% Mahabharata: Sabhaparvan % Last updated: Wed Apr 19 2006 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 1999 % 02001001 वैशंपायन उवाच 02001001a ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ 02001001c प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः 02001002a अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः 02001002c त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते 02001003 अर्जुन उवाच 02001003a कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर 02001003c प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते 02001004 मय उवाच 02001004a युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ 02001004c प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत 02001005a अहं हि विश्वकर्मा वै दानवानां महाकविः 02001005c सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव 02001006 अर्जुन उवाच 02001006a प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया 02001006c एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया 02001007a न चापि तव संकल्पं मोघमिच्छामि दानव 02001007c कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि 02001008 वैशंपायन उवाच 02001008a चोदितो वासुदेवस्तु मयेन भरतर्षभ 02001008c मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति 02001009a चोदयामास तं कृष्णः सभा वै क्रियतामिति 02001009c धर्मराजस्य दैतेय यादृशीमिह मन्यसे 02001010a यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः 02001010c मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् 02001011a यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया 02001011c आसुरान्मानुषांश्चैव तां सभां कुरु वै मय 02001012a प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा 02001012c विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा 02001013a ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे 02001013c सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् 02001014a तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा 02001014c स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः 02001015a स पूर्वदेवचरितं तत्र तत्र विशां पते 02001015c कथयामास दैतेयः पाण्डुपुत्रेषु भारत 02001016a स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च 02001016c सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् 02001017a अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः 02001017c पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः 02001018a तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः 02001018c धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् 02001019a सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् 02001019c दशकिष्कुसहस्रां तां मापयामास सर्वतः 02002001 वैशंपायन उवाच 02002001a उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः 02002001c पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः 02002002a गमनाय मतिं चक्रे पितुर्दर्शनलालसः 02002002c धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः 02002003a ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः 02002003c स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः 02002004a ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः 02002004c तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः 02002005a अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् 02002005c उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् 02002006a तया स्वजनगामीनि श्रावितो वचनानि सः 02002006c संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः 02002007a तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् 02002007c ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः 02002008a ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः 02002008c द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः 02002009a भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली 02002009c भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः 02002010a अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः 02002010c माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि 02002010e स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः 02002011a स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः 02002011c वसु प्रदाय च ततः प्रदक्षिणमवर्तत 02002012a काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् 02002012c गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् 02002013a तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते 02002013c प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः 02002014a अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः 02002014c अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् 02002014e अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा 02002015a उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् 02002015c रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् 02002016a तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी 02002016c पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः 02002017a स तथा भ्रातृभिः सार्धं केशवः परवीरहा 02002017c अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः 02002018a पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् 02002018c युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा 02002019a परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः 02002019c ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः 02002020a निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् 02002020c स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः 02002021a लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा 02002021c मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् 02002022a अतृप्तमनसामेव तेषां केशवदर्शने 02002022c क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः 02002023a अकामा इव पार्थास्ते गोविन्दगतमानसाः 02002023c निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः 02002023e स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् 02003001 वैशंपायन उवाच 02003001a अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् 02003001c आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् 02003002a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02003002c यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया 02003002e कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति 02003003a सभायां सत्यसंधस्य यदासीद्वृषपर्वणः 02003003c आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत 02003004a ततः सभां करिष्यामि पाण्डवाय यशस्विने 02003004c मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् 02003005a अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह 02003005c निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् 02003005e सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा 02003006a सा वै शतसहस्रस्य संमिता सर्वघातिनी 02003006c अनुरूपा च भीमस्य गाण्डीवं भवतो यथा 02003007a वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् 02003007c सर्वमेतत्प्रदास्यामि भवते नात्र संशयः 02003007e इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् 02003008a उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 02003008c हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः 02003009a रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 02003009c दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः 02003010a यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना 02003010c आहृताः क्रतवो मुख्याः शतं भरतसत्तम 02003011a यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः 02003011c शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः 02003012a यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः 02003012c यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः 02003012e उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः 02003013a नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः 02003013c उपासते यत्र सत्रं सहस्रयुगपर्यये 02003014a यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः 02003014c श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये 02003015a सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः 02003015c ददौ यत्र सहस्राणि प्रयुतानि च केशवः 02003016a तत्र गत्वा स जग्राह गदां शङ्खं च भारत 02003016c स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः 02003016e किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत् 02003017a तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् 02003017c विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् 02003018a गदां च भीमसेनाय प्रवरां प्रददौ तदा 02003018c देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् 02003019a सभा तु सा महाराज शातकुम्भमयद्रुमा 02003019c दश किष्कुसहस्राणि समन्तादायताभवत् 02003020a यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा 02003020c भ्राजमाना तथा दिव्या बभार परमं वपुः 02003021a प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् 02003021c प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा 02003022a नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता 02003022c आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा 02003023a उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी 02003023c बहुरत्ना बहुधना सुकृता विश्वकर्मणा 02003024a न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी 02003024c आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः 02003025a तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च 02003025c सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः 02003026a अन्तरिक्षचरा घोरा महाकाया महाबलाः 02003026c रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः 02003027a तस्यां सभायां नलिनीं चकाराप्रतिमां मयः 02003027c वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् 02003028a पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् 02003028c पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् 02003029a सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् 02003029c मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् 02003030a मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः 02003030c दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत 02003031a तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः 02003031c आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः 02003032a काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः 02003032c हंसकारण्डवयुताश्चक्रवाकोपशोभिताः 02003033a जलजानां च माल्यानां स्थलजानां च सर्वशः 02003033c मारुतो गन्धमादाय पाण्डवान्स्म निषेवते 02003034a ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः 02003034c निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् 02004001 वैशंपायन उवाच 02004001a ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः 02004001c अयुतं भोजयामास ब्राह्मणानां नराधिपः 02004002a घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा 02004002c अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि 02004003a ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः 02004003c पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत 02004004a वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि 02004004c पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च 02004005a तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा 02004005c उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् 02004006a तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः 02004006c तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि 02004007a सभायामृषयस्तस्यां पाण्डवैः सह आसते 02004007c आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः 02004008a असितो देवलः सत्यः सर्पमाली महाशिराः 02004008c अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः 02004009a बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः 02004009c सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् 02004010a तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः 02004010c अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ 02004011a दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः 02004011c मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ 02004012a बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः 02004012c जातूकर्णः शिखावांश्च सुबलः पारिजातकः 02004013a पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः 02004013c पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा 02004014a जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः 02004014c हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः 02004015a कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः 02004015c पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः 02004015e कर्करो वेणुजङ्घश्च कलापः कठ एव च 02004016a मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः 02004016c एते चान्ये च बहवो वेदवेदाङ्गपारगाः 02004017a उपासते महात्मानं सभायामृषिसत्तमाः 02004017c कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः 02004018a तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते 02004018c श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः 02004019a संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् 02004019c कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः 02004019e काम्बोजराजः कमलः कम्पनश्च महाबलः 02004020a सततं कम्पयामास यवनानेक एव यः 02004020c यथासुरान्कालकेयान्देवो वज्रधरस्तथा 02004021a जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः 02004021c तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण 02004022a किरातराजः सुमना यवनाधिपतिस्तथा 02004022c चाणूरो देवरातश्च भोजो भीमरथश्च यः 02004023a श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः 02004023c सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः 02004024a केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः 02004024c सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः 02004025a अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः 02004025c शिशुपालः सहसुतः करूषाधिपतिस्तथा 02004026a वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः 02004026c आहुको विपृथुश्चैव गदः सारण एव च 02004027a अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः 02004027c भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् 02004027e केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः 02004028a अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः 02004028c अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः 02004029a तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः 02004029c रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः 02004030a एते चान्ये च बहवो राजानः पृथिवीपते 02004030c धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः 02004031a चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा 02004031c गीतवादित्रकुशलाः शम्यातालविशारदाः 02004032a प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः 02004032c संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः 02004033a गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः 02004033c पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते 02004034a तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः 02004034c दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते 02005001 वैशंपायन उवाच 02005001a तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु 02005001c महत्सु चोपविष्टेषु गन्धर्वेषु च भारत 02005002a लोकाननुचरन्सर्वानागमत्तां सभामृषिः 02005002c नारदः सुमहातेजा ऋषिभिः सहितस्तदा 02005003a पारिजातेन राजेन्द्र रैवतेन च धीमता 02005003c सुमुखेन च सौम्येन देवर्षिरमितद्युतिः 02005003e सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः 02005004a तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् 02005004c सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह 02005004e अभ्यवादयत प्रीत्या विनयावनतस्तदा 02005005a तदर्हमासनं तस्मै संप्रदाय यथाविधि 02005005c अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् 02005006a सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः 02005006c धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् 02005007 नारद उवाच 02005007a कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः 02005007c सुखानि चानुभूयन्ते मनश्च न विहन्यते 02005008a कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः 02005008c वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु 02005009a कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा 02005009c उभौ वा प्रीतिसारेण न कामेन प्रबाधसे 02005010a कच्चिदर्थं च धर्मं च कामं च जयतां वर 02005010c विभज्य काले कालज्ञ सदा वरद सेवसे 02005011a कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ 02005011c बलाबलं तथा सम्यक्चतुर्दश परीक्षसे 02005012a कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर 02005012c तथा संधाय कर्माणि अष्टौ भारत सेवसे 02005013a कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ 02005013c आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः 02005014a कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः 02005014c त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् 02005015a कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे 02005015c कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे 02005016a कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः 02005016c कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः 02005017a विजयो मन्त्रमूलो हि राज्ञां भवति भारत 02005017c सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः 02005018a कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे 02005018c कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् 02005019a कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह 02005019c कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति 02005020a कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् 02005020c क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् 02005021a कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः 02005021c सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् 02005022a कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः 02005022c विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् 02005023a कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः 02005023c कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः 02005024a कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् 02005024c पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् 02005025a कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः 02005025c यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः 02005026a एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः 02005026c राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् 02005027a कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च 02005027c त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः 02005028a कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा 02005028c नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन 02005029a कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः 02005029c अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः 02005030a कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः 02005030c हुतं च होष्यमाणं च काले वेदयते सदा 02005031a कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः 02005031c उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव 02005032a कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः 02005032c जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः 02005033a अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् 02005033c श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु 02005034a कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः 02005034c राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ 02005035a कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा 02005035c उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः 02005036a कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः 02005036c कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव 02005037a कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः 02005037c दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः 02005038a कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् 02005038c संप्राप्तकालं दातव्यं ददासि न विकर्षसि 02005039a कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः 02005039c भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः 02005040a कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः 02005040c कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि 02005041a कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान् 02005041c अनुशास्सि यथाकामं कामात्मा शासनातिगः 02005042a कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् 02005042c लभते मानमधिकं भूयो वा भक्तवेतनम् 02005043a कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् 02005043c यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे 02005044a कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् 02005044c व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ 02005045a कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् 02005045c युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि 02005046a कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते 02005046c समश्च नाभिशङ्क्यश्च यथा माता यथा पिता 02005047a कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ 02005047c अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् 02005048a पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् 02005048c बलस्य च महाराज दत्त्वा वेतनमग्रतः 02005049a कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप 02005049c उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः 02005050a कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः 02005050c पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् 02005051a कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः 02005051c साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः 02005052a कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते 02005052c तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि 02005053a कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः 02005053c बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी 02005054a कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप 02005054c अविहाय महाराज विहंसि समरे रिपून् 02005055a कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव 02005055c अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् 02005056a कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च 02005056c घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव 02005057a कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् 02005057c आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः 02005058a कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते 02005058c रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् 02005059a कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च 02005059c प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव 02005060a कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः 02005060c पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव 02005061a कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् 02005061c अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् 02005062a कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः 02005062c अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव 02005063a कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान् 02005063c नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् 02005064a कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् 02005064c त्वं कर्मस्वनुरूपेषु नियोजयसि भारत 02005065a कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते 02005065c अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः 02005066a कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा 02005066c त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः 02005067a कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च 02005067c भागशो विनिविष्टानि न कृषिर्देवमातृका 02005068a कच्चिद्बीजं च भक्तं च कर्षकायावसीदते 02005068c प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् 02005069a कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः 02005069c वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते 02005070a कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः 02005070c क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव 02005071a कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः 02005071c ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः 02005072a कच्चिद्बलेनानुगताः समानि विषमाणि च 02005072c पुराणचौराः साध्यक्षाश्चरन्ति विषये तव 02005073a कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः 02005073c कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे 02005074a कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च 02005074c प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् 02005075a कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते 02005075c संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे 02005076a कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान् 02005076c उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः 02005077a कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः 02005077c अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम 02005078a कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते 02005078c परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च 02005079a कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा 02005079c मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि 02005080a कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः 02005080c सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा 02005081a कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते 02005081c अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथंचन 02005082a कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा 02005082c आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च 02005083a कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः 02005083c त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन 02005084a कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः 02005084c मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर 02005085a कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः 02005085c कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः 02005086a कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते 02005086c ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा 02005087a कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः 02005087c वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे 02005088a कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः 02005088c गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् 02005089a कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः 02005089c पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् 02005090a कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि 02005090c चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि 02005091a कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ 02005091c आयुष्या च यशस्या च धर्मकामार्थदर्शिनी 02005092a एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति 02005092c विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते 02005093a कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि 02005093c अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः 02005094a पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः 02005094c कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ 02005095a व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत 02005095c अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः 02005096a नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 02005096c अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् 02005097a एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् 02005097c निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् 02005098a मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च 02005098c कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश 02005099a कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् 02005099c कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् 02005100 युधिष्ठिर उवाच 02005100a कथं वै सफला वेदाः कथं वै सफलं धनम् 02005100c कथं वै सफला दाराः कथं वै सफलं श्रुतम् 02005101 नारद उवाच 02005101a अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् 02005101c रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् 02005102 वैशंपायन उवाच 02005102a एतदाख्याय स मुनिर्नारदः सुमहातपाः 02005102c पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् 02005103 नारद उवाच 02005103a कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् 02005103c यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः 02005104a कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः 02005104c उपानयन्ति पण्यानि उपधाभिरवञ्चिताः 02005105a कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः 02005105c नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् 02005106a कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च 02005106c धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी 02005107a द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् 02005107c चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि 02005108a कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि 02005108c सतां मध्ये महाराज सत्करोषि च पूजयन् 02005109a कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ 02005109c हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो 02005110a कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ 02005110c धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् 02005111a कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ 02005111c विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः 02005112a कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा 02005112c रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि 02005113a कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् 02005113c पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि 02005114 वैशंपायन उवाच 02005114a एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य 02005114c प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् 02005115a एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा 02005115c उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च 02005116 नारद उवाच 02005116a एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे 02005116c स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् 02006001 वैशंपायन उवाच 02006001a संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् 02006001c प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः 02006002a भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् 02006002c यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया 02006003a राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः 02006003c यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् 02006004a वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो 02006004c न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः 02006005a एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च 02006005c मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् 02006006a नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः 02006006c अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः 02006007a भवान्संचरते लोकान्सदा नानाविधान्बहून् 02006007c ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः 02006008a ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् 02006008c इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः 02006009a तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् 02006009c पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा 02006010a मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता 02006010c सभा मणिमयी राजन्यथेयं तव भारत 02006011a सभां तु पितृराजस्य वरुणस्य च धीमतः 02006011c कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च 02006012a ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् 02006012c यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ 02006013a नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः 02006013c प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः 02006014a नारदं प्रत्युवाचेदं धर्मराजो महामनाः 02006014c सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् 02006015a किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः 02006015c पितामहं च के तस्यां सभायां पर्युपासते 02006016a वासवं देवराजं च यमं वैवस्वतं च के 02006016c वरुणं च कुबेरं च सभायां पर्युपासते 02006017a एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव 02006017c श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः 02006018a एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् 02006018c क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः 02007001 नारद उवाच 02007001a शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता 02007001c स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा 02007002a विस्तीर्णा योजनशतं शतमध्यर्धमायता 02007002c वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता 02007003a जराशोकक्लमापेता निरातङ्का शिवा शुभा 02007003c वेश्मासनवती रम्या दिव्यपादपशोभिता 02007004a तस्यां देवेश्वरः पार्थ सभायां परमासने 02007004c आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत 02007005a बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः 02007005c विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह 02007006a तस्यामुपासते नित्यं महात्मानं शतक्रतुम् 02007006c मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः 02007006e सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा 02007007a एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः 02007007c उपासते महात्मानं देवराजमरिंदमम् 02007008a तथा देवर्षयः सर्वे पार्थ शक्रमुपासते 02007008c अमला धूतपाप्मानो दीप्यमाना इवाग्नयः 02007008e तेजस्विनः सोमयुजो विपापा विगतक्लमाः 02007009a पराशरः पर्वतश्च तथा सावर्णिगालवौ 02007009c शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः 02007010a दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः 02007010c उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः 02007011a हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः 02007011c हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः 02007012a वातस्कन्धो विशाखश्च विधाता काल एव च 02007012c अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः 02007013a अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः 02007013c ईशानं सर्वलोकस्य वज्रिणं समुपासते 02007014a सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः 02007014c समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः 02007015a मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः 02007015c मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः 02007016a कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः 02007016c मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः 02007016e संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् 02007017a दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती 02007017c अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव 02007018a जलवाहास्तथा मेघा वायवः स्तनयित्नवः 02007018c प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः 02007019a अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा 02007019c भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत 02007020a यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः 02007020c यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते 02007021a तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः 02007021c नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि 02007021e रमयन्ति स्म नृपते देवराजं शतक्रतुम् 02007022a स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा 02007022c विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् 02007023a ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा 02007023c विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः 02007024a स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे 02007024c बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह 02007025a एते चान्ये च बहवो यतात्मानो यतव्रताः 02007025c विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः 02007025e ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा 02007026a एषा सभा मया राजन्दृष्टा पुष्करमालिनी 02007026c शतक्रतोर्महाराज याम्यां शृणु ममानघ 02008001 नारद उवाच 02008001a कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् 02008001c वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह 02008002a तैजसी सा सभा राजन्बभूव शतयोजना 02008002c विस्तारायामसंपन्ना भूयसी चापि पाण्डव 02008003a अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी 02008003c नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी 02008004a न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् 02008004c न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत 02008005a सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः 02008005c रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम 02008006a पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः 02008006c रसवन्ति च तोयानि शीतान्युष्णानि चैव ह 02008007a तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः 02008007c यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते 02008008a ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः 02008008c त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः 02008009a अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः 02008009c प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः 02008010a ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः 02008010c चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः 02008011a भरतस्तथा सुरथः सुनीथो नैषधो नलः 02008011c दिवोदासोऽथ सुमना अम्बरीषो भगीरथः 02008012a व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः 02008012c रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः 02008013a रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी 02008013c आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः 02008014a औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः 02008014c अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः 02008015a भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः 02008015c करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः 02008016a कपोतरोमा तृणकः सहदेवार्जुनौ तथा 02008016c रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः 02008017a अलर्कः कक्षसेनश्च गयो गौराश्व एव च 02008017c जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा 02008018a भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा 02008018c वैन्यो राजा वारिषेणः पुरुजो जनमेजयः 02008019a ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा 02008019c इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः 02008020a पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् 02008020c अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा 02008021a शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः 02008021c धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः 02008022a शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् 02008022c शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव 02008023a उशद्गवः शतरथो देवराजो जयद्रथः 02008023c वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा 02008024a अथापरे सहस्राणि ये गताः शशबिन्दवः 02008024c इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः 02008025a एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः 02008025c तस्यां सभायां राजर्षे वैवस्वतमुपासते 02008026a अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च 02008026c यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः 02008027a अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये 02008027c स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे 02008028a कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः 02008028c नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः 02008029a कालस्य नयने युक्ता यमस्य पुरुषाश्च ये 02008029c तस्यां शिंशपपालाशास्तथा काशकुशादयः 02008029e उपासते धर्मराजं मूर्तिमन्तो निरामयाः 02008030a एते चान्ये च बहवः पितृराजसभासदः 02008030c अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा 02008031a असंबाधा हि सा पार्थ रम्या कामगमा सभा 02008031c दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा 02008032a प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत 02008032c तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः 02008033a शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा 02008033c सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः 02008034a चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः 02008034c सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः 02008035a गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः 02008035c वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः 02008036a पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः 02008036c दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः 02008037a शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् 02008037c उपासते महात्मानं रूपयुक्ता मनस्विनः 02008038a ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः 02008038c वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् 02009001 नारद उवाच 02009001a युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा 02009001c प्रमाणेन यथा याम्या शुभप्राकारतोरणा 02009002a अन्तःसलिलमास्थाय विहिता विश्वकर्मणा 02009002c दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता 02009003a नीलपीतासितश्यामैः सितैर्लोहितकैरपि 02009003c अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः 02009004a तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः 02009004c अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः 02009005a सा सभा सुखसंस्पर्शा न शीता न च घर्मदा 02009005c वेश्मासनवती रम्या सिता वरुणपालिता 02009006a यस्यामास्ते स वरुणो वारुण्या सह भारत 02009006c दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः 02009007a स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः 02009007c आदित्यास्तत्र वरुणं जलेश्वरमुपासते 02009008a वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा 02009008c कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् 02009009a कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ 02009009c मणिमान्कुण्डलधरः कर्कोटकधनंजयौ 02009010a प्रह्लादो मूषिकादश्च तथैव जनमेजयः 02009010c पताकिनो मण्डलिनः फणवन्तश्च सर्वशः 02009011a एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर 02009011c उपासते महात्मानं वरुणं विगतक्लमाः 02009012a बलिर्वैरोचनो राजा नरकः पृथिवींजयः 02009012c प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः 02009013a सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः 02009013c घटोदरो महापार्श्वः क्रथनः पिठरस्तथा 02009014a विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः 02009014c दशग्रीवश्च वाली च मेघवासा दशावरः 02009015a कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः 02009015c दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः 02009016a स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः 02009016c सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः 02009017a ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा 02009017c उपासते महात्मानं सर्वे सुचरितव्रताः 02009018a तथा समुद्राश्चत्वारो नदी भागीरथी च या 02009018c कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी 02009019a विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती 02009019c इरावती वितस्ता च सिन्धुर्देवनदस्तथा 02009020a गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा 02009020c एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च 02009021a कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर 02009021c पल्वलानि तडागानि देहवन्त्यथ भारत 02009022a दिशस्तथा मही चैव तथा सर्वे महीधराः 02009022c उपासते महात्मानं सर्वे जलचरास्तथा 02009023a गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः 02009023c स्तुवन्तो वरुणं तस्यां सर्व एव समासते 02009024a महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः 02009024c सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते 02009025a एषा मया संपतता वारुणी भरतर्षभ 02009025c दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु 02010001 नारद उवाच 02010001a सभा वैश्रवणी राजञ्शतयोजनमायता 02010001c विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा 02010002a तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा 02010002c शशिप्रभा खेचरीणां कैलासशिखरोपमा 02010003a गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते 02010003c दिव्या हेममयैरुच्चैः पादपैरुपशोभिता 02010004a रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा 02010004c सिताभ्रशिखराकारा प्लवमानेव दृश्यते 02010005a तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः 02010005c स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः 02010006a दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते 02010006c दिव्यपादोपधाने च निषण्णः परमासने 02010007a मन्दाराणामुदाराणां वनानि सुरभीणि च 02010007c सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः 02010008a नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च 02010008c मनोहृदयसंह्लादी वायुस्तमुपसेवते 02010009a तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः 02010009c दिव्यतानेन गीतानि गान्ति दिव्यानि भारत 02010010a मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता 02010010c चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला 02010011a विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा 02010011c वर्गा च सौरभेयी च समीची बुद्बुदा लता 02010012a एताः सहस्रशश्चान्या नृत्तगीतविशारदाः 02010012c उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः 02010013a अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा 02010013c अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः 02010014a किंनरा नाम गन्धर्वा नरा नाम तथापरे 02010014c मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः 02010015a कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः 02010015c कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः 02010016a वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः 02010016c अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः 02010017a पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः 02010017c वृक्षवास्यनिकेतश्च चीरवासाश्च भारत 02010018a एते चान्ये च बहवो यक्षाः शतसहस्रशः 02010018c सदा भगवती च श्रीस्तथैव नलकूबरः 02010019a अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः 02010019c आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे 02010020a भगवान्भूतसंघैश्च वृतः शतसहस्रशः 02010020c उमापतिः पशुपतिः शूलधृग्भगनेत्रहा 02010021a त्र्यम्बको राजशार्दूल देवी च विगतक्लमा 02010021c वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः 02010022a मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः 02010022c नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः 02010022e वृतः सखायमन्वास्ते सदैव धनदं नृप 02010023a सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा 02010023c पितामहसभां राजन्कथयिष्ये गतक्लमाम् 02011001 नारद उवाच 02011001a पुरा देवयुगे राजन्नादित्यो भगवान्दिवः 02011001c आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः 02011002a चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः 02011002c सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव 02011003a अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ 02011003c अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् 02011004a श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन 02011004c दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् 02011005a भगवन्द्रष्टुमिच्छामि पितामहसभामहम् 02011005c येन सा तपसा शक्या कर्मणा वापि गोपते 02011006a औषधैर्वा तथा युक्तैरुत वा मायया यया 02011006c तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् 02011007a ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् 02011007c अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् 02011008a एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप 02011008c क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा 02011009a न वेद परिमाणं वा संस्थानं वापि भारत 02011009c न च रूपं मया तादृग्दृष्टपूर्वं कदाचन 02011010a सुसुखा सा सभा राजन्न शीता न च घर्मदा 02011010c न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत 02011011a नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः 02011011c स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा 02011012a अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा 02011012c दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् 02011013a तस्यां स भगवानास्ते विदधद्देवमायया 02011013c स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः 02011014a उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् 02011014c दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा 02011015a भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः 02011015c मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही 02011016a शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत 02011016c प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः 02011017a चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् 02011017c वायवः क्रतवश्चैव संकल्पः प्राण एव च 02011018a एते चान्ये च बहवः स्वयंभुवमुपस्थिताः 02011018c अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः 02011019a आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा 02011019c विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः 02011020a शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च 02011020c शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च 02011021a मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि 02011021c आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः 02011022a मरुतो विश्वकर्मा च वसवश्चैव भारत 02011022c तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ 02011023a ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव 02011023c अथर्ववेदश्च तथा पर्वाणि च विशां पते 02011024a इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः 02011024c ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः 02011025a सावित्री दुर्गतरणी वाणी सप्तविधा तथा 02011025c मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा 02011026a सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा 02011026c भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते 02011027a क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च 02011027c अर्धमासाश्च मासाश्च ऋतवः षट्च भारत 02011028a संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः 02011028c कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् 02011029a अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा 02011029c कालका सुरभिर्देवी सरमा चाथ गौतमी 02011030a आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि 02011030c विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः 02011031a राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा 02011031c सुपर्णनागपशवः पितामहमुपासते 02011032a देवो नारायणस्तस्यां तथा देवर्षयश्च ये 02011032c ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा 02011033a यच्च किंचित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् 02011033c सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप 02011034a अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् 02011034c प्रजावतां च पञ्चाशदृषीणामपि पाण्डव 02011035a ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः 02011035c प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् 02011036a अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा 02011036c यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा 02011037a महाभागानमितधीर्ब्रह्मा लोकपितामहः 02011037c दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते 02011038a प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः 02011038c सान्त्वमानार्थसंभोगैर्युनक्ति मनुजाधिप 02011039a तथा तैरुपयातैश्च प्रतियातैश्च भारत 02011039c आकुला सा सभा तात भवति स्म सुखप्रदा 02011040a सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता 02011040c ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा 02011041a सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा 02011041c सभेयं राजशार्दूल मनुष्येषु यथा तव 02011042a एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव 02011042c तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा 02011043 युधिष्ठिर उवाच 02011043a प्रायशो राजलोकस्ते कथितो वदतां वर 02011043c वैवस्वतसभायां तु यथा वदसि वै प्रभो 02011044a वरुणस्य सभायां तु नागास्ते कथिता विभो 02011044c दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा 02011045a तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा 02011045c गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः 02011046a पितामहसभायां तु कथितास्ते महर्षयः 02011046c सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि 02011047a शतक्रतुसभायां तु देवाः संकीर्तिता मुने 02011047c उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः 02011048a एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने 02011048c कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः 02011049a किं कर्म तेनाचरितं तपो वा नियतव्रतम् 02011049c येनासौ सह शक्रेण स्पर्धते स्म महायशाः 02011050a पितृलोकगतश्चापि त्वया विप्र पिता मम 02011050c दृष्टः पाण्डुर्महाभागः कथं चासि समागतः 02011051a किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् 02011051c त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे 02011052 नारद उवाच 02011052a यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो 02011052c तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः 02011053a स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् 02011053c तस्य सर्वे महीपालाः शासनावनताः स्थिताः 02011054a तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् 02011054c शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर 02011055a स विजित्य महीं सर्वां सशैलवनकाननाम् 02011055c आजहार महाराज राजसूयं महाक्रतुम् 02011056a तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया 02011056c द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् 02011057a प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः 02011057c यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् 02011058a अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा 02011058c प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान् 02011059a भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः 02011059c रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् 02011059e तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् 02011060a एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते 02011060c तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ 02011061a समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् 02011061c अभिषिक्तः स शुशुभे साम्राज्येन नराधिप 02011062a ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् 02011062c यजन्ते ते महेन्द्रेण मोदन्ते सह भारत 02011063a ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः 02011063c ते तत्सदः समासाद्य मोदन्ते भरतर्षभ 02011064a तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् 02011064c तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः 02011065a पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः 02011065c हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः 02011066a समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः 02011066c राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत 02011067a तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पाण्डव 02011067c गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् 02011068a बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् 02011068c छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः 02011069a युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् 02011069c किंचिदेव निमित्तं च भवत्यत्र क्षयावहम् 02011070a एतत्संचिन्त्य राजेन्द्र यत्क्षमं तत्समाचर 02011070c अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे 02011070e भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् 02011071a एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि 02011071c आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति 02011072 वैशंपायन उवाच 02011072a एवमाख्याय पार्थेभ्यो नारदो जनमेजय 02011072c जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः 02011073a गते तु नारदे पार्थो भ्रातृभिः सह कौरव 02011073c राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत 02012001 वैशंपायन उवाच 02012001a ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः 02012001c चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत 02012002a राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् 02012002c यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च 02012003a हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः 02012003c यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः 02012004a युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः 02012004c प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे 02012005a स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् 02012005c आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत् 02012006a भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् 02012006c किं हितं सर्वलोकानां भवेदिति मनो दधे 02012007a अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः 02012007c अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः 02012008a एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः 02012008c न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता 02012009a स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः 02012009c राजसूयं प्रति तदा पुनः पुनरपृच्छत 02012010a ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा 02012010c युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् 02012011a येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति 02012011c तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति 02012012a तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन 02012012c राजसूयस्य समयं मन्यन्ते सुहृदस्तव 02012013a तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा 02012013c साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः 02012014a दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् 02012014c अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते 02012015a समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् 02012015c अविचार्य महाराज राजसूये मनः कुरु 02012016a इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् 02012016c स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते 02012016e धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा 02012017a श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् 02012017c पुनः पुनर्मनो दध्रे राजसूयाय भारत 02012018a स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः 02012018c धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः 02012019 युधिष्ठिर उवाच 02012019a इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः 02012019c श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् 02012020 वैशंपायन उवाच 02012020a एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन 02012020c इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् 02012020e अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् 02012021a अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा 02012021c मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् 02012022a स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् 02012022c भूयो विममृशे पार्थो लोकानां हितकाम्यया 02012023a सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ 02012023c विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति 02012024a न हि यज्ञसमारम्भः केवलात्मविपत्तये 02012024c भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् 02012025a स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् 02012025c सर्वलोकात्परं मत्वा जगाम मनसा हरिम् 02012026a अप्रमेयं महाबाहुं कामाज्जातमजं नृषु 02012026c पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः 02012027a नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम् 02012027c न स किंचिन्न विषहेदिति कृष्णममन्यत 02012028a स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः 02012028c गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा 02012029a शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् 02012029c द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् 02012030a दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः 02012030c इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा 02012031a व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः 02012031c इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः 02012032a स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः 02012032c भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः 02012033a प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा 02012033c अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः 02012034a तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् 02012034c धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् 02012035 युधिष्ठिर उवाच 02012035a प्रार्थितो राजसूयो मे न चासौ केवलेप्सया 02012035c प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः 02012036a यस्मिन्सर्वं संभवति यश्च सर्वत्र पूज्यते 02012036c यश्च सर्वेश्वरो राजा राजसूयं स विन्दति 02012037a तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे 02012037c तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् 02012038a केचिद्धि सौहृदादेव दोषं न परिचक्षते 02012038c अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत 02012039a प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् 02012039c एवंप्रायाश्च दृश्यन्ते जनवादाः प्रयोजने 02012040a त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च 02012040c परमं नः क्षमं लोके यथावद्वक्तुमर्हसि 02013001 श्रीकृष्ण उवाच 02013001a सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि 02013001c जानतस्त्वेव ते सर्वं किंचिद्वक्ष्यामि भारत 02013002a जामदग्न्येन रामेण क्षत्रं यदवशेषितम् 02013002c तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम् 02013003a कृतोऽयं कुलसंकल्पः क्षत्रियैर्वसुधाधिप 02013003c निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ 02013004a ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते 02013004c राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि 02013005a ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः 02013005c तानि चैकशतं विद्धि कुलानि भरतर्षभ 02013006a ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् 02013006c भजते च महाराज विस्तरः स चतुर्दिशम् 02013007a तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते 02013007c सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत 02013008a चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् 02013008c स साम्राज्यं जरासंधः प्राप्तो भवति योनितः 02013009a तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः 02013009c राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् 02013010a तमेव च महाराज शिष्यवत्समुपस्थितः 02013010c वक्रः करूषाधिपतिर्मायायोधी महाबलः 02013011a अपरौ च महावीर्यौ महात्मानौ समाश्रितौ 02013011c जरासंधं महावीर्यं तौ हंसडिभकावुभौ 02013012a दन्तवक्रः करूषश्च कलभो मेघवाहनः 02013012c मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः 02013013a मुरं च नरकं चैव शास्ति यो यवनाधिपौ 02013013c अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा 02013014a भगदत्तो महाराज वृद्धस्तव पितुः सखा 02013014c स वाचा प्रणतस्तस्य कर्मणा चैव भारत 02013015a स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि 02013015c प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः 02013016a मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः 02013016c स ते संनतिमानेकः स्नेहतः शत्रुतापनः 02013017a जरासंधं गतस्त्वेवं पुरा यो न मया हतः 02013017c पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः 02013018a आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् 02013018c आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् 02013019a वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः 02013019c पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः 02013020a चतुर्युः स महाराज भोज इन्द्रसखो बली 02013020c विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् 02013021a भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि 02013021c स भक्तो मागधं राजा भीष्मकः परवीरहा 02013022a प्रियाण्याचरतः प्रह्वान्सदा संबन्धिनः सतः 02013022c भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः 02013023a न कुलं न बलं राजन्नभिजानंस्तथात्मनः 02013023c पश्यमानो यशो दीप्तं जरासंधमुपाश्रितः 02013024a उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो 02013024c जरासंधभयादेव प्रतीचीं दिशमाश्रिताः 02013025a शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः 02013025c सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह 02013026a शाल्वेयानां च राजानः सोदर्यानुचरैः सह 02013026c दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः 02013027a तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः 02013027c मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः 02013028a तथैव सर्वपाञ्चाला जरासंधभयार्दिताः 02013028c स्वराष्ट्रं संपरित्यज्य विद्रुताः सर्वतोदिशम् 02013029a कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् 02013029c बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः 02013030a अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले 02013030c बलेन तेन स ज्ञातीनभिभूय वृथामतिः 02013031a श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् 02013031c भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना 02013032a ज्ञातित्राणमभीप्सद्भिरस्मत्संभावना कृता 02013032c दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा 02013033a संकर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् 02013033c हतौ कंससुनामानौ मया रामेण चाप्युत 02013034a भये तु समुपक्रान्ते जरासंधे समुद्यते 02013034c मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः 02013035a अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः 02013035c न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् 02013036a तस्य ह्यमरसंकाशौ बलेन बलिनां वरौ 02013036c नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ 02013037a तावुभौ सहितौ वीरौ जरासंधश्च वीर्यवान् 02013037c त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02013038a न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः 02013038c तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर 02013039a अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः 02013039c स चान्यैः सहितो राजन्संग्रामेऽष्टादशावरैः 02013040a हतो हंस इति प्रोक्तमथ केनापि भारत 02013040c तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत 02013041a विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे 02013041c इत्येतां मतिमास्थाय डिभको निधनं गतः 02013042a तथा तु डिभकं श्रुत्वा हंसः परपुरंजयः 02013042c प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत 02013043a तौ स राजा जरासंधः श्रुत्वाप्सु निधनं गतौ 02013043c स्वपुरं शूरसेनानां प्रययौ भरतर्षभ 02013044a ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे 02013044c पुनरानन्दिताः सर्वे मथुरायां वसामहे 02013045a यदा त्वभ्येत्य पितरं सा वै राजीवलोचना 02013045c कंसभार्या जरासंधं दुहिता मागधं नृपम् 02013046a चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता 02013046c पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम 02013047a ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् 02013047c संस्मरन्तो विमनसो व्यपयाता नराधिप 02013048a पृथक्त्वेन द्रुता राजन्संक्षिप्य महतीं श्रियम् 02013048c प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः 02013049a इति संचिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः 02013049c कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् 02013050a पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप 02013050c तथैव दुर्गसंस्कारं देवैरपि दुरासदम् 02013051a स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुंगवाः 02013051c तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः 02013052a आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च 02013052c माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् 02013053a एवं वयं जरासंधादादितः कृतकिल्बिषाः 02013053c सामर्थ्यवन्तः संबन्धाद्भवन्तं समुपाश्रिताः 02013054a त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि 02013054c योजनान्ते शतद्वारं विक्रमक्रमतोरणम् 02013054e अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः 02013055a अष्टादश सहस्राणि व्रातानां सन्ति नः कुले 02013055c आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः 02013056a चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः 02013056c अहं च रौहिणेयश्च साम्बः शौरिसमो युधि 02013057a एवमेते रथाः सप्त राजन्नन्यान्निबोध मे 02013057c कृतवर्मा अनाधृष्टिः समीकः समितिंजयः 02013058a कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः 02013058c पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश 02013059a लोकसंहनना वीरा वीर्यवन्तो महाबलाः 02013059c स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः 02013060a स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम 02013060c क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत 02013061a न तु शक्यं जरासंधे जीवमाने महाबले 02013061c राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम 02013062a तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे 02013062c कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः 02013063a सोऽपि राजा जरासंधो यियक्षुर्वसुधाधिपैः 02013063c आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः 02013064a स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् 02013064c पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् 02013065a वयं चैव महाराज जरासंधभयात्तदा 02013065c मथुरां संपरित्यज्य गता द्वारवतीं पुरीम् 02013066a यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि 02013066c यतस्व तेषां मोक्षाय जरासंधवधाय च 02013067a समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन 02013067c राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर 02013068a इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ 02013068c एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः 02014001 युधिष्ठिर उवाच 02014001a उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति 02014001c संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि 02014002a गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः 02014002c न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् 02014003a कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति 02014003c परेण समवेतस्तु यः प्रशस्तः स पूज्यते 02014004a विशाला बहुला भूमिर्बहुरत्नसमाचिता 02014004c दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह 02014005a शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः 02014005c आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः 02014006a एवमेवाभिजानन्ति कुले जाता मनस्विनः 02014006c कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन 02014007 भीम उवाच 02014007a अनारम्भपरो राजा वल्मीक इव सीदति 02014007c दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति 02014008a अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् 02014008c जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् 02014009a कृष्णे नयो मयि बलं जयः पार्थे धनंजये 02014009c मागधं साधयिष्यामो वयं त्रय इवाग्नयः 02014010 कृष्ण उवाच 02014010a आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते 02014010c तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् 02014011a हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः 02014011c कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः 02014011e ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः 02014012a निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः 02014012c बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ 02014013a न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः 02014013c तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः 02014014a रत्नभाजो हि राजानो जरासंधमुपासते 02014014c न च तुष्यति तेनापि बाल्यादनयमास्थितः 02014015a मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् 02014015c आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् 02014016a एवं सर्वान्वशे चक्रे जरासंधः शतावरान् 02014016c तं दुर्बलतरो राजा कथं पार्थ उपैष्यति 02014017a प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे 02014017c पशूनामिव का प्रीतिर्जीविते भरतर्षभ 02014018a क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः 02014018c ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् 02014019a षडशीतिः समानीताः शेषा राजंश्चतुर्दश 02014019c जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते 02014020a प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् 02014020c जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत् 02015001 युधिष्ठिर उवाच 02015001a सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः 02015001c कथं प्रहिणुयां भीमं बलात्केवलसाहसात् 02015002a भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् 02015002c मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् 02015003a जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम् 02015003c श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् 02015004a अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते 02015004c यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम 02015005a संन्यासं रोचये साधु कार्यस्यास्य जनार्दन 02015005c प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः 02015006 वैशंपायन उवाच 02015006a पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी 02015006c रथं ध्वजं सभां चैव युधिष्ठिरमभाषत 02015007a धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् 02015007c प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् 02015008a कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः 02015008c बलेन सदृशं नास्ति वीर्यं तु मम रोचते 02015009a कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति 02015009c क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये 02015010a सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् 02015010c सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति 02015011a द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे 02015011c जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् 02015012a संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते 02015012c तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः 02015013a दैन्यं यथाबलवति तथा मोहो बलान्विते 02015013c तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना 02015014a जरासंधविनाशं च राज्ञां च परिमोक्षणम् 02015014c यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् 02015015a अनारम्भे तु नियतो भवेदगुणनिश्चयः 02015015c गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् 02015016a काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् 02015016c साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः 02016001 वासुदेव उवाच 02016001a जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च 02016001c या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता 02016002a न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा 02016002c न चापि कंचिदमरमयुद्धेनापि शुश्रुमः 02016003a एतावदेव पुरुषैः कार्यं हृदयतोषणम् 02016003c नयेन विधिदृष्टेन यदुपक्रमते परान् 02016004a सुनयस्यानपायस्य संयुगे परमः क्रमः 02016004c संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः 02016005a ते वयं नयमास्थाय शत्रुदेहसमीपगाः 02016005c कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः 02016005e पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः 02016006a व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् 02016006c इति बुद्धिमतां नीतिस्तन्ममापीह रोचते 02016007a अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत् 02016007c शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे 02016008a एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ 02016008c अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः 02016009a अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः 02016009c प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः 02016010 युधिष्ठिर उवाच 02016010a कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः 02016010c यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा 02016011 कृष्ण उवाच 02016011a शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः 02016011c यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः 02016012a अक्षौहिणीनां तिसृणामासीत्समरदर्पितः 02016012c राजा बृहद्रथो नाम मगधाधिपतिः पतिः 02016013a रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः 02016013c नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः 02016014a तेजसा सूर्यसदृशः क्षमया पृथिवीसमः 02016014c यमान्तकसमः कोपे श्रिया वैश्रवणोपमः 02016015a तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम 02016015c व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः 02016016a स काशिराजस्य सुते यमजे भरतर्षभ 02016016c उपयेमे महावीर्यो रूपद्रविणसंमते 02016017a तयोश्चकार समयं मिथः स पुरुषर्षभः 02016017c नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा 02016018a स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप 02016018c प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः 02016019a तयोर्मध्यगतश्चापि रराज वसुधाधिपः 02016019c गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः 02016020a विषयेषु निमग्नस्य तस्य यौवनमत्यगात् 02016020c न च वंशकरः पुत्रस्तस्याजायत कश्चन 02016021a मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः 02016021c नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् 02016022a अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः 02016022c शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् 02016023a यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् 02016023c पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् 02016024a तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः 02016024c परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत 02016025a ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः 02016025c पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा 02016026 बृहद्रथ उवाच 02016026a भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् 02016026c किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे 02016027 कृष्ण उवाच 02016027a एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः 02016027c तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् 02016028a तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह 02016028c अवातमशुकादष्टमेकमाम्रफलं किल 02016029a तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च 02016029c राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम् 02016030a उवाच च महाप्राज्ञस्तं राजानं महामुनिः 02016030c गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप 02016031a यथासमयमाज्ञाय तदा स नृपसत्तमः 02016031c द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ 02016032a ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे 02016032c भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः 02016033a तयोः समभवद्गर्भः फलप्राशनसंभवः 02016033c ते च दृष्ट्वा नरपतिः परां मुदमवाप ह 02016034a अथ काले महाप्राज्ञ यथासमयमागते 02016034c प्रजायेतामुभे राजञ्शरीरशकले तदा 02016035a एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे 02016035c दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् 02016036a उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले 02016036c सजीवे प्राणिशकले तत्यजाते सुदुःखिते 02016037a तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे 02016037c निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः 02016038a ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी 02016038c जग्राह मनुजव्याघ्र मांसशोणितभोजना 02016039a कर्तुकामा सुखवहे शकले सा तु राक्षसी 02016039c संघट्टयामास तदा विधानबलचोदिता 02016040a ते समानीतमात्रे तु शकले पुरुषर्षभ 02016040c एकमूर्तिकृते वीरः कुमारः समपद्यत 02016041a ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना 02016041c न शशाक समुद्वोढुं वज्रसारमयं शिशुम् 02016042a बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः 02016042c प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः 02016043a तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः 02016043c निर्जगाम नरव्याघ्र राज्ञा सह परंतप 02016044a ते चाबले परिग्लाने पयःपूर्णपयोधरे 02016044c निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् 02016045a अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् 02016045c तं च बालं सुबलिनं चिन्तयामास राक्षसी 02016046a नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः 02016046c बालं पुत्रमुपादातुं मेघलेखेव भास्करम् 02016047a सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् 02016047c बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् 02016048a तव पत्नीद्वये जातो द्विजातिवरशासनात् 02016048c धात्रीजनपरित्यक्तो मयायं परिरक्षितः 02016049a ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे 02016049c तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् 02016050a ततः स राजा संहृष्टः सर्वं तदुपलभ्य च 02016050c अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् 02016051a का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी 02016051c कामया ब्रूहि कल्याणि देवता प्रतिभासि मे 02017001 राक्षस्युवाच 02017001a जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी 02017001c तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् 02017002a साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप 02017002c तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक 02017003a संश्लेषिते मया दैवात्कुमारः समपद्यत 02017003c तव भाग्यैर्महाराज हेतुमात्रमहं त्विह 02017004 कृष्ण उवाच 02017004a एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत 02017004c स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः 02017005a तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा 02017005c आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् 02017006a तस्य नामाकरोत्तत्र प्रजापतिसमः पिता 02017006c जरया संधितो यस्माज्जरासंधस्ततोऽभवत् 02017007a सोऽवर्धत महातेजा मगधाधिपतेः सुतः 02017007c प्रमाणबलसंपन्नो हुताहुतिरिवानलः 02017008a कस्यचित्त्वथ कालस्य पुनरेव महातपाः 02017008c मगधानुपचक्राम भगवांश्चण्डकौशिकः 02017009a तस्यागमनसंहृष्टः सामात्यः सपुरःसरः 02017009c सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः 02017010a पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत 02017010c स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् 02017011a प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः 02017011c उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना 02017012a सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा 02017012c पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति 02017013a अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः 02017013c देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते 02017013e न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः 02017014a सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति 02017014c सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः 02017015a एनमासाद्य राजानः समृद्धबलवाहनाः 02017015c विनाशमुपयास्यन्ति शलभा इव पावकम् 02017016a एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति 02017016c वर्षास्विवोद्धतजला नदीर्नदनदीपतिः 02017017a एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः 02017017c शुभाशुभमिव स्फीता सर्वसस्यधरा धरा 02017018a अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः 02017018c सर्वभूतात्मभूतस्य वायोरिव शरीरिणः 02017019a एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् 02017019c सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः 02017020a एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् 02017020c विसर्जयामास नृपं बृहद्रथमथारिहन् 02017021a प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः 02017021c अभिषिच्य जरासंधं मगधाधिपतिस्तदा 02017021e बृहद्रथो नरपतिः परां निर्वृतिमाययौ 02017022a अभिषिक्ते जरासंधे तदा राजा बृहद्रथः 02017022c पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् 02017023a तपोवनस्थे पितरि मातृभ्यां सह भारत 02017023c जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे 02017024a अथ दीर्घस्य कालस्य तपोवनगतो नृपः 02017024c सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः 02017025a तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ 02017025c मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ 02017026a यौ तौ मया ते कथितौ पूर्वमेव महाबलौ 02017026c त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः 02017027a एवमेष तदा वीर बलिभिः कुकुरान्धकैः 02017027c वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः 02018001 वासुदेव उवाच 02018001a पतितौ हंसडिभकौ कंसामात्यौ निपातितौ 02018001c जरासंधस्य निधने कालोऽयं समुपागतः 02018002a न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः 02018002c प्राणयुद्धेन जेतव्यः स इत्युपलभामहे 02018003a मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः 02018003c साधयिष्याम तं राजन्वयं त्रय इवाग्नयः 02018004a त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः 02018004c न संदेहो यथा युद्धमेकेनाभ्युपयास्यति 02018005a अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः 02018005c भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति 02018006a अलं तस्य महाबाहुर्भीमसेनो महाबलः 02018006c लोकस्य समुदीर्णस्य निधनायान्तको यथा 02018007a यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि 02018007c भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे 02018008 वैशंपायन उवाच 02018008a एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः 02018008c भीमपार्थौ समालोक्य संप्रहृष्टमुखौ स्थितौ 02018009a अच्युताच्युत मा मैवं व्याहरामित्रकर्षण 02018009c पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् 02018010a यथा वदसि गोविन्द सर्वं तदुपपद्यते 02018010c न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी 02018011a निहतश्च जरासंधो मोक्षिताश्च महीक्षितः 02018011c राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः 02018012a क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते 02018012c मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम 02018013a त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे 02018013c धर्मकामार्थरहितो रोगार्त इव दुर्गतः 02018014a न शौरिणा विना पार्थो न शौरिः पाण्डवं विना 02018014c नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः 02018015a अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः 02018015c युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः 02018016a सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् 02018016c अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः 02018017a यतो हि निम्नं भवति नयन्तीह ततो जलम् 02018017c यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् 02018018a तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् 02018018c वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये 02018019a एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् 02018019c पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये 02018020a एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये 02018020c अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनंजयम् 02018020e नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति 02018021a एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः 02018021c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति 02018022a वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् 02018022c आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः 02018023a अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् 02018023c रविसोमाग्निवपुषां भीममासीत्तदा वपुः 02018024a हतं मेने जरासंधं दृष्ट्वा भीमपुरोगमौ 02018024c एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ 02018025a ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने 02018025c धर्मार्थकामकार्याणां कार्याणामिव निग्रहे 02018026a कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् 02018026c रम्यं पद्मसरो गत्वा कालकूटमतीत्य च 02018027a गण्डकीयां तथा शोणं सदानीरां तथैव च 02018027c एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते 02018028a संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् 02018028c अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् 02018029a उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः 02018029c कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः 02018030a ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् 02018030c गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् 02019001 वासुदेव उवाच 02019001a एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् 02019001c निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः 02019002a वैहारो विपुलः शैलो वराहो वृषभस्तथा 02019002c तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः 02019003a एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः 02019003c रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् 02019004a पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः 02019004c निगूढा इव लोध्राणां वनैः कामिजनप्रियैः 02019005a शूद्रायां गौतमो यत्र महात्मा संशितव्रतः 02019005c औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः 02019006a गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि 02019006c भजते मागधं वंशं स नृपाणामनुग्रहात् 02019007a अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः 02019007c गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन 02019008a वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः 02019008c लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः 02019009a अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ 02019009c स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः 02019010a अपरिहार्या मेघानां मागधेयं मणेः कृते 02019010c कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् 02019011a अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते 02019011c वयमासादने तस्य दर्पमद्य निहन्म हि 02019012 वैशंपायन उवाच 02019012a एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः 02019012c वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् 02019013a तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् 02019013c स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् 02019014a तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् 02019014c बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः 02019015a यत्र माषादमृषभमाससाद बृहद्रथः 02019015c तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् 02019016a आनह्य चर्मणा तेन स्थापयामास स्वे पुरे 02019016c यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः 02019017a मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् 02019017c शिरसीव जिघांसन्तो जरासंधजिघांसवः 02019018a स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् 02019018c अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् 02019019a विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् 02019019c ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा 02019020a एतस्मिन्नेव काले तु जरासंधं समर्चयन् 02019020c पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः 02019021a स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः 02019021c युयुत्सवः प्रविविशुर्जरासंधेन भारत 02019022a भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् 02019022c स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् 02019023a तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः 02019023c राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः 02019024a बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः 02019024c विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः 02019025a निवेशनमथाजग्मुर्जरासंधस्य धीमतः 02019025c गोवासमिव वीक्षन्तः सिंहा हैमवता यथा 02019026a शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः 02019026c अशोभन्त महाराज बाहवो बाहुशालिनाम् 02019027a तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् 02019027c व्यूढोरस्कान्मागधानां विस्मयः समजायत 02019028a ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः 02019028c अहंकारेण राजानमुपतस्थुर्महाबलाः 02019029a तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् 02019029c प्रत्युत्थाय जरासंध उपतस्थे यथाविधि 02019030a उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः 02019030c तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् 02019031a स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः 02019031c अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत 02019032a तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः 02019032c उपतस्थे जरासंधो विस्मितश्चाभवत्तदा 02019033a ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः 02019033c इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम 02019034a स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः 02019034c तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् 02019035a तानब्रवीज्जरासंधस्तदा यादवपाण्डवान् 02019035c आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् 02019036a अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः 02019036c संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः 02019037a तानुवाच जरासंधः सत्यसंधो नराधिपः 02019037c विगर्हमाणः कौरव्य वेषग्रहणकारणात् 02019038a न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः 02019038c भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः 02019039a ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः 02019039c बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ 02019040a एवं विरागवसना बहिर्माल्यानुलेपनाः 02019040c सत्यं वदत के यूयं सत्यं राजसु शोभते 02019041a चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः 02019041c अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् 02019042a कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् 02019042c वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः 02019043a एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् 02019043c प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे 02019044a एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः 02019044c स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः 02019045a स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः 02019045c विशेषनियमाश्चैषामविशेषाश्च सन्त्युत 02019046a विशेषवांश्च सततं क्षत्रियः श्रियमर्छति 02019046c पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् 02019047a क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् 02019047c अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् 02019048a स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् 02019048c तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः 02019049a अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् 02019049c प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः 02019050a कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् 02019050c प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् 02020001 जरासंध उवाच 02020001a न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत 02020001c चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् 02020002a वैकृते चासति कथं मन्यध्वं मामनागसम् 02020002c अरिं विब्रूत तद्विप्राः सतां समय एष हि 02020003a अथ धर्मोपघाताद्धि मनः समुपतप्यते 02020003c योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः 02020004a अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः 02020004c वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च 02020005a त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् 02020005c अनागसं प्रजानानाः प्रमादादिव जल्पथ 02020006 वासुदेव उवाच 02020006a कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः 02020006c वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः 02020007a त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः 02020007c तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् 02020008a राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम 02020008c तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि 02020009a अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् 02020009c वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः 02020010a मनुष्याणां समालम्भो न च दृष्टः कदाचन 02020010c स कथं मानुषैर्देवं यष्टुमिच्छसि शंकरम् 02020011a सवर्णो हि सवर्णानां पशुसंज्ञां करिष्यति 02020011c कोऽन्य एवं यथा हि त्वं जरासंध वृथामतिः 02020012a ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः 02020012c ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः 02020013a नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् 02020013c मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः 02020014a को हि जानन्नभिजनमात्मनः क्षत्रियो नृप 02020014c नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् 02020015a स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः 02020015c यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप 02020016a स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः 02020016c स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् 02020017a एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः 02020017c येनासुरान्पराजित्य जगत्पाति शतक्रतुः 02020018a स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव 02020018c मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः 02020019a मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे 02020019c समं तेजस्त्वया चैव केवलं मनुजेश्वर 02020020a यावदेव न संबुद्धं तावदेव भवेत्तव 02020020c विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते 02020021a जहि त्वं सदृशेष्वेव मानं दर्पं च मागध 02020021c मा गमः ससुतामात्यः सबलश्च यमक्षयम् 02020022a दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः 02020022c श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः 02020023a मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः 02020023c शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ 02020024a त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध 02020024c मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् 02020025 जरासंध उवाच 02020025a नाजितान्वै नरपतीनहमादद्मि कांश्चन 02020025c जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः 02020026a क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् 02020026c विक्रम्य वशमानीय कामतो यत्समाचरेत् 02020027a देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् 02020027c अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् 02020028a सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः 02020028c द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा 02020029 वैशंपायन उवाच 02020029a एवमुक्त्वा जरासंधः सहदेवाभिषेचनम् 02020029c आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः 02020030a स तु सेनापती राजा सस्मार भरतर्षभ 02020030c कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते 02020031a ययोस्ते नामनी लोके हंसेति डिभकेति च 02020031c पूर्वं संकथिते पुम्भिर्नृलोके लोकसत्कृते 02020032a तं तु राजन्विभुः शौरी राजानं बलिनां वरम् 02020032c स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् 02020033a सत्यसंधो जरासंधं भुवि भीमपराक्रमम् 02020033c भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः 02020034a नात्मनात्मवतां मुख्य इयेष मधुसूदनः 02020034c ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः 02021001 वैशंपायन उवाच 02021001a ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः 02021001c उवाच वाग्मी राजानं जरासंधमधोक्षजः 02021002a त्रयाणां केन ते राजन्योद्धुं वितरते मनः 02021002c अस्मदन्यतमेनेह सज्जीभवतु को युधि 02021003a एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः 02021003c जरासंधस्ततो राजन्भीमसेनेन मागधः 02021004a धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च 02021004c उपतस्थे जरासंधं युयुत्सुं वै पुरोहितः 02021005a कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना 02021005c समनह्यज्जरासंधः क्षत्रधर्ममनुव्रतः 02021006a अवमुच्य किरीटं स केशान्समनुमृज्य च 02021006c उदतिष्ठज्जरासंधो वेलातिग इवार्णवः 02021007a उवाच मतिमान्राजा भीमं भीमपराक्रमम् 02021007c भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् 02021008a एवमुक्त्वा जरासंधो भीमसेनमरिंदमः 02021008c प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः 02021009a ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली 02021009c भीमसेनो जरासंधमाससाद युयुत्सया 02021010a ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः 02021010c वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ 02021011a तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा 02021011c आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव 02021012a उभौ परमसंहृष्टौ बलेनातिबलावुभौ 02021012c अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ 02021013a तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे 02021013c बलिनोः संयुगे राजन्वृत्रवासवयोरिव 02021014a प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः 02021014c आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः 02021015a ततः शब्देन महता भर्त्सयन्तौ परस्परम् 02021015c पाषाणसंघातनिभैः प्रहारैरभिजघ्नतुः 02021016a व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ 02021016c बाहुभिः समसज्जेतामायसैः परिघैरिव 02021017a कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि 02021017c अनारतं दिवारात्रमविश्रान्तमवर्तत 02021018a तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः 02021018c चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् 02021019a तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः 02021019c उवाच भीमकर्माणं भीमं संबोधयन्निव 02021020a क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे 02021020c पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः 02021021a तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः 02021021c सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ 02021022a एवमुक्तः स कृष्णेन पाण्डवः परवीरहा 02021022c जरासंधस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे 02021023a ततस्तमजितं जेतुं जरासंधं वृकोदरः 02021023c संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः 02022001 वैशंपायन उवाच 02022001a भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् 02022001c बुद्धिमास्थाय विपुलां जरासंधजिघांसया 02022002a नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् 02022002c प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा 02022003a एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् 02022003c त्वरयन्पुरुषव्याघ्रो जरासंधवधेप्सया 02022004a यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः 02022004c बलं भीम जरासंधे दर्शयाशु तदद्य नः 02022005a एवमुक्तस्तदा भीमो जरासंधमरिंदमः 02022005c उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः 02022006a भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ 02022006c बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च 02022007a तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः 02022007c अभवत्तुमुलो नादः सर्वप्राणिभयंकरः 02022008a वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः 02022008c भीमसेनस्य नादेन जरासंधस्य चैव ह 02022009a किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही 02022009c इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् 02022010a ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् 02022010c रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः 02022011a जरासंधरथं कृष्णो योजयित्वा पताकिनम् 02022011c आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् 02022012a ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः 02022012c राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् 02022013a अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः 02022013c रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् 02022014a यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः 02022014c अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः 02022015a भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः 02022015c शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः 02022016a शक्रविष्णू हि संग्रामे चेरतुस्तारकामये 02022016c रथेन तेन तं कृष्ण उपारुह्य ययौ तदा 02022017a तप्तचामीकराभेण किङ्किणीजालमालिना 02022017c मेघनिर्घोषनादेन जैत्रेणामित्रघातिना 02022018a येन शक्रो दानवानां जघान नवतीर्नव 02022018c तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः 02022019a ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा 02022019c रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः 02022020a हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे 02022020c अधिष्ठितः स शुशुभे कृष्णेनातीव भारत 02022021a असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः 02022021c योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः 02022022a चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् 02022022c क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः 02022023a व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः 02022023c तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः 02022024a दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ 02022024c आदित्य इव मध्याह्ने सहस्रकिरणावृतः 02022025a न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते 02022025c दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः 02022026a तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् 02022026c निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः 02022027a यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः 02022027c बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् 02022028a स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः 02022028c गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः 02022029a तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा 02022029c ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा 02022030a बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् 02022030c पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः 02022031a नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन 02022031c भीमार्जुनबलोपेते धर्मस्य परिपालनम् 02022032a जरासंधह्रदे घोरे दुःखपङ्के निमज्जताम् 02022032c राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते 02022033a विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे 02022033c दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम 02022034a किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ 02022034c कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् 02022035a तानुवाच हृषीकेशः समाश्वास्य महामनाः 02022035c युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति 02022036a तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02022036c सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति 02022037a ततः प्रतीतमनसस्ते नृपा भरतर्षभ 02022037c तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् 02022038a रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः 02022038c कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया 02022039a जरासंधात्मजश्चैव सहदेवो महारथः 02022039c निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् 02022040a स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः 02022040c सहदेवो नृणां देवं वासुदेवमुपस्थितः 02022041a भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा 02022041c अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा 02022042a गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः 02022042c विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् 02022043a कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् 02022043c रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः 02022044a इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः 02022044c समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत 02022045a दिष्ट्या भीमेन बलवाञ्जरासंधो निपातितः 02022045c राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम 02022046a दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ 02022046c पुनः स्वनगरं प्राप्तावक्षताविति भारत 02022047a ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः 02022047c भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे 02022048a ततः क्षीणे जरासंधे भ्रातृभ्यां विहितं जयम् 02022048c अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह 02022049a यथावयः समागम्य राजभिस्तैश्च पाण्डवः 02022049c सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् 02022050a युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः 02022050c जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः 02022051a एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः 02022051c पाण्डवैर्घातयामास जरासंधमरिं तदा 02022052a घातयित्वा जरासंधं बुद्धिपूर्वमरिंदमः 02022052c धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत 02022053a सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा 02022053c धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति 02022054a तेनैव रथमुख्येन तरुणादित्यवर्चसा 02022054c धर्मराजविसृष्टेन दिव्येनानादयन्दिशः 02022055a ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ 02022055c प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् 02022056a ततो गते भगवति कृष्णे देवकिनन्दने 02022056c जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा 02022057a संवर्धितौजसो भूयः कर्मणा तेन भारत 02022057c द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् 02022058a तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् 02022058c तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् 02023001 वैशंपायन उवाच 02023001a पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी 02023001c रथं ध्वजं सभां चैव युधिष्ठिरमभाषत 02023002a धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् 02023002c प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् 02023003a तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् 02023003c करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम 02023004a विजयाय प्रयास्यामि दिशं धनदरक्षिताम् 02023004c तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे 02023005a धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः 02023005c स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत 02023006a स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ 02023006c दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च 02023006e विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि 02023007a इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः 02023007c अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा 02023008a तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ 02023008c ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः 02023009a दिशं धनपतेरिष्टामजयत्पाकशासनिः 02023009c भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् 02023010a प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् 02023010c खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः 02023011 जनमेजय उवाच 02023011a दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय 02023011c न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् 02023012 वैशंपायन उवाच 02023012a धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते 02023012c यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा 02023013a पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् 02023013c धनंजयो महाबाहुर्नातितीव्रेण कर्मणा 02023014a आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः 02023014c सुमण्डलं पापजितं कृतवाननुसैनिकम् 02023015a स तेन सहितो राजन्सव्यसाची परंतपः 02023015c विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् 02023016a सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः 02023016c अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् 02023017a स तानपि महेष्वासो विजित्य भरतर्षभ 02023017c तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् 02023018a तत्र राजा महानासीद्भगदत्तो विशां पते 02023018c तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः 02023019a स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् 02023019c अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः 02023020a ततः स दिवसानष्टौ योधयित्वा धनंजयम् 02023020c प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः 02023021a उपपन्नं महाबाहो त्वयि पाण्डवनन्दन 02023021c पाकशासनदायादे वीर्यमाहवशोभिनि 02023022a अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे 02023022c न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि 02023023a किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते 02023023c यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक 02023024 अर्जुन उवाच 02023024a कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः 02023024c तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् 02023025a भवान्पितृसखा चैव प्रीयमाणो मयापि च 02023025c ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् 02023026 भगदत्त उवाच 02023026a कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः 02023026c सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते 02024001 वैशंपायन उवाच 02024001a तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः 02024001c प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् 02024002a अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् 02024002c तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः 02024003a विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः 02024003c तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः 02024004a तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् 02024004c कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् 02024005a मृदङ्गवरनादेन रथनेमिस्वनेन च 02024005c हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् 02024006a ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा 02024006c निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् 02024007a सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः 02024007c न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् 02024008a सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः 02024008c उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः 02024009a स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ 02024009c सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् 02024010a मोदापुरं वामदेवं सुदामानं सुसंकुलम् 02024010c कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् 02024011a तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् 02024011c व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः 02024012a स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् 02024012c बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः 02024013a स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् 02024013c अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः 02024014a विजित्य चाहवे शूरान्पार्वतीयान्महारथान् 02024014c ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् 02024015a पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः 02024015c गणानुत्सवसंकेतानजयत्सप्त पाण्डवः 02024016a ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः 02024016c व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह 02024017a ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये 02024017c क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः 02024018a अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः 02024018c उरशावासिनं चैव रोचमानं रणेऽजयत् 02024019a ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् 02024019c प्रामथद्बलमास्थाय पाकशासनिराहवे 02024020a ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः 02024020c सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः 02024021a ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः 02024021c महता परिमर्देन वशे चक्रे दुरासदान् 02024022a गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः 02024022c दरदान्सह काम्बोजैरजयत्पाकशासनिः 02024023a प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः 02024023c निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः 02024024a लोहान्परमकाम्बोजानृषिकानुत्तरानपि 02024024c सहितांस्तान्महाराज व्यजयत्पाकशासनिः 02024025a ऋषिकेषु तु संग्रामो बभूवातिभयंकरः 02024025c तारकामयसंकाशः परमर्षिकपार्थयोः 02024026a स विजित्य ततो राजन्नृषिकान्रणमूर्धनि 02024026c शुकोदरसमप्रख्यान्हयानष्टौ समानयत् 02024026e मयूरसदृशानन्यानुभयानेव चापरान् 02024027a स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् 02024027c श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः 02025001 वैशंपायन उवाच 02025001a स श्वेतपर्वतं वीरः समतिक्रम्य भारत 02025001c देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम् 02025002a महता संनिपातेन क्षत्रियान्तकरेण ह 02025002c व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् 02025003a तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् 02025003c पाकशासनिरव्यग्रः सहसैन्यः समासदत् 02025004a तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् 02025004c ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः 02025005a सरो मानसमासाद्य हाटकानभितः प्रभुः 02025005c गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः 02025006a तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् 02025006c लेभे स करमत्यन्तं गन्धर्वनगरात्तदा 02025007a उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः 02025007c इयेष जेतुं तं देशं पाकशासननन्दनः 02025008a तत एनं महाकाया महावीर्या महाबलाः 02025008c द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् 02025009a पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन 02025009c उपावर्तस्व कल्याण पर्याप्तमिदमच्युत 02025010a इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः 02025010c प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव 02025011a न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते 02025011c उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते 02025012a प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन 02025012c न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् 02025013a अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि 02025013c तद्ब्रवीहि करिष्यामो वचनात्तव भारत 02025014a ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः 02025014c पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः 02025015a न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः 02025015c युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम् 02025016a ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च 02025016c मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् 02025017a एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् 02025017c संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा 02025018a स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह 02025018c धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च 02025019a हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि 02025019c मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः 02025020a वृतः सुमहता राजन्बलेन चतुरङ्गिणा 02025020c आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् 02026001 वैशंपायन उवाच 02026001a एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् 02026001c धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति 02026002a महता बलचक्रेण परराष्ट्रावमर्दिना 02026002c वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः 02026003a स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् 02026003c पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः 02026004a ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः 02026004c विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः 02026005a तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् 02026005c कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् 02026006a भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः 02026006c अधिसेनापतिं चक्रे सुधर्माणं महाबलम् 02026007a ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः 02026007c सैन्येन महता राजन्कम्पयन्निव मेदिनीम् 02026008a सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् 02026008c जिगाय समरे वीरो बलेन बलिनां वरः 02026009a स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा 02026009c पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः 02026010a ततो दक्षिणमागम्य पुलिन्दनगरं महत् 02026010c सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02026011a ततस्तु धर्मराजस्य शासनाद्भरतर्षभः 02026011c शिशुपालं महावीर्यमभ्ययाज्जनमेजय 02026012a चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् 02026012c उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः 02026013a तौ समेत्य महाराज कुरुचेदिवृषौ तदा 02026013c उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् 02026014a ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते 02026014c उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ 02026015a तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् 02026015c स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः 02026016a ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः 02026016c सत्कृतः शिशुपालेन ययौ सबलवाहनः 02027001 वैशंपायन उवाच 02027001a ततः कुमारविषये श्रेणिमन्तमथाजयत् 02027001c कोसलाधिपतिं चैव बृहद्बलमरिंदमः 02027002a अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् 02027002c अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा 02027003a ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् 02027003c मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः 02027004a ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् 02027004c सर्वमल्पेन कालेन देशं चक्रे वशे बली 02027005a एवं बहुविधान्देशान्विजित्य पुरुषर्षभः 02027005c उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् 02027005e पाण्डवः सुमहावीर्यो बलेन बलिनां वरः 02027006a स काशिराजं समरे सुबन्धुमनिवर्तिनम् 02027006c वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः 02027007a ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् 02027007c युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः 02027008a ततो मत्स्यान्महातेजा मलयांश्च महाबलान् 02027008c अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः 02027009a निवृत्य च महाबाहुर्मदर्वीकं महीधरम् 02027009c सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः 02027009e वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् 02027010a भर्गाणामधिपं चैव निषादाधिपतिं तथा 02027010c विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् 02027011a ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः 02027011c तरसैवाजयद्भीमो नातितीव्रेण कर्मणा 02027012a शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः 02027012c वैदेहकं च राजानं जनकं जगतीपतिम् 02027012e विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा 02027013a वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् 02027013c किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः 02027014a ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् 02027014c विजित्य युधि कौन्तेयो मागधानुपयाद्बली 02027015a दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् 02027015c तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् 02027016a जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह 02027016c तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली 02027017a स कम्पयन्निव महीं बलेन चतुरङ्गिणा 02027017c युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना 02027018a स कर्णं युधि निर्जित्य वशे कृत्वा च भारत 02027018c ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः 02027019a अथ मोदागिरिं चैव राजानं बलवत्तरम् 02027019c पाण्डवो बाहुवीर्येण निजघान महामृधे 02027020a ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् 02027020c कौशिकीकच्छनिलयं राजानं च महौजसम् 02027021a उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ 02027021c निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् 02027022a समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् 02027022c ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा 02027023a सुह्मानामधिपं चैव ये च सागरवासिनः 02027023c सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः 02027024a एवं बहुविधान्देशान्विजित्य पवनात्मजः 02027024c वसु तेभ्य उपादाय लौहित्यमगमद्बली 02027025a स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः 02027025c करमाहारयामास रत्नानि विविधानि च 02027026a चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् 02027026c काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् 02027027a स कोटिशतसंख्येन धनेन महता तदा 02027027c अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् 02027028a इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः 02027028c निवेदयामास तदा धर्मराजाय तद्धनम् 02028001 वैशंपायन उवाच 02028001a तथैव सहदेवोऽपि धर्मराजेन पूजितः 02028001c महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् 02028002a स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः 02028002c मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली 02028003a अधिराजाधिपं चैव दन्तवक्रं महाहवे 02028003c जिगाय करदं चैव स्वराज्ये संन्यवेशयत् 02028004a सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् 02028004c तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् 02028005a निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा 02028005c तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् 02028006a नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् 02028006c प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् 02028007a ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् 02028007c ददर्श वासुदेवेन शेषितं पूर्ववैरिणा 02028008a चक्रे तत्र स संग्रामं सह भोजेन भारत 02028008c स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ 02028009a करांस्तेभ्य उपादाय रत्नानि विविधानि च 02028009c ततस्तैरेव सहितो नर्मदामभितो ययौ 02028010a विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ 02028010c जिगाय समरे वीरावाश्विनेयः प्रतापवान् 02028011a ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ 02028011c तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः 02028012a पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् 02028012c ततोऽस्य सुमहद्युद्धमासीद्भीरुभयंकरम् 02028013a सैन्यक्षयकरं चैव प्राणानां संशयाय च 02028013c चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः 02028014a ततो हया रथा नागाः पुरुषाः कवचानि च 02028014c प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा 02028015a ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः 02028015c नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय 02028016 जनमेजय उवाच 02028016a किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि 02028016c सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज 02028017 वैशंपायन उवाच 02028017a तत्र माहिष्मतीवासी भगवान्हव्यवाहनः 02028017c श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः 02028018a नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् 02028018c तदा ब्राह्मणरूपेण चरमाणो यदृच्छया 02028019a तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा 02028019c प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः 02028020a तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् 02028020c चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः 02028021a वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः 02028021c अभयं च स जग्राह स्वसैन्ये वै महीपतिः 02028022a ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः 02028022c जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना 02028023a तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह 02028023c बभूवुरनभिग्राह्या योषितश्छन्दतः किल 02028024a एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे 02028024c स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत 02028025a वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम 02028025c भयादग्नेर्महाराज तदा प्रभृति सर्वदा 02028026a सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् 02028026c परीतमग्निना राजन्नाकम्पत यथा गिरिः 02028027a उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः 02028027c त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते 02028028a मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक 02028028c पावनात्पावकश्चासि वहनाद्धव्यवाहनः 02028029a वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि 02028029c यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन 02028030a एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् 02028030c विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् 02028031a प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत 02028031c न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः 02028032a तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् 02028032c सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः 02028033a उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया 02028033c वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च 02028034a मया तु रक्षितव्येयं पुरी भरतसत्तम 02028034c यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति 02028034e ईप्सितं तु करिष्यामि मनसस्तव पाण्डव 02028035a तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः 02028035c पूजयामास माद्रेयः पावकं पुरुषर्षभः 02028036a पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा 02028036c सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् 02028037a प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् 02028037c माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् 02028038a त्रैपुरं स वशे कृत्वा राजानममितौजसम् 02028038c निजग्राह महाबाहुस्तरसा पोतनेश्वरम् 02028039a आहृतिं कौशिकाचार्यं यत्नेन महता ततः 02028039c वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा 02028040a सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे 02028040c राज्ञे भोजकटस्थाय महामात्राय धीमते 02028041a भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै 02028041c स चास्य ससुतो राजन्प्रतिजग्राह शासनम् 02028042a प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च 02028042c ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः 02028043a ततः शूर्पारकं चैव गणं चोपकृताह्वयम् 02028043c वशे चक्रे महातेजा दण्डकांश्च महाबलः 02028044a सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् 02028044c निषादान्पुरुषादांश्च कर्णप्रावरणानपि 02028045a ये च कालमुखा नाम नरा राक्षसयोनयः 02028045c कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा 02028046a द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा 02028046c तिमिंगिलं च नृपतिं वशे चक्रे महामतिः 02028047a एकपादांश्च पुरुषान्केवलान्वनवासिनः 02028047c नगरीं संजयन्तीं च पिच्छण्डं करहाटकम् 02028047e दूतैरेव वशे चक्रे करं चैनानदापयत् 02028048a पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः 02028048c अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् 02028049a अन्ताखीं चैव रोमां च यवनानां पुरं तथा 02028049c दूतैरेव वशे चक्रे करं चैनानदापयत् 02028050a भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः 02028050c प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने 02028050e विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः 02028051a स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् 02028051c तच्च कालकृतं धीमानन्वमन्यत स प्रभुः 02028052a ततः संप्रेषयामास रत्नानि विविधानि च 02028052c चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च 02028053a वासांसि च महार्हाणि मणींश्चैव महाधनान् 02028053c न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् 02028054a एवं निर्जित्य तरसा सान्त्वेन विजयेन च 02028054c करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः 02028055a धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ 02028055c कृतकर्मा सुखं राजन्नुवास जनमेजय 02029001 वैशंपायन उवाच 02029001a नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा 02029001c वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः 02029002a निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् 02029002c उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह 02029003a सिंहनादेन महता योधानां गर्जितेन च 02029003c रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् 02029004a ततो बहुधनं रम्यं गवाश्वधनधान्यवत् 02029004c कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् 02029005a तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः 02029005c मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् 02029006a शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः 02029006c शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् 02029007a तथा मध्यमिकायांश्च वाटधानान्द्विजानथ 02029007c पुनश्च परिवृत्याथ पुष्करारण्यवासिनः 02029008a गणानुत्सवसंकेतान्व्यजयत्पुरुषर्षभः 02029008c सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः 02029009a शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् 02029009c वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः 02029010a कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् 02029010c उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् 02029010e द्वारपालं च तरसा वशे चक्रे महाद्युतिः 02029011a रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः 02029011c तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः 02029012a तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः 02029012c स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् 02029013a ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् 02029013c मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली 02029014a स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते 02029014c रत्नानि भूरीण्यादाय संप्रतस्थे युधां पतिः 02029015a ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् 02029015c पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् 02029016a ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् 02029016c न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् 02029017a करभाणां सहस्राणि कोशं तस्य महात्मनः 02029017c ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् 02029018a इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् 02029018c ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् 02029019a एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् 02029019c विजिग्ये वासुदेवेन निर्जितां भरतर्षभः 02030001 वैशंपायन उवाच 02030001a रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् 02030001c शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः 02030002a बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् 02030002c निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् 02030003a सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् 02030003c विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः 02030004a दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् 02030004c राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः 02030005a अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् 02030005c सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे 02030006a प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् 02030006c अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् 02030007a धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् 02030007c कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि 02030008a स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः 02030008c विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे 02030009a सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् 02030009c यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् 02030010a अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः 02030010c ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् 02030011a जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह 02030011c भूतभव्यभवन्नाथः केशवः केशिसूदनः 02030012a प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा 02030012c बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् 02030013a उच्चावचमुपादाय धर्मराजाय माधवः 02030013c धनौघं पुरुषव्याघ्रो बलेन महता वृतः 02030014a तं धनौघमपर्यन्तं रत्नसागरमक्षयम् 02030014c नादयन्रथघोषेण प्रविवेश पुरोत्तमम् 02030015a असूर्यमिव सूर्येण निवातमिव वायुना 02030015c कृष्णेन समुपेतेन जहृषे भारतं पुरम् 02030016a तं मुदाभिसमागम्य सत्कृत्य च यथाविधि 02030016c संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः 02030017a धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः 02030017c भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् 02030018a त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते 02030018c धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् 02030019a सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत 02030019c उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव 02030020a तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया 02030020c अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि 02030021a स दीक्षापय गोविन्द त्वमात्मानं महाभुज 02030021c त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् 02030022a मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो 02030022c अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् 02030023a तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् 02030023c त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् 02030023e संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् 02030024a यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते 02030024c नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः 02030025 युधिष्ठिर उवाच 02030025a सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम 02030025c यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः 02030026 वैशंपायन उवाच 02030026a अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह 02030026c ईहितुं राजसूयाय साधनान्युपचक्रमे 02030027a तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः 02030027c सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः 02030028a अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः 02030028c तथोपकरणं सर्वं मङ्गलानि च सर्वशः 02030029a अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि 02030029c समानयन्तु पुरुषा यथायोगं यथाक्रमम् 02030030a इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः 02030030c अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया 02030031a सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः 02030031c मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम 02030032a तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् 02030032c सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि 02030033a ततो द्वैपायनो राजन्नृत्विजः समुपानयत् 02030033c वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् 02030034a स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः 02030034c धनंजयानामृषभः सुसामा सामगोऽभवत् 02030035a याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः 02030035c पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् 02030036a एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ 02030036c बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः 02030037a ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् 02030037c शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् 02030038a तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः 02030038c रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् 02030039a तत आज्ञापयामास स राजा राजसत्तमः 02030039c सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः 02030040a आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् 02030040c उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा 02030041a आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि 02030041c विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च 02030042a ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् 02030042c आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् 02030043a ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् 02030043c दीक्षयां चक्रिरे विप्रा राजसूयाय भारत 02030044a दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः 02030044c जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः 02030045a भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा 02030045c क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः 02030045e अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव 02030046a आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः 02030046c सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः 02030047a तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् 02030047c बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् 02030047e सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः 02030048a तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः 02030048c कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् 02030049a भुञ्जतां चैव विप्राणां वदतां च महास्वनः 02030049c अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् 02030050a दीयतां दीयतामेषां भुज्यतां भुज्यतामिति 02030050c एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः 02030051a गवां शतसहस्राणि शयनानां च भारत 02030051c रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ 02030052a प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः 02030052c पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे 02030053a ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् 02030053c नकुलं हास्तिनपुरं भीष्माय भरतर्षभ 02030054a द्रोणाय धृतराष्ट्राय विदुराय कृपाय च 02030054c भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे 02031001 वैशंपायन उवाच 02031001a स गत्वा हास्तिनपुरं नकुलः समितिंजयः 02031001c भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः 02031002a प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः 02031002c संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा 02031003a अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ 02031003c द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् 02031004a दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत 02031004c समुपादाय रत्नानि विविधानि महान्ति च 02031005a धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः 02031005c दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते 02031006a सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः 02031006c गान्धारराजः सुबलः शकुनिश्च महाबलः 02031007a अचलो वृषकश्चैव कर्णश्च रथिनां वरः 02031007c ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः 02031008a सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः 02031008c अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः 02031009a यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः 02031009c प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः 02031010a सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः 02031010c पार्वतीयाश्च राजानो राजा चैव बृहद्बलः 02031011a पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा 02031011c आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा 02031012a द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा 02031012c कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः 02031013a बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते 02031013c विराटः सह पुत्रैश्च माचेल्लश्च महारथः 02031013e राजानो राजपुत्राश्च नानाजनपदेश्वराः 02031014a शिशुपालो महावीर्यः सह पुत्रेण भारत 02031014c आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः 02031015a रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः 02031015c गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् 02031016a उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च 02031016c वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः 02031017a एते चान्ये च बहवो राजानो मध्यदेशजाः 02031017c आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् 02031018a ददुस्तेषामावसथान्धर्मराजस्य शासनात् 02031018c बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् 02031019a तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् 02031019c सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः 02031020a कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् 02031020c सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः 02031021a सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् 02031021c सुखारोहणसोपानान्महासनपरिच्छदान् 02031022a स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः 02031022c हंसांशुवर्णसदृशानायोजनसुदर्शनान् 02031023a असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः 02031023c बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव 02031024a विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् 02031024c वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् 02031025a तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः 02031025c भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः 02032001 वैशंपायन उवाच 02032001a पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः 02032001c अभिवाद्य ततो राजन्निदं वचनमब्रवीत् 02032001e भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती 02032002a अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः 02032002c इदं वः स्वमहं चैव यदिहास्ति धनं मम 02032002e प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः 02032003a एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः 02032003c युयोज ह यथायोगमधिकारेष्वनन्तरम् 02032004a भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् 02032004c परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् 02032005a राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत् 02032005c कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती 02032006a हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे 02032006c दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् 02032006e तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् 02032007a बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः 02032007c नकुलेन समानीताः स्वामिवत्तत्र रेमिरे 02032008a क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् 02032008c दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः 02032009a सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् 02032009c द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् 02032010a न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् 02032010c रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् 02032011a कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् 02032011c यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् 02032012a भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः 02032012c लोकराजविमानैश्च ब्राह्मणावसथैः सह 02032013a कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा 02032013c विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः 02032014a राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः 02032014c अशोभत सदो राजन्कौन्तेयस्य महात्मनः 02032015a ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः 02032015c षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता 02032015e सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् 02032016a अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः 02032016c रत्नोपहारकर्मण्यो बभूव स समागमः 02032017a इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः 02032017c तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः 02032018a यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः 02032018c ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः 02033001 वैशंपायन उवाच 02033001a ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह 02033001c अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः 02033002a नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः 02033002c समासीनाः शुशुभिरे सह राजर्षिभिस्तदा 02033003a समेता ब्रह्मभवने देवा देवर्षयो यथा 02033003c कर्मान्तरमुपासन्तो जजल्पुरमितौजसः 02033004a इदमेवं न चाप्येवमेवमेतन्न चान्यथा 02033004c इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् 02033005a कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते 02033005c अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः 02033006a तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् 02033006c विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् 02033007a केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः 02033007c रेमिरे कथयन्तश्च सर्ववेदविदां वराः 02033008a सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः 02033008c आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला 02033009a न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः 02033009c अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने 02033010a तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् 02033010c तुतोष नारदः पश्यन्धर्मराजस्य धीमतः 02033011a अथ चिन्तां समापेदे स मुनिर्मनुजाधिप 02033011c नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् 02033012a सस्मार च पुरावृत्तां कथां तां भरतर्षभ 02033012c अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् 02033013a देवानां संगमं तं तु विज्ञाय कुरुनन्दन 02033013c नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् 02033014a साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः 02033014c प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः 02033015a संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् 02033015c अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ 02033016a इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः 02033016c आदिश्य विबुधान्सर्वानजायत यदुक्षये 02033017a क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः 02033017c परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् 02033018a यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते 02033018c सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः 02033019a अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम् 02033019c आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् 02033020a इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् 02033020c हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् 02033021a तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः 02033021c महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः 02033022a ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् 02033022c क्रियतामर्हणं राज्ञां यथार्हमिति भारत 02033023a आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर 02033023c स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा 02033024a एतानर्हानभिगतानाहुः संवत्सरोषितान् 02033024c त इमे कालपूगस्य महतोऽस्मानुपागताः 02033025a एषामेकैकशो राजन्नर्घ्यमानीयतामिति 02033025c अथ चैषां वरिष्ठाय समर्थायोपनीयताम् 02033026 युधिष्ठिर उवाच 02033026a कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन 02033026c उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह 02033027 वैशंपायन उवाच 02033027a ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत 02033027c वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि 02033028a एष ह्येषां समेतानां तेजोबलपराक्रमैः 02033028c मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः 02033029a असूर्यमिव सूर्येण निवातमिव वायुना 02033029c भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः 02033030a तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् 02033030c उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् 02033031a प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा 02033031c शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे 02033032a स उपालभ्य भीष्मं च धर्मराजं च संसदि 02033032c अपाक्षिपद्वासुदेवं चेदिराजो महाबलः 02034001 शिशुपाल उवाच 02034001a नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु 02034001c महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् 02034002a नायं युक्तः समाचारः पाण्डवेषु महात्मसु 02034002c यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि 02034003a बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः 02034003c अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः 02034004a त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया 02034004c भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् 02034005a कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् 02034005c अर्हणामर्हति तथा यथा युष्माभिरर्चितः 02034006a अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ 02034006c वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः 02034007a अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् 02034007c द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् 02034008a आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव 02034008c द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि 02034009a ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन 02034009c द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया 02034010a नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः 02034010c अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया 02034011a अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः 02034011c किं राजभिरिहानीतैरवमानाय भारत 02034012a वयं तु न भयादस्य कौन्तेयस्य महात्मनः 02034012c प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् 02034013a अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः 02034013c करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते 02034014a किमन्यदवमानाद्धि यदिमं राजसंसदि 02034014c अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि 02034015a अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् 02034015c को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् 02034015e योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा 02034016a अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् 02034016c कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् 02034017a यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः 02034017c ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति 02034018a अथ वा कृपणैरेतामुपनीतां जनार्दन 02034018c पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि 02034019a अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे 02034019c हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने 02034020a न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते 02034020c त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन 02034021a क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् 02034021c अराज्ञो राजवत्पूजा तथा ते मधुसूदन 02034022a दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः 02034022c वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् 02034023a इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् 02034023c निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा 02035001 वैशंपायन उवाच 02035001a ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् 02035001c उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः 02035002a नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् 02035002c अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् 02035003a न हि धर्मं परं जातु नावबुध्येत पार्थिव 02035003c भीष्मः शांतनवस्त्वेनं मावमंस्था अतोऽन्यथा 02035004a पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् 02035004c मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि 02035005a वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् 02035005c न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः 02035006 भीष्म उवाच 02035006a नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् 02035006c लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते 02035007a क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः 02035007c यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः 02035008a अस्यां च समितौ राज्ञामेकमप्यजितं युधि 02035008c न पश्यामि महीपालं सात्वतीपुत्रतेजसा 02035009a न हि केवलमस्माकमयमर्च्यतमोऽच्युतः 02035009c त्रयाणामपि लोकानामर्चनीयो जनार्दनः 02035010a कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः 02035010c जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् 02035011a तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् 02035011c एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी 02035012a ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः 02035012c तेषां कथयतां शौरेरहं गुणवतो गुणान् 02035012e समागतानामश्रौषं बहून्बहुमतान्सताम् 02035013a कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः 02035013c बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे 02035014a न केवलं वयं कामाच्चेदिराज जनार्दनम् 02035014c न संबन्धं पुरस्कृत्य कृतार्थं वा कथंचन 02035015a अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् 02035015c यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे 02035016a न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः 02035016c गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः 02035017a ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः 02035017c पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ 02035018a वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा 02035018c नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते 02035019a दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा 02035019c संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते 02035020a तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम् 02035020c अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ 02035021a ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः 02035021c सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः 02035022a कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः 02035022c कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् 02035023a एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः 02035023c परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः 02035024a बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या 02035024c चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् 02035025a आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये 02035025c दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् 02035026a अयं तु पुरुषो बालः शिशुपालो न बुध्यते 02035026c सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते 02035027a यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः 02035027c स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् 02035028a सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु 02035028c को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् 02035029a अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति 02035029c दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति 02036001 वैशंपायन उवाच 02036001a एवमुक्त्वा ततो भीष्मो विरराम महायशाः 02036001c व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः 02036002a केशवं केशिहन्तारमप्रमेयपराक्रमम् 02036002c पूज्यमानं मया यो वः कृष्णं न सहते नृपाः 02036003a सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् 02036003c एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः 02036004a मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् 02036004c अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः 02036005a ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् 02036005c मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 02036006a ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि 02036006c अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति 02036007a आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः 02036007c सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् 02036008a तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः 02036008c संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास्तथा 02036009a युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् 02036009c अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् 02036010a सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ 02036010c आमिषादपकृष्टानां सिंहानामिव गर्जताम् 02036011a तं बलौघमपर्यन्तं राजसागरमक्षयम् 02036011c कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा 02036012a पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः 02036012c सहदेवो नृणां देवः समापयत कर्म तत् 02036013a तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः 02036013c अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् 02036014a स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु सांप्रतम् 02036014c युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् 02036015a इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुंगवः 02036015c यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः 02037001 वैशंपायन उवाच 02037001a ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम् 02037001c रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः 02037002a भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् 02037002c बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा 02037003a असौ रोषात्प्रचलितो महान्नृपतिसागरः 02037003c अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह 02037004a यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् 02037004c यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह 02037005a इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे 02037005c उवाचेदं वचो भीष्मस्ततः कुरुपितामहः 02037006a मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति 02037006c शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः 02037007a प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः 02037007c भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः 02037008a वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः 02037008c भषन्ते तात संक्रुद्धाः श्वानः सिंहस्य संनिधौ 02037009a न हि संबुध्यते तावत्सुप्तः सिंह इवाच्युतः 02037009c तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुंगवः 02037010a पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः 02037010c सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् 02037011a नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः 02037011c यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत 02037012a विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर 02037012c चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् 02037013a आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा 02037013c तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा 02037014a चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः 02037014c प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर 02037015a इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः 02037015c भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत 02038001 शिशुपाल उवाच 02038001a विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् 02038001c न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः 02038002a युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया 02038002c वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः 02038003a नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात् 02038003c तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः 02038004a पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः 02038004c त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः 02038005a अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः 02038005c कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते 02038006a यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः 02038006c तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि 02038007a यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् 02038007c तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ 02038008a चेतनारहितं काष्ठं यद्यनेन निपातितम् 02038008c पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् 02038009a वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः 02038009c तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम 02038010a भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि 02038010c इति ते भीष्म शृण्वानाः परं विस्मयमागताः 02038011a यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः 02038011c स चानेन हतः कंस इत्येतन्न महाद्भुतम् 02038012a न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् 02038012c यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम 02038013a स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च 02038013c यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः 02038014a इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा 02038014c भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते 02038015a ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम 02038015c अजानत इवाख्यासि संस्तुवन्कुरुसत्तम 02038015e गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति 02038016a असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः 02038016c संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः 02038016e एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् 02038017a न गाथा गाथिनं शास्ति बहु चेदपि गायति 02038017c प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा 02038018a नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः 02038018c अतः पापीयसी चैषां पाण्डवानामपीष्यते 02038019a येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः 02038019c धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः 02038020a को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः 02038020c कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता 02038021a अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना 02038021c अम्बा नामेति भद्रं ते कथं सापहृता त्वया 02038022a यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः 02038022c भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः 02038023a दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः 02038023c तव जातान्यपत्यानि सज्जनाचरिते पथि 02038024a न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा 02038024c यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः 02038025a न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् 02038025c न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् 02038026a इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः 02038026c सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् 02038027a व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् 02038027c सर्वं तदनपत्यस्य मोघं भवति निश्चयात् 02038028a सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् 02038028c हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् 02038029a एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा 02038029c भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः 02038030a वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा 02038030c धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह 02038031a धर्मं चरत माधर्ममिति तस्य वचः किल 02038031c पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः 02038032a अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः 02038032c अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम 02038033a तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः 02038033c समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः 02038034a तेषामण्डानि सर्वेषां भक्षयामास पापकृत् 02038034c स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि 02038035a ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः 02038035c अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह 02038036a ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् 02038036c तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् 02038037a ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः 02038037c निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह 02038038a ते त्वां हंससधर्माणमपीमे वसुधाधिपाः 02038038c निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम् 02038039a गाथामप्यत्र गायन्ति ये पुराणविदो जनाः 02038039c भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत 02038040a अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् 02038040c अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते 02039001 शिशुपाल उवाच 02039001a स मे बहुमतो राजा जरासंधो महाबलः 02039001c योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे 02039002a केशवेन कृतं यत्तु जरासंधवधे तदा 02039002c भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते 02039003a अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना 02039003c दृष्टः प्रभावः कृष्णेन जरासंधस्य धीमतः 02039004a येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता 02039004c नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने 02039005a भुज्यतामिति तेनोक्ताः कृष्णभीमधनंजयाः 02039005c जरासंधेन कौरव्य कृष्णेन विकृतं कृतम् 02039006a यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे 02039006c कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति 02039007a इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया 02039007c अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति 02039008a अथ वा नैतदाश्चर्यं येषां त्वमसि भारत 02039008c स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः 02039009 वैशंपायन उवाच 02039009a तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु 02039009c चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् 02039010a तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते 02039010c भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः 02039011a त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः 02039011c ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव 02039012a दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् 02039012c युगान्ते सर्वभूतानि कालस्येव दिधक्षतः 02039013a उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् 02039013c भीष्म एव महाबाहुर्महासेनमिवेश्वरः 02039014a तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत 02039014c गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः 02039015a नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः 02039015c समुद्धूतो घनापाये वेलामिव महोदधिः 02039016a शिशुपालस्तु संक्रुद्धे भीमसेने नराधिप 02039016c नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः 02039017a उत्पतन्तं तु वेगेन पुनः पुनररिंदमः 02039017c न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा 02039018a प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् 02039018c भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् 02039019a मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः 02039019c मत्प्रतापाग्निनिर्दग्धं पतंगमिव वह्निना 02039020a ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः 02039020c भीमसेनमुवाचेदं भीष्मो मतिमतां वरः 02040001 भीष्म उवाच 02040001a चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः 02040001c रासभारावसदृशं रुराव च ननाद च 02040002a तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ 02040002c वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् 02040003a ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् 02040003c चिन्तासंमूढहृदयं वागुवाचाशरीरिणी 02040004a एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः 02040004c तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् 02040005a न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः 02040005c मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप 02040006a संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः 02040006c पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् 02040007a येनेदमीरितं वाक्यं ममैव तनयं प्रति 02040007c प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः 02040008a श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति 02040008c अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः 02040009a येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ 02040009c पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ 02040010a तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् 02040010c निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति 02040011a त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् 02040011c धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः 02040012a तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः 02040012c एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा 02040013a एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् 02040013c शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् 02040014a ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ 02040014c यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा 02040015a अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् 02040015c कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ 02040016a अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः 02040016c पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् 02040017a न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ 02040017c पेततुस्तच्च नयनं निममज्ज ललाटजम् 02040018a तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत 02040018c ददस्व मे वरं कृष्ण भयार्ताया महाभुज 02040019a त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः 02040019c पितृष्वसारं मा भैषीरित्युवाच जनार्दनः 02040020a ददानि कं वरं किं वा करवाणि पितृष्वसः 02040020c शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव 02040021a एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् 02040021c शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल 02040022 कृष्ण उवाच 02040022a अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः 02040022c पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः 02040023 भीष्म उवाच 02040023a एवमेष नृपः पापः शिशुपालः सुमन्दधीः 02040023c त्वां समाह्वयते वीर गोविन्दवरदर्पितः 02041001 भीष्म उवाच 02041001a नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् 02041001c नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः 02041002a को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः 02041002c क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः 02041003a एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् 02041003c तमेव पुनरादातुमिच्छत्पृथुयशा हरिः 02041004a येनैष कुरुशार्दूल शार्दूल इव चेदिराट् 02041004c गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् 02041005 वैशंपायन उवाच 02041005a ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा 02041005c उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् 02041006 शिशुपाल उवाच 02041006a द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः 02041006c यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः 02041007a संस्तवाय मनो भीष्म परेषां रमते सदा 02041007c यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् 02041008a दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् 02041008c जायमानेन येनेयमभवद्दारिता मही 02041009a वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले 02041009c स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् 02041010a द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ 02041010c स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ 02041011a ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् 02041011c इमां वसुमतीं कुर्यादशेषामिति मे मतिः 02041012a द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् 02041012c अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि 02041013a शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् 02041013c स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा 02041014a किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप 02041014c पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् 02041015a आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः 02041015c अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् 02041016a यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः 02041016c केशवं तच्च ते भीष्म न कश्चिदनुमन्यते 02041017a कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि 02041017c समावेशयसे सर्वं जगत्केवलकाम्यया 02041018a अथ वैषा न ते भक्तिः प्रकृतिं याति भारत 02041018c मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा 02041019a भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे 02041019c भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः 02041020a मा साहसमितीदं सा सततं वाशते किल 02041020c साहसं चात्मनातीव चरन्ती नावबुध्यते 02041021a सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः 02041021c दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना 02041022a इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् 02041022c तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे 02041023a इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् 02041023c लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः 02041024 वैशंपायन उवाच 02041024a ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः 02041024c उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः 02041025a इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् 02041025c योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् 02041026a एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः 02041026c केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे 02041027a केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः 02041027c पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् 02041028a हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः 02041028c सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना 02041029a इति तेषां वचः श्रुत्वा ततः कुरुपितामहः 02041029c उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् 02041030a उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये 02041030c यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः 02041031a पशुवद्घातनं वा मे दहनं वा कटाग्निना 02041031c क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् 02041032a एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः 02041032c यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् 02041033a कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् 02041033c यावदस्यैव देवस्य देहं विशतु पातितः 02042001 वैशंपायन उवाच 02042001a ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः 02042001c युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह 02042002a आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन 02042002c यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः 02042003a सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा 02042003c नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः 02042004a ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् 02042004c अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः 02042004e इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः 02042005a एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः 02042005c उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् 02042006a एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः 02042006c सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् 02042007a प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् 02042007c अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः 02042008a क्रीडतो भोजराजन्यानेष रैवतके गिरौ 02042008c हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा 02042009a अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् 02042009c पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः 02042010a सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः 02042010c भार्यामभ्यहरन्मोहादकामां तामितो गताम् 02042011a एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् 02042011c जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् 02042012a पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् 02042012c दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते 02042013a पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् 02042013c कृतानि तु परोक्षं मे यानि तानि निबोधत 02042014a इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् 02042014c अवलेपाद्वधार्हस्य समग्रे राजमण्डले 02042015a रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः 02042015c न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा 02042016a एवमादि ततः सर्वे सहितास्ते नराधिपाः 02042016c वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् 02042017a ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् 02042017c जहास स्वनवद्धासं प्रहस्येदमुवाच ह 02042018a मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् 02042018c विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् 02042019a मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् 02042019c अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन 02042020a क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम 02042020c क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति 02042021a तथा ब्रुवत एवास्य भगवान्मधुसूदनः 02042021c व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः 02042021e स पपात महाबाहुर्वज्राहत इवाचलः 02042022a ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः 02042022c उत्पतन्तं महाराज गगनादिव भास्करम् 02042023a ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् 02042023c ववन्दे तत्तदा तेजो विवेश च नराधिप 02042024a तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः 02042024c यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् 02042025a अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः 02042025c कृष्णेन निहते चैद्ये चचाल च वसुंधरा 02042026a ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन 02042026c अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् 02042027a हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः 02042027c अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः 02042028a रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः 02042028c केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् 02042029a प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः 02042029c ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः 02042030a पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् 02042030c दमघोषात्मजं वीरं संसाधयत मा चिरम् 02042030e तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा 02042031a चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् 02042031c अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः 02042032a ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् 02042032c यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः 02042033a शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् 02042033c अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः 02042034a समापयामास च तं राजसूयं महाक्रतुम् 02042034c तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः 02042034e ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः 02042035a ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् 02042035c समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् 02042036a दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो 02042036c आजमीढाजमीढानां यशः संवर्धितं त्वया 02042036e कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः 02042037a आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः 02042037c स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि 02042038a श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः 02042038c यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह 02042039a राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः 02042039c प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः 02042039e तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् 02042040a भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः 02042040c यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् 02042041a विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् 02042041c धनंजयो यज्ञसेनं महात्मानं महारथः 02042042a भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः 02042042c द्रोणं च ससुतं वीरं सहदेवो महारथः 02042043a नकुलः सुबलं राजन्सहपुत्रं समन्वयात् 02042043c द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् 02042044a अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः 02042044c एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः 02042045a गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ 02042045c युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् 02042046a आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन 02042046c राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि 02042047a तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् 02042047c तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् 02042048a समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् 02042048c उपादाय बलिं मुख्यं मामेव समुपस्थितम् 02042049a न वयं त्वामृते वीर रंस्यामेह कथंचन 02042049c अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी 02042050a एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् 02042050c अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः 02042051a साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः 02042051c सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि 02042052a अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे 02042052c सुभद्रां द्रौपदीं चैव सभाजयत केशवः 02042053a निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् 02042053c स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च 02042054a ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् 02042054c योजयित्वा महाराज दारुकः प्रत्युपस्थितः 02042055a उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् 02042055c प्रदक्षिणमुपावृत्य समारुह्य महामनाः 02042055e प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् 02042056a तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः 02042056c भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् 02042057a ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः 02042057c अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् 02042058a अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते 02042058c पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः 02042058e बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः 02042059a कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ 02042059c अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति 02042060a गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप 02042060c एको दुर्योधनो राजा शकुनिश्चापि सौबलः 02042060e तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ 02043001 वैशंपायन उवाच 02043001a वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ 02043001c शनैर्ददर्श तां सर्वां सभां शकुनिना सह 02043002a तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः 02043002c न दृष्टपूर्वा ये तेन नगरे नागसाह्वये 02043003a स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः 02043003c स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया 02043004a स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः 02043004c दुर्मना विमुखश्चैव परिचक्राम तां सभाम् 02043005a ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् 02043005c वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले 02043006a जले निपतितं दृष्ट्वा किंकरा जहसुर्भृशम् 02043006c वासांसि च शुभान्यस्मै प्रददू राजशासनात् 02043007a तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः 02043007c अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा 02043008a नामर्षयत्ततस्तेषामवहासममर्षणः 02043008c आकारं रक्षमाणस्तु न स तान्समुदैक्षत 02043009a पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् 02043009c आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः 02043010a द्वारं च विवृताकारं ललाटेन समाहनत् 02043010c संवृतं चेति मन्वानो द्वारदेशादुपारमत् 02043011a एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते 02043011c पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः 02043012a अप्रहृष्टेन मनसा राजसूये महाक्रतौ 02043012c प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् 02043013a पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः 02043013c दुर्योधनस्य नृपतेः पापा मतिरजायत 02043014a पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् 02043014c कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह 02043015a महिमानं परं चापि पाण्डवानां महात्मनाम् 02043015c दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत 02043016a स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् 02043016c श्रियं च तामनुपमां धर्मराजस्य धीमतः 02043017a प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा 02043017c नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः 02043018a अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत 02043018c दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि 02043019 दुर्योधन उवाच 02043019a दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् 02043019c जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः 02043020a तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल 02043020c यथा शक्रस्य देवेषु तथाभूतं महाद्युते 02043021a अमर्षेण सुसंपूर्णो दह्यमानो दिवानिशम् 02043021c शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् 02043022a पश्य सात्वतमुख्येन शिशुपालं निपातितम् 02043022c न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः 02043023a दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना 02043023c क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति 02043024a वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् 02043024c सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् 02043025a तथा हि रत्नान्यादाय विविधानि नृपा नृपम् 02043025c उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः 02043026a श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे 02043026c अमर्षवशमापन्नो दह्येऽहमतथोचितः 02043027a वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् 02043027c अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् 02043028a को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् 02043028c सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च 02043029a सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि 02043029c योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् 02043030a ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् 02043030c यज्ञं च तादृशं दृष्ट्वा मादृशः को न संज्वरेत् 02043031a अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् 02043031c सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये 02043032a दैवमेव परं मन्ये पौरुषं तु निरर्थकम् 02043032c दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा 02043033a कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल 02043033c तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् 02043034a तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् 02043034c धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः 02043035a सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् 02043035c रक्षिभिश्चावहासं तं परितप्ये यथाग्निना 02043036a स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् 02043036c अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय 02044001 शकुनिरुवाच 02044001a दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् 02044001c भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा 02044002a अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् 02044002c विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः 02044003a तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह 02044003c सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् 02044004a लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते 02044004c विवृद्धस्तेजसा तेषां तत्र का परिदेवना 02044005a धनंजयेन गाण्डीवमक्षय्यौ च महेषुधी 02044005c लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् 02044006a तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः 02044006c कृता वशे महीपालास्तत्र का परिदेवना 02044007a अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् 02044007c सभां तां कारयामास सव्यसाची परंतपः 02044008a तेन चैव मयेनोक्ताः किंकरा नाम राक्षसाः 02044008c वहन्ति तां सभां भीमास्तत्र का परिदेवना 02044009a यच्चासहायतां राजन्नुक्तवानसि भारत 02044009c तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः 02044010a द्रोणस्तव महेष्वासः सह पुत्रेण धीमता 02044010c सूतपुत्रश्च राधेयो गौतमश्च महारथः 02044011a अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् 02044011c एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुंधराम् 02044012 दुर्योधन उवाच 02044012a त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः 02044012c एतानेव विजेष्यामि यदि त्वमनुमन्यसे 02044013a एतेषु विजितेष्वद्य भविष्यति मही मम 02044013c सर्वे च पृथिवीपालाः सभा सा च महाधना 02044014 शकुनिरुवाच 02044014a धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः 02044014c नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः 02044015a नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि 02044015c महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 02044016a अहं तु तद्विजानामि विजेतुं येन शक्यते 02044016c युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च 02044017 दुर्योधन उवाच 02044017a अप्रमादेन सुहृदामन्येषां च महात्मनाम् 02044017c यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल 02044018 शकुनिरुवाच 02044018a द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् 02044018c समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् 02044019a देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि 02044019c त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय 02044020a तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् 02044020c राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ 02044021a इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय 02044021c अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः 02044022 दुर्योधन उवाच 02044022a त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल 02044022c निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् 02045001 वैशंपायन उवाच 02045001a अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् 02045001c युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः 02045002a प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् 02045002c प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा 02045003a दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् 02045003c उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् 02045004a दुर्योधनो महाराज विवर्णो हरिणः कृशः 02045004c दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ 02045005a न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् 02045005c ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे 02045006 धृतराष्ट्र उवाच 02045006a दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक 02045006c श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन 02045007a अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् 02045007c चिन्तयंश्च न पश्यामि शोकस्य तव संभवम् 02045008a ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् 02045008c भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् 02045009a आच्छादयसि प्रावारानश्नासि पिशितौदनम् 02045009c आजानेया वहन्ति त्वां केनासि हरिणः कृशः 02045010a शयनानि महार्हाणि योषितश्च मनोरमाः 02045010c गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् 02045011a देवानामिव ते सर्वं वाचि बद्धं न संशयः 02045011c स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक 02045012 दुर्योधन उवाच 02045012a अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा 02045012c अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् 02045013a अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः 02045013c क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते 02045014a संतोषो वै श्रियं हन्ति अभिमानश्च भारत 02045014c अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् 02045015a न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे 02045015c ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम 02045016a सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च 02045016c अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् 02045016e तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः 02045017a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02045017c त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 02045018a दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् 02045018c भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने 02045019a कदलीमृगमोकानि कृष्णश्यामारुणानि च 02045019c काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् 02045020a रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः 02045020c त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत 02045021a पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते 02045021c आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः 02045022a न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः 02045022c यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः 02045023a अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप 02045023c शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो 02045024a ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः 02045024c त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः 02045025a कमण्डलूनुपादाय जातरूपमयाञ्शुभान् 02045025c एवं बलिं समादाय प्रवेशं लेभिरे ततः 02045026a यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः 02045026c तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः 02045027a शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् 02045027c दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् 02045028a गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ 02045028c तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ 02045029a उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02045029c इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु 02045030a पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् 02045030c स्थापिता तत्र संज्ञाभूच्छङ्खो ध्मायति नित्यशः 02045031a मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत 02045031c उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् 02045032a पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः 02045032c सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर 02045033a यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः 02045033c वैश्या इव महीपाला द्विजातिपरिवेषकाः 02045034a न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा 02045034c गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे 02045035a तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् 02045035c शान्तिं न परिगच्छामि दह्यमानेन चेतसा 02045036 शकुनिरुवाच 02045036a यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे 02045036c तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम 02045037a अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत 02045037c हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने 02045038a द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् 02045038c आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् 02045039 वैशंपायन उवाच 02045039a एवमुक्तः शकुनिना राजा दुर्योधनस्तदा 02045039c धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् 02045040a अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् 02045040c द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि 02045041 धृतराष्ट्र उवाच 02045041a क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने 02045041c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02045042a स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् 02045042c उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् 02045043 दुर्योधन उवाच 02045043a निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति 02045043c निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् 02045044a स मयि त्वं मृते राजन्विदुरेण सुखी भव 02045044c भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि 02045045 वैशंपायन उवाच 02045045a आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः 02045045c धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः 02045046a स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम 02045046c मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः 02045047a ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः 02045047c सुकृतां सुप्रवेशां च निवेदयत मे शनैः 02045048a दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः 02045048c धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै 02045049a अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः 02045049c द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत 02045050a तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् 02045050c विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् 02045051a सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् 02045051c मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् 02045052a नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो 02045052c पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु 02045053 धृतराष्ट्र उवाच 02045053a क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति 02045053c दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः 02045054a अशुभं वा शुभं वापि हितं वा यदि वाहितम् 02045054c प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः 02045055a मयि संनिहिते चैव भीष्मे च भरतर्षभे 02045055c अनयो दैवविहितो न कथंचिद्भविष्यति 02045056a गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे 02045056c खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् 02045057a न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते 02045057c दैवमेव परं मन्ये येनैतदुपपद्यते 02045058a इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् 02045058c आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः 02046001 जनमेजय उवाच 02046001a कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् 02046001c यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः 02046002a के च तत्र सभास्तारा राजानो ब्रह्मवित्तम 02046002c के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् 02046003a विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज 02046003c मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम 02046004 सूत उवाच 02046004a एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् 02046004c आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् 02046005 वैशंपायन उवाच 02046005a शृणु मे विस्तरेणेमां कथां भरतसत्तम 02046005c भूय एव महाराज यदि ते श्रवणे मतिः 02046006a विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः 02046006c दुर्योधनमिदं वाक्यमुवाच विजने पुनः 02046007a अलं द्यूतेन गान्धारे विदुरो न प्रशंसति 02046007c न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति 02046008a हितं हि परमं मन्ये विदुरो यत्प्रभाषते 02046008c क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव 02046009a देवर्षिर्वासवगुरुर्देवराजाय धीमते 02046009c यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः 02046010a तद्वेद विदुरः सर्वं सरहस्यं महाकविः 02046010c स्थितश्च वचने तस्य सदाहमपि पुत्रक 02046011a विदुरो वापि मेधावी कुरूणां प्रवरो मतः 02046011c उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप 02046012a द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते 02046012c भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय 02046013a पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् 02046013c प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् 02046014a अधीतवान्कृती शास्त्रे लालितः सततं गृहे 02046014c भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् 02046015a पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् 02046015c तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक 02046016a स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् 02046016c नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा 02046017a तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् 02046017c समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि 02046018 दुर्योधन उवाच 02046018a अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः 02046018c नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः 02046019a न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो 02046019c ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे 02046020a सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् 02046020c स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते 02046021a आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः 02046021c कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने 02046022a हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा 02046022c अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने 02046023a ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते 02046023c युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे 02046024a उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् 02046024c नादृश्यत परः प्रान्तो नापरस्तत्र भारत 02046025a न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः 02046025c प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु 02046026a कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् 02046026c अपश्यं नलिनीं पूर्णामुदकस्येव भारत 02046027a वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः 02046027c शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् 02046028a तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् 02046028c सपत्नेनावहासो हि स मां दहति भारत 02046029a पुनश्च तादृशीमेव वापीं जलजशालिनीम् 02046029c मत्वा शिलासमां तोये पतितोऽस्मि नराधिप 02046030a तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् 02046030c द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम 02046031a क्लिन्नवस्त्रस्य च जले किंकरा राजचोदिताः 02046031c ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम 02046032a प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप 02046032c अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा 02046032e अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः 02046033a तत्र मां यमजौ दूरादालोक्य ललितौ किल 02046033c बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ 02046034a उवाच सहदेवस्तु तत्र मां विस्मयन्निव 02046034c इदं द्वारमितो गच्छ राजन्निति पुनः पुनः 02046035a नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे 02046035c यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे 02047001 दुर्योधन उवाच 02047001a यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत 02047001c आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः 02047002a न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् 02047002c फलतो भूमितो वापि प्रतिपद्यस्व भारत 02047003a ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् 02047003c प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु 02047004a अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् 02047004c उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः 02047005a गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः 02047005c प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः 02047005e त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः 02047006a कमण्डलूनुपादाय जातरूपमयाञ्शुभान् 02047006c एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः 02047007a शतं दासीसहस्राणां कार्पासिकनिवासिनाम् 02047007c श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः 02047007e शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च 02047008a बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः 02047008c उपनिन्युर्महाराज हयान्गान्धारदेशजान् 02047009a इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये 02047009c समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः 02047010a ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह 02047010c विविधं बलिमादाय रत्नानि विविधानि च 02047011a अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु 02047011c कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः 02047012a प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली 02047012c यवनैः सहितो राजा भगदत्तो महारथः 02047013a आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः 02047013c बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः 02047014a अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् 02047014c प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा 02047015a द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् 02047015c औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् 02047016a एकपादांश्च तत्राहमपश्यं द्वारि वारितान् 02047016c बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु 02047017a इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् 02047017c तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि 02047018a अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् 02047018c जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः 02047019a चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः 02047019c वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा 02047020a न पारयाम्यभिगतान्विविधान्द्वारि वारितान् 02047020c बल्यर्थं ददतस्तस्य नानारूपाननेकशः 02047021a कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः 02047021c आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् 02047022a प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् 02047022c और्णं च राङ्कवं चैव कीटजं पट्टजं तथा 02047023a कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः 02047023c श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् 02047024a निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् 02047024c अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् 02047025a रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः 02047025c बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः 02047026a शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः 02047026c महागमान्दूरगमान्गणितानर्बुदं हयान् 02047027a कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् 02047027c बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः 02047028a आसनानि महार्हाणि यानानि शयनानि च 02047028c मणिकाञ्चनचित्राणि गजदन्तमयानि च 02047029a रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् 02047029c हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान् 02047030a विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः 02047030c नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च 02047031a एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः 02047031c प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः 02048001 दुर्योधन उवाच 02048001a दायं तु तस्मै विविधं शृणु मे गदतोऽनघ 02048001c यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् 02048002a मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् 02048002c ये ते कीचकवेणूनां छायां रम्यामुपासते 02048003a खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः 02048003c पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः 02048004a ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः 02048004c जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः 02048005a कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् 02048005c हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु 02048006a उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः 02048006c उत्तरादपि कैलासादोषधीः सुमहाबलाः 02048007a पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः 02048007c अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः 02048008a ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः 02048008c वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये 02048008e फलमूलाशना ये च किराताश्चर्मवाससः 02048009a चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च 02048009c चर्मरत्नसुवर्णानां गन्धानां चैव राशयः 02048010a कैरातिकानामयुतं दासीनां च विशां पते 02048010c आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः 02048011a निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् 02048011c बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः 02048012a कायव्या दरदा दार्वाः शूरा वैयमकास्तथा 02048012c औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह 02048013a काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः 02048013c शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः 02048014a अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह 02048014c वसातयः समौलेयाः सह क्षुद्रकमालवैः 02048015a शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते 02048015c अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा 02048016a सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः 02048016c आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे 02048017a वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः 02048017c दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि 02048018a तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् 02048018c कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ 02048019a ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् 02048019c शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः 02048020a दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् 02048020c क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः 02048021a एते चान्ये च बहवो गणा दिग्भ्यः समागताः 02048021c अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः 02048022a राजा चित्ररथो नाम गन्धर्वो वासवानुगः 02048022c शतानि चत्वार्यददद्धयानां वातरंहसाम् 02048023a तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् 02048023c आम्रपत्रसवर्णानामददद्धेममालिनाम् 02048024a कृती तु राजा कौरव्य शूकराणां विशां पते 02048024c अददद्गजरत्नानां शतानि सुबहून्यपि 02048025a विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् 02048025c कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते 02048026a पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् 02048026c अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् 02048027a जवसत्त्वोपपन्नानां वयःस्थानां नराधिप 02048027c बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् 02048028a यज्ञसेनेन दासीनां सहस्राणि चतुर्दश 02048028c दासानामयुतं चैव सदाराणां विशां पते 02048029a गजयुक्ता महाराज रथाः षड्विंशतिस्तथा 02048029c राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् 02048030a समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च 02048030c शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् 02048031a संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः 02048031c तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः 02048032a प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः 02048032c उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च 02048032e प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् 02048033a सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा 02048033c नानादेशसमुत्थैश्च नानाजातिभिरागतैः 02048033e पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने 02048034a उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् 02048034c शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते 02048035a भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत 02048035c येषामामं च पक्वं च संविधत्ते युधिष्ठिरः 02048036a अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः 02048036c रथानामर्बुदं चापि पादाता बहवस्तथा 02048037a प्रमीयमाणमारब्धं पच्यमानं तथैव च 02048037c विसृज्यमानं चान्यत्र पुण्याहस्वन एव च 02048038a नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन 02048038c अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने 02048039a अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 02048039c त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 02048039e सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् 02048040a दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् 02048040c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 02048041a भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् 02048041c अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते 02048042a द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत 02048042c वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः 02049001 दुर्योधन उवाच 02049001a आर्यास्तु ये वै राजानः सत्यसंधा महाव्रताः 02049001c पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः 02049002a धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः 02049002c मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते 02049003a दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः 02049003c आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः 02049004a आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत 02049004c अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः 02049005a बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् 02049005c सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः 02049006a सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः 02049006c ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् 02049007a दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः 02049007c वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् 02049008a मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ 02049008c आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा 02049009a चेकितान उपासङ्गं धनुः काश्य उपाहरत् 02049009c असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् 02049010a अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः 02049010c नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् 02049011a प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः 02049011c जामदग्न्येन सहितास्तथान्ये वेदपारगाः 02049012a अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् 02049012c महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा 02049013a अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः 02049013c धनंजयश्च व्यजने भीमसेनश्च पाण्डवः 02049014a उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः 02049014c तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः 02049015a सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा 02049015c तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् 02049016a गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् 02049016c उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 02049017a तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् 02049017c प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् 02049018a प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा 02049018c धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः 02049019a सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः 02049019c विसंज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा 02049020a ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् 02049020c शतान्यनडुहां पञ्च द्विजमुख्येषु भारत 02049021a नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च 02049021c न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः 02049022a यथातिमात्रं कौन्तेयः श्रिया परमया युतः 02049022c राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः 02049023a एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो 02049023c कथं नु जीवितं श्रेयो मम पश्यसि भारत 02049024a अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप 02049024c कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत 02049025a एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर 02049025c तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च 02050001 धृतराष्ट्र उवाच 02050001a त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः 02050001c द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा 02050002a अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् 02050002c अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ 02050003a तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप 02050003c पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह 02050004a अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ 02050004c ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् 02050005a आहरिष्यन्ति राजानस्तवापि विपुलं धनम् 02050005c प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च 02050006a अनर्थाचरितं तात परस्वस्पृहणं भृशम् 02050006c स्वसंतुष्टः स्वधर्मस्थो यः स वै सुखमेधते 02050007a अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु 02050007c उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् 02050008a विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः 02050008c अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति 02050009a अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् 02050009c क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ 02050010 दुर्योधन उवाच 02050010a जानन्वै मोहयसि मां नावि नौरिव संयता 02050010c स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् 02050011a न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता 02050011c भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः 02050012a परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति 02050012c पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः 02050013a राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः 02050013c प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् 02050014a लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः 02050014c तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि 02050015a क्षत्रियस्य महाराज जये वृत्तिः समाहिता 02050015c स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ 02050016a प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः 02050016c प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ 02050017a प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबाधनः 02050017c तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् 02050018a असंतोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् 02050018c समुच्छ्रये यो यतते स राजन्परमो नयी 02050019a ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा 02050019c पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः 02050020a अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः 02050020c शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी 02050021a द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव 02050021c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 02050022a नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते 02050022c येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः 02050023a शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते 02050023c व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः 02050024a अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः 02050024c वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् 02050025a आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत 02050025c एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः 02050026a जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते 02050026c एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः 02050027a नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति 02050027c अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि 02050028a अतादृशस्य किं मेऽद्य जीवितेन विशां पते 02050028c वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः 02051001 शकुनिरुवाच 02051001a यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे 02051001c तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः 02051002a अगत्वा संशयमहमयुद्ध्वा च चमूमुखे 02051002c अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये 02051003a ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत 02051003c अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् 02051004 दुर्योधन उवाच 02051004a अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् 02051004c द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् 02051005 धृतराष्ट्र उवाच 02051005a स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः 02051005c तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् 02051006 दुर्योधन उवाच 02051006a विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः 02051006c पाण्डवानां हिते युक्तो न तथा मम कौरव 02051007a नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः 02051007c मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन 02051008a भयं परिहरन्मन्द आत्मानं परिपालयन् 02051008c वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति 02051009a न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते 02051009c यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् 02051010 धृतराष्ट्र उवाच 02051010a सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये 02051010c वैरं विकारं सृजति तद्वै शस्त्रमनायसम् 02051011a अनर्थमर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघोरम् 02051011c तद्वै प्रवृत्तं तु यथा कथंचि;द्विमोक्षयेच्चाप्यसिसायकांश्च 02051012 दुर्योधन उवाच 02051012a द्यूते पुराणैर्व्यवहारः प्रणीत;स्तत्रात्ययो नास्ति न संप्रहारः 02051012c तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व 02051013a स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् 02051013c भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व 02051014 धृतराष्ट्र उवाच 02051014a वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र 02051014c पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् 02051015a दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन 02051015c तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति 02051016 वैशंपायन उवाच 02051016a एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च 02051016c शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः 02051017a सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् 02051017c सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः 02051018a श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु 02051018c सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः 02051019a कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् 02051019c चित्रैर्हैमैरासनैरभ्युपेता;माचख्युस्ते तस्य राज्ञः प्रतीताः 02051020a ततो विद्वान्विदुरं मन्त्रिमुख्य;मुवाचेदं धृतराष्ट्रो नरेन्द्रः 02051020c युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व 02051021a सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः 02051021c सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति 02051022a मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः 02051022c मत्वा च दुस्तरं दैवमेतद्राजा चकार ह 02051023a अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः 02051023c नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् 02051024a नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि 02051024c पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या;देतच्छङ्के द्यूतकृते नरेन्द्र 02051025 धृतराष्ट्र उवाच 02051025a नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् 02051025c धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् 02051026a तदद्य विदुर प्राप्य राजानं मम शासनात् 02051026c क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् 02052001 वैशंपायन उवाच 02052001a ततः प्रायाद्विदुरोऽश्वैरुदारै;र्महाजवैर्बलिभिः साधुदान्तैः 02052001c बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् 02052002a सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् 02052002c प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः 02052003a स राजगृहमासाद्य कुबेरभवनोपमम् 02052003c अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् 02052004a तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् 02052004c पूजापूर्वं प्रतिगृह्याजमीढ;स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् 02052005 युधिष्ठिर उवाच 02052005a विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि 02052005c कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् 02052006 विदुर उवाच 02052006a राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः 02052006c प्रीतो राजन्पुत्रगणैर्विनीतै;र्विशोक एवात्मरतिर्दृढात्मा 02052007a इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च 02052007c इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र 02052008a समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च 02052008c प्रीयामहे भवतः संगमेन; समागताः कुरवश्चैव सर्वे 02052009a दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा 02052009c तान्द्रक्ष्यसे कितवान्संनिविष्टा;नित्यागतोऽहं नृपते तज्जुषस्व 02052010 युधिष्ठिर उवाच 02052010a द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः 02052010c किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म 02052011 विदुर उवाच 02052011a जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे 02052011c राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व 02052012 युधिष्ठिर उवाच 02052012a के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः 02052012c पृच्छामि त्वां विदुर ब्रूहि नस्ता;न्यैर्दीव्यामः शतशः संनिपत्य 02052013 विदुर उवाच 02052013a गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः 02052013c विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च 02052014 युधिष्ठिर उवाच 02052014a महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति 02052014c धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे 02052015a नाहं राज्ञो धृतराष्ट्रस्य शासना;न्न गन्तुमिच्छामि कवे दुरोदरम् 02052015c इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा 02052016a न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् 02052016c आहूतोऽहं न निवर्ते कदाचि;त्तदाहितं शाश्वतं वै व्रतं मे 02052017 वैशंपायन उवाच 02052017a एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् 02052017c प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा 02052018a दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् 02052018c धातुश्च वशमन्वेति पाशैरिव नरः सितः 02052019a इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः 02052019c अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः 02052020a बाह्लिकेन रथं दत्तमास्थाय परवीरहा 02052020c परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः 02052021a राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः 02052021c धृतराष्ट्रेण चाहूतः कालस्य समयेन च 02052022a स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ 02052022c समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः 02052023a तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च 02052023c समियाय यथान्यायं द्रौणिना च विभुः सह 02052024a समेत्य च महाबाहुः सोमदत्तेन चैव ह 02052024c दुर्योधनेन शल्येन सौबलेन च वीर्यवान् 02052025a ये चान्ये तत्र राजानः पूर्वमेव समागताः 02052025c जयद्रथेन च तथा कुरुभिश्चापि सर्वशः 02052026a ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः 02052026c प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः 02052027a ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् 02052027c स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् 02052028a अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः 02052028c ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् 02052029a राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः 02052029c चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः 02052030a ततो हर्षः समभवत्कौरवाणां विशां पते 02052030c तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् 02052031a विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ 02052031c ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः 02052032a याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव 02052032c स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् 02052033a ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् 02052033c कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च 02052034a ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः 02052034c कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च 02052035a मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ 02052035c उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः 02052036a जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् 02052036c स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् 02052037a सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः 02052037c सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् 02053001 शकुनिरुवाच 02053001a उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः 02053001c अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर 02053002 युधिष्ठिर उवाच 02053002a निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः 02053002c न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि 02053003a न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह 02053003c शकुने मैव नो जैषीरमार्गेण नृशंसवत् 02053004 शकुनिरुवाच 02053004a योऽन्वेति संख्यां निकृतौ विधिज्ञ;श्चेष्टास्वखिन्नः कितवोऽक्षजासु 02053004c महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु 02053005a अक्षग्लहः सोऽभिभवेत्परं न;स्तेनैव कालो भवतीदमात्थ 02053005c दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः 02053006 युधिष्ठिर उवाच 02053006a एवमाहायमसितो देवलो मुनिसत्तमः 02053006c इमानि लोकद्वाराणि यो वै संचरते सदा 02053007a इदं वै देवनं पापं मायया कितवैः सह 02053007c धर्मेण तु जयो युद्धे तत्परं साधु देवनम् 02053008a नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत 02053008c अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् 02053009a शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे 02053009c तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् 02053010a नाहं निकृत्या कामये सुखान्युत धनानि वा 02053010c कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते 02053011 शकुनिरुवाच 02053011a श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर 02053011c विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः 02053012a एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे 02053012c देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् 02053013 युधिष्ठिर उवाच 02053013a आहूतो न निवर्तेयमिति मे व्रतमाहितम् 02053013c विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः 02053014a अस्मिन्समागमे केन देवनं मे भविष्यति 02053014c प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् 02053015 दुर्योधन उवाच 02053015a अहं दातास्मि रत्नानां धनानां च विशां पते 02053015c मदर्थे देविता चायं शकुनिर्मातुलो मम 02053016 युधिष्ठिर उवाच 02053016a अन्येनान्यस्य विषमं देवनं प्रतिभाति मे 02053016c एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् 02053017 वैशंपायन उवाच 02053017a उपोह्यमाने द्यूते तु राजानः सर्व एव ते 02053017c धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः 02053018a भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः 02053018c नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत 02053019a ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः 02053019c सिंहासनानि भूरीणि विचित्राणि च भेजिरे 02053020a शुशुभे सा सभा राजन्राजभिस्तैः समागतैः 02053020c देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् 02053021a सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः 02053021c प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् 02053022 युधिष्ठिर उवाच 02053022a अयं बहुधनो राजन्सागरावर्तसंभवः 02053022c मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः 02053023a एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव 02053023c भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् 02053024 दुर्योधन उवाच 02053024a सन्ति मे मणयश्चैव धनानि विविधानि च 02053024c मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् 02053025 वैशंपायन उवाच 02053025a ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् 02053025c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054001 युधिष्ठिर उवाच 02054001a मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् 02054001c शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः 02054002a इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् 02054002c कोशो हिरण्यमक्षय्यं जातरूपमनेकशः 02054002e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054003 वैशंपायन उवाच 02054003a इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् 02054004 युधिष्ठिर उवाच 02054004a अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः 02054004c सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः 02054005a संह्रादनो राजरथो य इहास्मानुपावहत् 02054005c जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः 02054006a अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः 02054006c वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् 02054006e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054007 वैशंपायन उवाच 02054007a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054007c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054008 युधिष्ठिर उवाच 02054008a सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल 02054008c हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः 02054009a सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि 02054009c ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः 02054010a सर्वे च पुरभेत्तारो नगमेघनिभा गजाः 02054010c एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054011 वैशंपायन उवाच 02054011a तमेवंवादिनं पार्थं प्रहसन्निव सौबलः 02054011c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054012 युधिष्ठिर उवाच 02054012a शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः 02054012c कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः 02054013a महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः 02054013c मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः 02054014a अनुसेवां चरन्तीमाः कुशला नृत्यसामसु 02054014c स्नातकानाममात्यानां राज्ञां च मम शासनात् 02054014e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054015 वैशंपायन उवाच 02054015a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054015c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054016 युधिष्ठिर उवाच 02054016a एतावन्त्येव दासानां सहस्राण्युत सन्ति मे 02054016c प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा 02054017a प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः 02054017c पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत 02054017e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054018 वैशंपायन उवाच 02054018a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054018c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054019 युधिष्ठिर उवाच 02054019a रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः 02054019c हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः 02054020a एकैको यत्र लभते सहस्रपरमां भृतिम् 02054020c युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् 02054020e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054021 वैशंपायन उवाच 02054021a इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् 02054021c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054022 युधिष्ठिर उवाच 02054022a अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः 02054022c ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने 02054022e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054023 वैशंपायन उवाच 02054023a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054023c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054024 युधिष्ठिर उवाच 02054024a रथानां शकटानां च हयानां चायुतानि मे 02054024c युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः 02054025a एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः 02054025c क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् 02054026a षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः 02054026c एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054027 वैशंपायन उवाच 02054027a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054027c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02054028 युधिष्ठिर उवाच 02054028a ताम्रलोहैः परिवृता निधयो मे चतुःशताः 02054028c पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै 02054028e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02054029 वैशंपायन उवाच 02054029a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02054029c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02055001 विदुर उवाच 02055001a महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु 02055001c मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् 02055002a यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः 02055002c दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः 02055003a गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे 02055003c दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम 02055004a मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते 02055004c आरुह्य तं मज्जति वा पतनं वाधिगच्छति 02055005a सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते 02055005c प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः 02055006a विदितं ते महाराज राजस्वेवासमञ्जसम् 02055006c अन्धका यादवा भोजाः समेताः कंसमत्यजन् 02055007a नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना 02055007c एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः 02055008a त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् 02055008c निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् 02055009a काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च 02055009c क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे 02055010a त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् 02055010c ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् 02055011a सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः 02055011c इति स्म भाषते काव्यो जम्भत्यागे महासुरान् 02055012a हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् 02055012c गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् 02055013a सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परंतप 02055013c आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् 02055014a तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ 02055014c मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा 02055015a जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत 02055015c मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः 02055016a वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् 02055016c मा गमः ससुतामात्यः सबलश्च पराभवम् 02055017a समवेतान्हि कः पार्थान्प्रतियुध्येत भारत 02055017c मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः 02056001 विदुर उवाच 02056001a द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय 02056001c यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् 02056002a प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः 02056002c दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः 02056003a दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति 02056003c विषाणं गौरिव मदात्स्वयमारुजते बलात् 02056004a यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम् 02056004c नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत् 02056005a दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च 02056005c अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम् 02056006a आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः 02056006c युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा 02056007a प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः 02056007c वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम् 02056008a यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः 02056008c वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् 02056009a महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः 02056009c बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् 02056010a जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः 02056010c यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः 02057001 दुर्योधन उवाच 02057001a परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् 02057001c जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् 02057002a सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति 02057002c जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् 02057003a उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि 02057003c भर्तृघ्नत्वान्न हि पापीय आहु;स्तस्मात्क्षत्तः किं न बिभेषि पापात् 02057004a जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः 02057004c द्विषद्भिस्त्वं संप्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः संप्रमोहात् 02057005a अमित्रतां याति नरोऽक्षमं ब्रुव;न्निगूहते गुह्यममित्रसंस्तवे 02057005c तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे 02057006a मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् 02057006c यशो रक्षस्व विदुर संप्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् 02057007a अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः 02057007c न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् 02057008a एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता 02057008c तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि 02057009a भिनत्ति शिरसा शैलमहिं भोजयते च यः 02057009c स एव तस्य कुरुते कार्याणामनुशासनम् 02057010a यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति 02057010c मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः 02057011a प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति 02057011c भस्मापि न स विन्देत शिष्टं क्वचन भारत 02057012a न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् 02057012c स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति 02057013 विदुर उवाच 02057013a एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् 02057013c राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति 02057014a अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे 02057014c यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः 02057015a न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 02057015c ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 02057016a अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु 02057016c स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् 02057017a लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह 02057017c अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः 02057018a यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये 02057018c अप्रियाण्याह पथ्यानि तेन राजा सहायवान् 02057019a अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि 02057019c सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य 02057020a वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् 02057020c यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः 02057021a आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः 02057021c एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन 02058001 शकुनिरुवाच 02058001a बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर 02058001c आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् 02058002 युधिष्ठिर उवाच 02058002a मम वित्तमसंख्येयं यदहं वेद सौबल 02058002c अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि 02058003a अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् 02058003c शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् 02058003e एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 02058004 वैशंपायन उवाच 02058004a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058004c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058005 युधिष्ठिर उवाच 02058005a गवाश्वं बहुधेनूकमसंख्येयमजाविकम् 02058005c यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल 02058005e एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 02058006 वैशंपायन उवाच 02058006a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058006c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058007 युधिष्ठिर उवाच 02058007a पुरं जनपदो भूमिरब्राह्मणधनैः सह 02058007c अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम 02058007e एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया 02058008 वैशंपायन उवाच 02058008a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058008c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058009 युधिष्ठिर उवाच 02058009a राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः 02058009c कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् 02058009e एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया 02058010 वैशंपायन उवाच 02058010a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058010c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058011 युधिष्ठिर उवाच 02058011a श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः 02058011c नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् 02058012 शकुनिरुवाच 02058012a प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर 02058012c अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि 02058013 वैशंपायन उवाच 02058013a एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत 02058013c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058014 युधिष्ठिर उवाच 02058014a अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च 02058014c अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण 02058015 वैशंपायन उवाच 02058015a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058015c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058016 शकुनिरुवाच 02058016a माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया 02058016c गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ 02058017 युधिष्ठिर उवाच 02058017a अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् 02058017c यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि 02058018 शकुनिरुवाच 02058018a गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति 02058018c ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ 02058019a स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर 02058019c कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव 02058020 युधिष्ठिर उवाच 02058020a यो नः संख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी 02058020c अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन 02058021 वैशंपायन उवाच 02058021a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058021c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058022 शकुनिरुवाच 02058022a अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची 02058022c भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् 02058023 युधिष्ठिर उवाच 02058023a यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः 02058023c तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी 02058024a बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः 02058024c अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् 02058025 वैशंपायन उवाच 02058025a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058025c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058026 शकुनिरुवाच 02058026a बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् 02058026c आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् 02058027 युधिष्ठिर उवाच 02058027a अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा 02058027c कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे 02058028 वैशंपायन उवाच 02058028a एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः 02058028c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02058029 शकुनिरुवाच 02058029a एतत्पापिष्ठमकरोर्यदात्मानं पराजितः 02058029c शिष्टे सति धने राजन्पाप आत्मपराजयः 02058030 वैशंपायन उवाच 02058030a एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् 02058030c पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् 02058031 शकुनिरुवाच 02058031a अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः 02058031c पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय 02058032 युधिष्ठिर उवाच 02058032a नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी 02058032c सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया 02058033a शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया 02058033c शारदोत्पलसेविन्या रूपेण श्रीसमानया 02058034a तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा 02058034c तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् 02058035a चरमं संविशति या प्रथमं प्रतिबुध्यते 02058035c आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 02058036a आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च 02058036c वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा 02058037a तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया 02058037c ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल 02058038 वैशंपायन उवाच 02058038a एवमुक्ते तु वचने धर्मराजेन भारत 02058038c धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः 02058039a चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाः 02058039c भीष्मद्रोणकृपादीनां स्वेदश्च समजायत 02058040a शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् 02058040c आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा 02058041a धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः 02058041c किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत 02058042a जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः 02058042c इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् 02058043a सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः 02058043c जितमित्येव तानक्षान्पुनरेवान्वपद्यत 02059001 दुर्योधन उवाच 02059001a एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् 02059001c संमार्जतां वेश्म परैतु शीघ्र;मानन्दो नः सह दासीभिरस्तु 02059002 विदुर उवाच 02059002a दुर्विभाव्यं भवति त्वादृशेन; न मन्द संबुध्यसि पाशबद्धः 02059002c प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् 02059003a आशीविषाः शिरसि ते पूर्णकोशा महाविषाः 02059003c मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् 02059004a न हि दासीत्वमापन्ना कृष्णा भवति भारत 02059004c अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः 02059005a अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः 02059005c द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले 02059006a नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत 02059006c ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् 02059007a समुच्चरन्त्यतिवादा हि वक्त्रा;द्यैराहतः शोचति रात्र्यहानि 02059007c परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु 02059008a अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् 02059008c निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः 02059009a न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा 02059009c तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव 02059010a द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र 02059010c त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन 02059011a मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव 02059011c मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति 02059012a अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः 02059012c वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव 02060001 वैशंपायन उवाच 02060001a धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः 02060001c अवैक्षत प्रातिकामीं सभाया;मुवाच चैनं परमार्यमध्ये 02060002a त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः 02060002c क्षत्ता ह्ययं विवदत्येव भीरु;र्न चास्माकं वृद्धिकामः सदैव 02060003a एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य 02060003c प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् 02060004 प्रातिकाम्युवाच 02060004a युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् 02060004c सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि 02060005 द्रौपद्युवाच 02060005a कथं त्वेवं वदसि प्रातिकामि;न्को वै दीव्येद्भार्यया राजपुत्रः 02060005c मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किंचित् 02060006 प्रातिकाम्युवाच 02060006a यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः 02060006c न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि 02060007 द्रौपद्युवाच 02060007a गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज 02060007c किं नु पूर्वं पराजैषीरात्मानं मां नु भारत 02060007e एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज 02060008 वैशंपायन उवाच 02060008a सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा 02060008c कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी 02060008e किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् 02060009a युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् 02060009c न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा 02060010 दुर्योधन उवाच 02060010a इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् 02060010c इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः 02060011 वैशंपायन उवाच 02060011a स गत्वा राजभवनं दुर्योधनवशानुगः 02060011c उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव 02060012a सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः संक्षयः कौरवाणाम् 02060012c न वै समृद्धिं पालयते लघीया;न्यत्त्वं सभामेष्यसि राजपुत्रि 02060013 द्रौपद्युवाच 02060013a एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ 02060013c धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः 02060014 वैशंपायन उवाच 02060014a युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् 02060014c द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ 02060015a एकवस्त्रा अधोनीवी रोदमाना रजस्वला 02060015c सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् 02060016a ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः 02060016c इहैवैतामानय प्रातिकामि;न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु 02060017a ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः 02060017c विहाय मानं पुनरेव सभ्या;नुवाच कृष्णां किमहं ब्रवीमि 02060018 दुर्योधन उवाच 02060018a दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः 02060018c स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः 02060019a ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः 02060019c प्रविश्य तद्वेश्म महारथाना;मित्यब्रवीद्द्रौपदीं राजपुत्रीम् 02060020a एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा 02060020c कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि 02060021a ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण 02060021c आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुंगवस्य 02060022a ततो जवेनाभिससार रोषा;द्दुःशासनस्तामभिगर्जमानः 02060022c दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् 02060023a ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः 02060023c ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन 02060024a स तां परामृश्य सभासमीप;मानीय कृष्णामतिकृष्णकेशीम् 02060024c दुःशासनो नाथवतीमनाथव;च्चकर्ष वायुः कदलीमिवार्ताम् 02060025a सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि 02060025c एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य 02060026a ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् 02060026c कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् 02060027a रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा 02060027c द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् 02060028a प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना 02060028c ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा 02060029a इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः 02060029c गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् 02060030a नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः 02060030c न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः 02060031a धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः 02060031c वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य 02060032a इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् 02060032c न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् 02060033a धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् 02060033c यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् 02060034a द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि 02060034c राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः 02060035a तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् 02060035c सा पाण्डवान्कोपपरीतदेहा;न्संदीपयामास कटाक्षपातैः 02060036a हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव 02060036c यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् 02060037a दुःशासनश्चापि समीक्ष्य कृष्णा;मवेक्षमाणां कृपणान्पतींस्तान् 02060037c आधूय वेगेन विसंज्ञकल्पा;मुवाच दासीति हसन्निवोग्रः 02060038a कर्णस्तु तद्वाक्यमतीव हृष्टः; संपूजयामास हसन्सशब्दम् 02060038c गान्धारराजः सुबलस्य पुत्र;स्तथैव दुःशासनमभ्यनन्दत् 02060039a सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव 02060039c तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् 02060040 भीष्म उवाच 02060040a न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् 02060040c अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य 02060041a त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् 02060041c उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् 02060042a द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः 02060042c न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि 02060043 द्रौपद्युवाच 02060043a आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः 02060043c द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः 02060044a स शुद्धभावो निकृतिप्रवृत्ति;मबुध्यमानः कुरुपाण्डवाग्र्यः 02060044c संभूय सर्वैश्च जितोऽपि यस्मा;त्पश्चाच्च यत्कैतवमभ्युपेतः 02060045a तिष्ठन्ति चेमे कुरवः सभाया;मीशाः सुतानां च तथा स्नुषाणाम् 02060045c समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् 02060046 वैशंपायन उवाच 02060046a तथा ब्रुवन्तीं करुणं रुदन्ती;मवेक्षमाणामसकृत्पतींस्तान् 02060046c दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव 02060047a तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् 02060047c वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः 02061001 भीम उवाच 02061001a भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर 02061001c न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि 02061002a काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् 02061002c तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् 02061003a वाहनानि धनं चैव कवचान्यायुधानि च 02061003c राज्यमात्मा वयं चैव कैतवेन हृतं परैः 02061004a न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् 02061004c इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते 02061005a एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः 02061005c त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः 02061006a अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते 02061006c बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय 02061007 अर्जुन उवाच 02061007a न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः 02061007c परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् 02061008a न सकामाः परे कार्या धर्ममेवाचरोत्तमम् 02061008c भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति 02061009a आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् 02061009c दीव्यते परकामेन तन्नः कीर्तिकरं महत् 02061010 भीमसेन उवाच 02061010a एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय 02061010c दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव 02061011 वैशंपायन उवाच 02061011a तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः 02061011c क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् 02061012a याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः 02061012c अविवेकेन वाक्यस्य नरकः सद्य एव नः 02061013a भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ 02061013c समेत्य नाहतुः किंचिद्विदुरश्च महामतिः 02061014a भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च 02061014c अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ 02061015a ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः 02061015c कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति 02061016a यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा 02061016c विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् 02061017a एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः 02061017c न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा 02061018a उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् 02061018c पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् 02061019a विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन 02061019c मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः 02061020a चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् 02061020c मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् 02061021a एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते 02061021c तथायुक्तेन च कृतां क्रियां लोको न मन्यते 02061022a तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् 02061022c समाहूतेन कितवैरास्थितो द्रौपदीपणः 02061023a साधारणी च सर्वेषां पाण्डवानामनिन्दिता 02061023c जितेन पूर्वं चानेन पाण्डवेन कृतः पणः 02061024a इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना 02061024c एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् 02061025a एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत 02061025c विकर्णं शंसमानानां सौबलं च विनिन्दताम् 02061026a तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः 02061026c प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् 02061027a दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि 02061027c तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः 02061028a एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया 02061028c धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् 02061029a त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे 02061029c यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् 02061030a न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर 02061030c यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः 02061031a कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज 02061031c यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः 02061032a अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ 02061032c एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् 02061033a कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः 02061033c भवत्यविजिता केन हेतुनैषा मता तव 02061034a मन्यसे वा सभामेतामानीतामेकवाससम् 02061034c अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् 02061035a एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन 02061035c इयं त्वनेकवशगा बन्धकीति विनिश्चिता 02061036a अस्याः सभामानयनं न चित्रमिति मे मतिः 02061036c एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता 02061037a यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः 02061037c सौबलेनेह तत्सर्वं धर्मेण विजितं वसु 02061038a दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः 02061038c पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर 02061039a तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत 02061039c अवकीर्योत्तरीयाणि सभायां समुपाविशन् 02061040a ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् 02061040c सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे 02061041a आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते 02061041c तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः 02061042a ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः 02061042c तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् 02061043a शशाप तत्र भीमस्तु राजमध्ये महास्वनः 02061043c क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् 02061044a इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः 02061044c नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति 02061045a यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः 02061045c पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् 02061046a अस्य पापस्य दुर्जातेर्भारतापसदस्य च 02061046c न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि 02061047a तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् 02061047c प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् 02061048a यदा तु वाससां राशिः सभामध्ये समाचितः 02061048c ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् 02061049a धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः 02061049c सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा 02061050a न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह 02061050c स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् 02061051a ततो बाहू समुच्छ्रित्य निवार्य च सभासदः 02061051c विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् 02061052 विदुर उवाच 02061052a द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् 02061052c न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते 02061053a सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् 02061053c तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत 02061054a धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः 02061054c विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः 02061055a विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः 02061055c भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति 02061056a यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः 02061056c अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते 02061057a यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः 02061057c अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः 02061058a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 02061058c प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च 02061059a प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः 02061059c कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् 02061060a अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा 02061060c तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् 02061061a तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् 02061061c ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा 02061062a स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् 02061062c तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् 02061063a यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि 02061063c शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति 02061064a सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् 02061064c जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् 02061065 प्रह्लाद उवाच 02061065a त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च 02061065c ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु 02061066a यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् 02061066c के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः 02061067 कश्यप उवाच 02061067a जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् 02061067c सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति 02061068a तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते 02061068c तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा 02061069a विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते 02061069c न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः 02061070a अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु 02061070c पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् 02061071a अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः 02061071c एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते 02061072a वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते 02061072c इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् 02061073a हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् 02061073c ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् 02061074a स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् 02061074c अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च 02061075a एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः 02061075c तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् 02061076a समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् 02061076c तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते 02061077 विदुर उवाच 02061077a कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् 02061077c श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः 02061078a माता सुधन्वनश्चापि श्रेयसी मातृतस्तव 02061078c विरोचन सुधन्वायं प्राणानामीश्वरस्तव 02061079 सुधन्वोवाच 02061079a पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः 02061079c अनुजानामि ते पुत्रं जीवत्वेष शतं समाः 02061080 विदुर उवाच 02061080a एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः 02061080c यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् 02061081 वैशंपायन उवाच 02061081a विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः 02061081c कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय 02061082a तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् 02061082c दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् 02062001 द्रौपद्युवाच 02062001a पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् 02062001c विह्वलास्मि कृतानेन कर्षता बलिना बलात् 02062002a अभिवादं करोम्येषां गुरूणां कुरुसंसदि 02062002c न मे स्यादपराधोऽयं यदिदं न कृतं मया 02062003 वैशंपायन उवाच 02062003a सा तेन च समुद्धूता दुःखेन च तपस्विनी 02062003c पतिता विललापेदं सभायामतथोचिता 02062004 द्रौपद्युवाच 02062004a स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः 02062004c न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता 02062005a यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे 02062005c साहमद्य सभामध्ये दृश्यामि कुरुसंसदि 02062006a यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे 02062006c स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना 02062007a मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् 02062007c स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् 02062008a किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा 02062008c सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् 02062009a धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् 02062009c स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः 02062010a कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती 02062010c वासुदेवस्य च सखी पार्थिवानां सभामियाम् 02062011a तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् 02062011c ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः 02062012a अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः 02062012c क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः 02062013a जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः 02062013c तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः 02062014 भीष्म उवाच 02062014a उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् 02062014c लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः 02062015a बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः 02062015c स धर्मो धर्मवेलायां भवत्यभिहितः परैः 02062016a न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् 02062016c सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् 02062017a नूनमन्तः कुलस्यास्य भविता नचिरादिव 02062017c तथा हि कुरवः सर्वे लोभमोहपरायणाः 02062018a कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् 02062018c धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता 02062019a उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् 02062019c यत्कृच्छ्रमपि संप्राप्ता धर्ममेवान्ववेक्षसे 02062020a एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः 02062020c शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः 02062021a युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः 02062021c अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति 02062022 वैशंपायन उवाच 02062022a तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् 02062022c नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः 02062023a दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां;स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः 02062023c स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् 02062024a तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव 02062024c पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् 02062025a अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः 02062025c कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् 02062026a धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः 02062026c ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व 02062027a सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव 02062027c न विब्रुवन्त्यार्यसत्त्वा यथाव;त्पतींश्च ते समवेक्ष्याल्पभाग्यान् 02062028a ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः 02062028c चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः 02062028e सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः 02062029a युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः 02062029c किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः 02062030a किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः 02062030c भीमसेनो यमौ चेति भृशं कौतूहलान्विताः 02062031a तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् 02062031c प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् 02062032a यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः 02062032c न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि 02062033a ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः 02062033c मन्यते जितमात्मानं यद्येष विजिता वयम् 02062034a न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् 02062034c मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् 02062035a पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव 02062035c नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः 02062036a धर्मपाशसितस्त्वेवं नाधिगच्छामि संकटम् 02062036c गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च 02062037a धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव 02062037c धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः 02062038a तमुवाच तदा भीष्मो द्रोणो विदुर एव च 02062038c क्षम्यतामेवमित्येवं सर्वं संभवति त्वयि 02063001 कर्ण उवाच 02063001a त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी 02063001c दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी 02063002a प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म 02063002c ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः 02063003a अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन 02063003c अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु 02063004a पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च 02063004c दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति 02063005a प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः 02063005c पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु 02063006 वैशंपायन उवाच 02063006a तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः 02063006c राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः 02063007 भीम उवाच 02063007a नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः 02063007c किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र 02063008 वैशंपायन उवाच 02063008a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा 02063008c युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम् 02063009a भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने 02063009c प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे 02063010a एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् 02063010c स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः 02063011a कदलीदण्डसदृशं सर्वलक्षणपूजितम् 02063011c गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् 02063012a अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव 02063012c द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् 02063013a वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते 02063013c प्रोवाच राजमध्ये तं सभां विश्रावयन्निव 02063014a पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः 02063014c यद्येतमूरुं गदया न भिन्द्यां ते महाहवे 02063015a क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः 02063015c वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः 02063016 विदुर उवाच 02063016a परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् 02063016c दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि 02063017a अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् 02063017c योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति 02063018a इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् 02063018c इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा 02063019a स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः 02063019c गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात 02063020 दुर्योधन उवाच 02063020a भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव 02063020c युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि 02063021 अर्जुन उवाच 02063021a ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा 02063021c ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव 02063022 वैशंपायन उवाच 02063022a ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे 02063022c तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः 02063023a तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च 02063023c भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः 02063024a ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे 02063024c निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे 02063025a हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम् 02063025c स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् 02063026a एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् 02063026c कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः 02063027 धृतराष्ट्र उवाच 02063027a वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि 02063027c वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती 02063028 द्रौपद्युवाच 02063028a ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ 02063028c सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः 02063029a मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः 02063029c एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् 02063030a राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् 02063030c लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत 02063031 धृतराष्ट्र उवाच 02063031a द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् 02063031c मनो हि मे वितरति नैकं त्वं वरमर्हसि 02063032 द्रौपद्युवाच 02063032a सरथौ सधनुष्कौ च भीमसेनधनंजयौ 02063032c नकुलं सहदेवं च द्वितीयं वरये वरम् 02063033 धृतराष्ट्र उवाच 02063033a तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता 02063033c त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी 02063034 द्रौपद्युवाच 02063034a लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे 02063034c अनर्हा वरमादातुं तृतीयं राजसत्तम 02063035a एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ 02063035c त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः 02063036a पापीयांस इमे भूत्वा संतीर्णाः पतयो मम 02063036c वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा 02064001 कर्ण उवाच 02064001a या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः 02064001c तासामेतादृशं कर्म न कस्यांचन शुश्रुमः 02064002a क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति 02064002c द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् 02064003a अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् 02064003c पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् 02064004 वैशंपायन उवाच 02064004a तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः 02064004c स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः 02064005a त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् 02064005c अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः 02064006a अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते 02064006c देहे त्रितयमेवैतत्पुरुषस्योपजायते 02064007a तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् 02064007c धनंजय कथं स्वित्स्यादपत्यमभिमृष्टजम् 02064008 अर्जुन उवाच 02064008a न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः 02064008c भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः 02064009a स्मरन्ति सुकृतान्येव न वैराणि कृतानि च 02064009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः 02064010 भीम उवाच 02064010a इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् 02064010c अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत 02064011a किं नो विवदितेनेह किं नः क्लेशेन भारत 02064011c अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् 02064012 वैशंपायन उवाच 02064012a इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः 02064012c मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत 02064013a सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा 02064013c स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् 02064014a क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप 02064014c सधूमः सस्फुलिङ्गार्चिः पावकः समजायत 02064015a भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् 02064015c युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः 02064016a युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् 02064016c मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत 02064017a निवार्य तं महाबाहुं कोपसंरक्तलोचनम् 02064017c पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः 02065001 युधिष्ठिर उवाच 02065001a राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः 02065001c नित्यं हि स्थातुमिच्छामस्तव भारत शासने 02065002 धृतराष्ट्र उवाच 02065002a अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत 02065002c अनुज्ञाताः सहधनाः स्वराज्यमनुशासत 02065003a इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् 02065003c धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् 02065004a वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर 02065004c विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता 02065005a यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत 02065005c नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते 02065006a न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् 02065006c विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः 02065007a संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः 02065007c प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् 02065008a नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः 02065008c प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः 02065009a स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि 02065009c सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः 02065010a तथाचरितमार्येण त्वयास्मिन्सत्समागमे 02065010c दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः 02065011a मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् 02065011c उपस्थितं वृद्धमन्धं पितरं पश्य भारत 02065012a प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् 02065012c मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् 02065013a अशोच्याः कुरवो राजन्येषां त्वमनुशासिता 02065013c मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः 02065014a त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः 02065014c श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः 02065015a अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश 02065015c भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः 02065016 वैशंपायन उवाच 02065016a इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः 02065016c कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह 02065017a ते रथान्मेघसंकाशानास्थाय सह कृष्णया 02065017c प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् 02066001 जनमेजय उवाच 02066001a अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान् 02066001c पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा 02066002 वैशंपायन उवाच 02066002a अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता 02066002c राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति 02066003a दुर्योधनं समासाद्य सामात्यं भरतर्षभ 02066003c दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् 02066004a दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ 02066004c शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः 02066005a अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः 02066005c मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः 02066006a वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् 02066006c अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् 02066007 दुर्योधन उवाच 02066007a न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः 02066007c शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः 02066008a सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण 02066008c पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् 02066009a ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान् 02066009c यदि तान्योधयिष्यामः किं वा नः परिहास्यति 02066010a अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् 02066010c कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति 02066011a आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः 02066011c निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा 02066012a संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी 02066012c गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते 02066013a गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः 02066013c स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् 02066014a नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् 02066014c सहदेवश्च राजा च चक्रुराकारमिङ्गितैः 02066015a ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् 02066015c अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः 02066016a न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते 02066016c द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति 02066017a पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः 02066017c एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ 02066018a ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः 02066018c प्रविशेम महारण्यमजिनैः प्रतिवासिताः 02066019a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02066019c ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश 02066020a निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् 02066020c अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः 02066021a एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ 02066021c अयं हि शकुनिर्वेद सविद्यामक्षसंपदम् 02066022a दृढमूला वयं राज्ये मित्राणि परिगृह्य च 02066022c सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् 02066023a ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् 02066023c जेष्यामस्तान्वयं राजन्रोचतां ते परंतप 02066024 धृतराष्ट्र उवाच 02066024a तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि 02066024c आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः 02066025 वैशंपायन उवाच 02066025a ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः 02066025c विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् 02066026a भूरिश्रवाः शांतनवो विकर्णश्च महारथः 02066026c मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः 02066027a अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् 02066027c अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः 02066028a अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् 02066028c पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता 02066029a जाते दुर्योधने क्षत्ता महामतिरभाषत 02066029c नीयतां परलोकाय साध्वयं कुलपांसनः 02066030a व्यनदज्जातमात्रो हि गोमायुरिव भारत 02066030c अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत 02066031a मा बालानामशिष्टानामभिमंस्था मतिं प्रभो 02066031c मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि 02066032a बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् 02066032c शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत 02066033a स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः 02066033c शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा 02066034a न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन 02066034c त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः 02066035a शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा 02066035c प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान् 02066036a अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् 02066036c अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् 02066037a यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः 02066037c पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह 02067001 वैशंपायन उवाच 02067001a ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् 02067001c उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः 02067002a उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर 02067002c एहि पाण्डव दीव्येति पिता त्वामाह भारत 02067003 युधिष्ठिर उवाच 02067003a धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् 02067003c न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि 02067004a अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च 02067004c जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे 02067005 वैशंपायन उवाच 02067005a इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः 02067005c जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः 02067006a विविशुस्ते सभां तां तु पुनरेव महारथाः 02067006c व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः 02067007a यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये 02067007c सर्वलोकविनाशाय दैवेनोपनिपीडिताः 02067008 शकुनिरुवाच 02067008a अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् 02067008c महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ 02067009a वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः 02067009c प्रविशेम महारण्यं रौरवाजिनवाससः 02067010a त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 02067010c ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश 02067011a अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश 02067011c वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः 02067012a त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् 02067012c स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः 02067013a अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर 02067013c अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत 02067014 सभासद ऊचुः 02067014a अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् 02067014c बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः 02067015 वैशंपायन उवाच 02067015a जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः 02067015c ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः 02067016a जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् 02067016c अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् 02067017 युधिष्ठिर उवाच 02067017a कथं वै मद्विधो राजा स्वधर्ममनुपालयन् 02067017c आहूतो विनिवर्तेत दीव्यामि शकुने त्वया 02067018 शकुनिरुवाच 02067018a गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् 02067018c गजाः कोशो हिरण्यं च दासीदासं च सर्वशः 02067019a एष नो ग्लह एवैको वनवासाय पाण्डवाः 02067019c यूयं वयं वा विजिता वसेम वनमाश्रिताः 02067020a अनेन व्यवसायेन दीव्याम भरतर्षभ 02067020c समुत्क्षेपेण चैकेन वनवासाय भारत 02067021 वैशंपायन उवाच 02067021a प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः 02067021c जितमित्येव शकुनिर्युधिष्ठिरमभाषत 02068001 वैशंपायन उवाच 02068001a वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः 02068001c अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् 02068002a अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् 02068002c प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् 02068003a प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः 02068003c पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः 02068004a अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः 02068004c गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः 02068005a नरकं पातिताः पार्था दीर्घकालमनन्तकम् 02068005c सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः 02068006a बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः 02068006c ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः 02068007a चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति 02068007c निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः 02068008a न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा 02068008c ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः 02068009a अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः 02068009c अदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम् 02068010a महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय 02068010c अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः 02068011a सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् 02068011c कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि 02068012a एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः 02068012c एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् 02068013a यथाफलाः षण्ढतिला यथा चर्ममया मृगाः 02068013c तथैव पाण्डवाः सर्वे यथा काकयवा अपि 02068014a किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य 02068014c एवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः 02068015a तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् 02068015c उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् 02068016 भीमसेन उवाच 02068016a क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे 02068016c गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे 02068017a यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम् 02068017c तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे 02068018a ये च त्वामनुवर्तन्ते कामलोभवशानुगाः 02068018c गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् 02068019 वैशंपायन उवाच 02068019a एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म 02068019c मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः 02068020 भीमसेन उवाच 02068020a नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया 02068020c निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति 02068021a मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः 02068021c यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे 02068022a धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् 02068022c शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः 02068023 वैशंपायन उवाच 02068023a तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् 02068023c गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः 02068024a नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः 02068024c शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ 02068025a एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी 02068025c राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः 02068026a अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः 02068026c शकुनिं चाक्षकितवं सहदेवो हनिष्यति 02068027a इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः 02068027c सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति 02068028a सुयोधनमिमं पापं हन्तास्मि गदया युधि 02068028c शिरः पादेन चास्याहमधिष्ठास्यामि भूतले 02068029a वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः 02068029c दुःशासनस्य रुधिरं पातास्मि मृगराडिव 02068030 अर्जुन उवाच 02068030a नैव वाचा व्यवसितं भीम विज्ञायते सताम् 02068030c इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति 02068031a दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 02068031c दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 02068032a असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् 02068032c भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे 02068033a अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया 02068033c कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः 02068034a ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 02068034c तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् 02068035a चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः 02068035c शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि 02068036a न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे 02068036c दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति 02068037 वैशंपायन उवाच 02068037a इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः 02068037c प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 02068038a सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् 02068038c क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः 02068039a अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर 02068039c नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः 02068040a यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् 02068040c कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः 02068041a हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् 02068041c यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल 02068042a सहदेववचः श्रुत्वा नकुलोऽपि विशां पते 02068042c दर्शनीयतमो नॄणामिदं वचनमब्रवीत् 02068043a सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः 02068043c यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये 02068044a तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् 02068044c दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् 02068045a निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् 02068045c निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव 02068046a एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः 02068046c प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् 02069001 युधिष्ठिर उवाच 02069001a आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् 02069001c राजानं सोमदत्तं च महाराजं च बाह्लिकम् 02069002a द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च 02069002c विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः 02069003a युयुत्सुं संजयं चैव तथैवान्यान्सभासदः 02069003c सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः 02069004 वैशंपायन उवाच 02069004a न च किंचित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् 02069004c मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः 02069005 विदुर उवाच 02069005a आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति 02069005c सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता 02069006a इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि 02069006c इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः 02069007a युधिष्ठिर विजानीहि ममेदं भरतर्षभ 02069007c नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् 02069008a त्वं वै धर्मान्विजानीषे युधां वेत्ता धनंजयः 02069008c हन्तारीणां भीमसेनो नकुलस्त्वर्थसंग्रही 02069009a संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः 02069009c धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी 02069010a अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः 02069010c परैरभेद्याः संतुष्टाः को वो न स्पृहयेदिह 02069011a एष वै सर्वकल्याणः समाधिस्तव भारत 02069011c नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत 02069012a हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा 02069012c द्वैपायनेन कृष्णेन नगरे वारणावते 02069013a भृगुतुङ्गे च रामेण दृषद्वत्यां च शंभुना 02069013c अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति 02069014a द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः 02069014c मा हार्षीः सांपराये त्वं बुद्धिं तामृषिपूजिताम् 02069015a पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव 02069015c शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया 02069016a ऐन्द्रे जये धृतमना याम्ये कोपविधारणे 02069016c विसर्गे चैव कौबेरे वारुणे चैव संयमे 02069017a आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् 02069017c भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् 02069018a वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसंभवम् 02069018c अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् 02069019a आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः 02069019c यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर 02069020a आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत 02069020c कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् 02069021 वैशंपायन उवाच 02069021a एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः 02069021c भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः 02070001 वैशंपायन उवाच 02070001a तस्मिन्संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् 02070001c आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः 02070002a यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा 02070002c ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् 02070003a कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् 02070003c शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् 02070004a वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् 02070004c स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा 02070005a न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते 02070005c साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् 02070006a सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे 02070006c अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता 02070007a भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते 02070007c गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि 02070008a सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् 02070008c यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः 02070009a तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला 02070009c शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ 02070010a तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् 02070010c अथापश्यत्सुतान्सर्वान्हृताभरणवाससः 02070011a रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान् 02070011c परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् 02070012a तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला 02070012c सस्वजानावदच्छोकात्तत्तद्विलपती बहु 02070013a कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् 02070013c अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा 02070014a व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः 02070014c कस्यापध्यानजं चेदमागः पश्यामि वो धिया 02070015a स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् 02070015c दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः 02070016a कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः 02070016c वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः 02070017a यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् 02070017c शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् 02070018a धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा 02070018c यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम् 02070019a धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् 02070019c मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि 02070020a रत्या मत्या च गत्या च ययाहमभिसंधिता 02070020c जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् 02070021a एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च 02070021c पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः 02070022a विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः 02070022c प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः 02070023a राजा च धृतराष्ट्रः स शोकाकुलितचेतनः 02070023c क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति 02070024a ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् 02070024c तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः 02071001 धृतराष्ट्र उवाच 02071001a कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः 02071001c भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ 02071002a धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी 02071002c श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् 02071003 विदुर उवाच 02071003a वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः 02071003c बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः 02071004a सिकता वपन्सव्यसाची राजानमनुगच्छति 02071004c माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति 02071005a पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः 02071005c दर्शनीयतमो लोके राजानमनुगच्छति 02071006a कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना 02071006c दर्शनीया प्ररुदती राजानमनुगच्छति 02071007a धौम्यो याम्यानि सामानि रौद्राणि च विशां पते 02071007c गायन्गच्छति मार्गेषु कुशानादाय पाणिना 02071008 धृतराष्ट्र उवाच 02071008a विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः 02071008c तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते 02071009 विदुर उवाच 02071009a निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च 02071009c न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः 02071010a योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत 02071010c निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने 02071011a नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा 02071011c स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः 02071012a यथा च भीमो व्रजति तन्मे निगदतः शृणु 02071012c बाह्वोर्बले नास्ति समो ममेति भरतर्षभ 02071013a बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति 02071013c बाहू दर्शयमानो हि बाहुद्रविणदर्पितः 02071013e चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः 02071014a प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा 02071014c सिकता वपन्सव्यसाची राजानमनुगच्छति 02071015a असक्ताः सिकतास्तस्य यथा संप्रति भारत 02071015c असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु 02071016a न मे कश्चिद्विजानीयान्मुखमद्येति भारत 02071016c मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति 02071017a नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो 02071017c पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति 02071018a एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला 02071018c शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् 02071019a यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे 02071019c हतपत्यो हतसुता हतबन्धुजनप्रियाः 02071020a बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः 02071020c एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् 02071021a कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः 02071021c सामानि गायन्याम्यानि पुरतो याति भारत 02071022a हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा 02071022c एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति 02071023a हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् 02071023c इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः 02071024a एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् 02071024c कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः 02071025a एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् 02071025c अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत 02071026a राहुरग्रसदादित्यमपर्वणि विशां पते 02071026c उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत 02071027a प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः 02071027c देवायतनचैत्येषु प्राकाराट्टालकेषु च 02071028a एवमेते महोत्पाता वनं गच्छति पाण्डवे 02071028c भारतानामभावाय राजन्दुर्मन्त्रिते तव 02071029a नारदश्च सभामध्ये कुरूणामग्रतः स्थितः 02071029c महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह 02071030a इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः 02071030c दुर्योधनापराधेन भीमार्जुनबलेन च 02071031a इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत 02071031c ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः 02071032a ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः 02071032c द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् 02071033a अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् 02071033c दुःशासनं च कर्णं च सर्वानेव च भारतान् 02071034a अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः 02071034c अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् 02071035a गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् 02071035c नोत्सहे समभित्यक्तुं दैवमूलमतः परम् 02071036a धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः 02071036c ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः 02071037a चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः 02071037c वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः 02071038a मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे 02071038c पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत 02071039a याजोपयाजतपसा पुत्रं लेभे स पावकात् 02071039c धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् 02071040a ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी 02071040c मर्त्यधर्मतया तस्मादिति मां भयमाविशत् 02071041a गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः 02071041c सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः 02071042a मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः 02071042c नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः 02071043a त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् 02071043c मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी 02071044a यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च 02071044c इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् 02071045a दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि 02071045c साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे 02071046 वैशंपायन उवाच 02071046a द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् 02071046c सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् 02071047a यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः 02071047c सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः 02072001 वैशंपायन उवाच 02072001a वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे 02072001c धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् 02072002a तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् 02072002c निःश्वसन्तमनेकाग्रमिति होवाच संजयः 02072003a अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप 02072003c प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि 02072004 धृतराष्ट्र उवाच 02072004a अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति 02072004c पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः 02072005 संजय उवाच 02072005a तवेदं सुकृतं राजन्महद्वैरं भविष्यति 02072005c विनाशः सर्वलोकस्य सानुबन्धो भविष्यति 02072006a वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च 02072006c पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् 02072007a प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव 02072007c सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् 02072008 धृतराष्ट्र उवाच 02072008a यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 02072008c बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति 02072009a बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 02072009c अनयो नयसंकाशो हृदयान्नापसर्पति 02072010a अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः 02072010c उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते 02072011a न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् 02072011c कालस्य बलमेतावद्विपरीतार्थदर्शनम् 02072012a आसादितमिदं घोरं तुमुलं लोमहर्षणम् 02072012c पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् 02072013a अयोनिजां रूपवतीं कुले जातां विभावरीम् 02072013c को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् 02072014a पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् 02072014c स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् 02072015a एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् 02072015c हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः 02072016a विहीनान्सर्वकामेभ्यो दासभाववशं गतान् 02072016c धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे 02072017a क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि 02072017c दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् 02072018a तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी 02072018c अपि शेषं भवेदद्य पुत्राणां मम संजय 02072019a भारतानां स्त्रियः सर्वा गान्धार्या सह संगताः 02072019c प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् 02072020a अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः 02072020c ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे 02072021a आसीन्निष्टानको घोरो निर्घातश्च महानभूत् 02072021c दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् 02072021e अपर्वणि महाघोरं प्रजानां जनयन्भयम् 02072022a तथैव रथशालासु प्रादुरासीद्धुताशनः 02072022c ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये 02072023a दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः 02072023c तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् 02072024a प्रातिष्ठत ततो भीष्मो द्रोणेन सह संजय 02072024c कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः 02072025a ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः 02072025c वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति 02072026a अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः 02072026c सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् 02072027a अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् 02072027c एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता 02072028a एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा 02072028c पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति 02072029a तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः 02072029c वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः 02072030a तेन सत्याभिसंधेन वासुदेवेन रक्षिताः 02072030c आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः 02072031a तेषां मध्ये महेष्वासो भीमसेनो महाबलः 02072031c आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः 02072032a ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः 02072032c गदावेगं च भीमस्य नालं सोढुं नराधिपाः 02072033a तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः 02072033c कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् 02072034a तथा हि बलवान्राजा जरासंधो महाद्युतिः 02072034c बाहुप्रहरणेनैव भीमेन निहतो युधि 02072035a तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ 02072035c उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया 02072036a एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः 02072036c उक्तवान्न गृहीतं च मया पुत्रहितेप्सया