% Mahabharata: supplementary passages - Svargarohanaparvan % Last updated: Tue Mar 13 2001 % Encoding: Unicode Devanagari % Electronic text (C) Bhandarkar Oriental Research Institute, % Pune, India, 2001 %%%%%%%%%%%%%%%%%%%%%%%% % Book 18, star passages %%%%%%%%%%%%%%%%%%%%%%%% % The introductory mantra 18*0001_01 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् 18*0001_02 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् % 18.1.2 % After 2ab, K3 ins.: 18*0002_01 न हि तृप्यामि सर्वेषां शृण्वानश्चरितं महत् % After % 2, K3 ins.: 18*0003_01 भूतं भव्यं भविष्यच्च सर्वं वै वेत्सि तत्त्वतः % 18.1.25 % After 25ab, G4 % ins.: 18*0004_01 ब्रह्मन्नेतान्प्रपश्यामि स्वर्गलोकेऽत्र कर्हिचित् % 18.2.12 % After 12, K1.2 % ins.: 18*0005_01 तथेत्यूचुर्वचस्तस्य देवाः सर्षिगणास्ततः % 18.2.23 % For 23ab, D6 T2 G1.2.4 % M1 subst.: 18*0006_01 सुदुर्गमां वैतरणीं पूयपूर्णां ददर्श सः % 18.2.33 % For 33cd, T1 subst.: 18*0007_01 पवनस्तात तेनास्मांस्तप्तान्सुखयति प्रभो % 18.2.37 % After 37ab, K3 D8 ins.: 18*0008_01 उवाच वदतां श्रेष्ठो धर्मपुत्रो युधिष्ठिरः % 18.2.43 % For 43cd, D5.6 S (except % T3) subst.: 18*0009_01 कर्णश्च द्रौपदेयाश्च पाञ्चाली वा सुमध्यमा % 18.3.10 % After 10, D5.6 T2.4 G1.2.4 M1.3 ins.: 18*0010_01 भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता % 18.3.13 % K1-3 D5.8 T4 % ins. after 13ab: B2.3 after 12: 18*0011_01 भूयिष्ठं शुभकर्मा यः पूर्वं नरकमश्नुते % K1-3 D5 cont.: D6.8 S ins. after 12: 18*0012_01 भूयिष्ठशुभकर्मा त्वमल्पं जिह्मं तवाच्युत % 18.3.38 % After 38ab, M1 ins.: 18*0013_01 महागुरोश्च शुश्रूषा वेदान्तश्र[-नां श्र]वणं तथा 18*0013_02 पूजिते ब्रह्मविच्छ्रेष्ठैः स्वगृहे शिवलिङ्गके 18*0013_03 मद्वंशजानां न दान्तं शिवादाधिक्यबुद्धिता 18*0013_04 स्वायंभुवादावयादौ (sic) भवेत्तव वरादिह 18*0013_05 अस्मादाधिक्यबुद्धिश्चेदनाय नृणां ह सा (sic) 18*0013_06 मद्वंशजानां सर्वेषां मास्तु सा त्वदनुग्रहात् 18*0013_07 इत्युक्त्वा धर्ममुद्दिश्य महान्तं नरमादरात् 18*0013_08 उवाच किंचिदुद्दिश्य त्वादृशा नु जनाधिप % 18.3.41 % After 41, N (except D5.6) T3 ins.: 18*0014_01 यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः 18*0014_02 पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे % 18.4.3 % After 3, % N (except D5.6) T3 ins.: 18*0015_01 तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् 18*0015_02 तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् 18*0015_03 यथावत्प्रतिपेदाते पूजया देवपूजितौ % On the other hand, G4 ins. after 3: 18*0016_01 ददर्श राजा धर्मात्मा कुरुवंशयशस्करः % 18.4.5 % After 5, N (except D5.6) T3 ins.: 18*0017_01 वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम् 18*0017_02 श्रिया परमया युक्तं सिद्धिं परमिकां गतम् % 18.4.7 % After 7ab, K1 ins.: 18*0018_01 दिव्येन वपुषा युक्तां दिव्यभूषणभूषिताम् 18*0018_02 तां दृष्ट्वा धर्मराजानमुवाच च शचीपतिः % 18.4.8 % For 8cd, D9 subst.: 18*0019_01 ततोऽस्य कथयामास भगवान्वै पुरंदरः % 18.5.5 % After 5, N % (except D5.6) T3 ins.: 18*0020_01 तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यसि % 18.5.7 % After % 7ab, N (except D5.6) ins.: 18*0021_01 प्रकृतिं किं नु सम्यक्ते पृच्छैषा संप्रयोजिता % 18.5.8 % After 8, K3-5 D1.4.8 ins.: 18*0022_01 तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् % 18.5.20 % After 20a, K3 ins.: 18*0023_01 रामः शेषो भुजंगमः 18*0023_02 स नागोऽपि महातेजाः % K3.4 (marg.) B % Dn D2.3.7 T3 G1 ins. after 20: D4 after 20a: 18*0024_01 यः स नारायणो नाम देवदेवः सनातनः 18*0024_02 तस्यांशो वासुदेवस्तु कर्मणोऽन्ते विवेश ह % On the other hand, M1.3 ins. after 20: 18*0025_01 जगतोऽनुग्रहार्थाय वासुदेवो जगद्गुरुः 18*0025_02 दिवमास्थाय दिव्येन वपुषान्तर्हितः स्थितः % 18.5.21 % After 21cd, N (except D5.6) T3 ins.: 18*0026_01 तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः % 18.5.23 % For 23cd, % K3 D5.8.9 T G2-5 M subst.: 18*0027_01 ते दानवान्गुह्यकांश्च गन्धर्वांश्च तथाविशन् % After 23, K3 ins.: 18*0028_01 शिशुपाळो रावणोऽसौ तयोर्गतिमवाप्तवान् 18*0028_02 निकुम्भो नाम यस्त्वासीद्दानवो बळदर्पितः 18*0028_03 सृगाळवासुदेवोऽभूद्वासुदेवेन पातितः 18*0028_04 जरासंधः स भगवान्भीमसेनेन घातितः 18*0028_05 काळनेमिस्तु तत्रासीत्कंसो नाम महासुरः 18*0028_06 वासुदेवेन निहतः क्रूरकर्मा मदोत्कटः 18*0028_07 काळकेयास्तथा जङ्घाः संसप्तकगणास्तु ते 18*0028_08 नारायणबळं तच्च नृपा ये च महाबळाः 18*0028_09 कलिङ्गाः पार्वतीयाश्च काळीकेयाः प्रकीर्तिताः 18*0028_10 लक्ष्मीं च द्रौपदीं विद्धि गान्धारीं दितिरूपिणीम् 18*0028_11 अदितिं च प्रियां देवीं देवकीं विद्धि पार्थिव 18*0028_12 महान्विमर्दः संजातो देवानां दानवैः सह 18*0028_13 मर्त्यलोके महाभाग ततो जित्वा दिवं गताः % 18.5.29 % After 29ab, K3 ins.: 18*0029_01 व्यासशिष्यप्रसादेन परां निर्वृतिमाययौ % 18.5.34 % D5.6 T G M2-5 ins. % after 34: M1 after 34ab: 18*0030_01 क्रीडां च वासुदेवस्य देवदेवस्य शार्ङ्गिणः 18*0030_02 विश्वेषां देवभागानां जन्मसायुज्यमेव च % T1 cont.: 18*0031_01 कीर्तितं परमं पुण्यं दृष्ट्वा दिव्येन चक्षुषा % 18.5.35 % After 35, K1 reads 52 followed by 57*. K1 % cont.: Dn D5.6 S ins. after 35: 18*0032_01 कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः 18*0032_02 ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति % 18.5.36 % After 36, % K2 ins.: 18*0033_01 इतिहासमिमं श्रुत्वा पुण्यं सत्फलमश्नुते 18*0033_02 अपुत्रया च श्रोतव्यं गर्भिण्या चैव योषिता 18*0033_03 पुत्रं वीरं जनयति कन्यां वा राजभागिनीम् % K2 cont.: K1 ins. after 36: 18*0034_01 इतिहासमिमं श्रुत्वा नात्र कार्या विचारणा % 18.5.37 % After 37, K3-5 B Dn D1-4.7-9 T3 % Bom. ed. ins.: 18*0035_01 यद्रात्रौ कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन् 18*0035_02 महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते 18*0035_03 भरतानां महज्जन्म महाभारतमुच्यते 18*0035_04 निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते % After 35*, D8 ins. a passage given in App. I % (No. 3). % Bom. ed. cont.: 18*0036_01 अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः 18*0036_02 वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् 18*0036_03 श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः 18*0036_04 अष्टादशपुराणानां कर्तुर्वेदमहोदधेः % Bom. ed. cont.: D5.6 T1.2.4 G M ins. after % 37: T3 after 41*: D9 cont. after 35*: 18*0037_01 त्रिभिर्वर्षैर्महत्पूर्वं कृष्णद्वैपायनः प्रभुः 18*0037_02 अखिलं भारतं चेदं चकार भगवानृषिः % After the above, T3 reads 38 followed by 41*. % D9 cont.: 18*0038_01 चतुर्णामपि वेदानां त्रिरावर्त्य तु यत्फलम् 18*0038_02 तत्फलं समवाप्नोति अधीयानः सकृन्नरः 18*0038_03 ब्रह्महत्यादिपापानि विलयं यान्ति शृण्वतः 18*0038_04 संतानसुखकामा या शृणोति सततं सती 18*0038_05 पुत्रं वीरं जनयति कन्यां च राजभागिनीम् 18*0038_06 इतिहासमिमं श्रुत्वा नात्र कार्या विचारणा % Bom. ed. cont. after 37*: 18*0039_01 आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् 18*0039_02 श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा % 18.5.38 % After 38ab, T1 ins.: 18*0040_01 तस्य सिध्यति तत्सर्वं श्रवणात्पठनादिह % D5.6 T G2.3.5 M ins. % after 38: 18*0041_01 वाच्यते यत्र सततं जयाख्यं भारतं महत् 18*0041_02 श्रीश्च कीर्तिश्च विद्या च भवन्ति मुदिताः सदा % T1 cont.: 18*0042_01 पुत्रपौत्राभिवृद्धिश्च कल्याणानि भवन्ति च % T1 cont.: D5 T2 G3.4 cont. after 41*: G1 after % 38: 18*0043_01 भारतस्य तु वक्तारं श्रोतारं लेखकं सुराः 18*0043_02 पूजयन्त्यतिसंहृष्टाः सिद्धाश्च परमर्षयः 18*0043_03 महाभारतवक्तारं नार्चयन्तीह ये नराः 18*0043_04 तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च % M3 cont. after 41*: 18*0044_01 धर्मश्च चरतां नृणाम् % 18.5.39 % D5.6 T1.4 G M ins. after 39: T2 after % 54abc: 18*0045_01 यद्यदिष्टतमं कामं लभते श्रद्धयान्वितः 18*0045_02 शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः % After line 1, T1 ins.: 18*0046_01 महाभारतमाख्यानं श्रोतव्यमनसूयया % D5 T1 G3 cont.: G4 cont. after 49*: 18*0047_01 अप्येकवारश्रवणाद्ब्रह्महत्या विनश्यति 18*0047_02 भक्त्या द्विवारश्रवणादश्वमेधफलं लभेत् 18*0047_03 त्रिवारश्रवणाद्भक्त्या पठनाद्वा तथैव च 18*0047_04 पुनरावृत्तिरहितां लभेद्ब्रह्मगतिं शुभाम् % T1 cont.: 18*0048_01 महाभारतमाख्यानं यद्गृहे पूजितं भवेत् 18*0048_02 वसे[त] तत्र विबुधा देवो नारायणः स्वयम् 18*0048_03 वासुदेवो वसत्यत्र पुण्डरीकायतेक्षणः % T1 cont.: D5 G3 cont. after 47*: D6 T2.4 G1.2.4.5 % M after 45*: 18*0049_01 वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् % 18.5.41 % After 41, K3-5 B Dn D1-4.7 T2.3 ins. (var. % 1.1.29*): 18*0050_01 षष्टिं शतसहस्राणि चकारान्यां स संहिताम् 18*0050_02 त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् 18*0050_03 पित्र्ये पञ्चदश ज्ञेयं नागयक्षे चतुर्दश 18*0050_04 एकं शतसहस्रं तु मानुषेषु प्रभाषितम् % 18.5.42 % For 42cd, K3-5 D1 subst.: 18*0051_01 गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः 18*0051_02 एकं शतसहस्रं च वैशंपायन उक्तवान् % 18.5.43 % After 43, D5.6 T1.2.4 G M ins.: 18*0052_01 सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः 18*0052_02 इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते 18*0052_03 व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति 18*0052_04 एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् 18*0052_05 पूजनीयश्च सततं माननीयो भवेद्द्विजः % After line 3, M1.3 ins.: 18*0053_01 व्यासो हि भगवान्विष्णुः परमात्मा सनातनः % G4 cont.: 18*0054_01 समाप्ते पर्वणि तथा स्वर्गारोहणिके नृप 18*0054_02 संपूज्य वाचिकं वस्त्रैर्भोजयेद्ब्राह्मणं तथा % M1 cont. after 52*: 18*0055_01 विद्या * * * * द्याभ्यो धर्मेभ्यो धर्मधारिणे 18*0055_02 देवेभ्यो वासुदेवाय वर्ण्यायास्मिन्नमो नमः % 18.5.46 % For 45c-46d, Dn % D2-4.7 T2 subst.: 18*0056_01 श्रद्धया परया भक्त्या श्राव्यते चापि येन तु 18*0056_02 य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् % 18.5.52 % K B D1.9 ins. % after 52 (= 1.1.205ab; 56.17cd): 18*0057_01 कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते % K2 cont. (= 1.1.205cd; 56.18ab): 18*0058_01 भ्रूणहत्याकृतं पापं जह्याच्चापि न संशयः % 18.5.53 % After 53, K3 ins. % a passage given in App. I (No. 3); while after % 53, D9 ins.: 18*0059_01 दानानि दद्याद्विविधानि प्रीतये परमात्मने 18*0059_02 यस्य यस्य फलप्राप्तौ वाञ्छा स्यात्तद्विधीयते % 18.5.54 % K3 Bom. ed. ins. % after 54: B2 after 53: 18*0060_01 यो गोशतं कनकशृङ्गमयं ददाति 18*0060_02 विप्राय वेदविदुषे सुबहुश्रुताय 18*0060_03 पुण्यां च भारतकथां सततं शृणोति 18*0060_04 तुल्यं फलं भवति तस्य च तस्य चैव % K3 cont.: 18*0061_01 पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटम् 18*0061_02 नानाख्यानककेसरं हरिकथासंबोधनाबोधितम् 18*0061_03 लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा 18*0061_04 भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे 18*0061_05 यः सर्वगुणसंपन्नः सर्वदोषविवर्जितः 18*0061_06 प्रीयतां प्रीतये बाळं भगवान्मे परः सुहृत् 18*0061_07 यस्य हस्ते गदाचक्रे गरुडो यस्य वाहनम् 18*0061_08 शङ्खः करतले यस्य स मे विष्णुः प्रसीदतु % On the other hand, T3 ins. after 54: 18*0062_01 पुराणवाचको भक्त्या पूजनीयः प्रयत्नतः 18*0062_02 वस्त्रालं * * * * * * * * * * सर्वदा 18*0062_03 अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया 18*0062_04 चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % Book 18, Appendix I passages %%%%%%%%%%%%%%%%%%%%%%%%%%%%%% % After 41*, G2 ins.: 18_001_0001 भारतस्य तु वक्तारं ब्रह्मर्षिश्च महागुरुः 18_001_0002 वैशंपायनमारोप्य स्वर्णभद्रासनं तदा 18_001_0003 जनमेजयाद्या राजान आस्तिकाद्या द्विजातयः 18_001_0004 धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः 18_001_0005 प्रयुतं चायुतं चेति सहस्रं शतमित्यपि 18_001_0006 दशकं चेति निष्काणामानर्चुस्तं महागुरुम् 18_001_0007 निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः 18_001_0008 कुष्ठादिव्याधियुक्तश्च शतं दत्त्वा निरामयः 18_001_0009 सहस्रदानात्संतानहीनः संतानपुत्रवान् 18_001_0010 आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् 18_001_0011 अयुतस्य तु दानेन प्रयुतस्य तु दानतः 18_001_0012 जीवैश्वरैक्यविज्ञाने महावाक्योद्भवे तदा 18_001_0013 चतुर्ष्वपि च वेदेषु सारवत्कथिते दृढा 18_001_0014 बुद्धिरासीच्च तस्यैव पूजया च मुनेस्तदा 18_001_0015 सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च 18_001_0016 सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् 18_001_0017 इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् 18_001_0018 देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् 18_001_0019 सान्तर्बहिःसंवरणं सप्रसादं सगोगृहम् 18_001_0020 व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि 18_001_0021 निवृत्तिकामेनच्चकि (sic) पुनर्जन्म न विद्यते 18_001_0022 सकामश्चेद्ब्रह्मकल्पं सुखं ब्रह्मगृहे वसेत् 18_001_0023 पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते 18_001_0024 सहे न (sic) गुरुराख्यातस्तत्पूजा हीशपूजनम् 18_001_0025 भारतस्य तु वक्तारं श्रोतारं लेखकांस्तथा 18_001_0026 प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः 18_001_0027 महाभारतवक्तारं नार्चयन्तीह ये नराः 18_001_0028 तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च % After 52*, G3 ins.: 18_002_0001 इतिहासमिमं पुण्यं ये शृण्वन्ति नरोत्तमाः 18_002_0002 तेषां वासाय निर्दिष्टाः स्वर्गलोकाः सनातनाः 18_002_0003 लिख्यते येन सततं महाभारतमादितः 18_002_0004 स सर्वज्ञः स वाग्मी च स्वर्गभाक्च न संशयः 18_002_0005 *वरदमितिहासं ये पठन्तीह भक्त्या 18_002_0006 सकलसुरवरिष्ठैः पूज्यमाना भवन्ति 18_002_0007 मुनिवरकृतमेतद्भारताख्यं सुपूज्यं 18_002_0008 पुनरपि सुरलोकान्न च्यवन्ते मुनीन्द्राः 18_002_0009 एतद्भारतवक्तॄणां श्रोतॄणां चैव सर्वदा 18_002_0010 भवेत्प्रसन्नो भगवान्मङ्गलं च पुनः पुनः 18_002_0011 एतद्भारतमाकर्ण्य नैमिशे[षे]या महर्षयः 18_002_0012 शौनकाद्यास्तदा सर्वे प्रहृष्टमनसोऽभवन् 18_002_0013 तत्रत्या ब्राह्मणाः सर्वे सूतं पौराणिकोत्तमम् 18_002_0014 पूजयामासुरत्यन्तं भाषणाश्लेषणादिभिः 18_002_0015 ततः प्रदक्षिणीकृत्य मुनिमण्डलमादरात् 18_002_0016 स्वस्ति गोब्राह्मणेभ्योऽस्तु द्विजानां पुरतोऽवदन् 18_002_0017 यज्ञकर्मान्तरे त्वेतच्छ्रुत्वा भारतमादितः 18_002_0018 सम्यगुक्तं सम्यगुक्तमित्यूचुस्ते महर्षयः 18_002_0019 श्रुत्वा त्विदं भारतमेतदग्र्यं 18_002_0020 यज्ञस्य मध्ये द्विजपुंगवास्ते 18_002_0021 तं पूज्य विप्रं विधिवत्समाप्य 18_002_0022 स्वं स्वं गृहांश्च प्रययुः प्रहृष्टाः % K3 ins. after 18.5.53: D8 after 35*: 18_003_0001 त्रिभिर्वर्षैर्धर्मकामः कृष्णद्वैपायनो मुनिः 18_003_0002 चकार पावनं विप्रा इतिहासं विमुक्तिदम् 18_003_0003 भारतस्य पदैकेन गङ्गाया दर्शनेन च 18_003_0004 विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते 18_003_0005 अश्वमेधसहस्रेण वाजपेयशतेन च 18_003_0006 पाकसंस्थादितः संस्थाः सोमसंस्थाश्च कुर्वताम् 18_003_0007 तत्फलं कोटिगुणितं भारतश्रवणे भवेत् 18_003_0008 भुङ्क्ते विप्रायुते चैव यश्च गच्छेत्सरस्वतीम् 18_003_0009 लक्षैरष्टादशैर्देव्या जपहोमशतैस्तथा 18_003_0010 वेदस्यान्तं च पठतां तत्पुण्यं भारतश्रवात् 18_003_0011 तेन दत्तानि दानानि तेन तप्तं महत्तपः 18_003_0012 तेन वै लक्षधा जप्तं कृतं तीर्थावगाहनम् 18_003_0013 श्रुतं तु भारतं येन कृतकृत्येन धीमता 18_003_0014 आदिमध्यावसानेन श्रद्दधानेन वै तथा 18_003_0015 गोभूहिरण्यदानानि तेन दत्तानि नित्यशः 18_003_0016 धेनूनां शतदानानि पर्वतानां तथैव च 18_003_0017 लोकदानं तथा दत्तं ब्रह्माण्डस्य च संततिः 18_003_0018 कृता दत्तं भवेत्तेन श्रुतं येनैतदुत्तमम् 18_003_0019 श्रुत्वा जयं चेतिहासं द्विजाय 18_003_0020 शुश्रूषवे सानुभक्त्या च दद्यात् 18_003_0021 शुभातपत्रं भूमिगोकाञ्चनानि 18_003_0022 गृहाणि वस्त्राणि शुभां सरस्वतीम् 18_003_0023 त्रिपूरुषेण विदितस्त्रिषु शुक्लस्तथा द्विजः 18_003_0024 साधुः सदाचाररतस्तस्माद्वै शृणुयाज्जयम् 18_003_0025 विष्णुर्ह्ययं यस्य देहे वसेद्भारत भारती 18_003_0026 नाविष्णुश्च पठेदेतन्नाविष्णुः शृणुयादपि 18_003_0027 श्रुतिस्मृतिपुराणानि जयमङ्गलभारती 18_003_0028 सत्कुलादेव शृणुयान्न हीनाच्च कुलात्क्वचित् 18_003_0029 तस्मात्सदाचाररतात्सत्कुलीनाद्बहुश्रुतात् 18_003_0030 शृणुयाद्भारतं नित्यं वंशद्वयपरीक्षितात् 18_003_0031 अस्य शास्त्रस्य कवयो न समर्था विशेषणे 18_003_0032 साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः 18_003_0033 उपदेष्टा भवेद्विष्णुः श्रोता चैव श्रुतं तथा 18_003_0034 अपि पातकिनं तस्मात्पुनात्येष श्रुतो जयः 18_003_0035 महापापानि पापानि जातिभ्रंशकराणि च 18_003_0036 मालिन्यसंकराण्यत्र कारणानि तु यानि तु 18_003_0037 तानि संशोधयेदेनत्कृत्स्नं शृण्वन्हि भारतम् 18_003_0038 सर्वमङ्गललाभश्च सर्वसंपत्समागमः 18_003_0039 पुत्रलाभो मित्रलाभः कामलाभस्तथैव च 18_003_0040 राज्यलाभः पशुलाभो महालाभस्तथैव च 18_003_0041 जायते धर्मलाभश्च भारतं शृण्वतः सदा 18_003_0042 सर्वदा मङ्गलं तेषां नास्ति तेषाममङ्गलम् 18_003_0043 जयमङ्गलहोमाश्च शान्तयः पौष्टिकानि च 18_003_0044 भारतश्रवणादेव सुशुभानि भवन्त्युत 18_003_0045 येषां हृदि हृषीकेशः कण्ठे भारतमेव च 18_003_0046 धन्यास्ते मानवा लोके कृतकृत्या न संशयः 18_003_0047 न ह्येवाकृतपुण्यानां भारतं भवति प्रियम् 18_003_0048 भारतं भवने येषां न ते शोच्याः कृताकृते 18_003_0049 जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता 18_003_0050 विप्रेण राज्ञा वैश्येन शूद्रेण च यतात्मना 18_003_0051 कुरुक्षेत्रे भवेद्दत्तं स्नातं स्नातं सुपुष्करे 18_003_0052 तप्तं हिमाद्रौ कालेषु श्रुतं येनेह भारतम् 18_003_0053 ज्ञातिश्रैष्ठ्यं कुलश्रैष्ठ्यं वर्णश्रैष्ठ्यं तथैव च 18_003_0054 धर्ममङ्गललाभं च श्रुत्वैतत्प्राप्नुयान्नरः 18_003_0055 भाति सर्वेषु वेदेषु रतिः सर्वत्र जन्तुषु 18_003_0056 तरणं सर्वपापानां तेन भारतमुच्यते