03133008a सरस्वतीमीरय वेदजुष्टा;मेकाक्षरां बहुरूपां विराजम् 03133008c अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः 03133009 अष्टावक्र उवाच 03133009a न ज्ञायते कायवृद्ध्या विवृद्धि;र्यथाष्ठीला शाल्मलेः संप्रवृद्धा 03133009c ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः 03133010 द्वारपाल उवाच 03133010a वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः 03133010c न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे 03133011 अष्टावक्र उवाच 03133011a न तेन स्थविरो भवति येनास्य पलितं शिरः 03133011c बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः 03133012a न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 03133012c ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 03133013a दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि 03133013c निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने 03133014a द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे 03133014c उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य 03133015 द्वारपाल उवाच 03133015a कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां संप्रवेश्यम् 03133015c उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् 03133016 अष्टावक्र उवाच 03133016a भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् 03133016c त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् 03133017a विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः 03133017c त्वया निसृष्टैः पुरुषैराप्तकृद्भि;र्जले सर्वान्मज्जयतीति नः श्रुतम् 03133018a स तच्छ्रुत्वा ब्राह्मणानां सकाशा;द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि 03133018c क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि 03133019 राजोवाच 03133019a आशंससे बन्दिनं त्वं विजेतु;मविज्ञात्वा वाक्यबलं परस्य 03133019c विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः 03133020 अष्टावक्र उवाच 03133020a विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः 03133020c समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् 03133021 राजोवाच 03133021a षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः 03133021c यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः 03133022 अष्टावक्र उवाच 03133022a चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि 03133022c तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति 03133023 राजोवाच 03133023a वडवे इव संयुक्ते श्येनपाते दिवौकसाम् 03133023c कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् 03133024 अष्टावक्र उवाच 03133024a मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् 03133024c वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् 03133025 राजोवाच 03133025a किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति 03133025c कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते 03133026 अष्टावक्र उवाच 03133026a मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति 03133026c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03133027 राजोवाच 03133027a न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे 03133027c न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी 03134001 अष्टावक्र उवाच 03134001a अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु 03134001c न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव 03134002a न मेऽद्य वक्ष्यस्यतिवादिमानि;न्ग्लहं प्रपन्नः सरितामिवागमः 03134002c हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन् 03134003 बन्द्युवाच 03134003a व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् 03134003c पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध 03134004a यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति 03134004c तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः 03134005a सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः 03134005c निकृष्टभूता राजानो वत्सा अनदुहो यथा 03134006 लोमश उवाच 03134006a अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन् 03134006c उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि 03134007 बन्द्युवाच 03134007a एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते 03134007c एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव 03134008 अष्टावक्र उवाच 03134008a द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च 03134008c द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा 03134009 बन्द्युवाच 03134009a त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति 03134009c अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः 03134010 अष्टावक्र उवाच 03134010a चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति 03134010c दिशश्चतस्रश्चतुरश्च वर्णा;श्चतुष्पदा गौरपि शश्वदुक्ता 03134011 बन्द्युवाच 03134011a पञ्चाग्नयः पञ्चपदा च पङ्क्ति;र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि 03134011c दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् 03134012 अष्टावक्र उवाच 03134012a षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् 03134012c षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः 03134013 बन्द्युवाच 03134013a सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति 03134013c सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा 03134014 अष्टावक्र उवाच 03134014a अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती 03134014c अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः 03134015 बन्द्युवाच 03134015a नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विसर्गम् 03134015c नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनामेति शश्वत् 03134016 अष्टावक्र उवाच 03134016a दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि 03134016c दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः 03134017 बन्द्युवाच 03134017a एकादशैकादशिनः पशूना;मेकादशैवात्र भवन्ति यूपाः 03134017c एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः 03134018 अष्टावक्र उवाच 03134018a संवत्सरं द्वादश मासमाहु;र्जगत्याः पादो द्वादशैवाक्षराणि 03134018c द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः 03134019 बन्द्युवाच 03134019a त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च 03134020 लोमश उवाच 03134020a एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः 03134020c त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः 03134021a ततो महानुदतिष्ठन्निनाद;स्तूष्णींभूतं सूतपुत्रं निशम्य 03134021c अधोमुखं ध्यानपरं तदानी;मष्टावक्रं चाप्युदीर्यन्तमेव 03134022a तस्मिंस्तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः 03134022c अष्टावक्रं पूजयन्तोऽभ्युपेयु;र्विप्राः सर्वे प्राञ्जलयः प्रतीताः 03134023 अष्टावक्र उवाच 03134023a अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल 03134023c तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम् 03134024 बन्द्युवाच 03134024a अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै 03134024c सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः 03134025a एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः 03134025c अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये 03134026 अष्टावक्र उवाच 03134026a विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः 03134026c तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः 03134027a अग्निर्दहञ्जातवेदाः सतां गृहा;न्विसर्जयंस्तेजसा न स्म धाक्षीत् 03134027c बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः 03134028a श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति 03134028c हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि 03134029 जनक उवाच 03134029a शृणोमि वाचं तव दिव्यरूपा;ममानुषीं दिव्यरूपोऽसि साक्षात् 03134029c अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी 03134030 अष्टावक्र उवाच 03134030a नानेन जीवता कश्चिदर्थो मे बन्दिना नृप 03134030c पिता यद्यस्य वरुणो मज्जयैनं जलाशये 03134031 बन्द्युवाच 03134031a अहं पुत्रो वरुणस्योत राज्ञो; न मे भयं सलिले मज्जितस्य 03134031c इमं मुहूर्तं पितरं द्रक्ष्यतेऽय;मष्टावक्रश्चिरनष्टं कहोडम् 03134032 लोमश उवाच 03134032a ततस्ते पूजिता विप्रा वरुणेन महात्मना 03134032c उदतिष्ठन्त ते सर्वे जनकस्य समीपतः 03134033 कहोड उवाच 03134033a इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा 03134033c यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम 03134034a उताबलस्य बलवानुत बालस्य पण्डितः 03134034c उत वाविदुषो विद्वान्पुत्रो जनक जायते 03134035 बन्द्युवाच 03134035a शितेन ते परशुना स्वयमेवान्तको नृप 03134035c शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते 03134036a महदुक्थ्यं गीयते साम चाग्र्यं; सम्यक्सोमः पीयते चात्र सत्रे 03134036c शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे 03134037 लोमश उवाच 03134037a समुत्थितेष्वथ सर्वेषु राज;न्विप्रेषु तेष्वधिकं सुप्रभेषु 03134037c अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोयं सागरस्योत बन्दी 03134038a अष्टावक्रः पितरं पूजयित्वा; संपूजितो ब्राह्मणैस्तैर्यथावत् 03134038c प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा बन्दिं सहितो मातुलेन 03134039a अत्र कौन्तेय सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः 03134039c पुण्यान्यन्यानि शुचिकर्मैकभक्ति;र्मया सार्धं चरितास्याजमीढ 03135001 लोमश उवाच 03135001a एषा मधुविला राजन्समङ्गा संप्रकाशते 03135001c एतत्कर्दमिलं नाम भरतस्याभिषेचनम् 03135002a अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः 03135002c आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत 03135003a एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ 03135003c अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा 03135004a एनं पर्वतराजानमारुह्य पुरुषर्षभ 03135004c अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ 03135005a एते कनखला राजनृषीणां दयिता नगाः 03135005c एषा प्रकाशते गङ्गा युधिष्ठिर महानदी 03135006a सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् 03135006c आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे 03135007a अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् 03135007c तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश 03135008a आश्रमः स्थूलशिरसो रमणीयः प्रकाशते 03135008c अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय 03135009a एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते 03135009c भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत 03135010 युधिष्ठिर उवाच 03135010a कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् 03135010c किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत 03135011a एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश 03135011c कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे 03135012 लोमश उवाच 03135012a भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः 03135012c तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे 03135013a रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू 03135013c आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत 03135014a रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् 03135014c तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत 03135015a यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् 03135015c दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ 03135016a पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः 03135016c तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव 03135017a सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् 03135017c जनयामास संतापमिन्द्रस्य सुमहातपाः 03135018a तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर 03135018c अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् 03135019 यवक्रीरुवाच 03135019a द्विजानामनधीता वै वेदाः सुरगणार्चित 03135019c प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः 03135020a स्वाध्यायार्थे समारम्भो ममायं पाकशासन 03135020c तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक 03135021a कालेन महता वेदाः शक्या गुरुमुखाद्विभो 03135021c प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः 03135022 इन्द्र उवाच 03135022a अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि 03135022c किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् 03135023 लोमश उवाच 03135023a एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत 03135023c भूय एवाकरोद्यत्नं तपस्यमितविक्रम 03135024a घोरेण तपसा राजंस्तप्यमानो महातपाः 03135024c संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् 03135025a तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् 03135025c उपेत्य बलभिद्देवो वारयामास वै पुनः 03135026a अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव 03135026c प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते 03135027 यवक्रीरुवाच 03135027a न चैतदेवं क्रियते देवराज ममेप्सितम् 03135027c महता नियमेनाहं तप्स्ये घोरतरं तपः 03135028a समिद्धेऽग्नावुपकृत्याङ्गमङ्गं; होष्यामि वा मघवंस्तन्निबोध 03135028c यद्येतदेवं न करोषि कामं; ममेप्सितं देवराजेह सर्वम् 03135029 लोमश उवाच 03135029a निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः 03135029c प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् 03135030a तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः 03135030c अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः 03135031a यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि 03135031c भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः 03135032a यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः 03135032c वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् 03135033a वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् 03135033c सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् 03135034a तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने 03135034c प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः 03135035a किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् 03135035c अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः 03135036 इन्द्र उवाच 03135036a बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति 03135036c क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः 03135037 यवक्रीरुवाच 03135037a नायं शक्यस्त्वया बद्धुं महानोघः कथंचन 03135037c अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ 03135038 इन्द्र उवाच 03135038a यथैव भवता चेदं तपो वेदार्थमुद्यतम् 03135038c अशक्यं तद्वदस्माभिरयं भारः समुद्यतः 03135039 यवक्रीरुवाच 03135039a यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर 03135039c तथा यदि ममापीदं मन्यसे पाकशासन 03135040a क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर 03135040c वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति 03135041 लोमश उवाच 03135041a तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः 03135041c प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः 03135042a यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति 03135042c स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् 03136001 यवक्रीरुवाच 03136001a प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः 03136001c अति चान्यान्भविष्यावो वरा लब्धास्तथा मया 03136002 भरद्वाज उवाच 03136002a दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् 03136002c स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि 03136003a अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः 03136003c ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् 03136004a स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् 03136004c भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः 03136005a तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः 03136005c नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति 03136006 बालधिरुवाच 03136006a यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः 03136006c अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति 03136007 भरद्वाज उवाच 03136007a तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा 03136007c स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत 03136008a विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् 03136008c आससाद महावीर्यं धनुषाक्षं मनीषिणम् 03136009a तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् 03136009c भव भस्मेति चोक्तः स न भस्म समपद्यत 03136010a धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् 03136010c निमित्तमस्य महिषैर्भेदयामास वीर्यवान् 03136011a स निमित्ते विनष्टे तु ममार सहसा शिशुः 03136011c तं मृतं पुत्रमादाय विललाप ततः पिता 03136012a लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् 03136012c ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे 03136013a न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन 03136013c महिषैर्भेदयामास धनुषाक्षो महीधरान् 03136014a एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः 03136014c क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् 03136015a एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ 03136015c तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः 03136016a स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा 03136016c वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः 03136017 यवक्रीरुवाच 03136017a एवं करिष्ये मा तापं तात कार्षीः कथंचन 03136017c यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम 03136018 लोमश उवाच 03136018a उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः 03136018c विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा 03137001 लोमश उवाच 03137001a चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः 03137001c जगाम माधवे मासि रैभ्याश्रमपदं प्रति 03137002a स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते 03137002c विचरन्तीं स्नुषां तस्य किंनरीमिव भारत 03137003a यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति 03137003c निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः 03137004a सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती 03137004c तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा 03137005a तत एकान्तमुन्नीय मज्जयामास भारत 03137005c आजगाम तदा रैभ्यः स्वमाश्रममरिंदम 03137006a रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः 03137006c सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर 03137007a सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा 03137007c प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना 03137008a शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् 03137008c दहन्निव तदा चेतः क्रोधः समभवन्महान् 03137009a स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः 03137009c अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते 03137010a ततः समभवन्नारी तस्या रूपेण संमिता 03137010c अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः 03137011a ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् 03137011c अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे 03137012a तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति 03137012c जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया 03137013a ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना 03137013c कमण्डलुं जहारास्य मोहयित्वा तु भारत 03137014a उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् 03137014c तत उद्यतशूलः स राक्षसः समुपाद्रवत् 03137015a तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया 03137015c यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः 03137016a जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः 03137016c जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः 03137017a स काल्यमानो घोरेण शूलहस्तेन रक्षसा 03137017c अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् 03137018a स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा 03137018c निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव 03137019a निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः 03137019c ताडयामास शूलेन स भिन्नहृदयोऽपतत् 03137020a यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् 03137020c अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् 03138001 लोमश उवाच 03138001a भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् 03138001c समित्कलापमादाय प्रविवेश स्वमाश्रमम् 03138002a तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः 03138002c न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः 03138003a वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः 03138003c तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् 03138004a किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् 03138004c त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे 03138005a कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः 03138005c एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः 03138006 शूद्र उवाच 03138006a रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः 03138006c तथा हि निहतः शेते राक्षसेन बलीयसा 03138007a प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा 03138007c अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः 03138008a ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् 03138008c संभावितो हि तूर्णेन शूलहस्तेन रक्षसा 03138009 लोमश उवाच 03138009a भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः 03138009c गतासुं पुत्रमादाय विललाप सुदुःखितः 03138010a ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः 03138010c द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति 03138011a तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु 03138011c अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् 03138012a प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् 03138012c गतवानेव तं क्षुद्रं कालान्तकयमोपमम् 03138013a यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् 03138013c गतवानेव कोपस्य वशं परमदुर्मतिः 03138014a पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा 03138014c त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि 03138015a यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी 03138015c तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् 03138016a सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते 03138016c ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् 03138017a ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः 03138017c शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः 03138018a परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया 03138018c ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति 03138019a विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् 03138019c सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् 03139001 लोमश उवाच 03139001a एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः 03139001c सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् 03139002a तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू 03139002c वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता 03139003a तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः 03139003c आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः 03139004a अथावलोककोऽगच्छद्गृहानेकः परावसुः 03139004c कृष्णाजिनेन संवीतं ददर्श पितरं वने 03139005a जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि 03139005c चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् 03139006a मृगं तु मन्यमानेन पिता वै तेन हिंसितः 03139006c अकामयानेन तदा शरीरत्राणमिच्छता 03139007a स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत 03139007c पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः 03139008a इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन 03139008c मया तु हिंसितस्तातो मन्यमानेन तं मृगम् 03139009a सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् 03139009c समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने 03139010 अर्वावसुरुवाच 03139010a करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः 03139010c ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः 03139011 लोमश उवाच 03139011a स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर 03139011c अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः 03139012a ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् 03139012c बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् 03139013a एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति 03139013c ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः 03139014a प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा 03139014c न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः 03139015a उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत 03139015c नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् 03139015e मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् 03139016a प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप 03139016c तं ते प्रवरयामासुर्निरासुश्च परावसुम् 03139017a ततो देवा वरं तस्मै ददुरग्निपुरोगमाः 03139017c स चापि वरयामास पितुरुत्थानमात्मनः 03139018a अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे 03139018c भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः 03139019a ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर 03139019c अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् 03139020a समधीतं मया ब्रह्म व्रतानि चरितानि च 03139020c कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् 03139020e तथायुक्तेन विधिना निहन्तुममरोत्तमाः 03139021 देवा ऊचुः 03139021a मैवं कृथा यवक्रीत यथा वदसि वै मुने 03139021c ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा 03139022a अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा 03139022c कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् 03139023 लोमश उवाच 03139023a यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः 03139023c संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् 03139024a आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः 03139024c अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे 03140001 लोमश उवाच 03140001a उशीरबीजं मैनाकं गिरिं श्वेतं च भारत 03140001c समतीतोऽसि कौन्तेय कालशैलं च पार्थिव 03140002a एषा गङ्गा सप्तविधा राजते भरतर्षभ 03140002c स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते 03140003a एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत 03140003c समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ 03140004a श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् 03140004c यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् 03140005a अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः 03140005c तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः 03140006a अनेकरूपसंस्थाना नानाप्रहरणाश्च ते 03140006c यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते 03140007a तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते 03140007c स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् 03140008a तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः 03140008c दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु 03140009a कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः 03140009c तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव 03140010a कैलासः पर्वतो राजन्षड्योजनशतान्युत 03140010c यत्र देवाः समायान्ति विशाला यत्र भारत 03140011a असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः 03140011c नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति 03140012a तान्विगाहस्व पार्थाद्य तपसा च दमेन च 03140012c रक्ष्यमाणो मया राजन्भीमसेनबलेन च 03140013a स्वस्ति ते वरुणो राजा यमश्च समितिंजयः 03140013c गङ्गा च यमुना चैव पर्वतश्च दधातु ते 03140014a इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे 03140014c गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् 03140014e भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य 03140015 युधिष्ठिर उवाच 03140015a अपूर्वोऽयं संभ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम् 03140015c देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् 03140016 वैशंपायन उवाच 03140016a ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन 03140016c शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु 03140017a ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे 03140017c उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ 03141001 युधिष्ठिर उवाच 03141001a अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च 03141001c अग्निना तपसा चैव शक्यं गन्तुं वृकोदर 03141002a संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् 03141002c ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह 03141003a ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति 03141003c बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति 03141004a अथ वा सहदेवेन धौम्येन च सहाभिभो 03141004c सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः 03141005a रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि 03141005c सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण 03141006a त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः 03141006c अहं च नकुलश्चैव लोमशश्च महातपाः 03141007a ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः 03141007c वसेह द्रौपदीं रक्षन्यावदागमनं मम 03141008 भीम उवाच 03141008a राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत 03141008c व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया 03141009a तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः 03141009c किं पुनः सहदेवं च मां च कृष्णां च भारत 03141010a रथाः कामं निवर्तन्तां सर्वे च परिचारकाः 03141010c सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् 03141011a न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् 03141011c शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च 03141012a इयं चापि महाभागा राजपुत्री यतव्रता 03141012c त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् 03141013a तथैव सहदेवोऽयं सततं त्वामनुव्रतः 03141013c न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै 03141014a अपि चात्र महाराज सव्यसाचिदिदृक्षया 03141014c सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह 03141015a यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः 03141015c पद्भिरेव गमिष्यामो मा राजन्विमना भव 03141016a अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति 03141016c इति मे वर्तते बुद्धिर्मा राजन्विमना भव 03141017a सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ 03141017c दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः 03141018 युधिष्ठिर उवाच 03141018a एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् 03141018c यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि 03141019a यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते 03141019c बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् 03141020a यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया 03141020c मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः 03141021 वैशंपायन उवाच 03141021a ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा 03141021c गमिष्यामि न संतापः कार्यो मां प्रति भारत 03141022 लोमश उवाच 03141022a तपसा शक्यते गन्तुं पर्वतो गन्धमादनः 03141022c तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् 03141023a नकुलः सहदेवश्च भीमसेनश्च पार्थिव 03141023c अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् 03141024 वैशंपायन उवाच 03141024a एवं संभाषमाणास्ते सुबाहोर्विषयं महत् 03141024c ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् 03141025a किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम् 03141025c हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् 03141026a सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत 03141026c विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् 03141027a तत्र ते पूजितास्तेन सर्व एव सुखोषिताः 03141027c प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति 03141028a इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा 03141028c सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप 03141029a राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः 03141029c पद्भिरेव महावीर्या ययुः कौरवनन्दनाः 03141030a ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः 03141030c तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् 03142001 युधिष्ठिर उवाच 03142001a भीमसेन यमौ चोभौ पाञ्चालि च निबोधत 03142001c नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् 03142002a दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् 03142002c अशक्येऽपि व्रजामेति धनंजयदिदृक्षया 03142003a तन्मे दहति गात्राणि तूलराशिमिवानलः 03142003c यच्च वीरं न पश्यामि धनंजयमुपान्तिके 03142004a तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् 03142004c याज्ञसेन्याः परामर्शः स च वीर दहत्युत 03142005a नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् 03142005c अजेयमुग्रधन्वानं तेन तप्ये वृकोदर 03142006a तीर्थानि चैव रम्याणि वनानि च सरांसि च 03142006c चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया 03142007a पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम् 03142007c यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर 03142008a तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् 03142008c न पश्यामि महाबाहुं तेन तप्ये वृकोदर 03142009a कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् 03142009c न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर 03142010a चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम् 03142010c प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् 03142011a यः स शक्रादनवरो वीर्येण द्रविणेन च 03142011c यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः 03142012a दुःखेन महताविष्टः स्वकृतेनानिवर्तिना 03142012c अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् 03142013a सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा 03142013c ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च 03142014a स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः 03142014c अपि वज्रधरस्यापि भवेत्कालविषोपमः 03142015a शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् 03142015c दाताभयस्य बीभत्सुरमितात्मा महाबलः 03142016a सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता 03142016c आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः 03142017a रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम 03142017c बहूनि बहुजातानि यानि प्राप्तः सुयोधनः 03142018a यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम 03142018c सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव 03142019a वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि 03142019c अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् 03142020a संकर्षणं महावीर्यं त्वां च भीमापराजितम् 03142020c अनुजातः स वीर्येण वासुदेवं च शत्रुहा 03142021a यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः 03142021c जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः 03142022a ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः 03142022c प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् 03142023a विशाला बदरी यत्र नरनारायणाश्रमः 03142023c तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् 03142024a कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् 03142024c पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः 03142025a नातप्ततपसा शक्यो देशो गन्तुं वृकोदर 03142025c न नृशंसेन लुब्धेन नाप्रशान्तेन भारत 03142026a तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः 03142026c सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः 03142027a मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् 03142027c प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति 03142028a ते वयं नियतात्मानः पर्वतं गन्धमादनम् 03142028c प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः 03143001 वैशंपायन उवाच 03143001a ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः 03143001c बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः 03143002a परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् 03143002c पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् 03143003a सरांसि सरितश्चैव पर्वतांश्च वनानि च 03143003c वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि 03143003e नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् 03143004a आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः 03143004c चेरुरुच्चावचाकारान्देशान्विषमसंकटान् 03143004e पश्यन्तो मृगजातानि बहूनि विविधानि च 03143005a ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् 03143005c विविशुस्ते महात्मानः किंनराचरितं गिरिम् 03143006a प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् 03143006c चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते 03143007a ततो रेणुः समुद्भूतः सपत्रबहुलो महान् 03143007c पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् 03143008a न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना 03143008c न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् 03143009a न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः 03143009c आकृष्यमाणा वातेन साश्मचूर्णेन भारत 03143010a द्रुमाणां वातभग्नानां पततां भूतले भृशम् 03143010c अन्येषां च महीजानां शब्दः समभवन्महान् 03143011a द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् 03143011c इति ते मेनिरे सर्वे पवनेन विमोहिताः 03143012a ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च 03143012c पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे 03143013a ततः कार्मुकमुद्यम्य भीमसेनो महाबलः 03143013c कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम् 03143014a धर्मराजश्च धौम्यश्च निलिल्याते महावने 03143014c अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते 03143015a नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः 03143015c वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे 03143016a मन्दीभूते च पवने तस्मिन्रजसि शाम्यति 03143016c महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह 03143017a ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः 03143017c प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः 03143018a ततः सागरगा आपः कीर्यमाणाः समन्ततः 03143018c प्रादुरासन्सकलुषाः फेनवत्यो विशां पते 03143019a वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् 03143019c परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् 03143020a तस्मिन्नुपरते वर्षे वाते च समतां गते 03143020c गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे 03143021a निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत 03143021c प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् 03144001 वैशंपायन उवाच 03144001a ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु 03144001c पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् 03144002a श्रान्ता दुःखपरीता च वातवर्षेण तेन च 03144002c सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी 03144003a सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा 03144003c वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत 03144004a आलम्बमाना सहितावूरू गजकरोपमौ 03144004c पपात सहसा भूमौ वेपन्ती कदली यथा 03144005a तां पतन्तीं वरारोहां सज्जमानां लतामिव 03144005c नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् 03144006 नकुल उवाच 03144006a राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा 03144006c श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत 03144007a अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी 03144007c आश्वासय महाराज तामिमां श्रमकर्शिताम् 03144008 वैशंपायन उवाच 03144008a राजा तु वचनात्तस्य भृशं दुःखसमन्वितः 03144008c भीमश्च सहदेवश्च सहसा समुपाद्रवन् 03144009a तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् 03144009c अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः 03144010a कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता 03144010c शेते निपतिता भूमौ सुखार्हा वरवर्णिनी 03144011a सुकुमारौ कथं पादौ मुखं च कमलप्रभम् 03144011c मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् 03144012a किमिदं द्यूतकामेन मया कृतमबुद्धिना 03144012c आदाय कृष्णां चरता वने मृगगणायुते 03144013a सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् 03144013c इति द्रुपदराजेन पित्रा दत्तायतेक्षणा 03144014a तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता 03144014c शेते निपतिता भूमौ पापस्य मम कर्मभिः 03144015a तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे 03144015c धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः 03144016a ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् 03144016c रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः 03144017a पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः 03144017c स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः 03144018a सेव्यमाना च शीतेन जलमिश्रेण वायुना 03144018c पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः 03144019a परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे 03144019c तदा विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम् 03144020a तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ 03144020c कराभ्यां किणजाताभ्यां शनकैः संववाहतुः 03144021a पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः 03144021c उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः 03144022a बहवः पर्वता भीम विषमा हिमदुर्गमाः 03144022c तेषु कृष्णा महाबाहो कथं नु विचरिष्यति 03144023 भीमसेन उवाच 03144023a त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ 03144023c स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः 03144024a अथ वासौ मया जातो विहगो मद्बलोपमः 03144024c वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः 03144025 वैशंपायन उवाच 03144025a अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् 03144025c घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा 03144025e कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् 03144026a ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः 03144026c उवाच भीमसेनं स पितरं सत्यविक्रमः 03144027a स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः 03144027c आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् 03144027e तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे 03145001 युधिष्ठिर उवाच 03145001a धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः 03145001c भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् 03145002a तव भीम बलेनाहमतिभीमपराक्रम 03145002c अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् 03145003 वैशंपायन उवाच 03145003a भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् 03145003c आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् 03145004a हैडिम्बेय परिश्रान्ता तव मातापराजिता 03145004c त्वं च कामगमस्तात बलवान्वह तां खग 03145005a स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा 03145005c गच्छ नीचिकया गत्या यथा चैनां न पीडयेः 03145006 घटोत्कच उवाच 03145006a धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा 03145006c एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् 03145007 वैशंपायन उवाच 03145007a एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः 03145007c पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे 03145008a लोमशः सिद्धमार्गेण जगामानुपमद्युतिः 03145008c स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः 03145009a ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः 03145009c नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः 03145010a एवं सुरमणीयानि वनान्युपवनानि च 03145010c आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति 03145011a ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः 03145011c उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् 03145012a देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् 03145012c ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् 03145013a विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः 03145013c तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः 03145014a नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् 03145014c नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् 03145015a ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि 03145015c ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् 03145016a तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् 03145016c उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः 03145017a ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् 03145017c स्निग्धामविरलच्छायां श्रिया परमया युताम् 03145018a पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् 03145018c विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् 03145019a फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् 03145019c मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् 03145019e मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् 03145020a अदंशमशके देशे बहुमूलफलोदके 03145020c नीलशाद्वलसंछन्ने देवगन्धर्वसेविते 03145021a सुसमीकृतभूभागे स्वभावविहिते शुभे 03145021c जातां हिममृदुस्पर्शे देशेऽपहतकण्टके 03145022a तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः 03145022c अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः 03145023a ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् 03145023c ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः 03145024a तमसा रहितं पुण्यमनामृष्टं रवेः करैः 03145024c क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् 03145025a महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् 03145025c दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः 03145026a बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् 03145026c दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् 03145027a विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः 03145027c महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् 03145027e शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् 03145028a दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् 03145028c श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् 03145029a फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः 03145029c सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः 03145030a महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः 03145030c ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः 03145031a सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः 03145031c भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः 03145032a दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् 03145032c अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः 03145032e आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् 03145033a प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः 03145033c उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि 03145034a स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः 03145034c प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः 03145035a तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् 03145035c प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया 03145036a विवेश शोभया युक्तं भ्रातृभिश्च सहानघ 03145036c ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः 03145037a तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् 03145037c नरनारायणस्थानं भागीरथ्योपशोभितम् 03145038a मधुस्रवफलां दिव्यां महर्षिगणसेविताम् 03145038c तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह 03145039a आलोकयन्तो मैनाकं नानाद्विजगणायुतम् 03145039c हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् 03145040a भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् 03145040c मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् 03145041a दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् 03145041c वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः 03145042a तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः 03145042c ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः 03145043a कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः 03145043c विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः 03146001 वैशंपायन उवाच 03146001a तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः 03146001c षड्रात्रमवसन्वीरा धनंजयदिदृक्षया 03146001e तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः 03146002a मनोज्ञे काननवरे सर्वभूतमनोरमे 03146002c पादपैः पुष्पविकचैः फलभारावनामितैः 03146003a शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः 03146003c स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः 03146004a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03146004c कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः 03146004e पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः 03146005a पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः 03146005c ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् 03146006a ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया 03146006c सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् 03146007a तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम् 03146007c अनिलेनाहृतं भूमौ पतितं जलजं शुचि 03146008a तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् 03146008c अतीव मुदिता राजन्भीमसेनमथाब्रवीत् 03146009a पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् 03146009c गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् 03146010a एतत्तु धर्मराजाय प्रदास्यामि परंतप 03146010c हरेरिदं मे कामाय काम्यके पुनराश्रमे 03146011a यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर 03146011c तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् 03146012a एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता 03146012c जगाम धर्मराजाय पुष्पमादाय तत्तदा 03146013a अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः 03146013c प्रियायाः प्रियकामः स भीमो भीमपराक्रमः 03146014a वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् 03146014c आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि 03146015a रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् 03146015c मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः 03146016a द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः 03146016c व्यपेतभयसंमोहः शैलमभ्यपतद्बली 03146017a स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् 03146017c गिरिं चचारारिहरः किंनराचरितं शुभम् 03146018a नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः 03146018c सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् 03146019a सर्वर्तुरमणीयेषु गन्धमादनसानुषु 03146019c सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् 03146020a पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च 03146020c बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः 03146021a जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम् 03146021c गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः 03146022a ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः 03146022c पितुः संस्पर्शशीतेन गन्धमादनवायुना 03146023a स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् 03146023c विलोडयामास तदा पुष्पहेतोररिंदमः 03146024a विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः 03146024c विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः 03146025a सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः 03146025c मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः 03146026a अभिरामनदीकुञ्जनिर्झरोदरकन्दरम् 03146026c अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् 03146027a दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् 03146027c स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः 03146028a सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः 03146028c भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः 03146029a चालयन्नूरुवेगेन लताजालान्यनेकशः 03146029c आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ 03146030a प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः 03146030c प्रांशुः कनकतालाभः सिंहसंहननो युवा 03146031a मत्तवारणविक्रान्तो मत्तवारणवेगवान् 03146031c मत्तवारणताम्राक्षो मत्तवारणवारणः 03146032a प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः 03146032c यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः 03146033a नवावतारं रूपस्य विक्रीणन्निव पाण्डवः 03146033c चचार रमणीयेषु गन्धमादनसानुषु 03146034a संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् 03146034c द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः 03146035a सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते 03146035c पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः 03146036a स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च 03146036c नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः 03146037a कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् 03146037c प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः 03146038a कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु 03146038c त्रासयन्गजयूथानि वातरंहा वृकोदरः 03146039a सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः 03146039c उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली 03146040a लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः 03146040c उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः 03146040e विनर्दमानोऽतिभृशं सविद्युदिव तोयदः 03146041a तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो 03146041c त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः 03146042a अथापश्यन्महाबाहुर्गन्धमादनसानुषु 03146042c सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् 03146043a तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः 03146043c महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् 03146044a उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् 03146044c चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः 03146045a ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च 03146045c रुरुवारणसंघाश्च महिषाश्च जलाश्रयाः 03146046a सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमभिद्रवन् 03146046c व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः 03146047a ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः 03146047c गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः 03146047e तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली 03146048a ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः 03146048c भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः 03146049a प्रविवेश ततः क्षिप्रं तानपास्य महाबलः 03146049c वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः 03146050a तेन शब्देन चोग्रेण भीमसेनरवेण च 03146050c वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः 03146051a तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् 03146051c जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः 03146052a तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः 03146052c तानेवानुसरन्रम्यं ददर्श सुमहत्सरः 03146053a काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः 03146053c वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः 03146054a तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् 03146054c महागज इवोद्दामश्चिक्रीड बलवद्बली 03146054e विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः 03146055a ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् 03146055c दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः 03146056a तस्य शङ्खस्य शब्देन भीमसेनरवेण च 03146056c बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः 03146057a तं वज्रनिष्पेषसममास्फोटितरवं भृशम् 03146057c श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः 03146058a सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत 03146058c मुक्तो विरावः सुमहान्पर्वतो येन पूरितः 03146059a तं तु नादं ततः श्रुत्वा सुप्तो वानरपुंगवः 03146059c प्राजृम्भत महाकायो हनूमान्नाम वानरः 03146060a कदलीषण्डमध्यस्थो निद्रावशगतस्तदा 03146060c जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् 03146060e आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् 03146061a तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः 03146061c उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः 03146062a स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् 03146062c अन्तर्धाय विचित्रेषु चचार गिरिसानुषु 03146063a स भीमसेनस्तं श्रुत्वा संप्रहृष्टतनूरुहः 03146063c शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् 03146064a कदलीवनमध्यस्थमथ पीने शिलातले 03146064c स ददर्श महाबाहुर्वानराधिपतिं स्थितम् 03146065a विद्युत्संघातदुष्प्रेक्ष्यं विद्युत्संघातपिङ्गलम् 03146065c विद्युत्संघातसदृशं विद्युत्संघातचञ्चलम् 03146066a बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् 03146066c स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् 03146067a किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च 03146067c लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् 03146068a रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् 03146068c वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् 03146069a वदनाभ्यन्तरगतैः शुक्लभासैरलंकृतम् 03146069c केसरोत्करसंमिश्रमशोकानामिवोत्करम् 03146070a हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् 03146070c दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् 03146071a निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः 03146071c तं वानरवरं वीरमतिकायं महाबलम् 03146072a अथोपसृत्य तरसा भीमो भीमपराक्रमः 03146072c सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा 03146073a तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः 03146073c हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने 03146073e अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः 03146074a स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् 03146074c किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः 03146075a ननु नाम त्वया कार्या दया भूतेषु जानता 03146075c वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः 03146076a मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु 03146076c क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु 03146076e धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03146077a न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया 03146077c अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् 03146078a ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः 03146078c वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि 03146079a अतः परमगम्योऽयं पर्वतः सुदुरारुहः 03146079c विना सिद्धगतिं वीर गतिरत्र न विद्यते 03146080a कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल 03146080c नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो 03146081a इमान्यमृतकल्पानि मूलानि च फलानि च 03146081c भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम 03147001 वैशंपायन उवाच 03147001a एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः 03147001c भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः 03147002a को भवान्किंनिमित्तं वा वानरं वपुराश्रितः 03147002c ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति 03147003a कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः 03147003c पाण्डवो वायुतनयो भीमसेन इति श्रुतः 03147004a स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् 03147004c हनूमान्वायुतनयो वायुपुत्रमभाषत 03147005a वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् 03147005c साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् 03147006 भीम उवाच 03147006a वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर 03147006c प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् 03147007 हनूमानुवाच 03147007a नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् 03147007c यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् 03147008 भीम उवाच 03147008a निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति 03147008c तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये 03147009a यद्यागमैर्न विन्देयं तमहं भूतभावनम् 03147009c क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् 03147010 हनूमानुवाच 03147010a क एष हनुमान्नाम सागरो येन लङ्घितः 03147010c पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते 03147011 भीम उवाच 03147011a भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः 03147011c रामायणेऽतिविख्यातः शूरो वानरपुंगवः 03147012a रामपत्नीकृते येन शतयोजनमायतः 03147012c सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः 03147013a स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा 03147013c बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे 03147014a उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् 03147014c मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् 03147015 वैशंपायन उवाच 03147015a विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् 03147015c हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् 03147016a प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ 03147016c ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् 03147017a सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना 03147017c न चाशकच्चालयितुं भीमः पुच्छं महाकपेः 03147018a उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् 03147018c नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः 03147019a उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः 03147019c स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह 03147020a यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः 03147020c कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः 03147021a प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् 03147021c प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम 03147022a सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः 03147022c पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् 03147023 हनूमानुवाच 03147023a यत्ते मम परिज्ञाने कौतूहलमरिंदम 03147023c तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन 03147024a अहं केसरिणः क्षेत्रे वायुना जगदायुषा 03147024c जातः कमलपत्राक्ष हनूमान्नाम वानरः 03147025a सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 03147025c सर्ववानरराजानौ सर्ववानरयूथपाः 03147026a उपतस्थुर्महावीर्या मम चामित्रकर्शन 03147026c सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा 03147027a निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे 03147027c ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् 03147028a अथ दाशरथिर्वीरो रामो नाम महाबलः 03147028c विष्णुर्मानुषरूपेण चचार वसुधामिमाम् 03147029a स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः 03147029c सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः 03147030a तस्य भार्या जनस्थानाद्रावणेन हृता बलात् 03147030c वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् 03147031a हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः 03147031c दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् 03147032a तेन तस्याभवत्सख्यं राघवस्य महात्मनः 03147032c स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् 03147032e स हरीन्प्रेषयामास सीतायाः परिमार्गणे 03147033a ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् 03147033c तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता 03147034a ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः 03147034c शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः 03147035a दृष्टा सा च मया देवी रावणस्य निवेशने 03147035c प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै 03147036a ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् 03147036c पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा 03147037a ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया 03147037c यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् 03147037e तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् 03147038a दश वर्षसहस्राणि दश वर्षशतानि च 03147038c राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः 03147039a तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ 03147039c तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् 03147040a अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन 03147040c ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् 03147040e धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत 03147041a दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः 03147041c यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि 03148001 वैशंपायन उवाच 03148001a एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् 03148001c प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः 03148001e उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् 03148002a मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् 03148002c अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् 03148003a एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम 03148003c यत्ते तदासीत्प्लवतः सागरं मकरालयम् 03148003e रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् 03148004a एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः 03148004c एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् 03148005a न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् 03148005c कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् 03148006a अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः 03148006c अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे 03148007a भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः 03148007c कालं समनुवर्तन्ते यथा भावा युगे युगे 03148007e बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च 03148008a तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह 03148008c युगं समनुवर्तामि कालो हि दुरतिक्रमः 03148009 भीम उवाच 03148009a युगसंख्यां समाचक्ष्व आचारं च युगे युगे 03148009c धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ 03148010 हनूमानुवाच 03148010a कृतं नाम युगं तात यत्र धर्मः सनातनः 03148010c कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे 03148011a न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः 03148011c ततः कृतयुगं नाम कालेन गुणतां गतम् 03148012a देवदानवगन्धर्वयक्षराक्षसपन्नगाः 03148012c नासन्कृतयुगे तात तदा न क्रयविक्रयाः 03148013a न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी 03148013c अभिध्याय फलं तत्र धर्मः संन्यास एव च 03148014a न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः 03148014c नासूया नापि रुदितं न दर्पो नापि पैशुनम् 03148015a न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् 03148015c न भयं न च संतापो न चेर्ष्या न च मत्सरः 03148016a ततः परमकं ब्रह्म या गतिर्योगिनां परा 03148016c आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा 03148017a ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः 03148017c कृते युगे समभवन्स्वकर्मनिरताः प्रजाः 03148018a समाश्रमं समाचारं समज्ञानमतीबलम् 03148018c तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् 03148019a एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः 03148019c पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः 03148020a चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना 03148020c अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् 03148021a आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः 03148021c कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः 03148022a एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् 03148022c त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते 03148023a पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः 03148023c सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः 03148024a ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः 03148024c त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः 03148025a प्रचलन्ति न वै धर्मात्तपोदानपरायणाः 03148025c स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् 03148026a द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते 03148026c विष्णुर्वै पीततां याति चतुर्धा वेद एव च 03148027a ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे 03148027c द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे 03148028a एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया 03148028c तपोदानप्रवृत्ता च राजसी भवति प्रजा 03148029a एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः 03148029c सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः 03148030a सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् 03148030c कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः 03148031a यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः 03148031c कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे 03148032a एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः 03148032c पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः 03148033a तामसं युगमासाद्य कृष्णो भवति केशवः 03148033c वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा 03148034a ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा 03148034c उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा 03148035a युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः 03148035c धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः 03148036a लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः 03148036c युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते 03148037a एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते 03148037c युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः 03148038a यच्च ते मत्परिज्ञाने कौतूहलमरिंदम 03148038c अनर्थकेषु को भावः पुरुषस्य विजानतः 03148039a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 03148039c युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् 03149001 भीम उवाच 03149001a पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन 03149001c यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना 03149002 वैशंपायन उवाच 03149002a एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः 03149002c तद्रूपं दर्शयामास यद्वै सागरलङ्घने 03149003a भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः 03149003c देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः 03149004a तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः 03149004c गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः 03149005a समुच्छ्रितमहाकायो द्वितीय इव पर्वतः 03149005c ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः 03149005e दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः 03149006a तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः 03149006c विसिस्मिये तदा भीमो जहृषे च पुनः पुनः 03149007a तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् 03149007c प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् 03149008a आबभाषे च हनुमान्भीमसेनं स्मयन्निव 03149008c एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ 03149009a वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् 03149009c भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा 03149010a तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् 03149010c दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः 03149011a प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः 03149011c कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् 03149012a दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो 03149012c संहरस्व महावीर्य स्वयमात्मानमात्मना 03149013a न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् 03149013c अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् 03149014a विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै 03149014c यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् 03149015a त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् 03149015c स्वबाहुबलमाश्रित्य विनाशयितुमोजसा 03149016a न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते 03149016c तव नैकस्य पर्याप्तो रावणः सगणो युधि 03149017a एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः 03149017c प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा 03149018a एवमेतन्महाबाहो यथा वदसि भारत 03149018c भीमसेन न पर्याप्तो ममासौ राक्षसाधमः 03149019a मया तु तस्मिन्निहते रावणे लोककण्टके 03149019c कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् 03149020a तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् 03149020c आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता 03149021a तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः 03149021c अरिष्टं क्षेममध्वानं वायुना परिरक्षितः 03149022a एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते 03149022c द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः 03149023a न च ते तरसा कार्यः कुसुमावचयः स्वयम् 03149023c दैवतानि हि मान्यानि पुरुषेण विशेषतः 03149024a बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ 03149024c दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत 03149025a मा तात साहसं कार्षीः स्वधर्ममनुपालय 03149025c स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च 03149026a न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च 03149026c धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि 03149027a अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः 03149027c विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः 03149028a आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः 03149028c वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः 03149029a वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः 03149029c बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः 03149030a पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः 03149030c वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः 03149031a त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् 03149031c ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते 03149032a सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि 03149032c दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् 03149033a वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः 03149033c सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः 03149034a द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः 03149034c यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः 03149035a याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः 03149035c पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् 03149036a शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते 03149036c भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् 03149037a क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् 03149037c स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः 03149038a वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः 03149038c सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते 03149039a निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते 03149039c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03149040a तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च 03149040c नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा 03149041a राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः 03149041c निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् 03149042a साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च 03149042c साधनीयानि कार्याणि समासव्यासयोगतः 03149043a मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ 03149043c सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् 03149044a स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा 03149044c न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् 03149045a मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् 03149045c स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् 03149046a धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् 03149046c स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु 03149047a स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा 03149047c बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् 03149048a बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् 03149048c निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् 03149049a निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते 03149049c तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 03149050a एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः 03149050c तं स्वधर्मविभागेन विनयस्थोऽनुपालय 03149051a तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् 03149051c दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् 03149052a क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः 03149052c सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः 03149052e अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् 03150001 वैशंपायन उवाच 03150001a ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् 03150001c भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः 03150002a परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत 03150002c श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् 03150003a ततः पुनरथोवाच पर्यश्रुनयनो हरिः 03150003c भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा 03150004a गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे 03150004c इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् 03150005a धनदस्यालयाच्चापि विसृष्टानां महाबल 03150005c देशकाल इहायातुं देवगन्धर्वयोषिताम् 03150006a ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् 03150006c मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह 03150007a तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते 03150007c भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत 03150008a यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् 03150008c धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् 03150009a शिलया नगरं वा तन्मर्दितव्यं मया यदि 03150009c यावदद्य करोम्येतत्कामं तव महाबल 03150010a भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः 03150010c प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना 03150011a कृतमेव त्वया सर्वं मम वानरपुंगव 03150011c स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे 03150012a सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् 03150012c तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् 03150013a एवमुक्तस्तु हनुमान्भीमसेनमभाषत 03150013c भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् 03150014a चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् 03150014c यदा सिंहरवं वीर करिष्यसि महाबल 03150014e तदाहं बृंहयिष्यामि स्वरवेण रवं तव 03150015a विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् 03150015c शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत 03150016a गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः 03150016c तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् 03150017a अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि 03150017c माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ 03150018a स तानि रमणीयानि वनान्युपवनानि च 03150018c विलोडयामास तदा सौगन्धिकवनेप्सया 03150019a फुल्लपद्मविचित्राणि पुष्पितानि वनानि च 03150019c मत्तवारणयूथानि पङ्कक्लिन्नानि भारत 03150019e वर्षतामिव मेघानां वृन्दानि ददृशे तदा 03150020a हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने 03150020c सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ 03150021a महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् 03150021c व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत 03150022a कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः 03150022c याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः 03150023a कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः 03150023c प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् 03150024a सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु 03150024c द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ 03150025a परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने 03150025c काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् 03150026a मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् 03150026c रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् 03150027a तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् 03150027c अपश्यत्प्रीतिजननं बालार्कसदृशद्युति 03150028a तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः 03150028c वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् 03151001 वैशंपायन उवाच 03151001a स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् 03151001c कैलासशिखरे रम्ये ददर्श शुभकानने 03151002a कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे 03151002c सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् 03151003a हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् 03151003c पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् 03151004a तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् 03151004c ददर्श विमलं तोयं शिवं बहु च पाण्डवः 03151005a तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् 03151005c जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः 03151006a वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः 03151006c हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः 03151007a आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः 03151007c गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् 03151008a सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा 03151008c राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च 03151009a तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः 03151009c बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः 03151010a तच्च क्रोधवशा नाम राक्षसा राजशासनात् 03151010c रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः 03151011a ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् 03151011c रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् 03151012a सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् 03151012c पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः 03151013a अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः 03151013c यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ 03151014a ततः सर्वे महाबाहुं समासाद्य वृकोदरम् 03151014c तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि 03151015a मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे 03151015c यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते 03152001 भीम उवाच 03152001a पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः 03152001c विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः 03152002a अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् 03152002c अनिलोढमितो नूनं सा बहूनि परीप्सति 03152003a तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् 03152003c पुष्पाहारमिह प्राप्तं निबोधत निशाचराः 03152004 राक्षसा ऊचुः 03152004a आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ 03152004c नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा 03152005a देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर 03152005c आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च 03152005e गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव 03152006a अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् 03152006c विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् 03152007a तमनादृत्य पद्मानि जिहीर्षसि बलादितः 03152007c धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् 03152008 भीम उवाच 03152008a राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके 03152008c दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे 03152009a न हि याचन्ति राजान एष धर्मः सनातनः 03152009c न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन 03152010a इयं च नलिनी रम्या जाता पर्वतनिर्झरे 03152010c नेयं भवनमासाद्य कुबेरस्य महात्मनः 03152011a तुल्या हि सर्वभूतानामियं वैश्रवणस्य च 03152011c एवंगतेषु द्रव्येषु कः कं याचितुमर्हति 03152012 वैशंपायन उवाच 03152012a इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत 03152012c ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् 03152012e मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः 03152013a कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः 03152013c व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् 03152014a गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम् 03152014c क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः 03152015a ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम् 03152015c प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति 03152016a ते तं तदा तोमरपट्टिशाद्यै;र्व्याविध्य शस्त्रैः सहसाभिपेतुः 03152016c जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः 03152017a वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता 03152017c सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः 03152018a तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम् 03152018c यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे 03152019a ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव 03152019c अशक्नुवन्तः सहिताः समन्ता;द्धतप्रवीराः सहसा निवृत्ताः 03152020a विदीर्यमाणास्तत एव तूर्ण;माकाशमास्थाय विमूढसंज्ञाः 03152020c कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः 03152021a स शक्रवद्दानवदैत्यसंघा;न्विक्रम्य जित्वा च रणेऽरिसंघान् 03152021c विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि 03152022a ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः 03152022c उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति 03152023a ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः 03152023c भीमस्य वीर्यं च बलं च संख्ये; यथावदाचख्युरतीव दीनाः 03152024a तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच 03152024c गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् 03152025a ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः 03152025c भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् 03153001 वैशंपायन उवाच 03153001a ततस्तानि महार्हाणि दिव्यानि भरतर्षभ 03153001c बहूनि बहुरूपाणि विरजांसि समाददे 03153002a ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः 03153002c प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन् 03153003a पपात महती चोल्का सनिर्घाता महाप्रभा 03153003c निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः 03153004a निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते 03153004c चचाल पृथिवी चापि पांसुवर्षं पपात च 03153005a सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः 03153005c तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन 03153006a तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः 03153006c उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति 03153007a सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः 03153007c यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः 03153008a एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः 03153008c अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः 03153009a तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः 03153009c पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे 03153010a कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति 03153010c कृतवानपि वा वीरः साहसं साहसप्रियः 03153011a इमे ह्यकस्मादुत्पाता महासमरदर्शिनः 03153011c दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः 03153012a तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी 03153012c प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी 03153013a यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना 03153013c तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् 03153014a अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि 03153014c तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति 03153015a स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः 03153015c प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः 03153016a उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् 03153016c गच्छाम सहितास्तूर्णं येन यातो वृकोदरः 03153017a वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् 03153017c त्वमप्यमरसंकाश वह कृष्णां घटोत्कच 03153018a व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः 03153018c चिरं च तस्य कालोऽयं स च वायुसमो जवे 03153019a तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने 03153019c उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् 03153020a तमन्वियाम भवतां प्रभावाद्रजनीचराः 03153020c पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् 03153021a तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा 03153021c उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ 03153022a आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः 03153022c लोमशेनैव सहिताः प्रययुः प्रीतमानसाः 03153023a ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने 03153023c प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् 03153024a तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् 03153024c ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् 03153025a उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् 03153025c प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् 03153026a तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः 03153026c उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् 03153027a साहसं बत भद्रं ते देवानामपि चाप्रियम् 03153027c पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् 03153028a अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च 03153028c तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः 03153029a एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः 03153029c प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः 03153030a ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् 03153030c नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् 03153030e विनयेनानताः सर्वे प्रणिपेतुश्च भारत 03153031a सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः 03153031c विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः 03153031e ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः 03154001 वैशंपायन उवाच 03154001a ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् 03154001c गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च 03154002a रहितान्भीमसेनेन कदाचित्तान्यदृच्छया 03154002c जहार धर्मराजानं यमौ कृष्णां च राक्षसः 03154003a ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः 03154003c इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा 03154004a परीक्षमाणः पार्थानां कलापानि धनूंषि च 03154004c अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः 03154005a स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे 03154005c अन्यद्रूपं समास्थाय विकृतं भैरवं महत् 03154006a गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च 03154006c प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् 03154007a सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः 03154007c आक्रन्दद्भीमसेनं वै येन यातो महाबलः 03154008a तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः 03154008c धर्मस्ते हीयते मूढ न चैनं समवेक्षसे 03154009a येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि 03154009c गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा 03154009e मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि 03154010a समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते 03154010c इमं च लोकं शोचन्तमनुशोचन्ति देवताः 03154010e पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि 03154011a वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस 03154011c राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् 03154012a न च राजावमन्तव्यो रक्षसा जात्वनागसि 03154012c अणुरप्यपचारश्च नास्त्यस्माकं नराशन 03154013a द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् 03154013c येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः 03154014a स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः 03154014c भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि 03154015a एवमेव वृथाचारो वृथावृद्धो वृथामतिः 03154015c वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि 03154016a अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः 03154016c प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर 03154017a अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि 03154017c अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् 03154018a एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् 03154018c विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया 03154019a ततो युधिष्ठिरस्तस्य भारिकः समपद्यत 03154019c स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् 03154020a अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः 03154020c मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता 03154021a नातिदूरे महाबाहुर्भविता पवनात्मजः 03154021c अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः 03154022a सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् 03154022c उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् 03154023a राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् 03154023c यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा 03154024a एष चास्मान्वयं चैनं युध्यमानाः परंतप 03154024c सूदयेम महाबाहो देशकालो ह्ययं नृप 03154025a क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम 03154025c जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् 03154026a राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि 03154026c नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत 03154027a भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः 03154027c हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि 03154028a तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया 03154028c प्रादृश्यत महाबाहुः सवज्र इव वासवः 03154029a सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् 03154029c क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा 03154030a मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् 03154030c भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् 03154031a भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः 03154031c क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् 03154032a विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे 03154032c आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा 03154032e ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् 03154033a प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् 03154033c अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् 03154033e राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् 03154034a अपक्वस्य च कालेन वधस्तव न विद्यते 03154034c नूनमद्यासि संपक्वो यथा ते मतिरीदृशी 03154034e दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा 03154035a बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः 03154035c मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि 03154036a यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते 03154036c न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः 03154037a एवमुक्तस्तु भीमेन राक्षसः कालचोदितः 03154037c भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः 03154038a अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः 03154038c न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् 03154039a श्रुता मे राक्षसा ये ये त्वया विनिहता रणे 03154039c तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् 03154040a एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् 03154040c स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः 03154040e बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् 03154041a राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् 03154041c अभिदुद्राव संरब्धो बलो वज्रधरं यथा 03154042a वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे 03154042c माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् 03154043a न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः 03154043c शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् 03154044a आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च 03154044c इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् 03154045a इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् 03154045c बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ 03154046a तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः 03154046c अमृष्यमाणयोः संख्ये देवदानवयोरिव 03154047a आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः 03154047c जीमूताविव घर्मान्ते विनदन्तौ महाबलौ 03154048a बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ 03154048c अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ 03154049a तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 03154049c वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः 03154050a आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् 03154050c ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः 03154051a तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः 03154051c पुञ्जीकृताश्च शतशः परस्परवधेप्सया 03154052a तदा शिलाः समादाय मुहूर्तमिव भारत 03154052c महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ 03154053a उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् 03154053c वज्रैरिव महावेगैराजघ्नतुरमर्षणौ 03154054a अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ 03154054c भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव 03154055a मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः 03154055c तयोश्चटचटाशब्दो बभूव सुमहात्मनोः 03154056a ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् 03154056c वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् 03154057a ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् 03154057c सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत 03154058a तत एनं महाबाहुर्बाहुभ्याममरोपमः 03154058c समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले 03154059a तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः 03154059c अरत्निना चाभिहत्य शिरः कायादपाहरत् 03154060a संदष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् 03154060c जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् 03154060e पपात रुधिरादिग्धं संदष्टदशनच्छदम् 03154061a तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् 03154061c स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः 03155001 वैशंपायन उवाच 03155001a निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् 03155001c अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः 03155002a स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः 03155002c द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् 03155003a समाश्चतस्रोऽभिगताः शिवेन चरतां वने 03155003c कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् 03155004a प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् 03155004c तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः 03155005a कृतश्च समयस्तेन पार्थेनामिततेजसा 03155005c पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि 03155006a तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् 03155006c देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् 03155007a इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः 03155007c कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् 03155008a तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् 03155008c ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च 03155009a सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ 03155009c क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि 03155010a तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् 03155010c प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः 03155011a द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा 03155011c राक्षसैरनुयातश्च लोमशेनाभिरक्षितः 03155012a क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् 03155012c तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः 03155013a ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् 03155013c सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् 03155014a अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् 03155014c गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् 03155015a उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः 03155015c प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि 03155016a ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् 03155016c पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते 03155017a सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः 03155017c समावृतं पुण्यतममाश्रमं वृषपर्वणः 03155018a तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः 03155018c पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः 03155019a अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् 03155019c पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः 03155020a अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् 03155020c आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् 03155021a एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे 03155021c न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् 03155022a ततस्ते वरवस्त्राणि शुभान्याभरणानि च 03155022c न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः 03155023a अतीतानागते विद्वान्कुशलः सर्वधर्मवित् 03155023c अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् 03155024a तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् 03155024c कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः 03155024e तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः 03155025a उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा 03155025c अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च 03155025e वृषपर्वा निववृते पन्थानमुपदिश्य च 03155026a नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः 03155026c पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः 03155027a नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु 03155027c पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः 03155028a महाभ्रघनसंकाशं सलिलोपहितं शुभम् 03155028c मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् 03155029a ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा 03155029c अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् 03155030a उपर्युपरि शैलस्य गुहाः परमदुर्गमाः 03155030c सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः 03155031a धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः 03155031c अगमन्सहितास्तत्र न कश्चिदवहीयते 03155032a ते मृगद्विजसंघुष्टं नानाद्विजसमाकुलम् 03155032c शाखामृगगणैश्चैव सेवितं सुमनोहरम् 03155033a पुण्यं पद्मसरोपेतं सपल्वलमहावनम् 03155033c उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् 03155034a ततः किंपुरुषावासं सिद्धचारणसेवितम् 03155034c ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् 03155035a विद्याधरानुचरितं किंनरीभिस्तथैव च 03155035c गजसिंहसमाकीर्णमुदीर्णशरभायुतम् 03155036a उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः 03155036c ते गन्धमादनवनं तन्नन्दनवनोपमम् 03155037a मुदिताः पाण्डुतनया मनोहृदयनन्दनम् 03155037c विविशुः क्रमशो वीरा अरण्यं शुभकाननम् 03155038a द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः 03155038c शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् 03155038e श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् 03155039a सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् 03155039c पश्यन्तः पादपांश्चापि फलभारावनामितान् 03155040a आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् 03155040c अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् 03155041a पनसाँल्लिकुचान्मोचान्खर्जूरानाम्रवेतसान् 03155041c पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् 03155042a बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा 03155042c प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा 03155042e भल्लातकानामलकान्हरीतकबिभीतकान् 03155043a इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् 03155043c एतानन्यांश्च विविधान्गन्धमादनसानुषु 03155044a फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् 03155044c तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा 03155045a पुंनागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् 03155045c पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा 03155046a पारिजातान्कोविदारान्देवदारुतरूंस्तथा 03155046c शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा 03155046e शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा 03155047a चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः 03155047c कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः 03155048a प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः 03155048c श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् 03155049a सरांसि च विचित्राणि प्रसन्नसलिलानि च 03155049c कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः 03155049e कह्लारैः कमलैश्चैव आचितानि समन्ततः 03155050a कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः 03155050c कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च 03155050e एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः 03155051a हृष्टैस्तथा तामरसरसासवमदालसैः 03155051c पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः 03155052a मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् 03155052c पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु 03155053a तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः 03155053c शिखण्डिनीभिः सहिताँल्लतामण्डपकेषु च 03155053e मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् 03155054a कृत्वैव केकामधुरं संगीतमधुरस्वरम् 03155054c चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् 03155054e मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् 03155055a कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् 03155055c वल्लीलतासंकटेषु कटकेषु स्थितांस्तथा 03155056a कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि 03155056c कलापरचिताटोपान्विचित्रमुकुटानिव 03155056e विवरेषु तरूणां च मुदितान्ददृशुश्च ते 03155057a सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् 03155057c सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च 03155058a कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् 03155058c अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् 03155058e कामवश्योत्सुककरान्कामस्येव शरोत्करान् 03155059a तथैव वनराजीनामुदारान्रचितानिव 03155059c विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव 03155060a तथानङ्गशराकारान्सहकारान्मनोरमान् 03155060c अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् 03155061a हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि 03155061c लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि 03155062a तथा शालांस्तमालांश्च पाटल्यो बकुलानि च 03155062c माला इव समासक्ताः शैलानां शिखरेषु च 03155063a एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः 03155063c गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् 03155064a शरभोन्नादसंघुष्टं नानारावनिनादितम् 03155064c सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु 03155065a पीता भास्वरवर्णाभा बभूवुर्वनराजयः 03155065c नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः 03155065e स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु 03155066a विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः 03155066c राजहंसैरुपेतानि सारसाभिरुतानि च 03155066e सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु 03155067a पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च 03155067c गन्धवन्ति च माल्यानि रसवन्ति फलानि च 03155067e अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु 03155068a एते चान्ये च बहवस्तत्र काननजा द्रुमाः 03155068c लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः 03155069a युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे 03155069c भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् 03155070a पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः 03155070c अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर 03155071a लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः 03155071c संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु 03155072a शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् 03155072c नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु 03155073a चकोराः शतपत्राश्च मत्तकोकिलशारिकाः 03155073c पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् 03155074a रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः 03155074c परस्परमुदीक्षन्ते बहवो जीवजीवकाः 03155075a हरितारुणवर्णानां शाद्वलानां समन्ततः 03155075c सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि 03155076a वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः 03155076c भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः 03155077a चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः 03155077c एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः 03155078a बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः 03155078c नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः 03155079a भास्कराभप्रभा भीम शारदाभ्रघनोपमाः 03155079c शोभयन्ति महाशैलं नानारजतधातवः 03155080a क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः 03155080c धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च 03155081a मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः 03155081c शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः 03155082a सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः 03155082c एते बहुविधाः शैलं शोभयन्ति महाप्रभाः 03155083a गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा 03155083c दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह 03155084a गीतानां तलतालानां यथा साम्नां च निस्वनः 03155084c श्रूयते बहुधा भीम सर्वभूतमनोहरः 03155085a महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् 03155085c कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् 03155086a धातुभिश्च सरिद्भिश्च किंनरैर्मृगपक्षिभिः 03155086c गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः 03155087a व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः 03155087c उपेतं पश्य कौन्तेय शैलराजमरिंदम 03155088a ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् 03155088c नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः 03155089a उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः 03155089c आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा 03155090a ततस्तं तीव्रतपसं कृशं धमनिसंततम् 03155090c पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् 03156001 वैशंपायन उवाच 03156001a युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् 03156001c अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् 03156002a ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ 03156002c शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे 03156003a तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः 03156003c यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् 03156004a अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा 03156004c पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् 03156005a कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः 03156005c सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् 03156006a नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे 03156006c मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति 03156007a कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः 03156007c कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु 03156008a सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् 03156008c यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे 03156009a यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः 03156009c वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे 03156010a कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते 03156010c दानधर्मतपःशौचैरार्जवेन तितिक्षया 03156011a पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे 03156011c कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव 03156012a स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः 03156012c पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च 03156013a किं न्वस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति 03156013c किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् 03156014a पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः 03156014c यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ 03156015a अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा 03156015c जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु 03156016a कामिनः सह कान्ताभिः परस्परमनुव्रताः 03156016c दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप 03156017a अरजांसि च वासांसि वसानाः कौशिकानि च 03156017c दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः 03156018a विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः 03156018c महोरगगणाश्चैव सुपर्णाश्चोरगादयः 03156019a अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु 03156019c भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः 03156020a इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः 03156020c न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः 03156021a न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः 03156021c विहारो ह्यत्र देवानाममानुषगतिस्तु सा 03156022a ईषच्चपलकर्माणं मनुष्यमिह भारत 03156022c द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः 03156023a अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर 03156023c गतिः परमसिद्धानां देवर्षीणां प्रकाशते 03156024a चापलादिह गच्छन्तं पार्थ यानमतः परम् 03156024c अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन 03156025a अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः 03156025c इह वैश्रवणस्तात पर्वसंधिषु दृश्यते 03156026a शिखरे तं समासीनमधिपं सर्वरक्षसाम् 03156026c प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् 03156027a देवदानवसिद्धानां तथा वैश्रवणस्य च 03156027c गिरेः शिखरमुद्यानमिदं भरतसत्तम 03156028a उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु 03156028c गीतसामस्वनस्तात श्रूयते गन्धमादने 03156029a एतदेवंविधं चित्रमिह तात युधिष्ठिर 03156029c प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसंधिषु 03156030a भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च 03156030c वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् 03156031a न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन 03156031c उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च 03156031e ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि 03157001 जनमेजय उवाच 03157001a पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः 03157001c कियन्तं कालमवसन्पर्वते गन्धमादने 03157002a कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् 03157002c वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम 03157003a विस्तरेण च मे शंस भीमसेनपराक्रमम् 03157003c यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ 03157003e न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम 03157004a कच्चित्समागमस्तेषामासीद्वैश्रवणेन च 03157004c तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् 03157005a एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 03157005c न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् 03157006 वैशंपायन उवाच 03157006a एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः 03157006c शासनं सततं चक्रुस्तथैव भरतर्षभाः 03157007a भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च 03157007c शुद्धबाणहतानां च मृगाणां पिशितान्यपि 03157008a मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च 03157008c एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः 03157009a तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् 03157009c शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च 03157010a कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः 03157010c राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो 03157011a आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् 03157011c अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् 03157012a तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः 03157012c प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा 03157013a आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः 03157013c तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः 03157014a ततः कतिपयाहस्य महाह्रदनिवासिनम् 03157014c ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् 03157015a प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः 03157015c ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् 03157016a ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः 03157016c अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च 03157017a तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः 03157017c ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी 03157018a भीमसेनं ततः कृष्णा काले वचनमब्रवीत् 03157018c विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् 03157019a सुपर्णानिलवेगेन श्वसनेन महाबलात् 03157019c पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ 03157019e प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति 03157020a खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर 03157020c गन्धर्वोरगरक्षांसि वासवश्च निवारितः 03157020e हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् 03157021a तवापि सुमहत्तेजो महद्बाहुबलं च ते 03157021c अविषह्यमनाधृष्यं शतक्रतुबलोपमम् 03157022a त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः 03157022c हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश 03157023a ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् 03157023c व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव 03157024a एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः 03157024c द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता 03157025a ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः 03157025c नामृष्यत महाबाहुः प्रहारमिव सद्गवः 03157026a सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः 03157026c मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः 03157027a लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः 03157027c सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः 03157028a महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः 03157028c रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् 03157029a केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः 03157029c व्यपेतभयसंमोहः शैलमभ्यपतद्बली 03157030a तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् 03157030c ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् 03157031a द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः 03157031c व्यपेतभयसंमोहः शैलराजं समाविशत् 03157032a न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः 03157032c कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः 03157033a तदेकायनमासाद्य विषमं भीमदर्शनम् 03157033c बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः 03157034a स किंनरमहानागमुनिगन्धर्वराक्षसान् 03157034c हर्षयन्पर्वतस्याग्रमाससाद महाबलः 03157035a तत्र वैश्रवणावासं ददर्श भरतर्षभः 03157035c काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलंकृतम् 03157036a मोदयन्सर्वभूतानि गन्धमादनसंभवः 03157036c सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ 03157037a चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः 03157037c अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः 03157038a रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् 03157038c राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः 03157039a गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः 03157039c भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः 03157040a ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् 03157040c ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् 03157041a ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः 03157041c यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः 03157042a गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः 03157042c प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः 03157043a ततः प्रववृते युद्धं तेषां तस्य च भारत 03157043c तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् 03157043e भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः 03157044a अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् 03157044c शरैर्विव्याध गात्राणि राक्षसानां महाबलः 03157045a सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् 03157045c कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः 03157046a भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् 03157046c विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च 03157047a प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् 03157047c ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव 03157048a स रश्मिभिरिवादित्यः शरैररिनिघातिभिः 03157048c सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः 03157049a अभितर्जयमानाश्च रुवन्तश्च महारवान् 03157049c न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः 03157050a ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः 03157050c भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः 03157051a उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् 03157051c दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना 03157052a तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः 03157052c सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः 03157053a अदर्शयदधीकारं पौरुषं च महाबलः 03157053c स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् 03157054a एकेन बहवः संख्ये मानुषेण पराजिताः 03157054c प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् 03157055a एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः 03157055c शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् 03157056a तमापतन्तं वेगेन प्रभिन्नमिव वारणम् 03157056c वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् 03157057a मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् 03157057c प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः 03157058a विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् 03157058c शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः 03157059a प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः 03157059c न वेगं धारयामासुर्गदावेगस्य वेगिताः 03157060a गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् 03157060c व्यंसयामास तं तस्य प्रहारं भीमविक्रमः 03157061a ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् 03157061c तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः 03157062a सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् 03157062c साग्निज्वाला महारौद्रा पपात सहसा भुवि 03157063a सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः 03157063c गदां जग्राह कौरव्यो गदायुद्धविशारदः 03157064a तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् 03157064c तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् 03157065a दीप्यमानं महाशूलं प्रगृह्य मणिमानपि 03157065c प्राहिणोद्भीमसेनाय वेगेन महता नदन् 03157066a भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः 03157066c अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् 03157067a सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् 03157067c प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि 03157068a सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा 03157068c हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह 03157069a तं राक्षसं भीमबलं भीमसेनेन पातितम् 03157069c ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् 03157070a तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः 03157070c भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति 03158001 वैशंपायन उवाच 03158001a श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः 03158001c अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि 03158002a धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा 03158002c भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् 03158003a द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः 03158003c सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा 03158004a ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः 03158004c ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् 03158005a स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् 03158005c महाबलान्महाघोरान्भीमसेनेन पातितान् 03158006a शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः 03158006c निहत्य समरे सर्वान्दानवान्मघवानिव 03158007a ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् 03158007c तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् 03158008a तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत 03158008c लोकपालैर्महाभागैर्दिवं देववरैरिव 03158009a कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् 03158009c भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् 03158010a साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् 03158010c नैतत्ते सदृशं वीर मुनेरिव मृषावचः 03158011a राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः 03158011c त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् 03158012a अर्थधर्मावनादृत्य यः पापे कुरुते मनः 03158012c कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् 03158012e पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् 03158013a एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् 03158013c अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः 03158013e विरराम महातेजास्तमेवार्थं विचिन्तयन् 03158014a ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः 03158014c सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति 03158015a ते जवेन महावेगाः प्राप्य वैश्रवणालयम् 03158015c भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः 03158016a न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः 03158016c प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् 03158017a गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः 03158017c राक्षसा निहताः सर्वे तव देव पुरःसराः 03158018a प्रमृद्य तरसा शैलं मानुषेण धनेश्वर 03158018c एकेन सहिताः संख्ये हताः क्रोधवशा गणाः 03158019a प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप 03158019c शेरते निहता देव गतसत्त्वाः परासवः 03158020a लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः 03158020c मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् 03158021a स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः 03158021c कोपसंरक्तनयनः कथमित्यब्रवीद्वचः 03158022a द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः 03158022c चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् 03158023a अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् 03158023c हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् 03158024a तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः 03158024c तेजोबलजवोपेता नानारत्नविभूषिताः 03158025a शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः 03158025c हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः 03158026a स तमास्थाय भगवान्राजराजो महारथम् 03158026c प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः 03158027a तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् 03158027c रक्ताक्षा हेमसंकाशा महाकाया महाबलाः 03158028a सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः 03158028c जवेन महता वीराः परिवार्योपतस्थिरे 03158029a तं महान्तमुपायान्तं धनेश्वरमुपान्तिके 03158029c ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् 03158030a कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् 03158030c आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा 03158031a ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः 03158031c तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः 03158032a ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत 03158032c समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः 03158033a पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् 03158033c नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् 03158034a अपराद्धमिवात्मानं मन्यमाना महारथाः 03158034c तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् 03158035a शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा 03158035c विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः 03158036a तमासीनं महाकायाः शङ्कुकर्णा महाजवाः 03158036c उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः 03158037a शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः 03158037c परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् 03158038a काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् 03158038c बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् 03158039a न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः 03158039c आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः 03158040a आददानं शितान्बाणान्योद्धुकाममवस्थितम् 03158040c दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः 03158041a विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् 03158041c निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः 03158042a न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव 03158042c कालेनैते हताः पूर्वं निमित्तमनुजस्तव 03158043a व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् 03158043c दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् 03158044a न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ 03158044c कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा 03158045a एवमुक्त्वा तु राजानं भीमसेनमभाषत 03158045c नैतन्मनसि मे तात वर्तते कुरुसत्तम 03158045e यदिदं साहसं भीम कृष्णार्थे कृतवानसि 03158046a मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् 03158046c स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि 03158046e शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर 03158047a अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा 03158047c शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता 03158048a दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन 03158048c न तवात्रापराधोऽस्ति कथंचिदपि शत्रुहन् 03158049 युधिष्ठिर उवाच 03158049a कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना 03158049c श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् 03158050a इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः 03158050c तदैव त्वं न निर्दग्धः सबलः सपदानुगः 03158051 वैश्रवण उवाच 03158051a देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर 03158051c वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः 03158051e यक्षाणां घोररूपाणां विविधायुधधारिणाम् 03158052a अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् 03158052c उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् 03158052e नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् 03158053a तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् 03158053c तेजोराशिं दीप्यमानं हुताशनमिवैधितम् 03158054a राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा 03158054c मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत 03158054e न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि 03158055a स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव 03158055c मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव 03158056a धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर 03158056c तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् 03158057a त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते 03158057c तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे 03158058a सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् 03158058c न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति 03158059a एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् 03158059c स भीमेन महाराज भ्रात्रा तव विमोक्षितः 03159001 वैश्रवण उवाच 03159001a युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः 03159001c लोकतन्त्रविधानानामेष पञ्चविधो विधिः 03159002a धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत 03159002c पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् 03159003a धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् 03159003c क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै 03159004a य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु 03159004c स लोके लभते वीर यशः प्रेत्य च सद्गतिम् 03159005a देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् 03159005c संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह 03159006a पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते 03159006c कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति 03159007a अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् 03159007c वृथाचारसमारम्भः प्रेत्य चेह च नश्यति 03159008a साहसे वर्तमानानां निकृतीनां दुरात्मनाम् 03159008c सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः 03159009a अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः 03159009c निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ 03159010a आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् 03159010c तामिस्रं प्रथमं पक्षं वीतशोकभयो वस 03159011a अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः 03159011c मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः 03159011e रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः 03159012a साहसेषु च संतिष्ठन्निह शैले वृकोदरः 03159012c वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर 03159013a इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः 03159013c उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः 03159014a तथैव चान्नपानानि स्वादूनि च बहूनि च 03159014c उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ 03159015a यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः 03159015c धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः 03159016a आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः 03159016c रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर 03159017a अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् 03159017c भीमसेनादवरजः फल्गुनः कुशली दिवि 03159018a याः काश्चन मता लोकेष्वग्र्याः परमसंपदः 03159018c जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये 03159019a दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् 03159019c एतान्यपि महासत्त्वे स्थितान्यमिततेजसि 03159020a न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् 03159020c न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु 03159021a स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः 03159021c मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत 03159022a योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् 03159022c स शंतनुर्महातेजाः पितुस्तव पितामहः 03159022e प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना 03159023a सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः 03159023c पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः 03159023e सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति 03159024a अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः 03159024c स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति 03159025 वैशंपायन उवाच 03159025a ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ 03159025c प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः 03159026a ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् 03159026c मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः 03159027a स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः 03159027c कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः 03159028a शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः 03159028c साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः 03159029a एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् 03159029c अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः 03159030a तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः 03159030c यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः 03159031a पक्षिणामिव निर्घोषः कुबेरसदनं प्रति 03159031c बभूव परमाश्वानामैरावतपथे यताम् 03159032a ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः 03159032c प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् 03159033a ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् 03159033c अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् 03159034a तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता 03159034c समरे निहतास्तस्मात्सर्वे मणिमता सह 03159035a पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् 03159035c सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः 03160001 वैशंपायन उवाच 03160001a ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम 03160001c आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत 03160002a तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह 03160002c ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् 03160003a ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे 03160003c प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् 03160004a असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति 03160004c शैलराजो महाराज मन्दरोऽभिविराजते 03160005a इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः 03160005c पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् 03160006a एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च 03160006c ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः 03160007a अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः 03160007c ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः 03160008a यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः 03160008c प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् 03160009a एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् 03160009c प्रेतराजस्य भवनमृद्ध्या परमया युतम् 03160010a यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति 03160010c अस्तं पर्वतराजानमेतमाहुर्मनीषिणः 03160011a एतं पर्वतराजानं समुद्रं च महोदधिम् 03160011c आवसन्वरुणो राजा भूतानि परिरक्षति 03160012a उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् 03160012c महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः 03160013a यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः 03160013c भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् 03160014a यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् 03160014c तेषामपि महामेरुः स्थानं शिवमनामयम् 03160015a अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च 03160015c सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा 03160016a देशं विरजसं पश्य मेरोः शिखरमुत्तमम् 03160016c यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः 03160017a यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् 03160017c अनादिनिधनं देवं प्रभुं नारायणं परम् 03160018a ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते 03160018c देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् 03160019a अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः 03160019c स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः 03160020a तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च 03160020c स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते 03160021a यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् 03160021c परेण तपसा युक्ता भाविताः कर्मभिः शुभैः 03160022a योगसिद्धा महात्मानस्तमोमोहविवर्जिताः 03160022c तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत 03160023a स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् 03160023c ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर 03160024a एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि 03160024c कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् 03160025a अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः 03160025c उदीचीं भजते काष्ठां दिशमेष विभावसुः 03160026a स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव 03160026c प्राङ्मुखः सविता देवः सर्वभूतहिते रतः 03160027a स मासं विभजन्कालं बहुधा पर्वसंधिषु 03160027c तथैव भगवान्सोमो नक्षत्रैः सह गच्छति 03160028a एवमेष परिक्रम्य महामेरुमतन्द्रितः 03160028c भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् 03160029a तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् 03160029c मार्गमेतदसंबाधमादित्यः परिवर्तते 03160030a सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् 03160030c ततः सर्वाणि भूतानि कालः शिशिरमृच्छति 03160031a स्थावराणां च भूतानां जङ्गमानां च तेजसा 03160031c तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः 03160032a ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् 03160032c प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते 03160033a एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् 03160033c पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः 03160034a वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् 03160034c वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते 03160035a एवमेष चरन्पार्थ कालचक्रमतन्द्रितः 03160035c प्रकर्षन्सर्वभूतानि सविता परिवर्तते 03160036a संतता गतिरेतस्य नैष तिष्ठति पाण्डव 03160036c आदायैव तु भूतानां तेजो विसृजते पुनः 03160037a विभजन्सर्वभूतानामायुः कर्म च भारत 03160037c अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः 03161001 वैशंपायन उवाच 03161001a तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् 03161001c रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य 03161002a तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान् 03161002c संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च 03161003a तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् 03161003c मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् 03161004a मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य 03161004c शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः 03161005a साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः 03161005c कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् 03161006a क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान् 03161006c मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः 03161007a अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः 03161007c तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः 03161008a स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् 03161008c विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर 03161009a यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः 03161009c तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः 03161010a रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः 03161010c समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च 03161011a स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च 03161011c सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः 03161012a इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन 03161012c इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः 03161013a दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् 03161013c बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः 03161014a यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः 03161014c तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् 03161015a भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी 03161015c यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः 03161016a तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम् 03161016c मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम् 03161017a ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम् 03161017c विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव 03161018a स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः 03161018c बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा 03161019a तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् 03161019c धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम 03161020a स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् 03161020c धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च 03161021a वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च 03161021c समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः 03161022a बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम् 03161022c स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् 03161023a यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता 03161023c तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः 03161024a ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् 03161024c सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः 03161025a तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान् 03161025c ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य 03161026a गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी 03161026c शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति 03161026e दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे 03161027a ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम् 03161027c विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव 03161028a एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् 03161028c तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः 03161029a संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् 03161029c माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः 03162001 वैशंपायन उवाच 03162001a एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः 03162001c बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् 03162002a रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत 03162002c पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः 03162003a तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा 03162003c विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् 03162004a ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् 03162004c मेघनादिनमारुह्य श्रिया परमया ज्वलन् 03162005a पार्थानभ्याजगामाशु देवराजः पुरंदरः 03162005c आगत्य च सहस्राक्षो रथादवरुरोह वै 03162006a तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः 03162006c भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् 03162007a पूजयामास चैवाथ विधिवद्भूरिदक्षिणः 03162007c यथार्हममितात्मानं विधिदृष्टेन कर्मणा 03162008a धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् 03162008c भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः 03162009a आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः 03162009c धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके 03162010a जटिलं देवराजस्य तपोयुक्तमकल्मषम् 03162010c हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् 03162011a तं तथादीनमनसं राजानं हर्षसंप्लुतम् 03162011c उवाच वचनं धीमान्देवराजः पुरंदरः 03162012a त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव 03162012c स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् 03162013a अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन् 03162013c कृतप्रियश्चास्मि धनंजयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः 03162014a एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् 03162014c जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः 03162015a धनेश्वरगृहस्थानां पाण्डवानां समागमम् 03162015c शक्रेण य इमं विद्वानधीयीत समाहितः 03162016a संवत्सरं ब्रह्मचारी नियतः संशितव्रतः 03162016c स जीवेत निराबाधः सुसुखी शरदां शतम् 03163001 वैशंपायन उवाच 03163001a यथागतं गते शक्रे भ्रातृभिः सह संगतः 03163001c कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् 03163002a अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् 03163002c हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् 03163003a कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव 03163003c कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः 03163004a सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत 03163004c कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव 03163005a यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् 03163005c यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते 03163006a यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम 03163006c कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् 03163006e एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते 03163007a यथा तुष्टो महादेवो देवराजश्च तेऽनघ 03163007c यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम 03163007e एतदाख्याहि मे सर्वमखिलेन धनंजय 03163008 अर्जुन उवाच 03163008a शृणु हन्त महाराज विधिना येन दृष्टवान् 03163008c शतक्रतुमहं देवं भगवन्तं च शंकरम् 03163009a विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन 03163009c भवता च समादिष्टस्तपसे प्रस्थितो वनम् 03163010a भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः 03163010c एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि 03163011a स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे 03163011c तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन 03163012a स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम 03163012c अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि 03163013a ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत 03163013c तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् 03163014a ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् 03163014c तपोऽतप्यं महाराज मासं मूलफलाशनः 03163015a द्वितीयश्चापि मे मासो जलं भक्षयतो गतः 03163015c निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन 03163016a ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा 03163016c न च मे हीयते प्राणस्तदद्भुतमिवाभवत् 03163017a चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते 03163017c वराहसंस्थितं भूतं मत्समीपमुपागमत् 03163018a निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि 03163018c संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः 03163019a अनु तस्यापरं भूतं महत्कैरातसंस्थितम् 03163019c धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा 03163020a ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी 03163020c अताडयं शरेणाथ तद्भूतं लोमहर्षणम् 03163021a युगपत्तत्किरातश्च विकृष्य बलवद्धनुः 03163021c अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः 03163022a स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः 03163022c मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया 03163023a एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव 03163023c स वर्ष्मवान्महाकायस्ततो मामभ्यधावत 03163024a ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः 03163024c तं चाहं शरवर्षेण महता समवाकिरम् 03163025a ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः 03163025c प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् 03163026a तस्य तच्छतधा रूपमभवच्च सहस्रधा 03163026c तानि चास्य शरीराणि शरैरहमताडयम् 03163027a पुनस्तानि शरीराणि एकीभूतानि भारत 03163027c अदृश्यन्त महाराज तान्यहं व्यधमं पुनः 03163028a अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः 03163028c एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि 03163029a यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे 03163029c ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ 03163030a न चैनमशकं हन्तुं तदद्भुतमिवाभवत् 03163030c तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् 03163031a भूयश्चैव महाराज सविशेषमहं ततः 03163031c अस्त्रपूगेन महता रणे भूतमवाकिरम् 03163032a स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् 03163032c शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् 03163032e जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ 03163033a तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् 03163033c ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत 03163033e उपचीयमानश्च मया महास्त्रेण व्यवर्धत 03163034a ततः संतापितो लोको मत्प्रसूतेन तेजसा 03163034c क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् 03163035a तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् 03163035c ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् 03163036a ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी 03163036c सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् 03163037a हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च 03163037c मम तस्य च भूतस्य बाहुयुद्धमवर्तत 03163038a व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ 03163038c अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् 03163039a ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत 03163039c सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् 03163040a एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः 03163040c दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् 03163041a हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः 03163041c स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः 03163042a अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः 03163042c उमासहायो हरिदृग्बहुरूपः पिनाकधृक् 03163043a स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् 03163043c शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप 03163044a ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ 03163044c प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् 03163045a तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते 03163045c यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् 03163045e अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् 03163046a ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः 03163046c प्रणम्य शिरसा शर्वं ततो वचनमाददे 03163047a भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम 03163047c अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् 03163047e ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् 03163048a रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव 03163048c प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः 03163049a उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् 03163049c न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन 03163050a पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय 03163050c अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः 03163051a तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् 03163051c मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे 03163052a उत्सादनममित्राणां परसेनानिकर्तनम् 03163052c दुरासदं दुष्प्रहसं सुरदानवराक्षसैः 03163053a अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् 03163053c प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत 03164001 अर्जुन उवाच 03164001a ततस्तामवसं प्रीतो रजनीं तत्र भारत 03164001c प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः 03164002a व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् 03164002c अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा 03164003a तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् 03164003c भगवन्तं महादेवं समेतोऽस्मीति भारत 03164004a स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः 03164004c दृष्टस्त्वया महादेवो यथा नान्येन केनचित् 03164005a समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः 03164005c द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति 03164006a एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः 03164006c अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः 03164007a अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः 03164007c पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् 03164008a दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च 03164008c शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः 03164009a वादित्राणि च दिव्यानि सुघोषाणि समन्ततः 03164009c स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः 03164010a गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च 03164010c पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः 03164011a मरुतां च गणास्तत्र देवयानैरुपागमन् 03164011c महेन्द्रानुचरा ये च देवसद्मनिवासिनः 03164012a ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः 03164012c शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः 03164013a एतस्मिन्नेव काले तु कुबेरो नरवाहनः 03164013c दर्शयामास मां राजँल्लक्ष्म्या परमया युतः 03164014a दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् 03164014c वरुणं देवराजं च यथास्थानमवस्थितम् 03164015a ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः 03164015c सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् 03164016a सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् 03164016c अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः 03164017a ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् 03164017c प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो 03164018a गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत 03164018c अथ देवा ययुः सर्वे यथागतमरिंदम 03164019a मघवानपि देवेशो रथमारुह्य सुप्रभम् 03164019c उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा 03164020a पुरैवागमनादस्माद्वेदाहं त्वां धनंजय 03164020c अतः परं त्वहं वै त्वां दर्शये भरतर्षभ 03164021a त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् 03164021c तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव 03164022a भूयश्चैव तु तप्तव्यं तपः परमदारुणम् 03164022c उवाच भगवान्सर्वं तपसश्चोपपादनम् 03164023a मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति 03164023c विदितस्त्वं हि देवानामृषीणां च महात्मनाम् 03164024a ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम 03164024c आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर 03164025 इन्द्र उवाच 03164025a क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप 03164025c यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि 03164026 अर्जुन उवाच 03164026a ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् 03164026c मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् 03164027a तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप 03164027c लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव 03164028 इन्द्र उवाच 03164028a परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय 03164028c ममात्मजस्य वचनं सूपपन्नमिदं तव 03164029a शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत 03164029c वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् 03164030a साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् 03164030c वैष्णवानि च सर्वाणि नैरृतानि तथैव च 03164030e मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह 03164031 अर्जुन उवाच 03164031a एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत 03164031c अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् 03164031e दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप 03164032a लोकपालेषु यातेषु मामुवाचाथ मातलिः 03164032c द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते 03164033a संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् 03164033c पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज 03164034a इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् 03164034c प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् 03164035a चोदयामास स हयान्मनोमारुतरंहसः 03164035c मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः 03164036a अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः 03164036c तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् 03164037a अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् 03164037c यदास्थितो रथं दिव्यं पदा न चलितो भवान् 03164038a देवराजोऽपि हि मया नित्यमत्रोपलक्षितः 03164038c विचलन्प्रथमोत्पाते हयानां भरतर्षभ 03164039a त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह 03164039c अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे 03164040a इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् 03164040c दर्शयामास मे राजन्विमानानि च भारत 03164041a नन्दनादीनि देवानां वनानि बहुलान्युत 03164041c दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः 03164042a ततः शक्रस्य भवनमपश्यममरावतीम् 03164042c दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् 03164043a न तां भासयते सूर्यो न शीतोष्णे न च क्लमः 03164043c रजः पङ्को न च तमस्तत्रास्ति न जरा नृप 03164044a न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते 03164044c दिवौकसां महाराज न च ग्लानिररिंदम 03164045a न क्रोधलोभौ तत्रास्तामशुभं च विशां पते 03164045c नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि 03164046a नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः 03164046c पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः 03164047a शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः 03164047c सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता 03164048a मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः 03164048c विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः 03164049a ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् 03164049c आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् 03164050a ते मां वीर्येण यशसा तेजसा च बलेन च 03164050c अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च 03164051a प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् 03164051c देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः 03164052a ददावर्धासनं प्रीतः शक्रो मे ददतां वरः 03164052c बहुमानाच्च गात्राणि पस्पर्श मम वासवः 03164053a तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण 03164053c अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत 03164054a विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा 03164054c स च गान्धर्वमखिलं ग्राहयामास मां नृप 03164055a ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः 03164055c सुखं शक्रस्य भवने सर्वकामसमन्वितः 03164056a शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् 03164056c पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप 03164057a तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत 03164057c अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः 03164058a ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः 03164058c एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि 03165001 अर्जुन उवाच 03165001a कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः 03165001c संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् 03165002a न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि 03165002c किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः 03165002e अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा 03165003a अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः 03165003c अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति 03165004a अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः 03165004c ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह 03165005a अस्त्राणि समवाप्तानि त्वया दश च पञ्च च 03165005c पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः 03165006a प्रयोगमुपसंहारमावृत्तिं च धनंजय 03165006c प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः 03165007a तव गुर्वर्थकालोऽयमुपपन्नः परंतप 03165007c प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् 03165008a ततोऽहमब्रुवं राजन्देवराजमिदं वचः 03165008c विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् 03165009a ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा 03165009c नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन 03165010a निवातकवचा नाम दानवा मम शत्रवः 03165010c समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत 03165011a तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः 03165011c तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति 03165012a ततो मातलिसंयुक्तं मयूरसमरोमभिः 03165012c हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् 03165013a बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् 03165013c स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् 03165014a अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् 03165014c अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् 03165015a ततः प्रायामहं तेन स्यन्दनेन विराजता 03165015c येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा 03165016a ततो देवाः सर्व एव तेन घोषेण बोधितः 03165016c मन्वाना देवराजं मां समाजग्मुर्विशां पते 03165016e दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन 03165017a तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे 03165017c निवातकवचानां तु प्रस्थितं मां वधैषिणम् 03165017e निबोधत महाभागाः शिवं चाशास्त मेऽनघाः 03165018a तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् 03165018c रथेनानेन मघवा जितवाञ्शम्बरं युधि 03165018e नमुचिं बलवृत्रौ च प्रह्लादनरकावपि 03165019a बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च 03165019c रथेनानेन दैत्यानां जितवान्मघवान्युधि 03165020a त्वमप्येतेन कौन्तेय निवातकवचान्रणे 03165020c विजेता युधि विक्रम्य पुरेव मघवान्वशी 03165021a अयं च शङ्खप्रवरो येन जेतासि दानवान् 03165021c अनेन विजिता लोकाः शक्रेणापि महात्मना 03165022a प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् 03165022c प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः 03165023a स शङ्खी कवची बाणी प्रगृहीतशरासनः 03165023c दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया 03166001 अर्जुन उवाच 03166001a ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः 03166001c अपश्यमुदधिं भीममपांपतिमथाव्ययम् 03166002a फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः 03166002c ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः 03166002e नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः 03166003a तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः 03166003c मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः 03166004a शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः 03166004c दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः 03166005a तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत 03166005c वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् 03166006a तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् 03166006c अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् 03166007a तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले 03166007c नादयन्रथघोषेण तत्पुरं समुपाद्रवत् 03166008a रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे 03166008c मन्वाना देवराजं मां संविग्ना दानवाभवन् 03166009a सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः 03166009c तथा शूलासिपरशुगदामुसलपाणयः 03166010a ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः 03166010c संविधाय पुरे रक्षां न स्म कश्चन दृश्यते 03166011a ततः शङ्खमुपादाय देवदत्तं महास्वनम् 03166011c पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् 03166012a स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् 03166012c वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि 03166013a ततो निवातकवचाः सर्व एव समन्ततः 03166013c दंशिता विविधैस्त्राणैर्विविधायुधपाणयः 03166014a आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि 03166014c पट्टिशैः करवालैश्च रथचक्रैश्च भारत 03166015a शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः 03166015c प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः 03166016a ततो विचार्य बहुधा रथमार्गेषु तान्हयान् 03166016c प्राचोदयत्समे देशे मातलिर्भरतर्षभ 03166017a तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् 03166017c नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत् 03166018a ततस्ते दानवास्तत्र योधव्रातान्यनेकशः 03166018c विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् 03166019a तेन शब्देन महता समुद्रे पर्वतोपमाः 03166019c आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः 03166020a ततो वेगेन महता दानवा मामुपाद्रवन् 03166020c विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः 03166021a स संप्रहारस्तुमुलस्तेषां मम च भारत 03166021c अवर्तत महाघोरो निवातकवचान्तकः 03166022a ततो देवर्षयश्चैव दानवर्षिगणाश्च ये 03166022c ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे 03166023a ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः 03166023c अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये 03167001 अर्जुन उवाच 03167001a ततो निवातकवचाः सर्वे वेगेन भारत 03167001c अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे 03167002a आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः 03167002c आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् 03167003a ततोऽपरे महावीर्याः शूलपट्टिशपाणयः 03167003c शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि 03167004a तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् 03167004c अनिशं सृज्यमानं तैरपतन्मद्रथोपरि 03167005a अन्ये मामभ्यधावन्त निवातकवचा युधि 03167005c शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः 03167006a तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः 03167006c गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे 03167006e ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः 03167007a ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः 03167007c रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः 03167007e सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् 03167008a शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे 03167008c तदा मातलिना यत्ता व्यचरन्नल्पका इव 03167009a तेषां चरणपातेन रथनेमिस्वनेन च 03167009c मम बाणनिपातैश्च हतास्ते शतशोऽसुराः 03167010a गतासवस्तथा चान्ये प्रगृहीतशरासनाः 03167010c हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः 03167011a ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः 03167011c निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः 03167012a ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् 03167012c अश्वांस्तथा वेगवतो यदयत्नादधारयत् 03167013a ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे 03167013c सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः 03167014a एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् 03167014c प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः 03167015a वध्यमानास्ततस्ते तु हयैस्तेन रथेन च 03167015c अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे 03167016a स्पर्धमाना इवास्माभिर्निवातकवचा रणे 03167016c शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् 03167017a ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः 03167017c व्यधमं सायकैराशु शतशोऽथ सहस्रशः 03167018a ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः 03167018c अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः 03167019a ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् 03167019c दयितं देवराजस्य माधवं नाम भारत 03167020a ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः 03167020c अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् 03167021a छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः 03167021c प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः 03167022a गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः 03167022c निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् 03167023a तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव 03167023c अवाकिरन्मां बलवत्तानहं व्यधमं शरैः 03167024a वध्यमानास्ततस्ते तु निवातकवचाः पुनः 03167024c शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् 03167025a शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः 03167025c ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः 03167026a तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् 03167026c प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् 03167027a इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः 03167027c मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः 03167028a शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः 03167028c ततो निवातकवचा मामयुध्यन्त मायया 03168001 अर्जुन उवाच 03168001a ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः 03168001c नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् 03168002a तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः 03168002c अचूर्णयं वेगवद्भिः शतधैकैकमाहवे 03168003a चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत 03168003c तत्राश्मचूर्णमपतत्पावकप्रकरा इव 03168004a ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् 03168004c धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके 03168005a नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः 03168005c आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा 03168006a धाराणां च निपातेन वायोर्विस्फूर्जितेन च 03168006c गर्जितेन च दैत्यानां न प्राज्ञायत किंचन 03168007a धारा दिवि च संबद्धा वसुधायां च सर्वशः 03168007c व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि 03168008a तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् 03168008c दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् 03168009a हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते 03168009c मुमुचुर्दानवा मायामग्निं वायुं च मानद 03168010a ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः 03168010c शैलेन च महास्त्रेण वायोर्वेगमधारयम् 03168011a तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः 03168011c प्राकुर्वन्विविधा माया यौगपद्येन भारत 03168012a ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् 03168012c अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् 03168013a सा तु मायामयी वृष्टिः पीडयामास मां युधि 03168013c अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः 03168014a तमसा संवृते लोके घोरेण परुषेण च 03168014c तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः 03168015a हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि 03168015c असकृच्चाह मां भीतः क्वासीति भरतर्षभ 03168016a मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि 03168016c स च मां विगतज्ञानः संत्रस्त इदमब्रवीत् 03168017a सुराणामसुराणां च संग्रामः सुमहानभूत् 03168017c अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ 03168018a शम्बरस्य वधे चापि संग्रामः सुमहानभूत् 03168018c सारथ्यं देवराजस्य तत्रापि कृतवानहम् 03168019a तथैव वृत्रस्य वधे संगृहीता हया मया 03168019c वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् 03168020a एते मया महाघोराः संग्रामाः पर्युपासिताः 03168020c न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव 03168021a पितामहेन संहारः प्रजानां विहितो ध्रुवम् 03168021c न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् 03168022a तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना 03168022c मोहयिष्यन्दानवानामहं मायामयं बलम् 03168023a अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् 03168023c अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च 03168024a अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् 03168024c विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव 03168025a एवमुक्त्वाहमसृजमस्त्रमायां नराधिप 03168025c मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् 03168026a पीड्यमानासु मायासु तासु तास्वसुरेश्वराः 03168026c पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः 03168027a पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः 03168027c व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति 03168028a सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः 03168028c व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे 03168029a ततः पर्यपतन्नुग्रा निवातकवचा मयि 03168029c तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् 03168030a वर्तमाने तथा युद्धे निवातकवचान्तके 03168030c नापश्यं सहसा सर्वान्दानवान्माययावृतान् 03169001 अर्जुन उवाच 03169001a अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया 03169001c अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् 03169002a गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः 03169002c अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् 03169003a ततो निवातकवचा वध्यमाना मया युधि 03169003c संहृत्य मायां सहसा प्राविशन्पुरमात्मनः 03169004a व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने 03169004c अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः 03169005a विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च 03169005c कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च 03169006a हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् 03169006c उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः 03169007a ततो निवातकवचा व्योम संछाद्य केवलम् 03169007c अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् 03169008a अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ 03169008c न्यगृह्णन्दानवा घोरा रथचक्रे च भारत 03169009a विनिगृह्य हरीनश्वान्रथं च मम युध्यतः 03169009c सर्वतो मामचिन्वन्त सरथं धरणीधरैः 03169010a पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः 03169010c स देशो यत्र वर्ताम गुहेव समपद्यत 03169011a पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः 03169011c अगच्छं परमामार्तिं मातलिस्तदलक्षयत् 03169012a लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् 03169012c अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय 03169013a ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् 03169013c देवराजस्य दयितं वज्रमस्त्रं नराधिप 03169014a अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च 03169014c अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् 03169015a ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् 03169015c ते वज्रचोदिता बाणा वज्रभूताः समाविशन् 03169016a ते वज्रवेगाभिहता दानवाः पर्वतोपमाः 03169016c इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले 03169017a अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः 03169017c अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् 03169018a हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः 03169018c समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः 03169019a न हयानां क्षतिः काचिन्न रथस्य न मातलेः 03169019c मम चादृश्यत तदा तदद्भुतमिवाभवत् 03169020a ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत 03169020c नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते 03169021a हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः 03169021c प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः 03169022a ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् 03169022c त्रासयन्रथघोषेण निवातकवचस्त्रियः 03169023a तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् 03169023c रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः 03169024a ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः 03169024c शिलानामिव शैलेषु पतन्तीनामभूत्तदा 03169025a वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् 03169025c बहुरत्नविचित्राणि शातकुम्भमयानि च 03169026a तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् 03169026c विशिष्टं देवनगरादपृच्छं मातलिं ततः 03169027a इदमेवंविधं कस्माद्देवता नाविशन्त्युत 03169027c पुरंदरपुराद्धीदं विशिष्टमिति लक्षये 03169028 मातलिरुवाच 03169028a आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् 03169028c ततो निवातकवचैरितः प्रच्याविताः सुराः 03169029a तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् 03169029c इदं वृतं निवासाय देवेभ्यश्चाभयं युधि 03169030a ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः 03169030c विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया 03169031a तत उक्तो भगवता दिष्टमत्रेति वासवः 03169031c भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् 03169032a तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव 03169032c न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया 03169033a कालस्य परिणामेन ततस्त्वमिह भारत 03169033c एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा 03169034a दानवानां विनाशार्थं महास्त्राणां महद्बलम् 03169034c ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् 03169035 अर्जुन उवाच 03169035a ततः प्रविश्य नगरं दानवांश्च निहत्य तान् 03169035c पुनर्मातलिना सार्धमगच्छं देवसद्म तत् 03170001 अर्जुन उवाच 03170001a निवर्तमानेन मया महद्दृष्टं ततोऽपरम् 03170001c पुरं कामचरं दिव्यं पावकार्कसमप्रभम् 03170002a द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः 03170002c पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् 03170003a गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् 03170003c सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् 03170003e द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् 03170004a तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः 03170004c असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः 03170004e चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् 03170005a तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् 03170005c अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै 03170006 मातलिरुवाच 03170006a पुलोमा नाम दैतेयी कालका च महासुरी 03170006c दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः 03170006e तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् 03170007a अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् 03170007c अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः 03170008a रमणीयं पुरं चेदं खचरं सुकृतप्रभम् 03170008c सर्वरत्नैः समुदितं दुर्धर्षममरैरपि 03170008e सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः 03170009a सर्वकामगुणोपेतं वीतशोकमनामयम् 03170009c ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् 03170010a तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् 03170010c पौलोमाध्युषितं वीर कालकेयैश्च दानवैः 03170011a हिरण्यपुरमित्येतत्ख्यायते नगरं महत् 03170011c रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः 03170012a त एते मुदिता नित्यमवध्याः सर्वदैवतैः 03170012c निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः 03170012e मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा 03170013 अर्जुन उवाच 03170013a सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो 03170013c अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा 03170014a त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् 03170014c न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः 03170015a उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् 03170015c रथेन तेन दिव्येन हरियुक्तेन मातलिः 03170016a ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः 03170016c समुत्पेतुर्महावेगा रथानास्थाय दंशिताः 03170017a ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः 03170017c अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः 03170018a तदहं चास्त्रवर्षेण महता प्रत्यवारयम् 03170018c शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः 03170019a व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे 03170019c तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः 03170020a तेषामहं विमूढानामन्योन्यमभिधावताम् 03170020c शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः 03170021a ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः 03170021c खमुत्पेतुः सनगरा मायामास्थाय दानवीम् 03170022a ततोऽहं शरवर्षेण महता प्रत्यवारयम् 03170022c मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् 03170023a तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् 03170023c दैतेयैर्वरदानेन धार्यते स्म यथासुखम् 03170024a अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते 03170024c पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति 03170025a अमरावतिसंकाशं पुरं कामगमं तु तत् 03170025c अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप 03170026a ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च 03170026c न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ 03170027a विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः 03170027c महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् 03170028a ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः 03170028c पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः 03170029a ततो मातलिरप्याशु पुरस्तान्निपतन्निव 03170029c महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा 03170030a ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् 03170030c युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत 03170031a तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः 03170031c ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः 03170032a नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै 03170032c ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् 03170033a ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् 03170033c अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव 03170034a रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः 03170034c प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः 03170035a विचित्रमुकुटापीडा विचित्रकवचध्वजाः 03170035c विचित्राभरणाश्चैव नन्दयन्तीव मे मनः 03170036a अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे 03170036c नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् 03170037a तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि 03170037c व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम 03170038a ततोऽहं देवदेवाय रुद्राय प्रणतो रणे 03170038c स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् 03170038e यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् 03170039a ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् 03170039c त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् 03170039e लेलिहानैर्महानागैः कृतशीर्षममित्रहन् 03170040a विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् 03170040c दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ 03170041a नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे 03170041c मुक्तवान्दानवेन्द्राणां पराभावाय भारत 03170042a मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः 03170042c मृगाणामथ सिंहानां व्याघ्राणां च विशां पते 03170042e ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् 03170043a गजानां सृमराणां च शरभाणां च सर्वशः 03170043c ऋषभाणां वराहाणां मार्जाराणां तथैव च 03170043e शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः 03170044a गृध्राणां गरुडानां च मकराणां तथैव च 03170044c पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् 03170045a गुह्यकानां च संग्रामे नैरृतानां तथैव च 03170045c झषाणां गजवक्त्राणामुलूकानां तथैव च 03170046a मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् 03170046c तथैव यातु धानानां गदामुद्गरधारिणाम् 03170047a एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा 03170047c सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते 03170048a त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः 03170048c अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः 03170048e अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः 03170049a अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः 03170049c अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः 03170049e न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत 03170050a गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् 03170050c दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे 03170051a तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् 03170051c निशाम्य परमं हर्षमगमद्देवसारथिः 03170052a तदसह्यं कृतं कर्म देवैरपि दुरासदम् 03170052c दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः 03170053a उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः 03170053c सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया 03170053e न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः 03170054a सुरासुरैरवध्यं हि पुरमेतत्खगं महत् 03170054c त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् 03170055a विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च 03170055c विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः 03170056a प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः 03170056c पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले 03170057a रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः 03170057c उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः 03170058a तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् 03170058c न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् 03170059a गन्धर्वनगराकारं हतनागमिव ह्रदम् 03170059c शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् 03170060a मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् 03170060c देवराजस्य भवनं कृतकर्माणमाहवात् 03170061a हिरण्यपुरमारुज्य निहत्य च महासुरान् 03170061c निवातकवचांश्चैव ततोऽहं शक्रमागमम् 03170062a मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् 03170062c सर्वं विश्रावयामास यथा भूतं महाद्युते 03170063a हिरण्यपुरघातं च मायानां च निवारणम् 03170063c निवातकवचानां च वधं संख्ये महौजसाम् 03170064a तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः 03170064c मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् 03170065a ततो मां देवराजो वै समाश्वास्य पुनः पुनः 03170065c अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः 03170066a अतिदेवासुरं कर्म कृतमेतत्त्वया रणे 03170066c गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम 03170067a एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय 03170067c असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् 03170068a अविषह्यो रणे हि त्वं देवदानवराक्षसैः 03170068c सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः 03170069a वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् 03170069c पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः 03171001 अर्जुन उवाच 03171001a ततो मामभिविश्वस्तं संरूढशरविक्षतम् 03171001c देवराजोऽनुगृह्येदं काले वचनमब्रवीत् 03171002a दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत 03171002c न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन 03171003a भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः 03171003c संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् 03171004a इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः 03171004c अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् 03171005a देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् 03171005c दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह 03171006a ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च 03171006c प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च 03171007a एवं संपूजितस्तत्र सुखमस्म्युषितो नृप 03171007c इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह 03171008a ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह 03171008c समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते 03171009a एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत 03171009c उषितानि मया राजन्स्मरता द्यूतजं कलिम् 03171010a ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् 03171010c गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि 03171011 युधिष्ठिर उवाच 03171011a दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत 03171011c दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः 03171012a दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतप 03171012c साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ 03171013a दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ 03171013c दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः 03171014a अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् 03171014c मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् 03171015a तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत 03171015c यैस्तथा वीर्यवन्तस्ते निवातकवचा हता 03171016 अर्जुन उवाच 03171016a श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः 03171016c निवातकवचा घोरा यैर्मया विनिपातिताः 03171017 वैशंपायन उवाच 03171017a एवमागमनं तत्र कथयित्वा धनंजयः 03171017c भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह 03172001 वैशंपायन उवाच 03172001a तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः 03172001c उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह 03172002a ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम् 03172002c दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया 03172003a ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः 03172003c अस्त्राणि तानि दिव्यानि दर्शयामास भारत 03172004a यथान्यायं महातेजाः शौचं परममास्थितः 03172004c गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् 03172004e पार्थिवं रथमास्थाय शोभमानो धनंजयः 03172005a ततः सुदंशितस्तेन कवचेन सुवर्चसा 03172005c धनुरादाय गाण्डीवं देवदत्तं च वारिजम् 03172006a शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः 03172006c अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे 03172007a अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै 03172007c समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा 03172008a क्षुभिताः सरितश्चैव तथैव च महोदधिः 03172008c शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः 03172009a न बभासे सहस्रांशुर्न जज्वाल च पावकः 03172009c न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन 03172010a अन्तर्भूमिगता ये च प्राणिनो जनमेजय 03172010c पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् 03172011a वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः 03172011c दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम् 03172012a ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः 03172012c जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे 03172013a राजर्षयश्च प्रवरास्तथैव च दिवौकसः 03172013c यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः 03172014a ततः पितामहश्चैव लोकपालाश्च सर्वशः 03172014c भगवांश्च महादेवः सगणोऽभ्याययौ तदा 03172015a ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः 03172015c अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः 03172016a जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः 03172016c ननृतुः संघशश्चैव राजन्नप्सरसां गणाः 03172017a तस्मिंस्तु तुमुले काले नारदः सुरचोदितः 03172017c आगम्याह वचः पार्थं श्रवणीयमिदं नृप 03172018a अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत 03172018c नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन 03172019a अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन 03172019c प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन 03172020a एतानि रक्ष्यमाणानि धनंजय यथागमम् 03172020c बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः 03172021a अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव 03172021c भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् 03172022a अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे 03172022c योज्यमानानि पार्थेन द्विषतामवमर्दने 03172023a निवार्याथ ततः पार्थं सर्वे देवा यथागतम् 03172023c जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ 03172024a तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः 03172024c तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया 03173001 जनमेजय उवाच 03173001a तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः 03173001c अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन 03173002 वैशंपायन उवाच 03173002a वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः 03173002c तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः 03173003a वेश्मानि तान्यप्रतिमानि पश्य;न्क्रीडाश्च नानाद्रुमसंनिकर्षाः 03173003c चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी 03173004a अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः 03173004c न प्राणिनां ते स्पृहयन्ति राज;ञ्शिवश्च कालः स बभूव तेषाम् 03173005a समेत्य पार्थेन यथैकरात्र;मूषुः समास्तत्र तदा चतस्रः 03173005c पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु 03173006a ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य 03173006c यमौ च वीरौ सुरराजकल्पा;वेकान्तमास्थाय हितं प्रियं च 03173007a तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च 03173007c ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम् 03173008a एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः 03173008c तं वञ्चयित्वाधमबुद्धिशील;मज्ञातवासं सुखमाप्नुयामः 03173009a तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि 03173009c समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान् 03173010a संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम 03173010c निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय 03173011a सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज 03173011c स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः 03173012a कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु 03173012c तत्प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत्प्राप्तमथ क्रियाश्च 03173013a इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात् 03173013c कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च 03173014a तेजस्तवोग्रं न सहेत राज;न्समेत्य साक्षादपि वज्रपाणिः 03173014c न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज 03173015a त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता 03173015c यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः 03173016a तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः 03173016c तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे 03173016e त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य 03173017a ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः 03173017c प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः 03173018a आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः 03173018c यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः 03173019a समाप्तकर्मा सहितः सुहृद्भि;र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् 03173019c शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार 03173020a वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम् 03173020c उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु 03173021a तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान् 03173021c स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम् 03173022a तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि 03173022c महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर्नराग्र्याः 03174001 वैशंपायन उवाच 03174001a नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च 03174001c सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम् 03174002a ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव 03174002c कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम् 03174003a समुच्छ्रयान्पर्वतसंनिरोधा;न्गोष्ठान्गिरीणां गिरिसेतुमालाः 03174003c बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र 03174004a तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि 03174004c आलोकयन्तोऽभिययुः प्रतीता;स्ते धन्विनः खड्गधरा नराग्र्याः 03174005a वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि 03174005c एते निवासाः सततं बभूवु;र्निशानिशं प्राप्य नरर्षभाणाम् 03174006a ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम् 03174006c आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते 03174007a समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः 03174007c शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते 03174008a सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे 03174008c अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम् 03174009a ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः 03174009c कुबेरकान्तां नलिनीं विशोकाः; संपश्यमानाः सुरसिद्धजुष्टाम् 03174010a तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः 03174010c ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव 03174011a ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः 03174011c विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः 03174012a चीनांस्तुखारान्दरदान्सदार्वा;न्देशान्कुणिन्दस्य च भूरिरत्नान् 03174012c अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः 03174013a श्रुत्वा च तान्पार्थिवपुत्रपौत्रा;न्प्राप्तान्सुबाहुर्विषये समग्रान् 03174013c प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम् 03174014a समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः 03174014c सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः 03174015a सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान् 03174015c घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम् 03174016a तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ 03174016c विशाखयूपं समुपेत्य चक्रु;स्तदा निवासं पुरुषप्रवीराः 03174017a वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम् 03174017c शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः 03174018a तत्राससादातिबलं भुजंगं; क्षुधार्दितं मृत्युमिवोग्ररूपम् 03174018c वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा 03174019a द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः 03174019c अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम् 03174020a ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः 03174020c तस्माद्वनाच्चैत्ररथप्रकाशा;च्छ्रिया ज्वलन्तस्तपसा च युक्ताः 03174021a ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः 03174021c सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः 03174022a समीक्ष्य तान्द्वैतवने निविष्टा;न्निवासिनस्तत्र ततोऽभिजग्मुः 03174022c तपोदमाचारसमाधियुक्ता;स्तृणोदपात्राहरणाश्मकुट्टाः 03174023a प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः 03174023c बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः 03174024a तां यक्षगन्धर्वमहर्षिकान्ता;मायागभूतामिव देवतानाम् 03174024c सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः 03175001 जनमेजय उवाच 03175001a कथं नागायुतप्राणो भीमसेनो महाबलः 03175001c भयमाहारयत्तीव्रं तस्मादजगरान्मुने 03175002a पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः 03175002c नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् 03175003a तं शंससि भयाविष्टमापन्नमरिकर्षणम् 03175003c एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे 03175004 वैशंपायन उवाच 03175004a बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् 03175004c प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः 03175005a यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः 03175005c ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् 03175006a स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा 03175006c देवर्षिसिद्धचरितानप्सरोगणसेवितान् 03175007a चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः 03175007c कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् 03175008a नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः 03175008c उपेतान्बहुलच्छायैर्मनोनयननन्दनैः 03175009a स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः 03175009c सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः 03175010a वनानि देवदारूणां मेघानामिव वागुराः 03175010c हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि 03175011a मृगयां परिधावन्स समेषु मरुधन्वसु 03175011c विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः 03175012a स ददर्श महाकायं भुजङ्गं लोमहर्षणम् 03175012c गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् 03175013a पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः 03175013c चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् 03175014a गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता 03175014c दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः 03175015a त्रासनं सर्वभूतानां कालान्तकयमोपमम् 03175015c निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् 03175016a स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् 03175016c जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् 03175017a तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा 03175017c संज्ञा मुमोह सहसा वरदानेन तस्य ह 03175018a दश नागसहस्राणि धारयन्ति हि यद्बलम् 03175018c तद्बलं भीमसेनस्य भुजयोरसमं परैः 03175019a स तेजस्वी तथा तेन भुजगेन वशीकृतः 03175019c विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् 03175020a नागायुतसमप्राणः सिंहस्कन्धो महाभुजः 03175020c गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः 03175021a स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे 03175021c न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् 03176001 वैशंपायन उवाच 03176001a स भीमसेनस्तेजस्वी तथा सर्पवशं गतः 03176001c चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् 03176002a उवाच च महासर्पं कामया ब्रूहि पन्नग 03176002c कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि 03176003a पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः 03176003c नागायुतसमप्राणस्त्वया नीतः कथं वशम् 03176004a सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा 03176004c समागताश्च बहुशो निहताश्च मया मृधे 03176005a दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः 03176005c भुजवेगमशक्ता मे सोढुं पन्नगसत्तम 03176006a किं नु विद्याबलं किं वा वरदानमथो तव 03176006c उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया 03176007a असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः 03176007c यथेदं मे त्वया नाग बलं प्रतिहतं महत् 03176008a इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् 03176008c भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् 03176009a निगृह्य तं महाबाहुं ततः स भुजगस्तदा 03176009c विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् 03176010a दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज 03176010c दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् 03176011a यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम 03176011c तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम 03176012a इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम् 03176012c शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् 03176013a नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः 03176013c तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः 03176014a सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च 03176014c इमामवस्थामापन्नः पश्य दैवमिदं मम 03176015a त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् 03176015c अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् 03176016a न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः 03176016c गजो वा महिषो वापि षष्ठे काले नरोत्तम 03176017a नासि केवलसर्पेण तिर्यग्योनिषु वर्तता 03176017c गृहीतः कौरवश्रेष्ठ वरदानमिदं मम 03176018a पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् 03176018c कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः 03176019a स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः 03176019c मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् 03176020a ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः 03176020c स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा 03176021a यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् 03176021c स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः 03176022a गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः 03176022c सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति 03176023a इति चाप्यहमश्रौषं वचस्तेषां दयावताम् 03176023c मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः 03176024a सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ 03176024c सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते 03176025a तमुवाच महाबाहुर्भीमसेनो भुजंगमम् 03176025c न ते कुप्ये महासर्प न चात्मानं विगर्हये 03176026a यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः 03176026c आगमे यदि वापाये न तत्र ग्लपयेन्मनः 03176027a दैवं पुरुषकारेण को निवर्तितुमर्हति 03176027c दैवमेव परं मन्ये पुरुषार्थो निरर्थकः 03176028a पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् 03176028c इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् 03176029a किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् 03176029c यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् 03176030a हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः 03176030c मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः 03176031a विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः 03176031c धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना 03176032a अथ वा नार्जुनो धीमान्विषादमुपयास्यति 03176032c सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः 03176033a समर्थः स महाबाहुरेकाह्ना सुमहाबलः 03176033c देवराजमपि स्थानात्प्रच्यावयितुमोजसा 03176034a किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् 03176034c विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् 03176035a मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् 03176035c यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः 03176036a कथं नु तस्यानाथाया मद्विनाशाद्भुजंगम 03176036c अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः 03176037a नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ 03176037c मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ 03176038a निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ 03176038c मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः 03176039a एवंविधं बहु तदा विललाप वृकोदरः 03176039c भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् 03176040a युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः 03176040c अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् 03176041a दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता 03176041c दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह 03176042a एकपक्षाक्षिचरणा वर्तिका घोरदर्शना 03176042c रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा 03176043a प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः 03176043c अपसव्यानि सर्वाणि मृगपक्षिरुतानि च 03176044a पृष्ठतो वायसः कृष्णो याहि याहीति वाशति 03176044c मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा 03176045a हृदयं चरणश्चापि वामोऽस्य परिवर्तते 03176045c सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत 03176046a स धर्मराजो मेधावी शङ्कमानो महद्भयम् 03176046c द्रौपदीं परिपप्रच्छ क्व भीम इति भारत 03176047a शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् 03176047c स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः 03176048a द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् 03176048c नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति 03176049a स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः 03176049c ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् 03176050a धावतस्तस्य वीरस्य मृगार्थे वातरंहसः 03176050c ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि 03176051a स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे 03176051c गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा 03177001 वैशंपायन उवाच 03177001a युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् 03177001c दयितं भ्रातरं वीरमिदं वचनमब्रवीत् 03177002a कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् 03177002c कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः 03177003a स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् 03177003c कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् 03177004 युधिष्ठिर उवाच 03177004a देवो वा यदि वा दैत्य उरगो वा भवान्यदि 03177004c सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः 03177005a किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम 03177005c किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् 03177006 सर्प उवाच 03177006a नहुषो नाम राजाहमासं पूर्वस्तवानघ 03177006c प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप 03177007a क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च 03177007c त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च 03177008a तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा 03177008c सहस्रं हि द्विजातीनामुवाह शिबिकां मम 03177009a ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् 03177009c इमामगस्त्येन दशामानीतः पृथिवीपते 03177010a न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव 03177010c तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः 03177011a षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव 03177011c नाहमेनं विमोक्ष्यामि न चान्यमभिकामये 03177012a प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम 03177012c अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् 03177013 युधिष्ठिर उवाच 03177013a ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः 03177013c अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम 03177014a वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् 03177014c सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः 03177015 सर्प उवाच 03177015a ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर 03177015c ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे 03177016 युधिष्ठिर उवाच 03177016a सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा 03177016c दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः 03177017a वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् 03177017c यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् 03177018 सर्प उवाच 03177018a चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह 03177018c शूद्रेष्वपि च सत्यं च दानमक्रोध एव च 03177018e आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर 03177019a वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप 03177019c ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये 03177020 युधिष्ठिर उवाच 03177020a शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते 03177020c न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः 03177021a यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः 03177021c यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् 03177022a यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह 03177022c ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि 03177023a एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते 03177023c यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता 03177024a एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् 03177024c एषा मम मतिः सर्प यथा वा मन्यते भवान् 03177025 सर्प उवाच 03177025a यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः 03177025c व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते 03177026 युधिष्ठिर उवाच 03177026a जातिरत्र महासर्प मनुष्यत्वे महामते 03177026c संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः 03177027a सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः 03177027c वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् 03177028a इदमार्षं प्रमाणं च ये यजामह इत्यपि 03177028c तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः 03177029a प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते 03177029c तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते 03177030a वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते 03177030c अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् 03177031a कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते 03177031c संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः 03177032a यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते 03177032c तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम 03177033 सर्प उवाच 03177033a श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर 03177033c भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् 03178001 युधिष्ठिर उवाच 03178001a भवानेतादृशो लोके वेदवेदाङ्गपारगः 03178001c ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा 03178002 सर्प उवाच 03178002a पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत 03178002c अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम 03178003 युधिष्ठिर उवाच 03178003a दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते 03178003c अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् 03178004 सर्प उवाच 03178004a दाने रतत्वं सत्यं च अहिंसा प्रियमेव च 03178004c एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् 03178005a कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते 03178005c सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते 03178006a एवमेव महेष्वास प्रियवाक्यान्महीपते 03178006c अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते 03178007a एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् 03178007c यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् 03178008 युधिष्ठिर उवाच 03178008a कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् 03178008c अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे 03178009 सर्प उवाच 03178009a तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः 03178009c मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा 03178010a तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः 03178010c अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते 03178011a विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् 03178011c तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते 03178012a कामक्रोधसमायुक्तो हिंसालोभसमन्वितः 03178012c मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते 03178013a तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते 03178013c गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते 03178014a सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् 03178014c नित्ये महति चात्मानमवस्थापयते नृप 03178015a जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् 03178015c फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः 03178016 युधिष्ठिर उवाच 03178016a शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः 03178016c तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् 03178017a किं न गृह्णासि विषयान्युगपत्त्वं महामते 03178017c एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम 03178018 सर्प उवाच 03178018a यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् 03178018c करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि 03178019a ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ 03178019c तस्य भोगाधिकरणे करणानि निबोध मे 03178020a मनसा तात पर्येति क्रमशो विषयानिमान् 03178020c विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः 03178021a अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते 03178021c तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते 03178022a स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः 03178022c द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् 03178023a बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः 03178023c एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः 03178024 युधिष्ठिर उवाच 03178024a मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् 03178024c एतदध्यात्मविदुषां परं कार्यं विधीयते 03178025 सर्प उवाच 03178025a बुद्धिरात्मानुगा तात उत्पातेन विधीयते 03178025c तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत् 03178026a बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् 03178026c बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि 03178027a एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् 03178027c त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान् 03178028 युधिष्ठिर उवाच 03178028a अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव 03178028c विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि 03178029a सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् 03178029c एवमद्भुतकर्माणमिति मे संशयो महान् 03178030 सर्प उवाच 03178030a सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् 03178030c वर्तमानः सुखे सर्वो नावैतीति मतिर्मम 03178031a सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर 03178031c पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् 03178032a कृतं कार्यं महाराज त्वया मम परंतप 03178032c क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना 03178033a अहं हि दिवि दिव्येन विमानेन चरन्पुरा 03178033c अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् 03178034a ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः 03178034c करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः 03178035a चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते 03178035c तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम 03178036a ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम 03178036c स मामपनयो राजन्भ्रंशयामास वै श्रियः 03178037a तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः 03178037c अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा 03178038a ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः 03178038c प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् 03178039a अयाचं तमहं विप्रं शापस्यान्तो भवेदिति 03178039c अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि 03178040a ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः 03178040c युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति 03178041a अभिमानस्य घोरस्य बलस्य च नराधिप 03178041c फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि 03178042a ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् 03178042c ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् 03178043a सत्यं दमस्तपो योगमहिंसा दाननित्यता 03178043c साधकानि सदा पुंसां न जातिर्न कुलं नृप 03178044a अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः 03178044c स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः 03178045 वैशंपायन उवाच 03178045a इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः 03178045c दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह 03178046a युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः 03178046c धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् 03178047a ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् 03178047c कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः 03178048a तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः 03178048c आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी 03178049a ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया 03178049c मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् 03178050a पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् 03178050c हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः 03179001 वैशंपायन उवाच 03179001a निदाघान्तकरः कालः सर्वभूतसुखावहः 03179001c तत्रैव वसतां तेषां प्रावृट्समभिपद्यत 03179002a छादयन्तो महाघोषाः खं दिशश्च बलाहकाः 03179002c प्रववर्षुर्दिवारात्रमसिताः सततं तदा 03179003a तपात्ययनिकेताश्च शतशोऽथ सहस्रशः 03179003c अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः 03179004a विरूढशष्पा पृथिवी मत्तदंशसरीसृपा 03179004c बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा 03179005a न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते 03179005c समं वा विषमं वापि नद्यो वा स्थावराणि वा 03179006a क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः 03179006c सिन्धवः शोभयां चक्रुः काननानि तपात्यये 03179007a नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः 03179007c वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् 03179008a स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह 03179008c मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः 03179009a तथा बहुविधाकारा प्रावृण्मेघानुनादिता 03179009c अभ्यतीता शिवा तेषां चरतां मरुधन्वसु 03179010a क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् 03179010c रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा 03179011a विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् 03179011c मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् 03179012a पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः 03179012c ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः 03179013a कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः 03179013c नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः 03179014a आकाशनीकाशतटां नीपनीवारसंकुलाम् 03179014c बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् 03179015a ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् 03179015c पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् 03179016a तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी 03179016c तत्रैव वसतामासीत्कार्त्तिकी जनमेजय 03179017a पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः 03179017c तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् 03179018a तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः 03179018c सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् 03180001 वैशंपायन उवाच 03180001a काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः 03180001c कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया 03180002a ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् 03180002c ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् 03180003a अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा 03180003c एष्यतीह महाबाहुर्वशी शौरिरुदारधीः 03180004a विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः 03180004c सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः 03180005a बहुवत्सरजीवी च मार्कण्डेयो महातपाः 03180005c स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति 03180006a तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः 03180006c सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः 03180007a मघवानिव पौलोम्या सहितः सत्यभामया 03180007c उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् 03180008a अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि 03180008c ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् 03180009a पूजयामास धौम्यं च यमाभ्यामभिवादितः 03180009c परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् 03180010a स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् 03180010c पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् 03180011a तथैव सत्यभामापि द्रौपदीं परिषस्वजे 03180011c पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया 03180012a ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः 03180012c आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः 03180013a कृष्णस्तु पार्थेन समेत्य विद्वा;न्धनंजयेनासुरतर्जनेन 03180013c बभौ यथा भूतपतिर्महात्मा; समेत्य साक्षाद्भगवान्गुहेन 03180014a ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय 03180014c उक्त्वा यथावत्पुनरन्वपृच्छ;त्कथं सुभद्रा च तथाभिमन्युः 03180015a स पूजयित्वा मधुहा यथाव;त्पार्थांश्च कृष्णां च पुरोहितं च 03180015c उवाच राजानमभिप्रशंस;न्युधिष्ठिरं तत्र सहोपविश्य 03180016a धर्मः परः पाण्डव राज्यलाभा;त्तस्यार्थमाहुस्तप एव राजन् 03180016c सत्यार्जवाभ्यां चरता स्वधर्मं; जितस्तवायं च परश्च लोकः 03180017a अधीतमग्रे चरता व्रतानि; सम्यग्धनुर्वेदमवाप्य कृत्स्नम् 03180017c क्षात्रेण धर्मेण वसूनि लब्ध्वा; सर्वे ह्यवाप्ताः क्रतवः पुराणाः 03180018a न ग्राम्यधर्मेषु रतिस्तवास्ति; कामान्न किंचित्कुरुषे नरेन्द्र 03180018c न चार्थलोभात्प्रजहासि धर्मं; तस्मात्स्वभावादसि धर्मराजः 03180019a दानं च सत्यं च तपश्च राज;ञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च 03180019c अवाप्य राष्ट्राणि वसूनि भोगा;नेषा परा पार्थ सदा रतिस्ते 03180020a यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायामवशामपश्यत् 03180020c अपेतधर्मव्यवहारवृत्तं; सहेत तत्पाण्डव कस्त्वदन्यः 03180021a असंशयं सर्वसमृद्धकामः; क्षिप्रं प्रजाः पालयितासि सम्यक् 03180021c इमे वयं निग्रहणे कुरूणां; यदि प्रतिज्ञा भवतः समाप्ता 03180022a धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्हसिंहः 03180022c उवाच दिष्ट्या भवतां शिवेन; प्राप्तः किरीटी मुदितः कृतास्त्रः 03180023a प्रोवाच कृष्णामपि याज्ञसेनीं; दशार्हभर्ता सहितः सुहृद्भिः 03180023c कृष्णे धनुर्वेदरतिप्रधानाः; सत्यव्रतास्ते शिशवः सुशीलाः 03180023e सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास्तव याज्ञसेनि 03180024a राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सोदरैश्च 03180024c न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिमाप्नुवन्ति 03180025a आनर्तमेवाभिमुखाः शिवेन; गत्वा धनुर्वेदरतिप्रधानाः 03180025c तवात्मजा वृष्णिपुरं प्रविश्य; न दैवतेभ्यः स्पृहयन्ति कृष्णे 03180026a यथा त्वमेवार्हसि तेषु वृत्तिं; प्रयोक्तुमार्या च यथैव कुन्ती 03180026c तेष्वप्रमादेन सदा करोति; तथा च भूयश्च तथा सुभद्रा 03180027a यथानिरुद्धस्य यथाभिमन्यो;र्यथा सुनीथस्य यथैव भानोः 03180027c तथा विनेता च गतिश्च कृष्णे; तवात्मजानामपि रौक्मिणेयः 03180028a गदासिचर्मग्रहणेषु शूरा;नस्त्रेषु शिक्षासु रथाश्वयाने 03180028c सम्यग्विनेता विनयत्यतन्द्री;स्तांश्चाभिमन्युः सततं कुमारः 03180029a स चापि सम्यक्प्रणिधाय शिक्षा;मस्त्राणि चैषां गुरुवत्प्रदाय 03180029c तवात्मजानां च तथाभिमन्योः; पराक्रमैस्तुष्यति रौक्मिणेयः 03180030a यदा विहारं प्रसमीक्षमाणाः; प्रयान्ति पुत्रास्तव याज्ञसेनि 03180030c एकैकमेषामनुयान्ति तत्र; रथाश्च यानानि च दन्तिनश्च 03180031a अथाब्रवीद्धर्मराजं तु कृष्णो; दशार्हयोधाः कुकुरान्धकाश्च 03180031c एते निदेशं तव पालयन्ति; तिष्ठन्ति यत्रेच्छसि तत्र राजन् 03180032a आवर्ततां कार्मुकवेगवाता; हलायुधप्रग्रहणा मधूनाम् 03180032c सेना तवार्थेषु नरेन्द्र यत्ता; ससादिपत्त्यश्वरथा सनागा 03180033a प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयोधनः पापकृतां वरिष्ठः 03180033c स सानुबन्धः ससुहृद्गणश्च; सौभस्य सौभाधिपतेश्च मार्गम् 03180034a कामं तथा तिष्ठ नरेन्द्र तस्मि;न्यथा कृतस्ते समयः सभायाम् 03180034c दाशार्हयोधैस्तु ससादियोधं; प्रतीक्षतां नागपुरं भवन्तम् 03180035a व्यपेतमन्युर्व्यपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम् 03180035c ततः समृद्धं प्रथमं विशोकः; प्रपत्स्यसे नागपुरं सराष्ट्रम् 03180036a ततस्तदाज्ञाय मतं महात्मा; यथावदुक्तं पुरुषोत्तमेन 03180036c प्रशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवमित्युवाच 03180037a असंशयं केशव पाण्डवानां; भवान्गतिस्त्वच्छरणा हि पार्थाः 03180037c कालोदये तच्च ततश्च भूयः; कर्ता भवान्कर्म न संशयोऽस्ति 03180038a यथाप्रतिज्ञं विहृतश्च कालः; सर्वाः समा द्वादश निर्जनेषु 03180038c अज्ञातचर्यां विधिवत्समाप्य; भवद्गताः केशव पाण्डवेयाः 03180039 वैशंपायन उवाच 03180039a तथा वदति वार्ष्णेये धर्मराजे च भारत 03180039c अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् 03180039e प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः 03180040a तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् 03180040c आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः 03180041a तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् 03180041c ब्राह्मणानां मतेनाह पाण्डवानां च केशवः 03180042a शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः 03180042c द्रौपदी सत्यभामा च तथाहं परमं वचः 03180043a पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः 03180043c राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः 03180044a तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः 03180044c आजगाम विशुद्धात्मा पाण्डवानवलोककः 03180045a तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः 03180045c पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् 03180046a नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् 03180046c मार्कण्डेयस्य वदतस्तां कथामन्वमोदत 03180047a उवाच चैनं कालज्ञः स्मयन्निव स नारदः 03180047c ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् 03180048a एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः 03180048c क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति 03180049a एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः 03180049c मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् 03181001 वैशंपायन उवाच 03181001a तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् 03181001c कथासंजननार्थाय चोदयामास पाण्डवः 03181002a भवान्दैवतदैत्यानामृषीणां च महात्मनाम् 03181002c राजर्षीणां च सर्वेषां चरितज्ञः सनातनः 03181003a सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् 03181003c अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः 03181004a भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् 03181004c धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः 03181005a कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च 03181005c स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः 03181006a अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर 03181006c इह वा कृतमन्वेति परदेहेऽथ वा पुनः 03181007a देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः 03181007c कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम 03181008a ऐहलौकिकमेवैतदुताहो पारलौकिकम् 03181008c क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव 03181009 मार्कण्डेय उवाच 03181009a त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर 03181009c विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि 03181010a अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु 03181010c यथेहामुत्र च नरः सुखदुःखमुपाश्नुते 03181011a निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् 03181011c ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः 03181012a अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः 03181012c ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन 03181013a सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् 03181013c ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः 03181014a स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः 03181014c अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः 03181015a द्रष्टारो देवसंघानामृषीणां च महात्मनाम् 03181015c प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः 03181016a आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः 03181016c ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः 03181017a कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः 03181017c लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः 03181018a अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः 03181018c संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः 03181019a मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः 03181019c सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः 03181019e अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः 03181020a दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः 03181020c भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः 03181020e नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः 03181021a जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः 03181021c प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति 03181022a क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् 03181022c इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु 03181023a अयमादिशरीरेण देवसृष्टेन मानवः 03181023c शुभानामशुभानां च कुरुते संचयं महत् 03181024a आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 03181024c संभवत्येव युगपद्योनौ नास्त्यन्तराभवः 03181025a तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा 03181025c फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते 03181026a कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः 03181026c अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः 03181027a एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर 03181027c अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् 03181028a मनुष्यास्तप्ततपसः सर्वागमपरायणाः 03181028c स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः 03181029a सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः 03181029c शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः 03181030a जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः 03181030c अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः 03181031a च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः 03181031c स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः 03181031e कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् 03181032a किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः 03181032c प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा 03181033a इमामत्रोपमां चापि निबोध वदतां वर 03181033c मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर 03181034a इह वैकस्य नामुत्र अमुत्रैकस्य नो इह 03181034c इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 03181035a धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः 03181035c तेषामयं शत्रुवरघ्न लोको; नासौ सदा देहसुखे रतानाम् 03181036a ये योगयुक्तास्तपसि प्रसक्ताः; स्वाध्यायशीला जरयन्ति देहान् 03181036c जितेन्द्रिया भूतहिते निविष्टा;स्तेषामसौ नायमरिघ्न लोकः 03181037a ये धर्ममेव प्रथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले 03181037c दारानवाप्य क्रतुभिर्यजन्ते; तेषामयं चैव परश्च लोकः 03181038a ये नैव विद्यां न तपो न दानं; न चापि मूढाः प्रजने यतन्ते 03181038c न चाधिगच्छन्ति सुखान्यभाग्या;स्तेषामयं चैव परश्च नास्ति 03181039a सर्वे भवन्तस्त्वतिवीर्यसत्त्वा; दिव्यौजसः संहननोपपन्नाः 03181039c लोकादमुष्मादवनिं प्रपन्नाः; स्वधीतविद्याः सुरकार्यहेतोः 03181040a कृत्वैव कर्माणि महान्ति शूरा;स्तपोदमाचारविहारशीलाः 03181040c देवानृषीन्प्रेतगणांश्च सर्वा;न्संतर्पयित्वा विधिना परेण 03181041a स्वर्गं परं पुण्यकृतां निवासं; क्रमेण संप्राप्स्यथ कर्मभिः स्वैः 03181041c मा भूद्विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः क्लेशमिमं सुखार्ह 03182001 वैशंपायन उवाच 03182001a मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा 03182001c माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् 03182002a एवमुक्तः स भगवान्मार्कण्डेयो महातपाः 03182002c उवाच सुमहातेजाः सर्वशास्त्रविशारदः 03182003a हैहयानां कुलकरो राजा परपुरंजयः 03182003c कुमारो रूपसंपन्नो मृगयामचरद्बली 03182004a चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते 03182004c कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके 03182004e स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् 03182005a व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः 03182005c जगाम हैहयानां वै सकाशं प्रथितात्मनाम् 03182006a राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते 03182006c तेषां च तद्यथावृत्तं कथयामास वै तदा 03182007a तं चापि हिंसितं तात मुनिं मूलफलाशिनम् 03182007c श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः 03182008a कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः 03182008c जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा 03182009a तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् 03182009c तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् 03182010a ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने 03182010c त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः 03182011a तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः 03182011c क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् 03182012a ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् 03182012c नापश्यंस्तमृषिं तत्र गतासुं ते समागताः 03182012e अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः 03182013a तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः 03182013c स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः 03182013e पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः 03182014a ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः 03182014c महदाश्चर्यमिति वै विब्रुवाणा महीपते 03182015a मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् 03182015c किमेतत्तपसो वीर्यं येनायं जीवितः पुनः 03182015e श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत 03182016a स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः 03182016c कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः 03182017a सत्यमेवाभिजानीमो नानृते कुर्महे मनः 03182017c स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः 03182018a यद्ब्राह्मणानां कुशलं तदेषां कथयामहे 03182018c नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः 03182019a अतिथीनन्नपानेन भृत्यानत्यशनेन च 03182019c तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः 03182020a एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः 03182020c गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः 03182021a एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् 03182021c स्वदेशमगमन्हृष्टा राजानो भरतर्षभ 03183001 मार्कण्डेय उवाच 03183001a भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे 03183001c वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः 03183001e तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् 03183002a भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् 03183002c संचिन्त्य स महातेजा वनमेवान्वरोचयत् 03183002e धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह 03183003a प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् 03183003c अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् 03183004a तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती 03183004c वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु 03183004e स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् 03183005a तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु 03183005c भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् 03183005e एष वै परमो धर्मो धर्मविद्भिरुदाहृतः 03183006 अत्रिरुवाच 03183006a कथितो मे महाभागे गौतमेन महात्मना 03183006c वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः 03183007a किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः 03183007c यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् 03183008a तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् 03183008c मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् 03183009a गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव 03183009c गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् 03183010 मार्कण्डेय उवाच 03183010a एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः 03183010c गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् 03183011a राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः 03183011c स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् 03183012a तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः 03183012c मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता 03183012e अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः 03183013a अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत 03183013c अयमेव विधाता च यथैवेन्द्रः प्रजापतिः 03183013e त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह 03183014 गौतम उवाच 03183014a जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे 03183014c स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् 03183015a न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् 03183015c बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना 03183016 मार्कण्डेय उवाच 03183016a विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ 03183016c ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ 03183017a प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि 03183017c उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ 03183018a ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् 03183018c विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् 03183019a अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् 03183019c आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः 03183019e वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् 03183020a श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् 03183020c सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै 03183021a स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः 03183021c प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः 03183022 सनत्कुमार उवाच 03183022a ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह 03183022c राजा वै प्रथमो धर्मः प्रजानां पतिरेव च 03183022e स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः 03183023a प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः 03183023c य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति 03183024a पुरायोनिर्युधाजिच्च अभिया मुदितो भवः 03183024c स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते 03183025a सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः 03183025c अधर्मादृषयो भीता बलं क्षत्रे समादधन् 03183026a आदित्यो दिवि देवेषु तमो नुदति तेजसा 03183026c तथैव नृपतिर्भूमावधर्मं नुदते भृशम् 03183027a अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् 03183027c उत्तरः सिध्यते पक्षो येन राजेति भाषितम् 03183028 मार्कण्डेय उवाच 03183028a ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः 03183028c तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः 03183029a यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः 03183029c सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च 03183029e तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च 03183030a दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् 03183030c दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश 03183030e एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः 03183031a तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः 03183031c प्रत्याजगाम तेजस्वी गृहानेव महातपाः 03183032a प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् 03183032c तपः समभिसंधाय वनमेवान्वपद्यत 03184001 मार्कण्डेय उवाच 03184001a अत्रैव च सरस्वत्या गीतं परपुरंजय 03184001c पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता 03184002 तार्क्ष्य उवाच 03184002a किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात् 03184002c आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात् 03184003a कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत् 03184003c एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम् 03184004 मार्कण्डेय उवाच 03184004a एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् 03184004c तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे 03184005 सरस्वत्युवाच 03184005a यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः 03184005c स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम् 03184006a तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः 03184006c अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः 03184007a तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः 03184007c सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः 03184008a परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति 03184008c वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति 03184009a धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च 03184009c यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् 03184010a अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम् 03184010c धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य 03184011a यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः 03184011c सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः 03184012 तार्क्ष्य उवाच 03184012a किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे 03184012c त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम् 03184013 सरस्वत्युवाच 03184013a न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित् 03184013c बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति 03184014a नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि 03184014c अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम् 03184015a कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च 03184015c गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम् 03184016 तार्क्ष्य उवाच 03184016a क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम् 03184016c प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे 03184017 सरस्वत्युवाच 03184017a अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय 03184017c त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत् 03184018 तार्क्ष्य उवाच 03184018a न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः 03184018c रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि 03184019 सरस्वत्युवाच 03184019a श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति 03184019c तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र 03184020a यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा 03184020c दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन् 03184021 तार्क्ष्य उवाच 03184021a इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः 03184021c आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः 03184022 सरस्वत्युवाच 03184022a तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम् 03184022c स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः 03184023a तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति 03184023c तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः 03184024a शाखां शाखां महानद्यः संयान्ति सिकतासमाः 03184024c धानापूपा मांसशाकाः सदा पायसकर्दमाः 03184025a यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः 03184025c ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने 03185001 वैशंपायन उवाच 03185001a ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह 03185001c कथयस्वेह चरितं मनोर्वैवस्वतस्य मे 03185002 मार्कण्डेय उवाच 03185002a विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् 03185002c बभूव नरशार्दूल प्रजापतिसमद्युतिः 03185003a ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः 03185003c अतिचक्राम पितरं मनुः स्वं च पितामहम् 03185004a ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः 03185004c एकपादस्थितस्तीव्रं चचार सुमहत्तपः 03185005a अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् 03185005c सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा 03185006a तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् 03185006c वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् 03185007a भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम 03185007c मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत 03185008a दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः 03185008c भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी 03185009a तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः 03185009c त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव 03185010a स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः 03185010c मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् 03185011a उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः 03185011c अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् 03185012a स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः 03185012c पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः 03185013a अथ कालेन महता स मत्स्यः सुमहानभूत् 03185013c अलिञ्जरे जले चैव नासौ समभवत्किल 03185014a अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत 03185014c भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय 03185015a उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः 03185015c तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा 03185016a तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय 03185016c अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् 03185017a द्वियोजनायता वापी विस्तृता चापि योजनम् 03185017c तस्यां नासौ समभवन्मत्स्यो राजीवलोचन 03185017e विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते 03185018a मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत 03185018c नय मां भगवन्साधो समुद्रमहिषीं प्रभो 03185018e गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे 03185019a एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी 03185019c नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः 03185020a स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम 03185020c ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् 03185021a गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो 03185021c समुद्रं नय मामाशु प्रसीद भगवन्निति 03185022a उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् 03185022c समुद्रमनयत्पार्थ तत्र चैनमवासृजत् 03185023a सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा 03185023c आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै 03185024a यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा 03185024c तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् 03185025a भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः 03185025c प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम 03185026a अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् 03185026c सर्वमेव महाभाग प्रलयं वै गमिष्यति 03185027a संप्रक्षालनकालोऽयं लोकानां समुपस्थितः 03185027c तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् 03185028a त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति 03185028c तस्य सर्वस्य संप्राप्तः कालः परमदारुणः 03185029a नौश्च कारयितव्या ते दृढा युक्तवटाकरा 03185029c तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने 03185030a बीजानि चैव सर्वाणि यथोक्तानि मया पुरा 03185030c तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः 03185031a नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय 03185031c आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस 03185032a एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् 03185032c नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो 03185033a एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत 03185033c जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् 03185034a ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह 03185034c बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा 03185034e नावा तु शुभया वीर महोर्मिणमरिंदम 03185035a चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते 03185035c स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय 03185035e शृङ्गी तत्राजगामाशु तदा भरतसत्तम 03185036a तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे 03185036c शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् 03185037a वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि 03185037c मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् 03185038a संयतस्तेन पाशेन मत्स्यः परपुरंजय 03185038c वेगेन महता नावं प्राकर्षल्लवणाम्भसि 03185039a स ततार तया नावा समुद्रं मनुजेश्वर 03185039c नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा 03185040a क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ 03185040c घूर्णते चपलेव स्त्री मत्ता परपुरंजय 03185041a नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे 03185041c सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव 03185042a एवंभूते तदा लोके संकुले भरतर्षभ 03185042c अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह 03185043a एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः 03185043c चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये 03185044a ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ 03185044c तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन 03185045a ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः 03185045c अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् 03185046a सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ 03185046c नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा 03185047a तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् 03185047c ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ 03185048a अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा 03185048c अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते 03185048e मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् 03185049a मनुना च प्रजाः सर्वाः सदेवासुरमानवाः 03185049c स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति 03185050a तपसा चातितीव्रेण प्रतिभास्य भविष्यति 03185050c मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति 03185051a इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः 03185051c स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् 03185051e प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः 03185052a तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे 03185052c सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ 03185053a इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् 03185053c आख्यानमिदमाख्यातं सर्वपापहरं मया 03185054a य इदं शृणुयान्नित्यं मनोश्चरितमादितः 03185054c स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः 03186001 वैशंपायन उवाच 03186001a ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् 03186001c पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः 03186002a नैके युगसहस्रान्तास्त्वया दृष्टा महामुने 03186002c न चापीह समः कश्चिदायुषा तव विद्यते 03186002e वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् 03186003a अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते 03186003c त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि 03186004a प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे 03186004c त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि 03186005a चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना 03186005c वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः 03186006a त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः 03186006c आराधितो द्विजश्रेष्ठ तत्परेण समाधिना 03186007a तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी 03186007c न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः 03186008a यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः 03186008c नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन 03186009a तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे 03186009c नष्टे देवासुरगणे समुत्सन्नमहोरगे 03186010a शयानममितात्मानं पद्मे पद्मनिकेतनम् 03186010c त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि 03186011a एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम 03186011c तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् 03186012a अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम 03186012c न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा 03186013 मार्कण्डेय उवाच 03186013a हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 03186013c पुरुषाय पुराणाय शाश्वतायाव्ययाय च 03186014a य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः 03186014c एष कर्ता विकर्ता च सर्वभावनभूतकृत् 03186015a अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् 03186015c अनादिनिधनं भूतं विश्वमक्षयमव्ययम् 03186016a एष कर्ता न क्रियते कारणं चापि पौरुषे 03186016c यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः 03186017a सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम 03186017c आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये 03186018a चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् 03186018c तस्य तावच्छती संध्या संध्यांशश्च ततः परम् 03186019a त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते 03186019c तस्य तावच्छती संध्या संध्यांशश्च ततः परम् 03186020a तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः 03186020c तस्यापि द्विशती संध्या संध्यांशश्च ततः परम् 03186021a सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् 03186021c तस्य वर्षशतं संध्या संध्यांशश्च ततः परम् 03186021e संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय 03186022a क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् 03186022c एषा द्वादशसाहस्री युगाख्या परिकीर्तिता 03186023a एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् 03186023c विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते 03186023e लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः 03186024a अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ 03186024c सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः 03186025a यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा 03186025c व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते 03186026a ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः 03186026c क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे 03186027a निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः 03186027c ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे 03186028a अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः 03186028c विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् 03186029a बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप 03186029c मिथ्यानुशासिनः पापा मृषावादपरायणाः 03186030a आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः 03186030c काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम 03186031a न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति 03186031c क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप 03186032a अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः 03186032c अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः 03186033a बहुशून्या जनपदा मृगव्यालावृता दिशः 03186033c युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः 03186033e भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः 03186034a युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः 03186034c न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते 03186034e रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः 03186035a बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः 03186035c मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये 03186036a अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः 03186036c केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये 03186037a अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप 03186037c अल्पपुष्पफलाश्चापि पादपा बहुवायसाः 03186038a ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् 03186038c नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः 03186039a लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः 03186039c भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः 03186040a करभारभयात्पुंसो गृहस्थाः परिमोषकाः 03186040c मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते 03186041a मिथ्या च नखरोमाणि धारयन्ति नरास्तदा 03186041c अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः 03186042a आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः 03186042c ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् 03186043a बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः 03186043c आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये 03186044a यथर्तुवर्षी भगवान्न तथा पाकशासनः 03186044c न तदा सर्वबीजानि सम्यग्रोहन्ति भारत 03186044e अधर्मफलमत्यर्थं तदा भवति चानघ 03186045a तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः 03186045c अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन 03186046a भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः 03186046c वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत 03186047a धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः 03186047c धर्मस्य बलहानिः स्यादधर्मश्च बली तथा 03186048a अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा 03186048c दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये 03186049a अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत 03186049c संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः 03186050a धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः 03186050c हर्तुं व्यवसिता राजन्मायाचारसमन्विताः 03186051a पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा 03186051c नगराणां विहारेषु चैत्येष्वपि च शेरते 03186052a सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप 03186052c दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते 03186053a भवन्ति षोडशे वर्षे नराः पलितिनस्तथा 03186053c आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते 03186054a क्षीणे युगे महाराज तरुणा वृद्धशीलिनः 03186054c तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते 03186055a विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् 03186055c व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च 03186056a तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये 03186056c अनावृष्टिर्महाराज जायते बहुवार्षिकी 03186057a ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च 03186057c प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते 03186058a ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप 03186058c पीयते सलिलं सर्वं समुद्रेषु सरित्सु च 03186059a यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत 03186059c सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ 03186060a ततः संवर्तको वह्निर्वायुना सह भारत 03186060c लोकमाविशते पूर्वमादित्यैरुपशोषितम् 03186061a ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् 03186061c देवदानवयक्षाणां भयं जनयते महत् 03186062a निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह 03186062c अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् 03186063a ततो योजनविंशानां सहस्राणि शतानि च 03186063c निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः 03186064a सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् 03186064c ततो दहति दीप्तः स सर्वमेव जगद्विभुः 03186065a ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः 03186065c उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः 03186066a केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः 03186066c केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः 03186067a केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा 03186067c केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः 03186068a केचित्पुरवराकाराः केचिद्गजकुलोपमाः 03186068c केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः 03186068e विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः 03186069a घोररूपा महाराज घोरस्वननिनादिताः 03186069c ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् 03186070a तैरियं पृथिवी सर्वा सपर्वतवनाकरा 03186070c आपूर्यते महाराज सलिलौघपरिप्लुता 03186071a ततस्ते जलदा घोरा राविणः पुरुषर्षभ 03186071c सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना 03186072a वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् 03186072c सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् 03186073a ततो द्वादश वर्षाणि पयोदास्त उपप्लवे 03186073c धाराभिः पूरयन्तो वै चोद्यमाना महात्मना 03186074a ततः समुद्रः स्वां वेलामतिक्रामति भारत 03186074c पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते 03186075a सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् 03186075c संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः 03186076a ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप 03186076c आदिपद्मालयो देवः पीत्वा स्वपिति भारत 03186077a तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे 03186077c नष्टे देवासुरगणे यक्षराक्षसवर्जिते 03186078a निर्मनुष्ये महीपाल निःश्वापदमहीरुहे 03186078c अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः 03186079a एकार्णवे जले घोरे विचरन्पार्थिवोत्तम 03186079c अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् 03186080a ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप 03186080c श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः 03186081a ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे 03186081c न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते 03186082a शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप 03186082c पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते 03186083a उपविष्टं महाराज पूर्णेन्दुसदृशाननम् 03186083c फुल्लपद्मविशालाक्षं बालं पश्यामि भारत 03186084a ततो मे पृथिवीपाल विस्मयः सुमहानभूत् 03186084c कथं त्वयं शिशुः शेते लोके नाशमुपागते 03186085a तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये 03186085c भूतं भव्यं भविष्यच्च जानन्नपि नराधिप 03186086a अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः 03186086c साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे 03186087a ततो मामब्रवीद्बालः स पद्मनिभलोचनः 03186087c श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् 03186088a जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् 03186088c मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव 03186089a अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम 03186089c आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया 03186090a ततो बालेन तेनैवमुक्तस्यासीत्तदा मम 03186090c निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत 03186091a ततो बालेन तेनास्यं सहसा विवृतं कृतम् 03186091c तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः 03186092a ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप 03186092c सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् 03186093a गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् 03186093c चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् 03186094a सिन्धुं चैव विपाशां च नदीं गोदावरीमपि 03186094c वस्वोकसारां नलिनीं नर्मदां चैव भारत 03186095a नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् 03186095c सुवेणां कृष्णवेणां च इरामां च महानदीम् 03186095e शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि 03186096a एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम 03186096c परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः 03186097a ततः समुद्रं पश्यामि यादोगणनिषेवितम् 03186097c रत्नाकरममित्रघ्न निधानं पयसो महत् 03186098a ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् 03186098c जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः 03186098e पश्यामि च महीं राजन्काननैरुपशोभिताम् 03186099a यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः 03186099c क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने 03186100a वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप 03186100c शुश्रूषायां च निरता द्विजानां वृषलास्तथा 03186101a ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः 03186101c हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् 03186102a निषधं चापि पश्यामि श्वेतं च रजताचितम् 03186102c पश्यामि च महीपाल पर्वतं गन्धमादनम् 03186103a मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् 03186103c पश्यामि च महाराज मेरुं कनकपर्वतम् 03186104a महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् 03186104c मलयं चापि पश्यामि पारियात्रं च पर्वतम् 03186105a एते चान्ये च बहवो यावन्तः पृथिवीधराः 03186105c तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः 03186106a सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप 03186106c पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते 03186106e तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा 03186107a कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः 03186107c शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा 03186108a गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते 03186108c दैत्यदानवसंघांश्च कालेयांश्च नराधिप 03186108e सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः 03186109a यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् 03186109c तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः 03186109e फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा 03186110a अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् 03186110c न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् 03186111a सततं धावमानश्च चिन्तयानो विशां पते 03186111c आसादयामि नैवान्तं तस्य राजन्महात्मनः 03186112a ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा 03186112c वरेण्यं वरदं देवं मनसा कर्मणैव च 03186113a ततोऽहं सहसा राजन्वायुवेगेन निःसृतः 03186113c महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम 03186114a ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते 03186114c आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् 03186115a तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् 03186115c आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् 03186116a ततो मामब्रवीद्वीर स बालः प्रहसन्निव 03186116c श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः 03186117a अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम 03186117c उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे 03186118a मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा 03186118c यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् 03186119a तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ 03186119c सुजातौ मृदुरक्ताभिरङ्गुलीभिरलंकृतौ 03186120a प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ 03186120c दृष्ट्वापरिमितं तस्य प्रभावममितौजसः 03186121a विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च 03186121c दृष्टो मया स भूतात्मा देवः कमललोचनः 03186122a तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् 03186122c ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् 03186123a आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव 03186123c दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव 03186124a तव देव शरीरस्था देवदानवराक्षसाः 03186124c यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् 03186125a त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते 03186125c द्रुतमन्तः शरीरे ते सततं परिधावतः 03186126a इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित 03186126c इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते 03186126e पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि 03186127a किमर्थं च जगत्सर्वं शरीरस्थं तवानघ 03186127c कियन्तं च त्वया कालमिह स्थेयमरिंदम 03186128a एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया 03186128c त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् 03186128e महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो 03186129a इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः 03186129c सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः 03187001 देव उवाच 03187001a कामं देवापि मां विप्र न विजानन्ति तत्त्वतः 03187001c त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् 03187002a पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः 03187002c अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् 03187003a आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया 03187003c तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा 03187004a अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः 03187004c विधाता सर्वभूतानां संहर्ता च द्विजोत्तम 03187005a अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः 03187005c अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा 03187006a अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः 03187006c अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम 03187007a अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने 03187007c सदिशं च नभः कायो वायुर्मनसि मे स्थितः 03187008a मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः 03187008c यजन्ते वेदविदुषो मां देवयजने स्थितम् 03187009a पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः 03187009c यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः 03187010a चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् 03187010c शेषो भूत्वाहमेवैतां धारयामि वसुंधराम् 03187011a वाराहं रूपमास्थाय मयेयं जगती पुरा 03187011c मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता 03187012a अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम 03187012c पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् 03187013a ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः 03187013c पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च 03187014a ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः 03187014c मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च 03187015a यतयः शान्तिपरमा यतात्मानो मुमुक्षवः 03187015c कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः 03187016a सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः 03187016c मामेव सततं विप्राश्चिन्तयन्त उपासते 03187017a अहं संवर्तको ज्योतिरहं संवर्तको यमः 03187017c अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः 03187018a तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले 03187018c मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम 03187019a रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् 03187019c वसनं शयनं चैव निलयं चैव विद्धि मे 03187020a कामं क्रोधं च हर्षं च भयं मोहं तथैव च 03187020c ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम 03187021a प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् 03187021c सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु 03187022a मद्विधानेन विहिता मम देहविहारिणः 03187022c मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः 03187023a सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः 03187023c शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः 03187024a प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः 03187024c लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः 03187025a तं मां महाफलं विद्धि पदं सुकृतकर्मणः 03187025c दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् 03187026a यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम 03187026c अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् 03187027a दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः 03187027c राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः 03187028a तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् 03187028c प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् 03187029a सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् 03187029c स्थावराणि च भूतानि संहराम्यात्ममायया 03187030a कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् 03187030c प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् 03187031a श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम 03187031c रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा 03187032a त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत 03187032c अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः 03187032e त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् 03187033a अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः 03187033c अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः 03187034a कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै 03187034c शमनं सर्वभूतानां सर्वलोककृतोद्यमम् 03187035a एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम 03187035c सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन 03187036a यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज 03187036c सुखोदयाय तत्सर्वं श्रेयसे च तवानघ 03187037a यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् 03187037c विहितः सर्वथैवासौ ममात्मा मुनिसत्तम 03187038a अर्धं मम शरीरस्य सर्वलोकपितामहः 03187038c अहं नारायणो नाम शङ्खचक्रगदाधरः 03187039a यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् 03187039c तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः 03187040a एवं सर्वमहं कालमिहासे मुनिसत्तम 03187040c अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते 03187041a मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा 03187041c असकृत्परितुष्टेन विप्रर्षिगणपूजित 03187042a सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् 03187042c विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् 03187043a अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम 03187043c दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे 03187044a ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया 03187044c आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः 03187045a यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः 03187045c तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् 03187046a ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे 03187046c एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम 03187047a आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च 03187047c लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् 03187048 मार्कण्डेय उवाच 03187048a इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः 03187048c प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः 03187049a एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये 03187049c आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर 03187050a यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः 03187050c स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः 03187051a अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् 03187051c दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा 03187052a स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः 03187052c आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः 03187053a एष धाता विधाता च संहर्ता चैव सात्वतः 03187053c श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः 03187054a दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता 03187054c आदिदेवमजं विष्णुं पुरुषं पीतवाससम् 03187055a सर्वेषामेव भूतानां पिता माता च माधवः 03187055c गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः 03188001 वैशंपायन उवाच 03188001a एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ 03188001c द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् 03188002a स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना 03188002c सान्त्वयामास मानार्हान्मन्यमानो यथाविधि 03188003a युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् 03188003c पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् 03188004a आश्चर्यभूतं भवतः श्रुतं नो वदतां वर 03188004c मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ 03188005a अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम 03188005c समाकुलेषु धर्मेषु किं नु शेषं भविष्यति 03188006a किंवीर्या मानवास्तत्र किमाहारविहारिणः 03188006c किमायुषः किंवसना भविष्यन्ति युगक्षये 03188007a कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् 03188007c विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे 03188008a इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत 03188008c रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः 03188009 मार्कण्डेय उवाच 03188009a भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ 03188009c कलुषं कालमासाद्य कथ्यमानं निबोध मे 03188010a कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः 03188010c वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा 03188011a अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः 03188011c त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते 03188012a त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति 03188012c चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति 03188013a आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव 03188013c मनुष्याणामनुयुगं ह्रसतीति निबोध मे 03188014a राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर 03188014c व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः 03188015a सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः 03188015c सत्यहान्या ततस्तेषामायुरल्पं भविष्यति 03188016a आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् 03188016c विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति 03188017a लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः 03188017c वैरबद्धा भविष्यन्ति परस्परवधेप्सवः 03188018a ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् 03188018c शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः 03188019a अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः 03188019c ईदृशो भविता लोको युगान्ते पर्युपस्थिते 03188020a वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः 03188020c भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये 03188021a मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् 03188021c गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये 03188022a अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः 03188022c अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये 03188023a सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः 03188023c ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये 03188024a श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः 03188024c तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् 03188025a पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च 03188025c अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये 03188026a न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः 03188026c न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः 03188027a निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः 03188027c एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः 03188028a पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा 03188028c निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते 03188029a म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम् 03188029c भविष्यति निरानन्दमनुत्सवमथो तथा 03188030a प्रायशः कृपणानां हि तथा बन्धुमतामपि 03188030c विधवानां च वित्तानि हरिष्यन्तीह मानवाः 03188031a अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः 03188031c तत्कथादानसंतुष्टा दुष्टानामपि मानवाः 03188031e परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः 03188032a संघातयन्तः कौन्तेय राजानः पापबुद्धयः 03188032c परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः 03188032e भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः 03188033a अरक्षितारो लुब्धाश्च मानाहंकारदर्पिताः 03188033c केवलं दण्डरुचयो भविष्यन्ति युगक्षये 03188034a आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च 03188034c भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत 03188035a न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते 03188035c स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते 03188036a राजानश्चाप्यसंतुष्टाः परार्थान्मूढचेतसः 03188036c सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते 03188037a म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत 03188037c हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते 03188038a सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः 03188038c स्थविरा बालमतयो बालाः स्थविरबुद्धयः 03188039a भीरवः शूरमानीनः शूरा भीरुविषादिनः 03188039c न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते 03188040a एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् 03188040c अधर्मो वर्धति महान्न च धर्मः प्रवर्तते 03188041a ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप 03188041c एकवर्णस्तदा लोको भविष्यति युगक्षये 03188042a न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा 03188042c भार्या च पतिशुश्रूषां न करिष्यति काचन 03188043a ये यवान्ना जनपदा गोधूमान्नास्तथैव च 03188043c तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03188044a स्वैराहाराश्च पुरुषा योषितश्च विशां पते 03188044c अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते 03188045a म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर 03188045c न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः 03188046a न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः 03188046c तमोग्रस्तस्तदा लोको भविष्यति नराधिप 03188047a परमायुश्च भविता तदा वर्षाणि षोडश 03188047c ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188048a पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते 03188048c सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा 03188049a पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति 03188049c युगान्ते राजशार्दूल न तोषमुपयास्यति 03188050a अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति 03188050c न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये 03188051a अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः 03188051c केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये 03188052a म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु 03188052c भाविनः पश्चिमे काले मनुष्या नात्र संशयः 03188053a क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् 03188053c युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति 03188054a ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा 03188054c आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते 03188055a स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः 03188055c भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये 03188056a आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः 03188056c भविता संक्षयो लोके जीवितस्य च देहिनाम् 03188057a तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् 03188057c ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते 03188058a हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः 03188058c त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् 03188059a जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः 03188059c यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् 03188060a आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च 03188060c प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह 03188061a दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः 03188061c कुराजभिश्च सततं करभारप्रपीडिताः 03188062a धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये 03188062c विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः 03188063a शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः 03188063c श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः 03188064a विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः 03188064c एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः 03188064e शूद्राः परिचरिष्यन्ति न द्विजान्युगसंक्षये 03188065a आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च 03188065c देवस्थानेषु चैत्येषु नागानामालयेषु च 03188066a एडूकचिह्ना पृथिवी न देवगृहभूषिता 03188066c भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् 03188067a यदा रौद्रा धर्महीना मांसादाः पानपास्तथा 03188067c भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् 03188068a पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् 03188068c प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् 03188069a अकालवर्षी पर्जन्यो भविष्यति गते युगे 03188069c अक्रमेण मनुष्याणां भविष्यति तदा क्रिया 03188069e विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह 03188070a मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् 03188070c करभारभयाद्विप्रा भजिष्यन्ति दिशो दश 03188071a निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः 03188071c आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः 03188072a एवं पर्याकुले लोके मर्यादा न भविष्यति 03188072c न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः 03188073a आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् 03188073c अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः 03188073e अभावः सर्वभूतानां युगान्ते च भविष्यति 03188074a दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च 03188074c ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा 03188074e उल्कापाताश्च बहवो महाभयनिदर्शकाः 03188075a षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति 03188075c तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः 03188075e कबन्धान्तर्हितो भानुरुदयास्तमये तदा 03188076a अकालवर्षी च तदा भविष्यति सहस्रदृक् 03188076c सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188077a अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः 03188077c भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः 03188078a पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये 03188078c सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः 03188079a अपर्वणि महाराज सूर्यं राहुरुपैष्यति 03188079c युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति 03188080a पानीयं भोजनं चैव याचमानास्तदाध्वगाः 03188080c न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते 03188081a निर्घातवायसा नागाः शकुनाः समृगद्विजाः 03188081c रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 03188082a मित्रसंबन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा 03188082c जनं परिजनं चापि युगान्ते पर्युपस्थिते 03188083a अथ देशान्दिशश्चापि पत्तनानि पुराणि च 03188083c क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 03188084a हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः 03188084c विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति 03188085a ततस्तुमुलसंघाते वर्तमाने युगक्षये 03188085c द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति 03188086a ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये 03188086c भविष्यति पुनर्दैवमनुकूलं यदृच्छया 03188087a यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती 03188087c एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् 03188088a कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च 03188088c प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः 03188088e क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् 03188089a कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः 03188089c उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः 03188090a संभूतः संभलग्रामे ब्राह्मणावसथे शुभे 03188090c मनसा तस्य सर्वाणि वाहनान्यायुधानि च 03188090e उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च 03188091a स धर्मविजयी राजा चक्रवर्ती भविष्यति 03188091c स चेमं संकुलं लोकं प्रसादमुपनेष्यति 03188092a उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः 03188092c स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः 03188093a स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः 03188093c उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः 03189001 मार्कण्डेय उवाच 03189001a ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् 03189001c वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति 03189002a स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः 03189002c वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति 03189003a तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः 03189003c विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति 03189004a कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च 03189004c स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च 03189005a संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् 03189005c कल्किश्चरिष्यति महीं सदा दस्युवधे रतः 03189006a हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः 03189006c विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम् 03189007a ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत 03189007c भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा 03189008a आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा 03189008c यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे 03189009a ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः 03189009c आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः 03189010a जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह 03189010c सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति 03189011a नरा दानेषु निरता व्रतेषु नियमेषु च 03189011c जपयज्ञपरा विप्रा धर्मकामा मुदा युताः 03189011e पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् 03189012a व्यवहाररता वैश्या भविष्यन्ति कृते युगे 03189012c षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः 03189013a शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च 03189013c एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा 03189013e पश्चिमे युगकाले च यः स ते संप्रकीर्तितः 03189014a सर्वलोकस्य विदिता युगसंख्या च पाण्डव 03189014c एतत्ते सर्वमाख्यातमतीतानागतं मया 03189014e वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् 03189015a एवं संसारमार्गा मे बहुशश्चिरजीविना 03189015c दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् 03189016a इदं चैवापरं भूयः सह भ्रातृभिरच्युत 03189016c धर्मसंशयमोक्षार्थं निबोध वचनं मम 03189017a धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर 03189017c धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति 03189018a निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ 03189018c न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन 03189018e ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया 03189019 वैशंपायन उवाच 03189019a मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः 03189019c उवाच वचनं धीमान्परमं परमद्युतिः 03189020a कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने 03189020c कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः 03189021 मार्कण्डेय उवाच 03189021a दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः 03189021c अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः 03189021e चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय 03189022a प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय 03189022c अलं ते मानमाश्रित्य सततं परवान्भव 03189023a विजित्य पृथिवीं सर्वां मोदमानः सुखी भव 03189023c एष भूतो भविष्यश्च धर्मस्ते समुदीरितः 03189024a न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि 03189024c तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः 03189025a एष कालो महाबाहो अपि सर्वदिवौकसाम् 03189025c मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः 03189026a मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ 03189026c अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव 03189027a जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ 03189027c कर्मणा मनसा वाचा सर्वमेतत्समाचर 03189028 युधिष्ठिर उवाच 03189028a यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् 03189028c तथा करिष्ये यत्नेन भवतः शासनं विभो 03189029a न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः 03189029c करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो 03189030 वैशंपायन उवाच 03189030a श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः 03189030c प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना 03189031a तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः 03189031c विस्मिताः समपद्यन्त पुराणस्य निवेदनात् 03190001 वैशंपायन उवाच 03190001A भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् 03190002A अथाचष्ट मार्कण्डेयः 03190003A अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् 03190004A तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् 03190005A अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् 03190005B तच्च विवेश 03190006A ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत 03190007A अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् 03190008A ततः शयानो मधुरं गीतशब्दमशृणोत् 03190009A स श्रुत्वाचिन्तयत् 03190009B नेह मनुष्यगतिं पश्यामि 03190009C कस्य खल्वयं गीतशब्द इति 03190010A अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च 03190011A अथ सा राज्ञः समीपे पर्यक्रामत् 03190012A तामब्रवीद्राजा 03190012B कस्यासि सुभगे त्वमिति 03190013A सा प्रत्युवाच 03190013B कन्यास्मीति 03190014A तां राजोवाच 03190014B अर्थी त्वयाहमिति 03190015A अथोवाच कन्या 03190015B समयेनाहं शक्या त्वया लब्धुम् 03190015C नान्यथेति 03190016A तां राजा समयमपृच्छत् 03190017A ततः कन्येदमुवाच 03190017B उदकं मे न दर्शयितव्यमिति 03190018A स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते 03190019A तत्रैवासीने राजनि सेनान्वगच्छत् 03190019B पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् 03190020A पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया 03190020B स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते 03190020C नान्यत्किंचनापश्यत् 03190021A अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् 03190021B किमत्र प्रयोजनं वर्तत इति 03190022A अथाब्रुवंस्ताः स्त्रियः 03190022B अपूर्वमिव पश्याम उदकं नात्र नीयतेति 03190023A अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् 03190023B वनमिदमुदारमनुदकम् 03190023C साध्वत्र रम्यतामिति 03190024A स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् 03190024B स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् 03190024C अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् 03190025A तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् 03190026A दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् 03190027A अथ तां देवीं स राजाब्रवीत् 03190027B साध्ववतर वापीसलिलमिति 03190028A सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् 03190028B न पुनरुदमज्जत् 03190029A तां मृगयमाणो राजा नापश्यत् 03190030A वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास 03190030B सर्वमण्डूकवधः क्रियतामिति 03190030C यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति 03190031A अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् 03190031B ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् 03190032A ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् 03190033A उपेत्य चैनमुवाच 03190033B मा राजन्क्रोधवशं गमः 03190033C प्रसादं कुरु 03190033D नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति 03190034A श्लोकौ चात्र भवतः 03190034a मा मण्डूकाञ्जिघांस त्वं कोपं संधारयाच्युत 03190034c प्रक्षीयते धनोद्रेको जनानामविजानताम् 03190035a प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे 03190035c अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते 03190036A तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच 03190036B न हि क्षम्यते तन्मया 03190036C हनिष्याम्येतान् 03190036D एतैर्दुरात्मभिः प्रिया मे भक्षिता 03190036E सर्वथैव मे वध्या मण्डूकाः 03190036F नार्हसि विद्वन्मामुपरोद्धुमिति 03190037A स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच 03190037B प्रसीद राजन् 03190037C अहमायुर्नाम मण्डूकराजः 03190037D मम सा दुहिता सुशोभना नाम 03190037E तस्या दौःशील्यमेतत् 03190037F बहवो हि राजानस्तया विप्रलब्धपूर्वा इति 03190038A तमब्रवीद्राजा 03190038B तयास्म्यर्थी 03190038C सा मे दीयतामिति 03190039A अथैनां राज्ञे पितादात् 03190039B अब्रवीच्चैनाम् 03190039C एनं राजानं शुश्रूषस्वेति 03190040A स उवाच दुहितरम् 03190040B यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति 03190041A स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् 03190041B अनुगृहीतोऽस्मीति 03190042A स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् 03190043A अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति 03190043B ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम 03190044A अथ कदाचिच्छलो मृगयामचरत् 03190044B मृगं चासाद्य रथेनान्वधावत् 03190045A सूतं चोवाच 03190045B शीघ्रं मां वहस्वेति 03190046A स तथोक्तः सूतो राजानमब्रवीत् 03190046B मा क्रियतामनुबन्धः 03190046C नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति 03190047A ततोऽब्रवीद्राजा सूतम् 03190047B आचक्ष्व मे वाम्यौ 03190047C हन्मि वा त्वामिति 03190048A स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे 03190048B वामदेवस्याश्वौ वाम्यौ मनोजवाविति 03190049A अथैनमेवं ब्रुवाणमब्रवीद्राजा 03190049B वामदेवाश्रमं याहीति 03190050A स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् 03190050B भगवन्मृगो मया विद्धः पलायते 03190050C तं संभावयेयम् 03190050D अर्हसि मे वाम्यौ दातुमिति 03190051A तमब्रवीदृषिः 03190051B ददानि ते वाम्यौ 03190051C कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति 03190052A स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति 03190052C गच्छंश्चाब्रवीत्सूतम् 03190052D अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् 03190052E नैतौ प्रतिदेयौ वामदेवायेति 03190053A एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् 03190054A अथर्षिश्चिन्तयामास 03190054B तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते 03190054C न मे प्रतिनिर्यातयति 03190054D अहो कष्टमिति 03190055A मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् 03190055B गच्छात्रेय 03190055C राजानं ब्रूहि 03190055D यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति 03190056A स गत्वैवं तं राजानमब्रवीत् 03190057A तं राजा प्रत्युवाच 03190057B राज्ञामेतद्वाहनम् 03190057C अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् 03190057D किं च ब्राह्मणानामश्वैः कार्यम् 03190057E साधु प्रतिगम्यतामिति 03190058A स गत्वैवमुपाध्यायायाचष्ट 03190059A तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् 03190059B न चादाद्राजा 03190060 वामदेव उवाच 03190060a प्रयच्छ वाम्यौ मम पार्थिव त्वं; कृतं हि ते कार्यमन्यैरशक्यम् 03190060c मा त्वा वधीद्वरुणो घोरपाशै;र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः 03190061 राजोवाच 03190061a अनड्वाहौ सुव्रतौ साधु दान्ता;वेतद्विप्राणां वाहनं वामदेव 03190061c ताभ्यां याहि त्वं यत्र कामो महर्षे; छन्दांसि वै त्वादृशं संवहन्ति 03190062 वामदेव उवाच 03190062a छन्दांसि वै मादृशं संवहन्ति; लोकेऽमुष्मिन्पार्थिव यानि सन्ति 03190062c अस्मिंस्तु लोके मम यानमेत;दस्मद्विधानामपरेषां च राजन् 03190063 राजोवाच 03190063a चत्वारो वा गर्दभास्त्वां वहन्तु; श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः 03190063c तैस्त्वं याहि क्षत्रियस्यैष वाहो; मम वाम्यौ न तवैतौ हि विद्धि 03190064 वामदेव उवाच 03190064a घोरं व्रतं ब्राह्मणस्यैतदाहु;रेतद्राजन्यदिहाजीवमानः 03190064c अयस्मया घोररूपा महान्तो; वहन्तु त्वां शितशूलाश्चतुर्धा 03190065 राजोवाच 03190065a ये त्वा विदुर्ब्राह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा 03190065c ते त्वां सशिष्यमिह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासिहस्ताः 03190066 वामदेव उवाच 03190066a नानुयोगा ब्राह्मणानां भवन्ति; वाचा राजन्मनसा कर्मणा वा 03190066c यस्त्वेवं ब्रह्म तपसान्वेति विद्वां;स्तेन श्रेष्ठो भवति हि जीवमानः 03190067 मार्कण्डेय उवाच 03190067a एवमुक्ते वामदेवेन राज;न्समुत्तस्थू राक्षसा घोररूपाः 03190067c तैः शूलहस्तैर्वध्यमानः स राजा; प्रोवाचेदं वाक्यमुच्चैस्तदानीम् 03190068a इक्ष्वाकवो यदि ब्रह्मन्दलो वा; विधेया मे यदि वान्ये विशोऽपि 03190068c नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति 03190069a एवं ब्रुवन्नेव स यातुधानै;र्हतो जगामाशु महीं क्षितीशः 03190069c ततो विदित्वा नृपतिं निपातित;मिक्ष्वाकवो वै दलमभ्यषिञ्चन् 03190070a राज्ये तदा तत्र गत्वा स विप्रः; प्रोवाचेदं वचनं वामदेवः 03190070c दलं राजानं ब्राह्मणानां हि देय;मेवं राजन्सर्वधर्मेषु दृष्टम् 03190071a बिभेषि चेत्त्वमधर्मान्नरेन्द्र; प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ 03190071c एतच्छ्रुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतमुवाच रोषात् 03190072a एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम् 03190072c येन विद्धो वामदेवः शयीत; संदश्यमानः श्वभिरार्तरूपः 03190073 वामदेव उवाच 03190073a जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां श्येनजितं नरेन्द्र 03190073c तं जहि त्वं मद्वचनात्प्रणुन्न;स्तूर्णं प्रियं सायकैर्घोररूपैः 03190074 मार्कण्डेय उवाच 03190074a एवमुक्तो वामदेवेन राज;न्नन्तःपुरे राजपुत्रं जघान 03190074c स सायकस्तिग्मतेजा विसृष्टः; श्रुत्वा दलस्तच्च वाक्यं बभाषे 03190075a इक्ष्वाकवो हन्त चरामि वः प्रियं; निहन्मीमं विप्रमद्य प्रमथ्य 03190075c आनीयतामपरस्तिग्मतेजाः; पश्यध्वं मे वीर्यमद्य क्षितीशाः 03190076 वामदेव उवाच 03190076a यं त्वमेनं सायकं घोररूपं; विषेण दिग्धं मम संदधासि 03190076c न त्वमेनं शरवर्यं विमोक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र 03190077 राजोवाच 03190077a इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नोम्येष शरं विमोक्तुम् 03190077c न चास्य कर्तुं नाशमभ्युत्सहामि; आयुष्मान्वै जीवतु वामदेवः 03190078 वामदेव उवाच 03190078a संस्पृशैनां महिषीं सायकेन; ततस्तस्मादेनसो मोक्ष्यसे त्वम् 03190079 मार्कण्डेय उवाच 03190079a ततस्तथा कृतवान्पार्थिवस्तु; ततो मुनिं राजपुत्री बभाषे 03190079c यथा युक्तं वामदेवाहमेनं; दिने दिने संविशन्ती व्यशंसम् 03190079e ब्राह्मणेभ्यो मृगयन्ती सूनृतानि; तथा ब्रह्मन्पुण्यलोकं लभेयम् 03190080 वामदेव उवाच 03190080a त्वया त्रातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते 03190080c प्रशाधीमं स्वजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये 03190081 राजपुत्र्युवाच 03190081a वरं वृणे भगवन्नेकमेव; विमुच्यतां किल्बिषादद्य भर्ता 03190081c शिवेन चाध्याहि सपुत्रबान्धवं; वरो वृतो ह्येष मया द्विजाग्र्य 03190082 मार्कण्डेय उवाच 03190082a श्रुत्वा वचः स मुनी राजपुत्र्या;स्तथास्त्विति प्राह कुरुप्रवीर 03190082c ततः स राजा मुदितो बभूव; वाम्यौ चास्मै संप्रददौ प्रणम्य 03191001 वैशंपायन उवाच 03191001A मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् 03191001B अस्ति कश्चिद्भवतश्चिरजाततर इति 03191002A स तानुवाच 03191002B अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः 03191002C कीर्तिस्ते व्युच्छिन्नेति 03191002D स मामुपातिष्ठत् 03191002E अथ प्रत्यभिजानाति मां भवानिति 03191003A तमहमब्रुवम् 03191003B न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् 03191004A अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः 03191004B स भवन्तं यदि जानीयात् 03191004C प्रकृष्टे चाध्वनि हिमवान् 03191004D तत्रासौ प्रतिवसतीति 03191005A स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः 03191006A अथैनं स राजर्षिः पर्यपृच्छत् 03191006B प्रत्यभिजानाति मां भवानिति 03191007A स मुहूर्तं ध्यात्वाब्रवीदेनम् 03191007B नाभिजाने भवन्तमिति 03191008A स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् 03191008B अस्ति कश्चिद्भवतश्चिरजाततर इति 03191009A स एवमुक्तोऽब्रवीदेनम् 03191009B अस्ति खल्विन्द्रद्युम्नसरो नाम 03191009C तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति 03191009D सोऽस्मत्तश्चिरजाततरः 03191009E तं पृच्छेति 03191010A तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव 03191011A सोऽस्माभिः पृष्टः 03191011B भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति 03191012A स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा 03191012B नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति 03191013A ततः सोऽस्माभिः पृष्टः 03191013B अस्ति कश्चिदन्यो भवतश्चिरजाततर इति 03191014A स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति 03191014B स मत्तश्चिरजाततर इति 03191014C स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति 03191015A ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास 03191015B अस्त्यस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टुम् 03191015C साध्वागम्यतां तावदिति 03191016A एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे 03191017A आगतं चैनं वयमपृच्छाम 03191017B भवानिन्द्रद्युम्नं राजानमभिजानातीति 03191018A स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत् 03191018B किमहमेनं न प्रत्यभिजानामि 03191018C अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः 03191018D सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् 03191018E अत्र चाहं प्रतिवसामीति 03191019A अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् 03191020A वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति 03191020B प्रस्तुतस्ते स्वर्गः 03191020C यथोचितं स्थानमभिपद्यस्व 03191020D कीर्तिमानसि 03191020E अव्यग्रो याहीति 03191021a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03191021c यावत्स शब्दो भवति तावत्पुरुष उच्यते 03191022a अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् 03191022c पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते 03191023a तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि 03191023c विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् 03191024A इत्येतच्छ्रुत्वा स राजाब्रवीत् 03191024B तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति 03191025A स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः 03191026A एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः 03191027A पाण्डवाश्चोचुः प्रीताः 03191027B साधु 03191027C शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति 03191028A अथैनानब्रवीदसौ 03191028B ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति 03192001 वैशंपायन उवाच 03192001a युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ 03192001c मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् 03192002a विदितास्तव धर्मज्ञ देवदानवराक्षसाः 03192002c राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः 03192002e न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम 03192003a कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् 03192003c एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज 03192004a कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः 03192004c कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः 03192005a एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम 03192005c विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः 03192006 मार्कण्डेय उवाच 03192006a हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर 03192006c धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु 03192007a यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः 03192007c धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते 03192008a महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत 03192008c मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव 03192009a उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् 03192009c आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो 03192010a तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् 03192010c दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः 03192011a त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः 03192011c स्थावराणि च भूतानि जङ्गमानि तथैव च 03192011e ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते 03192012a शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ 03192012c निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत 03192012e बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः 03192013a ऊरू ते पर्वता देव खं नाभिर्मधुसूदन 03192013c पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा 03192014a इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः 03192014c प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः 03192015a त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर 03192015c योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः 03192016a त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् 03192016c भयानामपनेतासि त्वमेकः पुरुषोत्तम 03192017a देवानां मानुषाणां च सर्वभूतसुखावहः 03192017c त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः 03192017e असुराणां समृद्धानां विनाशश्च त्वया कृतः 03192018a तव विक्रमणैर्देवा निर्वाणमगमन्परम् 03192018c पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते 03192019a त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः 03192019c आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः 03192020a एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना 03192020c उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु 03192021 उत्तङ्क उवाच 03192021a पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् 03192021c पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् 03192022 विष्णुरुवाच 03192022a प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम 03192022c अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज 03192023a एवं संछन्द्यमानस्तु वरेण हरिणा तदा 03192023c उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम 03192024a यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः 03192024c धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा 03192024e अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर 03192025 विष्णुरुवाच 03192025a सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज 03192025c प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् 03192025e त्रयाणामपि लोकानां महत्कार्यं करिष्यसि 03192026a उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः 03192026c तपस्यति तपो घोरं शृणु यस्तं हनिष्यति 03192027a बृहदश्व इति ख्यातो भविष्यति महीपतिः 03192027c तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः 03192028a स योगबलमास्थाय मामकं पार्थिवोत्तमः 03192028c शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति 03192029 मार्कण्डेय उवाच 03192029a उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत 03193001 मार्कण्डेय उवाच 03193001a इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् 03193001c प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् 03193002a शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् 03193002c अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः 03193003a विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् 03193003c आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः 03193004a जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता 03193004c श्रावस्तस्य तु दायादो बृहदश्वो महाबलः 03193004e बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः 03193005a कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः 03193005c सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः 03193006a कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् 03193006c समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् 03193006e कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् 03193007a पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः 03193007c जगाम तपसे धीमांस्तपोवनममित्रहा 03193008a अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर 03193008c वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः 03193009a तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् 03193009c न्यवारयदमेयात्मा समासाद्य नरोत्तमम् 03193010 उत्तङ्क उवाच 03193010a भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि 03193010c निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि 03193011a त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना 03193011c भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि 03193012a पालने हि महान्धर्मः प्रजानामिह दृश्यते 03193012c न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी 03193013a ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते 03193013c प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः 03193013e रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि 03193014a निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव 03193014c ममाश्रमसमीपे वै समेषु मरुधन्वसु 03193015a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03193015c बहुयोजनविस्तीर्णो बहुयोजनमायतः 03193016a तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः 03193016c मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः 03193017a अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः 03193017c तं निहत्य महाराज वनं त्वं गन्तुमर्हसि 03193018a शेते लोकविनाशाय तप आस्थाय दारुणम् 03193018c त्रिदशानां विनाशाय लोकानां चापि पार्थिव 03193019a अवध्यो देवतानां स दैत्यानामथ रक्षसाम् 03193019c नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः 03193019e अवाप्य स वरं राजन्सर्वलोकपितामहात् 03193020a तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा 03193020c प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् 03193021a क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै 03193021c संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते 03193021e यदा तदा भूश्चलति सशैलवनकानना 03193022a तस्य निःश्वासवातेन रज उद्धूयते महत् 03193022c आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् 03193022e सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् 03193023a तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे 03193023c तं विनाशय राजेन्द्र लोकानां हितकाम्यया 03193023e लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे 03193024a त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः 03193024c तेजसा तव तेजश्च विष्णुराप्याययिष्यति 03193025a विष्णुना च वरो दत्तो मम पूर्वं ततो वधे 03193025c यस्तं महासुरं रौद्रं वधिष्यति महीपतिः 03193025e तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् 03193026a तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् 03193026c तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् 03193027a न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते 03193027c निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि 03194001 मार्कण्डेय उवाच 03194001a स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः 03194001c उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् 03194002a न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति 03194002c पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः 03194003a धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि 03194003c प्रियं वै सर्वमेतत्ते करिष्यति न संशयः 03194004a पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः 03194004c विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम् 03194005a तथास्त्विति च तेनोक्तो मुनिनामिततेजसा 03194005c स तमादिश्य तनयमुत्तङ्काय महात्मने 03194005e क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् 03194006 युधिष्ठिर उवाच 03194006a क एष भगवन्दैत्यो महावीर्यस्तपोधन 03194006c कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् 03194007a एवं महाबलो दैत्यो न श्रुतो मे तपोधन 03194007c एतदिच्छामि भगवन्याथातथ्येन वेदितुम् 03194007e सर्वमेव महाप्राज्ञ विस्तरेण तपोधन 03194008 मार्कण्डेय उवाच 03194008a शृणु राजन्निदं सर्वं यथावृत्तं नराधिप 03194008c एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे 03194008e प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ 03194009a प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः 03194009c सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह 03194009e नागस्य भोगे महति शेषस्यामिततेजसः 03194010a लोककर्ता महाभाग भगवानच्युतो हरिः 03194010c नागभोगेन महता परिरभ्य महीमिमाम् 03194011a स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् 03194011c नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः 03194011e साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे 03194012a चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः 03194012c स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः 03194013a कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ 03194013c मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् 03194014a शयानं शयने दिव्ये नागभोगे महाद्युतिम् 03194014c बहुयोजनविस्तीर्णे बहुयोजनमायते 03194015a किरीटकौस्तुभधरं पीतकौशेयवाससम् 03194015c दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा 03194015e सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् 03194016a विस्मयः सुमहानासीन्मधुकैटभयोस्तदा 03194016c दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् 03194017a वित्रासयेतामथ तौ ब्रह्माणममितौजसम् 03194017c वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः 03194017e अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः 03194018a अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ 03194018c दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ 03194018e ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते 03194019a तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ 03194019c प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् 03194020a आवां वरय देव त्वं वरदौ स्वः सुरोत्तम 03194020c दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् 03194021 भगवानुवाच 03194021a प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम 03194021c युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान् 03194022a वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ 03194022c एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै 03194023 मधुकैटभावूचतुः 03194023a अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा 03194023c सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम 03194024a बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ 03194024c धर्मे तपसि दाने च शीलसत्त्वदमेषु च 03194025a उपप्लवो महानस्मानुपावर्तत केशव 03194025c उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः 03194026a आवामिच्छावहे देव कृतमेकं त्वया विभो 03194026c अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम 03194027a पुत्रत्वमभिगच्छाव तव चैव सुलोचन 03194027c वर एष वृतो देव तद्विद्धि सुरसत्तम 03194028 भगवानुवाच 03194028a बाढमेवं करिष्यामि सर्वमेतद्भविष्यति 03194029 मार्कण्डेय उवाच 03194029a विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् 03194029c अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः 03194030a स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा 03194030c मधुकैटभयो राजञ्शिरसी मधुसूदनः 03194030e चक्रेण शितधारेण न्यकृन्तत महायशाः 03195001 मार्कण्डेय उवाच 03195001a धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः 03195001c स तपोऽतप्यत महन्महावीर्यपराक्रमः 03195002a अतिष्ठदेकपादेन कृशो धमनिसंततः 03195002c तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो 03195003a देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् 03195003c अवध्योऽहं भवेयं वै वर एष वृतो मया 03195004a एवं भवतु गच्छेति तमुवाच पितामहः 03195004c स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह 03195005a स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः 03195005c अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् 03195006a स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः 03195006c बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् 03195007a समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 03195007c आगम्य च स दुष्टात्मा तं देशं भरतर्षभ 03195007e बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो 03195008a अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा 03195008c मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः 03195009a शेते लोकविनाशाय तपोबलसमाश्रितः 03195009c उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः 03195010a एतस्मिन्नेव काले तु सभृत्यबलवाहनः 03195010c कुवलाश्वो नरपतिरन्वितो बलशालिनाम् 03195011a सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः 03195011c प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् 03195012a तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः 03195012c उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया 03195013a तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् 03195013c एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति 03195014a दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् 03195014c देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः 03195015a शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः 03195015c विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः 03195016a अन्तरिक्षे विमानानि देवतानां युधिष्ठिर 03195016c तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः 03195017a कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः 03195017c देवगन्धर्वसहिताः समवैक्षन्महर्षयः 03195018a नारायणेन कौरव्य तेजसाप्यायितस्तदा 03195018c स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् 03195019a अर्णवं खानयामास कुवलाश्वो महीपतिः 03195019c कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे 03195020a सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः 03195020c आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् 03195020e दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ 03195021a ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् 03195021c सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः 03195022a कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः 03195022c अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि 03195022e पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः 03195023a स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः 03195023c क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च 03195024a आस्याद्वमन्पावकं स संवर्तकसमं तदा 03195024c तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा 03195025a मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव 03195025c क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः 03195025e सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् 03195026a तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम 03195026c तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् 03195026e आससाद महातेजाः कुवलाश्वो महीपतिः 03195027a तस्य वारि महाराज सुस्राव बहु देहतः 03195027c तदापीयत तत्तेजो राजा वारिमयं नृप 03195027e योगी योगेन वह्निं च शमयामास वारिणा 03195028a ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् 03195028c ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै 03195029a सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् 03195029c सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः 03195029e धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः 03195030a प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा 03195030c वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा 03195030e अतीव मुदितो राजन्निदं वचनमब्रवीत् 03195031a दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः 03195031c सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च 03195031e धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः 03195032a तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः 03195032c ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता 03195033a सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् 03195033c देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे 03195034a तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् 03195034c दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत 03195034e तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् 03195035a एवं स निहतस्तेन कुवलाश्वेन सत्तम 03195035c धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः 03195036a कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः 03195036c नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् 03195037a एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 03195037c धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा 03195038a इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् 03195038c शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः 03195039a आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु 03195039c न च व्याधिभयं किंचित्प्राप्नोति विगतज्वरः 03196001 वैशंपायन उवाच 03196001a ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् 03196001c पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् 03196002a श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् 03196002c कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः 03196003a प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम 03196003c सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च 03196004a पिता माता च भगवन्गाव एव च सत्तम 03196004c यच्चान्यदेव विहितं तच्चापि भृगुनन्दन 03196005a मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः 03196005c पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे 03196006a पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो 03196006c निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ 03196006e पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः 03196007a भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो 03196007c मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज 03196008a स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् 03196008c साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः 03196008e दुष्करं बत कुर्वन्ति पितरो मातरश्च वै 03196009a एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत 03196009c कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः 03196009e नार्यः कालेन संभूय किमद्भुततरं ततः 03196010a संशयं परमं प्राप्य वेदनामतुलामपि 03196010c प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो 03196010e पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम 03196011a ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः 03196011c स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् 03196012a क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज 03196012c धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना 03196013a एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर 03196013c श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत 03196014 मार्कण्डेय उवाच 03196014a हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् 03196014c तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे 03196015a मातरं सदृशीं तात पितॄनन्ये च मन्यते 03196015c दुष्करं कुरुते माता विवर्धयति या प्रजाः 03196016a तपसा देवतेज्याभिर्वन्दनेन तितिक्षया 03196016c अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् 03196017a एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् 03196017c चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति 03196018a आशंसते च पुत्रेषु पिता माता च भारत 03196018c यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च 03196019a तयोराशां तु सफलां यः करोति स धर्मवित् 03196019c पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा 03196019e इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः 03196020a नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् 03196020c या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते 03196021a एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर 03196021c प्रतिव्रतानां नियतं धर्मं चावहितः शृणु 03197001 मार्कण्डेय उवाच 03197001a कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः 03197001c तपस्वी धर्मशीलश्च कौशिको नाम भारत 03197002a साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः 03197002c स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः 03197003a उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत 03197003c तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि 03197004a तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः 03197004c भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता 03197005a अपध्याता च विप्रेण न्यपतद्वसुधातले 03197005c बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् 03197005e कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः 03197006a अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः 03197006c इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः 03197007a ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ 03197007c प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः 03197008a देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः 03197008c शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी 03197009a एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् 03197009c भर्ता प्रविष्टः सहसा तस्या भरतसत्तम 03197010a सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् 03197010c पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् 03197011a प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा 03197011c आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा 03197012a उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर 03197012c दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी 03197013a न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् 03197013c तं सर्वभावोपगता पतिशुश्रूषणे रता 03197014a साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी 03197014c भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते 03197015a देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा 03197015c शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया 03197016a सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् 03197016c कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा 03197017a व्रीडिता साभवत्साध्वी तदा भरतसत्तम 03197017c भिक्षामादाय विप्राय निर्जगाम यशस्विनी 03197018 ब्राह्मण उवाच 03197018a किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने 03197018c उपरोधं कृतवती न विसर्जितवत्यसि 03197019 मार्कण्डेय उवाच 03197019a ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा 03197019c दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् 03197020a क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् 03197020c स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया 03197021 ब्राह्मण उवाच 03197021a ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः 03197021c गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे 03197022a इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि 03197022c अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया 03197022e ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि 03197023 स्त्र्युवाच 03197023a नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः 03197023c अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ 03197024a जानामि तेजो विप्राणां महाभाग्यं च धीमताम् 03197024c अपेयः सागरः क्रोधात्कृतो हि लवणोदकः 03197025a तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 03197025c येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति 03197026a ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् 03197026c अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः 03197027a प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् 03197027c क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् 03197028a अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ 03197028c पतिशुश्रूषया धर्मो यः स मे रोचते द्विज 03197029a दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् 03197029c अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम 03197030a शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् 03197030c बलाका हि त्वया दग्धा रोषात्तद्विदितं मम 03197031a क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम 03197031c यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः 03197032a यो वदेदिह सत्यानि गुरुं संतोषयेत च 03197032c हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः 03197033a जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः 03197033c कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः 03197034a यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः 03197034c सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः 03197035a योऽध्यापयेदधीयीत यजेद्वा याजयीत वा 03197035c दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः 03197036a ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः 03197036c स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः 03197037a यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् 03197037c सत्यं तथा व्याहरतां नानृते रमते मनः 03197038a धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् 03197038c इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम 03197038e सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः 03197039a दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः 03197039c श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् 03197040a बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम 03197040c भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः 03197040e न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः 03197041a मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः 03197041c मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति 03197041e तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम 03197042a अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित 03197042c स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः 03197043 ब्राह्मण उवाच 03197043a प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने 03197043c उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् 03197043e स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने 03197044 मार्कण्डेय उवाच 03197044a तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ 03197044c विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम 03198001 मार्कण्डेय उवाच 03198001a चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः 03198001c विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ 03198002a चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् 03198002c श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् 03198003a कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल 03198003c तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् 03198004a इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः 03198004c बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः 03198004e संप्रतस्थे स मिथिलां कौतूहलसमन्वितः 03198005a अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च 03198005c ततो जगाम मिथिलां जनकेन सुरक्षिताम् 03198006a धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् 03198006c गोपुराट्टालकवतीं गृहप्राकारशोभिताम् 03198007a प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् 03198007c पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् 03198008a अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् 03198008c हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् 03198009a सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् 03198009c धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः 03198010a अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् 03198010c मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् 03198010e आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः 03198011a स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः 03198011c आजगाम यतो विप्रः स्थित एकान्त आसने 03198012 व्याध उवाच 03198012a अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम 03198012c अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् 03198013a एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति 03198013c जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः 03198014 मार्कण्डेय उवाच 03198014a श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः 03198014c द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः 03198015a अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् 03198015c गृहं गच्छाव भगवन्यदि रोचयसेऽनघ 03198016a बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् 03198016c अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति 03198017a प्रविश्य च गृहं रम्यमासनेनाभिपूजितः 03198017c पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः 03198018a ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् 03198018c कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे 03198018e अनुतप्ये भृशं तात तव घोरेण कर्मणा 03198019 व्याध उवाच 03198019a कुलोचितमिदं कर्म पितृपैतामहं मम 03198019c वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज 03198020a धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् 03198020c प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम 03198021a सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च 03198021c देवतातिथिभृत्यानामवशिष्टेन वर्तये 03198022a न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् 03198022c कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम 03198023a कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् 03198023c दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत 03198024a कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः 03198024c ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा 03198025a राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः 03198025c विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु 03198026a भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते 03198026c मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः 03198027a जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते 03198027c स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम 03198028a स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् 03198028c दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् 03198029a सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति 03198029c श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम 03198030a राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् 03198030c सर्वेषामेव वर्णानां त्राता राजा भवत्युत 03198031a परेण हि हतान्ब्रह्मन्वराहमहिषानहम् 03198031c न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् 03198032a न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् 03198032c सदोपवासी च तथा नक्तभोजी तथा द्विज 03198033a अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् 03198033c प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः 03198034a व्यभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् 03198034c अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः 03198035a उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च 03198035c क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः 03198035e पार्थिवानामधर्मत्वात्प्रजानामभवः सदा 03198036a स एष राजा जनकः सर्वं धर्मेण पश्यति 03198036c अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा 03198037a ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः 03198037c सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् 03198038a ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः 03198038c न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः 03198039a शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता 03198039c यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया 03198039e त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे 03198040a मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः 03198040c न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् 03198041a प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् 03198041c न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् 03198042a कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् 03198042c यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् 03198043a न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् 03198043c आत्मनैव हतः पापो यः पापं कर्तुमिच्छति 03198044a कर्म चैतदसाधूनां वृजिनानामसाधुवत् 03198044c न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये 03198044e अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः 03198045a महादृतिरिवाध्मातः पापो भवति नित्यदा 03198045c मूढानामवलिप्तानामसारं भाषितं भवेत् 03198045e दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् 03198046a न लोके राजते मूर्खः केवलात्मप्रशंसया 03198046c अपि चेह मृजा हीनः कृतविद्यः प्रकाशते 03198047a अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् 03198047c न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते 03198048a विकर्मणा तप्यमानः पापाद्विपरिमुच्यते 03198048c नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते 03198049a कर्मणा येन तेनेह पापाद्द्विजवरोत्तम 03198049c एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते 03198050a पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात् 03198050c धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् 03198051a पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः 03198051c चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः 03198052a वसनस्येव छिद्राणि साधूनां विवृणोति यः 03198052c पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते 03198052e मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः 03198053a यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति 03198053c एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते 03198054a पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम 03198054c लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः 03198054e अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 03198055a तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः 03198055c सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः 03198056 मार्कण्डेय उवाच 03198056a स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत 03198056c शिष्टाचारं कथमहं विद्यामिति नरोत्तम 03198056e एतन्महामते व्याध प्रब्रवीहि यथातथम् 03198057 व्याध उवाच 03198057a यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 03198057c पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 03198058a कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् 03198058c धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः 03198059a न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् 03198059c आचारपालनं चैव द्वितीयं शिष्टलक्षणम् 03198060a गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च 03198060c एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा 03198061a शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः 03198061c यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा 03198062a वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः 03198062c दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा 03198063a ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः 03198063c अपथा गच्छतां तेषामनुयातापि पीड्यते 03198064a ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः 03198064c धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः 03198065a नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः 03198065c उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः 03198066a नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् 03198066c त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च 03198067a कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् 03198067c नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर 03198068a क्रमेण संचितो धर्मो बुद्धियोगमयो महान् 03198068c शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि 03198069a अहिंसा सत्यवचनं सर्वभूतहितं परम् 03198069c अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः 03198069e सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः 03198070a सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् 03198070c आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः 03198071a यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते 03198071c पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् 03198072a आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः 03198072c अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् 03198073a अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः 03198073c ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते 03198074a त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः 03198074c गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत 03198075a तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् 03198075c स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति 03198076a तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् 03198076c धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः 03198077a आस्तिका मानहीनाश्च द्विजातिजनपूजकाः 03198077c श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः 03198078a वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः 03198078c शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् 03198079a पारणं चापि विद्यानां तीर्थानामवगाहनम् 03198079c क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् 03198080a सर्वभूतदयावन्तो अहिंसानिरताः सदा 03198080c परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः 03198081a शुभानामशुभानां च कर्मणां फलसंचये 03198081c विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः 03198082a न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः 03198082c सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे 03198083a दातारः संविभक्तारो दीनानुग्रहकारिणः 03198083c सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः 03198084a सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः 03198084c दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् 03198085a पीडया च कलत्रस्य भृत्यानां च समाहिताः 03198085c अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः 03198086a लोकयात्रां च पश्यन्तो धर्ममात्महितानि च 03198086c एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः 03198087a अहिंसा सत्यवचनमानृशंस्यमथार्जवम् 03198087c अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः 03198088a धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः 03198088c अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः 03198089a त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् 03198089c न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् 03198090a सर्वत्र च दयावन्तः सन्तः करुणवेदिनः 03198090c गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् 03198090e शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः 03198091a अनसूया क्षमा शान्तिः संतोषः प्रियवादिता 03198091c कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् 03198092a कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् 03198092c शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः 03198093a प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् 03198093c प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम 03198093e अतिपुण्यानि पापानि तानि द्विजवरोत्तम 03198094a एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् 03198094c शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ 03199001 मार्कण्डेय उवाच 03199001a स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर 03199001c यदहं ह्याचरे कर्म घोरमेतदसंशयम् 03199002a विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् 03199002c पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् 03199002e दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् 03199003a विधिना विहिते पूर्वं निमित्तं घातको भवेत् 03199003c निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम 03199004a येषां हतानां मांसानि विक्रीणामो वयं द्विज 03199004c तेषामपि भवेद्धर्म उपभोगेन भक्षणात् 03199004e देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् 03199005a ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः 03199005c अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः 03199006a आत्ममांसप्रदानेन शिबिरौशीनरो नृपः 03199006c स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम 03199007a राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज 03199007c द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा 03199008a समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः 03199008c अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम 03199008e चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः 03199009a अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः 03199009c यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः 03199009e संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् 03199010a यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा 03199010c भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम 03199011a अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे 03199011c देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा 03199011e यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् 03199012a अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः 03199012c भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः 03199013a सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते 03199013c सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज 03199013e शापाभिभूतेन भृशमत्र किं प्रतिभाति ते 03199014a स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम 03199014c पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा 03199015a स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते 03199015c स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः 03199016a पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति 03199016c धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये 03199017a द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता 03199017c कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् 03199017e कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् 03199018a दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा 03199018c द्विजातिपूजने चाहं धर्मे च निरतः सदा 03199018e अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम 03199019a कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता 03199019c कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् 03199019e जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते 03199020a धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम 03199020c सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते 03199021a अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च 03199021c वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज 03199022a जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च 03199022c उदके बहवश्चापि तत्र किं प्रतिभाति ते 03199023a सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः 03199023c मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते 03199024a सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम 03199024c प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते 03199025a चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् 03199025c पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते 03199026a उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः 03199026c ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते 03199027a जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा 03199027c अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते 03199028a अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा 03199028c के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम 03199028e बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः 03199029a अहिंसायां तु निरता यतयो द्विजसत्तम 03199029c कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् 03199030a आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः 03199030c महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च 03199031a सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः 03199031c सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः 03199032a समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि 03199032c गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः 03199033a बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम 03199033c धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते 03199034a वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु 03199034c स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् 03200001 मार्कण्डेय उवाच 03200001a धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर 03200001c विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः 03200002a श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् 03200002c सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका 03200003a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 03200003c अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् 03200004a यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा 03200004c विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् 03200005a यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम 03200005c अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः 03200006a विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् 03200006c आत्मनः कर्मदोषाणि न विजानात्यपण्डितः 03200007a मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम 03200007c सुखदुःखविपर्यासो यदा समुपपद्यते 03200007e नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् 03200008a यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् 03200008c यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् 03200009a संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः 03200009c दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः 03200010a भूतानामपरः कश्चिद्धिंसायां सततोत्थितः 03200010c वञ्चनायां च लोकस्य स सुखेनेह जीवति 03200011a अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति 03200011c कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति 03200012a देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः 03200012c दशमासधृता गर्भे जायन्ते कुलपांसनाः 03200013a अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः 03200013c विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः 03200014a कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः 03200014c आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव 03200015a ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः 03200015c व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज 03200016a येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः 03200016c न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर 03200017a अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः 03200017c दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम 03200018a इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् 03200018c स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा 03200019a न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः 03200019c नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् 03200020a उपर्युपरि लोकस्य सर्वो गन्तुं समीहते 03200020c यतते च यथाशक्ति न च तद्वर्तते तथा 03200021a बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः 03200021c महच्च फलवैषम्यं दृश्यते कर्मसंधिषु 03200022a न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम 03200022c कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते 03200023a यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः 03200023c शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह 03200024a वध्यमाने शरीरे तु देहनाशो भवत्युत 03200024c जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः 03200025 ब्राह्मण उवाच 03200025a कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः 03200025c एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर 03200026 व्याध उवाच 03200026a न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः 03200026c जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः 03200027a अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी 03200027c यत्तेन किंचिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः 03200028a अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति 03200028c नरोऽनुयातस्त्विह कर्मभिः स्वै;स्ततः समुत्पद्यति भावितस्तैः 03200029 ब्राह्मण उवाच 03200029a कथं संभवते योनौ कथं वा पुण्यपापयोः 03200029c जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम 03200030 व्याध उवाच 03200030a गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते 03200030c समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम 03200031a यथा संभृतसंभारः पुनरेव प्रजायते 03200031c शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु 03200032a शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् 03200032c मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः 03200033a जातिमृत्युजरादुःखैः सततं समभिद्रुतः 03200033c संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः 03200034a तिर्यग्योनिसहस्राणि गत्वा नरकमेव च 03200034c जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः 03200035a जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः 03200035c तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते 03200036a ततः कर्म समादत्ते पुनरन्यन्नवं बहु 03200036c पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः 03200037a अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः 03200037c ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि 03200037e परिक्रामति संसारे चक्रवद्बहुवेदनः 03200038a स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः 03200038c प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति 03200039a पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति 03200039c तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् 03200040a अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते 03200040c सुखानि धर्ममर्थं च स्वर्गं च लभते नरः 03200041a संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः 03200041c प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च 03200042a सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् 03200042c असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज 03200043a सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः 03200043c स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः 03200044a प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति 03200044c तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम 03200044e तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै 03200045a धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति 03200045c स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति 03200046a शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम 03200046c प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः 03200047a धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज 03200047c अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा 03200048a प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते 03200048c विरज्यति यथाकामं न च धर्मं विमुञ्चति 03200049a सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 03200049c ततो मोक्षे प्रयतते नानुपायादुपायतः 03200050a एवं निर्वेदमादत्ते पापं कर्म जहाति च 03200050c धार्मिकश्चापि भवति मोक्षं च लभते परम् 03200051a तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः 03200051c तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति 03200052a इन्द्रियाणां निरोधेन सत्येन च दमेन च 03200052c ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम 03200053 ब्राह्मण उवाच 03200053a इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत 03200053c निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् 03200054a कथं च फलमाप्नोति तेषां धर्मभृतां वर 03200054c एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक 03201001 मार्कण्डेय उवाच 03201001a एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर 03201001c प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप 03201002 व्याध उवाच 03201002a विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते 03201002c तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम 03201003a ततस्तदर्थं यतते कर्म चारभते महत् 03201003c इष्टानां रूपगन्धानामभ्यासं च निषेवते 03201004a ततो रागः प्रभवति द्वेषश्च तदनन्तरम् 03201004c ततो लोभः प्रभवति मोहश्च तदनन्तरम् 03201005a तस्य लोभाभिभूतस्य रागद्वेषहतस्य च 03201005c न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च 03201006a व्याजेन चरते धर्ममर्थं व्याजेन रोचते 03201006c व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम 03201006e तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति 03201007a सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम 03201007c उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् 03201008a अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः 03201008c पापं चिन्तयते चापि ब्रवीति च करोति च 03201009a तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः 03201009c एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः 03201010a स तेनासुखमाप्नोति परत्र च विहन्यते 03201010c पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु 03201011a यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति 03201011c कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते 03201011e तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते 03201012 ब्राह्मण उवाच 03201012a ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते 03201012c दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे 03201013 व्याध उवाच 03201013a ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा 03201013c तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा 03201014a यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम 03201014c नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे 03201015a इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः 03201015c महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् 03201016a महाभूतानि खं वायुरग्निरापस्तथा च भूः 03201016c शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः 03201017a तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् 03201017c पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु 03201018a षष्ठस्तु चेतना नाम मन इत्यभिधीयते 03201018c सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् 03201019a इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा 03201019c इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः 03201020a सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः 03201020c चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः 03201020e एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि 03202001 मार्कण्डेय उवाच 03202001a एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत 03202001c कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् 03202002 ब्राह्मण 03202002a महाभूतानि यान्याहुः पञ्च धर्मविदां वर 03202002c एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद 03202003 व्याध उवाच 03202003a भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च 03202003c गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् 03202004a भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् 03202004c गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः 03202005a शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 03202005c एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः 03202006a शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम 03202006c अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत 03202007a शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः 03202007c शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च 03202008a एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु 03202008c वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः 03202008e अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज 03202009a यदा तु विषमीभावमाचरन्ति चराचराः 03202009c तदा देही देहमन्यं व्यतिरोहति कालतः 03202010a आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः 03202010c तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 03202010e यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् 03202011a इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् 03202011c अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 03202012a यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु 03202012c इन्द्रियाणि यदा देही धारयन्निह तप्यते 03202013a लोके विततमात्मानं लोकं चात्मनि पश्यति 03202013c परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति 03202014a पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 03202014c ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 03202015a ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् 03202015c लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते 03202016a अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् 03202016c अनौपम्यममूर्तं च भगवानाह बुद्धिमान् 03202016e तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि 03202017a इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ 03202017c निगृहीतविसृष्टानि स्वर्गाय नरकाय च 03202018a एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् 03202018c एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च 03202019a इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् 03202019c संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते 03202020a षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति 03202020c न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः 03202021a रथः शरीरं पुरुषस्य दृष्ट;मात्मा नियन्तेन्द्रियाण्याहुरश्वान् 03202021c तैरप्रमत्तः कुशली सदश्वै;र्दान्तैः सुखं याति रथीव धीरः 03202022a षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् 03202022c यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः 03202023a इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु 03202023c धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् 03202024a इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते 03202024c तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि 03202025a येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे 03202025c तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् 03203001 मार्कण्डेय उवाच 03203001a एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत 03203001c ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः 03203002 ब्राह्मण उवाच 03203002a सत्त्वस्य रजसश्चैव तमसश्च यथातथम् 03203002c गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः 03203003 व्याध उवाच 03203003a हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि 03203003c एषां गुणान्पृथक्त्वेन निबोध गदतो मम 03203004a मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् 03203004c प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते 03203005a अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः 03203005c दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः 03203006a प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः 03203006c विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः 03203007a प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः 03203007c अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः 03203008a सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते 03203008c यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते 03203009a वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते 03203009c मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् 03203010a ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् 03203010c न चास्य संयमो नाम क्वचिद्भवति कश्चन 03203011a शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः 03203011c वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च 03203012a आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते 03203012c गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि 03203013 ब्राह्मण उवाच 03203013a पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् 03203013c अवकाशविशेषेण कथं वर्तयतेऽनिलः 03203014 मार्कण्डेय उवाच 03203014a प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर 03203014c व्याधः स कथयामास ब्राह्मणाय महात्मने 03203015 व्याध उवाच 03203015a मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् 03203015c प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 03203015e भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् 03203016a श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे 03203016c स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 03203016e मनो बुद्धिरहंकारो भूतानां विषयश्च सः 03203017a एवं त्विह स सर्वत्र प्राणेन परिपाल्यते 03203017c पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः 03203018a बस्तिमूले गुदे चैव पावकः समुपाश्रितः 03203018c वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते 03203019a प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते 03203019c उदान इति तं प्राहुरध्यात्मविदुषो जनाः 03203020a संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः 03203020c शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते 03203021a धातुष्वग्निस्तु विततः स तु वायुसमीरितः 03203021c रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति 03203022a प्राणानां संनिपातात्तु संनिपातः प्रजायते 03203022c ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् 03203023a अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ 03203023c समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः 03203024a तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः 03203024c स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् 03203025a अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 03203025c स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् 03203026a पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः 03203026c नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः 03203027a प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा 03203027c वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः 03203028a योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् 03203028c जितक्लमासना धीरा मूर्धन्यात्मानमादधुः 03203028e एवं सर्वेषु विततौ प्राणापानौ हि देहिषु 03203029a एकादशविकारात्मा कलासंभारसंभृतः 03203029c मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् 03203030a तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः 03203030c आत्मानं तं विजानीहि नित्यं योगजितात्मकम् 03203031a देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे 03203031c क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् 03203032a जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा 03203032c जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् 03203033a सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम् 03203033c ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त 03203034a एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते 03203034c दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः 03203035a चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् 03203035c प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते 03203036a लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 03203036c निवाते वा यथा दीपो दीप्येत्कुशलदीपितः 03203037a पूर्वरात्रे परे चैव युञ्जानः सततं मनः 03203037c लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि 03203038a प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति 03203038c दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते 03203039a सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः 03203039c एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः 03203040a नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 03203040c विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः 03203041a आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 03203041c आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् 03203042a सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् 03203042c यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् 03203043a यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा 03203043c त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 03203044a यतो न गुरुरप्येनं च्यावयेदुपपादयन् 03203044c तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम् 03203045a न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् 03203045c नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् 03203046a आकिंचन्यं सुसंतोषो निराशित्वमचापलम् 03203046c एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् 03203047a परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः 03203047c अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च 03203048a तपोनित्येन दान्तेन मुनिना संयतात्मना 03203048c अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 03203049a गुणागुणमनासङ्गमेककार्यमनन्तरम् 03203049c एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् 03203050a परित्यजति यो दुःखं सुखं चाप्युभयं नरः 03203050c ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति 03203051a यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम 03203051c एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 03204001 मार्कण्डेय उवाच 03204001a एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर 03204001c दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह 03204002a न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् 03204002c न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते 03204003 व्याध उवाच 03204003a प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम 03204003c येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव 03204004a उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् 03204004c द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे 03204005 मार्कण्डेय उवाच 03204005a इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् 03204005c सौधं हृद्यं चतुःशालमतीव च मनोहरम् 03204006a देवतागृहसंकाशं दैवतैश्च सुपूजितम् 03204006c शयनासनसंबाधं गन्धैश्च परमैर्युतम् 03204007a तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ 03204007c कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने 03204007e धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् 03204008 वृद्धावूचतुः 03204008a उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु 03204008c प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि 03204008e सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ 03204009a न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते 03204009c प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः 03204010a पितुः पितामहा ये च तथैव प्रपितामहाः 03204010c प्रीतास्ते सततं पुत्र दमेनावां च पूजया 03204011a मनसा कर्मणा वाचा शुश्रूषा नैव हीयते 03204011c न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव 03204012a जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ 03204012c तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक 03204013 मार्कण्डेय उवाच 03204013a ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् 03204013c तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा 03204014a प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ 03204014c सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे 03204014e अनामयं च वां कच्चित्सदैवेह शरीरयोः 03204015 वृद्धावूचतुः 03204015a कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः 03204015c कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह 03204016 मार्कण्डेय उवाच 03204016a बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः 03204016c धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् 03204017a पिता माता च भगवन्नेतौ मे दैवतं परम् 03204017c यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् 03204018a त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः 03204018c संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम 03204019a उपहारानाहरन्तो देवतानां यथा द्विजाः 03204019c कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः 03204020a एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् 03204020c एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज 03204021a एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः 03204021c यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज 03204022a एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः 03204022c सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् 03204023a स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये 03204023c आहारं संप्रयच्छामि स्वयं च द्विजसत्तम 03204024a अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् 03204024c अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् 03204025a धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम 03204025c अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् 03204026a पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः 03204026c पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम 03204027a एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम 03204027c भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः 03204027e गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः 03205001 मार्कण्डेय उवाच 03205001a गुरू निवेद्य विप्राय तौ मातापितरावुभौ 03205001c पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् 03205002a प्रवृत्तचक्षुर्जातोऽस्मि संपश्य तपसो बलम् 03205002c यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति 03205003a पतिशुश्रूषपरया दान्तया सत्यशीलया 03205003c मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति 03205004 ब्राह्मण उवाच 03205004a पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत 03205004c संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः 03205005 व्याध उवाच 03205005a यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो 03205005c दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः 03205006a त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया 03205006c वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज 03205007a त्वया विनिकृता माता पिता च द्विजसत्तम 03205007c अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित 03205007e वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् 03205008a तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ 03205008c तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् 03205009a तपस्वी त्वं महात्मा च धर्मे च निरतः सदा 03205009c सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय 03205010a श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि 03205010c गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् 03205011 ब्राह्मण उवाच 03205011a यदेतदुक्तं भवता सर्वं सत्यमसंशयम् 03205011c प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित 03205012 व्याध उवाच 03205012a दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः 03205012c पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः 03205013a अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् 03205013c अतः परमहं धर्मं नान्यं पश्यामि कंचन 03205014 ब्राह्मण उवाच 03205014a इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया 03205014c ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः 03205015a एको नरसहस्रेषु धर्मविद्विद्यते न वा 03205015c प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम 03205016a पतमानो हि नरके भवतास्मि समुद्धृतः 03205016c भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ 03205017a राजा ययातिर्दौहित्रैः पतितस्तारितो यथा 03205017c सद्भिः पुरुषशार्दूल तथाहं भवता त्विह 03205018a मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव 03205018c नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् 03205019a दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता 03205019c न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् 03205019e येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया 03205020a एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते 03205020c कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् 03205021 व्याध उवाच 03205021a अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम 03205021c शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ 03205022a अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज 03205022c वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः 03205022e आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् 03205023a कश्चिद्राजा मम सखा धनुर्वेदपरायणः 03205023c संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज 03205024a एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः 03205024c सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः 03205024e ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति 03205025a अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम 03205025c ताडितश्च मुनिस्तेन शरेणानतपर्वणा 03205026a भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् 03205026c नापराध्याम्यहं किंचित्केन पापमिदं कृतम् 03205027a मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् 03205027c अपश्यं तमृषिं विद्धं शरेणानतपर्वणा 03205027e तमुग्रतपसं विप्रं निष्टनन्तं महीतले 03205028a अकार्यकरणाच्चापि भृशं मे व्यथितं मनः 03205028c अजानता कृतमिदं मयेत्यथ तमब्रुवम् 03205028e क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः 03205029a ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः 03205029c व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज 03206001 व्याध उवाच 03206001a एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम 03206001c अभिप्रसादयमृषिं गिरा वाक्यविशारदम् 03206002a अजानता मयाकार्यमिदमद्य कृतं मुने 03206002c क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति 03206003 ऋषिरुवाच 03206003a नान्यथा भविता शाप एवमेतदसंशयम् 03206003c आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते 03206004a शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि 03206004c मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः 03206005a तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि 03206005c जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि 03206005e शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः 03206006 व्याध उवाच 03206006a एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा 03206006c प्रसादश्च कृतस्तेन ममैवं द्विपदां वर 03206007a शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम 03206007c आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत 03206008a एतत्ते सर्वमाख्यातं यथा मम पुराभवत् 03206008c अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम 03206009 ब्राह्मण उवाच 03206009a एवमेतानि पुरुषा दुःखानि च सुखानि च 03206009c प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि 03206009e दुष्करं हि कृतं तात जानता जातिमात्मनः 03206010a कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै 03206010c कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः 03206010e सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः 03206011a ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु 03206011c दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् 03206012a यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः 03206012c तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः 03206013a कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् 03206013c क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम 03206014a कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः 03206014c लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः 03206015 व्याध उवाच 03206015a प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 03206015c एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् 03206016a अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च 03206016c मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः 03206017a गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च 03206017c सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते 03206018a अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते 03206018c ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् 03206018e शोचतो न भवेत्किंचित्केवलं परितप्यते 03206019a परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः 03206019c त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः 03206020a असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः 03206020c असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् 03206020e न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 03206021a न विषादे मनः कार्यं विषादो विषमुत्तमम् 03206021c मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः 03206022a यं विषादोऽभिभवति विषमे समुपस्थिते 03206022c तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते 03206023a अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् 03206023c न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् 03206024a अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे 03206024c अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् 03206025a भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः 03206025c न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् 03206026a न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् 03206026c एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम 03206027 ब्राह्मण उवाच 03206027a कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव 03206027c नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् 03206028a आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु 03206028c अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर 03206029 मार्कण्डेय उवाच 03206029a बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह 03206029c प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः 03206030a स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा 03206030c मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः 03206031a एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर 03206031c पृष्टवानसि यं तात धर्मं धर्मभृतां वर 03206032a पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम 03206032c मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः 03206033 युधिष्ठिर उवाच 03206033a अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् 03206033c सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम 03206034a सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् 03206034c न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् 03207001 वैशंपायन उवाच 03207001a श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 03207001c पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् 03207002 युधिष्ठिर उवाच 03207002a कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा 03207002c नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः 03207003a अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु 03207003c दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् 03207004a कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् 03207004c यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च 03207005a एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन 03207005c कौतूहलसमाविष्टो यथातथ्यं महामुने 03207006 मार्कण्डेय उवाच 03207006a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 03207006c यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः 03207007a यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् 03207007c संतापयन्स्वप्रभया नाशयंस्तिमिराणि च 03207008a आश्रमस्थो महाभागो हव्यवाहं विशेषयन् 03207008c तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् 03207009a तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा 03207009c भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान् 03207010a अथ संचिन्तयामास भगवान्हव्यवाहनः 03207010c अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः 03207010e अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः 03207011a कथमग्निः पुनरहं भवेयमिति चिन्त्य सः 03207011c अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् 03207012a सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः 03207012c शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः 03207012e विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु 03207013a त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः 03207013c स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद 03207014 अग्निरुवाच 03207014a नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः 03207014c भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः 03207015a निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव 03207015c भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च 03207016 अङ्गिरा उवाच 03207016a कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः 03207016c मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा 03207017 मार्कण्डेय उवाच 03207017a तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् 03207017c राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः 03207018a ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् 03207018c उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत 03207019a स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् 03207019c प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा 03207020a अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् 03207020c कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह 03208001 मार्कण्डेय उवाच 03208001a ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह 03208001c तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु 03208002a बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः 03208002c बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः 03208003a प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् 03208003c देवी भानुमती नाम प्रथमाङ्गिरसः सुता 03208004a भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् 03208004c रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता 03208005a यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः 03208005c तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता 03208006a पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती 03208006c षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् 03208007a महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती 03208007c महामतीति विख्याता सप्तमी कथ्यते सुता 03208008a यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते 03208008c एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् 03209001 मार्कण्डेय उवाच 03209001a बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी 03209001c अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् 03209002a आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते 03209002c सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः 03209003a चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः 03209003c दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् 03209004a शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा 03209004c अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः 03209005a प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे 03209005c अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते 03209006a पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् 03209006c भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः 03209007a तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः 03209007c भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका 03209008a भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः 03209008c महानत्यर्थमहितस्तथा भरतसत्तम 03209009a भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः 03209009c प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः 03209010a हविषा यो द्वितीयेन सोमेन सह युज्यते 03209010c रथप्रभू रथध्वानः कुम्भरेताः स उच्यते 03209011a सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् 03209011c आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते 03209012a यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया 03209012c अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् 03209013a विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् 03209013c विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु 03209014a आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् 03209014c अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः 03209015a अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः 03209015c तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः 03209016a यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति 03209016c तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् 03209017a अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् 03209017c स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत 03209018a ब्रह्मचारी यतात्मा च सततं विपुलव्रतः 03209018c ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् 03209019a प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया 03209019c तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः 03209020a वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः 03209020c ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः 03209021a उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते 03209021c ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः 03209022a यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः 03209022c क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका 03209022e स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति 03209023a त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन 03209023c अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः 03209024a संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः 03209024c समरे नाशयेच्छत्रूनमोघो नाम पावकः 03209025a उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः 03209025c महावाचं त्वजनयत्सकामाश्वं हि यं विदुः 03210001 मार्कण्डेय उवाच 03210001a काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः 03210001c अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः 03210002a अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् 03210002c पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् 03210003a महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ 03210003c जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः 03210004a समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा 03210004c त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत 03210005a पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः 03210005c पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः 03210006a दश वर्षसहस्राणि तपस्तप्त्वा महातपाः 03210006c जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् 03210007a बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ 03210007c शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् 03210008a बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह 03210008c एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् 03210009a बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः 03210009c भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः 03210010a प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः 03210010c देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् 03210011a अभीममतिभीमं च भीमं भीमबलाबलम् 03210011c एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः 03210012a सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् 03210012c मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः 03210013a सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् 03210013c सुराणामपि हन्तारं पञ्चैतानसृजत्तपः 03210014a त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् 03210014c मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः 03210015a तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि 03210015c स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च 03210016a हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् 03210016c तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् 03210017a चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते 03210017c मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् 03210018a बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः 03210018c अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते 03210019a रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते 03210019c मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः 03210019e मुमुदे परमप्रीतः सह पुत्रैर्महायशाः 03211001 मार्कण्डेय उवाच 03211001a गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः 03211001c अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति 03211001e भरत्येष प्रजाः सर्वास्ततो भरत उच्यते 03211002a अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः 03211002c दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः 03211003a तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् 03211003c उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः 03211004a ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते 03211004c अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् 03211005a शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः 03211005c आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् 03211006a ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् 03211006c अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह 03211007a प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः 03211007c असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् 03211008a तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् 03211008c बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः 03211009a भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा 03211009c असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् 03211010a दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति 03211010c तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् 03211011a यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः 03211011c अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः 03211012a दर्शे च पौर्णमासे च यस्येह हविरुच्यते 03211012c विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः 03211013a इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् 03211013c अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः 03211014a चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः 03211014c चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः 03211015a निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा 03211015c मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् 03211016a पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः 03211016c पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः 03211017a अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते 03211017c सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः 03211017e ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः 03211018a कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता 03211018c कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः 03211019a प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् 03211019c तस्य संनिहितो नाम शब्दरूपस्य साधनः 03211020a शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् 03211020c अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः 03211021a कपिलं परमर्षिं च यं प्राहुर्यतयः सदा 03211021c अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः 03211022a अग्निर्यच्छति भूतानि येन भूतानि नित्यदा 03211022c कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते 03211023a इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि 03211023c अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् 03211024a संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः 03211024c इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये 03211025a दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल 03211025c इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये 03211026a यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना 03211026c इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये 03211027a अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् 03211027c इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये 03211028a मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा 03211028c इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये 03211029a आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः 03211029c इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये 03211030a दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् 03211030c इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये 03211031a सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् 03211031c इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये 03212001 मार्कण्डेय उवाच 03212001a आपस्य मुदिता भार्या सहस्य परमा प्रिया 03212001c भूपतिर्भुवभर्ता च जनयत्पावकं परम् 03212002a भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् 03212002c आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु 03212003a महतां चैव भूतानां सर्वेषामिह यः पतिः 03212003c भगवान्स महातेजा नित्यं चरति पावकः 03212004a अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते 03212004c हुतं वहति यो हव्यमस्य लोकस्य पावकः 03212005a अपां गर्भो महाभागः सहपुत्रो महाद्भुतः 03212005c भूपतिर्भुवभर्ता च महतः पतिरुच्यते 03212006a दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् 03212006c अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु 03212007a आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् 03212007c देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् 03212008a दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् 03212008c देवानां वह हव्यं त्वमहं वीर सुदुर्बलः 03212008e अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे 03212009a प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् 03212009c मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् 03212010a भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् 03212010c अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः 03212011a अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः 03212011c नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् 03212012a स तच्छरीरं संत्यज्य प्रविवेश धरां तदा 03212012c भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि 03212013a आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च 03212013c श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा 03212014a यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः 03212014c नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् 03212014e शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप 03212015a एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः 03212015c भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा 03212016a भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी 03212016c दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् 03212017a तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् 03212017c अर्चयामासुरेवैनमथर्वाणं सुरर्षयः 03212018a अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् 03212018c मिषतां सर्वभूतानामुन्ममाथ महार्णवम् 03212019a एवमग्निर्भगवता नष्टः पूर्वमथर्वणा 03212019c आहूतः सर्वभूतानां हव्यं वहति सर्वदा 03212020a एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् 03212020c विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै 03212021a सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती 03212021c गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया 03212022a चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा 03212022c ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी 03212023a तमसा नर्मदा चैव नदी गोदावरी तथा 03212023c वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत 03212024a भारती सुप्रयोगा च कावेरी मुर्मुरा तथा 03212024c कृष्णा च कृष्णवेण्णा च कपिला शोण एव च 03212024e एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः 03212025a अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः 03212025c यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च 03212026a अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः 03212026c अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् 03212026e तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः 03212027a एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया 03212027c अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः 03212028a अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् 03212028c तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः 03212029a एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः 03212029c बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा 03212030a इत्येष वंशः सुमहानग्नीनां कीर्तितो मया 03212030c पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् 03213001 मार्कण्डेय उवाच 03213001a अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ 03213001c शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः 03213002a अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् 03213002c जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् 03213003a देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् 03213003c तत्राजयन्सदा देवान्दानवा घोररूपिणः 03213004a वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः 03213004c स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा 03213005a देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः 03213005c पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया 03213006a स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् 03213006c शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा 03213007a अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह 03213007c पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे 03213008a पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव 03213008c एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः 03213009a किरीटिनं गदापाणिं धातुमन्तमिवाचलम् 03213009c हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् 03213010a अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि 03213010c वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् 03213011 केश्युवाच 03213011a विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया 03213011c क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन 03213012 मार्कण्डेय उवाच 03213012a एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै 03213012c तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः 03213013a अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् 03213013c तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः 03213013e बिभेद राजन्वज्रेण भुवि तन्निपपात ह 03213014a पतता तु तदा केशी तेन शृङ्गेण ताडितः 03213014c हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः 03213015a अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् 03213015c कासि कस्यासि किं चेह कुरुषे त्वं शुभानने 03213016 कन्योवाच 03213016a अहं प्रजापतेः कन्या देवसेनेति विश्रुता 03213016c भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता 03213017a सहैवावां भगिन्यौ तु सखीभिः सह मानसम् 03213017c आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् 03213018a नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः 03213018c इच्छत्येनं दैत्यसेना न त्वहं पाकशासन 03213019a सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु 03213019c त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् 03213020 इन्द्र उवाच 03213020a मम मातृष्वसेया त्वं माता दाक्षायणी मम 03213020c आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया 03213021 कन्योवाच 03213021a अबलाहं महाबाहो पतिस्तु बलवान्मम 03213021c वरदानात्पितुर्भावी सुरासुरनमस्कृतः 03213022 इन्द्र उवाच 03213022a कीदृशं वै बलं देवि पत्युस्तव भविष्यति 03213022c एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते 03213023 कन्योवाच 03213023a देवदानवयक्षाणां किंनरोरगरक्षसाम् 03213023c जेता स दृष्टो दुष्टानां महावीर्यो महाबलः 03213024a यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति 03213024c स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः 03213025 मार्कण्डेय उवाच 03213025a इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् 03213025c अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते 03213026a अथापश्यत्स उदये भास्करं भास्करद्युतिः 03213026c सोमं चैव महाभागं विशमानं दिवाकरम् 03213027a अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च 03213027c देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ 03213028a लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः 03213028c अपश्यल्लोहितोदं च भगवान्वरुणालयम् 03213029a भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः 03213029c हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् 03213030a पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् 03213030c तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् 03213031a समालोक्यैकतामेव शशिनो भास्करस्य च 03213031c समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् 03213032a एष रौद्रश्च संघातो महान्युक्तश्च तेजसा 03213032c सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः 03213032e जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् 03213033a अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता 03213033c एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् 03213034a एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः 03213034c गृहीत्वा देवसेनां तामवन्दत्स पितामहम् 03213034e उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश 03213035 ब्रह्मोवाच 03213035a यथैतच्चिन्तितं कार्यं त्वया दानवसूदन 03213035c तथा स भविता गर्भो बलवानुरुविक्रमः 03213036a स भविष्यति सेनानीस्त्वया सह शतक्रतो 03213036c अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् 03213037 मार्कण्डेय उवाच 03213037a एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया 03213037c तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् 03213037e वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः 03213038a भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे 03213038c पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः 03213039a इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने 03213039c जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् 03213040a समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् 03213040c विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः 03213040e आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् 03213041a स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः 03213041c ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् 03213042a निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् 03213042c स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् 03213043a रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः 03213043c हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः 03213044a स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः 03213044c पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ 03213045a स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् 03213045c साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् 03213046a नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः 03213046c गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः 03213047a संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः 03213047c पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः 03213048a निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः 03213048c मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः 03213049a कामसंतप्तहृदयो देहत्यागे सुनिश्चितः 03213049c अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः 03213050a स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा 03213050c सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी 03213050e अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता 03213051a सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् 03213051c तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी 03213052a अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् 03213052c कामयिष्यामि कामार्तं तासां रूपेण मोहितम् 03213052e एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् 03214001 मार्कण्डेय उवाच 03214001a शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता 03214001c तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप 03214001e जगाम पावकाभ्याशं तं चोवाच वराङ्गना 03214002a मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि 03214002c करिष्यसि न चेदेवं मृतां मामुपधारय 03214003a अहमङ्गिरसो भार्या शिवा नाम हुताशन 03214003c सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् 03214004 अग्निरुवाच 03214004a कथं मां त्वं विजानीषे कामार्तमितराः कथम् 03214004c यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः 03214005 शिवोवाच 03214005a अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव 03214005c त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् 03214006a मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर 03214006c मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन 03214007 मार्कण्डेय उवाच 03214007a ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः 03214007c प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना 03214008a अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने 03214008c ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके 03214009a तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम् 03214009c वनान्निर्गमनं चैव सुखं मम भविष्यति 03214010a सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् 03214010c अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् 03214011a दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः 03214011c रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा 03214011e राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः 03214012a सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् 03214012c प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती 03214013a शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् 03214013c पत्नीसरूपतां कृत्वा कामयामास पावकम् 03214014a दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया 03214014c तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च 03214015a षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम 03214015c तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा 03214016a तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम् 03214016c ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः 03214017a षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः 03214017c एकग्रीवस्त्वेककायः कुमारः समपद्यत 03214018a द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ 03214018c अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः 03214019a लोहिताभ्रेण महता संवृतः सह विद्युता 03214019c लोहिताभ्रे सुमहति भाति सूर्य इवोदितः 03214020a गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् 03214020c न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् 03214021a तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा 03214021c संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान् 03214022a तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् 03214022c उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह 03214023a तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः 03214023c द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना 03214023e अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः 03214024a महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् 03214024c गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः 03214025a द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् 03214025c प्राध्मापयत भूतानां त्रासनं बलिनामपि 03214026a द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः 03214026c क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन् 03214026e पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा 03214027a स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः 03214027c व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः 03214027e स पश्यन्विविधान्भावांश्चकार निनदं पुनः 03214028a तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः 03214028c भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः 03214029a ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः 03214029c तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् 03214030a स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् 03214030c धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ 03214031a बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् 03214031c तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् 03214032a स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् 03214032c तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् 03214033a स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः 03214033c न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् 03214034a सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना 03214034c बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः 03214035a स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह 03214035c उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः 03214036a ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः 03214036c आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ 03214037a पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः 03214037c अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् 03215001 मार्कण्डेय उवाच 03215001a ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् 03215001c अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः 03215002a निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः 03215002c तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् 03215002e संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह 03215003a अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः 03215003c यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती 03215003e न तु तत्स्वाहया कर्म कृतं जानाति वै जनः 03215004a सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति 03215004c उपगम्य शनैः स्कन्दमाहाहं जननी तव 03215005a अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् 03215005c तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् 03215006a षड्भिरेव तदा जातमाहुस्तद्वनवासिनः 03215006c सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत 03215006e अहं जाने नैतदेवमिति राजन्पुनः पुनः 03215007a विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः 03215007c पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात् 03215007e तत्तेन निखिलं सर्वमवबुद्धं यथातथम् 03215008a विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः 03215008c स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः 03215009a मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश 03215009c जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः 03215010a षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् 03215010c शक्त्या देव्याः साधनं च तथा पारिषदामपि 03215011a विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै 03215011c तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः 03215012a अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः 03215012c अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः 03215012e श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् 03215013a स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् 03215013c अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् 03215014a यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति 03215014c त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः 03215015a स तानुवाच व्यथितो बालोऽयं सुमहाबलः 03215015c स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् 03215016a सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः 03215016c कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः 03215017a तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः 03215017c अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः 03215018a ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् 03215018c अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः 03215019a ताः संपूज्य महासेनः कामांश्चासां प्रदाय सः 03215019c अपश्यदग्निमायान्तं पितरं बलिनां बली 03215020a स तु संपूजितस्तेन सह मातृगणेन ह 03215020c परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् 03215021a सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा 03215021c धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत 03215022a लोहितस्योदधेः कन्या क्रूरा लोहितभोजना 03215022c परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत 03215023a अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः 03215023c रमयामास शैलस्थं बालं क्रीडनकैरिव 03216001 मार्कण्डेय उवाच 03216001a ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा 03216001c हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः 03216002a एते चान्ये च बहवो घोरास्त्रिदिववासिनः 03216002c परिवार्य महासेनं स्थिता मातृगणैः सह 03216003a संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः 03216003c आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह 03216003e विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ 03216004a उग्रं तच्च महावेगं देवानीकं महाप्रभम् 03216004c विचित्रध्वजसंनाहं नानावाहनकार्मुकम् 03216004e प्रवराम्बरसंवीतं श्रिया जुष्टमलंकृतम् 03216005a विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् 03216005c विनदन्पथि शक्रस्तु द्रुतं याति महाबलः 03216005e संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् 03216006a संपूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः 03216006c समीपमुपसंप्राप्तः कार्त्तिकेयस्य वासवः 03216007a सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः 03216007c गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा 03216008a तस्य शब्देन महता समुद्धूतोदधिप्रभम् 03216008c बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् 03216009a जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः 03216009c विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः 03216009e ता देवसैन्यान्यदहन्वेष्टमानानि भूतले 03216010a ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः 03216010c प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव 03216011a दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् 03216011c देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः 03216012a त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् 03216012c तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् 03216012e बिभेद च महाराज पार्श्वं तस्य महात्मनः 03216013a वज्रप्रहारात्स्कन्दस्य संजातः पुरुषोऽपरः 03216013c युवा काञ्चनसंनाहः शक्तिधृग्दिव्यकुण्डलः 03216013e यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् 03216014a तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् 03216014c भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः 03216015a तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम 03216015c ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् 03217001 मार्कण्डेय उवाच 03217001a स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् 03217001c वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः 03217001e ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः 03217002a वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः 03217002c कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् 03217003a स भूत्वा भगवान्संख्ये रक्षंश्छागमुखस्तदा 03217003c वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः 03217004a मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः 03217004c ततः कुमारपितरं स्कन्दमाहुर्जना भुवि 03217005a रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् 03217005c यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः 03217006a यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः 03217006c किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत 03217007 मातर ऊचुः 03217007a भवेम सर्वलोकस्य वयं मातर उत्तमाः 03217007c प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः 03217008 मार्कण्डेय उवाच 03217008a सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः 03217008c अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः 03217009a ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् 03217009c काकी च हलिमा चैव रुद्राथ बृहली तथा 03217009e आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः 03217010a एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः 03217010c स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः 03217011a एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः 03217011c छागवक्त्रेण सहितो नवकः परिकीर्त्यते 03217012a षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् 03217012c षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् 03217013a षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते 03217013c शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह 03217014a इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 03217014c तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप 03218001 मार्कण्डेय उवाच 03218001a उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् 03218001c हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् 03218002a लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् 03218002c सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् 03218003a ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् 03218003c अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी 03218004a श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा 03218004c निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी 03218005a अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् 03218005c इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः 03218006a हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव 03218006c त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः 03218007a अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम 03218007c तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः 03218008 स्कन्द उवाच 03218008a किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः 03218008c कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः 03218009 ऋषय ऊचुः 03218009a इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् 03218009c तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः 03218010a दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति 03218010c अनुशास्ति च भूतानि कार्येषु बलसूदनः 03218011a असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः 03218011c भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः 03218012a एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् 03218012c त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः 03218013 शक्र उवाच 03218013a भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः 03218013c अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम 03218014 स्कन्द उवाच 03218014a शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः 03218014c अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् 03218015 शक्र उवाच 03218015a बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि 03218015c अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः 03218016a इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् 03218016c आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः 03218017a भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति 03218017c द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा 03218017e विग्रहः संप्रवर्तेत भूतभेदान्महाबल 03218018a तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि 03218018c तस्मादिन्द्रो भवानद्य भविता मा विचारय 03218019 स्कन्द उवाच 03218019a त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च 03218019c करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे 03218020 शक्र उवाच 03218020a यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया 03218020c यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु 03218021a अभिषिच्यस्व देवानां सेनापत्ये महाबल 03218021c अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल 03218022 स्कन्द उवाच 03218022a दानवानां विनाशाय देवानामर्थसिद्धये 03218022c गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् 03218023 मार्कण्डेय उवाच 03218023a सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह 03218023c अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः 03218024a तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत 03218024c यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् 03218025a विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी 03218025c आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना 03218026a आगम्य मनुजव्याघ्र सह देव्या परंतप 03218026c अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः 03218027a रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः 03218027c रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् 03218027e पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे 03218028a पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः 03218028c रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् 03218029a अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः 03218029c तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् 03218030a रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा 03218030c जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् 03218031a अरजे वाससी रक्ते वसानः पावकात्मजः 03218031c भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् 03218032a कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः 03218032c रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः 03218033a विवेश कवचं चास्य शरीरं सहजं ततः 03218033c युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा 03218034a शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः 03218034c ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् 03218035a निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् 03218035c स्कन्देन सह जातानि सर्वाण्येव जनाधिप 03218036a एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः 03218036c बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः 03218037a इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि 03218037c देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः 03218038a एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः 03218038c क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः 03218039a अभिषिक्तं महासेनमपश्यन्त दिवौकसः 03218039c विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा 03218040a अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः 03218040c अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् 03218041a ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः 03218041c अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि 03218042a शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा 03218042c सस्मार तां देवसेनां या सा तेन विमोक्षिता 03218043a अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् 03218043c इति चिन्त्यानयामास देवसेनां स्वलंकृताम् 03218044a स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम 03218044c अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा 03218045a तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् 03218045c गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् 03218046a एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि 03218046c बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च 03218047a एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः 03218047c षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् 03218047e सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् 03218048a यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया 03218048c तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी 03218049a श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता 03218049c षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः 03219001 मार्कण्डेय उवाच 03219001a श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् 03219001c सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् 03219002a ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः 03219002c द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् 03219003a वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः 03219003c अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः 03219004a अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् 03219004c असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि 03219005a अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो 03219005c त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव 03219006 स्कन्द उवाच 03219006a मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः 03219006c यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा 03219007 मार्कण्डेय उवाच 03219007a एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् 03219007c उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः 03219008a अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा 03219008c इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता 03219009a तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् 03219009c कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय 03219010a धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः 03219010c रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत् 03219011a एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः 03219011c नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् 03219012a विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः 03219012c इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् 03219013 स्कन्द उवाच 03219013a एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् 03219013c स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा 03219014 मार्कण्डेय उवाच 03219014a अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् 03219014c वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः 03219014e इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः 03219015 स्कन्द उवाच 03219015a मातरस्तु भवत्यो मे भवतीनामहं सुतः 03219015c उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् 03219016 मातर ऊचुः 03219016a यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः 03219016c अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् 03219017a भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ 03219017c प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः 03219018 स्कन्द उवाच 03219018a दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् 03219018c अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ 03219019 मातर ऊचुः 03219019a इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः 03219019c त्वया सह पृथग्भूता ये च तासामथेश्वराः 03219020 स्कन्द उवाच 03219020a प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् 03219020c परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः 03219021 मातर ऊचुः 03219021a परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि 03219021c त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो 03219022 स्कन्द उवाच 03219022a यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः 03219022c प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः 03219023a अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् 03219023c परमं तेन सहिता सुखं वत्स्यथ पूजिताः 03219024 मार्कण्डेय उवाच 03219024a ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः 03219024c भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः 03219025a अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः 03219025c स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः 03219025e स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः 03219026a विनता तु महारौद्रा कथ्यते शकुनिग्रहः 03219026c पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् 03219027a कष्टा दारुणरूपेण घोररूपा निशाचरी 03219027c पिशाची दारुणाकारा कथ्यते शीतपूतना 03219027e गर्भान्सा मानुषीणां तु हरते घोरदर्शना 03219028a अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः 03219028c सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः 03219029a दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् 03219029c अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा 03219030a कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः 03219030c तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः 03219031a तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः 03219031c अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः 03219032a गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप 03219032c शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि 03219033a सरमा नाम या माता शुनां देवी जनाधिप 03219033c सापि गर्भान्समादत्ते मानुषीणां सदैव हि 03219034a पादपानां च या माता करञ्जनिलया हि सा 03219034c करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः 03219035a इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः 03219035c द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे 03219036a कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा 03219036c भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते 03219037a गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति 03219037c ततो विलीनगर्भा सा मानुषी भुवि दृश्यते 03219038a या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा 03219038c उपविष्टं ततो गर्भं कथयन्ति मनीषिणः 03219039a लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता 03219039c लोहितायनिरित्येवं कदम्बे सा हि पूज्यते 03219040a पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि 03219040c आर्या माता कुमारस्य पृथक्कामार्थमिज्यते 03219041a एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः 03219041c यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः 03219042a ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः 03219042c सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः 03219043a तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् 03219043c बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः 03219044a एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् 03219044c आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः 03219045a ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् 03219045c तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् 03219046a यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा 03219046c उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः 03219047a आसीनश्च शयानश्च यः पश्यति नरः पितॄन् 03219047c उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः 03219048a अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् 03219048c उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः 03219049a उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् 03219049c उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः 03219050a गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि 03219050c उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः 03219051a आविशन्ति च यं यक्षाः पुरुषं कालपर्यये 03219051c उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः 03219052a अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् 03219052c उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः 03219053a यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः 03219053c उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः 03219054a वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् 03219054c उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् 03219055a कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः 03219055c अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः 03219056a यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् 03219056c अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः 03219057a अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् 03219057c आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः 03219058a इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः 03219058c न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् 03220001 मार्कण्डेय उवाच 03220001a यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् 03220001c अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः 03220002a इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् 03220002c तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् 03220003 स्वाहोवाच 03220003a दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज 03220003c बाल्यात्प्रभृति नित्यं च जातकामा हुताशने 03220004a न च मां कामिनीं पुत्र सम्यग्जानाति पावकः 03220004c इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना 03220005 स्कन्द उवाच 03220005a हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम् 03220005c होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् 03220006a अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः 03220006c एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने 03220007 मार्कण्डेय उवाच 03220007a एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता 03220007c पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् 03220008a ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् 03220008c अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् 03220009a रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया 03220009c हितार्थं सर्वलोकानां जातस्त्वमपराजितः 03220010a उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना 03220010c आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः 03220011a संभूतं लोहितोदे तु शुक्रशेषमवापतत् 03220011c सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि 03220011e आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् 03220012a त एते विविधाकारा गणा ज्ञेया मनीषिभिः 03220012c तव पारिषदा घोरा य एते पिशिताशनाः 03220013a एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् 03220013c अपूजयदमेयात्मा पितरं पितृवत्सलः 03220014a अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः 03220014c व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् 03220015a मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् 03220015c नमस्कार्यं सदैवेह बालानां हितमिच्छता 03220016a स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः 03220016c वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः 03220017a एवमेते पिशाचानामसंख्येया गणाः स्मृताः 03220017c घण्टायाः सपताकायाः शृणु मे संभवं नृप 03220018a ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते 03220018c गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता 03220019a एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा 03220019c पताका कार्त्तिकेयस्य विशाखस्य च लोहिता 03220020a यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा 03220020c तैरेव रमते देवो महासेनो महाबलः 03220021a स संवृतः पिशाचानां गणैर्देवगणैस्तथा 03220021c शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः 03220022a तेन वीरेण शुशुभे स शैलः शुभकाननः 03220022c आदित्येनेवांशुमता मन्दरश्चारुकन्दरः 03220023a संतानकवनैः फुल्लैः करवीरवनैरपि 03220023c पारिजातवनैश्चैव जपाशोकवनैस्तथा 03220024a कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि 03220024c दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः 03220025a तत्र देवगणाः सर्वे सर्वे चैव महर्षयः 03220025c मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः 03220026a तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा 03220026c हृष्टानां तत्र भूतानां श्रूयते निनदो महान् 03220027a एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् 03220027c प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् 03221001 मार्कण्डेय उवाच 03221001a यदाभिषिक्तो भगवान्सेनापत्येन पावकिः 03221001c तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः 03221001e रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः 03221002a सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे 03221002c उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः 03221003a ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् 03221003c सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः 03221004a तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह 03221004c विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा 03221005a अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह 03221005c आस्थाय रुचिरं याति पुष्पकं नरवाहनः 03221006a ऐरावतं समास्थाय शक्रश्चापि सुरैः सह 03221006c पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् 03221007a जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः 03221007c यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः 03221008a तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः 03221008c गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः 03221009a यमश्च मृत्युना सार्धं सर्वतः परिवारितः 03221009c घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा 03221010a यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः 03221010c विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः 03221011a तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः 03221011c परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः 03221012a पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः 03221012c गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः 03221013a पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् 03221013c कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः 03221014a तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः 03221014c भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः 03221015a एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः 03221015c याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः 03221016a ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा 03221016c नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः 03221017a नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये 03221017c स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः 03221017e सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः 03221018a पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् 03221018c छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् 03221018e चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ 03221019a शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः 03221019c सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् 03221020a गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया 03221020c सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः 03221021a तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः 03221021c यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे 03221022a स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः 03221022c व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा 03221022e पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः 03221023a एभिः स सहितस्तत्र ययौ देवो यथासुखम् 03221023c अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा 03221024a रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् 03221024c शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् 03221024e भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् 03221025a देवसेनापतिस्त्वेवं देवसेनाभिरावृतः 03221025c अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः 03221026a अथाब्रवीन्महासेनं महादेवो बृहद्वचः 03221026c सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः 03221027 स्कन्द उवाच 03221027a सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो 03221027c यदन्यदपि मे कार्यं देव तद्वद माचिरम् 03221028 रुद्र उवाच 03221028a कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि 03221028c दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि 03221029 मार्कण्डेय उवाच 03221029a इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः 03221029c विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् 03221029e सहसैव महाराज देवान्सर्वान्प्रमोहयत् 03221030a जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् 03221030c चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो 03221031a ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा 03221031c उमा चैव महाभागा देवाश्च समहर्षयः 03221032a ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् 03221032c नानाप्रहरणं घोरमदृश्यत महद्बलम् 03221033a तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः 03221033c अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम् 03221034a तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः 03221034c पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः 03221035a निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः 03221035c क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत 03221036a निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् 03221036c दानवैरर्दितं सैन्यं देवानां विमुखं बभौ 03221037a असुरैर्वध्यमानं तत्पावकैरिव काननम् 03221037c अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा 03221038a ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः 03221038c न नाथमध्यगच्छन्त वध्यमाना महारणे 03221039a अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः 03221039c आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् 03221040a भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत 03221040c कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् 03221041a जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् 03221041c अभिद्रवत भद्रं वो मया सह महासुरान् 03221042a शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः 03221042c दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् 03221043a ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः 03221043c प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह 03221044a तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे 03221044c शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् 03221045a तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा 03221045c निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः 03221046a तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः 03221046c अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः 03221047a ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि 03221047c त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् 03221048a अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः 03221048c संहतानि च तूर्याणि तदा सर्वाण्यनेकशः 03221049a एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् 03221049c देवानां दानवानां च मांसशोणितकर्दमम् 03221050a अनयो देवलोकस्य सहसैव व्यदृश्यत 03221050c तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः 03221051a ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः 03221051c बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः 03221052a अथ दैत्यबलाद्घोरान्निष्पपात महाबलः 03221052c दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् 03221053a ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम् 03221053c समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः 03221054a अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् 03221054c पतता तेन गिरिणा देवसैन्यस्य पार्थिव 03221054e भीमरूपेण निहतमयुतं प्रापतद्भुवि 03221055a अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् 03221055c अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव 03221056a तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः 03221056c व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः 03221057a ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ 03221057c अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् 03221058a यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः 03221058c रेसतू रोदसी गाढं मुमुहुश्च महर्षयः 03221059a व्यनदंश्च महाकाया दैत्या जलधरोपमाः 03221059c आसीच्च निश्चितं तेषां जितमस्माभिरित्युत 03221060a तथाभूते तु भगवान्नावधीन्महिषं रणे 03221060c सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः 03221061a महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् 03221061c देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् 03221062a ततस्तस्मिन्भये घोरे देवानां समुपस्थिते 03221062c आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् 03221063a लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः 03221063c लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः 03221064a रथमादित्यसंकाशमास्थितः कनकप्रभम् 03221064c तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे 03221065a स चापि तां प्रज्वलितां महिषस्य विदारिणीम् 03221065c मुमोच शक्तिं राजेन्द्र महासेनो महाबलः 03221066a सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् 03221066c पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः 03221067a क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः 03221067c स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः 03221068a प्रायः शरैर्विनिहता महासेनेन धीमता 03221068c शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः 03221068e स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः 03221069a दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् 03221069c क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः 03221070a तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः 03221070c तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् 03221071a संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् 03221071c शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् 03221072a नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् 03221072c अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः 03221073a ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः 03221073c देवास्तृणमया यस्य बभूवुर्जयतां वर 03221073e सोऽयं त्वया महाबाहो शमितो देवकण्टकः 03221074a शतं महिषतुल्यानां दानवानां त्वया रणे 03221074c निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः 03221075a तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः 03221075c अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः 03221076a एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति 03221076c त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति 03221076e वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज 03221077a महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः 03221077c अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः 03221078a गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः 03221078c उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव 03221079a स हत्वा दानवगणान्पूज्यमानो महर्षिभिः 03221079c एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः 03221080a स्कन्दस्य य इदं जन्म पठते सुसमाहितः 03221080c स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात् 03222001 वैशंपायन उवाच 03222001a उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु 03222001c द्रौपदी सत्यभामा च विविशाते तदा समम् 03222001e जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः 03222002a चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे 03222002c कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् 03222003a अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया 03222003c सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा 03222004a केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि 03222004c लोकपालोपमान्वीरान्यूनः परमसंमतान् 03222004e कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे 03222005a तव वश्या हि सततं पाण्डवाः प्रियदर्शने 03222005c मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे 03222006a व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा 03222006c विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः 03222007a मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् 03222007c येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः 03222008a एवमुक्त्वा सत्यभामा विरराम यशस्विनी 03222008c पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् 03222009a असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि 03222009c असदाचरिते मार्गे कथं स्यादनुकीर्तनम् 03222010a अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते 03222010c तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया 03222011a यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् 03222011c उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव 03222012a उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् 03222012c न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् 03222013a अमित्रप्रहितांश्चापि गदान्परमदारुणान् 03222013c मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः 03222014a जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते 03222014c तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् 03222015a जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा 03222015c अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा 03222016a पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत 03222016c न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन 03222017a वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु 03222017c तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि 03222018a अहंकारं विहायाहं कामक्रोधौ च सर्वदा 03222018c सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् 03222019a प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि 03222019c शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी 03222020a दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् 03222020c दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि 03222021a सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् 03222021c सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः 03222022a देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः 03222022c द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः 03222023a नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि 03222023c न संविशामि नाश्नामि सदा कर्मकरेष्वपि 03222024a क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् 03222024c प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च 03222025a प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी 03222025c संयता गुप्तधान्या च सुसंमृष्टनिवेशना 03222026a अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती 03222026c अनुकूलवती नित्यं भवाम्यनलसा सदा 03222027a अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः 03222027c अवस्करे चिरस्थानं निष्कुटेषु च वर्जये 03222028a अतिहासातिरोषौ च क्रोधस्थानं च वर्जये 03222028c निरताहं सदा सत्ये भर्तॄणामुपसेवने 03222028e सर्वथा भर्तृरहितं न ममेष्टं कथंचन 03222029a यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् 03222029c सुमनोवर्णकापेता भवामि व्रतचारिणी 03222030a यच्च भर्ता न पिबति यच्च भर्ता न खादति 03222030c यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् 03222031a यथोपदेशं नियता वर्तमाना वराङ्गने 03222031c स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता 03222032a ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा 03222032c भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु 03222032e मान्यानां मानसत्कारा ये चान्ये विदिता मया 03222033a तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता 03222033c विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता 03222034a मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः 03222034c आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् 03222035a पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः 03222035c स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् 03222036a अहं पतीन्नातिशये नात्यश्ने नातिभूषये 03222036c नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता 03222037a अवधानेन सुभगे नित्योत्थानतयैव च 03222037c भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च 03222038a नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् 03222038c स्वयं परिचराम्येका स्नानाच्छादनभोजनैः 03222039a नैतामतिशये जातु वस्त्रभूषणभोजनैः 03222039c नापि परिवदे चाहं तां पृथां पृथिवीसमाम् 03222040a अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा 03222040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 03222041a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 03222041c त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 03222042a दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् 03222042c ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् 03222043a तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः 03222043c यथार्हं पूजयामि स्म पानाच्छादनभोजनैः 03222044a शतं दासीसहस्राणि कौन्तेयस्य महात्मनः 03222044c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 03222045a महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः 03222045c मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः 03222046a तासां नाम च रूपं च भोजनाच्छादनानि च 03222046c सर्वासामेव वेदाहं कर्म चैव कृताकृतम् 03222047a शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः 03222047c पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत 03222048a शतमश्वसहस्राणि दश नागायुतानि च 03222048c युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः 03222049a एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् 03222049c येषां संख्याविधिं चैव प्रदिशामि शृणोमि च 03222050a अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः 03222050c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 03222051a सर्वं राज्ञः समुदयमायं च व्ययमेव च 03222051c एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् 03222052a मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः 03222052c उपासनरताः सर्वे घटन्ते स्म शुभानने 03222053a तमहं भारमासक्तमनाधृष्यं दुरात्मभिः 03222053c सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै 03222054a अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् 03222054c एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् 03222055a अनिशायां निशायां च सहायाः क्षुत्पिपासयोः 03222055c आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे 03222056a प्रथमं प्रतिबुध्यामि चरमं संविशामि च 03222056c नित्यकालमहं सत्ये एतत्संवननं मम 03222057a एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् 03222057c असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये 03222058a तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा 03222058c उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् 03222059a अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे 03222059c कामकारः सखीनां हि सोपहासं प्रभाषितुम् 03223001 द्रौपद्युवाच 03223001a इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः 03223001c यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः 03223002a नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु 03223002c यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् 03223003a तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि 03223003c वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः 03223004a सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि 03223004c सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च 03223005a तथाशनैश्चारुभिरग्र्यमाल्यै;र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः 03223005c अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः 03223006a श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये 03223006c दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् 03223007a संप्रेषितायामथ चैव दास्या;मुत्थाय सर्वं स्वयमेव कुर्याः 03223007c जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये 03223008a त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम् 03223008c काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः 03223009a प्रियांश्च रक्तांश्च हितांश्च भर्तु;स्तान्भोजयेथा विविधैरुपायैः 03223009c द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च 03223010a मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् 03223010c प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् 03223011a महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु 03223011c चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः 03223012a एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च 03223012c महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा 03224001 वैशंपायन उवाच 03224001a मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः 03224001c कथाभिरनुकूलाभिः सहासित्वा जनार्दनः 03224002a ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः 03224002c आरुरुक्षू रथं सत्यामाह्वयामास केशवः 03224003a सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् 03224003c उवाच वचनं हृद्यं यथाभावसमाहितम् 03224004a कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः 03224004c भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम् 03224005a न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः 03224005c प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे 03224006a अवश्यं च त्वया भूमिरियं निहतकण्टका 03224006c भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया 03224007a धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च 03224007c युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे 03224008a यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः 03224008c ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः 03224009a तव दुःखोपपन्नाया यैराचरितमप्रियम् 03224009c विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् 03224010a पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः 03224010c श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः 03224010e सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः 03224011a सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव 03224011c अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् 03224012a त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता 03224012c प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा 03224013a भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा 03224013c भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः 03224014a भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः 03224014c रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः 03224014e तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि 03224015a एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् 03224015c गमनाय मनश्चक्रे वासुदेवरथं प्रति 03224016a तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् 03224016c आरुरोह रथं शौरेः सत्यभामा च भामिनी 03224017a स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च 03224017c उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः 03225001 जनमेजय उवाच 03225001a एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः 03225001c सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः 03225002 वैशंपायन उवाच 03225002a सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् 03225002c वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः 03225003a तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्च 03225003c अभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः 03225004a ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् 03225004c स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् 03225005a अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन 03225005c प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च 03225006a कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् 03225006c तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् 03225007a ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः 03225007c वने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् 03225008a प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् 03225008c वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य 03225009a कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः 03225009c अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी 03225010a प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः 03225010c पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः 03225011a कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः 03225011c शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः 03225012a तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः 03225012c विदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात् 03225013a यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् 03225013c विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् 03225014a तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव 03225014c प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ 03225015a समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् 03225015c स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् 03225016a स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः 03225016c सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः 03225017a अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् 03225017c तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि 03225018a न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम् 03225018c अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन 03225019a स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः 03225019c विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् 03225020a गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ 03225020c न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् 03225021a दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः 03225021c मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च 03225022a शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता 03225022c स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् 03225023a क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् 03225023c न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि 03225024a कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन 03225024c मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः 03225025a ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या 03225025c ध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः 03225026a क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित् 03225026c प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् 03225027a कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् 03225027c अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके 03225028a गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्य 03225028c अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः 03225029a स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् 03225029c अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून् 03225030a धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् 03225030c अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु 03225031a निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च 03225031c अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः 03226001 वैशंपायन उवाच 03226001a धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः 03226001c दुर्योधनमिदं काले कर्णो वचनमब्रवीत् 03226002a प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत 03226002c भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा 03226003a प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः 03226003c कृताः करप्रदाः सर्वे राजानस्ते नराधिप 03226004a या हि सा दीप्यमानेव पाण्डवान्भजते पुरा 03226004c साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह 03226005a इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे 03226005c अपश्याम श्रियं राजन्नचिरं शोककर्शिताः 03226006a सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् 03226006c त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते 03226007a तथैव तव राजेन्द्र राजानः परवीरहन् 03226007c शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः 03226008a तवाद्य पृथिवी राजन्निखिला सागराम्बरा 03226008c सपर्वतवना देवी सग्रामनगराकरा 03226008e नानावनोद्देशवती पत्तनैरुपशोभिता 03226009a वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः 03226009c पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव 03226010a रुद्रैरिव यमो राजा मरुद्भिरिव वासवः 03226010c कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव 03226011a ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न 03226011c पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः 03226012a श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति 03226012c वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः 03226013a स प्रयाहि महाराज श्रिया परमया युतः 03226013c प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा 03226014a स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः 03226014c असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप 03226015a महाभिजनसंपन्नं भद्रे महति संस्थितम् 03226015c पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् 03226016a यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते 03226016c पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत 03226017a समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते 03226017c जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् 03226018a न पुत्रधनलाभेन न राज्येनापि विन्दति 03226018c प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् 03226019a किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम् 03226019c अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् 03226020a सुवाससो हि ते भार्या वल्कलाजिनवाससम् 03226020c पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः 03226020e विनिन्दतां तथात्मानं जीवितं च धनच्युता 03226021a न तथा हि सभामध्ये तस्या भवितुमर्हति 03226021c वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः 03226022a एवमुक्त्वा तु राजानं कर्णः शकुनिना सह 03226022c तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय 03227001 वैशंपायन उवाच 03227001a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा 03227001c हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् 03227002a ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् 03227002c न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः 03227003a परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः 03227003c मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् 03227004a अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् 03227004c एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति 03227005a न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् 03227005c उत्सादनमृते तेषां वनस्थानां मम द्विषाम् 03227006a जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते 03227006c अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा 03227007a तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् 03227007c विचिन्त्य नाधिगच्छामि गमनायेतराय वा 03227008a ममापि हि महान्हर्षो यदहं भीमफल्गुनौ 03227008c क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति 03227009a न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि 03227009c दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः 03227010a किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् 03227010c द्रौपदीं कर्ण पश्येयं काषायवसनां वने 03227011a यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः 03227011c युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् 03227012a उपायं न तु पश्यामि येन गच्छेम तद्वनम् 03227012c यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः 03227013a स सौबलेन सहितस्तथा दुःशासनेन च 03227013c उपायं पश्य निपुणं येन गच्छेम तद्वनम् 03227014a अहमप्यद्य निश्चित्य गमनायेतराय वा 03227014c काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह 03227015a मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे 03227015c उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः 03227016a ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति 03227016c व्यवसायं करिष्येऽहमनुनीय पितामहम् 03227017a तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति 03227017c व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् 03227018a ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् 03227018c उपायः परिदृष्टोऽयं तं निबोध जनेश्वर 03227019a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03227019c घोषयात्रापदेशेन गमिष्यामो न संशयः 03227020a उचितं हि सदा गन्तुं घोषयात्रां विशां पते 03227020c एवं च त्वां पिता राजन्समनुज्ञातुमर्हति 03227021a तथा कथयमानौ तौ घोषयात्राविनिश्चयम् 03227021c गान्धारराजः शकुनिः प्रत्युवाच हसन्निव 03227022a उपायोऽयं मया दृष्टो गमनाय निरामयः 03227022c अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत 03227023a घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 03227023c घोषयात्रापदेशेन गमिष्यामो न संशयः 03227024a ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः 03227024c तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् 03228001 वैशंपायन उवाच 03228001a धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय 03228001c पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत 03228002a ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः 03228002c समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् 03228003a अनन्तरं च राधेयः शकुनिश्च विशां पते 03228003c आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् 03228004a रमणीयेषु देशेषु घोषाः संप्रति कौरव 03228004c स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् 03228005a मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते 03228005c दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि 03228006 धृतराष्ट्र उवाच 03228006a मृगया शोभना तात गवां च समवेक्षणम् 03228006c विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे 03228007a ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् 03228007c अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् 03228008a छद्मना निर्जितास्ते हि कर्शिताश्च महावने 03228008c तपोनित्याश्च राधेय समर्थाश्च महारथाः 03228009a धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः 03228009c यज्ञसेनस्य दुहिता तेज एव तु केवलम् 03228010a यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः 03228010c ततो विनिर्दहेयुस्ते तपसा हि समन्विताः 03228011a अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः 03228011c सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा 03228012a अथ यूयं बहुत्वात्तानारभध्वं कथंचन 03228012c अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् 03228013a उषितो हि महाबाहुरिन्द्रलोके धनंजयः 03228013c दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् 03228014a अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा 03228014c किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः 03228015a अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ 03228015c उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति 03228016a अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे 03228016c तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः 03228017a तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः 03228017c न स्वयं तत्र गमनं रोचये तव भारत 03228018 शकुनिरुवाच 03228018a धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि 03228018c तेन द्वादश वर्षाणि वस्तव्यानीति भारत 03228019a अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः 03228019c युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति 03228020a मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् 03228020c स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् 03228021a न चानार्यसमाचारः कश्चित्तत्र भविष्यति 03228021c न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः 03228022 वैशंपायन उवाच 03228022a एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः 03228022c दुर्योधनं सहामात्यमनुजज्ञे न कामतः 03228023a अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा 03228023c निर्ययौ भरतश्रेष्ठो बलेन महता वृतः 03228024a दुःशासनेन च तथा सौबलेन च देविना 03228024c संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः 03228025a तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः 03228025c पौराश्चानुययुः सर्वे सहदारा वनं च तत् 03228026a अष्टौ रथसहस्राणि त्रीणि नागायुतानि च 03228026c पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः 03228027a शकटापणवेश्याश्च वणिजो बन्दिनस्तथा 03228027c नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः 03228028a ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः 03228028c प्रावृषीव महावायोरुद्धतस्य विशां पते 03228029a गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा 03228029c प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः 03229001 वैशंपायन उवाच 03229001a अथ दुर्योधनो राजा तत्र तत्र वने वसन् 03229001c जगाम घोषानभितस्तत्र चक्रे निवेशनम् 03229002a रमणीये समाज्ञाते सोदके समहीरुहे 03229002c देशे सर्वगुणोपेते चक्रुरावसथं नराः 03229003a तथैव तत्समीपस्थान्पृथगावसथान्बहून् 03229003c कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः 03229004a ददर्श स तदा गावः शतशोऽथ सहस्रशः 03229004c अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः 03229005a अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि 03229005c बालवत्साश्च या गावः कालयामास ता अपि 03229006a अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् 03229006c वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः 03229007a स च पौरजनः सर्वः सैनिकाश्च सहस्रशः 03229007c यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः 03229008a ततो गोपाः प्रगातारः कुशला नृत्तवादिते 03229008c धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः 03229009a स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु 03229009c तेभ्यो यथार्हमन्नानि पानानि विविधानि च 03229010a ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् 03229010c गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् 03229011a स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने 03229011c रमणीयेषु देशेषु ग्राहयामास वै मृगान् 03229012a गोरसानुपयुञ्जान उपभोगांश्च भारत 03229012c पश्यन्सुरमणीयानि पुष्पितानि वनानि च 03229013a मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च 03229013c अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः 03229013e ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् 03229014a यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः 03229014c ईजे राजर्षियज्ञेन सद्यस्केन विशां पते 03229014e दिव्येन विधिना राजा वन्येन कुरुसत्तमः 03229015a कृत्वा निवेशमभितः सरसस्तस्य कौरवः 03229015c द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः 03229016a ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः 03229016c आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत 03229017a ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः 03229017c चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः 03229018a सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः 03229018c प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् 03229019a तत्र गन्धर्वराजो वै पूर्वमेव विशां पते 03229019c कुबेरभवनाद्राजन्नाजगाम गणावृतः 03229020a गणैरप्सरसां चैव त्रिदशानां तथात्मजैः 03229020c विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः 03229021a तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः 03229021c प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः 03229022a स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् 03229022c प्रेषयामास कौरव्य उत्सारयत तानिति 03229023a तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः 03229023c सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् 03229024a राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली 03229024c विजिहीर्षुरिहायाति तदर्थमपसर्पत 03229025a एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते 03229025c प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः 03229026a न चेतयति वो राजा मन्दबुद्धिः सुयोधनः 03229026c योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः 03229027a यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः 03229027c ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः 03229028a गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः 03229028c द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् 03229029a एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः 03229029c संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् 03230001 वैशंपायन उवाच 03230001a ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् 03230001c अब्रुवंश्च महाराज यदूचुः कौरवं प्रति 03230002a गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् 03230002c अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत 03230003a शासतैनानधर्मज्ञान्मम विप्रियकारिणः 03230003c यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः 03230004a दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः 03230004c सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः 03230005a ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् 03230005c सिंहनादेन महता पूरयन्तो दिशो दश 03230006a ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः 03230006c ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप 03230006e ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् 03230007a यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः 03230007c ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् 03230008a गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति 03230008c अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः 03230009a अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत 03230009c प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् 03230010a तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् 03230010c सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः 03230011a तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 03230011c वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः 03230012a आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03230012c महता शरवर्षेण राधेयः प्रत्यवारयत् 03230013a क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः 03230013c गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः 03230014a पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः 03230014c क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् 03230015a ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता 03230015c भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः 03230016a गन्धर्वभूता पृथिवी क्षणेन समपद्यत 03230016c आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः 03230017a अथ दुर्योधनो राजा शकुनिश्चापि सौबलः 03230017c दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः 03230017e न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः 03230018a भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः 03230018c महता रथघोषेण हयचारेण चाप्युत 03230018e वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् 03230019a ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह 03230019c तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् 03230020a ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः 03230020c उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् 03230021a गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः 03230021c उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः 03230022a ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् 03230022c तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया 03230023a एकैको हि तदा योधो धार्तराष्ट्रस्य भारत 03230023c पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह 03230024a ततः संपीड्यमानास्ते बलेन महता तदा 03230024c प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः 03230025a भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः 03230025c कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः 03230026a दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 03230026c गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः 03230027a सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः 03230027c जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे 03230028a असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः 03230028c सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् 03230029a अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् 03230029c ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् 03230030a अन्ये छत्रं वरूथं च बन्धुरं च तथापरे 03230030c गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् 03230031a ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् 03230031c विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् 03231001 वैशंपायन उवाच 03231001a गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे 03231001c संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः 03231002a तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 03231002c दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः 03231003a तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् 03231003c महता शरवर्षेण सोऽभ्यवर्षदरिंदमः 03231004a अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् 03231004c दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् 03231005a युगमीषां वरूथं च तथैव ध्वजसारथी 03231005c अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् 03231006a दुर्योधनं चित्रसेनो विरथं पतितं भुवि 03231006c अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् 03231007a तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे 03231007c पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः 03231008a विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः 03231008c विन्दानुविन्दावपरे राजदारांश्च सर्वशः 03231009a सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः 03231009c पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा 03231010a शकटापणवेश्याश्च यानयुग्यं च सर्वशः 03231010c शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ 03231011a प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः 03231011c गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत 03231012a दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा 03231012c बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः 03231013a इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः 03231013c आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् 03231014a तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् 03231014c वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत 03231015a अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा 03231015c अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् 03231016a दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः 03231016c द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् 03231017a तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् 03231017c दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः 03231017e येनास्माकं हृतो भार आसीनानां सुखावहः 03231018a शीतवातातपसहांस्तपसा चैव कर्शितान् 03231018c समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः 03231019a अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः 03231019c ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् 03231020a अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् 03231020c अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः 03231021a एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् 03231021c न कालः परुषस्यायमिति राजाभ्यभाषत 03232001 युधिष्ठिर उवाच 03232001a अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः 03232001c कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् 03232002a भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर 03232002c प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति 03232003a यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् 03232003c न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् 03232004a जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् 03232004c स एष परिभूयास्मानकार्षीदिदमप्रियम् 03232005a दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे 03232005c स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् 03232006a शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः 03232006c उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् 03232007a अर्जुनश्च यमौ चैव त्वं च भीमापराजितः 03232007c मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् 03232008a एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः 03232008c इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः 03232009a एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे 03232009c सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः 03232010a य एव कश्चिद्राजन्यः शरणार्थमिहागतम् 03232010c परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर 03232011a क इहान्यो भवेत्त्राणमभिधावेति चोदितः 03232011c प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् 03232012a वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव 03232012c शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् 03232013a किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः 03232013c त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति 03232014a स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर 03232014c विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा 03232015a साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् 03232015c तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन 03232016a न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ 03232016c पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् 03232017a अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् 03232017c सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः 03232018a एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर 03232018c वैताने कर्मणि तते वर्तमाने च भारत 03232019 वैशंपायन उवाच 03232019a अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः 03232019c प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् 03232020 अर्जुन उवाच 03232020a यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् 03232020c अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् 03232021 वैशंपायन उवाच 03232021a अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः 03232021c कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः 03233001 वैशंपायन उवाच 03233001a युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः 03233001c प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः 03233002a अभेद्यानि ततः सर्वे समनह्यन्त भारत 03233002c जाम्बूनदविचित्राणि कवचानि महारथाः 03233003a ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः 03233003c पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः 03233004a तान्रथान्साधु संपन्नान्संयुक्ताञ्जवनैर्हयैः 03233004c आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः 03233005a ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः 03233005c प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् 03233006a जितकाशिनश्च खचरास्त्वरिताश्च महारथाः 03233006c क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् 03233007a न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः 03233007c दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे 03233008a तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् 03233008c व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः 03233009a राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः 03233009c क्रमेण मृदुना युद्धमुपक्रामन्त भारत 03233010a न तु गन्धर्वराजस्य सैनिका मन्दचेतसः 03233010c शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा 03233011a ततस्तान्युधि दुर्धर्षः सव्यसाची परंतपः 03233011c सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे 03233012a नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् 03233012c परदाराभिमर्शश्च मानुषैश्च समागमः 03233013a उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् 03233013c दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् 03233014a एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना 03233014c उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् 03233015a एकस्यैव वयं तात कुर्याम वचनं भुवि 03233015c यस्य शासनमाज्ञाय चराम विगतज्वराः 03233016a तेनैकेन यथादिष्टं तथा वर्ताम भारत 03233016c न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् 03233017a एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनंजयः 03233017c गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत 03233018a यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् 03233018c मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् 03233019a एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः 03233019c ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति 03233020a तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः 03233020c पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः 03233021a ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् 03233021c बभूव भीमवेगानां पाण्डवानां च भारत 03234001 वैशंपायन उवाच 03234001a ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः 03234001c विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् 03234002a चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः 03234002c रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् 03234003a यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः 03234003c गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे 03234004a तान्समापततो राजन्गन्धर्वाञ्शतशो रणे 03234004c प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः 03234005a अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः 03234005c न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् 03234006a अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा 03234006c लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे 03234007a सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् 03234007c आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः 03234008a तथा भीमो महेष्वासः संयुगे बलिनां वरः 03234008c गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः 03234009a माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ 03234009c परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् 03234010a ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः 03234010c उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः 03234011a तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः 03234011c महता शरजालेन समन्तात्पर्यवारयत् 03234012a ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे 03234012c ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः 03234013a गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् 03234013c गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः 03234014a शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा 03234014c अश्मवृष्टिरिवाभाति परेषामभवद्भयम् 03234015a ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना 03234015c भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् 03234016a तेषां तु शरवर्षाणि सव्यसाची परंतपः 03234016c अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत 03234017a स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः 03234017c आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः 03234018a ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः 03234018c दैतेया इव शक्रेण विषादमगमन्परम् 03234019a ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः 03234019c विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना 03234020a गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता 03234020c चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् 03234021a तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे 03234021c गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा 03234022a स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना 03234022c संवृत्य विद्ययात्मानं योधयामास पाण्डवम् 03234022e अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः 03234023a गन्धर्वराजो बलवान्माययान्तर्हितस्तदा 03234023c अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः 03234023e ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः 03234024a अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा 03234024c शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः 03234025a स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना 03234025c अथास्य दर्शयामास तदात्मानं प्रियः सखा 03234026a चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् 03234026c संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः 03234027a दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् 03234027c संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च 03234028a चित्रसेनश्च भीमश्च सव्यसाची यमावपि 03234028c पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे 03235001 वैशंपायन उवाच 03235001a ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् 03235001c मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः 03235002a किं ते व्यवसितं वीर कौरवाणां विनिग्रहे 03235002c किमर्थं च सदारोऽयं निगृहीतः सुयोधनः 03235003 चित्रसेन उवाच 03235003a विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना 03235003c दुर्योधनस्य पापस्य कर्णस्य च धनंजय 03235004a वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् 03235004c इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् 03235005a ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः 03235005c गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय 03235006a धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे 03235006c स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः 03235007a वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् 03235007c अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् 03235008 अर्जुन उवाच 03235008a उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः 03235008c धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् 03235009 चित्रसेन उवाच 03235009a पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति 03235009c प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय 03235010a नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः 03235010c जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि 03235011 वैशंपायन उवाच 03235011a ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् 03235011c अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् 03235012a अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा 03235012c मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च 03235013a दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः 03235013c दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः 03235014a उपकारो महांस्तात कृतोऽयं मम खेचराः 03235014c कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः 03235015a आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः 03235015c प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् 03235016a अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता 03235016c सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः 03235017a देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् 03235017c दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि 03235018a ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः 03235018c कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः 03235019a सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः 03235019c बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः 03235020a ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा 03235020c युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् 03235021a मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् 03235021c न हि साहसकर्तारः सुखमेधन्ति भारत 03235022a स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन 03235022c गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः 03235023a पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा 03235023c विदीर्यमाणो व्रीडेन जगाम नगरं प्रति 03235024a तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः 03235024c भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः 03235025a तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः 03235025c वने द्वैतवने तस्मिन्विजहार मुदा युतः 03236001 जनमेजय उवाच 03236001a शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः 03236001c मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः 03236002a कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः 03236002c सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः 03236003a दुर्योधनस्य पापस्य नित्याहंकारवादिनः 03236003c प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे 03236004a तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः 03236004c प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय 03236005 वैशंपायन उवाच 03236005a धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः 03236005c लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः 03236006a स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः 03236006c शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् 03236007a विमुच्य पथि यानानि देशे सुयवसोदके 03236007c संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् 03236007e हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् 03236008a अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे 03236008c उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये 03236008e उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा 03236009a दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः 03236009c दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः 03236010a दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन 03236010c विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् 03236011a अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव 03236011c नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् 03236012a शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः 03236012c इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत 03236013a अरिष्टानक्षतांश्चापि सदारधनवाहनान् 03236013c विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात् 03236014a नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत 03236014c यत्कृतं ते महाराज सह भ्रातृभिराहवे 03236015a एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 03236015c उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा 03237001 दुर्योधन उवाच 03237001a अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः 03237001c जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया 03237002a आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम 03237002c मया सह महाबाहो कृतश्चोभयतः क्षयः 03237003a मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः 03237003c तदा नो नसमं युद्धमभवत्सह खेचरैः 03237004a पराजयं च प्राप्ताः स्म रणे बन्धनमेव च 03237004c सभृत्यामात्यपुत्राश्च सदारधनवाहनाः 03237004e उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः 03237005a अथ नः सैनिकाः केचिदमात्याश्च महारथान् 03237005c उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् 03237006a एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः 03237006c सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः 03237007a तं मोक्षयत भद्रं वः सहदारं नराधिपम् 03237007c परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः 03237008a एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा 03237008c प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे 03237009a अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः 03237009c सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः 03237010a यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि 03237010c ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ 03237010e मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः 03237011a अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् 03237011c अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः 03237012a ततः समन्तात्पश्यामि शरजालेन वेष्टितम् 03237012c अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् 03237013a समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः 03237013c धनंजयसखात्मानं दर्शयामास वै तदा 03237014a चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः 03237014c कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् 03237015a ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च 03237015c एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः 03237015e अपूजयेतामन्योन्यं चित्रसेनधनंजयौ 03238001 दुर्योधन उवाच 03238001a चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा 03238001c इदं वचनमक्लीबमब्रवीत्परवीरहा 03238002a भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम 03238002c अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु 03238003a एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना 03238003c उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः 03238003e द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति 03238004a तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ 03238004c भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः 03238005a युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः 03238005c अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् 03238006a स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः 03238006c युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् 03238007a ये मे निराकृता नित्यं रिपुर्येषामहं सदा 03238007c तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे 03238008a प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे 03238008c श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम् 03238009a भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् 03238009c प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः 03238010a यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः 03238010c इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् 03238010e भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति 03238011a कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये 03238011c दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति 03238012a न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः 03238012c शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा 03238013a स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः 03238013c वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् 03238014a भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा 03238014c बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः 03238015a ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः 03238015c किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् 03238016a रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि 03238016c आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् 03238017a दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च 03238017c तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः 03238018a अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् 03238018c स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् 03238019a तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् 03238019c चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः 03238020a शत्रुभिश्चावहसितो मानी पौरुषवर्जितः 03238020c पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः 03238021 वैशंपायन उवाच 03238021a एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् 03238021c दुःशासन निबोधेदं वचनं मम भारत 03238022a प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव 03238022c प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् 03238023a भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा 03238023c बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् 03238024a ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः 03238024c बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा 03238025a ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव 03238025c गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् 03238026a नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् 03238026c कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह 03238027a तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् 03238027c अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च 03238027e सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः 03238028a प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा 03238028c दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् 03238029a उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति 03238029c विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् 03238029e रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् 03238030a वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् 03238030c शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् 03238031a न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् 03238031c पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह 03238031e त्वमेव नः कुले राजा भविष्यसि शतं समाः 03238032a एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह 03238032c पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत 03238033a तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ 03238033c अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत 03238034a विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव 03238034c न शोकः शोचमानस्य विनिवर्तेत कस्यचित् 03238035a यदा च शोचतः शोको व्यसनं नापकर्षति 03238035c सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः 03238035e धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः 03238036a कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् 03238036c नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः 03238036e पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः 03238037a नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा 03238037c विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते 03238037e उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् 03238038a राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् 03238038c किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि 03238038e सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन 03238039a सेनाजीवैश्च कौरव्य तथा विषयवासिभिः 03238039c अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् 03238040a प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् 03238040c निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः 03238041a सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः 03238041c तैः संगम्य नृपार्थाय यतितव्यं यथातथम् 03238042a यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः 03238042c यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना 03238043a न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम 03238043c स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः 03238044a शूराश्च बलवन्तश्च संयुगेष्वपलायिनः 03238044c भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः 03238045a पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे 03238045c सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् 03238045e उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि 03238046a अवश्यमेव नृपते राज्ञो विषयवासिभिः 03238046c प्रियाण्याचरितव्यानि तत्र का परिदेवना 03238047a मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि 03238047c स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन 03238048a नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ 03238048c प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि 03238049 वैशंपायन उवाच 03238049a एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 03238049c नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः 03239001 वैशंपायन उवाच 03239001a प्रायोपविष्टं राजानं दुर्योधनममर्षणम् 03239001c उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा 03239002a सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया 03239002c मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् 03239002e त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि 03239003a अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया 03239003c यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति 03239003e स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि 03239004a अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् 03239004c व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः 03239005a सत्कृतस्य हि ते शोको विपरीते कथं भवेत् 03239005c मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय 03239006a यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः 03239006c तत्र शोचसि राजेन्द्र विपरीतमिदं तव 03239007a प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर 03239007c प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि 03239008a क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि 03239008c सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् 03239008e पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि 03239009a शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च 03239009c पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् 03239010a बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् 03239010c उत्थाप्य संपरिष्वज्य प्रीत्याजिघ्रत मूर्धनि 03239011a कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ 03239011c निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा 03239011e व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् 03239012a सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् 03239012c न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया 03239012e नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत 03239013a निश्चितेयं मम मतिः स्थिता प्रायोपवेशने 03239013c गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम 03239014a त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् 03239014c या गतिस्तव राजेन्द्र सास्माकमपि भारत 03239014e कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् 03239015a स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च 03239015c बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत 03239016a दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः 03239016c संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः 03239017a कुशचीराम्बरधरः परं नियममास्थितः 03239017c वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया 03239017e मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः 03239018a अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः 03239018c पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः 03239019a ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै 03239019c आह्वानाय तदा चक्रुः कर्म वैतानसंभवम् 03239020a बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः 03239020c अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः 03239020e मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् 03239021a जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः 03239021c ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः 03239022a कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता 03239022c कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् 03239023a आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना 03239023c प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय 03239024a तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा 03239024c निमेषादगमच्चापि यत्र राजा सुयोधनः 03239025a समादाय च राजानं प्रविवेश रसातलम् 03239025c दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् 03239026a तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः 03239026c प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः 03239026e साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् 03240001 दानवा ऊचुः 03240001a भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह 03240001c शूरैः परिवृतो नित्यं तथैव च महात्मभिः 03240002a अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् 03240002c आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् 03240003a न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु 03240003c मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 03240004a नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् 03240004c यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् 03240005a श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप 03240005c निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि 03240006a पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् 03240006c पूर्वकायश्च सर्वस्ते निर्मितो वज्रसंचयैः 03240007a अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ 03240007c कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः 03240008a एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम 03240008c देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः 03240009a क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः 03240009c दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् 03240010a तदलं ते विषादेन भयं तव न विद्यते 03240010c साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः 03240011a भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः 03240011c यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः 03240012a नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् 03240012c नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च 03240013a युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम 03240013c निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि 03240014a प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः 03240014c हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः 03240014e अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् 03240015a व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे 03240015c सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः 03240015e श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् 03240016a तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः 03240016c वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः 03240017a दैत्यरक्षोगणाश्चापि संभूताः क्षत्रयोनिषु 03240017c योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव 03240017e गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा 03240018a यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम् 03240018c तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै 03240019a हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः 03240019c तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ 03240020a स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति 03240020c कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः 03240021a ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः 03240021c कुण्डले कवचं चैव कर्णस्यापहरिष्यति 03240022a तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः 03240022c नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति 03240022e प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः 03240023a असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप 03240023c मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते 03240023e विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव 03240024a गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन 03240024c त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः 03240025 वैशंपायन उवाच 03240025a एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् 03240025c समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः 03240026a स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत 03240026c गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ 03240027a तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः 03240027c तमेव देशं यत्रासौ तदा प्रायमुपाविशत् 03240028a प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च 03240028c अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत 03240029a गतायामथ तस्यां तु राजा दुर्योधनस्तदा 03240029c स्वप्नभूतमिदं सर्वमचिन्तयत भारत 03240029e विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः 03240030a कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः 03240030c अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः 03240031a एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः 03240031c विनिर्जये पाण्डवानामभवद्भरतर्षभ 03240032a कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना 03240032c अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा 03240033a संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः 03240033c रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः 03240034a भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः 03240034c न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते 03240034e न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः 03240035a दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् 03240035c स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः 03240036a न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति 03240036c मृतस्य भद्राणि कुतः कौरवेय कुतो जयः 03240036e न कालोऽद्य विषादस्य भयस्य मरणस्य वा 03240037a परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः 03240037c उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् 03240037e शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि 03240038a अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् 03240038c सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् 03240039a गते त्रयोदशे वर्षे सत्येनायुधमालभे 03240039c आनयिष्याम्यहं पार्थान्वशं तव जनाधिप 03240040a एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा 03240040c प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः 03240040e दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् 03240041a ततो मनुजशार्दूलो योजयामास वाहिनीम् 03240041c रथनागाश्वकलिलां पदातिजनसंकुलाम् 03240042a गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः 03240042c श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः 03240043a रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला 03240043c व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी 03240044a जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् 03240044c गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः 03240045a सुयोधनो ययावग्रे श्रिया परमया ज्वलन् 03240045c कर्णेन सार्धं राजेन्द्र सौबलेन च देविना 03240046a दुःशासनादयश्चास्य भ्रातरः सर्व एव ते 03240046c भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः 03240047a रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा 03240047c प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः 03240047e कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा 03241001 जनमेजय उवाच 03241001a वसमानेषु पार्थेषु वने तस्मिन्महात्मसु 03241001c धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम 03241002a कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः 03241002c भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि 03241003 वैशंपायन उवाच 03241003a एवं गतेषु पार्थेषु विसृष्टे च सुयोधने 03241003c आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः 03241003e भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः 03241004a उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् 03241004c गमनं मे न रुचितं तव तन्न कृतं च ते 03241005a ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् 03241005c मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे 03241006a प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते 03241006c सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् 03241006e क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज 03241007a दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् 03241007c कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः 03241008a न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम 03241008c धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल 03241009a तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः 03241009c संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये 03241010a एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः 03241010c प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः 03241011a तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः 03241011c अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् 03241012a तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः 03241012c लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् 03241013a गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः 03241013c पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः 03241014a किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते 03241014c कथं नु सुकृतं च स्यान्मन्त्रयामास भारत 03241015 कर्ण उवाच 03241015a दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव 03241015c श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम 03241016a तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम 03241016c तां पालय यथा शक्रो हतशत्रुर्महामनाः 03241017 वैशंपायन उवाच 03241017a एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः 03241017c न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ 03241018a सहायश्चानुरक्तश्च मदर्थं च समुद्यतः 03241018c अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् 03241019a राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा 03241019c मम स्पृहा समुत्पन्ना तां संपादय सूतज 03241020a एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् 03241020c तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम 03241021a आहूयन्तां द्विजवराः संभाराश्च यथाविधि 03241021c संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च 03241022a ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः 03241022c क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम 03241023a बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः 03241023c प्रवर्ततां महायज्ञस्तवापि भरतर्षभ 03241024a एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते 03241024c पुरोहितं समानाय्य इदं वचनमब्रवीत् 03241025a राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् 03241025c आहर त्वं मम कृते यथान्यायं यथाक्रमम् 03241026a स एवमुक्तो नृपतिमुवाच द्विजपुंगवः 03241026c न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे 03241026e आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम 03241027a दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव 03241027c अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम 03241028a अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो 03241028c तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम 03241029a य इमे पृथिवीपालाः करदास्तव पार्थिव 03241029c ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् 03241030a तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम 03241030c यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत 03241031a तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः 03241031c प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः 03241032a एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः 03241032c एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् 03241033a राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः 03241033c अस्माकं रोचते चैव श्रेयश्च तव भारत 03241033e अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव 03241034a एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः 03241034c कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् 03241035a रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः 03241035c रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् 03241036a एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् 03241036c संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् 03241037a हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः 03241037c यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् 03242001 वैशंपायन उवाच 03242001a ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह 03242001c विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् 03242002a सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत 03242002c सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् 03242003a एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते 03242003c आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् 03242004a ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः 03242004c दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् 03242005a प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः 03242005c भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी 03242006a निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् 03242006c पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च 03242006e ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः 03242007a तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् 03242007c गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् 03242007e निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने 03242008a स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् 03242008c दुर्योधनो महाराज यजते नृपसत्तमः 03242009a स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः 03242009c तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः 03242010a अहं तु प्रेषितो राजन्कौरवेण महात्मना 03242010c आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः 03242010e मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ 03242011a ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् 03242011c अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः 03242011e यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः 03242012a वयमप्युपयास्यामो न त्विदानीं कथंचन 03242012c समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् 03242013a श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् 03242013c तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः 03242014a अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति 03242014c वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः 03242015a यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः 03242015c आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः 03242016a शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् 03242016c दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् 03242017a अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः 03242017c ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति 03242018a ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् 03242018c मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर 03242019a धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः 03242019c हर्षेण महता युक्तो विदुरं प्रत्यभाषत 03242020a यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः 03242020c तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् 03242021a विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम 03242021c यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् 03242022a भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः 03242022c वासोभिर्विविधैश्चैव योजयामास हृष्टवत् 03242023a कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् 03242023c सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु 03242023e विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः 03242024a विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः 03242024c विवेश हास्तिनपुरं सहितः कर्णसौबलैः 03243001 वैशंपायन उवाच 03243001a प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् 03243001c जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् 03243002a लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा 03243002c ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव 03243003a अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् 03243003c युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः 03243003e नैव तस्य क्रतोरेष कलामर्हति षोडशीम् 03243004a एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् 03243004c सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः 03243005a ययातिर्नहुषश्चापि मान्धाता भरतस्तथा 03243005c क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः 03243006a एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ 03243006c प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः 03243007a अभिवाद्य ततः पादौ मातापित्रोर्विशां पते 03243007c भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः 03243008a अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः 03243008c निषसादासने मुख्ये भ्रातृभिः परिवारितः 03243009a तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः 03243009c दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः 03243010a हतेषु युधि पार्थेषु राजसूये तथा त्वया 03243010c आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः 03243011a तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः 03243011c सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु 03243012a निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ 03243012c राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि 03243013a एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत 03243013c राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः 03243014a सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः 03243014c कदा तु तं क्रतुवरं राजसूयं महाधनम् 03243014e निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः 03243015a तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर 03243015c पादौ न धावये तावद्यावन्न निहतोऽर्जुनः 03243016a अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः 03243016c प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे 03243016e विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः 03243017a दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान् 03243017c प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः 03243017e तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत 03243018a पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः 03243018c चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् 03243019a भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता 03243019c प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति 03243020a एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप 03243020c अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् 03243020e अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः 03243021a तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः 03243021c बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् 03243022a धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् 03243022c भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा 03243023a संगम्य सूतपुत्रेण कर्णेनाहवशोभिना 03243023c दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः 03243023e पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः 03243024a भ्रातॄणां च प्रियं राजन्स चकार परंतपः 03243024c निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् 03244001 जनमेजय उवाच 03244001a दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः 03244001c किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि 03244002 वैशंपायन उवाच 03244002a ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः 03244002c स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् 03244003a तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् 03244003c ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते 03244004a एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना 03244004c प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् 03244005a वयं मृगा द्वैतवने हतशिष्टाः स्म भारत 03244005c नोत्सीदेम महाराज क्रियतां वासपर्ययः 03244006a भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः 03244006c कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् 03244007a बीजभूता वयं केचिदवशिष्टा महामते 03244007c विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर 03244008a तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् 03244008c मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः 03244009a तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः 03244009c तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा 03244010a इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः 03244010c अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति 03244011a उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः 03244011c तनुभूताः स्म भद्रं ते दया नः क्रियतामिति 03244012a ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् 03244012c साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे 03244013a पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् 03244013c मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति 03244013e तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि 03244014a ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः 03244014c ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः 03244014e इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा 03244015a ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः 03244015c ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् 03244016a विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा 03244016c तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा 03245001 वैशंपायन उवाच 03245001a वने निवसतां तेषां पाण्डवानां महात्मनाम् 03245001c वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ 03245002a फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् 03245002c प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः 03245003a युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् 03245003c चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् 03245004a न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः 03245004c दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि 03245005a संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः 03245005c निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् 03245006a अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी 03245006c स च भीमो महातेजाः सर्वेषामुत्तमो बली 03245006e युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् 03245007a अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः 03245007c वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः 03245008a कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः 03245008c आजगाम महायोगी पाण्डवानवलोककः 03245009a तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः 03245009c प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि 03245010a तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः 03245010c तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः 03245011a तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः 03245011c महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् 03245012a युधिष्ठिर महाबाहो शृणु धर्मभृतां वर 03245012c नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् 03245013a सुखदुःखे हि पुरुषः पर्यायेणोपसेवते 03245013c नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ 03245014a प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया 03245014c उदयास्तमयज्ञो हि न शोचति न हृष्यति 03245015a सुखमापतितं सेवेद्दुःखमापतितं सहेत् 03245015c कालप्राप्तमुपासीत सस्यानामिव कर्षकः 03245016a तपसो हि परं नास्ति तपसा विन्दते महत् 03245016c नासाध्यं तपसः किंचिदिति बुध्यस्व भारत 03245017a सत्यमार्जवमक्रोधः संविभागो दमः शमः 03245017c अनसूयाविहिंसा च शौचमिन्द्रियसंयमः 03245017e साधनानि महाराज नराणां पुण्यकर्मणाम् 03245018a अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः 03245018c कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः 03245019a इह यत्क्रियते कर्म तत्परत्रोपभुज्यते 03245019c तस्माच्छरीरं युञ्जीत तपसा नियमेन च 03245020a यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च 03245020c काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः 03245021a सत्यवादी लभेतायुरनायासमथार्जवी 03245021c अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् 03245022a दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति 03245022c न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् 03245023a संविभक्ता च दाता च भोगवान्सुखवान्नरः 03245023c भवत्यहिंसकश्चैव परमारोग्यमश्नुते 03245024a मान्यान्मानयिता जन्म कुले महति विन्दति 03245024c व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः 03245025a शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा 03245025c प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः 03245026 युधिष्ठिर उवाच 03245026a भगवन्दानधर्माणां तपसो वा महामुने 03245026c किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते 03245027 व्यास उवाच 03245027a दानान्न दुष्करतरं पृथिव्यामस्ति किंचन 03245027c अर्थे हि महती तृष्णा स च दुःखेन लभ्यते 03245028a परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् 03245028c प्रविशन्ति नरा वीराः समुद्रमटवीं तथा 03245029a कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः 03245029c पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः 03245030a तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः 03245030c न दुष्करतरं दानात्तस्माद्दानं मतं मम 03245031a विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् 03245031c पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् 03245032a अन्यायसमुपात्तेन दानधर्मो धनेन यः 03245032c क्रियते न स कर्तारं त्रायते महतो भयात् 03245033a पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर 03245033c मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् 03245034a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 03245034c व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः 03246001 युधिष्ठिर उवाच 03246001a व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना 03246001c कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे 03246002a प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः 03246002c सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः 03246003 व्यास उवाच 03246003a शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः 03246003c आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः 03246004a अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः 03246004c सत्रमिष्टीकृतं नाम समुपास्ते महातपाः 03246005a सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः 03246005c कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् 03246006a दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः 03246006c देवतातिथिशेषेण कुरुते देहयापनम् 03246007a तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः 03246007c प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि 03246008a स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः 03246008c अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना 03246009a व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः 03246009c शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् 03246010a तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् 03246010c मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति 03246011a तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् 03246011c दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह 03246012a बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव 03246012c विकचः परुषा वाचो व्याहरन्विविधा मुनिः 03246013a अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः 03246013c अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम 03246014a स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत 03246014c पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् 03246015a प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती 03246015c उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः 03246016a ततस्तदन्नं रसवत्स एव क्षुधयान्वितः 03246016c बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः 03246017a भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः 03246017c अथानुलिलिपेऽङ्गानि जगाम च यथागतम् 03246018a एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः 03246018c आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः 03246019a निराहारस्तु स मुनिरुञ्छमार्जयते पुनः 03246019c न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा 03246020a न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः 03246020c सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् 03246021a तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् 03246021c उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः 03246022a न चास्य मानसं किंचिद्विकारं ददृशे मुनिः 03246022c शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः 03246023a तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा 03246023c त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः 03246024a क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च 03246024c विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति 03246025a आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् 03246025c मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः 03246026a श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा 03246026c तत्सर्वं भवता साधो यथावदुपपादितम् 03246027a प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह 03246027c इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः 03246028a दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् 03246028c जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् 03246029a अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः 03246029c सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत 03246030a इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः 03246030c देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः 03246031a हंससारसयुक्तेन किङ्किणीजालमालिना 03246031c कामगेन विचित्रेण दिव्यगन्धवता तथा 03246032a उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् 03246032c समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने 03246033a तमेवंवादिनमृषिर्देवदूतमुवाच ह 03246033c इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् 03246034a के गुणास्तत्र वसतां किं तपः कश्च निश्चयः 03246034c स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक 03246035a सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः 03246035c मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो 03246036a यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् 03246036c श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव 03247001 देवदूत उवाच 03247001a महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् 03247001c संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा 03247002a उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः 03247002c ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने 03247003a नातप्ततपसः पुंसो नामहायज्ञयाजिनः 03247003c नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल 03247004a धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः 03247004c दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः 03247005a तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् 03247005c लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः 03247006a देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः 03247006c यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा 03247007a एषां देवनिकायानां पृथक्पृथगनेकशः 03247007c भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः 03247008a त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः 03247008c मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल 03247009a नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् 03247009c न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा 03247010a बीभत्समशुभं वापि रोगा वा तत्र केचन 03247010c मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः 03247011a शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने 03247011c न शोको न जरा तत्र नायासपरिदेवने 03247012a ईदृशः स मुने लोकः स्वकर्मफलहेतुकः 03247012c सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः 03247013a तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् 03247013c कर्मजान्येव मौद्गल्य न मातृपितृजान्युत 03247014a न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च 03247014c तेषां न च रजो वस्त्रं बाधते तत्र वै मुने 03247015a न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः 03247015c पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते 03247016a ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः 03247016c सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने 03247017a तेषां तथाविधानां तु लोकानां मुनिपुंगव 03247017c उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः 03247018a पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः 03247018c यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः 03247019a ऋभवो नाम तत्रान्ये देवानामपि देवताः 03247019c तेषां लोकाः परतरे तान्यजन्तीह देवताः 03247020a स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे 03247020c न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः 03247021a न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः 03247021c तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः 03247022a न सुखे सुखकामाश्च देवदेवाः सनातनाः 03247022c न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा 03247023a जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च 03247023c न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने 03247024a देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा 03247024c दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः 03247025a त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः 03247025c गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः 03247026a सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा 03247026c तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः 03247027a एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा 03247027c गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे 03247028a कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि 03247028c न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते 03247029a सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् 03247029c सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल 03247030a असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः 03247030c यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् 03247031a संज्ञामोहश्च पततां रजसा च प्रधर्षणम् 03247031c प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् 03247032a आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः 03247032c नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् 03247033a अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने 03247033c शुभानुशययोगेन मनुष्येषूपजायते 03247034a तत्रापि सुमहाभागः सुखभागभिजायते 03247034c न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः 03247035a इह यत्क्रियते कर्म तत्परत्रोपभुज्यते 03247035c कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता 03247036a एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल 03247036c तवानुकम्पया साधो साधु गच्छाम माचिरम् 03247037 व्यास उवाच 03247037a एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया 03247037c विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह 03247038a देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् 03247038c महादोषेण मे कार्यं न स्वर्गेण सुखेन वा 03247039a पतनं तन्महद्दुःखं परितापः सुदारुणः 03247039c स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये 03247040a यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा 03247040c तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् 03247041a इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् 03247041c शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् 03247042a तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः 03247042c ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह 03247043a ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् 03247043c जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् 03247044a तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि 03247044c राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि 03247045a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 03247045c पर्यायेणोपवर्तन्ते नरं नेमिमरा इव 03247046a पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम 03247046c वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः 03247047 वैशंपायन उवाच 03247047a एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् 03247047c जगाम तपसे धीमान्पुनरेवाश्रमं प्रति 03248001 वैशंपायन उवाच 03248001a तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः 03248001c काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः 03248002a प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः 03248002c यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः 03248003a पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् 03248003c विजह्रुरिन्द्रप्रतिमाः कंचित्कालमरिंदमाः 03248004a ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् 03248004c मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः 03248005a द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया 03248005c महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः 03248006a ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः 03248006c विवाहकामः शाल्वेयान्प्रयातः सोऽभवत्तदा 03248007a महता परिबर्हेण राजयोग्येन संवृतः 03248007c राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः 03248008a तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् 03248008c तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने 03248009a विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम् 03248009c भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम् 03248010a अप्सरा देवकन्या वा माया वा देवनिर्मिता 03248010c इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् 03248011a ततः स राजा सिन्धूनां वार्द्धक्षत्रिर्जयद्रथः 03248011c विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वासीद्धृष्टमानसः 03248012a स कोटिकाश्यं राजानमब्रवीत्काममोहितः 03248012c कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी 03248013a विवाहार्थो न मे कश्चिदिमां दृष्ट्वातिसुन्दरीम् 03248013c एतामेवाहमादाय गमिष्यामि स्वमालयम् 03248014a गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा 03248014c किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् 03248015a अपि नाम वरारोहा मामेषा लोकसुन्दरी 03248015c भजेदद्यायतापाङ्गी सुदती तनुमध्यमा 03248016a अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् 03248016c गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक 03248017a स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली 03248017c उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव 03249001 कोटिकाश्य उवाच 03249001a का त्वं कदम्बस्य विनम्य शाखा;मेकाश्रमे तिष्ठसि शोभमाना 03249001c देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः 03249002a अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु 03249002c देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा 03249003a वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री 03249003c यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य 03249004a धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना 03249004c न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम् 03249005a वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च 03249005c आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम् 03249006a अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः 03249006c असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव 03249006e त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः 03249007a अस्मात्परस्त्वेष महाधनुष्मा;न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः 03249007c निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः 03249008a असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः 03249008c इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि 03249009a यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः 03249009c शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः 03249010a अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुंजयः संजयसुप्रवृद्धौ 03249010c प्रभंकरोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम 03249011a यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च 03249011c जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः 03249012a तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः 03249012c सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति 03249013a एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः 03249013c अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य 03250001 वैशंपायन उवाच 03250001a अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन 03250001c अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकमुत्तरीयम् 03250002a बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा 03250002c न त्वेह वक्तास्ति तवेह वाक्य;मन्यो नरो वाप्यथ वापि नारी 03250003a एका ह्यहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम् 03250003c अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे 03250004a जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः 03250004c तस्मादहं शैब्य तथैव तुभ्य;माख्यामि बन्धून्प्रति तन्निबोध 03250005a अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः 03250005c साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते 03250006a युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ 03250006c ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः 03250007a प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम् 03250007c मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् 03250008a संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम् 03250008c प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् 03250009a एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता 03250009c विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषामतिथिस्वधर्मम् 03251001 वैशंपायन उवाच 03251001a अथासीनेषु सर्वेषु तेषु राजसु भारत 03251001c कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत् 03251002a यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः 03251002c सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान् 03251003a एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः 03251003c प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते 03251004a दर्शनादेव हि मनस्तया मेऽपहृतं भृशम् 03251004c तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी 03251005 कोटिकाश्य उवाच 03251005a एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी 03251005c पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम् 03251006a सर्वेषां चैव पार्थानां प्रिया बहुमता सती 03251006c तया समेत्य सौवीर सुवीरान्सुसुखी व्रज 03251007 वैशंपायन उवाच 03251007a एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति 03251007c पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः 03251008a स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा 03251008c आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत् 03251009a कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः 03251009c येषां कुशलकामासि तेऽपि कच्चिदनामयाः 03251010 द्रौपद्युवाच 03251010a कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः 03251010c अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि 03251011a पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज 03251011c मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते 03251012a ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान् 03251012c ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून् 03251013a वराहान्महिषांश्चैव याश्चान्या मृगजातयः 03251013c प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः 03251014 जयद्रथ उवाच 03251014a कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता 03251014c एहि मे रथमारोह सुखमाप्नुहि केवलम् 03251015a गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः 03251015c अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि 03251016a न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते 03251016c युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत् 03251017a श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः 03251017c अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम् 03251018a भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि 03251018c अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह 03251019 वैशंपायन उवाच 03251019a इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम् 03251019c कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी 03251020a अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा 03251020c मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम् 03251021a सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता 03251021c विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती 03252001 वैशंपायन उवाच 03252001a सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा 03252001c मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः 03252002a यशस्विनस्तीक्ष्णविषान्महारथा;नधिक्षिपन्मूढ न लज्जसे कथम् 03252002c महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम् 03252003a न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 03252003c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर 03252004a अहं तु मन्ये तव नास्ति कश्चि;देतादृशे क्षत्रियसंनिवेशे 03252004c यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत 03252005a नागं प्रभिन्नं गिरिकूटकल्प;मुपत्यकां हैमवतीं चरन्तम् 03252005c दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम् 03252006a बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि 03252006c पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् 03252007a महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु 03252007c प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् 03252008a कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे 03252008c यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम् 03252009a यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः 03252009c तथैव मां तैः परिरक्ष्यमाणा;मादास्यसे कर्कटकीव गर्भम् 03252010 जयद्रथ उवाच 03252010a जानामि कृष्णे विदितं ममैत;द्यथाविधास्ते नरदेवपुत्राः 03252010c न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य 03252011a वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः 03252011c षड्भ्यो गुणेभ्योऽभ्यधिका विहीना;न्मन्यामहे द्रौपदि पाण्डुपुत्रान् 03252012a सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः 03252012c आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम् 03252013 द्रौपद्युवाच 03252013a महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि 03252013c याहं प्रमाथादिह संप्रतीता; सौवीरराजं कृपणं वदेयम् 03252014a यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ 03252014c इन्द्रोऽपि तां नापहरेत्कथंचि;न्मनुष्यमात्रः कृपणः कुतोऽन्यः 03252015a यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि 03252015c मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु 03252016a जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे 03252016c एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः 03252017a मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः 03252017c हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति 03252018a गाण्डीवमुक्तांश्च महाशरौघा;न्पतंगसंघानिव शीघ्रवेगान् 03252018c सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च 03252018e यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत् 03252019a गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश्च 03252019c अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम 03252020a यथा चाहं नातिचरे कथंचि;त्पतीन्महार्हान्मनसापि जातु 03252020c तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम् 03252021a न संभ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा 03252021c समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च 03252022 वैशंपायन उवाच 03252022a सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती 03252022c प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा 03252023a जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा 03252023c तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः 03252024a प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री 03252024c सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा 03252025 धौम्य उवाच 03252025a नेयं शक्या त्वया नेतुमविजित्य महारथान् 03252025c धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ 03252026a क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् 03252026c आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् 03252027 वैशंपायन उवाच 03252027a इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् 03252027c अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः 03253001 वैशंपायन उवाच 03253001a ततो दिशः संप्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा 03253001c धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः 03253002a ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम् 03253002c भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम् 03253003a आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति 03253003c आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम् 03253004a क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च 03253004c बुद्धिं समाच्छाद्य च मे समन्यु;रुद्धूयते प्राणपतिः शरीरे 03253005a सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि 03253005c एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः 03253006a ते सैन्धवैरत्यनिलौघवेगै;र्महाजवैर्वाजिभिरुह्यमानाः 03253006c युक्तैर्बृहद्भिः सुरथैर्नृवीरा;स्तदाश्रमायाभिमुखा बभूवुः 03253007a तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम् 03253007c प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च 03253008a यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम् 03253008c सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य 03253009a इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा 03253009c बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः 03253010a तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत् 03253010c प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम् 03253011a किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् 03253011c कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री 03253011e अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् 03253012a यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम् 03253012c तस्या गमिष्यन्ति पदं हि पार्था;स्तथा हि संतप्यति धर्मराजः 03253013a को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् 03253013c प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः 03253013e न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् 03253014a कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः 03253014c मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति 03253014e निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या 03253015a अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम् 03253015c जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा 03253016a तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः 03253016c आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री 03253017a संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि 03253017c गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम् 03253018a पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता 03253018c ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम् 03253019a पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते 03253019c पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते 03253019e महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते 03253020a मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् 03253020c स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् 03253020e एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै 03253021 युधिष्ठिर उवाच 03253021a भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः 03253021c राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति 03253022 वैशंपायन उवाच 03253022a एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः 03253022c मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः 03253023a ततोऽपश्यंस्तस्य सैन्यस्य रेणु;मुद्धूतं वै वाजिखुरप्रणुन्नम् 03253023c पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति 03253024a ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः 03253024c श्येना यथैवामिषसंप्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन् 03253025a तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः 03253025c क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च 03253026a प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनंजयश्च 03253026c यमौ च राजा च महाधनुर्धरा;स्ततो दिशः संमुमुहुः परेषाम् 03254001 वैशंपायन उवाच 03254001a ततो घोरतरः शब्दो वने समभवत्तदा 03254001c भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम् 03254002a तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम् 03254002c जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः 03254003a आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते 03254003c सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम् 03254004 द्रौपद्युवाच 03254004a किं ते ज्ञातैर्मूढ महाधनुर्धरै;रनायुष्यं कर्म कृत्वातिघोरम् 03254004c एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे 03254005a आख्यातव्यं त्वेव सर्वं मुमूर्षो;र्मया तुभ्यं पृष्टया धर्म एषः 03254005c न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम् 03254006a यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ 03254006c एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति 03254007a य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः 03254007c एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे 03254008a अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः 03254008c परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः 03254009a अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम् 03254009c संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः 03254010a आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति 03254010c एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम् 03254011a नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित् 03254011c वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव 03254012a मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः 03254012c भ्राता च शिष्यश्च युधिष्ठिरस्य; धनंजयो नाम पतिर्ममैषः 03254013a यो वै न कामान्न भयान्न लोभा;त्त्यजेद्धर्मं न नृशंसं च कुर्यात् 03254013c स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी 03254014a यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी 03254014c यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे 03254015a प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे 03254015c यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः 03254016a यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु संख्ये 03254016c शूरः कृतास्त्रो मतिमान्मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः 03254017a य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च 03254017c बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः 03254018a स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे 03254018c त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम् 03254018e सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः 03254019a विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे 03254019c सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः 03254020a इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः 03254020c यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव 03254021 वैशंपायन उवाच 03254021a ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा;स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन् 03254021c रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य 03255001 वैशंपायन उवाच 03255001a संतिष्ठत प्रहरत तूर्णं विपरिधावत 03255001c इति स्म सैन्धवो राजा चोदयामास तान्नृपान् 03255002a ततो घोरतरः शब्दो रणे समभवत्तदा 03255002c भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् 03255003a शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत 03255003c तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् 03255004a हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् 03255004c प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् 03255005a तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् 03255005c महता रथवंशेन परिवार्य वृकोदरम् 03255006a शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः 03255006c कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत 03255007a गजं तु सगजारोहं पदातींश्च चतुर्दश 03255007c जघान गदया भीमः सैन्धवध्वजिनीमुखे 03255008a पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् 03255008c परीप्समानः सौवीरं जघान ध्वजिनीमुखे 03255009a राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् 03255009c निमेषमात्रेण शतं जघान समरे तदा 03255010a ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् 03255010c शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः 03255011a सहदेवस्तु संयाय रथेन गजयोधिनः 03255011c पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः 03255012a ततस्त्रिगर्तः सधनुरवतीर्य महारथात् 03255012c गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् 03255013a तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः 03255013c अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् 03255014a स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् 03255014c पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः 03255015a इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् 03255015c हताश्वः सहदेवस्य प्रतिपेदे महारथम् 03255016a नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ 03255016c उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् 03255017a तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ 03255017c एकैकेन विपाठेन जघ्ने माद्रवतीसुतः 03255018a त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः 03255018c रथमाक्षेपयामास गजेन गजयानवित् 03255019a नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् 03255019c उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः 03255020a सुरथस्तं गजवरं वधाय नकुलस्य तु 03255020c प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः 03255021a नकुलस्तस्य नागस्य समीपपरिवर्तिनः 03255021c सविषाणं भुजं मूले खड्गेन निरकृन्तत 03255022a स विनद्य महानादं गजः कङ्कणभूषणः 03255022c पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् 03255023a स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः 03255023c भीमसेनरथं प्राप्य शर्म लेभे महारथः 03255024a भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे 03255024c सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः 03255025a न बुबोध हतं सूतं स राजा बाहुशालिना 03255025c तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः 03255026a विमुखं हतसूतं तं भीमः प्रहरतां वरः 03255026c जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः 03255027a द्वादशानां तु सर्वेषां सौवीराणां धनंजयः 03255027c चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च 03255028a शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि 03255028c जघानातिरथः संख्ये बाणगोचरमागतान् 03255029a सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना 03255029c सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः 03255030a प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति 03255030c शरीराण्यशिरस्कानि विदेहानि शिरांसि च 03255031a श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः 03255031c अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः 03255032a हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः 03255032c विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् 03255033a स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै 03255033c प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः 03255034a द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् 03255034c माद्रीपुत्रेण वीरेण रथमारोपयत्तदा 03255035a ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे 03255035c आदिश्यादिश्य नाराचैराजघान वृकोदरः 03255036a सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् 03255036c वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् 03255037 अर्जुन उवाच 03255037a यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः 03255037c तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् 03255038a तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः 03255038c अनामिषमिदं कर्म कथं वा मन्यते भवान् 03255039 वैशंपायन उवाच 03255039a इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता 03255039c युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् 03255040a हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः 03255040c गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः 03255041a यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना 03255041c प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय 03255042a न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः 03255042c पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः 03255043 युधिष्ठिर उवाच 03255043a न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः 03255043c दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् 03255044 वैशंपायन उवाच 03255044a तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया 03255044c कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ 03255045a कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः 03255045c सैन्धवापसदः पापो दुर्मतिः कुलपांसनः 03255046a भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः 03255046c याचमानोऽपि संग्रामे न स जीवितुमर्हति 03255047a इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः 03255047c राजा निववृते कृष्णामादाय सपुरोहितः 03255048a स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् 03255048c मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह 03255049a द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः 03255049c समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः 03255050a ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् 03255050c जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः 03255051a स तैः परिवृतो राजा तत्रैवोपविवेश ह 03255051c प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी 03255052a भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् 03255052c स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् 03255053a इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः 03255053c क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् 03255054a स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः 03255054c अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः 03255055a ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ 03255055c हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् 03255056a सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः 03255056c दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् 03255056e पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् 03255057a सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने 03255057c अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् 03255058a अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् 03255058c राजपुत्र निवर्तस्व न ते युक्तं पलायनम् 03255058e कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे 03255059a इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत 03255059c तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली 03255059e मा वधीरिति पार्थस्तं दयावानभ्यभाषत 03256001 वैशंपायन उवाच 03256001a जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ 03256001c प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः 03256002a तं भीमसेनो धावन्तमवतीर्य रथाद्बली 03256002c अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः 03256003a समुद्यम्य च तं रोषान्निष्पिपेष महीतले 03256003c गले गृहीत्वा राजानं ताडयामास चैव ह 03256004a पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः 03256004c पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः 03256005a तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना 03256005c स मोहमगमद्राजा प्रहारवरपीडितः 03256006a विरोषं भीमसेनं तु वारयामास फल्गुनः 03256006c दुःशलायाः कृते राजा यत्तदाहेति कौरव 03256007 भीमसेन उवाच 03256007a नायं पापसमाचारो मत्तो जीवितुमर्हति 03256007c द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः 03256008a किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी 03256008c त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे 03256009a एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः 03256009c अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा 03256010a विकल्पयित्वा राजानं ततः प्राह वृकोदरः 03256010c जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु 03256011a दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च 03256011c एवं ते जीवितं दद्यामेष युद्धजितो विधिः 03256012a एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः 03256012c प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् 03256013a तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः 03256013c रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् 03256014a ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा 03256014c अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् 03256015a दर्शयामास भीमस्तु तदवस्थं जयद्रथम् 03256015c तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् 03256016a राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै 03256016c दासभावं गतो ह्येष पाण्डूनां पापचेतनः 03256017a तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः 03256017c मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् 03256018a द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् 03256018c दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः 03256019a स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् 03256019c ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा 03256020a तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः 03256020c तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना 03256021a अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् 03256021c स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् 03256021e एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः 03256022a गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् 03256022c संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः 03256023a धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः 03256023c साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ 03256024a एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः 03256024c जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत 03256025a स देवं शरणं गत्वा विरूपाक्षमुमापतिम् 03256025c तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः 03256026a बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः 03256026c वरं चास्मै ददौ देवः स च जग्राह तच्छृणु 03256027a समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् 03256027c इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् 03256028a अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि 03256028c ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् 03256029a यमाहुरजितं देवं शङ्खचक्रगदाधरम् 03256029c प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते 03256030a एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ 03256030c पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा 03257001 जनमेजय उवाच 03257001a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 03257001c अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः 03257002 वैशंपायन उवाच 03257002a एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् 03257002c आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः 03257003a तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् 03257003c मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः 03257004a मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् 03257004c भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः 03257005a कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् 03257005c संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् 03257006a न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् 03257006c द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् 03257007a तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः 03257007c तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् 03257007e पराजयं च संग्रामे ससहायः समाप्तवान् 03257008a प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम् 03257008c तद्दारहरणं प्राप्तमस्माभिरवितर्कितम् 03257009a दुःखश्चायं वने वासो मृगयायां च जीविका 03257009c हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् 03257009e ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् 03257010a अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः 03257010c भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् 03258001 मार्कण्डेय उवाच 03258001a प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ 03258001c रक्षसा जानकी तस्य हृता भार्या बलीयसा 03258002a आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा 03258002c मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् 03258003a प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः 03258003c बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः 03258004 युधिष्ठिर उवाच 03258004a कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः 03258004c रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह 03258005a एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि 03258005c श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः 03258006 मार्कण्डेय उवाच 03258006a अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः 03258006c तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः 03258007a अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः 03258007c रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः 03258008a रामस्य माता कौसल्या कैकेयी भरतस्य तु 03258008c सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ 03258009a विदेहराजो जनकः सीता तस्यात्मजा विभो 03258009c यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् 03258010a एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् 03258010c रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर 03258011a पितामहो रावणस्य साक्षाद्देवः प्रजापतिः 03258011c स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः 03258012a पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः 03258012c तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः 03258013a पितरं स समुत्सृज्य पितामहमुपस्थितः 03258013c तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना 03258014a स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः 03258014c प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै 03258015a पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह 03258015c अमरत्वं धनेशत्वं लोकपालत्वमेव च 03258016a ईशानेन तथा सख्यं पुत्रं च नलकूबरम् 03258016c राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् 03259001 मार्कण्डेय उवाच 03259001a पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः 03259001c विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत 03259002a बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः 03259002c कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप 03259003a स राजराजो लङ्कायां निवसन्नरवाहनः 03259003c राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः 03259004a तास्तदा तं महात्मानं संतोषयितुमुद्यताः 03259004c ऋषिं भरतशार्दूल नृत्तगीतविशारदाः 03259005a पुष्पोत्कटा च राका च मालिनी च विशां पते 03259005c अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः 03259006a तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् 03259006c लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् 03259007a पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ 03259007c कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि 03259008a मालिनी जनयामास पुत्रमेकं विभीषणम् 03259008c राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा 03259009a विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् 03259009c स बभूव महाभागो धर्मगोप्ता क्रियारतिः 03259010a दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः 03259010c महोत्साहो महावीर्यो महासत्त्वपराक्रमः 03259011a कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा 03259011c मायावी रणशौण्डश्च रौद्रश्च रजनीचरः 03259012a खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः 03259012c सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा 03259013a सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः 03259013c ऊषुः पित्रा सह रता गन्धमादनपर्वते 03259014a ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् 03259014c पित्रा सार्धं समासीनमृद्ध्या परमया युतम् 03259015a जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः 03259015c ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा 03259016a अतिष्ठदेकपादेन सहस्रं परिवत्सरान् 03259016c वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः 03259017a अधःशायी कुम्भकर्णो यताहारो यतव्रतः 03259017c विभीषणः शीर्णपर्णमेकमभ्यवहारयत् 03259018a उपवासरतिर्धीमान्सदा जप्यपरायणः 03259018c तमेव कालमातिष्ठत्तीव्रं तप उदारधीः 03259019a खरः शूर्पणखा चैव तेषां वै तप्यतां तपः 03259019c परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ 03259020a पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः 03259020c जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः 03259021a ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् 03259021c प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् 03259022 ब्रह्मोवाच 03259022a प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः 03259022c यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् 03259023a यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया 03259023c तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् 03259024a वैरूप्यं च न ते देहे कामरूपधरस्तथा 03259024c भविष्यसि रणेऽरीणां विजेतासि न संशयः 03259025 रावण उवाच 03259025a गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा 03259025c सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः 03259026 ब्रह्मोवाच 03259026a य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव 03259026c ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया 03259027 मार्कण्डेय उवाच 03259027a एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा 03259027c अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः 03259028a कुम्भकर्णमथोवाच तथैव प्रपितामहः 03259028c स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः 03259029a तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह 03259029c वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः 03259030 विभीषण उवाच 03259030a परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् 03259030c अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे 03259031 ब्रह्मोवाच 03259031a यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन 03259031c नाधर्मे रमते बुद्धिरमरत्वं ददामि ते 03259032 मार्कण्डेय उवाच 03259032a राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते 03259032c लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् 03259033a हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् 03259033c गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह 03259034a विमानं पुष्पकं तस्य जहाराक्रम्य रावणः 03259034c शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति 03259035a यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति 03259035c अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि 03259036a विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् 03259036c अन्वगच्छन्महाराज श्रिया परमया युतः 03259037a तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः 03259037c सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः 03259038a राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः 03259038c सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् 03259039a दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः 03259039c आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः 03259040a रावयामास लोकान्यत्तस्माद्रावण उच्यते 03259040c दशग्रीवः कामबलो देवानां भयमादधत् 03260001 मार्कण्डेय उवाच 03260001a ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा 03260001c हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः 03260002 अग्निरुवाच 03260002a यः स विश्रवसः पुत्रो दशग्रीवो महाबलः 03260002c अवध्यो वरदानेन कृतो भगवता पुरा 03260003a स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः 03260003c ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते 03260004 ब्रह्मोवाच 03260004a न स देवासुरैः शक्यो युद्धे जेतुं विभावसो 03260004c विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे 03260005a तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः 03260005c विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति 03260006 मार्कण्डेय उवाच 03260006a पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत् 03260006c सर्वैर्देवगणैः सार्धं संभवध्वं महीतले 03260007a विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः 03260007c जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् 03260008a ततो भागानुभागेन देवगन्धर्वदानवाः 03260008c अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा 03260009a तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः 03260009c शशास वरदो देवो देवकार्यार्थसिद्धये 03260010a पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः 03260010c मन्थरा मानुषे लोके कुब्जा समभवत्तदा 03260011a शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः 03260011c वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् 03260011e तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च 03260012a भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः 03260012c वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा 03260013a कामवीर्यधराश्चैव सर्वे युद्धविशारदाः 03260013c नागायुतसमप्राणा वायुवेगसमा जवे 03260013e यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः 03260014a एवं विधाय तत्सर्वं भगवाँल्लोकभावनः 03260014c मन्थरां बोधयामास यद्यत्कार्यं यथा यथा 03260015a सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा 03260015c इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता 03261001 युधिष्ठिर उवाच 03261001a उक्तं भगवता जन्म रामादीनां पृथक्पृथक् 03261001c प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् 03261002a कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ 03261002c प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी 03261003 मार्कण्डेय उवाच 03261003a जातपुत्रो दशरथः प्रीतिमानभवन्नृपः 03261003c क्रियारतिर्धर्मपरः सततं वृद्धसेविता 03261004a क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः 03261004c वेदेषु सरहस्येषु धनुर्वेदे च पारगाः 03261005a चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव 03261005c यदा तदा दशरथः प्रीतिमानभवत्सुखी 03261006a ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः 03261006c मनोहरतया धीमान्पितुर्हृदयतोषणः 03261007a ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् 03261007c मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः 03261008a अभिषेकाय रामस्य यौवराज्येन भारत 03261008c प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः 03261009a लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् 03261009c दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् 03261010a दीप्यमानं श्रिया वीरं शक्रादनवमं बले 03261010c पारगं सर्वधर्माणां बृहस्पतिसमं मतौ 03261011a सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् 03261011c जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् 03261012a नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् 03261012c धृतिमन्तमनाधृष्यं जेतारमपराजितम् 03261013a पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् 03261013c संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन 03261014a चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् 03261014c अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् 03261015a अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति 03261015c संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् 03261016a इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा 03261016c कैकेयीमभिगम्येदं काले वचनमब्रवीत् 03261017a अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् 03261017c आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे 03261018a सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते 03261018c कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् 03261019a सा तद्वचनमाज्ञाय सर्वाभरणभूषिता 03261019c वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् 03261020a विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता 03261020c प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् 03261021a सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् 03261021c उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात् 03261022 राजोवाच 03261022a वरं ददानि ते हन्त तद्गृहाण यदिच्छसि 03261022c अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् 03261023a धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः 03261023c ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे 03261024 मार्कण्डेय उवाच 03261024a सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् 03261024c आत्मनो बलमाज्ञाय तत एनमुवाच ह 03261025a आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् 03261025c भरतस्तदवाप्नोतु वनं गच्छतु राघवः 03261026a स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् 03261026c दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह 03261027a ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् 03261027c वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति 03261028a तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा 03261028c सीता च भार्या भद्रं ते वैदेही जनकात्मजा 03261029a ततो वनं गते रामे राजा दशरथस्तदा 03261029c समयुज्यत देहस्य कालपर्यायधर्मणा 03261030a रामं तु गतमाज्ञाय राजानं च तथागतम् 03261030c आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् 03261031a गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ 03261031c गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् 03261032a तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् 03261032c पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया 03261033a अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने 03261033c सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह 03261034a स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ 03261034c अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः 03261035a कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः 03261035c अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ 03261036a वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः 03261036c पौरजानपदैः सार्धं रामानयनकाङ्क्षया 03261037a ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् 03261037c तापसानामलंकारं धारयन्तं धनुर्धरम् 03261038a विसर्जितः स रामेण पितुर्वचनकारिणा 03261038c नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके 03261039a रामस्तु पुनराशङ्क्य पौरजानपदागमम् 03261039c प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति 03261040a सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः 03261040c नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा 03261041a वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् 03261041c खरेणासीन्महद्वैरं जनस्थाननिवासिना 03261042a रक्षार्थं तापसानां च राघवो धर्मवत्सलः 03261042c चतुर्दश सहस्राणि जघान भुवि रक्षसाम् 03261043a दूषणं च खरं चैव निहत्य सुमहाबलौ 03261043c चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः 03261044a हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः 03261044c ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् 03261045a ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता 03261045c पपात पादयोर्भ्रातुः संशुष्करुधिरानना 03261046a तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः 03261046c उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् 03261047a स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः 03261047c केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च 03261048a कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते 03261048c कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् 03261049a आशीविषं घोरतरं पादेन स्पृशतीह कः 03261049c सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति 03261050a इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः 03261050c निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः 03261051a तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् 03261051c खरदूषणसंयुक्तं राक्षसानां पराभवम् 03261052a स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च 03261052c ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् 03261053a त्रिकूटं समतिक्रम्य कालपर्वतमेव च 03261053c ददर्श मकरावासं गम्भीरोदं महोदधिम् 03261054a तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः 03261054c दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः 03261055a तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः 03261055c पुरा रामभयादेव तापस्यं समुपाश्रितम् 03262001 मार्कण्डेय उवाच 03262001a मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् 03262001c पूजयामास सत्कारैः फलमूलादिभिस्तथा 03262002a विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः 03262002c उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् 03262003a न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव 03262003c कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा 03262004a किमिहागमने चापि कार्यं ते राक्षसेश्वर 03262004c कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् 03262005a शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् 03262005c मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् 03262006a अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै 03262006c बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः 03262007a प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः 03262007c विनाशमुखमेतत्ते केनाख्यातं दुरात्मना 03262008a तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् 03262008c अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् 03262009a मारीचश्चिन्तयामास विशिष्टान्मरणं वरम् 03262009c अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् 03262010a ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् 03262010c किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत् 03262011a तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय 03262011c रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः 03262012a ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति 03262012c अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति 03262013a तामादायापनेष्यामि ततः स न भविष्यति 03262013c भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे 03262014a इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः 03262014c रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः 03262015a ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः 03262015c चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् 03262016a रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् 03262016c मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः 03262017a दर्शयामास वैदेहीं मारीचो मृगरूपधृक् 03262017c चोदयामास तस्यार्थे सा रामं विधिचोदिता 03262018a रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः 03262018c रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया 03262019a स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् 03262019c अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा 03262020a सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् 03262020c चकर्ष महदध्वानं रामस्तं बुबुधे ततः 03262021a निशाचरं विदित्वा तं राघवः प्रतिभानवान् 03262021c अमोघं शरमादाय जघान मृगरूपिणम् 03262022a स रामबाणाभिहतः कृत्वा रामस्वरं तदा 03262022c हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह 03262023a शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् 03262023c सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः 03262024a अलं ते शङ्कया भीरु को रामं विषहिष्यति 03262024c मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते 03262025a इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् 03262025c हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् 03262026a सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता 03262026c नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा 03262027a अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना 03262027c पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् 03262028a रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन 03262028c निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा 03262029a एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः 03262029c पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः 03262029e स रामस्य पदं गृह्य प्रससार धनुर्धरः 03262030a एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत 03262030c अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः 03262030e यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् 03262031a सा तमालक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा 03262031c निमन्त्रयामास तदा फलमूलाशनादिभिः 03262032a अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च 03262032c सान्त्वयामास वैदेहीमिति राक्षसपुंगवः 03262033a सीते राक्षसराजोऽहं रावणो नाम विश्रुतः 03262033c मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः 03262034a तत्र त्वं वरनारीषु शोभिष्यसि मया सह 03262034c भार्या मे भव सुश्रोणि तापसं त्यज राघवम् 03262035a एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी 03262035c पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः 03262036a प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 03262036c शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् 03262037a कथं हि भिन्नकरटं पद्मिनं वनगोचरम् 03262037c उपस्थाय महानागं करेणुः सूकरं स्पृशेत् 03262038a कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् 03262038c लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे 03262039a इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः 03262039c तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् 03262040a भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् 03262040c मूर्धजेषु निजग्राह खमुपाचक्रमे ततः 03262041a तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः 03262041c रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् 03263001 मार्कण्डेय उवाच 03263001a सखा दशरथस्यासीज्जटायुररुणात्मजः 03263001c गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः 03263002a स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् 03263002c क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् 03263003a अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् 03263003c ध्रियमाणे मयि कथं हरिष्यसि निशाचर 03263003e न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् 03263004a उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् 03263004c पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः 03263004e चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव 03263005a स वध्यमानो गृध्रेण रामप्रियहितैषिणा 03263005c खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः 03263006a निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् 03263006c ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः 03263007a यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् 03263007c सरो वा सरितं वापि तत्र मुञ्चति भूषणम् 03263008a सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् 03263008c तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी 03263009a तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् 03263009c मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा 03263010a एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् 03263010c निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा 03263011a कथमुत्सृज्य वैदेहीं वने राक्षससेविते 03263011c इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् 03263012a मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् 03263012c भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत 03263013a गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् 03263013c अपि जीवति वैदेही नेति पश्यामि लक्ष्मण 03263014a तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः 03263014c यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः 03263015a दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् 03263015c स ददर्श तदा गृध्रं निहतं पर्वतोपमम् 03263016a राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः 03263016c अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः 03263017a स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ 03263017c गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह 03263018a तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे 03263018c कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ 03263019a ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा 03263019c तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् 03263020a अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः 03263020c तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च 03263021a दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् 03263021c संस्कारं लम्भयामास सखायं पूजयन्पितुः 03263022a ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् 03263022c विध्वस्तकलशं शून्यं गोमायुबलसेवितम् 03263023a दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ 03263023c जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ 03263024a वने महति तस्मिंस्तु रामः सौमित्रिणा सह 03263024c ददर्श मृगयूथानि द्रवमाणानि सर्वशः 03263024e शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः 03263025a अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् 03263025c मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् 03263025e उरोगतविशालाक्षं महोदरमहामुखम् 03263026a यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् 03263026c विषादमगमत्सद्यः सौमित्रिरथ भारत 03263027a स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् 03263027c विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम 03263028a हरणं चैव वैदेह्या मम चायमुपप्लवः 03263028c राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा 03263029a नाहं त्वां सह वैदेह्या समेतं कोसलागतम् 03263029c द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् 03263030a द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः 03263030c अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा 03263031a एवं बहुविधं धीमान्विललाप स लक्ष्मणः 03263031c तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः 03263032a मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते 03263032c छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः 03263033a इत्येवं वदता तस्य भुजो रामेण पातितः 03263033c खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् 03263034a ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली 03263034c सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् 03263035a पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् 03263035c गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः 03263036a तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः 03263036c ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् 03263037a पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः 03263037c कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे 03263038a तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप 03263038c प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् 03263039a रावणेन हृता सीता राज्ञा लङ्कानिवासिना 03263039c सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति 03263040a एषा पम्पा शिवजला हंसकारण्डवायुता 03263040c ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी 03263041a संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह 03263041c भ्राता वानरराजस्य वालिनो हेममालिनः 03263042a एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् 03263042c ध्रुवं वानरराजस्य विदितो रावणालयः 03263043a इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः 03263043c विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ 03264001 मार्कण्डेय उवाच 03264001a ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम् 03264001c सीताहरणदुःखार्तः पम्पां रामः समासदत् 03264002a मारुतेन सुशीतेन सुखेनामृतगन्धिना 03264002c सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् 03264003a विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन् 03264003c कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत् 03264004a न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद 03264004c आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम् 03264005a प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च 03264005c तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय 03264006a अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम् 03264006c मयि शिष्ये च भृत्ये च सहाये च समाश्वस 03264007a एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः 03264007c उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् 03264008a निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि 03264008c प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ 03264009a तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम् 03264009c गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा 03264010a सुग्रीवः प्रेषयामास सचिवं वानरं तयोः 03264010c बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् 03264011a तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः 03264011c सख्यं वानरराजेन चक्रे रामस्ततो नृप 03264012a तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते 03264012c वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत् 03264013a तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम् 03264013c पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत् 03264014a प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम् 03264014c सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप 03264015a इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम् 03264015c अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः 03264016a सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः 03264016c नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत् 03264017a यथा नदति सुग्रीवो बलवानेष वानरः 03264017c मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि 03264018a हेममाली ततो वाली तारां ताराधिपाननाम् 03264018c प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः 03264019a सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता 03264019c केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः 03264020a चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा 03264020c पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर 03264021a हृतदारो महासत्त्वो रामो दशरथात्मजः 03264021c तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः 03264022a भ्राता चास्य महाबाहुः सौमित्रिरपराजितः 03264022c लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये 03264023a मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः 03264023c जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः 03264024a सर्व एते महात्मानो बुद्धिमन्तो महाबलाः 03264024c अलं तव विनाशाय रामवीर्यव्यपाश्रयात् 03264025a तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः 03264025c पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् 03264026a तारां परुषमुक्त्वा स निर्जगाम गुहामुखात् 03264026c स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत 03264027a असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः 03264027c मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः 03264028a इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः 03264028c प्राप्तकालममित्रघ्नो रामं संबोधयन्निव 03264029a हृतदारस्य मे राजन्हृतराज्यस्य च त्वया 03264029c किं नु जीवितसामर्थ्यमिति विद्धि समागतम् 03264030a एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः 03264030c समरे वालिसुग्रीवौ शालतालशिलायुधौ 03264031a उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः 03264031c उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः 03264032a उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ 03264032c शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ 03264033a न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते 03264033c सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत् 03264034a स मालया तदा वीरः शुशुभे कण्ठसक्तया 03264034c श्रीमानिव महाशैलो मलयो मेघमालया 03264035a कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः 03264035c विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत् 03264036a विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ 03264036c वितत्रास तदा वाली शरेणाभिहतो हृदि 03264037a स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन् 03264037c ददर्शावस्थितं राममारात्सौमित्रिणा सह 03264038a गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः 03264038c तारा ददर्श तं भूमौ तारापतिमिव च्युतम् 03264039a हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत 03264039c तां च तारापतिमुखीं तारां निपतितेश्वराम् 03264040a रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे 03264040c निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः 03264041a रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः 03264041c सीतां निवेशयामास भवने नन्दनोपमे 03264041e अशोकवनिकाभ्याशे तापसाश्रमसंनिभे 03264042a भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी 03264042c उपवासतपःशीला तत्र सा पृथुलेक्षणा 03264042e उवास दुःखवसतीः फलमूलकृताशना 03264043a दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः 03264043c प्रासासिशूलपरशुमुद्गरालातधारिणीः 03264044a द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम् 03264044c त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् 03264045a एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः 03264045c परिवार्यासते सीतां दिवारात्रमतन्द्रिताः 03264046a तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः 03264046c तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः 03264047a खादाम पाटयामैनां तिलशः प्रविभज्य ताम् 03264047c येयं भर्तारमस्माकमवमन्येह जीवति 03264048a इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः 03264048c भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः 03264049a आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते 03264049c विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् 03264050a अप्येवाहं निराहारा जीवितप्रियवर्जिता 03264050c शोषयिष्यामि गात्राणि व्याली तालगता यथा 03264051a न त्वन्यमभिगच्छेयं पुमांसं राघवादृते 03264051c इति जानीत सत्यं मे क्रियतां यदनन्तरम् 03264052a तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः 03264052c आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः 03264053a गतासु तासु सर्वासु त्रिजटा नाम राक्षसी 03264053c सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी 03264054a सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि 03264054c भयं ते व्येतु वामोरु शृणु चेदं वचो मम 03264055a अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः 03264055c स रामस्य हितान्वेषी त्वदर्थे हि स मावदत् 03264056a सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च 03264056c भर्ता ते कुशली रामो लक्ष्मणानुगतो बली 03264057a सख्यं वानरराजेन शक्रप्रतिमतेजसा 03264057c कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः 03264058a मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात् 03264058c नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते 03264059a शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन् 03264059c न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः 03264060a क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः 03264060c सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति 03264061a स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः 03264061c विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः 03264062a दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः 03264062c स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः 03264063a स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः 03264063c मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै 03264064a तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः 03264064c असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः 03264065a कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः 03264065c कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः 03264066a श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः 03264066c श्वेतपर्वतमारूढ एक एव विभीषणः 03264067a सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः 03264067c श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् 03264068a रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा 03264068c यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः 03264069a अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् 03264069c लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः 03264070a रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता 03264070c असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् 03264071a हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता 03264071c राघवेण सह भ्रात्रा सीते त्वमचिरादिव 03264072a इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः 03264072c बभूवाशावती बाला पुनर्भर्तृसमागमे 03264073a यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः 03264073c ददृशुस्तां त्रिजटया सहासीनां यथा पुरा 03265001 मार्कण्डेय उवाच 03265001a ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् 03265001c मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् 03265002a राक्षसीभिरुपास्यन्तीं समासीनां शिलातले 03265002c रावणः कामबाणार्तो ददर्शोपससर्प च 03265003a देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि 03265003c अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः 03265004a दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः 03265004c विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् 03265005a स कल्पवृक्षसदृशो यत्नादपि विभूषितः 03265005c श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः 03265006a स तस्यास्तनुमध्यायाः समीपे रजनीचरः 03265006c ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः 03265007a स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः 03265007c इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् 03265008a सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः 03265008c प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते 03265009a भजस्व मां वरारोहे महार्हाभरणाम्बरा 03265009c भव मे सर्वनारीणामुत्तमा वरवर्णिनि 03265010a सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः 03265010c सन्ति दानवकन्याश्च दैत्यानां चापि योषितः 03265011a चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः 03265011c द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् 03265012a ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः 03265012c केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः 03265013a गन्धर्वाप्सरसो भद्रे मामापानगतं सदा 03265013c उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम 03265014a पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः 03265014c पञ्चमो लोकपालानामिति मे प्रथितं यशः 03265015a दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च 03265015c यथैव त्रिदशेशस्य तथैव मम भामिनि 03265016a क्षीयतां दुष्कृतं कर्म वनवासकृतं तव 03265016c भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा 03265017a इत्युक्ता तेन वैदेही परिवृत्य शुभानना 03265017c तृणमन्तरतः कृत्वा तमुवाच निशाचरम् 03265018a अशिवेनातिवामोरूरजस्रं नेत्रवारिणा 03265018c स्तनावपतितौ बाला सहितावभिवर्षती 03265018e उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता 03265019a असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर 03265019c विषादयुक्तमेतत्ते मया श्रुतमभाग्यया 03265020a तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् 03265020c परदारास्म्यलभ्या च सततं च पतिव्रता 03265021a न चैवोपयिकी भार्या मानुषी कृपणा तव 03265021c विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि 03265022a प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव 03265022c न च पालयसे धर्मं लोकपालसमः कथम् 03265023a भ्रातरं राजराजानं महेश्वरसखं प्रभुम् 03265023c धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे 03265024a इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ 03265024c शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा 03265025a तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता 03265025c ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि 03265026a तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् 03265026c प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः 03265027a काममङ्गानि मे सीते दुनोतु मकरध्वजः 03265027c न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् 03265028a किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् 03265028c आहारभूतमस्माकं राममेवानुरुध्यसे 03265029a इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः 03265029c तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् 03265030a राक्षसीभिः परिवृता वैदेही शोककर्शिता 03265030c सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा 03266001 मार्कण्डेय उवाच 03266001a राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः 03266001c वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः 03266002a स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् 03266002c ग्रहनक्षत्रताराभिरनुयातममित्रहा 03266003a कुमुदोत्पलपद्मानां गन्धमादाय वायुना 03266003c महीधरस्थः शीतेन सहसा प्रतिबोधितः 03266004a प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः 03266004c सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि 03266005a गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् 03266005c प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् 03266006a योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः 03266006c सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै 03266007a यदर्थं निहतो वाली मया रघुकुलोद्वह 03266007c त्वया सह महाबाहो किष्किन्धोपवने तदा 03266008a कृतघ्नं तमहं मन्ये वानरापसदं भुवि 03266008c यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण 03266009a असौ मन्ये न जानीते समयप्रतिपादनम् 03266009c कृतोपकारं मां नूनमवमन्याल्पया धिया 03266010a यदि तावदनुद्युक्तः शेते कामसुखात्मकः 03266010c नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया 03266011a अथापि घटतेऽस्माकमर्थे वानरपुंगवः 03266011c तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् 03266012a इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः 03266012c प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः 03266012e किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः 03266013a सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः 03266013c तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः 03266013e पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया 03266014a तमब्रवीद्रामवचः सौमित्रिरकुतोभयः 03266014c स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः 03266015a सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः 03266015c इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् 03266016a नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः 03266016c श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः 03266017a दिशः प्रस्थापिताः सर्वे विनीता हरयो मया 03266017c सर्वेषां च कृतः कालो मासेनागमनं पुनः 03266018a यैरियं सवना साद्रिः सपुरा सागराम्बरा 03266018c विचेतव्या मही वीर सग्रामनगराकरा 03266019a स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति 03266019c ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् 03266020a इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता 03266020c त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् 03266021a स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् 03266021c अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् 03266022a इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः 03266022c दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः 03266023a आचख्युस्ते तु रामाय महीं सागरमेखलाम् 03266023c विचितां न तु वैदेह्या दर्शनं रावणस्य वा 03266024a गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः 03266024c आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् 03266025a द्विमासोपरमे काले व्यतीते प्लवगास्ततः 03266025c सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् 03266026a रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् 03266026c त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः 03266027a वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः 03266027c विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया 03266028a तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् 03266028c कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् 03266029a स तद्रामाय मेधावी शशंस प्लवगर्षभः 03266029c रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् 03266030a हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः 03266030c अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ 03266031a गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः 03266031c अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत 03266032a हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः 03266032c प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा 03266033a तानुवाचागतान्रामः प्रगृह्य सशरं धनुः 03266033c अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता 03266034a अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः 03266034c निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् 03266035a अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे 03266035c हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे 03266036a इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः 03266036c प्रियमाख्यामि ते राम दृष्टा सा जानकी मया 03266037a विचित्य दक्षिणामाशां सपर्वतवनाकराम् 03266037c श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् 03266038a प्रविशामो वयं तां तु बहुयोजनमायताम् 03266038c अन्धकारां सुविपिनां गहनां कीटसेविताम् 03266039a गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः 03266039c दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा 03266040a मयस्य किल दैत्यस्य तदासीद्वेश्म राघव 03266040c तत्र प्रभावती नाम तपोऽतप्यत तापसी 03266041a तया दत्तानि भोज्यानि पानानि विविधानि च 03266041c भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः 03266042a निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः 03266042c समीपे सह्यमलयौ दर्दुरं च महागिरिम् 03266043a ततो मलयमारुह्य पश्यन्तो वरुणालयम् 03266043c विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् 03266044a अनेकशतविस्तीर्णं योजनानां महोदधिम् 03266044c तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः 03266045a तत्रानशनसंकल्पं कृत्वासीना वयं तदा 03266045c ततः कथान्ते गृध्रस्य जटायोरभवत्कथा 03266046a ततः पर्वतशृङ्गाभं घोररूपं भयावहम् 03266046c पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् 03266047a सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् 03266047c भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् 03266048a संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः 03266048c अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् 03266049a ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः 03266049c तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः 03266049e निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ 03266050a तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः 03266050c व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् 03266051a स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् 03266051c विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम 03266052a कः स रामः कथं सीता जटायुश्च कथं हतः 03266052c इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः 03266053a तस्याहं सर्वमेवैतं भवतो व्यसनागमम् 03266053c प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् 03266054a सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् 03266054c रावणो विदितो मह्यं लङ्का चास्य महापुरी 03266055a दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे 03266055c भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा 03266056a इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः 03266056c सागरप्लवने मन्त्रं मन्त्रयामः परंतप 03266057a नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने 03266057c ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् 03266057e शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् 03266058a तत्र सीता मया दृष्टा रावणान्तःपुरे सती 03266058c उपवासतपःशीला भर्तृदर्शनलालसा 03266058e जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी 03266059a निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः 03266059c उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् 03266060a सीते रामस्य दूतोऽहं वानरो मारुतात्मजः 03266060c त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा 03266061a राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ 03266061c सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ 03266062a कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह 03266062c सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति 03266063a क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह 03266063c प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः 03266064a मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह 03266064c अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् 03266065a अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः 03266065c कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः 03266066a गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् 03266066c धारिता येन वैदेही कालमेतमनिन्दिता 03266067a प्रत्ययार्थं कथां चेमां कथयामास जानकी 03266067c क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ 03266067e भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् 03266068a श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् 03266068c संप्राप्त इति तं रामः प्रियवादिनमर्चयत् 03267001 मार्कण्डेय उवाच 03267001a ततस्तत्रैव रामस्य समासीनस्य तैः सह 03267001c समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा 03267002a वृतः कोटिसहस्रेण वानराणां तरस्विनाम् 03267002c श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् 03267003a कोटीशतवृतौ चापि गजो गवय एव च 03267003c वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम् 03267004a षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत 03267004c गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः 03267005a गन्धमादनवासी तु प्रथितो गन्धमादनः 03267005c कोटीसहस्रमुग्राणां हरीणां समकर्षत 03267006a पनसो नाम मेधावी वानरः सुमहाबलः 03267006c कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति 03267007a श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान् 03267007c प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम् 03267008a कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम् 03267008c कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत 03267009a एते चान्ये च बहवो हरियूथपयूथपाः 03267009c असंख्येया महाराज समीयू रामकारणात् 03267010a शिरीषकुसुमाभानां सिंहानामिव नर्दताम् 03267010c श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम् 03267011a गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः 03267011c शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः 03267012a उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः 03267012c उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः 03267013a स वानरमहालोकः पूर्णसागरसंनिभः 03267013c निवेशमकरोत्तत्र सुग्रीवानुमते तदा 03267014a ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः 03267014c तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते 03267015a तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव 03267015c प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा 03267016a मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः 03267016c जघनं पालयामास सौमित्रिरकुतोभयः 03267017a बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः 03267017c वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव 03267018a प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम् 03267018c सुमहच्छालिभवनं यथा सूर्योदयं प्रति 03267019a नलनीलाङ्गदक्राथमैन्दद्विविदपालिता 03267019c ययौ सुमहती सेना राघवस्यार्थसिद्धये 03267020a विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च 03267020c प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च 03267021a निवसन्ती निराबाधा तथैव गिरिसानुषु 03267021c उपायाद्धरिसेना सा क्षारोदमथ सागरम् 03267022a द्वितीयसागरनिभं तद्बलं बहुलध्वजम् 03267022c वेलावनं समासाद्य निवासमकरोत्तदा 03267023a ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत 03267023c मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः 03267024a उपायः को नु भवतां मतः सागरलङ्घने 03267024c इयं च महती सेना सागरश्चापि दुस्तरः 03267025a तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः 03267025c समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः 03267026a केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः 03267026c नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत 03267027a शतयोजनविस्तारं न शक्ताः सर्ववानराः 03267027c क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः 03267028a नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा 03267028c वणिजामुपघातं च कथमस्मद्विधश्चरेत् 03267029a विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः 03267029c प्लवोडुपप्रतारश्च नैवात्र मम रोचते 03267030a अहं त्विमं जलनिधिं समारप्स्याम्युपायतः 03267030c प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः 03267031a न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः 03267031c महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः 03267032a इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः 03267032c प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे 03267033a सागरस्तु ततः स्वप्ने दर्शयामास राघवम् 03267033c देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः 03267034a कौसल्यामातरित्येवमाभाष्य मधुरं वचः 03267034c इदमित्याह रत्नानामाकरैः शतशो वृतः 03267035a ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ 03267035c इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत् 03267036a मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते 03267036c येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम् 03267037a यद्येवं याचतो मार्गं न प्रदास्यति मे भवान् 03267037c शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः 03267038a इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः 03267038c उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः 03267039a नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव 03267039c शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर 03267040a यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया 03267040c अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात् 03267041a अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः 03267041c त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः 03267042a स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि 03267042c सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति 03267043a इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह 03267043c कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम 03267044a तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत् 03267044c दशयोजनविस्तारमायतं शतयोजनम् 03267045a नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि 03267045c रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः 03267046a तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः 03267046c भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह 03267047a प्रतिजग्राह रामस्तं स्वागतेन महामनाः 03267047c सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह 03267048a राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः 03267048c यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् 03267049a सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम् 03267049c चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च 03267050a विभीषणमते चैव सोऽत्यक्रामन्महार्णवम् 03267050c ससैन्यः सेतुना तेन मासेनैव नराधिप 03267051a ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः 03267051c भेदयामास कपिभिर्महान्ति च बहूनि च 03267052a तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ 03267052c चारौ वानररूपेण तौ जग्राह विभीषणः 03267053a प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ 03267053c दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् 03267054a निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम् 03267054c प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम् 03268001 मार्कण्डेय उवाच 03268001a प्रभूतान्नोदके तस्मिन्बहुमूलफले वने 03268001c सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत 03268002a रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् 03268002c प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा 03268003a अगाधतोयाः परिखा मीननक्रसमाकुलाः 03268003c बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः 03268004a कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः 03268004c साशीविषघटायोधाः ससर्जरसपांसवः 03268005a मुसलालातनाराचतोमरासिपरश्वधैः 03268005c अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः 03268006a पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः 03268006c बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः 03268007a अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः 03268007c विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः 03268008a मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः 03268008c शुशुभे मेघमालाभिरादित्य इव संवृतः 03268009a स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् 03268009c रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे 03268010a आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः 03268010c प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च 03268011a अकृतात्मानमासाद्य राजानमनये रतम् 03268011c विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च 03268012a त्वयैकेनापराद्धं मे सीतामाहरता बलात् 03268012c वधायानपराद्धानामन्येषां तद्भविष्यति 03268013a ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः 03268013c ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः 03268014a राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः 03268014c तदिदं समनुप्राप्तं फलं तस्यानयस्य ते 03268015a हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव 03268015c पश्य मे धनुषो वीर्यं मानुषस्य निशाचर 03268016a मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् 03268016c अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः 03268017a इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः 03268017c श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः 03268018a इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः 03268018c चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः 03268019a तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् 03268019c आदायैव खमुत्पत्य प्रासादतलमाविशत् 03268020a वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः 03268020c भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः 03268021a स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् 03268021c लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः 03268022a कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः 03268022c विशश्राम स तेजस्वी राघवेणाभिनन्दितः 03268023a ततः सर्वाभिसारेण हरीणां वातरंहसाम् 03268023c भेदयामास लङ्कायाः प्राकारं रघुनन्दनः 03268024a विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः 03268024c दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् 03268025a करभारुणगात्राणां हरीणां युद्धशालिनाम् 03268025c कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा 03268026a उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः 03268026c नादृश्यत तदा सूर्यो रजसा नाशितप्रभः 03268027a शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः 03268027c तरुणादित्यसदृशैः शरगौरैश्च वानरैः 03268028a प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् 03268028c राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः 03268029a बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च 03268029c भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः 03268030a परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः 03268030c चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः 03268031a प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा 03268031c प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः 03268032a ततस्तु राजवचनाद्राक्षसाः कामरूपिणः 03268032c निर्ययुर्विकृताकाराः सहस्रशतसंघशः 03268033a शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः 03268033c प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः 03268034a स माषराशिसदृशैर्बभूव क्षणदाचरैः 03268034c कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः 03268035a पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः 03268035c स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः 03268036a केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह 03268036c नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् 03268037a निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः 03268037c हता निपतिता भूमौ न मुञ्चन्ति परस्परम् 03268038a रामस्तु शरजालानि ववर्ष जलदो यथा 03268038c तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् 03268039a सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः 03268039c आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् 03268040a ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया 03268040c कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः 03269001 मार्कण्डेय उवाच 03269001a ततो निविशमानांस्तान्सैनिकान्रावणानुगाः 03269001c अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् 03269002a पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः 03269002c प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः 03269003a ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् 03269003c अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः 03269004a ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः 03269004c निहताः सर्वशो राजन्महीं जग्मुर्गतासवः 03269005a अमृष्यमाणः सबलो रावणो निर्ययावथ 03269005c व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् 03269006a राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् 03269006c बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् 03269007a समेत्य युयुधे तत्र ततो रामेण रावणः 03269007c युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह 03269008a विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः 03269008c तुण्डेन च नलस्तत्र पटुशः पनसेन च 03269009a विषह्यं यं हि यो मेने स स तेन समेयिवान् 03269009c युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः 03269010a स संप्रहारो ववृधे भीरूणां भयवर्धनः 03269010c लोमसंहर्षणो घोरः पुरा देवासुरे यथा 03269011a रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः 03269011c निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः 03269012a तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः 03269012c इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः 03269013a विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् 03269013c खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः 03269014a तेषां बलवतामासीन्महास्त्राणां समागमः 03269014c विव्यथुः सकला येन त्रयो लोकाश्चराचराः 03270001 मार्कण्डेय उवाच 03270001a ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् 03270001c गदया ताडयामास विनद्य रणकर्कशः 03270002a स तयाभिहतो धीमान्गदया भीमवेगया 03270002c नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः 03270003a ततः प्रगृह्य विपुलां शतघण्टां विभीषणः 03270003c अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति 03270004a पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया 03270004c हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः 03270005a तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् 03270005c अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् 03270006a तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् 03270006c दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः 03270007a ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान् 03270007c निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः 03270008a तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् 03270008c वेगेन महता राजन्संन्यवर्तन्त सर्वशः 03270009a ततः शब्दो महानासीत्तुमुलो लोमहर्षणः 03270009c रामरावणसैन्यानामन्योन्यमभिधावताम् 03270010a तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे 03270010c धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः 03270011a तं राक्षसमहामात्रमापतन्तं सपत्नजित् 03270011c तरसा प्रतिजग्राह हनूमान्पवनात्मजः 03270012a तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः 03270012c जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव 03270013a गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् 03270013c कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः 03270014a ततस्तमतिकायेन साश्वं सरथसारथिम् 03270014c धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः 03270015a ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् 03270015c हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् 03270016a ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः 03270016c राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् 03270017a तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः 03270017c सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् 03270018a श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि 03270018c धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः 03270019a सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् 03270019c उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः 03270020a इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः 03270020c शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् 03270021a प्रबोध्य महता चैनं यत्नेनागतसाध्वसः 03270021c स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः 03270021e ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् 03270022a धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी 03270022c य इमं दारुणं कालं न जानीषे महाभयम् 03270023a एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह 03270023c अवमन्येह नः सर्वान्करोति कदनं महत् 03270024a मया ह्यपहृता भार्या सीता नामास्य जानकी 03270024c तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे 03270025a तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः 03270025c तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन 03270026a स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर 03270026c रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम 03270027a दूषणावरजौ चैव वज्रवेगप्रमाथिनौ 03270027c तौ त्वां बलेन महता सहितावनुयास्यतः 03270028a इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् 03270028c संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ 03270029a तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ 03270029c कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् 03271001 मार्कण्डेय उवाच 03271001a ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः 03271001c अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् 03271002a तमभ्येत्याशु हरयः परिवार्य समन्ततः 03271002c अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः 03271002e करजैरतुदंश्चान्ये विहाय भयमुत्तमम् 03271003a बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः 03271003c नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् 03271004a स ताड्यमानः प्रहसन्भक्षयामास वानरान् 03271004c पनसं च गवाक्षं च वज्रबाहुं च वानरम् 03271005a तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः 03271005c उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा 03271006a तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् 03271006c अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः 03271007a ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः 03271007c शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः 03271008a स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि 03271008c बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः 03271009a ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः 03271009c दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् 03271010a ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा 03271010c अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः 03271011a सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् 03271011c प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा 03271012a स तस्य देहावरणं भित्त्वा देहं च सायकः 03271012c जगाम दारयन्भूमिं रुधिरेण समुक्षितः 03271013a तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् 03271013c कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः 03271013e अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् 03271014a तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ 03271014c चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः 03271015a तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् 03271015c क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् 03271016a स बभूवातिकायश्च बहुपादशिरोभुजः 03271016c तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् 03271017a स पपात महावीर्यो दिव्यास्त्राभिहतो रणे 03271017c महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव 03271018a तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् 03271018c गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् 03271019a तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ 03271019c अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् 03271020a तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ 03271020c प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः 03271021a ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् 03271021c दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः 03271022a महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत 03271022c तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम् 03271023a मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः 03271023c सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः 03271024a अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः 03271024c अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः 03271025a नीलश्च महता ग्राव्णा दूषणावरजं हरिः 03271025c प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः 03271026a ततः प्रावर्तत पुनः संग्रामः कटुकोदयः 03271026c रामरावणसैन्यानामन्योन्यमभिधावताम् 03271027a शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः 03271027c नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः 03272001 मार्कण्डेय उवाच 03272001a ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् 03272001c प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् 03272002a पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत 03272002c जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् 03272003a त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् 03272003c जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् 03272004a अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः 03272004c जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर 03272005a रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ 03272005c समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः 03272006a अकृता या प्रहस्तेन कुम्भकर्णेन चानघ 03272006c खरस्यापचितिः संख्ये तां गच्छस्व महाभुज 03272007a त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् 03272007c प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् 03272008a इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः 03272008c प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति 03272009a तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः 03272009c आह्वयामास समरे लक्ष्मणं शुभलक्षणम् 03272010a तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः 03272010c त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा 03272011a तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः 03272011c दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा 03272012a रावणिस्तु यदा नैनं विशेषयति सायकैः 03272012c ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः 03272013a तत एनं महावेगैरर्दयामास तोमरैः 03272013c तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः 03272013e ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले 03272014a तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् 03272014c अभिद्रुत्य महावेगस्ताडयामास मूर्धनि 03272015a तस्येन्द्रजिदसंभ्रान्तः प्रासेनोरसि वीर्यवान् 03272015c प्रहर्तुमैच्छत्तं चास्य प्रासं चिच्छेद लक्ष्मणः 03272016a तमभ्याशगतं वीरमङ्गदं रावणात्मजः 03272016c गदयाताडयत्सव्ये पार्श्वे वानरपुंगवम् 03272017a तमचिन्त्य प्रहारं स बलवान्वालिनः सुतः 03272017c ससर्जेन्द्रजितः क्रोधाच्छालस्कन्धममित्रजित् 03272018a सोऽङ्गदेन रुषोत्सृष्टो वधायेन्द्रजितस्तरुः 03272018c जघानेन्द्रजितः पार्थ रथं साश्वं ससारथिम् 03272019a ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः 03272019c तत्रैवान्तर्दधे राजन्मायया रावणात्मजः 03272020a अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् 03272020c रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत 03272021a स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा 03272021c विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् 03272022a तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा 03272022c योधयामासतुरुभौ रावणिं रामलक्ष्मणौ 03272023a स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः 03272023c व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः 03272024a तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् 03272024c हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः 03272025a तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः 03272025c स भृशं ताडयन्वीरो रावणिर्माययावृतः 03272026a तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ 03272026c पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव 03273001 मार्कण्डेय उवाच 03273001a तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ 03273001c बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा 03273002a तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे 03273002c रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे 03273003a तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ 03273003c सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः 03273004a सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च 03273004c हनूमन्नीलतारैश्च नलेन च कपीश्वरः 03273005a ततस्तं देशमागम्य कृतकर्मा विभीषणः 03273005c बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ 03273006a विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ 03273006c विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया 03273007a तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम् 03273007c गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ 03273008a ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम् 03273008c उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः 03273009a अयमम्भो गृहीत्वा तु राजराजस्य शासनात् 03273009c गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम 03273010a इदमम्भः कुबेरस्ते महाराजः प्रयच्छति 03273010c अन्तर्हितानां भूतानां दर्शनार्थं परंतप 03273011a अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत 03273011c भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति 03273012a तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् 03273012c चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः 03273013a सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा 03273013c मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः 03273014a तथा समभवच्चापि यदुवाच विभीषणः 03273014c क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर 03273015a इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः 03273015c निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति 03273016a तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया 03273016c अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः 03273017a अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम् 03273017c शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः 03273018a तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः 03273018c अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव 03273019a अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः 03273019c सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः 03273020a सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः 03273020c असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् 03273021a तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः 03273021c यथा निरहरद्वीरस्तन्मे निगदतः शृणु 03273022a एकेनास्य धनुष्मन्तं बाहुं देहादपातयत् 03273022c द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत् 03273023a तृतीयेन तु बाणेन पृथुधारेण भास्वता 03273023c जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम् 03273024a विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम् 03273024c तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः 03273025a लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा 03273025c ददर्श रावणस्तं च रथं पुत्रविनाकृतम् 03273026a स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः 03273026c रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः 03273027a अशोकवनिकास्थां तां रामदर्शनलालसाम् 03273027c खड्गमादाय दुष्टात्मा जवेनाभिपपात ह 03273028a तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम् 03273028c शमयामास संक्रुद्धं श्रूयतां येन हेतुना 03273029a महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि 03273029c हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे 03273030a न चैषा देहभेदेन हता स्यादिति मे मतिः 03273030c जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् 03273031a न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः 03273031c असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि 03273032a एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा 03273032c क्रुद्धं संशमयामास जगृहे च स तद्वचः 03273033a निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः 03273033c आज्ञापयामास तदा रथो मे कल्प्यतामिति 03274001 मार्कण्डेय उवाच 03274001a ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते 03274001c निर्ययौ रथमास्थाय हेमरत्नविभूषितम् 03274002a संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः 03274002c अभिदुद्राव रामं स पोथयन्हरियूथपान् 03274003a तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः 03274003c हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् 03274004a ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः 03274004c द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः 03274005a ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः 03274005c मायावी व्यदधान्मायां रावणो राक्षसेश्वरः 03274006a तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः 03274006c राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः 03274007a तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् 03274007c अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः 03274008a कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत 03274008c अभिदुद्राव रामं च लक्ष्मणं च दशाननः 03274009a ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः 03274009c अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः 03274010a तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः 03274010c उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः 03274011a जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् 03274011c जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् 03274012a ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा 03274012c उपतस्थे रणे रामं मातलिः शक्रसारथिः 03274013 मातलिरुवाच 03274013a अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः 03274013c अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् 03274013e शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् 03274014a तदनेन नरव्याघ्र मया यत्तेन संयुगे 03274014c स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः 03274015a इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः 03274015c मायेयं राक्षसस्येति तमुवाच विभीषणः 03274016a नेयं माया नरव्याघ्र रावणस्य दुरात्मनः 03274016c तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते 03274017a ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् 03274017c रथेनाभिपपाताशु दशग्रीवं रुषान्वितः 03274018a हाहाकृतानि भूतानि रावणे समभिद्रुते 03274018c सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् 03274019a स रामाय महाघोरं विससर्ज निशाचरः 03274019c शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् 03274020a तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः 03274020c तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् 03274021a ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान् 03274021c सहस्रायुतशो रामे शस्त्राणि विविधानि च 03274022a ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् 03274022c शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः 03274023a तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः 03274023c भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् 03274024a ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् 03274024c तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह 03274025a तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् 03274025c जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः 03274026a अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः 03274026c ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः 03274027a ततः ससर्ज तं रामः शरमप्रतिमौजसम् 03274027c रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् 03274028a स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः 03274028c प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः 03274029a ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः 03274029c निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा 03274030a तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् 03274030c भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा 03274031a शरीरधातवो ह्यस्य मांसं रुधिरमेव च 03274031c नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत 03275001 मार्कण्डेय उवाच 03275001a स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् 03275001c बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह 03275002a ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः 03275002c आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् 03275003a रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः 03275003c गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः 03275004a पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् 03275004c तन्महोत्सवसंकाशमासीदाकाशमच्युत 03275005a ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः 03275005c विभीषणाय प्रददौ प्रभुः परपुरंजयः 03275006a ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् 03275006c अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ 03275007a उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् 03275007c प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति 03275008a एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् 03275008c बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः 03275009a तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम् 03275009c मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम् 03275010a उवाच रामो वैदेहीं परामर्शविशङ्कितः 03275010c गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् 03275011a मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि 03275011c जरां व्रजेथा इति मे निहतोऽसौ निशाचरः 03275012a कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् 03275012c परहस्तगतां नारीं मुहूर्तमपि धारयेत् 03275013a सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि 03275013c नोत्सहे परिभोगाय श्वावलीढं हविर्यथा 03275014a ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः 03275014c पपात देवी व्यथिता निकृत्ता कदली यथा 03275015a यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् 03275015c क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे 03275016a ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् 03275016c गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः 03275017a ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः 03275017c पितामहो जगत्स्रष्टा दर्शयामास राघवम् 03275018a शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च 03275018c यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः 03275019a राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् 03275019c विमानेन महार्हेण हंसयुक्तेन भास्वता 03275020a ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् 03275020c शुशुभे तारकाचित्रं शरदीव नभस्तलम् 03275021a तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी 03275021c उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् 03275022a राजपुत्र न ते कोपं करोमि विदिता हि मे 03275022c गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम 03275023a अन्तश्चरति भूतानां मातरिश्वा सदागतिः 03275023c स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम् 03275024a अग्निरापस्तथाकाशं पृथिवी वायुरेव च 03275024c विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् 03275025a ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः 03275025c पुण्या संहर्षणी तेषां वानराणां महात्मनाम् 03275026 वायुरुवाच 03275026a भो भो राघव सत्यं वै वायुरस्मि सदागतिः 03275026c अपापा मैथिली राजन्संगच्छ सह भार्यया 03275027 अग्निरुवाच 03275027a अहमन्तःशरीरस्थो भूतानां रघुनन्दन 03275027c सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति 03275028 वरुण उवाच 03275028a रसा वै मत्प्रसूता हि भूतदेहेषु राघव 03275028c अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् 03275029 ब्रह्मोवाच 03275029a पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि 03275029c साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम 03275030a शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् 03275030c यक्षाणां दानवानां च महर्षीणां च पातितः 03275031a अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् 03275031c कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः 03275032a वधार्थमात्मनस्तेन हृता सीता दुरात्मना 03275032c नलकूबरशापेन रक्षा चास्याः कृता मया 03275033a यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् 03275033c शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा 03275034a नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते 03275034c कृतं त्वया महत्कार्यं देवानाममरप्रभ 03275035 दशरथ उवाच 03275035a प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते 03275035c अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम 03275036 राम उवाच 03275036a अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम 03275036c गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव 03275037 मार्कण्डेय उवाच 03275037a तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप 03275037c गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन 03275038a ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः 03275038c महेन्द्र इव पौलोम्या भार्यया स समेयिवान् 03275039a ततो वरं ददौ तस्मै अविन्ध्याय परंतपः 03275039c त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् 03275040a तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः 03275040c कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् 03275041a वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् 03275041c राक्षसैर्निहतानां च वानराणां समुद्भवम् 03275042a ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा 03275042c समुत्तस्थुर्महाराज वानरा लब्धचेतसः 03275043a सीता चापि महाभागा वरं हनुमते ददौ 03275043c रामकीर्त्या समं पुत्र जीवितं ते भविष्यति 03275044a दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा 03275044c उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन 03275045a ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् 03275045c अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः 03275046a दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः 03275046c उवाच परमप्रीतः सुहृन्मध्य इदं वचः 03275047a देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् 03275047c अपनीतं त्वया दुःखमिदं सत्यपराक्रम 03275048a सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः 03275048c कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति 03275049a इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् 03275049c संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा 03275050a ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह 03275050c सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः 03275051a विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः 03275051c संततार पुनस्तेन सेतुना मकरालयम् 03275052a पुष्पकेण विमानेन खेचरेण विराजता 03275052c कामगेन यथा मुख्यैरमात्यैः संवृतो वशी 03275053a ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः 03275053c तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः 03275054a अथैनान्राघवः काले समानीयाभिपूज्य च 03275054c विसर्जयामास तदा रत्नैः संतोष्य सर्वशः 03275055a गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च 03275055c सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् 03275056a विभीषणेनानुगतः सुग्रीवसहितस्तदा 03275056c पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् 03275057a किष्किन्धां तु समासाद्य रामः प्रहरतां वरः 03275057c अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् 03275058a ततस्तैरेव सहितो रामः सौमित्रिणा सह 03275058c यथागतेन मार्गेण प्रययौ स्वपुरं प्रति 03275059a अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः 03275059c भरताय हनूमन्तं दूतं प्रस्थापयत्तदा 03275060a लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च 03275060c वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् 03275061a स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् 03275061c अग्रतः पादुके कृत्वा ददर्शासीनमासने 03275062a समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् 03275062c राघवः सहसौमित्रिर्मुमुदे भरतर्षभ 03275063a तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा 03275063c वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः 03275064a तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् 03275064c न्यासं निर्यातयामास युक्तः परमया मुदा 03275065a ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि 03275065c वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् 03275066a सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् 03275066c विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति 03275067a अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ 03275067c समाधायेतिकर्तव्यं दुःखेन विससर्ज ह 03275068a पुष्पकं च विमानं तत्पूजयित्वा स राघवः 03275068c प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः 03275069a ततो देवर्षिसहितः सरितं गोमतीमनु 03275069c दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् 03276001 मार्कण्डेय उवाच 03276001a एवमेतन्महाबाहो रामेणामिततेजसा 03276001c प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा 03276002a मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप 03276002c बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये 03276003a न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि 03276003c अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः 03276004a संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना 03276004c नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी 03276005a सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः 03276005c किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः 03276006a अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः 03276006c युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ 03276006e एभिः सहायैः कस्मात्त्वं विषीदसि परंतप 03276007a य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् 03276007c त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः 03276007e विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ 03276008a इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना 03276008c बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः 03276009a आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् 03276009c जयद्रथं च राजानं विजितं वशमागतम् 03276010a असहायेन रामेण वैदेही पुनराहृता 03276010c हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम् 03276011a यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा 03276011c जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय 03276012a तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ 03276012c त्वद्विधा हि महात्मानो न शोचन्ति परंतप 03276013 वैशंपायन उवाच 03276013a एवमाश्वासितो राजा मार्कण्डेयेन धीमता 03276013c त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् 03277001 युधिष्ठिर उवाच 03277001a नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने 03277001c हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् 03277002a द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् 03277002c जयद्रथेन च पुनर्वनादपहृता बलात् 03277003a अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता 03277003c पतिव्रता महाभागा यथेयं द्रुपदात्मजा 03277004 मार्कण्डेय उवाच 03277004a शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर 03277004c सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया 03277005a आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः 03277005c ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः 03277006a यज्वा दानपतिर्दक्षः पौरजानपदप्रियः 03277006c पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः 03277007a क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः 03277007c अतिक्रान्तेन वयसा संतापमुपजग्मिवान् 03277008a अपत्योत्पादनार्थं स तीव्रं नियममास्थितः 03277008c काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः 03277009a हुत्वा शतसहस्रं स सावित्र्या राजसत्तम 03277009c षष्ठे षष्ठे तदा काले बभूव मितभोजनः 03277010a एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु 03277010c पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् 03277010e स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् 03277011a अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता 03277011c उवाच चैनं वरदा वचनं पार्थिवं तदा 03277012a ब्रह्मचर्येण शुद्धेन दमेन नियमेन च 03277012c सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव 03277013a वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् 03277013c न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन 03277014 अश्वपतिरुवाच 03277014a अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया 03277014c पुत्रा मे बहवो देवि भवेयुः कुलभावनाः 03277015a तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् 03277015c संतानं हि परो धर्म इत्याहुर्मां द्विजातयः 03277016 सावित्र्युवाच 03277016a पूर्वमेव मया राजन्नभिप्रायमिमं तव 03277016c ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः 03277017a प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि 03277017c कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति 03277018a उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन 03277018c पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते 03277019 मार्कण्डेय उवाच 03277019a स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः 03277019c प्रसादयामास पुनः क्षिप्रमेवं भवेदिति 03277020a अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः 03277020c स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् 03277021a कस्मिंश्चित्तु गते काले स राजा नियतव्रतः 03277021c ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे 03277022a राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ 03277022c व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे 03277023a प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् 03277023c क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा 03277024a सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि 03277024c सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता 03277025a सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा 03277025c कालेन चापि सा कन्या यौवनस्था बभूव ह 03277026a तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव 03277026c प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः 03277027a तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा 03277027c न कश्चिद्वरयामास तेजसा प्रतिवारितः 03277028a अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा 03277028c हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि 03277029a ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः 03277029c पितुः सकाशमगमद्देवी श्रीरिव रूपिणी 03277030a साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च 03277030c कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता 03277031a यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् 03277031c अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् 03277032 राजोवाच 03277032a पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् 03277032c स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः 03277033a प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम 03277033c विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् 03277034a श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः 03277034c तथा त्वमपि कल्याणि गदतो मे वचः शृणु 03277035a अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः 03277035c मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता 03277036a इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर 03277036c देवतानां यथा वाच्यो न भवेयं तथा कुरु 03277037 मार्कण्डेय उवाच 03277037a एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः 03277037c व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् 03277038a साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी 03277038c पितुर्वचनमाज्ञाय निर्जगामाविचारितम् 03277039a सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता 03277039c तपोवनानि रम्याणि राजर्षीणां जगाम ह 03277040a मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् 03277040c वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत 03277041a एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा 03277041c कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह 03278001 मार्कण्डेय उवाच 03278001a अथ मद्राधिपो राजा नारदेन समागतः 03278001c उपविष्टः सभामध्ये कथायोगेन भारत 03278002a ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा 03278002c आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः 03278003a नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा 03278003c उभयोरेव शिरसा चक्रे पादाभिवन्दनम् 03278004 नारद उवाच 03278004a क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप 03278004c किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि 03278005 अश्वपतिरुवाच 03278005a कार्येण खल्वनेनैव प्रेषिताद्यैव चागता 03278005c तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः 03278006 मार्कण्डेय उवाच 03278006a सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा 03278006c दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् 03278007a आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः 03278007c द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह 03278008a विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः 03278008c सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा 03278009a स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् 03278009c महारण्यगतश्चापि तपस्तेपे महाव्रतः 03278010a तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने 03278010c सत्यवाननुरूपो मे भर्तेति मनसा वृतः 03278011 नारद उवाच 03278011a अहो बत महत्पापं सावित्र्या नृपते कृतम् 03278011c अजानन्त्या यदनया गुणवान्सत्यवान्वृतः 03278012a सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते 03278012c ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति 03278013a बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान् 03278013c चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते 03278014 राजोवाच 03278014a अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः 03278014c क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः 03278015 नारद उवाच 03278015a विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ 03278015c महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः 03278016 अश्वपतिरुवाच 03278016a अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान् 03278016c रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः 03278017 नारद उवाच 03278017a साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः 03278017c ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा 03278018a ययातिरिव चोदारः सोमवत्प्रियदर्शनः 03278018c रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली 03278019a स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः 03278019c स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः 03278020a नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा 03278020c संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते 03278021 अश्वपतिरुवाच 03278021a गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे 03278021c दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन 03278022 नारद उवाच 03278022a एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान् 03278022c संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति 03278023 राजोवाच 03278023a एहि सावित्रि गच्छ त्वमन्यं वरय शोभने 03278023c तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति 03278024a यथा मे भगवानाह नारदो देवसत्कृतः 03278024c संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति 03278025 सावित्र्युवाच 03278025a सकृदंशो निपतति सकृत्कन्या प्रदीयते 03278025c सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् 03278026a दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा 03278026c सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् 03278027a मनसा निश्चयं कृत्वा ततो वाचाभिधीयते 03278027c क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः 03278028 नारद उवाच 03278028a स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव 03278028c नैषा चालयितुं शक्या धर्मादस्मात्कथंचन 03278029a नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः 03278029c प्रदानमेव तस्मान्मे रोचते दुहितुस्तव 03278030 राजोवाच 03278030a अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः 03278030c करिष्याम्येतदेवं च गुरुर्हि भगवान्मम 03278031 नारद उवाच 03278031a अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव 03278031c साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः 03278032 मार्कण्डेय उवाच 03278032a एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः 03278032c राजापि दुहितुः सर्वं वैवाहिकमकारयत् 03279001 मार्कण्डेय उवाच 03279001a अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् 03279001c समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः 03279002a ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान् 03279002c समाहूय तिथौ पुण्ये प्रययौ सह कन्यया 03279003a मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः 03279003c पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् 03279004a तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम् 03279004c कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा 03279005a स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः 03279005c वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् 03279006a तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित् 03279006c किमागमनमित्येवं राजा राजानमब्रवीत् 03279007a तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् 03279007c सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् 03279008 अश्वपतिरुवाच 03279008a सावित्री नाम राजर्षे कन्येयं मम शोभना 03279008c तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे 03279009 द्युमत्सेन उवाच 03279009a च्युताः स्म राज्याद्वनवासमाश्रिता;श्चराम धर्मं नियतास्तपस्विनः 03279009c कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव 03279010 अश्वपतिरुवाच 03279010a सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च 03279010c न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप 03279011a आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च 03279011c अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि 03279012a अनुरूपो हि संयोगे त्वं ममाहं तवापि च 03279012c स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम् 03279013 द्युमत्सेन उवाच 03279013a पूर्वमेवाभिलषितः संबन्धो मे त्वया सह 03279013c भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् 03279014a अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः 03279014c स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः 03279015 मार्कण्डेय उवाच 03279015a ततः सर्वान्समानीय द्विजानाश्रमवासिनः 03279015c यथाविधि समुद्वाहं कारयामासतुर्नृपौ 03279016a दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम् 03279016c ययौ स्वमेव भवनं युक्तः परमया मुदा 03279017a सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम् 03279017c मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् 03279018a गते पितरि सर्वाणि संन्यस्याभरणानि सा 03279018c जगृहे वल्कलान्येव वस्त्रं काषायमेव च 03279019a परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च 03279019c सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत् 03279020a श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः 03279020c श्वशुरं देवकार्यैश्च वाचः संयमनेन च 03279021a तथैव प्रियवादेन नैपुणेन शमेन च 03279021c रहश्चैवोपचारेण भर्तारं पर्यतोषयत् 03279022a एवं तत्राश्रमे तेषां तदा निवसतां सताम् 03279022c कालस्तपस्यतां कश्चिदतिचक्राम भारत 03279023a सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम् 03279023c नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते 03280001 मार्कण्डेय उवाच 03280001a ततः काले बहुतिथे व्यतिक्रान्ते कदाचन 03280001c प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप 03280002a गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते 03280002c तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः 03280003a चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी 03280003c व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत् 03280004a तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः 03280004c उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन् 03280005a अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे 03280005c तिसृणां वसतीनां हि स्थानं परमदुष्करम् 03280006 सावित्र्युवाच 03280006a न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम् 03280006c व्यवसायकृतं हीदं व्यवसायश्च कारणम् 03280007 द्युमत्सेन उवाच 03280007a व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन 03280007c पारयस्वेति वचनं युक्तमस्मद्विधो वदेत् 03280008 मार्कण्डेय उवाच 03280008a एवमुक्त्वा द्युमत्सेनो विरराम महामनाः 03280008c तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते 03280009a श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ 03280009c दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत 03280010a अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् 03280010c युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः 03280011a ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च 03280011c अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता 03280012a अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः 03280012c ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः 03280013a एवमस्त्विति सावित्री ध्यानयोगपरायणा 03280013c मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम् 03280014a तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा 03280014c यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता 03280015a ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् 03280015c एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम 03280016 श्वशुरावूचतुः 03280016a व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया 03280016c आहारकालः संप्राप्तः क्रियतां यदनन्तरम् 03280017 सावित्र्युवाच 03280017a अस्तं गते मयादित्ये भोक्तव्यं कृतकामया 03280017c एष मे हृदि संकल्पः समयश्च कृतो मया 03280018 मार्कण्डेय उवाच 03280018a एवं संभाषमाणायाः सावित्र्या भोजनं प्रति 03280018c स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् 03280019a सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि 03280019c सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे 03280020 सत्यवानुवाच 03280020a वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि 03280020c व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि 03280021 सावित्र्युवाच 03280021a उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः 03280021c गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि 03280022 सत्यवानुवाच 03280022a यदि ते गमनोत्साहः करिष्यामि तव प्रियम् 03280022c मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् 03280023 मार्कण्डेय उवाच 03280023a साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता 03280023c अयं गच्छति मे भर्ता फलाहारो महावनम् 03280024a इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च 03280024c अनेन सह निर्गन्तुं न हि मे विरहः क्षमः 03280025a गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव 03280025c न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम् 03280026a संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात् 03280026c वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे 03280027 द्युमत्सेन उवाच 03280027a यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम 03280027c नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् 03280028a तदेषा लभतां कामं यथाभिलषितं वधूः 03280028c अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि 03280029 मार्कण्डेय उवाच 03280029a उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी 03280029c सह भर्त्रा हसन्तीव हृदयेन विदूयता 03280030a सा वनानि विचित्राणि रमणीयानि सर्वशः 03280030c मयूररवघुष्टानि ददर्श विपुलेक्षणा 03280031a नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान् 03280031c सत्यवानाह पश्येति सावित्रीं मधुराक्षरम् 03280032a निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता 03280032c मृतमेव हि तं मेने काले मुनिवचः स्मरन् 03280033a अनुवर्तती तु भर्तारं जगाम मृदुगामिनी 03280033c द्विधेव हृदयं कृत्वा तं च कालमवेक्षती 03281001 मार्कण्डेय उवाच 03281001a अथ भार्यासहायः स फलान्यादाय वीर्यवान् 03281001c कठिनं पूरयामास ततः काष्ठान्यपाटयत् 03281002a तस्य पाटयतः काष्ठं स्वेदो वै समजायत 03281002c व्यायामेन च तेनास्य जज्ञे शिरसि वेदना 03281003a सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः 03281003c व्यायामेन ममानेन जाता शिरसि वेदना 03281004a अङ्गानि चैव सावित्रि हृदयं दूयतीव च 03281004c अस्वस्थमिव चात्मानं लक्षये मितभाषिणि 03281005a शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् 03281005c तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे 03281006a समासाद्याथ सावित्री भर्तारमुपगूह्य च 03281006c उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले 03281007a ततः सा नारदवचो विमृशन्ती तपस्विनी 03281007c तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह 03281008a मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् 03281008c बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् 03281009a श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् 03281009c स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च 03281010a तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः 03281010c कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता 03281011a दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् 03281011c कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि 03281012 यम उवाच 03281012a पतिव्रतासि सावित्रि तथैव च तपोन्विता 03281012c अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् 03281013a अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः 03281013c नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् 03281014 मार्कण्डेय उवाच 03281014a इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् 03281014c यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे 03281015a अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः 03281015c नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः 03281016a ततः सत्यवतः कायात्पाशबद्धं वशं गतम् 03281016c अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् 03281017a ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् 03281017c निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् 03281018a यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः 03281018c सावित्री चापि दुःखार्ता यममेवान्वगच्छत 03281018e नियमव्रतसंसिद्धा महाभागा पतिव्रता 03281019 यम उवाच 03281019a निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् 03281019c कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया 03281020 सावित्र्युवाच 03281020a यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति 03281020c मयापि तत्र गन्तव्यमेष धर्मः सनातनः 03281021a तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च 03281021c तव चैव प्रसादेन न मे प्रतिहता गतिः 03281022a प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः 03281022c मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु 03281023a नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च 03281023c विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम् 03281024a एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः 03281024c मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम् 03281025 यम उवाच 03281025a निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया 03281025c वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम् 03281026 सावित्र्युवाच 03281026a च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे 03281026c स लब्धचक्षुर्बलवान्भवेन्नृप;स्तव प्रसादाज्ज्वलनार्कसंनिभः 03281027 यम उवाच 03281027a ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा 03281027c तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत् 03281028 सावित्र्युवाच 03281028a कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा 03281028c यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे 03281029a सतां सकृत्संगतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते 03281029c न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत्समागमे 03281030 यम उवाच 03281030a मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम् 03281030c विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि 03281031 सावित्र्युवाच 03281031a हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः 03281031c जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम् 03281032 यम उवाच 03281032a स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा;न्न च स्वधर्मात्परिहास्यते नृपः 03281032c कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत् 03281033 सावित्र्युवाच 03281033a प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया 03281033c अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया 03281034a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 03281034c अनुग्रहश्च दानं च सतां धर्मः सनातनः 03281035a एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः 03281035c सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते 03281036 यम उवाच 03281036a पिपासितस्येव यथा भवेत्पय;स्तथा त्वया वाक्यमिदं समीरितम् 03281036c विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि 03281037 सावित्र्युवाच 03281037a ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम् 03281037c कुलस्य संतानकरं च यद्भवे;त्तृतीयमेतं वरयामि ते वरम् 03281038 यम उवाच 03281038a कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे 03281038c कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता 03281039 सावित्र्युवाच 03281039a न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति 03281039c तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च 03281040a विवस्वतस्त्वं तनयः प्रतापवां;स्ततो हि वैवस्वत उच्यसे बुधैः 03281040c शमेन धर्मेण च रञ्जिताः प्रजा;स्ततस्तवेहेश्वर धर्मराजता 03281041a आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः 03281041c तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति 03281042a सौहृदात्सर्वभूतानां विश्वासो नाम जायते 03281042c तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः 03281043 यम उवाच 03281043a उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम् 03281043c अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च 03281044 सावित्र्युवाच 03281044a ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम् 03281044c शतं सुतानां बलवीर्यशालिना;मिदं चतुर्थं वरयामि ते वरम् 03281045 यम उवाच 03281045a शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले 03281045c परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता 03281046 सावित्र्युवाच 03281046a सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति 03281046c सतां सद्भिर्नाफलः संगमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः 03281047a सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति 03281047c सन्तो गतिर्भूतभव्यस्य राज;न्सतां मध्ये नावसीदन्ति सन्तः 03281048a आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् 03281048c सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् 03281049a न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः 03281049c यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति 03281050 यम उवाच 03281050a यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत् 03281050c तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते 03281051 सावित्र्युवाच 03281051a न तेऽपवर्गः सुकृताद्विनाकृत;स्तथा यथान्येषु वरेषु मानद 03281051c वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम् 03281052a न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम् 03281052c न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम् 03281053a वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः 03281053c वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति 03281054 मार्कण्डेय उवाच 03281054a तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः 03281054c धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् 03281055a एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि 03281055c अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति 03281056a चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति 03281056c इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति 03281057a त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति 03281057c ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः 03281057e ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः 03281058a पितुश्च ते पुत्रशतं भविता तव मातरि 03281058c मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः 03281058e भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः 03281059a एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् 03281059c निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ 03281060a सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च 03281060c जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् 03281061a सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च 03281061c उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह 03281062a संज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत 03281062c प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै 03281063 सत्यवानुवाच 03281063a सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः 03281063c क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह 03281064 सावित्र्युवाच 03281064a सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ 03281064c गतः स भगवान्देवः प्रजासंयमनो यमः 03281065a विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज 03281065c यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् 03281066 मार्कण्डेय उवाच 03281066a उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः 03281066c दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् 03281067a फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे 03281067c ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् 03281068a शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् 03281068c तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे 03281069a त्वयोपगूढस्य च मे निद्रयापहृतं मनः 03281069c ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् 03281070a तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे 03281070c स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् 03281071a तमुवाचाथ सावित्री रजनी व्यवगाहते 03281071c श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज 03281072a उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत 03281072c विगाढा रजनी चेयं निवृत्तश्च दिवाकरः 03281073a नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः 03281073c श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने 03281074a एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् 03281074c आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम 03281075 सत्यवानुवाच 03281075a वनं प्रतिभयाकारं घनेन तमसा वृतम् 03281075c न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि 03281076 सावित्र्युवाच 03281076a अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् 03281076c वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् 03281077a ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः 03281077c काष्ठानीमानि सन्तीह जहि संतापमात्मनः 03281078a यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये 03281078c न च ज्ञास्यसि पन्थानं तमसा संवृते वने 03281079a श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव 03281079c वसावेह क्षपामेतां रुचितं यदि तेऽनघ 03281080 सत्यवानुवाच 03281080a शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये 03281080c मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम् 03281081a न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः 03281081c अनागतायां संध्यायां माता मे प्ररुणद्धि माम् 03281082a दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम 03281082c विचिनोति च मां तातः सहैवाश्रमवासिभिः 03281083a मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा 03281083c उपालब्धः सुबहुशश्चिरेणागच्छसीति ह 03281084a का त्ववस्था तयोरद्य मदर्थमिति चिन्तये 03281084c तयोरदृश्ये मयि च महद्दुःखं भविष्यति 03281085a पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ 03281085c भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ 03281086a त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक 03281086c यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् 03281087a वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः 03281087c त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति 03281088a माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल 03281088c तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः 03281089a निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम 03281089c माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी 03281090a अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः 03281090c मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे 03281091a व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम 03281091c एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् 03281092a नात्मानमनुशोचामि यथाहं पितरं शुभे 03281092c भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् 03281093a मत्कृतेन हि तावद्य संतापं परमेष्यतः 03281093c जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह 03281093e तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् 03281094 मार्कण्डेय उवाच 03281094a एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः 03281094c उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह 03281095a ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् 03281095c प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी 03281096a यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि 03281096c श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी 03281097a न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् 03281097c तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम 03281098 सत्यवानुवाच 03281098a कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् 03281098c पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् 03281098e न जीविष्ये वरारोहे सत्येनात्मानमालभे 03281099a यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि 03281099c मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् 03281100 मार्कण्डेय उवाच 03281100a सावित्री तत उत्थाय केशान्संयम्य भामिनी 03281100c पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै 03281101a उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना 03281101c दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे 03281102a तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि 03281102c योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् 03281103a कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् 03281103c गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् 03281104a वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा 03281104c दक्षिणेन परिष्वज्य जगाम मृदुगामिनी 03281105 सत्यवानुवाच 03281105a अभ्यासगमनाद्भीरु पन्थानो विदिता मम 03281105c वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये 03281106a आगतौ स्वः पथा येन फलान्यवचितानि च 03281106c यथागतं शुभे गच्छ पन्थानं मा विचारय 03281107a पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा 03281107c तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च 03281107e स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ 03281108 मार्कण्डेय उवाच 03281108a ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति 03282001 मार्कण्डेय उवाच 03282001a एतस्मिन्नेव काले तु द्युमत्सेनो महावने 03282001c लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह 03282002a स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया 03282002c पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ 03282003a तावाश्रमान्नदीश्चैव वनानि च सरांसि च 03282003c तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः 03282004a श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया 03282004c सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् 03282005a भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः 03282005c कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः 03282006a ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः 03282006c परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् 03282007a तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः 03282007c आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः 03282008a ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया 03282008c बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ 03282009a पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ 03282009c हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् 03282010 सुवर्चा उवाच 03282010a यथास्य भार्या सावित्री तपसा च दमेन च 03282010c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03282011 गौतम उवाच 03282011a वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् 03282011c कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः 03282012a समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे 03282012c वायुभक्षोपवासश्च कुशलानि च यानि मे 03282013a अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् 03282013c सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति 03282014 शिष्य उवाच 03282014a उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् 03282014c नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् 03282015 ऋषय ऊचुः 03282015a यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः 03282015c अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् 03282016 भारद्वाज उवाच 03282016a यथास्य भार्या सावित्री तपसा च दमेन च 03282016c आचारेण च संयुक्ता तथा जीवति सत्यवान् 03282017 दाल्भ्य उवाच 03282017a यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् 03282017c गताहारमकृत्वा च तथा जीवति सत्यवान् 03282018 माण्डव्य उवाच 03282018a यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः 03282018c पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् 03282019 धौम्य उवाच 03282019a सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः 03282019c दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् 03282020 मार्कण्डेय उवाच 03282020a एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः 03282020c तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् 03282021a ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह 03282021c आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह 03282022 ब्राह्मणा ऊचुः 03282022a पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च 03282022c सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते 03282023a समागमेन पुत्रस्य सावित्र्या दर्शनेन च 03282023c चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे 03282024a सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः 03282024c भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति 03282025 मार्कण्डेय उवाच 03282025a ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि 03282025c उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् 03282026a शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः 03282026c सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् 03282027a ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः 03282027c जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् 03282028a प्रागेव नागतं कस्मात्सभार्येण त्वया विभो 03282028c विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् 03282029a संतापितः पिता माता वयं चैव नृपात्मज 03282029c नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि 03282030 सत्यवानुवाच 03282030a पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः 03282030c अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः 03282031a सुप्तश्चाहं वेदनया चिरमित्युपलक्षये 03282031c तावत्कालं च न मया सुप्तपूर्वं कदाचन 03282032a सर्वेषामेव भवतां संतापो मा भवेदिति 03282032c अतो विरात्रागमनं नान्यदस्तीह कारणम् 03282033 गौतम उवाच 03282033a अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः 03282033c नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति 03282034a श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् 03282034c त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा 03282035a त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् 03282035c रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः 03282036 सावित्र्युवाच 03282036a एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः 03282036c न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् 03282037a मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना 03282037c स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् 03282038a सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः 03282038c स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् 03282039a अस्तौषं तमहं देवं सत्येन वचसा विभुम् 03282039c पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम 03282040a चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे 03282040c लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् 03282041a चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् 03282041c भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् 03282042a एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः 03282042c यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम 03282043 ऋषय ऊचुः 03282043a निमज्जमानं व्यसनैरभिद्रुतं; कुलं नरेन्द्रस्य तमोमये ह्रदे 03282043c त्वया सुशीले धृतधर्मपुण्यया; समुद्धृतं साध्वि पुनः कुलीनया 03282044 मार्कण्डेय उवाच 03282044a तथा प्रशस्य ह्यभिपूज्य चैव ते; वरस्त्रियं तामृषयः समागताः 03282044c नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा; शिवेन जग्मुर्मुदिताः स्वमालयम् 03283001 मार्कण्डेय उवाच 03283001a तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले 03283001c कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः 03283002a तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः 03283002c द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः 03283003a ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप 03283003c आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम् 03283004a तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम् 03283004c न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम् 03283005a ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति 03283005c सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति 03283006a अनेन निश्चयेनेह वयं प्रस्थापिता नृप 03283006c प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् 03283007a प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः 03283007c अध्यास्स्व चिररात्राय पितृपैतामहं पदम् 03283008a चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम् 03283008c मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः 03283009a ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः 03283009c तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति 03283010a शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा 03283010c नरयुक्तेन यानेन प्रययौ सेनया वृता 03283011a ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः 03283011c पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् 03283012a ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् 03283012c तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् 03283013a भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् 03283013c मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् 03283014a एवमात्मा पिता माता श्वश्रूः श्वशुर एव च 03283014c भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम् 03283015a तथैवैषापि कल्याणी द्रौपदी शीलसंमता 03283015c तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना 03283016 वैशंपायन उवाच 03283016a एवं स पाण्डवस्तेन अनुनीतो महात्मना 03283016c विशोको विज्वरो राजन्काम्यके न्यवसत्तदा 03284001 जनमेजय उवाच 03284001a यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् 03284001c इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् 03284002a यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् 03284002c तच्चाप्यपहरिष्यामि सव्यसाचाविहागते 03284003a किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् 03284003c आसीन्न च स धर्मात्मा कथयामास कस्यचित् 03284004 वैशंपायन उवाच 03284004a अहं ते राजशार्दूल कथयामि कथामिमाम् 03284004c पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम 03284005a द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे 03284005c पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः 03284006a अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः 03284006c कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् 03284007a महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते 03284007c शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् 03284008a स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् 03284008c कृपया परयाविष्टः पुत्रस्नेहाच्च भारत 03284009a ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् 03284009c हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः 03284010a कर्ण मद्वचनं तात शृणु सत्यभृतां वर 03284010c ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् 03284011a उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया 03284011c ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया 03284012a विदितं तेन शीलं ते सर्वस्य जगतस्तथा 03284012c यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे 03284013a त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः 03284013c वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् 03284014a तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः 03284014c आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् 03284015a तस्मै प्रयाचमानाय न देये कुण्डले त्वया 03284015c अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् 03284016a कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया 03284016c अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः 03284017a रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि 03284017c निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः 03284018a यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे 03284018c आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि 03284019a कवचेन च संयुक्तः कुण्डलाभ्यां च मानद 03284019c अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम 03284020a अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम् 03284020c तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव 03284021 कर्ण उवाच 03284021a को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् 03284021c कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् 03284022 ब्राह्मण उवाच 03284022a अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये 03284022c कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते 03284023 कर्ण उवाच 03284023a श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः 03284023c प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम 03284024a प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् 03284024c न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः 03284025a व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो 03284025c यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् 03284026a यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः 03284026c हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् 03284027a दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् 03284027c न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता 03284028a मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् 03284028c युक्तं हि यशसा युक्तं मरणं लोकसंमतम् 03284029a सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा 03284029c यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति 03284030a हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् 03284030c तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति 03284031a वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् 03284031c कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति 03284032a कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत् 03284032c अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः 03284033a अयं पुराणः श्लोको हि स्वयं गीतो विभावसो 03284033c धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै 03284034a पुरुषस्य परे लोके कीर्तिरेव परायणम् 03284034c इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी 03284035a सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् 03284035c दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि 03284036a हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् 03284036c विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् 03284037a भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम् 03284037c वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् 03284038a प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन 03284038c जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् 03284039a सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् 03284039c ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् 03285001 सूर्य उवाच 03285001a माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा 03285001c पुत्राणामथ भार्याणामथो मातुरथो पितुः 03285002a शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर 03285002c इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा 03285003a यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् 03285003c सा ते प्राणान्समादाय गमिष्यति न संशयः 03285004a जीवतां कुरुते कार्यं पिता माता सुतास्तथा 03285004c ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ 03285004e राजानश्च नरव्याघ्र पौरुषेण निबोध तत् 03285005a कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते 03285005c मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः 03285005e मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते 03285006a मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः 03285006c अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया 03285007a भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना 03285007c भक्तोऽयं परया भक्त्या मामित्येव महाभुज 03285007e ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम 03285008a अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम् 03285008c अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया 03285009a देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ 03285009c तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् 03285010a पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् 03285010c मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये 03285011a शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते 03285011c विशाखयोर्मध्यगतः शशीव विमलो दिवि 03285012a कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् 03285012c प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः 03285013a शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ 03285013c विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः 03285014a उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः 03285014c पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद 03285015a त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना 03285015c सव्यसाची त्वया चैव युधि शूरः समेष्यति 03285016a न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् 03285016c विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् 03285017a तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे 03285017c संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् 03286001 कर्ण उवाच 03286001a भगवन्तमहं भक्तो यथा मां वेत्थ गोपते 03286001c तथा परमतिग्मांशो नान्यं देवं कथंचन 03286002a न मे दारा न मे पुत्रा न चात्मा सुहृदो न च 03286002c तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम 03286003a इष्टानां च महात्मानो भक्तानां च न संशयः 03286003c कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर 03286004a इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि 03286004c जानीत इति वै कृत्वा भगवानाह मद्धितम् 03286005a भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः 03286005c इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि 03286006a बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम् 03286006c विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् 03286006e प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा 03286007a यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति 03286007c व्येतु संतापजं दुःखं तव भास्कर मानसम् 03286007e अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् 03286008a तवापि विदितं देव ममाप्यस्त्रबलं महत् 03286008c जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः 03286009a इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम 03286009c भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः 03286010 सूर्य उवाच 03286010a यदि तात ददास्येते वज्रिणे कुण्डले शुभे 03286010c त्वमप्येनमथो ब्रूया विजयार्थं महाबल 03286011a नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः 03286011c अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः 03286012a अर्जुनेन विनाशं हि तव दानवसूदनः 03286012c प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति 03286013a स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः 03286013c अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् 03286014a अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम् 03286014c दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् 03286015a इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले 03286015c तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् 03286016a नाहत्वा हि महाबाहो शत्रूनेति करं पुनः 03286016c सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः 03286017 वैशंपायन उवाच 03286017a एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत 03286017c ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् 03286018a यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि 03286018c तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा 03286019a तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः 03286019c उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव 03286020a ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा 03286020c शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् 03287001 जनमेजय उवाच 03287001a किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना 03287001c कीदृशे कुण्डले ते च कवचं चैव कीदृशम् 03287002a कुतश्च कवचं तस्य कुण्डले चैव सत्तम 03287002c एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन 03287003 वैशंपायन उवाच 03287003a अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः 03287003c यादृशे कुण्डले चैव कवचं चैव यादृशम् 03287004a कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः 03287004c तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः 03287005a दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव 03287005c मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः 03287006a स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः 03287006c भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर 03287007a न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः 03287007c एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ 03287008a यथाकामं च गच्छेयमागच्छेयं तथैव च 03287008c शय्यासने च मे राजन्नापराध्येत कश्चन 03287009a तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः 03287009c एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् 03287010a मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी 03287010c शीलवृत्तान्विता साध्वी नियता न च मानिनी 03287011a उपस्थास्यति सा त्वां वै पूजयानवमन्य च 03287011c तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि 03287012a एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि 03287012c उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् 03287013a अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति 03287013c मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् 03287014a त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् 03287014c तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् 03287015a अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः 03287015c यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् 03287016a ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः 03287016c ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते 03287017a अमानयन्हि मानार्हान्वातापिश्च महासुरः 03287017c निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च 03287018a सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम् 03287018c त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् 03287019a जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि 03287019c ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह 03287020a तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु 03287020c मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे 03287021a न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते 03287021c सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि 03287022a संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति 03287022c पृथे बालेति कृत्वा वै सुता चासि ममेति च 03287023a वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता 03287023c दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् 03287024a वसुदेवस्य भगिनी सुतानां प्रवरा मम 03287024c अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम 03287025a तादृशे हि कुले जाता कुले चैव विवर्धिता 03287025c सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता 03287026a दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः 03287026c बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे 03287027a पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् 03287027c तेन तेनासि संपन्ना समुपेता च भामिनी 03287028a सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि 03287028c आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे 03287029a एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् 03287029c कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् 03288001 कुन्त्युवाच 03288001a ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया 03288001c यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् 03288002a एष चैव स्वभावो मे पूजयेयं द्विजानिति 03288002c तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम 03288003a यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि 03288003c यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति 03288004a लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान् 03288004c आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम 03288005a विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः 03288005c वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते 03288006a यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ 03288006c यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः 03288007a ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते 03288007c तारणाय समर्थाः स्युर्विपरीते वधाय च 03288008a साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम् 03288008c न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् 03288009a अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः 03288009c भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा 03288010a नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम् 03288010c यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति 03288011 राजोवाच 03288011a एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया 03288011c मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि 03288012 वैशंपायन उवाच 03288012a एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः 03288012c पृथां परिददौ तस्मै द्विजाय सुतवत्सलः 03288013a इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता 03288013c अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया 03288014a द्विजातयो महाभागा वृद्धबालतपस्विषु 03288014c भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा 03288015a सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः 03288015c यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम 03288016a तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः 03288016c हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत् 03288017a तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत् 03288017c आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् 03288018a निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च 03288018c आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने 03288019a तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती 03288019c विधिवत्परिचारार्हं देववत्पर्यतोषयत् 03289001 वैशंपायन उवाच 03289001a सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् 03289001c तोषयामास शुद्धेन मनसा संशितव्रता 03289002a प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः 03289002c तत आयाति राजेन्द्र साये रात्रावथो पुनः 03289003a तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः 03289003c पूजयामास सा कन्या वर्धमानैस्तु सर्वदा 03289004a अन्नादिसमुदाचारः शय्यासनकृतस्तथा 03289004c दिवसे दिवसे तस्य वर्धते न तु हीयते 03289005a निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा 03289005c ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा 03289006a व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः 03289006c दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् 03289007a कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् 03289007c शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता 03289008a यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा 03289008c प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता 03289009a तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः 03289009c अवधानेन भूयोऽस्य परं यत्नमथाकरोत् 03289010a तां प्रभाते च साये च पिता पप्रच्छ भारत 03289010c अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया 03289011a तं सा परममित्येव प्रत्युवाच यशस्विनी 03289011c ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः 03289012a ततः संवत्सरे पूर्णे यदासौ जपतां वरः 03289012c नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः 03289013a ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् 03289013c प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे 03289014a वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह 03289014c यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि 03289015 कुन्त्युवाच 03289015a कृतानि मम सर्वाणि यस्या मे वेदवित्तम 03289015c त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम 03289016 ब्राह्मण उवाच 03289016a यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते 03289016c इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् 03289017a यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि 03289017c तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति 03289018a अकामो वा सकामो वा न स नैष्यति ते वशम् 03289018c विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः 03289019 वैशंपायन उवाच 03289019a न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता 03289019c तं वै द्विजातिप्रवरं तदा शापभयान्नृप 03289020a ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः 03289020c मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् 03289021a तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह 03289021c उषितोऽस्मि सुखं राजन्कन्यया परितोषितः 03289022a तव गेहे सुविहितः सदा सुप्रतिपूजितः 03289022c साधयिष्यामहे तावदित्युक्त्वान्तरधीयत 03289023a स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा 03289023c बभूव विस्मयाविष्टः पृथां च समपूजयत् 03290001 वैशंपायन उवाच 03290001a गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये 03290001c चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् 03290002a अयं वै कीदृशस्तेन मम दत्तो महात्मना 03290002c मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव 03290003a एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया 03290003c व्रीडिता साभवद्बाला कन्याभावे रजस्वला 03290004a अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह 03290004c न ततर्प च रूपेण भानोः संध्यागतस्य सा 03290005a तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् 03290005c आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् 03290006a तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप 03290006c आह्वानमकरोत्साथ तस्य देवस्य भामिनी 03290007a प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् 03290007c आजगाम ततो राजंस्त्वरमाणो दिवाकरः 03290008a मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव 03290008c अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव 03290009a योगात्कृत्वा द्विधात्मानमाजगाम तताप च 03290009c आबभाषे ततः कुन्तीं साम्ना परमवल्गुना 03290010a आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः 03290010c किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते 03290011 कुन्त्युवाच 03290011a गम्यतां भगवंस्तत्र यतोऽसि समुपागतः 03290011c कौतूहलात्समाहूतः प्रसीद भगवन्निति 03290012 सूर्य उवाच 03290012a गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे 03290012c न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा 03290013a तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति 03290013c वीर्येणाप्रतिमो लोके कवची कुण्डलीति च 03290014a सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि 03290014c उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने 03290015a अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते 03290015c शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते 03290016a त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः 03290016c पितरं चैव ते मूढं यो न वेत्ति तवानयम् 03290017a तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव 03290017c शीलवृत्तमविज्ञाय धास्यामि विनयं परम् 03290018a एते हि विबुधाः सर्वे पुरंदरमुखा दिवि 03290018c त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि 03290019a पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते 03290019c पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् 03290020 वैशंपायन उवाच 03290020a ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् 03290020c प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव 03290021a सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता 03290021c गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः 03290022a पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने 03290022c नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा 03290023a मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो 03290023c बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो 03290024 सूर्य उवाच 03290024a बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत 03290024c आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु 03290025a न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै 03290025c गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् 03290025e सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे 03290026a सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् 03290026c विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि 03291001 वैशंपायन उवाच 03291001a सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः 03291001c अनुनेतुं सहस्रांशुं न शशाक मनस्विनी 03291002a न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् 03291002c भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् 03291003a अनागसः पितुः शापो ब्राह्मणस्य तथैव च 03291003c मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः 03291004a बालेनापि सता मोहाद्भृशं सापह्नवान्यपि 03291004c नात्यासादयितव्यानि तेजांसि च तपांसि च 03291005a साहमद्य भृशं भीता गृहीता च करे भृशम् 03291005c कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् 03291006a सैवं शापपरित्रस्ता बहु चिन्तयती तदा 03291006c मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः 03291007a तं देवमब्रवीद्भीता बन्धूनां राजसत्तम 03291007c व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते 03291008 कुन्त्युवाच 03291008a पिता मे ध्रियते देव माता चान्ये च बान्धवाः 03291008c न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् 03291009a त्वया मे संगमो देव यदि स्याद्विधिवर्जितः 03291009c मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः 03291010a अथ वा धर्ममेतं त्वं मन्यसे तपतां वर 03291010c ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् 03291011a आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् 03291011c त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् 03291012 सूर्य उवाच 03291012a न ते पिता न ते माता गुरवो वा शुचिस्मिते 03291012c प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः 03291013a सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि 03291013c तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि 03291014a नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि 03291014c अधर्मं कुत एवाहं चरेयं लोककाम्यया 03291015a अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि 03291015c स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः 03291016a सा मया सह संगम्य पुनः कन्या भविष्यसि 03291016c पुत्रश्च ते महाबाहुर्भविष्यति महायशाः 03291017 कुन्त्युवाच 03291017a यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह 03291017c कुण्डली कवची शूरो महाबाहुर्महाबलः 03291018 सूर्य उवाच 03291018a भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् 03291018c उभयं चामृतमयं तस्य भद्रे भविष्यति 03291019 कुन्त्युवाच 03291019a यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् 03291019c मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि 03291020a अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया 03291020c त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च 03291021 सूर्य उवाच 03291021a अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि 03291021c तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् 03291022 पृथोवाच 03291022a परमं भगवन्देव संगमिष्ये त्वया सह 03291022c यदि पुत्रो भवेदेवं यथा वदसि गोपते 03291023 वैशंपायन उवाच 03291023a तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः 03291023c स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् 03291024a ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा 03291024c पपाताथ च सा देवी शयने मूढचेतना 03291025 सूर्य उवाच 03291025a साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि 03291025c सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि 03291026 वैशंपायन उवाच 03291026a ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् 03291026c एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् 03291027a इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा 03291027c तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव 03291028a तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार 03291028c न चैवैनां दूषयामास भानुः; संज्ञां लेभे भूय एवाथ बाला 03292001 वैशंपायन उवाच 03292001a ततो गर्भः समभवत्पृथायाः पृथिवीपते 03292001c शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे 03292002a सा बान्धवभयाद्बाला तं गर्भं विनिगूहती 03292002c धारयामास सुश्रोणी न चैनां बुबुधे जनः 03292003a न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते 03292003c कन्यापुरगतां बालां निपुणां परिरक्षणे 03292004a ततः कालेन सा गर्भं सुषुवे वरवर्णिनी 03292004c कन्यैव तस्य देवस्य प्रसादादमरप्रभम् 03292005a तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् 03292005c हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा 03292006a जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी 03292006c मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः 03292007a मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा 03292007c श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् 03292008a जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् 03292008c पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् 03292009a समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले 03292009c उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु 03292010a स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक 03292010c दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये 03292011a शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः 03292011c आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः 03292012a पातु त्वां वरुणो राजा सलिले सलिलेश्वरः 03292012c अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा 03292013a पिता त्वां पातु सर्वत्र तपनस्तपतां वरः 03292013c येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल 03292014a आदित्या वसवो रुद्राः साध्या विश्वे च देवताः 03292014c मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः 03292015a रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च 03292015c वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् 03292016a धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः 03292016c यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् 03292017a धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति 03292017c यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज 03292018a को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम् 03292018c दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् 03292019a पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् 03292019c सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति 03292020a धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् 03292020c अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् 03292021a धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे 03292021c हिमवद्वनसंभूतं सिंहं केसरिणं यथा 03292022a एवं बहुविधं राजन्विलप्य करुणं पृथा 03292022c अवासृजत मञ्जूषामश्वनद्यास्तदा जले 03292023a रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा 03292023c धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा 03292024a विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः 03292024c विवेश राजभवनं पुनः शोकातुरा ततः 03292025a मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् 03292025c चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह 03292026a गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् 03292026c स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः 03292027a अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् 03292027c धारयामास तं गर्भं दैवं च विधिनिर्मितम् 03293001 वैशंपायन उवाच 03293001a एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा 03293001c सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ 03293002a तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि 03293002c राधा नाम महाभागा न सा पुत्रमविन्दत 03293002e अपत्यार्थे परं यत्नमकरोच्च विशेषतः 03293003a सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया 03293003c दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् 03293003e ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् 03293004a सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी 03293004c ततो निवेदयामास सूतस्याधिरथस्य वै 03293005a स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् 03293005c यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् 03293006a तरुणादित्यसंकाशं हेमवर्मधरं तथा 03293006c मृष्टकुण्डलयुक्तेन वदनेन विराजता 03293007a स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः 03293007c अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् 03293008a इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि 03293008c दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः 03293009a अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम 03293009c इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते 03293010a प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् 03293010c पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् 03293011a पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् 03293011c ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः 03293012a वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् 03293012c नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः 03293013a एवं स सूतपुत्रत्वं जगामामितविक्रमः 03293013c वसुषेण इति ख्यातो वृष इत्येव च प्रभुः 03293014a स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् 03293014c चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् 03293015a सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः 03293015c दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् 03293016a तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि 03293016c सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् 03293017a द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् 03293017c लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः 03293018a संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः 03293018c योद्धुमाशंसते नित्यं फल्गुनेन महात्मना 03293019a सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते 03293019c अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः 03293020a तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् 03293020c अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः 03293021a यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् 03293021c स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः 03293022a तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः 03293022c नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु 03293023a तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः 03293023c स्वागतं चेति राधेयस्तमथ प्रत्यभाषत 03294001 वैशंपायन उवाच 03294001a देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः 03294001c दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् 03294002a हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् 03294002c किं ददानीति तं विप्रमुवाचाधिरथिस्ततः 03294003 ब्राह्मण उवाच 03294003a हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् 03294003c नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् 03294004a यदेतत्सहजं वर्म कुण्डले च तवानघ 03294004c एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् 03294005a एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप 03294005c एष मे सर्वलाभानां लाभः परमको मतः 03294006 कर्ण उवाच 03294006a अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् 03294006c तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले 03294007 वैशंपायन उवाच 03294007a एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः 03294007c कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत 03294008a सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि 03294008c नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् 03294009a यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः 03294009c तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव 03294010a सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे 03294010c तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् 03294011a विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् 03294011c प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव 03294012a कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च 03294012c गमनीयो भविष्यामि शत्रूणां द्विजसत्तम 03294013a यदा नान्यं वरं वव्रे भगवान्पाकशासनः 03294013c ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः 03294014a विदितो देवदेवेश प्रागेवासि मम प्रभो 03294014c न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् 03294015a त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम 03294015c अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् 03294016a यदि दास्यामि ते देव कुण्डले कवचं तथा 03294016c वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् 03294017a तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् 03294017c हरस्व शक्र कामं मे न दद्यामहमन्यथा 03294018 शक्र उवाच 03294018a विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् 03294018c तेन ते सर्वमाख्यातमेवमेतन्न संशयः 03294019a काममस्तु तथा तात तव कर्ण यथेच्छसि 03294019c वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि 03294020 वैशंपायन उवाच 03294020a ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् 03294020c अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः 03294021 कर्ण उवाच 03294021a वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव 03294021c अमोघां शत्रुसंघानां घातनीं पृतनामुखे 03294022 वैशंपायन उवाच 03294022a ततः संचिन्त्य मनसा मुहूर्तमिव वासवः 03294022c शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् 03294023a कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् 03294023c गृहाण कर्ण शक्तिं त्वमनेन समयेन मे 03294024a अमोघा हन्ति शतशः शत्रून्मम करच्युता 03294024c पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः 03294025a सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् 03294025c गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज 03294026 कर्ण उवाच 03294026a एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे 03294026c गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् 03294027 इन्द्र उवाच 03294027a एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे 03294027c त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना 03294028a यमाहुर्वेदविद्वांसो वराहमजितं हरिम् 03294028c नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते 03294029 कर्ण उवाच 03294029a एवमप्यस्तु भगवन्नेकवीरवधे मम 03294029c अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् 03294030a उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते 03294030c निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् 03294031 इन्द्र उवाच 03294031a न ते बीभत्सता कर्ण भविष्यति कथंचन 03294031c व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि 03294032a यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर 03294032c तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः 03294033a विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये 03294033c प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति 03294034 कर्ण उवाच 03294034a संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् 03294034c यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते 03294035 वैशंपायन उवाच 03294035a ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते 03294035c शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत 03294036a ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् 03294036c दृष्ट्वा सर्वे सिद्धसंघाश्च नेदु;र्न ह्यस्यासीद्दुःखजो वै विकारः 03294037a ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् 03294037c दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् 03294038a ततश्छित्त्वा कवचं दिव्यमङ्गा;त्तथैवार्द्रं प्रददौ वासवाय 03294038c तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः 03294039a ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा 03294039c कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात 03294040a श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् 03294040c तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः 03294041 जनमेजय उवाच 03294041a क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते 03294041c किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु 03294042 वैशंपायन उवाच 03294042a लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते 03294042c मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण 03294043a प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च 03294043c ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् 03295001 जनमेजय उवाच 03295001a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 03295001c प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः 03295002 वैशंपायन उवाच 03295002a एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् 03295002c विहाय काम्यकं राजा सह भ्रातृभिरच्युतः 03295003a पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः 03295003c स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति 03295004a अनुगुप्तफलाहाराः सर्व एव मिताशनाः 03295004c न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत 03295005a वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः 03295005c भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ 03295006a ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः 03295006c क्लेशमार्छन्त विपुलं सुखोदर्कं परंतपाः 03295007a अजातशत्रुमासीनं भ्रातृभिः सहितं वने 03295007c आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत् 03295008a अरणीसहितं मह्यं समासक्तं वनस्पतौ 03295008c मृगस्य घर्षमाणस्य विषाणे समसज्जत 03295009a तदादाय गतो राजंस्त्वरमाणो महामृगः 03295009c आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः 03295010a तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् 03295010c अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः 03295011a ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः 03295011c धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह 03295012a सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः 03295012c ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् 03295013a कर्णिनालीकनाराचानुत्सृजन्तो महारथाः 03295013c नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् 03295014a तेषां प्रयतमानानां नादृश्यत महामृगः 03295014c अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः 03295015a शीतलच्छायमासाद्य न्यग्रोधं गहने वने 03295015c क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् 03295016a तेषां समुपविष्टानां नकुलो दुःखितस्तदा 03295016c अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम 03295017a नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव 03295017c अनुत्तराः सर्वभूतेषु भूयः; संप्राप्ताः स्मः संशयं केन राजन् 03296001 युधिष्ठिर उवाच 03296001a नापदामस्ति मर्यादा न निमित्तं न कारणम् 03296001c धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः 03296002 भीम उवाच 03296002a प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा 03296002c न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् 03296003 अर्जुन उवाच 03296003a वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः 03296003c अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् 03296004 सहदेव उवाच 03296004a शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत 03296004c स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् 03296005 वैशंपायन उवाच 03296005a ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् 03296005c आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश 03296006a पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् 03296006c इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः 03296007a नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् 03296007c अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः 03296008a पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् 03296008c सारसानां च निर्ह्रादमत्रोदकमसंशयम् 03296009a ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः 03296009c गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय 03296010a नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् 03296010c प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत 03296011a स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् 03296011c पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे 03296012a मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 03296012c प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च 03296013a अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः 03296013c अपिबच्छीतलं तोयं पीत्वा च निपपात ह 03296014a चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः 03296014c अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् 03296015a भ्राता चिरायते तात सहदेव तवाग्रजः 03296015c तं चैवानय सोदर्यं पानीयं च त्वमानय 03296016a सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत 03296016c ददर्श च हतं भूमौ भ्रातरं नकुलं तदा 03296017a भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः 03296017c अभिदुद्राव पानीयं ततो वागभ्यभाषत 03296018a मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 03296018c प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च 03296019a अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः 03296019c अपिबच्छीतलं तोयं पीत्वा च निपपात ह 03296020a अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः 03296020c भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन 03296020e तौ चैवानय भद्रं ते पानीयं च त्वमानय 03296021a एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः 03296021c आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत 03296022a यतः पुरुषशार्दूलौ पानीयहरणे गतौ 03296022c तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः 03296023a प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः 03296023c धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् 03296024a नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने 03296024c सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत 03296025a अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे 03296025c किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया 03296026a कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे 03296026c ततः पास्यसि पानीयं हरिष्यसि च भारत 03296027a वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय 03296027c यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि 03296028a एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः 03296028c ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् 03296029a कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ 03296029c अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह 03296030 यक्ष उवाच 03296030a किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब 03296030c अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि 03296031 वैशंपायन उवाच 03296031a स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः 03296031c अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह 03296032a अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः 03296032c नकुलः सहदेवश्च बीभत्सुश्चापराजितः 03296033a चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत 03296033c तांश्चैवानय भद्रं ते पानीयं च त्वमानय 03296034a भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत 03296034c यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः 03296035a तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः 03296035c अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् 03296035e स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे 03296036a पास्यामि तावत्पानीयमिति पार्थो वृकोदरः 03296036c ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः 03296037 यक्ष उवाच 03296037a मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 03296037c प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 03296038 वैशंपायन उवाच 03296038a एवमुक्तस्ततो भीमो यक्षेणामिततेजसा 03296038c अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह 03296039a ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः 03296039c समुत्थाय महाबाहुर्दह्यमानेन चेतसा 03296040a अपेतजननिर्घोषं प्रविवेश महावनम् 03296040c रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् 03296041a नीलभास्वरवर्णैश्च पादपैरुपशोभितम् 03296041c भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः 03296042a स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् 03296042c ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा 03296043a उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः 03296043c केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् 03296043e श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः 03297001 वैशंपायन उवाच 03297001a स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् 03297001c युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् 03297002a विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् 03297002c भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः 03297003a स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः 03297003c बुद्ध्या विचिन्तयामास वीराः केन निपातिताः 03297004a नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् 03297004c भूतं महदिदं मन्ये भ्रातरो येन मे हताः 03297004e एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् 03297005a स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् 03297005c गान्धारराजरचितं सततं जिह्मबुद्धिना 03297006a यस्य कार्यमकार्यं वा सममेव भवत्युत 03297006c कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः 03297007a अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः 03297007c भवेदिति महाबाहुर्बहुधा समचिन्तयत् 03297008a तस्यासीन्न विषेणेदमुदकं दूषितं यथा 03297008c मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् 03297009a एकैकशश्चौघबलानिमान्पुरुषसत्तमान् 03297009c कोऽन्यः प्रतिसमासेत कालान्तकयमादृते 03297010a एतेनाध्यवसायेन तत्तोयमवगाढवान् 03297010c गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे 03297011 यक्ष उवाच 03297011a अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः 03297011c त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि 03297012a मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः 03297012c प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 03297013 युधिष्ठिर उवाच 03297013a रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् 03297013c पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् 03297014a हिमवान्पारियात्रश्च विन्ध्यो मलय एव च 03297014c चत्वारः पर्वताः केन पातिता भुवि तेजसा 03297015a अतीव ते महत्कर्म कृतं बलवतां वर 03297015c यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः 03297015e विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् 03297016a न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् 03297016c कौतूहलं महज्जातं साध्वसं चागतं मम 03297017a येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः 03297017c पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति 03297018 यक्ष उवाच 03297018a यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः 03297018c मयैते निहताः सर्वे भ्रातरस्ते महौजसः 03297019 वैशंपायन उवाच 03297019a ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् 03297019c यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः 03297020a विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् 03297020c ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् 03297021a सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः 03297021c मेघगम्भीरया वाचा तर्जयन्तं महाबलम् 03297022 यक्ष उवाच 03297022a इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् 03297022c बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया 03297023a न पेयमुदकं राजन्प्राणानिह परीप्सता 03297023c पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः 03297023e प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च 03297024 युधिष्ठिर उवाच 03297024a नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् 03297024c कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा 03297025a यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो 03297025c यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् 03297026 यक्ष उवाच 03297026a किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः 03297026c कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति 03297027 युधिष्ठिर उवाच 03297027a ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः 03297027c धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति 03297028 यक्ष उवाच 03297028a केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् 03297028c केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् 03297029 युधिष्ठिर उवाच 03297029a श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् 03297029c धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया 03297030 यक्ष उवाच 03297030a किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव 03297030c कश्चैषां मानुषो भावः किमेषामसतामिव 03297031 युधिष्ठिर उवाच 03297031a स्वाध्याय एषां देवत्वं तप एषां सतामिव 03297031c मरणं मानुषो भावः परिवादोऽसतामिव 03297032 यक्ष उवाच 03297032a किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव 03297032c कश्चैषां मानुषो भावः किमेषामसतामिव 03297033 युधिष्ठिर उवाच 03297033a इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव 03297033c भयं वै मानुषो भावः परित्यागोऽसतामिव 03297034 यक्ष उवाच 03297034a किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः 03297034c का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते 03297035 युधिष्ठिर उवाच 03297035a प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः 03297035c वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते 03297036 यक्ष उवाच 03297036a किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् 03297036c किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् 03297037 युधिष्ठिर उवाच 03297037a वर्षमापततां श्रेष्ठं बीजं निपततां वरम् 03297037c गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः 03297038 यक्ष उवाच 03297038a इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः 03297038c संमतः सर्वभूतानामुच्छ्वसन्को न जीवति 03297039 युधिष्ठिर उवाच 03297039a देवतातिथिभृत्यानां पितॄणामात्मनश्च यः 03297039c न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति 03297040 यक्ष उवाच 03297040a किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् 03297040c किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् 03297041 युधिष्ठिर उवाच 03297041a माता गुरुतरा भूमेः पिता उच्चतरश्च खात् 03297041c मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् 03297042 यक्ष उवाच 03297042a किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति 03297042c कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते 03297043 युधिष्ठिर उवाच 03297043a मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति 03297043c अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 03297044 यक्ष उवाच 03297044a किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः 03297044c आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः 03297045 युधिष्ठिर उवाच 03297045a सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः 03297045c आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः 03297046 यक्ष उवाच 03297046a किं स्विदेको विचरति जातः को जायते पुनः 03297046c किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् 03297047 युधिष्ठिर उवाच 03297047a सूर्य एको विचरति चन्द्रमा जायते पुनः 03297047c अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् 03297048 यक्ष उवाच 03297048a किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः 03297048c किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् 03297049 युधिष्ठिर उवाच 03297049a दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः 03297049c सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् 03297050 यक्ष उवाच 03297050a किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा 03297050c उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् 03297051 युधिष्ठिर उवाच 03297051a पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा 03297051c उपजीवनं च पर्जन्यो दानमस्य परायणम् 03297052 यक्ष उवाच 03297052a धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् 03297052c लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् 03297053 युधिष्ठिर उवाच 03297053a धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् 03297053c लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा 03297054 यक्ष उवाच 03297054a कश्च धर्मः परो लोके कश्च धर्मः सदाफलः 03297054c किं नियम्य न शोचन्ति कैश्च संधिर्न जीर्यते 03297055 युधिष्ठिर उवाच 03297055a आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः 03297055c मनो यम्य न शोचन्ति सद्भिः संधिर्न जीर्यते 03297056 यक्ष उवाच 03297056a किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति 03297056c किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् 03297057 युधिष्ठिर उवाच 03297057a मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति 03297057c कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् 03297058 यक्ष उवाच 03297058a मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् 03297058c श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् 03297059 युधिष्ठिर उवाच 03297059a मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् 03297059c मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः 03297060 यक्ष उवाच 03297060a का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् 03297060c श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च 03297061 युधिष्ठिर उवाच 03297061a सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् 03297061c श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे 03297062 यक्ष उवाच 03297062a व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप 03297062c पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः 03297063 युधिष्ठिर उवाच 03297063a दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 03297063c यावत्स शब्दो भवति तावत्पुरुष उच्यते 03297064a तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च 03297064c अतीतानागते चोभे स वै सर्वधनी नरः 03297065 यक्ष उवाच 03297065a व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः 03297065c तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु 03297066 युधिष्ठिर उवाच 03297066a श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः 03297066c व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु 03297067 यक्ष उवाच 03297067a प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् 03297067c स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि 03297068a यस्य नागसहस्रेण दशसंख्येन वै बलम् 03297068c तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि 03297069a तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव 03297069c अथ केनानुभावेन सापत्नं जीवमिच्छसि 03297070a यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः 03297070c अर्जुनं तमपाहाय नकुलं जीवमिच्छसि 03297071 युधिष्ठिर उवाच 03297071a आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् 03297071c आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु 03297072a धर्मशीलः सदा राजा इति मां मानवा विदुः 03297072c स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु 03297073a यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः 03297073c मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु 03297074 यक्ष उवाच 03297074a यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् 03297074c तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ 03298001 वैशंपायन उवाच 03298001a ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः 03298001c क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् 03298002 युधिष्ठिर उवाच 03298002a सरस्येकेन पादेन तिष्ठन्तमपराजितम् 03298002c पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् 03298003a वसूनां वा भवानेको रुद्राणामथ वा भवान् 03298003c अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः 03298004a मम हि भ्रातर इमे सहस्रशतयोधिनः 03298004c न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः 03298005a सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये 03298005c स भवान्सुहृदस्माकमथ वा नः पिता भवान् 03298006 यक्ष उवाच 03298006a अहं ते जनकस्तात धर्मो मृदुपराक्रम 03298006c त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ 03298007a यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् 03298007c दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम 03298008a अहिंसा समता शान्तिस्तपः शौचममत्सरः 03298008c द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम 03298009a दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता 03298009c द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके 03298010a धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः 03298010c आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ 03298011a वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ 03298011c ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः 03298012 युधिष्ठिर उवाच 03298012a अरणीसहितं यस्य मृग आदाय गच्छति 03298012c तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम 03298013 धर्म उवाच 03298013a अरणीसहितं तस्य ब्राह्मणस्य हृतं मया 03298013c मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो 03298014 वैशंपायन उवाच 03298014a ददानीत्येव भगवानुत्तरं प्रत्यपद्यत 03298014c अन्यं वरय भद्रं ते वरं त्वममरोपम 03298015 युधिष्ठिर उवाच 03298015a वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् 03298015c तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् 03298016 वैशंपायन उवाच 03298016a ददानीत्येव भगवानुत्तरं प्रत्यपद्यत 03298016c भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् 03298017a यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् 03298017c न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत 03298018a वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः 03298018c विराटनगरे गूढा अविज्ञाताश्चरिष्यथ 03298019a यद्वः संकल्पितं रूपं मनसा यस्य यादृशम् 03298019c तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ 03298020a अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत 03298020c जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा 03298021a तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् 03298021c त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् 03298022 युधिष्ठिर उवाच 03298022a देवदेवो मया दृष्टो भवान्साक्षात्सनातनः 03298022c यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः 03298023a जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो 03298023c दाने तपसि सत्ये च मनो मे सततं भवेत् 03298024 धर्म उवाच 03298024a उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव 03298024c भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति 03298025 वैशंपायन उवाच 03298025a इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः 03298025c समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः 03298026a अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः 03298026c आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने 03298027a इदं समुत्थानसमागमं मह;त्पितुश्च पुत्रस्य च कीर्तिवर्धनम् 03298027c पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् 03298028a न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने 03298028c कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् 03299001 वैशंपायन उवाच 03299001a धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः 03299001c अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् 03299001e उपोपविश्य विद्वांसः सहिताः संशितव्रताः 03299002a ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः 03299002c तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा 03299002e अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः 03299003a विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् 03299003c छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः 03299004a उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् 03299004c अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् 03299004e तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ 03299005a सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः 03299005c जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः 03299005e युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च 03299006a अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह 03299006c समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि 03299007a इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा 03299007c संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः 03299008a तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह 03299008c अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा 03299009a राजन्विद्वान्भवान्दान्तः सत्यसंधो जितेन्द्रियः 03299009c नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिदापदि 03299010a देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा 03299010c तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः 03299011a इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा 03299011c छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे 03299012a विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता 03299012c गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् 03299013a प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा 03299013c बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् 03299014a और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा 03299014c यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया 03299015a प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे 03299015c वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् 03299016a हुताशनेन यच्चापः प्रविश्य छन्नमासता 03299016c विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया 03299017a एवं विवस्वता तात छन्नेनोत्तमतेजसा 03299017c निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः 03299018a विष्णुना वसता चापि गृहे दशरथस्य वै 03299018c दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा 03299019a एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह 03299019c अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि 03299020a तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः 03299020c शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः 03299021a अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः 03299021c राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् 03299022a अवेक्षया महाराज तव गाण्डीवधन्वना 03299022c धर्मानुगतया बुद्ध्या न किंचित्साहसं कृतम् 03299023a सहदेवो मया नित्यं नकुलश्च निवारितौ 03299023c शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ 03299024a न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् 03299024c भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् 03299025a इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः 03299025c प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् 03299026a सर्वे वेदविदो मुख्या यतयो मुनयस्तथा 03299026c आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः 03299027a सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः 03299027c उत्थाय प्रययुर्वीराः कृष्णामादाय भारत 03299028a क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः 03299028c श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः 03299029a पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः 03299029c संधिविग्रहकालज्ञा मन्त्राय समुपाविशन्